श्रीराधाकवचम्
श्रीराधाकवचम् [[लेखकः :|]] |
<poem>
महेश्वर उवाच ।
श्रीजगन्मङ्गलस्यास्य कवचस्य प्रजापतिः ॥१॥
ऋषिश्चन्दोऽस्य गायत्री देवी रासेश्वरी स्वयम् । श्रीकृष्णभक्तिसम्प्राप्तौ विनियोगः प्रकीर्तितः ॥२॥
शिष्याय कृष्णभक्ताय ब्रह्मणाय प्रकाश्येत् । शठाय परशिष्याय दत्त्वा मृत्युमवाप्नुयात् ॥३॥
राज्यं देयं शिरो देयं न देयं कवचं प्रिये । कण्ठे धृतमिदं भक्त्या कृष्णेन परमात्मना ॥४॥
मया दृष्टं च गोलोके ब्रह्मणा विष्णुना पुरा । ॐ राधेति चतुर्थ्यन्तं वह्निजायान्तमेव च ॥५॥
कृष्णेनोपासितो मन्त्रः कल्पवृक्षः शिरोऽवतु । ॐ ह्रीं श्रीं राधिकाङेन्तं वह्निजायान्तमेव च ॥६॥
कपालं नेत्रयुग्मं च श्रोत्रयुग्मं सदावतु । ॐ रां ह्रीं श्रीं राधिकेति ङेन्तं वह्नि जायान्तमेव च ॥७॥
मस्तकं केशसंघांश्च मन्त्रराजः सदावतु । ॐ रां राधेति चतुर्थ्यन्तं वह्निजायान्तमेव च ॥८॥
सर्वसिद्धिप्रदः पातु कपोलं नासिकां मुखम् । क्लीं श्रीं कृष्णप्रियाङेन्तं कण्ठं पातु नमोऽन्तकम् ॥९॥
ॐ रां रासेश्वरीङेन्तं स्कन्धं पातु नमोऽन्तकम् । ॐ रां रासविलासिन्यै स्वाहा पृष्ठं सदावतु ॥१०॥
वृन्दावनविलासिन्यै स्वाहा वक्षः सदावतु । तुलसीवनवासिन्यै स्वाहा पातु नितम्बकम् ॥११॥
कृष्णप्राणाधिकाङेन्तं स्वाहान्तं प्रणवादिकम् । पादयुग्मं च सर्वाङ्गं संततं पातु सर्वतः ॥१२॥
राधा रक्षतु प्राच्यां च वह्नौ कृष्णप्रियावतु । तुलसीवनवासिन्यै स्वाहा पातु नितम्बकम् ॥१३॥
पश्चिमे निर्गुणा पातु वायव्ये कृष्णपूजिता । उत्तरे संततं पातु मूलप्रकृतिरीश्वरी ॥१४॥
सर्वेश्वरी सदैशान्यां पातु मां सर्वपूजिता । जले स्थले चान्तरिक्षे स्वप्ने जागरणे तथा ॥१५॥
महाविष्णोश्च जननी सर्वतः पातु संततं । कवचं कथितं दुर्गे श्रीजगन्मङ्गलं परम् ॥१६॥
यस्मै कस्मै न दातव्य गुढाद् गुढतरं परम् । तव स्नेहान्मयाख्यातं प्रवक्तं न कस्यचित् ॥१७॥
गुरुमभ्यर्च्य विधिवद् वस्त्रालंकारचन्दनैः । कण्ठे वा दक्षिणे बाहौ धृत्वा विष्णोसमो भवेत् ॥१८॥
शतलक्षजपेनैव सिद्धं च कवचं भवेत् । यदि स्यात् सिद्धकवचो न दग्धो वह्निना भवेत् ॥१९॥
एतस्मात् कवचाद् दुर्गे राजा दुर्योधनः पुरा । विशारदो जलस्तम्भे वह्निस्तम्भे च निश्चितम् ॥२०॥
मया सनत्कुमाराय पुरा दत्तं च पुष्करे । सूर्यपर्वणि मेरौ च स सान्दीपनये ददौ ॥२१॥
बलाय तेन दत्तं च ददौ दुर्योधनाय सः । कवचस्य प्रसादेन जीवन्मुक्तो भवेन्नरः ॥२२॥
नित्यं पठति भक्त्येदं तन्मन्त्रोपासकश्च यः । विष्णुतुल्यो भवेन्नित्यं राजसूयफलं लभेत् ॥२३॥
स्नानेन सर्वतीर्थानां सर्वदानेन यत्फलम् । सर्वव्रतोपवासे च पृथिव्याश्च प्रदक्षिणे ॥२४॥
सर्वयज्ञेषु दीक्षायां नित्यं च सत्यरक्षणे । नित्यं श्रीकृष्णसेवायां कृष्णनैवेद्यभक्षणे ॥२५॥
पाठे चतुर्णां वेदानां यत्फलं च लभेन्नरः । यत्फलं लभते नूनं पठनात् कवचस्य च ॥२६॥
राजद्वारे श्मशाने च सिंहव्याघ्रान्विते वने । दावाग्नौ संकटे चैव दस्युचौरान्विते भये ॥२७॥
कारागारे विपद्ग्रस्ते घोरे च दृढबन्धने । व्याधियुक्तो भवेन्मुक्तो धारणात् कवचस्य च ॥२८॥
इत्येतत्कथितं दुर्गे तवैवेदं महेश्वरि । त्वमेव सर्वरूपा मां माया पृच्छसि मायया ॥२९॥
श्रीनारायण उवाच ।
इत्युक्त्वा राधिकाख्यानं स्मारं च माधवम् । पुलकाङ्कितसर्वाङ्गः साश्रुनेत्रो बभुव सः ॥३०॥
न कृष्णसदृशो देवो न गङ्गासदृशी सरित् । न पुष्करसमं तीर्थं नाश्रामो ब्राह्मणात् पर ॥३१॥
परमाणुपरं सूक्ष्मं महाविष्णोः परो महान् । नभ परं च विस्तीर्णं यथा नास्त्येव नारद ॥३२॥
तथा न वैष्णवाद् ज्ञानी यिगीन्द्रः शंकरात् परः । कामक्रोधलोभमोहा जितास्तेनैव नारद ॥३३॥
स्वप्ने जागरणे शश्वत् कृष्णध्यानरतः शिवः । यथा कृष्णस्तथा शम्भुर्न भेदो माधवेशयोः ॥३४॥
यथा शम्भुर्वैष्णवेषु यथा देवेषु माधवः । तथेदं कवचं वत्स कवचेषु प्रशस्तकम् ॥३५॥
इति श्रीब्रह्मवैवर्ते श्रीराधिकाकवचं सम्पूर्नम् ।