सामग्री पर जाएँ

श्रीमन्महाराज-संस्कृत-महापाठशाला-पत्रिका

विकिस्रोतः तः
श्रीमन्महाराज-संस्कृत-महापाठशाला-पत्रिका
[[लेखकः :|]]
१९२६

श्रीमन्महाराज
संस्कृत महापाठशाला पत्रिका

त्रैमासिकी

सम्पुटम् १] जनवरि १९२५ [सञ्चिका १

संपादकः
पण्डितरत्नम्, लक्ष्मीपुरं श्रीनिवासाचार्यः

Government of Mysore

मैसूरु
राजकीय शाखा मुद्रालये सम्मुद्रिता
१९२५

SRI CHAMARAJENDRA SANSKRIT COLLEGE LIBRARY, BANGALORE

Accn. No. 1325 1. The maximum time allowed for retention of a book shall be one fortnight. It may be borrowed again if not required by others. 2. No reference books shall be lent out. 3. No borrower shall have more than two volumes out of the Library at one time. 4. Borrowers must not pass books from one to another but must return them to the Librarian. 5. Library books must not be used as class-books. 6. Any one who defaces by writing or otherwise damages any book shall pay the full cost of the book or of the entire works, if it consists of more than one volume. 7. The borrower shall be responsible for the value of the books lent out to him if they are lost, damaged or otherwise cannot be returned to the Library when they are due or recalled. 8. The presence of the voucher with the Librarian shall be considered sufficient proof of the non-return of books. Class and No..... Brlj .35 1615-36 The Hangalore Press irs, ods be the SANSKRIT चामराजेंद्र संस्कृत पाठशाला 1487 विज्ञप्तिः,ANGALORE, SHAMASAJENDRA

विज्ञाप्तिः

भो भो महाशयाः ! सहृदयाः ! सप्रश्रयमिदमिदानीं विशा-
पयामः- संस्कृत विद्याभिमानिनः पुरुषप्रवराः यं कंचन विषयमाघ-
कृत्य संस्कृतभाषामयं अनतिसंक्षिप्तविस्तरं उपक्रमोपसंहारपरिक-
र्मितं कस्याप्यनुद्वेगकरं अचर्चितपूर्व कालदेशदशानुगुणं प्रपञ्चोप-
कारकरं, धर्माद्यविरुद्धं “जीर्णमङ्गे सुभाषितम्” इति निर्वेदस्य
“वीरा वाचैव केवलम्" इत्यपवादस्य वा प्रशमकरं प्रस्पष्टमुख-
विलासमुपन्यासं विलिख्य प्रेषयेयुर्ये, तेभ्यो महद्भयः समर्थ
अनन्तान् "धन्यवादान् पत्रिकायामस्यां तमुपन्यासं पारयामः
प्रकाशयितुम् ॥
अपि च विप्रतिपन्नं यंकंचन चर्चास्पदं वस्तु सर्वेष्वपि
शास्त्रेषु विहाय जल्पवितण्डां यदि तत्त्वबुभुत्सयैवानुयुञ्जीरन्,
तत्रापि सौहार्देन प्रत्युत्तरयामः यथाशास्त्रं यथान्यायं यथा-
मति चेति ॥
न हीदृशं संवननं त्रिषु लोकेषु विद्यते ।
दया मैत्री च भूतेषु दानं च मधुरा च वाक् ॥


संपादकस्य.

विषया:

१. मङ्गलाशासनम्... २. प्रस्तावना ३. SANSKRIT विषय सुचवाजेंद्र संस्कृत पाठशाला. AARAJENDRA प्रधारः पुटसा श्री॥ श्री॥ पर कोलस्वामिनः L०१२-२ " .......

(१) डाक्टर् शामशास्त्री .... २-९ प्राच्यकोशागाराध्यक्षः (२) वि. सुब्रह्मण्यार्यः पत्रिकाप्राप्तिस्थानम्, ४. निमित्तवादः ...... संपादकः ५. विद्वत्परीक्षावृत्तान्तः ६. उपन्यासान्तरसारः सो| नरसिंहाचार्यः मैसूरु यूनिवर्सिटि- रिजिस्ट्रार् "

प्राच्यकोशागारपण्डितः.

श्रीमन्महाराजसंस्कृत पाठशालाध्यक्षः, मैसूरु. Digitised by Ajit Gargeshwari For Karnataka Samskrita University मूल्य प्रकारः. १. अस्याः पत्रिकायाः वर्षिकं अग्रिमं मूल्यं साधकरूप्यकं प्रापणव्यय पृथक्कृतम् भारतभण्डले. २. विद्यार्थिनां पुनः एकरूप्यकम्. ३. विभिन्न देशे सपादरूप्यद्वयम् (35) प्रापणभृतिः पृथक् ९-१० ११-२२ २३-२९ ३०-३२ ॥ श्रीः ॥ श्रीमन्महाराज संस्कृत महापाठशालापत्रिका. प्रतिमासत्रयं प्रकटीक्रियमाणा. "कुर्वन्नेत्रेह कर्माणि जिजीविषेच्छत समाः” संपुटं - १] अखिलभुवनजन्मस्थेमभङ्गादिलीले विनतविविधभूतत्रातरक्षैकदीक्षे । श्रुतिशिरसिविप्तेि ब्रह्माण श्रीनिवासे भवतु मम परस्मिन् शेमुषी भक्तिरूपा ॥ पौषमासः १९२५. ( इशो गर्नवत् ) [सञ्चिका - १ श्रीमद्वेदमार्गप्रतिष्ठापनाचार्येत्याद्यनेक विशेषणविभूषितानां परमहंस परिव्राजकाचार्याणां श्रीवागीश ब्रह्मतन्त्रपरकालस्वामिनां मङ्गलाशासनम्. Digitised by Ajit Gargeshwari For Karnataka Samskrita University श्रीहयवदनपरब्रह्मणे नमः . भो महाशयाः ! गुणमात्रग्रहणपरत्न शहृदयानां तत्रभवतां भवता- मत्यादरेणावेदनीयं, अवकाशदत्तावधानेनान्तरङ्गेणाकलनीयं चेदमावे- दयामो वयमतिशयितेन कुतूहलेन. विदितमेव खलु सार्वजनीनतया सकलपृथिवीमण्डलमण्डनाय- मानमहीशूरराजधानीमध्यविद्योतमानकर्णाटसिंहासनाधीश्वरेण अनन्यराज- न्यसामान्यमान्यत मानेकबिरुदाङ्कितेन श्रीमद्राजाधिराज महाराज श्रीकृष्ण- राजेन्द्रसार्वभौमेन सकलजनसम्मान्याया अपि संस्कृतविद्याया वेदवेदान्त- धर्मशास्त्रपूर्वमीमांसांतर्कव्याकरणादिशास्त्रसाहित्यप्रचुराया अध्येत्रध्यापक- दौर्लभ्येन कलिकालमहिम्ना दुर्दशामापन्नायाश्शुक्लपक्षचन्द्रकलाया इव श्रीमन्महाराज संस्कृत महापाठशालापत्रिका पुनरभिवृद्धिदशां सम्पादयितुकामेन निर्माय च काञ्चन महतीं पाठशालां आनाय्य च तत्तच्छास्त्रपारदृश्वनो दीर्घदर्शिनो दयालूनध्यापनकलानिष्ठा- गरिष्ठान् स्वदेशीयानन्यदेशीयांश्च तान् यथापर्याप्ति वेतनादिप्रदानेन पारितोषिकबहूकरणेन च संतोप्य क्लेशलेशस्यापि तैधुर्येण परिपोप्य अध्येतॄणां च निवासानुगुणं रमणीयतरं वासस्थानं परिकल्प्य सुखभोज- नादिकं पुस्तकादीनि च वितीर्य अनवरताध्ययनपर्याप्तानुकूल्यसम्पादनेन च तैस्तैस्संस्कृतविद्याकल्पलता पल्लविता कुसुमिता फलिता च व्यधायि । विधीयते विधास्यते च इत उत्तरं सुखोदर्केति ॥ अयमेतादृशो महान् जगदुपकारः केन वाऽन्येन विधातुं शक्यते? किंचैतावताऽप्यपरितुप्यता तेन महाराजसार्वभौमेन पुनरन्या- दृशलोकोपकाराय संस्कृतभाषामयी त्रैमासिकपत्रिका प्रचार्यते । सा चेयं पत्रिका सर्वदेशवर्तिनां व्युत्पन्नानां व्युत्पित्सूनां च महाजनानां मनांस्य - मनागेव रञ्जयितुं क्षमेत, यतस्तेषां केवलदेशभाषामयनीरसनिहीनलौकि- कवृत्तान्तप्रलापजर्झरबह्वपशब्दकटुतास्वादनेन अनवरतमनुभूयमानक्लेशा- न्येव चेतांसि बभूवुः । अस्यां च बहुविधविबुधभाषामग्योऽतितरां साध्व्य- स्सकृदुच्चारणेन सकलकामदुहः प्रभातसमयोत्फुल्लपुण्डरीकमरन्दधारापरि- स्पर्धिन्यः परमपुरुषतत्त्वावेदनवेदवेदान्तप्रभृतिशास्त्रार्थप्रकाशनगुम्भिता- स्सुललितगम्भीरा सुधासिक्तास्सूक्तयस्समुल्लसन्त्यास्वादयितुम् । इयाने- वैतस्याः प्रभाव इति न वयं शक्नुमो वर्णयितुम् । इदं त्वाशास्महे, यदेता- दृशमहोपकारघटनाधुरन्धराश्श्रीमन्तो महाराजाधिराजश्रीकृष्णराजेन्द्रसा- र्वभौमाः चिरायुष्मन्तो राज्यं परिपालयन्तु. 'तत्प्रवर्तिता चैषा महती त्रैमा- सिकपत्रिका दिनदिनमभिवृद्धा समस्तं जगदनवरतमाह्रादयतु इति ॥ ज्ञानानन्दमयो देवः निर्मलस्फटिकाकृतिः । आधारस्सर्वविद्यानां हयग्रीवः क्रियाच्छुभम् ॥ प्रस्तावना ॥ श्रीः ॥ प्रस्तावना. १ विदितमेतदासेतुहिमाचलं यद्वहोः कालान्महीशूरदेशः संस्कृत- विद्यानट्या रङ्गभूमिरिति । इह हि पुरातनै राजभिर्दत्तावलम्बानि नानाशास्त्राणामधिष्ठानानि मठायतनानि बहूनि वर्तन्ते । तेषु च मठेषु निखिलदर्शनानां परां कोटिमधिरूढाः परमहंसपरिव्राजकाचार्याणां बह- वोऽन्तेवासिनो विद्वांसो यान् ग्रन्थानरचयन् तेऽद्यापि सर्वत्र भरतखण्डे विद्यार्थिभिर्विद्वद्भिश्चाधीयमानाः पाठ्यमानाश्च प्रवर्धन्ते । यदुवंशमुक्ता- मणिषु बेट्टचामराजप्रभृतिषु राजसु महीशूरसिंहासनमारूढेषु तेषां मठानां विद्यायतननामधेयमन्वर्थतामगच्छत् । एवं स्थितेऽस्मिन्नेव वंशे जात- स्तृतीयः श्रीकृष्णराजेन्द्रः प्रख्यातानामनेकेषां विदुषामाश्रयोऽभूत् । तत्पुत्रे च श्रीमच्चामराजेन्द्रे राजनि सरस्वतीप्रासाद इति महती संस्कृत- पाठशाला राजधान्यां प्रतिष्ठापिताऽऽसीत् । अनेकाश्चोपपाठशालास्तत- इतोऽत्र देशे स्थापितास्समभवन् । स्वदेशीया अन्यदेशीयाश्च द्विशतात्परे विद्यार्थिनो विद्यार्थिवेतनसाहाय्यमाधगम्य सरखतीप्रासादे नानाशास्त्रा- ण्यधीत्य देशान्तरेषु च विद्वत्पदवीमारुह्य बहुभ्यरिशष्येभ्यो विद्या वितरन्तोऽद्यापि वर्तन्ते । इदानीं च श्रीचामराजेन्द्र तनयेन श्रीमता श्रीकृष्णराजेन्द्रेण सरस्वतीप्रासादः पूर्वतोऽप्यतिशयितामुत्कर्षस्थितिमारो- पितो विद्यते । प्रतिवत्सरमाश्विनमासे नानाशास्त्रेषु परीक्षायामुत्तीर्णाः Digitised by Ajit Gargeshwari For Karnataka Samskrita University श्रीमन्महाराज संस्कृतमहापाठशालापत्रिका बहवो विद्यार्थिनः सपारितोषिकं सविद्वद्विरुदं च सम्मान्यन्ते । ततश्च यथासम्भवं मासिकवेतनानि प्रतिफलमनाकाङ्क्ष्य समर्प्यपि सम्मान्यन्ते ॥ । महीशूरपत्तन इव बेंगळूरूपत्तने मेलकोटग्रामे च महत्यौ द्वे पाठशाले स्थापिते स्तः । तत्र तत्र देशेऽस्मिन् बढ्य उपपाठशालाः स्थापिता वर्तन्ते. एतासु संस्कृतपाठशालावधीतशास्त्रार्थाः पण्डिता आर्याणां विज्ञानवैभवस्य दर्पणस्थानीया विद्यन्ते । अयमेव विज्ञानवैभव- विशेषः आर्याणां नागरकताप्रकर्षं बाढं प्रदर्शयति । विज्ञानवैभवविशे- पश्च तत्तद्दर्शनानां परिचयं विना नावगम्यते, यथा ग्रीक्जनानां तदीयसिद्धान्तार्थावबोधनात् ज्ञायते तथैवार्याणामपि नागरकताप्रकर्ष- स्तदीयसिद्धान्तार्थावबोधनान्निश्चीयते । तादृशशास्त्रार्थावबोधनं च संस्कृतपण्डितायत्तमिति संस्कृतविद्वांसो भरतखण्डनागरकतायाः सजीव- विजयस्तम्भा इति वक्तुं शक्यते ॥ न हि संस्कृतपण्डितानामुपकारः शास्त्रार्थबोधनमात्रे विश्राम्यति । ते हि चातुर्वर्ण्यान्तर्गतानां सर्वेषां भरतखण्डीयानां जनानां धर्मा-, नुष्ठानसंदेहपदेषु प्रमाणभूतास्सन्ति । यद्यपि वेज्जना अधीताङ्ग यविद्या आर्यधर्माचरणेषु सन्दिहाना वर्तन्ते, तथाऽपि अनर्धाता- ङ्ग्लेयविद्यास्सर्वे अधीताङ्ग्लेयविद्येष्वपि बहवो जनाश्च अनुविधे- याचारान् पण्डितानेवानुवर्तन्ते । तदित्थं पण्डितानां मूर्धनि महान् सदाचारमार्गप्रवर्तनभारो न्यस्तो वर्तते । एवं सति कस्सदाचारः कश्चासदाचारः किं वर्णाश्रमव्य- वस्था श्रेयस्करी ? किं पेयापेयविवेकस्समाश्रयणीयः ? किं भोज्याभो- ज्यनियमो नोल्लङ्घनीयः ? स्पृश्यास्पृश्यनियमः कुतो वा परीक्षणीयः ? किं देशभेदाद्धर्मो न भिद्यते? किं वा एक एव धर्मस्सार्वजनीनोऽव- गम्यते । एतादृशेषु बहुषु सन्देहविषयेषु युक्तयेकपक्षपातिनः पाश्चात्या विद्वांसो वैदिकनिश्चयविरुद्धमेव निर्णयं कुर्वन्ति ॥ प्रस्तावना manife न केवलमैहिकाचारव्यवहारविषयेष्वेव प्राच्यपाश्चात्त्ययोरभिप्राये विरोधस्संदृश्यते । अपितु सर्वेषां भरतखण्डीयजनाभिप्रायाणां मूला- धारभूतो यस्सिद्धान्तस्तमेव ते नाङ्गकुिर्वन्ति । सर्वेऽप्यैहिकाचारव्यव- हारनियमा ईश्वरप्रवर्तितशास्त्रसिद्धा इति भरतखण्डीयानां सिद्धान्तः । सर्वोऽप्यामुष्मिकश्चैहिकश्च व्यवहारो मानुष एव न तु दैवः । प्रथमतो भाषैव मानुषी, न दैवी । यथा परिधानीये विषये मनुष्यः क्रमात् स्थूलपटवानात्कौशेयपीताम्बरादिसूक्ष्मपटवानमभ्यस्तवान्, तथैव भाषाविषयेऽप्यादावल्पामपि क्रमेण सकलार्थवर्णनसमर्थां भाषां उद्भाव- यत् । अद्यापि वनेचराणां नीलगिरिस्थानां तोदनामकजनानां भाषा सूक्ष्मार्थवर्णने बहुलं कुण्ठिता वर्तते । एवमेव गृहनिर्माणे देवायतन- निर्माणे रंथादिविरचने शस्त्रास्त्रकल्पनायां गृहभाण्डादिकरणे च क्रमाच्छिल्पचातुर्यं समजनि । अद्यापि शिल्पचातुर्य क्रमादेधमानं दृश्यते । यथा शिल्पे तथा विज्ञानप्रसरणेऽपि क्रमाद्वद्धिरभ्युपगन्तव्या । गणितशास्त्रे ज्यौतिषे कवितायां वैद्यशास्त्रे तर्कशास्त्रे आध्यात्मिक- शास्त्रे च प्रथमतोऽल्पतरमेव क्रमागृहत्तरं जातमद्य बृहत्तमं जायमानं दृश्यते । वेदाङ्गज्यौतिषे वराहमिहिरादिभिर्वर्णितानि ग्रहगतिगणितानि न वर्णितानि । तत्काले तदज्ञानमेव तत्र हेतुरिति पाश्चात्त्या वदन्ति || किं बहुना । सर्वो हि मानुषो व्यवहारो नदीप्रवाह इव स्वल्पः ततो महान् ततश्च महत्तरो जातः क्रमेण महत्तमोऽपि सम्पत्स्यत इत्यत्र न कोऽपि सन्देहः । वृद्धेरन्तो नास्तीति ते मन्यन्ते । तेषामनुष्ठानं च स्वाभिप्रायानुसार्येव वर्तते ॥ एकस्य देशस्य देशान्तरसङ्गमेन कदाचित् ज्ञानवृद्धिः कदाचि- द्विद्याविनाशः, कदाचिद्विद्यावैपरीत्यं च जायते । एवमेवाचारेषु देशभेदात् देशान्तरसंयोगात् देशान्तरीयविद्याभ्यासनिमित्तान्मातभेदाच्च Digitised by Ajit Gargeshwari For Karnataka Samskrita University श्रीमन्महाराज संस्कृत महापाठशाला पत्रिका वैपरीत्यं सम्भवति । एकस्मिन्नेव देशे जनानां मतिभेदवशान्मतान्त- राणि पूर्वाचारानुष्ठानव्यतिक्रमादीनि च सञ्जायमानानि सञ्जातानि च बहुत्र दृश्यन्ते । अत्र विषये भरतखण्डसङ्गतानि बहूनि निदर्शनानि पाश्चा- त्त्यविद्वद्भिश्चरित्रग्रन्थेषूदाहृतानि वर्तन्ते । भरतखण्डीयैर्वराहमिहिरादि- भिर्विद्वद्भिः ग्रीविद्वज्जनेभ्यः खगोळस्य मेषादिद्वादशराशिषु विभा- गक्रमोऽधीत इति केन्द्र पणपर आपोक्किम आर तौर कर्कि लेयादिश- ब्दाश्च ग्रीकुभाषाशब्दा इति च पाश्चात्या वदन्ति । भरतखण्डीयानां वैद्यशास्त्रं महम्मदीयैरधीतीमति च सप्रमाणमुपन्यस्तं दृश्यते । बौद्धमत- प्रादुर्भावात्पूर्वं भरतखण्डीयैरैनुष्ठितानि गोसव- चातुर्वर्ण्यविवाह-मांस- मत्स्याशनानि बौद्धमतप्रादुर्भावादुत्तरस्मिन् काले त्यक्तान्यासन्निति पाश्चात्त्यविद्वांसो वदन्ति । सहस्रद्विसहस्रवर्षकालिकेषु तत्तद्देशचरित्रेषु सम्यक्परीक्षितेषु केषाञ्चिदाचाराणां त्यागः, केषाञ्चिन्नवनवाचाराणां प्रादुर्भावश्च बाढं ज्ञायत इति च ते वदन्ति ॥ ते तदित्थं मानुषी व्यवहारसंस्था केवलमीश्वरकल्पितैवेति, केवलं । मानुष्येव न त्वीश्वरकल्पितेति च परस्परविरुद्धमतसंसर्गो भरतखण्डेऽद्य दृश्यते । एतादृशसंसर्गवशादत्र चातुर्वर्ण्यान्तर्गतानां जनानां मानसं डोलायमानं वर्तते ॥ एतान्यन्यानि च बहूनि सन्देहपदान्याङ्ग्लेयभाषायां प्रतिदिनं प्रतिसप्ताहं प्रतिपक्षं प्रतिमासं वा प्रकाशितासु पत्रिकासु व्याकृतानि दृश्यन्ते । अनधीताङ्गुलेयभाषाणां पण्डितानामपण्डितानां चार्याणा- मेतान्यश्रुतपूर्वाण्येव वर्तन्ते । किञ्चिदेतेषु विषयेषु श्रुतेष्वपि तत्तदभि- प्रायसाधकसम्पूर्णयुक्तीनां श्रवणं विना प्रत्युत्तरदानं न साधीय इति बहवः पण्डिता मौनमवलम्ब्योदासते । तादृशयुक्तस्सिर्वाश्श्रुत्वाऽपि प्रस्तावना केचन पण्डिता यदुत्तरं ददति तत् कचिदसमञ्जसं वा भवेत्, • दुरधिगमं वा भवेत् ॥ च यद्येका मासिकी त्रैमासिकी चातुर्मासिकी वा संस्कृतपत्रिका प्रकाशिता स्यात्तदा तत्रैतेऽन्ये च बहवो विषयास्सयुक्तयुपन्यस्ता भवेयुः । एकस्यामेव पत्रिकायां बहूनां पण्डितानां तात्पर्याणि सङ्कलितानि प्रख्यापितानि भवेयुः । न केवलं सन्देहपदान्येवात्र प्रकाशार्हाणि भवन्ति, अपित्वामुष्मिकमैहिकं धर्माधर्मो नयानयौ स्त्रीधर्मो राजधर्मश्चेत्यादीन- नेकविषयानधिकृत्य पण्डितानामभिप्रेता येऽर्थास्सन्ति तेऽप्यत्र प्रकाश- नार्हा भवन्ति ॥ अपिच बहुभिस्संस्कृतभाषानिष्णातैराधुनिकैर्विद्वद्भिः गद्यमानि पद्यमयानि गद्यपद्योभयात्मकानि वा काव्यानि कृतानि क्रियमाणानि च श्रूयन्ते । यद्येका संस्कृतपत्रिका प्रकाशिता स्यात्तदा काव्यानामेतेषां प्रकाशोपायाभावात्खिलतामुपैप्यतां काचन वासभूमिः कल्पिता भवेत् ॥ अन्यच्चेदानीं पाश्चात्त्यैर्विद्वद्भिः भृशमनधीतिनां जनानां विद्या- भूमौ व्यायामाय आङ्ग्लेयभाषायां सुगमशैल्या कथा आख्यायिकाः कल्पितकथाः भौतिकशास्त्रार्थाः वणिग्विषुयाः कृषितन्त्राणि भैषज्यविषयाः दीर्घायुष्यसम्पादनोपाया इत्यनेके विषया दिनेदिने नवनवपुस्तकेषु प्रकाश्यमाना विद्यन्ते । त एते विषया अधीतसंस्कृताङ्ग्लेयभाषैर्विद्वद्भिः संस्कृतभाषायां परिवर्त्य प्रकाशिता जनानां महोपकाराय प्रभवेयुः ॥ किञ्च धर्माधर्ममीमांसायां आध्यात्मिकतत्त्वविषये प्रामाण्यवादे च पाश्चात्यविद्वद्भिर्बहवो ग्रन्था विरचितास्सन्ति । एतेषु ग्रन्थेषु मन- स्वरूपं बुद्धिलक्षणं साक्षिस्वरूपं ज्ञानोत्पत्तिप्रकारः प्रमाखरूपं प्रत्य- क्षानुमितिलक्षणानिं स्वप्नलक्षणं सुषुप्तिस्वभावः स्मृतिलक्षणं अनुभव- स्वरूपं इत्यादयो बहवो विषयास्सनिदर्शनं सप्रमाणं बालानामपि Digitised by Ajit Gargeshwari For Karnataka Samskrita University श्रीमन्महाराजसंस्कृतमहापाठशाला पत्रिका सुखबोधाय सम्यगुपन्यस्ता वर्तन्ते । एतेषां विषयाणां विज्ञानं प्रौढ- वेदान्तविज्ञानाय बाढं सहकारि भवति । अतस्तेऽपि विषयास्संस्कृत- पत्रिकायां बाढं प्रकाशार्हा भवन्ति ।। एतादृशेनाधुनिक विज्ञानेन द्विगुणितप्रमाणबलाः पण्डिता अज्ञानां सन्देहं छेत्तुं समर्था भवन्ति । एतेन च भरतखण्डीयानां बहोः काला- • द्रक्षितानां प्राचीनसमयाचाराणां मध्ये ऐहिकामुष्मिकोभयोपकारका बहवस्सदाचारा रक्षितास्स्युः ॥ यद्यपि “यच्छक्तिमत्, तत् स्थितिमत्" इति सिद्धान्तानुरों- धेन शक्तस्य कदाऽपि नाशो न संभवति । शक्तयभावादेव वस्तुनः समयाचारस्य मताभिप्रायस्य वा हासो नाशो वा दुर्निवारः । यथा दृढतन्तुः पटो यावत्तन्तुदा वर्तते तावदुपगतान्यपि नाशकारणान्यभि- भवति, यथाच देहोऽपि यावद्रक्तबलं तावद्व्याधीनभिभूय जीवति, तथैव समयाचारोऽपि यावद्वहुभिर्जेनैराद्रियते तावदेकदेशिनां दूषणतिरस्कारा- नभिभूयानुष्ठानपथे वर्तते । मताभिप्रायोऽपि यावद्वहुजनैरनुगृहीतः तावत्कतिपयानां तमोऽभिभूतानां कुत्सनैरनभिभूतो विजयते । तथाहि बौद्धमतं न केवलं नास्तिकमतमिति तिरस्कृतम्, अपितु बौद्धैरैहिकं सुखं सर्वथा त्याज्यम्, कामक्रोधलोभमोहमदमात्सर्याणि सर्वथा जेतव्या- नीति यद्भूयोभूयः प्रोद्घोषितं तत एव तन्मतं बहुभ्यो जनेभ्यो नारो- चत । अतस्तन्मतस्य शक्तिः कुण्ठिताऽभूत् । शक्तिनाशाच तन्मतं खत एव नष्टम् । तदित्थं वस्तूनां समयाचाराणां मताभिप्रायाणां हासो नाशो वा तेषां शक्तिक्षयमनुसरति । आस्तिकानामार्यदर्शनानां बहो: कालात्परीक्षिता स्वाभाविकी शक्तिर्दृढैवास्तीति गम्यते । तानि . हि प्राचीनदर्शनानि सर्वानप्युपलवानभिभूयाद्यापि स्थिराणि वर्तन्ते । कुमतानि शक्तिविधुराणि कञ्चिदेव कालं स्थित्वा नष्टान्यभूवन् । अतः 1 प्रस्तावना na स्वतश्शक्ता नामार्षदर्शनाचाराणां विषये यानि कुत्सनानि कुचोद्यानि च परै- राविष्कृतानि तेषां चर्चया न किमपि प्रयोजनं दृश्यते, इति केचिद्वदन्ति ॥ तथाऽपि यथा क्रिमयो घुणा वा साराण्यपि दारूणि जग्ध्वा नाशयन्ति तथा साङ्कास्समयाचारा मताभिप्रायाश्च कुमतीनां कुत्सनकुचो- द्यैर्नाश्येरन्निति भीतिर्जागर्ति । न हि शक्तं स्थार्याति निश्चयेन सारवन्ति वस्तून्युपेक्ष्यन्ते । उपेक्षा हि शत्रूणां शक्तचुपचयायावकाशं ददाति । शत्रुशक्तयुपचयेन सारवन्ति वस्तून्यभिभूतानि नाश्यन्ते ॥ एत्महशचर्चावकाशाय इयं श्रीमन्महाशूरमहाराजसंस्कृतमहापाठ- शालापत्रिका त्रैमासिकी इदानीं प्रारभ्यते । सुकृतप्रशंसिनः संस्कृत- पण्डिताः संस्कृतविद्यार्थिनश्च गुणैकपक्षपातिनो भूत्वाऽस्याः पत्रिकाया वार्षिकं मूल्यमग्रत एव दत्त्वा पत्रिकाप्रकाश माचन्द्र तारस्थायिनं कुर्युरिति एतत्पत्रिकाप्रकाशाधिकारे नियुक्ता विद्वन्मण्डली प्रार्थयते ॥ इदानीमाङ्ग्लेयभाषासु प्रकाश्यमानास्सर्वा अपि पत्रिकाः पत्रि- कापाठकजनैर्दत्तेन वार्षिकमूल्यसमुदयेनैव सततप्रचाराः स्थिरास्सन्ति, तथैव संस्कृतज्ञास्सर्वेऽपि भरतखण्डीया महाजनाः पत्रिकामेनां वार्षिकमू- ल्यदानेन ततोऽप्यधिकसाहाय्यद्रव्यदानेन वा उपकुर्युरिति प्रार्थनाऽत्र क्रियते इति शम् ॥ आर्. शामशास्त्री. शास्त्रं हि राजेव जानुजिघृक्षया शास्ति शास्त्रार्थम् । देश- भेदेन राजान इव शास्त्राण्यपि भिद्यन्ते । स्वप्रजा इव परप्रजा अपि सौराज्येन राजानो यथा रञ्जयन्त्याकर्षन्ति च तथैव शास्त्राण्यपि परिग्रहातिशयेन परमतावलम्बिनोऽप्यावर्जयन्ति । पुरा जैना बौद्धाश्च 2 Digitised by Ajit Gargeshwari For Karnataka Samskrita University १० श्रीमन्महाराजसंस्कृतमहापाठशालापत्रिका स्वस्वोत्कर्षप्रतिपिपादयिषया वैदिकमतोपदेष्टभिर्विवदमानाः बहुविधानि प्रमाणशास्त्राण्यारचयन् । वैदिकमतावलम्बिनस्सूत्रकाराः भाष्यकाराश्च तेषां प्रमाणानामाभासान् स्फुटं प्रतिपाद्य वैदिकदर्शनानि यदि नास्थाप- यिष्यन् तर्हि वैदिकमतवार्ताऽपि नेदानीं श्रुतिपथमागमिष्यत्, भरत- खण्डस्सर्वोऽपि जैनमयो बौद्धमयो वा अभविष्यत् ॥ दिष्ट्या भगवद्वादरायणप्रभृतयस्सूत्रकाराः श्रीशङ्कराचार्य रामा नुजाचार्य मध्वाचार्यप्रभृतयो भाष्यकाराश्च श्रुतिसम्मतया प्रमाणप द्धत्या परमतेषु दृष्टान् प्रमाणाभासान् बाढं भास्वानिवान्धकारं खण्ड- यित्वा वैदिकदर्शनान्यस्थापयन्निति विदितमेव ॥ 1 इदानीं तु भौतिकादीन्यनेकानि प्रत्यक्षादिप्रमाणानुगुणानि. शास्त्राणि जनानामैहिकसुखसाधनसिषाधयिषया विद्वद्भिरनुगृहीतानि प्ररू- ढमूलानि भूत्वा 'न ज्ञानं नवा यज्ञादिकर्म परलोकसाधनम्, किन्तु भौतिकशास्त्रसाध्यं किमपि खयानम् ; न शाश्वतिकसुखलाभो दुःख- सम्मिश्रैहिकसुखत्यागात्, अपितु दुःखध्वंसैकसाधनाद्वैषज्यशास्त्रज्ञानात् ; नचानावृष्टिनिरासः पर्जन्यजपात्, अपितु मेघोत्पादकाच्छतघ्नमुखा- दायसगुलिकावर्षात् ;' इति ऐहिक सुखपारम्यं प्रकटय्य जनमनांस्या - दर्शनेषु विगतश्रद्धानि चिकीर्षन्ति । तदत्र भौतिकशास्त्राविरोधेन जनमनांसि यथा वैदिकमतान्याद्रियेरन् तथा सयुक्ति शास्त्रार्थान् एतत्पत्रिकाद्वारा बोधयितुं पण्डिताः प्रभवेयुरित्येतदप्यस्याः पत्रिकायाः प्रकाशने प्रयोजनम् । याचं बह्वयस्संस्कृतपत्रिकाः इदानीं भरतखण्डे तत्र तत्र मुद्रापयित्वा प्रकाश्यमाना वर्तन्ते न तासु परमतेषु भौति- कादिशास्त्रेषु वा दृश्यमानाः प्रमाणाभासाः चर्च्यन्ते इति विदि- तमेव, तस्मादेषा पत्रिका प्रकृतकालोपयोगिनीति मन्यामहे. वि. सुब्रह्मण्य अय्यर् . वेदार्थविचारे-निमित्तवाद ॥ श्रीः ॥ वेदार्थविचारे- निमित्तवादः 1 अयि महाभागाः अशेषजनसंभावनीयाः असंभवदवद्यगन्धाः अवगतसकलकलाकलापाः इदमिदानीमवधारयितुमर्हन्ति तत्रभवन्तो भवन्तः यदास्माकनिमहाराजसंस्कृतपाठशालाया अपि बहोः काला- दितः कान्वन संस्कृतपत्रिका समुपक्रमते प्रचरितुम्. द्वारा चानया कंचन विषयमिच्छत्ययमपि जनो महतामुपहारीकर्तुम् सच विषयः प्राचीनसंप्रदायसमागतः इदानींतनैरपि भङ्गयन्तरेणाङ्गीकृतः वेदस्यैवार्थः।। लोके खलु पुरुषाणां प्रेक्षावतां प्रवृत्तिः द्विविधा सर्वत्र सर्वदा सर्वैरप्यध्यक्षीक्रियते लौकिकी वैदिकी चेति । तत्राद्या- प्रयोजनमनुद्दिश्य न मन्दोऽपि प्रवर्तते । एवमेव प्रवृत्तौ तु चैतन्येनास्य किं फलम् ॥ भयं नाशङ्कयते यस्मात् फलं वाऽपि तथाविधम् । trai तथाविधस्य राज्ञोऽपि नाज्ञाऽनुष्ठीयते जनैः ॥ 2 इत्यादिना सुधीभिरुपपादिता सर्वत्र विश्रुता फलानुबन्धिनी प्राणिमात्र- सम्मतेत्यत्र नास्ति बहु बक्तव्यम्. निमित्तवादः या त्वनन्तरा लोकोत्तरा वैदिकी शास्त्रविहिता, साऽपि किं फलानुबन्धिनी आहोस्वित् केवलया कर्तव्यमित्येव बुद्धया विधिनिय- न्त्रिततया स्वरूपानुबन्धिनी (स्वयंप्रयोजना) इति संशेरते महीयांसोऽपि विद्वांसः || ११ मीमांसाश्लोकवार्तिकम् 653 पु. Digitised by Ajit Gargeshwari For Karnataka Samskrita University 2 न्यायमन्जरी 355 प. १२ श्रीमन्महाराजसंस्कृतमहापाठशालापत्रिका वेदार्थविचारेनिमित्तवादः १३ ततश्च स्वर्गकामना यागादिकं प्रति निमित्तम् । निमित्ते सति नैमित्तिकं प्राप्नोति । यथा परस्वकामः प्रायश्चित्तं कुर्यादित्यत्र का मना निमित्तमेव तथा स्वर्गकामना स्वार्थपरता यागं प्रति निमित्तमेव। तथाच यदा पुरुषाणां धनधान्यादिलक्षणसमृद्धौ सत्यां तत्रानुबुभूषाल क्षणा कामना समुदेति, तदा यागदानहोमादिरनुष्ठेयः देवतोद्देशेन द्रव्यत्यागः कर्तव्यः व्ययीकर्तव्यः स्वार्थपरित्यागः कर्तव्यः इत्याभि प्रायः । तत्र च कामना निमित्तामति निमित्तवादः ॥ तत्र शास्त्रीयां प्रवृत्तिं नित्यां नैमित्तिकीं काम्यामिति त्रेधा विभज्य तीर्थकराः जैमिन्यादयो महर्षयः संप्रदायविशारदाः न्यबभ्रन् महान्तं शास्त्रकलापमिति, तत्र निश्शेषा अपि वैदिक्यः प्रवृत्तयः नैमि तिक्य एव भवितुमर्हन्तीति वादिनां प्राचां पन्थानमर्द्यादूदुषान्नि । विश्वविद्वज्जनविदितो f अत्र नित्याया अपि प्रवृत्तेः स्वर्गः फलमिति शाबराः मोक्षः फलमित्येकभविकाः, , पापक्षयःअननुष्ठाननिबन्धनप्रत्यवायपरिहारो वा फलमिति कौमारिलाः, सुखलक्षणो नियोग एव फलमिति काकृतः पितृलोकप्राप्तिरिति स्मृतिविदःप्राजापत्यलोकमाप्तिरिति पुराणाविदः इति तत्तद्वाक्यैरेवावगम्यते । नैमित्तिकीनां काम्यानां च फलसंयोगः तेषां सर्वेषामप्यविगीत इति नात्र सूचनीयं किंचिदस्ति । येनकेनापि प्रकारेणैते सर्वेऽपि तीर्थकराः फलसंयोगवादिन एवेति धीमतामतिरोहितम्। ये पुनस्सर्वासामपि वैदिकानां प्रवृत्तीनां नैमितिकतावादिनः फलाभाववादिनः तेषां सिद्धान्तं परिगृय प्रयतामहे तद्रहस्यं प्रकाश यितुम् । तत्र काम्यानां कामना निमित्तं, नित्यानां ऋणापाकरणं, शुचिर्जीवनं वा इति सर्वेऽपि प्रवृत्तिर्नामत्तिकीति सिद्धान्तः अयमपि स्यात् प्रायः कामप्रध्वंसपक्षः, य आत्मविज्ञानाधकार सिद्धयर्थः -कामविलयद्वारा धीशेषत्वलक्षणः कर्मणां कामप्रध्वंसः फलमीतिवादः प्राचीनैरौपनिपदैर्विशदीकृतः नवीनैरनूदितः कर्मकाण्ड ज्ञानकाण्डयोः विरोधस्य परिहारक्रमविशेषः । तत्र कामप्रध्वंसः त्रिविधः भोगेन त्यागने दोषदर्शनेनेति च । तचरणम् स्वर्गकामः प्रामकामः शत्रुवधकामः पशुकामो वा यजेतेत्यादिषु वाक्येषु श्रूयमाणस्य स्वर्गादिशब्दस्यार्थः क इत्यनुयोगे सर्वेषामेव शब्दा नामर्थज्ञाने लैकिकः प्रयोगेऽभ्युपायः । तस्मिथ प्रयोगे द्रव्यवचनः स्वर्गादिशब्दो लक्ष्यते । कौशिकानि सूक्ष्माणि वासांसि स्वर्गः । चन्दनानि स्वर्गः। द्वयष्टवर्षा वरारोहास्वर्गः। ग्रामः स्वर्गः। पशुः स्वर्गः यद्यत्प्रीतिमद्दव्यं तत्स्वर्गशब्देनोच्यते । तेन सामानाधिकरण्यात् प्रीति मडव्यं स्वर्ग इति मन्यामहे । फलसंयोगवादिनः पुनः प्रीतिमेव स्वर्ग पदाभिधेयां मन्यन्ते तत्साधनतां च यागादेरभिदधते नैवं न कामसंपरया तन्नाशोऽदशतैरपि । तसेवातोऽतिष्ठाद्धिस्स्यात् निवृत्तिर्देषदर्शनात् ॥ न जातु कामः कामानामुपभोगेन शाम्यति । हाविषा कृष्णवरमेव भूय एवाभिवर्धते ॥ इति । तत्र प्रथमः पक्षः सांख्याभिमतः प्रदूषितः । द्वितीयः पुनस्साधनविध्वंसनेन विश्वंसः। कारणाभावे कार्या भाव इति सुगृहीत एव । स एव च निमित्तवादेऽन्तर्भवितुमर्हतीत्युप पादयिष्यामः। तृतीये पक्षे पुनस्सूरिभिरेव विक्रान्तामिति नास्माकमव शिष्यते किंचित् । । सुरेश्वरसंबन्धवार्तिकम् , ३४६ श्लो. Digitised by Ajit Gargeshwari For Karnataka Samskrita University १४ श्रीमन्महाराजसंस्कृतमहापाठशालापत्रिका वेदार्थविचारे-निमितपादः १५ स एव नियोगवादः यजेतेत्यादिवाक्येषु विधिप्रत्ययेन कार्यमभिधीयते । कार्यत्वं च कृतिसाध्यत्वं, तदेवापूर्व, मानान्तरेणाप्रत तेिः । स एव नियोगः पुरुष प्रेरणात्मकत्वात्, यस्मिन्नर्थे प्रतीयमाने नियुक्तोऽहमत्रेति प्रतिपद्यते पुरुषः सोऽसावथ विधिरित्युच्यते । विधौ हि लिवादिप्रत्ययं स्मर न्ति स्मर्तारः पाणिनिप्रभृतयः ॥ तादृक्षनियोगलक्षणविधिप्रतिपत्तौ सत्यां आत्मन्याकूतस्समुपजा यते । तस्मिश्च सति शारीरी, भौतिकी वा व्यापारपरम्परा । सू चाकूतः आत्मधर्मः आत्मेव स्वसंवेद्यः न मानान्तरवेद्यः औदासीन्पप्रच्युतिर्वा योद्योग इति कीर्यते । आद्या प्रवृत्तिराकृतः चिकीर्षेत्यादिनामभाऊं ॥ तस्मालिङाद्यर्थः नियोगो वाक्यार्थः स एव धर्मः स एव प्रेरकः धर्मपर तन्त्राणां शास्त्रवश्यानाम् । स एव चानुष्ठेयः कार्यत्वात् , नच स घटादिवत् स्वरूपेण कर्तुं शक्यः, अपितु विषयानुष्ठानद्वारकं तत्सम्पादनम् । कमण्डळं विगृहीत्याचार्येणाज्ञसः आचार्याज्ञां मन्यते शिष्य कमण्डळंभूत्वा कृतां जनः । कटकं गच्छेति राज्ञाऽऽज्ञप्तः कटकं गत्वा राजाज्ञां कृतां मन्यते भयजनः ‘कुत्र नियोगः कस्य नियोग इत्येव विश्वजनीनव्यवहारात् नियोगः विषयं नियोज्यं चोपेक्षते नान्यद्यत्किचित् । तत्र विषयो यागादिः नियोज्यो धर्मपरतन्त्रः सहुद्धिः साधुसेवी ‘शास्त्रविश्वसशाली पुरुषः । अतएव शब्दो न स्वरूपेण प्रवर्तकः । यदि शब्द एव प्रवर्तकः पवन इव प्रवाह इव पिशाच इब कुनृप इव च संप्रत्ययं तादितरमपि न्यायमं-348 पु. प्रकरणपुं-171 पु. प्रवर्तयेत् । शास्त्रं तु सप्रत्ययमेव प्रवर्तयतीति नियोगलक्षणमर्थ प्रत्याययदेव प्रवृतिं जनयतति मन्यामहे ॥ लिङदेर्निनदस्यैव प्रेरकत्वं यदिष्यते तच्छब्दपारतन्त्र्यस्य पराकाष्ठेति निर्णयः ॥ यावज्जीवं सुखं जीवेदित्यादीच्छानिवारकम् । यावज्जीवं चाग्निहोत्रं कर्तव्यमिति शासनम् ॥ नच किमर्थं नियोग इति तृतथािऽऽकाङ्क्षाऽपि लोकतोऽवगम्यत इति शङ्कनीयम् न दैन्यमीदृशं सोढं स्वतन्त्रं शास्त्रमर्हति । यत्प्रवर्तयितुं पुंसः न शक्नोति फलं विना ॥ । तथाऽपि प्रेरकत्वं चेत्फलं दर्शयतो विधेः । प्रत्यक्षादिसमानत्वात् स्वातन्त्रयं तस्य हीयते ॥ पश्वादिभ्योऽविशेषश्च स्यादेव फलकल्पने । शत्रवश्यदशयोग्यनरताऽपि कदर्थिता ॥ 1 प्रतिषेधाधिकारेऽपि प्रत्यवायो न कल्प्यते । निषेध्यविषयादेव लब्धत्वादधिकारिणः ॥ चधरपक्षे द्वे एव नियोज्यविषयौ प्रति । तत्पूरणेन तृप्तस्तु न वाञ्छति ततोऽधिकम् ॥ कथं नरो निवर्तत प्रत्यवायभयाद्विना । राजदण्डभयाद्धयेव नराः पापं न कुर्वते । नैवं, प्रवृद्धरागान्धाः प्रत्यवायेऽपि बोधिते । अतिवर्तन्त इति हि प्रत्यक्ष सार्वलौकिकम् ॥ विधिः प्रवर्तकः तस्मारकार्यवाक्यार्थविम्मतः। फलं भवतु वा मा वा विधिनैवाभिकाङ्क्षति । फलं प्रदर्शयन्नव विधिः प्रेरक इष्यते । यैस्ते जैमिनिमुख्यास्स्युः केवलं लोकचक्षुषः ' ; 1 न्ययमे-३९१, ३६२ . Digitised by Ajit Gargeshwari For Karnataka Samskrita University १६ श्रीमन्महा राजसंस्कृतमहापाठशाला पत्रिका फलसंयोगवादः अथ फलज्ञानं प्रवर्तकमिति वादिनां न्यायविदां सिद्धान्तसंग्रहः - फलं प्रवर्तकमिति न्यायविन्मतमेव तत् । रागादेव प्रवृत्तिश्चेजन्मान्तरविनिश्चयः ॥ रागिणामेव जन्मेति वीतरागेति सूत्रितम् । । सुखे दुःखनिवृत्तौ वा पुंसां भवति कामना ॥ न पुनः व्योमपुष्पादि कश्चित्कामयते नरः । रहस्यं पुनरत्रेदं मीमांसकहृदि स्थितम् ॥ इष्टसाधनताबुद्धया प्रवर्तेत नरो यदि । रागात्साङ्गे प्रवृत्तिस्स्यान्निषिद्ध्येत ऋतौ वधः ॥ विधिनैव प्रवृत्तिश्चेत् वधो वैधो भवेदिति । शास्त्रमूला प्रवृत्तिश्चेत् अदोषाऽभ्युपगम्यते ॥ शास्त्रोत्थरागमूलाऽपि तादृक्कि न भविष्यति । भवत्यारोग्यसंपत्तिः भुञ्जनस्य हरीतकीम् ॥ तत्कामो भक्षयेच्चेति को विशेषः प्रवर्तने । जडो माणवकोऽप्येषः चपेटापातहानये ॥ मोदकाद्याप्तये वाऽपि करोति गुरुशासनम् । फलस्य वस्तुतस्तावत् प्राधान्यमवगम्यते ॥ न सचेताः क्रियां कांचित् अनुतिष्ठति निष्फलाम् । इति न्यायविदां पन्थाः लोकदृष्ट्या व्यवस्थितः ॥ लोके प्रवृत्तिस्स्वादेवं वेदे त्वेषा विलक्षणा । तदुपपादनम् फलसंयोगवादो यः जैमिन्यादेरसीप्सितः । शबरस्वामिवचसा यथावदवधार्यताम् ॥

  1. ननु च नैवात्र स्वर्गः फलं श्रूयते, स्वर्गकामपदेन तावत्पुरुषोऽभि-

धीयते यजेतेत्यनेनापि यागनिर्वृत्तिः । तयोर्वाक्येन संबन्धः । केनेदानीं । 1 न्यायमञ्जरीपु ३६१. 2 श-भा. ११-१-१. वेदार्थविचारे - निमित्तवादः फलमुच्यते । अनेनैव स्वर्गकामपदेनेत्याह । ननु पुरुषस्यैवायं वक्ता ? न खलु कश्चित् पुरुषः स्वर्गकामो नामास्ति । च यस्य स्वर्गे कामः, स स्वर्गकाम इति ? एतदेव न जानीमः कस्य स्वर्गे काम इति, य एव हि स्वर्गकामः स एवास्वर्गकामो भवतीति ॥ एवं तर्हि कालोपदेशोऽयं भवति, यदा स्वर्गकामः तदा यजेतेति ? । अत्रापि न कश्चित्कालविशेषोऽस्ति, यस्मिन्नियमेन स्वर्ग- कामस्स्यात्, सर्वेषु कालेषु सर्वे कामा अनियमेन उत्पद्यन्ते । तत्र न कश्चित् कालविशेषोऽनेन शक्यपदेष्टुम् ।। एवं तर्हि नैवायं पुरुषोपदेशः नापि कालोपदेशः । किंतु फल- कामो निमित्तं स्वर्गविषये कामे उत्पन्ने यजेतेति, यथा कपाले नष्टे यजेतेति । अस्य पक्षस्य सूत्रे परिहार उक्तः (६-२-९) “फलकामो निमित्तमिति चेत् न, नित्यत्वात् " नित्यान्यग्निहोत्रादीनि कर्माणि, तानि यदि निमित्ते विधीयन्ते तत्र नित्यत्वमेषां विहन्येत । तत्र नित्य- चोदना यावज्जीविकाद्या अपरुध्यन्ते । लिङ्गानि च " अप वा एष स्वर्गाच्चयवते, यो दर्शपूर्णमासयाजी सन् पौर्णमासीममावास्यां वाऽतिपा- दयेत्” इत्येवमादीनि । परिशेषात्पलसंयोग एवायम् ॥ ' अत्र न्यायरत्नमाला यत्तत्र भाष्यकोरण पुरुषपरत्वादिनिराक- रणं कृतं कामशब्दस्य तदिहासूत्रितमपि सूत्रितविचारोपोद्धातत्वेन कृत- मिति वेदितव्यम् । निमित्तपरत्वं तु " प्रयोगे पुरुषश्रुतेः " ६–२-९ इत्यत्र प्रसङ्गात्सूत्रकारेण निराकृतं इह भाष्यकारेण स्मारितम् । इदं च पुरुषपरत्वादिनिराकरणं स्वर्गकामाधिकरणस्योपोद्धातत्वात् तत्रैवास्माभि- रनागतप्रत्यवेक्षणेनं प्रदर्शितम् ॥ । १९३ पु. Digitised by Ajit Gargeshwari For Karnataka Samskrita University 3 १८ श्रीमन्महाराजसंस्कृतमहापाठशालापत्रिका विधिर्हि प्रवर्तनात्मकत्वात् अपुरुषार्थफले व्यापारे पुरुषस्य प्रवर्तयितुमशक्यत्वेन प्रवर्तनात्मकविध्यन्वयादेव समीहितरूपे भाव्येऽपे- क्षित तद्विशेषमात्रं वाक्यादवगम्यते । ’ कार्यस्य फलानपेक्षत्वात् अपेक्षितो नियोज्य एव स्वर्गकामादि- शब्दैः प्रतिपाद्यत इति ये मन्यन्ते तेषां कामना निमित्तं स्यात्, न फलत्वं स्वर्गस्य सिद्धयेत् । सा च सिद्धत्वात् शक्नोत्येव “ स्त्रीकाम: प्रायश्चित्तं कुर्यात्" इतिवत् निमित्तत्वेनैव नियोज्यमवच्छेत्तुम् । एवं च सति सर्वलोकावगतक्रियाकार्याभिधानं लिङ्कृतेरबाधितं भन्नति । आरोग्यकामो हरीतकीं भक्षयेदित्यादाविव कामनास्वभावबाधो न युक्त इति चेन्न, श्रुतिप्राबल्यात् || कामना हि स्वभावत एव काम्यप्रधाना । निमित्तत्वे च सति तत्प्राधान्यं हीयेतेति फलत्वमेव युक्तमिति चेन्न, श्रुतेर्लिङ्गालीयस्त्वात् । कामनास्वभावो हि लिङ्गम् । तस्य च निमित्तपरत्वे बाधः, फलपरत्वे तु श्रुतेर्बाधः ॥ । तत्र लिङ्गानुग्रहेण श्रुतिं बाधित्वा फलपरत्वमभ्युपेयताम् ? उत श्रुत्यनुग्रहेण लिङ्गं बाधित्वा निमित्तपरत्वमिति संदेहे श्रुत्यनुग्रहो न्याय्यः, फलपरत्वे हि तस्य कालान्तरभावित्वात् तत्साधनत्वं क्षणभङ्गुरस्य कर्मणः साक्षान्न संभवतीति कल्पनापरंपराप्रसङ्गः ॥ ततश्च साधनसाधनत्वं तु स्यात्, न च किल साधनं फलं लिप्समानेन साधने साक्षात्प्रवर्तितुमशक्नुवता श्रीहिकामेनेव कर्षणं कार्यतयाऽवगन्तुं शक्यमित्यनया स्वतन्त्रया प्रक्रियया लोकविरुद्धया लिङ्ङ्कृतेः लोकसिद्धकार्याभिधानपरित्यागेन अलौकिकापूर्वाख्यकार्याभि- धायित्वं कल्पनीयमिति श्रुतिबाधप्रसङ्गात् निमित्तपरत्वमेव ज्यायः ॥ । १५७ पु वेदार्थविचारे- निमित्तावदः नैमित्तिकस्यैवानुष्ठानस्य यावज्जीवकालाभ्यासः यावज्जीववाक्येन विधीयते इति नित्यत्वमप्युपपद्यते । इत्यादि । यावजीवं चाग्निहोत्रं जुहोतीति विधीयते । वसन्ते च वसन्ते च यजेत ज्योतिषेति च ॥ प्रत्यब्दं च यजेतैव चातुर्मास्यैरितीर्यते । एवं नैमित्तिकं सर्व नित्यान्नैवातिरिच्यते ॥ अमुमेव च सिद्धान्तं खण्डदेवोऽपि भाट्टदीपिकायामेवमन्ववादीत् (६-१-१) अथवाऽस्तु “ स्त्रीकामः प्रायश्चित्तं कुर्यात्” इतिवत् स्वर्ग- कामनाया अपि निमित्तत्वम् । ततश्च निमित्ते नैमित्तिकाकरणे प्रत्यवा- यमात्रं न तु करणे किंचिदिष्टं, अकरणे प्रत्यवायभियैव च पुरुषप्रवृत्ति सिद्धेः न विधिवैयर्थ्यम् । सर्वथा यागस्यैव भाव्यत्वेन इष्टसाधनत्वा भावात् फलेच्छा न प्रवर्तकामिति ॥ 1 निमित्तवादोऽयमेषः प्रायो बादरिसम्मतः । क्रियावाक्यार्थवादी सः शेषलक्ष्ये व्यवस्थितः ॥ क्रियैव तावत्कार्यात्मा प्रेरणात्मा फलार्थिता । • प्रतीयते ततोऽन्यस्तु पदार्थो न हि तादृशः || स चोदनामतिकामेद्यः क्रियां नानुतिष्ठति । हेतुकोऽवैदिकश्च स्यात् यो भवेत्फलकामुकः ॥ स्वयं च कृपणो भूत्वा शास्त्रं कृपणयत्यपि। • इति बारिसिद्धान्तः ज्ञातव्योऽन्यत्र विस्तरः ॥ नियोगसाम्राज्यम् तस्मादहरहस्सन्ध्यामुपासीतेति शासनम् । स्वाध्यायोऽध्येतव्य इति यजेत ज्योतिषेति च ॥ 1'जे. सू. 3-1-3. Digitised by Ajit Gargeshwari For Karnataka Samskrita University श्रीमन्महाराज संस्कृत महापाठशाला पत्रिका तथा विश्वजिता चैव यजेतेत्यापे शास्ति हि । रात्रीरुपेयादिति च वाक्यं स्यात्प्रमुसम्मितम् ॥ सर्वत्र फलक्कृप्तिस्तु श्रम एव हि केवलम् । शासनाच्छास्त्रमिति च प्रथितं निरुपाधिकम् ॥ यजेत यद्विश्वजितेत्यादि क्षत्रस्य शासनम् । तत् क्षत्रस्य क्षत्रमिति स्याद्धर्मो राजशेखरः ॥ तस्माद्यत्र फलाश्रवणं तत्र फलकल्पनेऽपि निमित्तवाद एव पर्यवस्यति । अ अकल्पने पुनश्शास्त्रस्यैव साम्राज्यं निस्सपत्नम् || इममर्थमेवानुसन्धाय भगवान् वासुदेवस्स्वयमाह- कर्मण्येवाधिकारस्ते, कार्य कर्म समाचर । योगस्थः कुरु कर्माणि, कार्य कर्म करोति यः ॥ • नियतं कुरु कर्मत्वं, कर्म कर्तुमिहाईसि । कार्यमित्येव यत्कर्म, न त्याज्यं कार्यमेव तत् ॥ इत्यादीनि । एतेन नियोगसाम्राज्यं परां कोटिमाटीकते ॥ ननु स च नियोगो नित्येष्वेव कर्मस्विति चेन्न, शास्त्रस्य अर्ध- जरतीयतापत्त्या नित्यकाम्यविभागस्यापि निमित्तवादेऽनभ्युपगमात् । फल- संयोगवादे हि तद्विभागतद्विचारैतदङ्गसंपत्त्याद्यनुयोगावसरः । नैमित्तिक- स्यापि नित्यप्रभेदतोपपत्तिः । नित्यस्यापि शुचिजीवनादिनिमित्तत्वम् । एवं च विभागो न सहृदयहृदयंगम इति निमित्तवादाशयः ॥ 'उपबृंहणम्. अत एव स्मृतिकर्तारोऽपि महर्षय निमित्तवादं हृदि निधायैव- मस्मार्षुः-

-

यस्य त्रैवार्षिकं भक्तं पर्याप्तं भृत्यतृप्तये ।' अधिकं वाऽपि विद्येत स सोमं पातुमर्हति ॥ 1 बृ3-4-14 वेदार्थविचारे निमित्तवाद: 2 त्रैवार्षिकाधिकान्नो यः स हि सोमं पिबेद्विजः ! प्राक्सौमिकीः क्रियाः कुर्यात् यस्यान्नं वार्षिकं भवेत् ॥ योऽनाहिताग्निश्शतगुः अयज्वा च सहस्रगुः । तयोरपि कुटुम्बाभ्यामाहरेदविचारयन् ॥ यो वैश्यस्स्याद्वहुपशुः हीनऋतुरसोमपः । कुटुम्बात्तस्य तद्रव्यं आहरेद्यज्ञासद्धये ॥ आहरेत्रोणि वा द्वे वा कामं शूद्रस्य वेश्मनः । न हि शूद्रस्य यज्ञेषु कश्चिदस्ति परिग्रहः || कुसुलकुम्भीधान्यो वा व्याहिकोऽश्वस्तनोऽपि वा। || जोवेद्वाऽपि शिलोऽछेन श्रेयानेषां परः परः || इत्यादिवचनानां हार्दो भावः कामप्रध्वंस एवेति निमित्तवाद एव उपबृं- हितो भवति ॥ स्तेयशास्त्रेऽपि –" असाधुभ्योऽर्थमादाय साधुभ्यः प्रयच्छति " इत्युक्तमित्युदाहृतम् । तस्यापि तात्पर्यं साधुषु स्थितं द्रव्यं लोकोप- कारलक्षणधर्मायोपयुज्यते । असाधुषु स्थितं विपरीतायेति ॥ २१ अत एव च यागादौ नरा येऽनधिकारिणः । तत्तादृग्दक्षिणादानात् तेषां सिद्धिरुदीरिता ॥ । दक्षिणा सर्वयशानां दातव्या भूतिमिच्छता | इति शान्तौ राजधमै दस्यूनामपि चोदितम् ॥ निगमनम् निमित्तवादे कामप्रध्वंससिद्धान्ते यज्ञो नाम आत्मीयेन द्रव्येण स्वार्थपरित्यागेन प्रपञ्चोपकार इति सिद्धोऽर्थः । अमुमेवार्थमुपदिदेश भगवान् इति संभावयामः - सह यज्ञैः प्रजासृष्ट्वा पुरोवाच प्रजापतिः । अनेन प्रसविष्यध्वमेष वोऽस्त्विष्टकामधुक् ॥ 155 अ. Digitised by Ajit Gargeshwari For Karnataka Samskrita University श्रीमन्महाराज संस्कृतमहापाठशालापत्रिका देवान् भावयतानेन ते देवा भावयन्तु वः । परस्परं भावयन्तः श्रेयः परमवाप्स्यथ ॥ जहि शत्रु महाबाहो कामरूपं दुरासदम् । महाशनो महापाप्मा विद्धचेनमि॒ह वैरिणम् ॥ तस्मात् सर्वैरपि सचेतनैः २२ यत्करोषि यदश्नासि यज्जुहोषि ददासि यत् । यत्तपस्यसि कौन्तेय तत्कुरुष्व मदर्पणम् ॥ इत्युक्तरीत्या स्वयंप्रयोजनेन स्वार्थपरित्यागलक्षणेन परोपकारपर्यवसायिना यज्ञेन परमेश्वरं समाराध्य निश्श्रेयसं संपादनीयामिति सर्वशास्त्रसामरस्यम् ॥ एतेन वेदः कामस्य दुष्पूरस्यैव वर्धकः । न शान्तिसुखदश्चेति बाह्यवादोऽधरीकृतः ॥ शबरस्वामिप्रभृतयस्तु परोपकारो न धर्म: तद्विलक्षण एव यागादिधर्म इति सिद्धान्तयन्ति' । निमित्तवादे तु परोपकार एव यज्ञस्स एव धर्म इति सिद्धान्तः ॥ लोकार्थेन प्रवक्ष्यामि यदुक्तं ग्रन्थकोटिभिः । परोपकारः पुण्याय पापाय परपीडनम् ॥ 2 एतावजन्मसाफल्यं प्राणिनामिह जीवताम् । प्राणैरथर्धिया वाचा श्रेयआचरणं सदा ॥ लल्क्षीपुरं श्रीनिवासविपश्चिच्चक्रवर्तिना । इत्थं निमित्तवादस्य रहस्यं विशदीकृतम् ॥ श. भा. 1-3-1. पत्रिका संपादकः 2 श्रीभागवतम् संस्कृत विद्वत्परीक्षा वृत्तान्तपत्रिका संस्कृत विद्वत्परीक्षावृत्तान्तपत्रिका. श्रीमन्महीशूरमहाराजश्रीकृष्णराजसार्वभौमसमष्ठिधातायां रक्ताक्षि- संवत्सरीयनवरात्रमाहोत्सवानुबन्धिन्यां आश्वयुच्छुक्लत्रयो - दश्यां भार्गववासरे श्रीमन्महाराजसन्निधौ विनिवेदिता संस्कृतविद्वत्परीक्षावृत्तान्तपत्रिका. (१) महाप्रभो, भवदीयदिव्यशासनानुरोधेन संस्कृतविद्याभि- वर्धकमहासमितिमुखेन महीशूरनगर्यां संस्कृमहापाठशालायां निर्वर्ति- तायाः विद्वत्परीक्षाया वृत्तान्तं महासन्निधौ विनिवेदयितुमवसरम्सम- भ्यर्थ्यते. (२) अस्मिन् वत्सरे नवीनशासनानुसारेण मध्यमोत्तमकक्ष्या- परीक्षा, प्राचीनशासनानुसारेण प्रथमद्वितीयभागपरीक्षा च निरवर्तिषाताम्. तत्र परीक्षायै प्रवेशं प्रार्थितवन्तः परीक्ष्याः एकनवतिसंख्याका विद्या- थिनः, तेप्वष्टषष्टिसंख्याकाः परं पर्येक्ष्यन्त चतुश्चत्वारिंशत्संख्याकाः उदतारिषुः. (३) तेषु विंशतिः विद्यार्थिनः श्रीमन्महाराजसंस्कृतमहा- पाठशालीयाः. सत्रयो विद्यार्थिनः बेंगळूरु श्रीमच्चामराजेन्द्रसंस्कृत महापाठ- शालीयाः. २० ३ यादवाद्रि (मेलुकोटे) संस्कृतमहापाठशालीयः एकः विद्यार्थी. १ बेंगळूरु श्रीशंकरमठीयमहापाठशालीयाः चत्वरो विद्यार्थिनः एतद्देशीया देशान्तरीयाश्चान्यत्र स्वतन्त्रैः विद्वद्भिश्शिक्षिताः षोडश विद्यार्थिनः, इति विवेकः. ४ Digitised by Ajit Gargeshwari For Karnataka Samskrita University १६ ४४ श्रीमन्महार जसंस्कृतमहापाठशाला पत्रिका (४) एतेषु विशेषपारितोषिकपात्रीभूताः पुनरत्र निर्दिश्यन्ते. (१) श्री ॥ धर्मप्रवृत्त, धर्माधिकारि, नवीनं रामानुजाचार्य- परिकल्पितं पञ्चाशद्रूप्यरूपं वेदपारितोषिकं श्री ॥ बसवापट्टण श्रीनिवासा- वधानी, श्री ॥ विद्वान् वेंकटसुब्रह्मण्यनामा च समं विभज्य प्राप्नुवताम्. 1 (२) श्री ॥ रिटैर्ड. डि. इन्स्पेक्टर स.. रङ्गाचार्य परि कल्पितं वेदान्तंकृष्णमाचार्य नामाङ्कितं वेदान्तपारितोषिकं पञ्चाश- : दूप्यात्मकम्. (३) तथा – श्री ॥ मैसूरुशिक्षक महापाठशाला संस्कृतपण्डि- तेन महाविदुषा तिरुवळ्ळूरुश्रीनिवासराघवाचार्येण परिकल्पितं वेदान्त- पारितोषिकं पञ्चाशद्रूप्यात्मकम्. (४) तथा-श्री ॥ कडबपटेल, हुच्चुवीरेगौडपरिकल्पितं षष्टि- रूपकार्घ सुवर्णपदकम्. (५) तथा – अस्मिन्नेव वत्सरे, श्रीमन्महाराजानुज्ञां सम- धिगम्य परिकल्पितं रायबहदूरु आर्काट् श्रीनिवासाचार्यनामाङ्कितं श्री || बेंगळूरु मुजराय सेक्रिटेरियेट्, कन्दसामिनायकीयं षष्टिरूपकार्षं कनकवीरशृङ्खलं चेति चत्वारि पारितोषिकाणि श्री ॥ विद्वान्. के. श्रीनिवासरंगाचार्यः समलभत. (६) श्री ॥ विद्याविशारद, धर्माधिकारि, कुणिगल रामशा- स्त्रिपरिकल्पितं पञ्चाशद्रूप्यात्मकं पारितोषिकं, श्री ॥ के. पि. नारायण- शास्त्री समविन्दत. (७) अरमने मुसाहेब, रोजमेंटुदार श्री ॥ कृष्णरायेन परिकल्पितं द्वैतवेदान्तपारितोषिकं पञ्चाशद्रप्यलक्षणं श्री ॥ बि. श्रीनिवा- ससामगनामा समलभत. •विद्वत्परीक्षावृतान्तपत्रिका २५ (८) रिटैई छीपइंजनीयर्, राजसभाभूषणं श्री ॥ कर्पूर- श्रीनिवासरायपरिकल्पितं तर्कशास्त्रपारितोषिकं शतरूपकपरिमितम्. (९) तथा – धर्माधिकारि, पण्डितरत्नं कस्तूरिंरंगाचार्याभिधाना लंकृतं, श्रीमन्महाराजसंस्कृतमहापाठशालायां तर्कशास्त्रप्रधानोपाध्यायेन महाविदुषा श्री ॥ आत्मकूरु रंगाचार्येण परिकल्पितं प्राचीनतर्कपारितो षिकं च श्रीमन्महाराजसंस्कृतमहापठशालोपाध्यायः श्री ॥ विद्वान् आत्मकूरुदीक्षाचार्यः समविन्दत. (१०) विद्वान् पेरीस्वामीतिरुमलाचार्यनामधेयाविभूषितं सा- हित्यपारितोषिकं पष्टिरूपकसंख्याकं श्री ॥ तलकावेरी नारायणाचार्य: समलभत... (११) हेब्बळालुसुब्बय्याख्यया परिशोभितं त्रिंशद्रप्यात्मकं मीमांसाधर्मशास्त्रपारितोषिकं श्री ॥ विद्वान्, क. कृष्णमाचार्य: सम- पादयत्. (१२) धर्माधिकारि चक्रवर्त्यय्यंगार्याभिधानपरिकर्मितं व्या करणपारितोषिकं पञ्चाशद्र्पकरूपं श्री वा सोसले. के. रंगसामिअय्यं- गायनामा समार्जयत्. एवं, द्वादशसंख्याकानि पारितोषिकाणि यथायोगं विनियोजितानि. इत्थं श्रीमन्महाराजकरुणाकटाक्षविशेषेण संस्कृतविद्याभ्यासः अविच्छेदेनुकरूपेणाभिवर्धते, महाप्रभो ! Digitised by Ajit Gargeshwari For Karnataka Samskrita University Digitised by Ajit Gargeshwari For Karnataka Samskrita University संख्या नामधेयम् 1 रामचन्द्रादीक्षितः दो ॥ श्रीनिवासाचार्य: 3 कलियूरु रंगण्ण 4 रा॥ रामशास्त्री 5 रामचन्द्रः कृ॥ वीर राघवाचार्यः 6 7 कोटीश्वरनरसिंहाचार्य: 8 | रा॥ नारायणस्वामिदीक्षितः 9 आत्मकूरुदीक्षाचार्य: 10 | वें ॥ श्यामावधानी 11 क॥ श्रीनिवासरङ्गाचार्य: 12 सो॥ रङ्गस्वामध्यंगायः 13 हु॥ श्रीनिवासरङ्गाचार्य: 14 त॥ नारायणाचार्य: 15 नी॥ लक्ष्मीनारायणशास्त्रो 16 पे॥ सुब्बरायभट्टः 17 क॥ वेंकटरामशास्त्री 18 के. जे ॥ तिप्भशास्त्री 19 के॥ गोपालशास्त्री 20 के पि॥ नारायणशास्त्री 21 ए. रा॥ वेंकटर मशास्त्री 22 चक्रवर्तितिरुमलाचार्यः 23 मु॥ नराँसदाचार्य: 24 के॥ रामचन्द्राचार्य: 25 मा॥ जगन्नाथाचार्य: निरुक्त विद्वत्परीक्षायामुत्तीर्णानां संभावनाप्रकार:

:: :: :
:: :: :: ::

सामवेदः 27 अद्वैतम् नवीनतर्कः साहित्यम् 33 सामवेदः प्राचीनतर्क: शुक्लयजुर्वेदः विशिष्टाद्वैतम् व्याकरणम् प्राचीनतर्क: साहित्यम् " " अद्वैतम् ९ मध्यमपरीक्षा. "" शास्त्र मागः "" " द्वैतम् 55 २ उत्तमपरीक्षा. " विशिष्टद्वितम्

: : : : : :

३ विद्वत्परीक्षा पूर्व भागः. .. अध्ययनस्थलम् मैसूरु पाठशाला " शंकरमठ पाठशाला मैसूरु पाठशाला बेंगळूरु पाठशाला मैसूरु पाठशाला बेंगळूरु पा॥ मैसूरु पा॥ → बेंगळूरुप ॥ मैसूरु पा॥ | समान रूप्याणि 60 100 100 100 100 100 "" बेंगळूरु पाठशाला 100 शकरमठ पाठशाला चित्तूरु पाठशाला मैसूरु पाठशाला मेलुकोटे पाठशाला अन्यत्राधीती मसूरु पाठशाला 50 40 40 50 50 50 50 75 125. तिरुपति पाठशाला 100 अन्यत्राधीती 100 मैसूरु पाठशाला 100 100 50 50 50 100 100 " विशेष: " . उत्तमकक्ष्या, 10 00 |}= उत्तमकक्ष्या राङ्कवयुगळंच. श्रीमन्महाराज संस्कृत महापाठशाला विपरीक्षवृतान्तः Digitised by Ajit Gargeshwari For Karnataka Samskrita University संख्या नामधेयम् 26 मध्वरायाचार्यः 27 शि॥ सुब्रह्मण्यशर्मा 28 ज्यो॥ कृष्णय्यंगार्यः 29 30 31 र. ल॥ अनन्तरामशास्त्री 32 वि॥ रामसुब्रह्मण्यशास्त्री रा. अ॥ कृष्णमाचार्य: के॥ शंकरनारायणशास्त्री . 33 | टि. पि॥ कृष्णशास्त्रो 34 टि. वि॥ अनन्तरामशास्त्री 35 दुर्ग॥ भीमसेनाचार्यः 36 कु॥ वेंकटरमणाचार्य: 37 रो॥ सेतुमाधवाचार्यः 38 | म. स॥ सुब्रह्मण्यशास्त्री 39 | य॥ श्रीनिवासावधानी 40 वेंकटसुब्रह्मण्यम् 41 बि॥ श्रीनिवाससामग: 42 पु॥ सुचण्णतन्त्री 43 | इ॥ वासुदेवाचार्य: 44 हो ॥ श्रीनिवासाचार्य:

: : : : : :
:: :

द्वतम् ज्यौतिषम् शाखभागः " धर्मशास्त्रम् नवीन तर्क: व्याकरणम् "" द्वतम् [१] "" व्याकरणम् कृष्णयजुर्वेदः शुक्लयजुर्वेदः द्वैतम् " A ४ विद्वत्परीक्षा उत्तरभागः. अद्वैतम्

"" प्राचीनतर्क:

:: :: :

अध्ययनस्थलम् मैसूरु पाठशाला .. 50 50 50 अन्यत्र 50 शंकरमठ पाठशाला 50 चित्तूरु पाठशाला 50 50 "" " " "" चित्तूरु पाठशाला 100 100 50 50 50 100 अन्यत्र ५ विद्वत्परीक्षा- पूर्वोत्तरभागौ. " १३ चित्तूरु पाठशाला संमान रूप्याणि मैसूरु पाठशीला | 125 शंकर पाठशाला 125 उडुपि पाठशाला 150 33 अन्यत्र | मैसूरु पाठशाला toime in th 150 150 150 3540 विशेष: उत्तमकक्ष्या राइवयुगळंच ३८ 'श्रीमन्महाराजसंस्कृत महापाठशाला विद्वरपरीक्षावृत्तान्तः ३० श्रीमन्महाराज | संस्कृत महापाठशाला श्री भारतीयाखिलधर्ममहामण्डलसभा. सभेयं कलकत्तानगर्यां मार्गशीर्षे मासि (१३-१२-२४) द्वाविंश- तितमी प्रावर्तत । तत्रच दरभङ्गासंस्थानाधिपतौ अध्यक्षे, कासिंबजार्दे शाधिपः कार्यदर्शी सभाध्यक्षाय स्वागतं निवेद्य स्वयं कंचिदुपन्यासमक- रोत् । तस्यायं सारांश:- समितिरियं सनातनधर्माणां स्वरूपविवरणं संभवत्तत्तत्कालुप्या- पनोदनं स्थिरीकरणं चान्तरेण नान्यत्कर्तव्यमस्तीत्यभिप्रैवीत्यतिरोहित ए॒वायमंशः । 1 " धर्म इति च महाददं बहुमतिपदं प्रसिद्धमार्यावर्तीयानाम् । तं च धर्मं अनादिकालं प्रवर्तमानं अनुपधिपरिग्रहजेजीयमानं वयं सना- तनमातिष्ठामहे । विपुलेऽस्मिन् भारतमण्डले धर्मैकधान्नि न खल्वतीवाश्चर्याय; यत् काचित्समितिः धर्ममर्मज्ञप्रवर्तिता प्रोत्साहयति धार्मिकानिति । यतः चिरपरिचितं भारतीयानां धर्मं लवशस्तेतेऽनुकुर्व तोऽपि विजयन्ते । धर्मश्च नाम लोकानां भावनया मनोवृत्तीनां समुचिताभिः प्रव- र्तनाभिरात्मस्वरूपातिशयसंपादकोऽर्थः । मनश्शुद्धिंदायी महोन्नातहेतुः जीवलोकावस्थितेर्हृदयङ्गमताबहश्च भवत्ययं धर्म आचर्यमाण इत्यत्र न कोऽपि विशयः । अखिलभारतीयश्रेयःपरंपरासाधनभूतं धर्म प्रवर्धयितुकामैरवश्यं सभेयं शाश्वतीं प्रतिष्ठामर्हति भारतमण्डले भारतीयानां वृन्दमनुप्रविष्टस्य च मे प्रार्थनां भाविनीं साधु तफलयेदियं सभेति दृढतरः प्रत्ययो मे वरीवर्ति । धर्माश्चायं सप्रमाण एवाचर्यमाणोऽसंख्यातात्कालादनुवर्तते । श्री भारतीयाखिलधर्ममहामण्डलसमा ३२ धर्माचरणमर्गश्च अनाक्षेपार्हे: जातिप्रभेदैर्यथाई व्यवस्थापितो विज- यते । भारतवर्षचिरनिवासिषु च आर्येषु यथादेशमावर्तमानो धमा यथाकालं च परिपोष्यमाणः शेवधिभूत आसीदार्याणाम् । याते चानेकास्मिन् वर्षसाहस्रे निरन्तरधर्माचरणलालसतासमु- पचितैकमत्यानां 'आर्याणां समुचितमैकमत्यमसहमान इव प्रावर्तयत कालः शौद्धोदनेरुपदेशान् । यैश्च तथातथा निर्मिन्नमानसाः विज- हुरेव चिरागतां व्यवस्थां उपाशिश्रियंश्च आपातमधुरान् कतिपयार्ष- धर्मच्छायासंमिश्रतया समफलानिव मन्यमाना नैरात्म्यनिरीश्वरादि- वादान् बहवो भारतीयाः । • बुद्धधर्मश्चायं तथातथा रात्रिंदिवं प्रचार्यमाणोऽपि नैवोन्मूल यितुमैष्ट भारतीयानां दृढपरिग्रहां धर्मपद्धतिम् । मन्वादिपरमर्पिपरम्परा- प्रवर्तितेषु स्मृतिपुराणेषु सविकासमुपबृंहयत्सु, वैदिकं पन्थानं तावदपि वा पराक्रान्तं बुद्धधर्मेरितीदमेव हेपयति वैदिकधर्माचरणपरायणानार्यान्। इयदपि वाऽवशिष्यत इत्येतदेव वा हर्षस्थानम् । इतइतश्च क्रमात्क्रमादपचीयमाना एव दृश्यन्ते सनातन- धर्माः । वाणिज्यगुडजिह्विकया च प्रचार्यमाणे आङ्ग्लसाम्राज्ये काम- प्यवस्थामनीयन्त । ‘‘ प्रायो ह्यपुरीचन्तितपरिपाकैराचर्यमाणं कर्म विनिपातयत्येव श्रे- यसः ” इति नीतेः सत्स्वपि बहुपूढाहरणेषु भारतया एवाभ्यर्हितमु - दाहरणम् ; यत् अनवधानपरिमुषितस्वकृत्यैः उपेक्षिततत्तद्भ्यर्हितसा- धनैः पुष्कुलधनैरपि नैव लभ्यते निरुद्वेगसुखास्वादः । तदेवंविधे विशसने प्रचलरति भरतमण्डले यथापुरं सनातनं धर्मं प्रचार्य परस्परहितैकरसहृदया भरतखण्डकुटुम्बिनो वयं कदाऽनुभवेम नि- रुद्वेगं सुखमिति मनोरथः चिराञ्चेतसि विपरिवर्तमानो लक्ष्यतेप्रायो बहूनाम् ॥ Digitised by Aiit Gardeshwari For Karnataka Samskrita University श्रीमन्महाराज संस्कृत महापाठशाला अद्यापि चानाविष्कृतंनयना एव बहवो निरन्तरं सुखाभासरता एव लक्ष्यन्ते । अतोऽनया परिषदा महतीं धर्मधुरां शिरसि पतितां विचिन्तयन्त्या न मन्दप्रयतनयाऽवस्थातव्यम् । अपितु तदनुष्ठेयं कर्म यत् सनातनधर्मावबोधनं नाम । अचिन्तनीयवैषम्यतया च जगच्चेतो- वृत्तेः निपुणेनाऽपि निरूपकेण हठादेव न धर्मावबोधनं सुकरमिति विचिन्तयाद्भः भारतीयधर्म महामण्डलसभापरिपोषकैः नोद्विजितव्यं हृद- यङ्गमेनाऽपि तत्त्वतो धर्मावेदनप्रयत्नेन देवाद्वैफल्यमापादितेन । असकृत् खलु जोघुष्यमाणं यत्किमपि हरत्येव हृदयं निरूपकाणामपि किमुत, धर्ममर्मवर्त्म || सनातनधर्मावबोधनकलाशालाश्च तत्रतंत्र प्रवर्तिता एद । ता इमा अन्याश्च प्रवर्तयिष्यमाणाः धर्मावबोधनकलाशालाः सन्तं जनानां सनातनधर्मतत्त्वावबोधनेन प्रतिष्ठापयन्तु शाश्वतीं निश्रेयसपरमसाधन- भूतां पद्धतिमार्याणामित्याशास्महे । इति। प्रमादबहुलेऽस्मिन् कलौ धर्मपरिरक्षणाय तत्रतत्र सभाः प्रवर्त्यन्ते जनानां च धर्मावबोधनप्रयतनं च क्रियत इति च महदिदं प्रमोदस्थानम् ॥ बहोः कालादविरतं धर्मप्लरिपालनपरायणैः कर्णाटभूपालमणिभिः परिरक्ष्यमाणेऽस्मिन् कर्णाटदशे भगवतोऽनुग्रहेण निर्मला एव धर्मास्सर्वे . प्रवर्तमाना विराजन्ते ॥ तदेनंदेव राज्यं निदर्शनीकृत्य परेऽपि धार्मिकं पन्थानमनुरु न्धानाः निरतिशयं श्रेय आसादयन्त्वित्यावेदनमेव मुख्यं कर्तव्यमभि- प्रेतीयं पत्रिका । FP TRU राजन्यमान्य श्रीकृष्णराजेन्द्र परिपालितम् । राज्यं निदर्शनाभूय राजतां धर्मसंपदे | . महीशूर राजकीय प्राच्य कोशागारपण्डितः. सो. नरसिंहाचार्यः.