सामग्री पर जाएँ

श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः (१))

विकिस्रोतः तः
               




   

श्रीमद्वाल्मीकिरामायणम्

श्रीमाधवयोगीयामृतकतकव्याख्यायुतम्

(प्रथमसंपुटः-बालकाण्डः)






प्राच्यविद्यासंशोधनालयः

मैसूरुविश्वविद्यानिलयः

मैसूरु

१९६०



श्रीमद्वाल्मीकिरामायणम्

श्रीमाधवयोगीयामृतकतकव्याख्यायुतम्

(प्रथम संपुटः-बालकाण्डः)

प्राच्यविद्या संशोधनालयः

मैसूरुविश्वविद्यानिलयः

मैसूरु

१९६०

ORIENTAL RESEARCH INSTITUTE, SANSKRIT SERIES 102

GENERAL EDITOR:
H. DEVEERAPPA, M.A.,
Director


SRIMADVĀLMIKIRĀMĀYAŅA
WITH
AMRTAKATAKA OF MADHAVAYOGI


(VOL. I-BĀLAKĀNDA)

EDITOR:
VIDWAN K. S. VARADACHARYA,
Research Assistant


ORIENTAL RESEARCH INSTITUTE
UNIVERSITY OF MYSORE
MYSORE

1960

ALL RIGHTS RESERVED


Price: Rs.5-50 nP.



MYSORE:
PRINTED BY THE DEPUTY DIRECTOR AT THE GOVT. BRANCH PRESS
1960

प्राच्यविद्यासंशोधनालयसंस्कृतग्रन्थमाला १०२

प्रधानसम्पादकः
हेच्. देवीरप्प, एम्.ए.,
डैरेक्टर्

श्रीमद्वाल्मीकिरामायणम्

श्रीमाधवयोगीयामृतकतकव्याख्यायुतम्
(प्रथमसंपुटः- बालकाण्डः)


सम्पादकः
विद्वान् के. एस्. वरदाचार्यः,
रिसर्च् असिस्टेण्ट्



प्राच्यविद्यासंशोधनालयः
मैसूरुविश्वविद्यानिलयः
मैसूरु
१९५९


आरक्षितास्सर्वेऽधिकाराः





मूल्यं सार्धरूप्यपञ्चकम्





मैसूरुराजकीयशाखामुद्रालये तदधिकारिभिः मुद्रितम्

PREFACE

IT is well known that there are several editions of the great epic, Vālmīki Rāmāyaṇa, with or without commentary. But an authoritative edition of this great work is under preparation in one of our sister Institutes, the Oriental Institute, Baroda.

 This Institute therefore, has undertaken to bring out a critical edition of the same with the Amrtakataka commentary of the Madhavayogi (about 1700 A.D.). 'Amṛtakataka' is brought to light for the first time.

 Vidwan Sri K. S. Varadacharya, one of the Research Assistants of our Institute, has edited the work ably. He has also discussed, in brief, the date of the commentator and the special features and importance of the commentary. I wish to state that it is also intended to give the critical introduction and appreciation of the same in a separate volume after the whole work is published. The second volume is under preparation.

 My thanks are due to the authorities of the Palace Saraswati Bhandara, Mysore and Oriental Manuscripts

(v)

Library, Madras, for lending their manuscript copies

of the work for collation. My thanks are also due to the Deputy Director of Printing and Stationery, Government Branch Press, Mysore, for getting the work printed in time and in an efficient manner.


DATE 3-4-1959
H. DEVEERAPPA,
 
MYSORE.
Director,
 
Oriental Research Institute.
 

प्रस्तावना

 'वाल्मीकेर्मुनिसिंहस्य कवितावनचारिणः ।
 शृण्वन् रामकथानादं को न याति परां गतिम्'

तथ्यमिदं वाक्यमक्षरशः । बहुभ्यः बहुधा श्रुतमपीदं रामायणं न हि कस्यापि सहृदयस्य रसिकस्य मनस्यलंभावमापादयति ।

 आदिकाव्यत्वेन प्रसिद्धमिदं श्रीमद्वाल्मीकिमहर्षिविरचितं रामायणं न केवलं कालापेक्षया आद्य, अपि च 'क्षणे क्षणे यन्नवतामुपैति तदेव रूपं रमणीयतायाः' इत्युक्तरामणीयकविशिष्टेषु काव्येषु आद्यं-रमणीयतममिति वचनं नूनं विदितवेदनमेव ।

 अत एव बहुशः प्रकाशितस्याप्यस्य रामायणस्य पुनरपि प्रकाशने वयमत्युत्सुका एव । तत्रापि परमिदमामोदस्थानं-यत्-एतावता कालेनाप्रकाशितेन अमृतकतकाख्यव्याख्यानेन समलङ्कृतमिदं इदानीं सहृदयेभ्य उपायनीक्रियत इति ।


'रामायण' पदनिर्वचनम्

 'रामायण' पदं च एवं व्याकुर्वन्ति[] महेश्वरतीर्थः-'रामः अयनं प्रतिपाद्यः यस्य तत् रामायणम्' गोविन्दराजः–'रामस्य अयनं-रामायणं- रामचरितमित्यर्थः ।

 रामः अय्यते प्राप्यते अनेनेति वा रामायणम् । रामः अयनं प्रतिपाद्यः यस्येति वा रामायणम्'

कतकः–'अयनं चरितं, रामस्यायनं रामायणम्। 'पूर्वपदात् संज्ञायां-'इति णत्वम्'


तिलकः–'रामः अयनं-प्रतिपाद्यः यस्य तत् रामायणम्'

शिरोमणिः–'रामायणं रामप्रतिपादकं, रामप्रापकं वा' ।
 परन्त्वेष्वर्थेषु रामचरितप्रतिपादकत्वात् 'रामायणम्' इत्यर्थः स्वादुतमः ।

एतद्ग्रन्थप्रधानप्रतिपाद्यविषये विप्रतिपत्तिः

 एवमस्य महाकाव्यस्य रामायणमित्याख्यया रामचरितमेव विषय इति स्पष्टत्वेऽपि विवदन्त एव मनीषिणः । एतत्काव्यविषय-प्रतिपादकश्लोकस्य दर्शने युक्त एव च विवादः । यथा-

 []'काव्यं रामायणं कृत्स्नं सीतायाश्चरितं महत् ।
 पौलस्त्यवधमित्येव चकार चरितव्रतः'

इति सोऽयं श्लोकः । अत्र रामचरितस्य, सीताचरितस्य पौलस्त्यवधस्य च विषयत्वे सामान्यतोऽभिहिते-

 गोविन्दराजः-ननु काव्यमिदं नारंभणीयम्; 'काव्यालापांश्च वर्जयेत्' इति निषेधादित्याशङ्क्याह-रामायणमिति । समस्तगुणसंपन्नरामविषयत्वान्नास्य निषिद्धत्वं, किन्तूपादेयत्वमेवेत्यर्थः । इदं च रामचरितप्रतिपादनमप्राधान्येन । प्राधान्येन तु सीताचरितमेव प्रतिपाद्यत इत्याह–कृत्स्नं सीतायाश्चरितमिति । कृत्स्नं रामायणं सीताचरितपरं । अत एवोक्तं श्रीगुणरत्नकोशे- 'श्रीमद्रामायणमपि परं प्राणिति त्वच्चरित्रे' (श्लो. 14) इति । आभाणकश्च-'प्रातर्द्यूतप्रसङ्गेन मध्याह्ने स्त्रीप्रसङ्गतः । रात्रौ चोरप्रसङ्गेन कालो गच्छति धीमताम्' इति[] अत एव 'कृपावानविकत्थनः' इत्याद्युक्तलक्षणधीरोदात्तरूपो रामः कुशलवाभ्यां रामायणं श्रुतवान् । रामायणस्य रामैकपरत्वे स्वेनैव सदसि श्रवणं न सङ्गच्छते। सीतापरत्वे तु सङ्गच्छते, विरहिणः कामिनीकथा-चरितश्रवणस्य स्वाभाव्यात् । एवं व्यञ्जनावृत्या सीतारामयोः प्रतिपादनमुक्ता शब्दवृत्त्या सिद्धमितिवृत्तमाह-पौलस्त्येति । पौलस्त्यवधस्य फलत्वात्तेन व्यपदेशः । .......इत्येवेत्यस्यायमर्थः-


पौलस्त्यवधव्याजेनाप्रधानरामचरितं, प्रधानसीताचरितं कृतवानिति । यच्चकार तद्गापयामासेति योजना । उत्तरश्लोके 'अगायताम्' इत्यनुवादात् ।

 कतकः–'सीताचरितप्रतिपादकमपि काव्यं कृत्स्नमपि पौलस्त्यवधमित्येव चकार । तथा च शिशुपालवधे माघकाव्यमितिवत् पौलस्त्यवधे 'रामायणम्' इत्येव काव्यस्य विशिष्य प्रतिप्राद्यांशः सर्गान्तेषु वक्तव्यः-इत्यावेदितम् । इदमेव चोतं प्रागपि-'दशशिरसश्च वधं निशामयध्वम्' इति' ।

 तिलकः-'रामस्य अयनं-चरितं, तत्प्रतिपादकं च महत् काव्यं पौलस्त्यवधमित्येवंनामकं चकार । यथा कृष्णचरितवर्णनरूपमाघकाव्यस्य शिशुपालवधमिति नाम' ।

 शिरोमणिः–'पौलस्त्यवधं-रावणवधप्रतिपादकं, रामायणं-रामचरितप्रतिपादकं, सीतायाश्चरितं-सीतासम्बन्धिचरितविशिष्टं अत एव महत्-सर्वश्रेष्ठं, अत एव च कृत्स्नं-संपूर्णम्......इति यत् काव्यं चकार तदेवाग्रहयतेत्यर्थः ।'

रामचरितस्यैव प्राधान्यं युक्तम्

 एवं व्याख्यातृषु विवदत्स्वपि इदमत्र द्रष्टव्यम् । अस्य काव्यस्य प्रसिद्धिः रामायणमिति । रामायणपदं च 'रामस्य अयनं' इति व्युत्पत्तिसिद्धम् । अत्र संज्ञायां णत्वविधानेन 'रामायण' पदस्य संज्ञात्वेऽपि यौगिकार्थः न परित्यक्तुं शक्यः; नारायणादिपदवत् । न हि इदं पदं डित्थादिपदवत् केवलरूढं, किन्तु योगरूढम् । एवञ्चास्य काव्यस्य रामचरितमेव विषय इति एतन्नाम्ना स्पष्टमवगम्यते ।

 अपि चात्रेमानि वाक्यान्यवधेयानि-

 'यः पठेद्रामचरितम्' (बाल-1-98)

 'रामस्य चरितं कृत्स्त्रम्' (बाल-2-32)

 'वृत्तं कथय वीरस्य' (बाल- 2-33)

 'कुरु रामकथां पुण्याम्' (बाल-2-36)
 'रघुवरचरितं मुनिप्रणीतम्' (बाल--2-43)
 'रघुवंशस्य चरितम्' (बाल-3-9)
 'प्राप्तराज्यस्य रामस्य चकार चरितं कृत्स्नम्'

( बाल-4-1 )
 

 'रामस्य ये चेमां संहिताम्' (युद्ध-131-124)
 'चरितं राघवस्य' (उत्तर-111-19) (उत्तर-111-23)
 'रघुनाथस्य चरितम्' (उत्तर-111-21)
 'चरितं तव' (उत्तर-94-27)
 'शुश्राव रामचरितम्' (उत्तर-74-14 & 16)

 इत्यादीनि । एवं स्वरसतः प्रतीतस्यार्थस्य बाधने किं नियामकं स्यात् ? 'कृत्स्नं सीतायाश्चरितं' इति वाक्यं, स्वप्रशंसापरकाव्यस्य रामेण श्रवणानुपपत्तिश्चेति तत्र निमामकं वक्तव्यम् ।

 परन्तु 'कृत्स्न' पदस्य पूर्वेणाप्यन्वयसंभवात् अन्यथा-सिद्धमिदम् ।

 'रामस्य चरितं कृत्स्नं कुरु त्वम्' (बाल-2-32)
 'रामस्य चकार चरितं कृत्स्नम्' (बाल-4-1 )
 'कृत्स्नं रामायणं काव्यम्' (बाल-2-41, उत्तर-93-4)

 इत्यादिषु कृत्स्नपदं काव्यविशेषणमेवेति प्रकृतेऽपि तथैव युक्तम् । कृत्स्नमिति क्रियाविशेणं वा । अन्यथा 'कृत्स्नं सीताचरितं' इत्यर्थो बाधितः स्यात् । 'कृत्स्नं रामचरितं' इत्यर्थे तु तत्पत्न्याः सीतायाः चरितस्य, फलस्य रावणवधस्य च रामचरितन्यग्भूतत्वेन न कश्चन बाधः ।

 'श्रीमद्रामायणमपि परं प्राणिति त्वच्चरित्रे[] इत्युक्तिरपि 'श्रियं त्वत्तोऽप्युच्चैर्वयमिह भणामः शृणुतराम्'[] इत्यादिवत् स्तोतव्यवस्तुन्यादरातिशयात् ।


'प्रातर्द्यूतप्रसङ्गेन' इत्यादिवचनमपि चमत्कारविशेषमात्रम्, अन्यथा भारतस्य द्यूतप्रधानत्वप्रसङ्गात् ।

 किञ्चात्र 'कृत्स्तं रामायणं सीताचरितपरम्' इति नेयं वाचो युक्तिः, तेषां पदानां द्वितीयान्तत्वात् । अन्यथा 'पौलस्त्यवधम्' इत्यनुपपन्नं स्यात्, वधशब्दो हि पुंलिङ्गान्तः ।

 अतः अत्रैवमन्वयः-एतत्सर्गारम्भ एव 'चकार चरितं कृत्स्नं' इति रामायणरचनमभिहितम्, अतः पुनरत्र 'रामायणं चकार' इति कथनस्य न प्रसक्तिः । प्रथममुक्तस्य विवरणरूपमिदमिति कथने, तर्हि तदनन्तरमेवायं श्लोकः स्यात् । न तु एतावद्य्ववधानेन । 1-2 श्लोकाभ्यां रामायणरचनमुक्तम् । 3 श्लोकेन रामायणप्रयोगाधिकार्यन्वेषणमभिहितम् । 4 श्लोकेन कुशलवागमनं 5 श्लोकेन कुशलवयोः प्रयोगार्हत्वेन वाल्मीकिदर्शनं, 6 श्लोकेन तेभ्यो रामायणप्रदानं चाभिहितम् । 8-9 श्लोकाभ्यां कुशलवाभ्यां रामयणगानमुक्तम् । एतादृशक्रममध्ये, तृतीयश्लोक एव 'कृत्वाऽपि तत्' इति रामायणरचनस्य वृत्तत्वेनानुवादे स्पष्टे सति च 7 श्लोकेन पुनरपि 'रामायणं चकार' इति कथनं कथं घटताम् । ' इत्येवं ' इत्यस्य स्वरसतोऽन्वयो न भवत्येव । 'इत्येव' इति पाठेऽपि तथैव ।

 किञ्च, 'तावग्राहयत' इत्यत्र 'तौ अपाठयत' इति स्वरसतो निर्वाहसंभवे स्वार्थणिजाश्रयणमयुक्तम् । अग्राहयत' इति च द्विकर्मकः । 'तौ' इत्येकं कर्माभिहितम् । किं अपाठयत् ? इति द्वितीयकर्मप्रश्ने तदुत्तरसमर्पकत्वमेवानन्तरश्लोकस्य युक्तम् । एवमेव शिरोमणिना व्याख्यातम् । परन्तु शिरोमणिव्याख्यानेऽपि क्लेशो वर्तत एव । 'इति यत् काव्यं चकार 'इत्यन्वये, इतिशब्देन व्यवधानात् । पौलस्त्यवधादिशब्दानां द्वितीयान्तत्वं च न स्यात् । 'चकारेति यत् तदेवाग्रहयत' इति त्वनन्वितम् ' यच्छब्दो हि तदा धात्वर्थकर्मवाची, तस्य पाठनं न संभवत्येव । यत्तच्छब्दाध्याहारश्च ।

 अतः एवमन्वयो युक्तः-'तावग्राहयत' इत्यस्यैव द्वितीय कर्मसमर्पकं 'पौलस्त्यवधं' इति पर्यन्तम् । 'इत्येवं चकार चरितव्रतः' इति भिन्नं वाक्यं पूर्वोक्तरामायणरचन-कुशलवपरिग्रहण-रामायणपाठनरूपाणां कर्मणां सामान्यत उपसंहारार्थं प्रवृत्तम् । एवञ्च-प्रभुः-वाल्मीकिः तौ-कुशलवौ सीताचरितप्रतिपादकं रावणवधप्रतिपादकं, रामचरितपरं रामायणसंज्ञकं कृत्स्नमपि महत् काव्यमग्रहायत-अपाठयत । कृत्स्नमिति क्रियाविशेषणं इत्येवं स्वकर्तव्यं सर्वे कृत्वा वाल्मीकिः कृतकृत्योऽभूत् इति 'इत्येवं चकार चरितव्रतः' इत्यनेनोच्यते । इत्येवेति पाठेऽपि अर्थस्तुल्य एव । एवं वाल्मीकिकृत्योपसंहारकथनानन्तरं शिष्य कर्तव्यमनन्तरश्लोकैः 'पाठ्ये गेये च मधुरं मधुरं तावगायताम्' इत्यादिभिरुच्यते ।
 एवञ्च न कोऽपि दोषः प्रसज्यते ।
 तथाच पूर्वोदाहृतैर्बहुभिर्वचनैः रामचरितस्यैव प्राधान्यप्रतीतौ नायं श्लोको बाधक इति रामचरितमेव प्रधानविषयोऽस्य काव्यस्येति युक्तम् ।

 अविकत्थनो रामः स्वप्रशंसापरं काव्यं कथं सदसि शुश्राव ? कथं वा स्वचरितपरं काव्यं स्वयमेव 'महानुभावं चरितं निबोधत'[] इति प्रशशंस ?
 अत्रेमानि व्याख्यानानि-
 कतकः-'परिषदि स्वप्रशंसार्थकत्वेन महापुरुषत्वात् लज्जया शनैश्शनैः प्रवृत्तिरिति द्योत्यते[] शनैरिति पदेन ।'
 तिलकः–'अस्य श्लोकस्य लक्ष्मणादीनामेदच्छ्रवणप्रवर्तकार्थत्वेन-न दोषः' ।
 शिरोमणिः–' एतेन आत्मयशो न श्राव्यमित्याशङ्क्य सीताचरितत्वात् रघुनाथेन श्रुतमिति-शङ्कासमाधानमापाततो रमणीयम् । आत्मयशो न श्राव्यमित्यादिनिषेधानां गर्वनिवारणतात्पर्यकाणां संभावितगर्ववत्प्राकृतजनपरत्वेन अत्र निषेधशङ्कानवसरत्वात् । सीताचरितपरत्वेन समाधानमप्ययुक्तम्, तच्चरितस्य रामचरितानतिरेकेण शङ्कायास्तादवस्थ्यात् । .......अत एव


 'काव्यं रामायणं कृत्स्नं' इत्यादौ काव्यं रामायणत्वेन विशेषितम् । 'सीतायाश्चरितं महत्' इति सीताचरितस्य महत्वोक्तथा सीताचरितस्य प्राधान्यमिति तु न भ्रमितव्यम्; तत्रत्य महच्छब्दः काव्यान्वयीति तत्रैव निर्णीतत्वात्' ।

 अत्र कतकोक्तं शिरोमण्युक्तं च समाधानं हृदयङ्गममेव ।

 वस्तुतस्तु–'आत्मप्रशंसा त्याज्या' इत्यादौ स्वेन स्वस्य प्रशंसनस्यैव हेयत्वमुच्यते । तदेव 'विकत्थनत्वम्' । 'प्रत्यक्षे गुरवः स्तुत्याः' इत्यादिवचनं सङ्गच्छते। स्वप्रशंसाश्रवणं तु कवीनामाश्रयदातू राज्ञो नैव स्वबिरुदादीन खलु स्वपुरतो घोषयन्ति राजानः । तस्य-प्रजानां स्वस्मिन् अनुरागस्य विश्वासस्य चाधानमित्याद्यन्य-देतत् । सहस्रनामसु भगवतो हि 'स्तवप्रियः' इति नाम पठ्यते ।

 किञ्च आत्मचरितश्रवणं, आत्मप्रशंसनं च विलक्षणमेव । महात्मानोऽपि स्वचरितं स्वयं लिखन्ति इदानीं; न हि ते स्व-प्रशंसकाः । अतः चरितमन्यत्, प्रशंसा चान्यैवेति ।

 एवञ्चास्य महाकाव्यस्य रामचरितप्राधान्ये न किञ्चिद्वाधकम् ।आदरविशेषवशाच्च सीताचरितप्राधान्यवचनं महतां केषाञ्चिदिति भावयामः ।[]

 गोविन्दराजार्या अपि द्वितीयसर्गव्याख्यायां[] 'प्रबन्ध-नायकस्य रामस्य नायकगुणा दर्शिताः, नायकगुणवर्णनेन हि काव्यं प्रथते' इति वदन्तः हार्द भावमावेदयन्ति ।

शृण्वन् रामकथानादम् !

 'शृण्वन् रामकथाकाव्यं को न याति परां गतिं' इति न श्रूयते, किन्तु 'रामकथानादम्' इति । अतः प्रस्तावनारंभे 'तथ्यमिदं वाक्यमक्षरशः' इत्युक्तमस्माभिः । तथा हि-

 अस्य आद्यकाव्यत्वेन प्रसिद्धया इदं रामायणं इतरलौकिक-काव्यवर्गेष्वेवान्तर्भवतीति वक्तव्यम् । परन्तु आर्षकाव्यं स्यान्नाम । आर्षत्वं तद्वैशिष्ट्यहेतुः स्यात् कामम् !


 काव्यं हि द्विविधं-दृश्यं श्रव्यं च । श्रव्यमपि पद्य-गद्य-चम्पूभेदेन भिन्नम् । तत्र पद्यकाव्यस्य लक्षणं तु [१०]'सर्गबन्धो महाकाव्यमुच्यते तस्य लक्षणम्' इत्यारभ्योक्तं प्रसिद्धमेव ।

 परन्त्ववेदं विमर्शनीयम्-लक्ष्यानुगुणमेव लक्षणं निरुच्यते लाक्षणिकैः । तत्र पूर्वोक्तरीत्या लक्षणं निर्वचन्तः लाक्षणिकाः किमिति प्रथमलक्ष्यभूतरामायणगतं वैशिष्ट्यं उपेक्षितवन्तः ? इति न जानीमः ।

 अत्रेमे श्लोकखण्डाः अवधानार्हाः-

  'सर्वश्रुतिमनोहरम्' (बाल-4-22)
  'पाठ्ये गेये च मधुरम्' (बाल-4-8)
  'काव्यमेतद्गायताम्' (बाल-4-9)
  'अगायतां मार्गविधानसंपदा' (बाल-4-39)
  'जगतुस्तौ समाहितौ' (बाल - 4 - 18 )
  'इदं काव्यमगायताम्' (बाल-4-14)
  मधुरं तावगायताम् (बाल-4-19)
  'विश्रुतार्थमगायताम्' (वाल - 4-28)
  'श्रोत्राश्रयसुखं गेयम्' (बाल-4-29)
  'रामायणं काव्यं गायेथाम्' (उत्तर-93-5)
  'आस्वाद्यास्वाद्य गायताम्' (उत्तर-93-8)
  'ततो गेयं प्रवर्तताम्' (उत्तर-93-10)
  'गेया मधुरया गिरा' (उत्तर-93-11)
  'सुमधुरं गायेथाम्' (उत्तर -93-14)
  ;आदिप्रभृति गेयम्' (उत्तर-93-15)
  'गायेथां मधुरं गेयम्' (उत्तर-93-16)
  'सर्वं तत्रोपगायताम्' (उत्तर-94-1)
  'गेयेन समलङ्कृतम्' (उत्तर-93-2) इत्यादयः ।}}


 एतेन इदं काव्यं न केवलं पठ्यकाव्यं, अपि तु गेयकाव्यमपीति । यद्यपि श्रव्यकाव्येषु पठ्यगेयविभागाकरणात् सर्वेषामपि श्रव्यकाव्यानां पठ्यत्वं गेयत्वं च वर्तत एवेति समर्थयितुं शक्यम्, अथापि काव्यलक्षणवाक्यपर्यालोडने-आलङ्कारिकाणां काव्यार्थविषये-ध्वन्यलङ्कारवर्णनादि विषये-यावान् आदरः न तावान् तस्य सुश्राव्यत्वविषय इति प्रतिभाति । यत्र कुत्र चिदुच्यमानं सुश्राव्यत्वमपि शब्दसौष्टवादतिरिक्तं गानार्हत्वं न निर्बन्धयति । अयमर्थ इदानीन्तनानामस्माकमनुभवपथ एव वर्तत इति नाधिकं वक्तव्यम् ।

 लोके हि सामान्यतः सङ्गीतसाहित्ययोः निर्दुष्टयोर्मेलनं क्वाचित्कमेव । अतः आगच्छता कालेन गम्भीरेषु विषयेष्ववगाहने-च्छूनां तर्कपूर्वकचर्चाप्रवणमतीनां आलङ्कारिकाणां 'सर्वमपि काव्यं गानार्हं भवेत्' इति मनीषा प्रायः गलितेव प्रतिभाति । रामायणे परमयं विशेषः-इदं न केवलं पठ्यकाव्यं, किन्तु गेयकाव्यमपीति ।

रामायणप्रयोगाधिकारी ?

 रामायणं विरच्य भगवान् वाल्मीकिः तस्य प्रचाराय समुचितमधिकारिणं चिन्तयन्नासीत् । तदा द्वौ कुमारौ समुपस्थितौ तच्चिन्ताशमनायेव । महर्षिश्च तावेव रामायणप्रचाराय समुचिता- बधिकारिणाविति तौ तदर्थं पर्यग्रहीत् ।

कुशीलवौ !

 कौ तौ ? न कुशलवौ, अपि तु कुशीलवौ । तथाह्युक्तम्-

 'कृत्वा तु तन्महाप्राज्ञः सभविष्यं सहोत्तरम् ।
 चिन्तयामास को न्वेतत् प्रयुञ्जीयादिति प्रभुः ॥
 तस्य चिन्तयमानस्य महर्षेर्भावितात्मनः ।
 अगृह्णीतां ततः पादौ मुनिवेषौ कुशीलवौ ॥
 कुशीलवौ तु धर्मज्ञौ राजपुत्रौ यशस्विनौ ।
 भ्रातरौ स्वरसंपन्नौ ददर्शाश्रमवासिनौ ।

 स तु मेधाविनौ दृष्ट्वा वेदेषु परिनिष्ठितौ ।
 वेदोपबृंहणार्थाय तावग्राहयत प्रभुः ॥' इति ॥

( बाल. - 4, 3-6)
 

 भगवान् वाल्मीकिः स्वाधीनसर्वशब्दः 'कुशलवौ' इति वक्तव्ये किमिति 'कुशीलवौ' इति तौ तत्र तत्र निर्दिशति ? रामायणगानानुगुणसंगीतज्ञानस्वरसंपत्त्यादिकं तयोरासीदितीममर्थं प्राधान्येन सूचयितुमेव तथा प्रायुङ्केति मन्यामहे ।

 एवञ्च एतादृशाधिकारिण एव भगवता स्वकृतरामायणप्रचारणाय ग्रहणात् नूनं महर्षिर्वाल्मीकिः स्वकृतेः पठ्यकाव्यत्वापेक्षया गेयकाव्यत्वमेव बहुमन्यत इति वयं विभावयामः ।

महर्षिर्वाल्मीकिः

 रामायणविषये, तत्कर्तुः महर्षेः वाल्मीकेः कालादिविषये च पराक्रान्तं सूरिभिः । एतद्विषये वक्तव्यं सर्वे पश्चाद्विचारयामः । महाभारतकोशवत् रामायणकोशमपि विस्तृतं रामायणगतसर्व-विशेषार्थसङ्ग्राहकं प्रकटीचिकीर्षवो वयम् । अतस्तद्विषये इदानीं नाधिकं प्रस्तूयते ।

श्रीमाधवयोगिनः

 अमृतकतकव्याख्यातुः अपरिचितत्वेन तस्य परिचयमात्रं इदानीं क्रियते । अधिकं तु परस्तात् ।

 अस्य व्याख्यानस्य कर्ता च 'माधवयोगी' इति तत्तत्काण्ड-व्याख्याया अन्तिमवाक्यादवगम्यते । सुगृहीतनामधेयः सायणमाधवो वा अयं ? उतान्यः ? इति विचारणायां द्वितीय एव पक्षः प्रतिष्ठितो भवति ।

कतकव्याख्यानोद्देशः

 स्वव्याख्याया उद्देशमेवमेते प्रकटयन्ति व्याख्यारम्भे-

  'असङ्गतव्याकृतिपांसुपङ्किलं
  रामायणं तीर्थसमुद्धृतामृतम् ।
  योगीन्द्रवाणीकतकाद्विपङ्किलं
  सर्वोपकारक्षममस्तु सर्वदा ॥' इति ।

 अत्र प्रथमपादेन प्रायः गोविन्दराजव्याख्यां, द्वितीयपादेन महेश्वरतीर्थव्याख्यां चैते कटाक्षयन्तीति प्रतिभाति । यतः उत्तरत्र बहुषु स्थलेषु प्राय इमे एव व्याख्याने एते खण्डयन्ति ।

माधवयोगिनां कालः

 गोविन्दराजैः महेश्वरतीर्थनाम्नः उल्लेखात् [११]महेश्वरतीर्थेभ्यः अर्वाचीनाः गोविन्दराजा इति स्पष्टमवगम्यते । स्वीयव्याख्या-रम्भे नारायणतीर्थान् नमस्कुर्वन्ति [१२]महेश्वरतीर्थाः । महेश्वरतीर्थाः नारायणतीर्थानां [१३]पुत्रा इति, शिष्या इति च विवादः । 'देशिकान्' इति पदप्रयोगात् शिष्या एत इति स्वरसम् । उभयथाऽपि नारायणतीर्थकालनिर्णये महेश्वरतीर्थानामपि कालः निर्णीयेत । नारायणतीर्थैः मधुसूधन सरस्वतीविरचित सिद्धान्त-विन्दोः व्याख्या कृतेति [१४]ज्ञायते । अपि च नारायणतीर्थाः स्वीय-भक्तिचन्द्रिकाग्रन्थे मधुसूदनसरस्वतीः उल्लिखन्ति च । एतेन ज्ञायते-प्रथमं मधुसूदनसरस्वत्यः, ततः नारायणतीर्थाः, ततः महेश्वरतीर्थाः, ततः गोविन्दराजाः, ततो माधवयोगिनः इति क्रमः इति । मधुसूधनसरस्वतीनां कालश्च [१५]कैस्त 1540 – 1623–इति ज्ञायते । एवञ्च नारायणतीर्थाः क्रैस्त-षोडशशतकान्तिमभागे


सप्तदशशतकारम्भे वा स्युः । तच्छिष्याः महेश्वरतीर्थाश्च सप्तदशशतकपूर्वभागे स्युः । [१६]-इति कतककृतां माधवयोगिनां कालः-तदनन्तरमेवेति निश्चीयते ।

 एवं पूर्वावधौ निश्चिते उत्तरावधिं एवं निश्चिनुमः । तिलकनाम्नः रामायणव्याख्यानस्य कर्ता 'रामः' स्वव्याख्यायां कतकं बहुश उद्धरति । विशिष्य युद्धकाण्डान्ते एवं वदति ।

 'निर्मलं कतकक्षोदादपि रामायणार्णवम् ।
 अत्यन्तं निर्मलं चक्रे रामः स्वमतिवाससा ॥' इति ।

 उत्तरकाण्डान्ते-अयमेव श्लोकः-'रामायणार्णवम्' इति-स्थाने-'रामायणाम्बुधिम्' इति किञ्चिद्यत्यस्तो दृश्यते ।

 अयं च तिलककर्ता 'रामः' कः ? इति संशये नागेशभट्टस्यैव 'रामः' इति नामान्तरमिति केचिदभिप्रयन्ति । कुत्रचित् तालपत्रेषु अन्ते तथा निर्देशोऽपि दृश्यते । शिरोमणिव्याख्याकर्ताऽपि तिलकसम्मतं पाठं निर्दिशन्[१७] 'इति भट्टपाठ इति बहुश-उल्लिखति । तत्र-नागेशभट्ट एव भट्टपदाभिधेय इति भाति । परन्तु तिलकव्याख्यातुर्न तथोक्तिं पश्यामः । 'रामाभिरामे श्रीरामीये' इत्येव सर्वत्र दृश्यते । पूर्वोक्तश्लोकेऽपि 'रामः' इत्येव स्वनामानं निर्दिष्टवान् सः ।

 नागेशभट्टस्यैव उत्तराश्रमे 'रामतीर्थः' इति नाम स्यादिति केचिदभिप्रयन्ति । परन्तु तीर्थोपपदं तु तस्य नाम न कुत्रापि पश्यामः ।


 एवं स्थिते तिलकस्य नागेशविरचितत्वेन व्यवहारे इदमेव मूलं स्यात् ।

 तिलकव्याख्यायां-युद्धकाण्डान्ते 'निर्मलं कतकक्षोदात्' इत्यादिश्लोकसमनन्तरं अयं श्लोको दृश्यते-

 'भट्टनागेशपूज्येन सेतुः श्रीरामवर्मणा ।
 कृतः सर्वोपकृतये श्रीमद्रामायणाम्बुधौ ॥'

इति । अत्र नागेशभट्टनामदर्शनात् तिलकस्य नागेशभट्टविरचितत्वेन कैश्चिल्लिपिकारैः मातृकासु निर्देशः कृतः, एवं मातृकादर्शनतः रामवर्मैव रामतीर्थः कृतः इति च प्रतिभाति ।[१८]


 यथा तथा वा भवतु । तिलकव्याख्यायाः नागेशभट्टकालिकत्वं तु निर्विवादम् । नागेशभट्टकालश्च क्रि-श-1730-1810 इत्यभिप्रयन्ति ।[१९]

 एवञ्च क्रैस्तषोडशतशतकान्तिमभागस्थनारायणतीर्थशिष्यानां महेश्वरतीर्थानां, महेश्वरतीर्थानन्तरकालिकानां क्रैस्तसप्तदशशतकोत्तरभागे स्थितानां गोविन्दराजानां च कतकव्याख्यायां उल्लेखदर्शनात्, 1730-1810 कालिके तिलके कतकोल्लेखनाच्च कैस्तशक- स्य सप्तदशशतकोत्तरभागादारभ्याष्टादशे पूर्वभागपर्यन्तः (माकिं 1675-1750) माधवयोगिनां काल इति भावयामः ।[२०]

 एतावता प्रबन्धेन एते माधवयोगिनः [२१]सायणमाधवादन्या इति स्पष्टम् ।


पलब्धम्-रामवर्मणा कृतमध्यात्मरामायणस्य एकं व्याख्यानं उपलभ्यते । तदारंभे इमे श्लोका दृश्यन्ते-

 शृङ्गबेरपुरेशेन रिपुकक्षवाग्निना ।
 अर्थिनां कल्पवृक्षेण विद्वजनसभासदा ॥
 भट्टनागेशशिष्येण बध्यते रामवर्मणा ।
 सेतुः परोपकृतयेऽध्यात्मरामायणाम्बुधौ ॥

इति । शब्देन्दुशेखरारंभे, रामायणतिलकव्याख्यायां च उपलभ्यमानान् लोकान् उपरितनश्लोकांश्च परामृशतां अर्थनिर्णयः अतिसुलभ एव । एवं 'भट्टनागेशपूज्येन' इत्यत्र 'भट्टनागेशशिष्येण' इत्येतदनुसारात् बहुव्रीहिरेवेति च न पृथग्वक्तव्यम् ॥

माधवयोगिनां देशः

 अयं च माधवयोगी दाक्षिणात्यः द्राविड इत्यवगम्यते । तथा हि मङ्गलश्लोके-

 'कालहस्तीशमेकाम्रनाथं वेदगिरीश्वरम् ।
 स्वमनःप्राणदेहान्तस्थितांस्त्रीन् ब्रह्मणो भजे ॥'

इति कालहस्तिनाथं, काञ्चयां विद्यमानं एकाम्रनाथं, तिरुक्कलु कुन्रम् (xxxxxxxxxx) इति प्रसिद्धक्षेत्रे विद्यमानं वेदगिरीश्वरं च स्तौत्ययम् । इदं च क्षेत्रत्रयं मद्रास् नगरप्रान्त एव वर्तते । अतोऽयं तत्प्रान्तीय एव स्यात् ।

 किञ्च व्याख्यायां मध्ये मध्ये वृक्षाद्यसाधारणनाम्नां द्राविडभाषया विवरणं दृश्यते [२२] सर्वास्वपि मातृकासु दर्शनात् नेदं लेखकानामेवेति संशेतुं शक्यम् । द्राविडपदस्य परित्यागे 'सारसः (288 फुटे) इत्यादिव्याख्येयपदग्रहणमेव व्यर्थमापद्येत; पर्याय-संस्कृतपदादर्शनात् ।

 किञ्च 'पिपासा' इत्यस्मिन्नर्थे 'दाह' पदं प्रयुङ्क्तेऽयम्[२३] । पिपासाया दाहशब्देन व्यवहारः द्राविडभाषायामेव दृश्यते ।

 अपि च 'विवाहः' इत्यस्मिन्नर्थे 'कल्याण' पदं प्रयुङ्क्तेऽयम् । [२४]अयमपि व्यवहारः द्राविडभाषायामेव ।

 किं बहुना ! अयोध्याकाण्डे सप्ततितमसर्गे 'रथान् मण्डलचक्रान्' इति श्लोके-मण्डलाकारतया रथप्रवर्तनसाधनं चक्रं-मण्डलचक्रम्-चतुर्दिक्चक्रमध्यस्थं; यथाऽस्माभिः काञ्चयादावनु-भूयते' इति व्याकुर्वन्तो माधवयोगिनः काञ्चीप्रान्तीया इति सुस्पष्टमवगच्छामः ।


 इमे च माधवयोगिनः किंसिद्धान्तावलम्बिन इति विचारयामः-

 बालकाण्डव्याख्यायामन्ते सर्वास्वपि मातृकासु अयं श्लोकः परिदृश्यते ।

 यः सर्वोपनिषद्व्याख्यामङ्गलाभरणं व्यधात् ।
 ब्रह्मजिज्ञासतां, तस्मै नमो माधवयोगिने' ॥

इति । अयं श्लोकः मातृकालेखकैः तच्छिष्यैः लिखितः स्यात् ।

 उपनिषन्मङ्गलाभरणनामकः कश्चन ग्रन्थः अमुद्रित उपलभ्यते । प्रसिद्धैरुपनिषद्व्याख्यातृभिः अव्याख्याता बह्वय उपनिषदः तत्र व्याख्याता वर्तन्ते । ग्रन्थकारनामादिकं तु न पश्यामः । अथवा विषयदृष्ट्या, शैलीपरिशीलनेन, पूर्वोदाहृतश्लोकवलेन, तत्रापि 'सर्वोपनिषद्व्याख्या' पदावलोकनेन च एभिरेव माधवयोगिभिर्विरचितं तदिति स्पष्टं वक्तुं शक्यते । विस्तरस्तु परस्तात् ।

 इमे च न विवर्ताद्वैतिनः[२५]; केषांचिदभिप्रायवत् नापि विशिष्टाद्वैतिनः[२६] । किन्तु परिणामाद्वैतिनः इति रामायणव्याख्यायाः, उपनिषन्मङ्गलाभरणस्य च दर्शनेन स्पष्टमवगम्यते ।

 परिणामाद्वैतिनौ च द्वौ, भास्करः, यादवप्रकाशश्च । नेमे भास्करपक्षानुसारिणः, यतः उपनिषन्मङ्गलाभरणे परमहंसस्य सन्यासिनः त्रिदण्डादीनामपि परित्यागः एभिः कथितः । भास्करस्य तु त्रिदण्डित्वेनैव प्रसिद्धिः ।


 एवं तत्त्वनिरूपणप्रक्रियाऽपि भास्करसिद्धान्तापेक्षया विलक्षणा दृश्यते । अतोऽयमन्ततः यादवप्रकाशमतानुसारीति वक्तव्यम् । यादवप्रकाशमतीयग्रन्थस्य कस्याप्यनुपलंभेन एतदपि न निर्धारयितुं शक्यम् ।

 अथ वा अन्यमेव ब्रह्मपरिणामवादं इमे माधवयोगिनः स्वातन्त्र्येण स्थापयन्ति वेत्यपि उत्प्रेक्षितुमवकाशो वर्तते; यत एभिः उपनिषदो व्याख्याताः, [२७]आकरग्रन्थोल्लेखश्च तत्र तत्र दृश्यते ।

 सर्वथा तु एते व्याख्यातारः वैदुष्ये, निष्पक्षपातित्वे च गणनार्हा एवेति व्याख्याद्रष्टृणां स्वयं भासेत ।

 एते व्याकरणशस्त्रे, वेदान्ते च केवलं न निष्णाताः; अपि तु तन्त्रमन्त्रशस्त्रे, योगशास्त्रे, रसशास्त्रे चात्यन्तं परिश्रमशालिन इति एतद्व्याख्याद्रष्टृभिः स्पष्टमवगम्येत ।

एतद्व्याख्यानस्य शैली, वैशिष्ट्यं च

 एतद्व्याख्यानस्य शैली तु किञ्चिद्विचित्रैव दृश्यते । तत्रापि वेदान्त-मन्त्रतन्त्ररसवादादिप्रक्रियानिरूपणावसरे अत्यन्त विचित्रैव दृश्यते ।

 ग्रन्थेषु श्लोकप्रक्षेपादिकं कथं भवतीत्यमुमंशं एते स्पष्टं विशदयन्ति । यथा 78 पुटे–'प्राचीनेन केनचित् सर्गश्लोक-संख्या गणन स्मार्तश्रोत्रियश्लोकवत् स्वमतिसौकर्यसिद्धये रथूलदृशा संख्यापरिज्ञानाय कृतोऽयं श्लोको ग्रन्थसमीपे च लिखितः । तत्तु मूलग्रन्थान्तर्गतमिति भ्रान्त्या स्वेषामपि सामान्यतः संख्यापरिज्ञानमस्त्विति प्राचीनैरपि ग्रन्थान्तः परिक्षिप्तः । सर्वथाऽयं श्लोकः प्रक्षिप्त एव । अस्य व्याख्याने प्रत्यक्षस्वप्नदर्शन- निमित्तवैषम्यतश्च वयं प्रक्षिप्तत्वं निरचैषिष्म' इति ।


 एवं सर्गसंख्यायां न्यूनाधिकभावे हेतुरप्युच्यते । यथा (437 पुटे) 'एवमादावस्थले सर्गोच्छेदात् [२८]ऋष्युपदिष्टसर्गसंख्यातोऽप्यधिकदर्शनम्' इति ।

 एवं स्वस्य सूक्ष्मदर्शनसामर्थ्यबलाद्वा, प्रमाणान्तरबलाद्वा एते माधवयोगिनः प्रतिसर्गं लोकसंख्यां निष्कृष्य निर्दिशन्तीतीदं वैशिष्ट्यमप्यस्य व्याख्यानस्य । वदन्ति च तथा (78 पुटे) 'वयं तु श्लोकान् प्रतिसर्गं संगणय्य संकलय्य पश्चान्महासंख्यां परिच्छेत्स्यामः' इति । एतत्प्रतिज्ञानुरोधेन तथा प्रतिसर्गं कटपयादिसंख्यया श्लोकसंख्यां निर्दिशन्ति च । क्वचित्सर्गे लेखकप्रमादाद्वा अन्यस्माद्वा कारणात् श्लोकसंख्या न दृश्यते ।[२९]

 प्रतिदशसर्गं आहत्य श्लोकसंख्या च दशमसर्गान्ते विंशसर्गान्ते च निर्दिष्टा । तदुपरि तु न दृश्यते । स एषः कस्य वा प्रमादः? इति न जानीमः ।

 बालकाण्डान्ते तु-

 'बालकाण्डे तु सर्गाणां कथिता सप्तसप्ततिः ।
 श्लोकानां द्वे सहस्रे च साशीतिशतकद्वयम् ॥

इत्याहत्य सर्गश्लोकसंख्या निर्दिष्टा । परन्तु तत्र प्रतिसर्गमुक्तसंख्यासंकलने एतछ्लोकोक्तसंख्यातो न्यूनाधिकभावो दृश्यते । तत्र कतरत् प्रामादिकमित्यादिविचारः नातिप्रयोजनक इति इदानीमुपेक्षितम् ।

 प्रतिसर्गमुक्तायां संख्यायां विरोधप्रतीत्यादिकं तु तत्र तत्रैव[३०] टिप्पण्यां परिशीलितम् । श्लोकसर्गकाण्डादिविषये बह्वयो वि-प्रतिपत्तयो वर्तन्ते । बालकाण्डः सर्वोऽपि प्रक्षिप्त इति, उत्तर-


'काण्डोऽपि प्रक्षिप्त एवेति, काण्डत्रयमेव वाल्मीकिकृतमितीत्येव-मादयो बहवो वादाः प्रचरन्ति । एतत्सर्वमपि पश्चाद्विस्तरेण विचारयामः ।

एतद्ग्रन्थसम्पादनक्रमः

 एतद्ग्रन्थसंपादने उपयोजिता मातृकाः-

 1.अमृतकतकव्याख्याकोशाः-

 (i) एतत्पुस्तकभण्डारगतं 2604 अङ्कितं तालपत्रात्मकं ग्रन्थलिप्यां लिखितं 'क' संज्ञितम् ।
 (ii) श्रीमन्महाराजास्थानीय सरस्वती भण्डारगतं 487 अङ्कितं तालपत्रात्मकं आन्ध्रलिप्यां लिखितं 'ख' संज्ञितम् ।
 (iii) उपरिनिर्दिष्टभण्डारगतं 746 अङ्कितं तालपत्रात्मकं ग्रन्थलिप्यां लिखितं 'ग' संज्ञितम् ।
 (iv) मद्रास् नगरीय प्राच्यग्रन्थकोशागारगतं R.3754 अङ्कितं कागदपत्रात्मकं ग्रन्थलिप्यां लिखितं 'घ' संज्ञितम् ।

 2. मूलपाठशोधनायोपयोजिता ग्रन्थाः-

 (i) कुंभघोणस्थमध्वविलासपुस्तकालयप्रकाशितं 'ङ' संज्ञितम् ।
 (ii) 'निर्णय सागर' मुद्रणालयप्रकाशितं तिलकव्याख्या-युतं 'च' संज्ञितम् ।
 (iii) मद्रास्नगरे सरस्वतीनिलयमुद्रितं सव्याख्यं प्राचीनं 'छ' संज्ञितम् ।
 (iv) 'गुजराती' मुद्रणालयप्रकाशितं व्याख्याचतुष्टययुक्तं 'ज' संज्ञितम् ।
 (v) मदरास् 'ला जनरल्' मुद्रणालयप्रकाशितं मूल-मात्रं 'झ' संज्ञितम् ।

 एवं आहत्य ग्रन्थनवकं प्राधान्येनोयोपजितम् । एतदुपर्यपि संशयादिवारणाय एतत्कोशागारस्थाः बहवः कोशाः आवश्यक भागे परिशीलिताः । मूलपाठविषये-व्याख्यानुरोधी पाठ एव मूले निवेशितः । पाठान्तरेषु च समीचीनान्येव निर्दिष्टानि, न

सर्वाणि ।  शिरोलेख (Heading) विषये नूतनः क्रमः अनुसृतः । प्रतिसर्गं अनुगतो विषयः वामभागे समसंख्याकपुटे निर्दिष्टः । सर्गावान्तरविषयस्तु दक्षिणभागे विषमसंख्याकपुटे निर्दिष्टः । तत्रापियावत्संभवं तत्तत्पुटानुगुणः कथाभागः यथा अनुस्यूतः स्यात् तथा श्लोकरूपेणैव शिरोलेखने निर्दिष्टः । एवं सति च तादृशश्लोकानामेकत्र मेलने रामायणकथा संग्रहेण ज्ञायेत । विषयसूची-दर्शनेनायमर्थः स्पष्टः स्यात् ।

 चतुर्थसर्गपर्यन्तभागस्योपोद्धातरूपत्वेन तत्पर्यन्तं उपरि-निर्दिष्टक्रमेण श्लोकैर्न शिरोलेखो निवेशितः, किन्तु वाक्यैरेव ।

 टिप्पणीलेखनसमये कारणान्तरवशात् येषां मुख्यानां श्लोकानां टिप्पण्यो न संयोजिताः, तत्र वक्तव्यं विषयानुक्रमणिकाया अनन्तरं संयोजितम् ।

 सन्ति विचारणीया बहवो विषयाः, परन्तु रामायणकोश-समुपाहरणस्मरणमस्मल्लेखनीप्रसरमिदानीं निरुणद्धीति विज्ञापयामः ।

 अन्तत इदमवश्यनिवेदनीयम् -

 अस्मत्सहोद्योगिनः एतत्संशोधनालयपण्डिताः सर्वथोत्तमर्णा एव मम, येषां हार्देन सहकारेणैव एतद्ग्रन्थसंपादनं यथाशक्ति सुसुखं निर्वर्तितमिति ।

मैसूरु,
नव्यमङ्गलभिजनः,
 
28-11-1958
वरदाचार्यः
 

श्रीमद्वाल्मीकिरामायणबालकाण्डस्य

विषयानुक्रमणिका


सर्गसङ्ख्या  विषयः     पुटसङ्ख्या
 सङ्क्षेपरामायणम्  ....    .... १
 रामायणरचनाऽऽदेशः  ....    .... ५०

अवान्तरविषयाः

क्रमसङ्ख्या
 नारदं प्रति वाल्मीकिप्रश्नः  ....  ....  
 नारदप्रतिवचनम्  ....  ....  १०
 सङ्क्षेपरामायणोपदेशः  ....  ....  ११
 सङ्क्षेपरामायणप्रशंसा  ....  ....  ४८
       
 नारदप्रस्थानम्  ....  ....  ५१
 तमसातीरे वाल्मीकिना क्रौञ्चमिथुनदर्शनम्  ....  ....  ५३
 व्याधेन क्रौञ्चहननम्  ....  ....  ५४
 निषादं प्रति वाल्मीकिशापः  ....  ....  ५५
 वाल्मीकेः स्वशापवचनचिन्तनम्  ....  ....  ५७
 वाल्मीक्याश्रमं प्रति ब्रह्मागमनम्  ....  ....  ५९
 वाल्मीकिं प्रति ब्रह्मणो रामायणरचनादेशः  ....  ....  ६२
 वाल्मीकये ब्रह्मणो वरदानम्  ....  ....  ६३
 ब्रह्मणोऽन्तर्धानम्  ....  ....  ६४
१० वाल्मीकिना रामायणरचनालोचनम्  ....  ....  ६५
(21)
22
सर्गसङ्ख्या  विषयः     पुटसङ्ख्या
 काव्यार्थसङ्क्षेपः  ....    .... ६७
 रामायणरचनम्  ....    .... ७६
 कथाऽवतारः  ....    .... ८७
 दशरथवर्णनम्  ....    .... ९४
 अमात्यादिवर्णनम्  ....    .... १०१

क्रमसङ्ख्या    
 वाल्मीकेः कृत्स्नरामचरितसाक्षात्कारः    .... ६७
 वाल्मीकिसक्षात्कृतार्थानुवादः    .... ७०
   
 रामायणरचनम्    .... ७६
 कुशलवाभ्यां रामायणगानम् ॥    .... ८०
 श्रीरामेणा रामायणश्रवणम् ॥    .... ८४
   
 कथावतारः,अयोध्यावर्णनं च।    .... ८७
श्लोकसङ्ख्या
 आसीदयोध्यानगरी देशे कोसलनामनि ।    .... ८९
 सर्वारत्नसमाकीर्णा नरोत्तमसमावृता ॥    .... ९१
 महारथैश्च संपूर्णा विद्वद्भिरुपशोभिता ।    .... ९३
   
 तस्यां पुर्यामयोध्यायं राजा दशरथेऽवसत् ॥    .... ९५
 तस्य प्रजा धर्मरताः शूरास्तुष्टाः सदाऽभवत् ।    .... ९७
 तादृशैराश्रिताऽयोध्या सत्यनामाऽभवत्तदा॥    .... १२३
   
 तस्य राज्ञः सुमन्त्राद्या अमात्या अभवन् बुधाः ।    .... १०१
 मन्त्रिणश्चाभवंस्तस्य वसिष्ठाद्या महर्षयः ॥    .... १०३
 सर्वशास्त्रार्थतत्त्वज्ञाः स्मितपूर्वाभिभाषिणः ।    .... १०५
 तैर्युक्तः स बभौ राजा दिवि देवपतिर्यथा ॥    .... १०७
सर्गसङ्ख्या   विषयः     पुटसङ्ख्या
 दशरथस्याश्वमेधयजनोद्यमः  ....    .... १०८
 ऋश्यशृङ्गोपाख्यानोपक्षेपः  ....    .... ११३
१०  ऋश्यशृङ्गोपाख्यानम्  ....    .... ११८
११  ऋश्यशृङ्गानयनम्  ....    .... १२६
१२  अश्वमेधसन्नाहः  ....    .... १३२

श्लोकसङ्ख्या    
 अपुत्रस्त्वथ राजाऽसौ अश्वमेधे मतिं दधौ    .... १०९
 तस्यानुमेनिरे भावं वसिष्ठाद्या महर्षयः ॥    .... १११
   
 अथाब्रवीत् सुमन्त्रस्तु राजानं रहसि स्थितम् ।    .... ११३
 सनत्कुमारो भगवानेवं कथितवान् पुरा॥    .... ११५
 ऋश्यशृङ्गप्रसादात्ते भविष्यन्ति सुता इति    .... ११७
   १०
 ऋश्यशृङ्गकथां सूतस्त्वब्रवीत् राजचोदितः ॥    .... ११९
 रोमपादाज्ञयाऽऽनीतः ऋश्यशृङ्गो वनात् पुरम् ।    .... १२१
 वञ्चयित्वा तु वेश्याभिः अनावृष्ठिनिवृत्तये॥    .... १२३
१०  रोमपादो ददौ कन्यां शान्तां तस्मै महर्षये॥    .... १२५
   ११
 एवं शृत्वा पुरावृत्तं सुमन्त्रोक्तं नराधिपः    .... १२७
११  तमृश्यशृङ्गमानेतुं प्रतस्थे मन्त्रिभिस्सह ।    .... १२९
 गत्वाऽऽनीय युतस्तेन प्रविवेश पुरं पुनः ।    .... १३१
   १२
१२  ततः प्राप्ते वसन्ते तु राज्ञे यष्टुं मनोऽभवत्॥    .... १३३
 ऋश्यशृङ्गप्रभृतयो मुनयोऽप्यनुमेनिरे॥    .... १३५
सर्गसङ्ख्या   विषयः     पुटसङ्ख्या
१३  अश्वमेधदीक्षा  ....    .... १३५
१४  अश्वमेधः  ....    .... १४३
१५  पुत्रीयेष्टिः  ....    .... १५६
१६  पायसोत्पत्तिः  ....    .... १६५

श्लोखसङ्ख्या    १३
१३  वसिष्ठः प्रार्थितो राज्ञा सर्वं सज्जं चकार सः ।    .... १३७
 आनयामास नृपतीन् नानादेशप्रतिष्ठितान् ॥    .... १३९
१४  शुभे नक्षत्रदिवसे राजा दीक्षामुपाविशत् ।    .... १४१
   १४
 अथ संवत्सरे पूर्णे राज्ञो यज्ञोऽभ्यवर्धत ॥    .... १४३
१५  ऋश्यशृङ्गमुखाश्चकुरश्वमेधं यथाविधि ।॥    .... १४५
 एकविंशतियूपांश्च स्थापयामासुरादरात् ॥    .... १४७
१६  बद्धा यूपेषु पशवस्तत्तदुद्दिश्य दैवतम् ।    .... १४९
 तेषां वपादीन् जुहुवुः ऋत्विजोऽथ यथाविधि ॥    .... १५१
१७   ऋतुं समाप्य राजा तु सर्वेभ्यो दक्षिणां ददौ ।    .... १५३
 अथर्श्यशृङ्गं नृपतिः पुत्रेष्टिं कर्तुमब्रवीत् ॥    .... १५५
   १५
१८  सोऽपि प्रारब्धवानिष्टिं पुत्रीयां पुत्रकारणात् ।    .... १५७
 तत्रागतैः सुरैर्युक्तो ब्रह्मा विष्णुं तदाऽब्रवीत् ॥    .... १५९
१९   विष्णो ! जहि दुरात्मानं रावणं लोककण्टकम् ।    .... १६१
   १६
 जग्राह भगवान् विष्णुः सुराणां प्रार्थनामिमाम् ॥    .... १६३
२०  ततः प्रादुरभूत् कश्चित्पुरुषो यज्ञपावकात् ।    .... १६५
 स ददौ पायसं दिव्यं राज्ञः सन्ततिवर्धकम् ॥    .... १६७
२१  पायसं प्राशयत् राजा पुत्रीयं सहधर्मिणीः ।    .... १६९
 तत् प्राश्य राजपत्न्यस्ताः दिव्यान् गर्भान् दधुस्ततः ॥    .... १७१
सर्गसङ्ख्या  विषयः     पुटसङ्ख्या
१७  ऋक्षवानराद्युत्पत्तिः  ....    .... १७१
१८  श्रीरामाद्यवतारः  ....    .... १७९
१९  विश्वामित्रवाक्यम्  ....    .... १९२
२०  दशरथसन्तापः  ....    .... १९८

श्लोकसङ्ख्या    १७
२२  ससृजुः स्वसुतान् देवाः चतुर्मुखनियोगतः ।    .... १७३
 ऋक्षवानरगोपुच्छरूपयुक्तान् बलान्वितान् ॥    .... १७५
२३  जुगोप वाली तान् सर्वान् विष्णुसाहाय्यकारिणः ।    .... १७७
   १८
 निर्वृत्ते तु क्रतौ, मासे द्वादशे, शुभवासरे ॥    .... १७९
२४  कौसल्या सुषुवे रामं, कैकेयी भरतं ततः ।    .... १८१
 उभौ लक्ष्मणशत्रुघ्नौ सुमित्रा सुषुवे ततः ॥    .... १८३
२५  अभ्यवर्धन्त ते सर्वे सदा लोकहिते रताः ।    .... १८५
 ततः कदाचिदागच्छत् विश्वामित्रो महामुनिः ॥    .... १८७
२६  पूजयामास राजा तं विश्वामित्रं महामुनिम् ।    .... १८९
 पप्रच्छ राजा तं स्वेवं 'ब्रूहि किं करवाणि ते ?'    .... १९१
   १९
२७  प्रत्युवाच मुनिस्त्वेवं 'यष्टुमिच्छाम्यहं नृप !    .... १९३
 मारीचप्रमुखान् हन्यात् रामस्तद्विघ्नकारिणः'    .... १९५
२८  स तन्निशम्य राजेन्द्रः खिन्नः प्रत्यब्रवीन्मुनिम् ।    .... १९७
   २०
 ऊनषोडशवर्षोऽयं रामो हन्यात् कथं नु तान् ॥    .... १९९
२९  न रामो राक्षसैर्योद्धा ते हि मायाविनो भृशम् ।    .... २०१
 अतो मे तनयं बालं नैव दास्यापि राघवम् ॥    .... २०३
सर्गसङ्ख्या  विषयः     पुटसङ्ख्या
२१  दशरथसान्त्वनम्  ....    .... २०४
२२  रामलक्ष्मणयोः प्रस्थानम्  ....    .... २०९
२३  कामांश्रमकथा  ....    .... २१५
२४  ताटकावनप्रवेशः  ....    .... २२०
२५  ताटकावृत्तान्तः  ....    .... २२७

श्लोकसङ्ख्या    २१
३०  तच्छ्रुत्वा वचनं राज्ञः समन्युः कौशिकोऽभवत् ।    .... २०५
 ततो वसिष्ठो राजानं सान्त्वयामास तत्त्ववित् ॥    .... २०७
   २२
३१  ततः संप्रेषयामास राजा रामं सलक्ष्मणम् ।    .... २०९
 विश्वामित्रं महात्मानं तावुभावन्वगच्छताम् ॥    .... २११
३२  उपादिशत्तयोर्विद्यां बलामतिबलां मुनिः ।    .... २१३
   २३
 तां रात्रिमतिसंहृष्टा ऊषुस्ते सरयूतटे ॥    .... २१५
३३  ततः कामाश्रमं प्रापुः, तत्कथां मुनिरब्रवीत् ।    .... २९७
 अपूजयन्मुनिश्रेष्ठं तत्रत्या मुनयस्तदा ॥    .... २१९
   २४
३४  ततस्ततार सहितस्ताभ्यां गङ्गां स कौशिकः ।    .... २२१
 गङ्गाया दक्षिणे तीरे विविशुर्गहनं वनम् ॥    .... २२३
३५  अवसत् ताटका यस्मिन् वने परमदारुणा ।    .... २२५
   २५
 अब्रवीच्चरितं तस्याः पृष्टो रामेण कौशिकः ॥    .... २२७
३६  एनां राघव ! दुर्वृत्तां जहीति मुनिरादिशत् ।    .... २२९
सर्गसङ्ख्या  विषयः     पुटसङ्ख्या
२६  ताटकावधः  ....    .... २३१
२७  सर्वास्त्रग्रहणम्  ....    .... २३८
२८  संहारग्रहणम्  ....    .... २४४
३३  सिद्धाश्रमवृत्तान्तः  ....    .... २४८

श्लोकसङ्ख्या    २६
 तथेत्युक्त्वा ततो रामो ज्याघोषमकरोत्तदा ॥    .... २३१
३७  तच्छ्रुत्वा ताटका क्रुद्धा राममेवाभ्यधावत ।    .... २३३
 तदा जघान तां रामः ताटकां मुनिशासनात् ॥    .... २३५
३८  अस्तुवन्नतिसंतुष्टाः रामं देवर्षयस्तदा ।    .... २३७
   २७
 राघवाय ततः प्रीतो ददावस्त्राणि कौशिकः ॥    .... २३९
३९  सर्वसङ्ग्रहणं येषां दैवतैरपि दुष्करम् ।    .... २४१
   २८
 जग्राहाथ मुनिश्रेष्ठात् संहारानपि राघवः ॥    .... २४३
४०  ततः सिद्धाश्रमं प्राप ताभ्यां स मुनिपुङ्गवः ।    .... २४५
 अपृच्छत् तत्कथां रामो मुनिं, सोऽप्यब्रवीत् कथाम् ॥    .... २४७
   २९
४१  एष पूर्वाश्रमो राम वामनस्य महात्मनः ।    .... २४९
 निग्रहाय बलेः पूर्वं देवा विष्णुमयाचयन् ॥    .... २५१
४२  अयाचत् स्वात्मजत्वेन तदा विष्णुं तु काश्यपः ।    .... २५३
 विष्णुस्तु वामनो भूत्वा तत्पुत्रः समजायत ॥    .... २५५
४३  स निगृह्य बलिं दैश्यं ररक्षादितिनन्दनान् ।    .... २५७
 वामनस्याश्रमः पुण्यस्त्वयमित्यब्रवीन्मुनिः ॥    .... २५९
सर्गसङ्ख्या  विषयः     पुटसङ्ख्या
३०  यज्ञसंरक्षणम्  ....    .... २५९
३१  मिथिलाप्रस्थानम्  ....    .... २६४
३२  कुशनाभकन्योपाख्यानम्  ....    .... २६९
३३  कुशनाभकन्यापरिणयः  ....    .... २७४
३४  विश्वामित्रवंशवर्णनम्  ....    .... २८१

श्लोकसङ्ख्या    ३०
४४  ततस्तु कौशिकस्तत्र यज्ञं कर्तुमुपाक्रमत् ।    .... २६१
 तद्विघ्नकारिणो रामः राक्षसान् संजघान ह ॥    .... २६३
   ३१
४५  ततस्ताभ्यां प्रतस्थे सः कौशिको मिथिलां प्रति ।    .... २६५
५२  ते गत्वा दूरमध्वानं शोणाकूलमवाप्नुवन् ।    .... २६७
   ३२
४६  कुशनाभसुतोपाख्यां तत्रोवाच महामुनिः ।    .... २६९
 यथा च वायुना कन्याः कुशनाभस्य पीडिताः ॥    .... २७१
४७  शीलं स्वकीयं रक्षन्त्यो न बिभ्युरमरादपि ।    .... २७३
   ३३
 शशंस कुशनाभस्तु तासां शीलं क्षमामपि ॥    .... २७५
४८  ताः सुता ब्रह्मदत्ताय कुशनाभो मुदा ददौ ।    .... २७७
 स्पृष्टास्ता ब्रह्मदत्तेन बभूवुर्विगतज्वराः ॥    .... २७९
   ३४
४९  ततः स्ववंशचरितं विश्वामित्रोऽब्रवीत्तदा ।    .... २८१
 भगिन्याः कौशिकीनाम्म्याः सरितश्चाब्रवीत् कथाम् ॥    .... २८३
५०  एवं श्रुत्वा कथास्ते तु मुनिं साध्वित्यपूजयन् ।    .... २८५
सर्गसङ्ख्या  विषयः     पुटसङ्ख्या
३५  उभागङ्गोत्पत्तिकथनम्  ....    .... २८६
३६  देवानां प्रार्थना  ....    .... २९१
३७  कुमारसंभवः  ....    .... २९९
३८  सगरवृत्तान्तः  ....    .... ३०६
३९  पृथिवीविदारणम्  ....    .... ३१०

श्लोकसङ्ख्या    ३५
 ततः शोणां च ते तीर्त्वा प्रापुर्गङ्गानदीं शुभाम् ॥    .... २८७
५१  गङ्गायाश्चरितं वक्तुं मुनिस्तत्रोपचक्रमे ।    .... २८९
   ३६
 आसीत् हिमवतः कन्याद्वयं गङ्गेत्युमेति च ॥    .... २९१
५२  तयोरुमां तु रुद्राय ददौ शैलवरः सुताम् ।    .... २९३
 सेनापतिमभीप्सन्तस्त्वस्तुवन् ईश्वरं सुराः ॥    .... २९५
५३  सोऽत्यजत् स्वीयतेजोंऽशं भूमौ संप्रार्थितः सुरैः ।    .... २९७
   ३७
 तत्याजाग्नौ तु तत्तेजः पृथिवी वोढुमक्षमा ॥    .... २९९
५४  सोऽपि तत्याज गङ्गायां, कुमारस्तदजायत ।    .... ३०१
 ववृधे षण्मुखो भूत्वा कृत्तिकानां पयः पिबन् ॥ ।    .... ३०३
५५  स भूत्वा देवसेनानीः अजयत् दैत्यवाहिनीम् ।    .... ३०५
   ३८
 पूर्वमासीदयोध्यायां सगरो नाम भूमिपः ॥    .... ३०७
५६  स इयाज, जहाराश्वं यज्ञियं तस्य वासवः ।    .... ३०९
   ३९
 स पुत्रान् संदिदेशाथ तस्याश्वस्य गवेषणे ॥    .... ३११
५७  ते विचिक्युर्महीं कृत्स्नां सपर्वतवनार्णवाम् ।    .... ३१३

30

सर्गसङ्ख्या  विषयः     पुटसङ्ख्या
४०  सगरपुत्राणां भस्मीभावः  ....    .... ३२५
४१  सगरयज्ञसमापनम्  ....    .... ३२०
४२  भगीरथतपः  ....    .... ३२४
४३  गङ्गावतरणम्  ....    .... ३२९
४४  सगरपुत्रोद्धारः  ....    .... ३३७

श्लोकसङ्ख्या ४०
  अन्विष्यन्तस्ततस्सर्वे रसातलमथाद्रवन् ॥   ....  ३१५
५८ ददृशुस्तत्र तेऽश्वं तं कपिलस्य समीपतः ।   ....  ३१७
 कपिलं हिंसयन्तस्ते भस्मराशीकृतास्तदा ॥   ....  ३१९
४१
५९ तान् मार्गयन्तं गरुडस्त्वंशुमन्तमथाब्रवीत् ।   ....  ३२१
  गङ्गासलिलसेकेन प्राप्नुयुत्सद्गतिं त्विमे ॥   ....  ३२३
४२
६० उपायं नाध्यगच्छंस्ते गङ्गां प्राप्तुं सुरापगाम् ।   ....  ३२५
  तद्वंश्योऽथ तपस्तेपे गङ्गां प्राप्तुं भगीरथः ॥   ....  ३२७
४३
६१ ततो व्योम्नोऽपतद्गङ्गा वेगेन शिवमूर्धनि ।   ....  ३२९
  निर्गता शिवजूटातः साऽन्वगच्छद्भगीरथम् ॥   ....  ३३१
६२ यज्ञवाटं प्लावयन्तीं तां जह्नुरपिबत्तदा ।   ....  ३३३
  ततस्तुतो मुनिर्गङ्गां श्रोत्राभ्यामत्यजत्पुनः ॥   ....  ३३५
४४
६३ निनाय गङ्गां पातालं पुनस्स तु भगीरथः ।   ....  ३३७
  तया संप्लावितास्सर्वे सागरा सद्गतिं ययुः ॥   ....  ३३९

31

सर्गसङ्ख्या  विषयः     पुटसङ्ख्या
४५  क्षीरार्णवमथनम्  ....    .... ३४१
४६  दितिगर्भभेदनम्  ....    .... ३४८
४७  विशालागमनम्  ....    .... ३५३
४८  अहल्याचरितम्  ....    .... ३५७
४९  अहल्याशापनिवृत्तिः  ....    .... ३६४

श्लोकसङ्ख्या ४५
६४  गङ्गां तीर्त्वा ततस्ताभ्यां विशालामाप कौशिकः ।   ....  ३४१
 रामेण पृष्टः प्रोवाच विशालाचरितं मुनिः ॥   ....  ३४३
६५  पूर्वं ममन्थुः क्षीरोदं अमृताय सुरासुराः ।   ....  ३४५
 तदा वृत्ते रणे घोरे देवा दैत्यानसूदयन् ॥   ....  ३४७
४६
६६  दितिस्तेपे तपस्तीव्रं शक्रहन्तृसुतेप्सया ।   ....  ३४९
 प्राप्य शक्रोऽन्तरं तस्याः गर्भ चिच्छेद सप्तधा ॥   ....  ३५१
४७
६७ शक्रस्य वचनात्ते तु बभूवुस्सप्त मारुताः ।   ....  ३५३
  दित्याश्रमप्रदेशेऽस्मिन् विशाला निर्मिता पुरी ॥   ....  ३५५
६८  तदा तत्र वसन् राजा सुमतिस्तानपूजयत् ।   ....  ३५७
४८
 स्थित्वा तत्र निशामेकां जग्मुस्ते मिथिलां ततः ॥   ....  ३५९
६९  मिथिलोपवने ते तु गौतमाश्रममाप्नुवन् ।   ....  ३६१
 अहल्याचरितं तत्र प्रोवाच मुनिपुङ्गवः ॥   ....  ३६३
४९
७० अहल्याशक्रयोश्शापप्राप्तिं चोवाच कौशिकः।   ....  ३६५
  रामो मुनिवचः श्रुत्वा प्रविवेश तमाश्रमम् ॥   ....  ३६७
७१  रामपादरजस्स्पर्शात् अहल्या स्वं वपुर्दधौ ।   ....  ३६९

32

सर्गसङ्ख्या  विषयः     पुटसङ्ख्या
५०  जनकसमागमः  ....    .... ३६९
५१  विश्वामित्रचरितोपक्रमः  ....    .... ३७३
५२  वसिष्ठातिथ्यम्  ....    .... ३७८
५३  कामधेनुप्राप्त्युद्यमः  ....    .... ३८२
५४   विश्वामित्रबलविमर्दनम्  ....    .... ३८६
५५   विश्वामित्रधनुर्वेदाधिगमः  ....    .... ३९०

श्लोकसङ्ख्या ५०
  अथ ते मिथिलां प्रापुः, जनकस्तानपूजयत् ॥   ....  ३७१
५१
७२  तत्राब्रवीत् शतानन्दः विश्वामित्रकथां मुदा ।   ....  ३७३
 अयं गाधिसुतः पूर्वं राजाऽऽसीत् सुबहुश्रुतः ॥   ....  ३७५
७३  कदाचित्तु ससैन्यः स परिचक्राम मेदिनीम् ।   ....  ३७७
५२
  परिक्रामन् स तु प्राप वसिष्ठाश्रममुत्तमम् ॥   ....  ३७९
७४  तस्यातिथ्यं मुनिश्चक्रे कामधेन्वाः सहायतः ।   ....  ३८१
५३
 तां कामधेनुं शबलामैच्छत् गाधिसुतस्तदा ॥   ....  ३८३
७५  नाङ्गीचकार तद्याच्चां वसिष्टो जपतां वरः ।   ....  ३५५
५४
 ततस्तां शबलां धार्ष्ट्यात् विश्वामित्रोऽन्वकर्षत ॥   ....  ३८७
७६  सुरभिः साऽसृजत् सेनां वसिष्ठस्याज्ञया तदा ।   ....  ३८९
५५
 तया विध्वंसितं सर्वं विश्वामित्रबलं क्षणात् ॥   ....  ३९१
७७  ततस्तप्त्वा शिवाल्लेभे धनुर्वेदं स कौशिकः ।   ....  ३९३

33

सर्गसङ्ख्या  विषयः     पुटसङ्ख्या
५६  विश्वामित्रनिग्रहः  ....    .... ३९५
५७  त्रिशङ्कोः स्वर्गजिगमिषा  ....    .... ४००
५८  त्रिशङ्कोश्चण्डालत्वप्राप्तिः  ....    .... ४०४
५९  वासिष्ठादीनां शापावाप्तिः  ....    .... ४०९
६०   त्रिशङ्कोः स्वर्गारोहणम्  ....    .... ४१४

श्लोकसङ्ख्या ५६
  तेन दृप्तः स चिक्षेप ब्रह्मास्त्रादीन् मुनीश्वरे ॥   ....  ३९५
७८  वसिष्ठस्तानि सर्वाणि जग्रसे ब्रह्मतेजसा।   ....  ३९७
 ब्रह्मतेजोबलं ज्ञात्वा कौशिकस्तपसे ययौ ॥   ....  ३९९
५७
७९  एतस्मिन्नन्तरे, त्वासीत् त्रिशङ्कुरिति भूपतिः ।   ....  ४०१
  सशरीरो दिवं गन्तुं स इयेष नराधिपः ॥   ....  ४०३
५८
८० गुर्वतिक्रमणाच्छप्तः राजा चण्डालतां गतः ।   ....  ४०५
  स दीनः शरणं प्राप विश्वामित्रं तपोधनम् ॥   ....  ४०७
५९
८१ अङ्गीचकार तद्याच्ञां कारुण्यात् कुशिकात्मजः ।   ....  ४०९
  ततः प्रवर्तितो यज्ञः त्रिशङ्कुस्वर्निनीषया ॥   ....  ४११
८२  तदा शशाप स क्रोधात् वासिष्ठादीन् स्वनिन्दकान् ।   ....  ४१३
६०
 तत्प्रभावात् त्रिशङ्कुस्तु सशरीरो दिवं ययौ ॥   ....  ४१५
८३  अपातयन् त्रिशङ्कुं तं गुरुशापहृतं सुराः ।   ....  ४१७
 कौशिकस्त्वसृजत् क्रोधादन्यं स्वर्गं त्रिशङ्कवे ॥   ....  ४१९
८४  अनुनीतः सुरैः शान्तः, पुनस्तेपेऽथ कौशिकः ।   ....  ४२१

34

सर्गसङ्ख्या  विषयः     पुटसङ्ख्या
६१  शुनश्शेफोपाख्यानोपक्रमः  ....    .... ४२१
३२  शुनश्शेफोपाख्यानम्  ....    .... ४२६
६३  मेनकासङ्गमः  ....    .... ४३२
६४  रम्भाशापः  ....    .... ४३८
६५  ब्रह्मर्षित्वप्राप्तिः  ....    .... ४४३

श्लोकसङ्ख्या ६१
  तस्मिन् कालेऽम्बरीषस्य जह्वे यज्ञपशुं वृषा ॥   ....  ४२३
८५  स त्वक्रीणात् शुनश्शेफं पशुप्रतिनिधिं नरम् ।   ....  ४२५
६२
 स दीनः शरणं प्राप विश्वामित्रं तपोधनम् ॥   ....  ४२७
८६ उपादिशत्स गाथे द्वे दिव्ये प्राणप्रदे मुदा ।   ....  ४२९
 ते जपन् स शुनश्शेफो दीर्घमायुरवाप्तवान् ॥   ....  ४३१
६३
८७ ततो मेनकया सङ्गात् निवृत्तस्तपसो मुनिः ।   ....  ४३३
 अथो निर्विण्णहृदयः पुनस्तेपे स कौशिकः ॥   ....  ४३५
८८ तद्दृष्ट्वा संभ्रमं प्रापुः सुराः सेन्द्रमरुद्गणाः ।   ....  ४३७
६४
 प्राहिण्वन् तस्य नाशार्थं रम्भामप्सरसं सुराः ॥   ....  ४३९
८९ शशाप रम्भां स क्रोधात्, अथ सन्तापमागतः ।   ....  ४४१
६५
 पुनश्च स महाघोरं तपश्चक्रे सुदुष्करम् ॥   ....  ४४३
९० ततो ब्रह्माज्ञया सोऽयं ब्रह्मर्षित्वमविन्दत ।   ....  ४४५
 वसिष्ठोऽप्यनुमेने तत् प्रार्थितः सुरसत्तमैः ॥   ....  ४४७
९१ श्रुत्वा कौशिकवृत्तान्तं सर्वे मुमुदिरे तदा ।   ....  ४४९

35

सर्गसङ्ख्या  विषयः     पुटसङ्ख्या
६६  शैवधनुःप्रशंसा  ....    .... ४५१
६७  धनुर्भङ्गः  ....    .... ४५७
६८  दशरथाह्वानम्  ....    .... ४६३
६९  दशरथजनकसमागमः  ....    .... ४६७
७०  इक्ष्वाकुवंशवर्णनम्  ....    .... ४७०

श्लोकसङ्ख्या ६६
 विश्वामित्रस्ततो रामं जनकाय न्यवेदयत् ॥   ....  ४५१
९२ अब्रवीज्जनकस्तेभ्यः तदा शैवधनुःकथाम् ।   ....  ४५३
 यद्धनुर्देवराताय पूर्वं तु गिरिशो ददौ ॥   ....  ४५५
६७
९३ जनकस्याज्ञया भृत्या आनिन्युस्तत्र तद्धनुः ।   ....  ४५७
 कौशिकप्रेरितो रामः पूरयामास तद्धनुः ॥   ....  ४५९
९४ तद्भग्नं वीर्यशुल्कां तु सीतां प्राप स राघवः ।   ....  ४६१
६८
 जनकस्त्वाजुहावाथ दूतैर्दशरथं नृपम् ॥   ....  ४६३
९५ जात्वा दशरथ: सर्वं प्रतस्थे मिथिलां पुरीम् ।   ....  ४६५
६९
 वसिष्ठवामदेवाद्यास्त्वनुजग्मुर्मुदा नृपम् ॥   ....  ४६७
९६ ते सर्वे मिथिलां प्रापुः, जनकस्तानपूजयत् ।   ....  ४६९
७०
 तदैव जनकभ्राताऽप्याजगाम कुशध्वजः ॥   ....  ४७१
९७ सुखोपविष्टास्ते सर्वे यथार्हं त्वासनेषु ते ।   ....  ४७३
 वसिष्ठः कथयामास सूर्यवंशपरंपराम् ॥   ....  ४७५
९८ ततस्स वरयामास रामाय जनकात्मजाम् ।   ....  ४७७

36

सर्गसङ्ख्या  विषयः     पुटसङ्ख्या
७१  निमिवंशवर्णनम्  ....    .... ४७९
७२  कन्यावरणम्  ....    .... ४८३
७३  सीतादीनां विवाहः  ....    .... ४८९
७४  परशुरामाभियोगः  ....    .... ४९८
७५  वैष्णवधनुःप्रशंसा  ....    .... ५०२

श्लोकसङ्ख्या ७१
 जनकोऽपि तदोवाच निमिवंशपरंपराम् ॥   ....  ४७९
९९ निश्चिक्युर्लक्ष्मणादीनां विवाहमपि ते तदा ।   ....  ४८१
 सीता रामाय देयेति लक्ष्मणायोर्मिला तथा ॥   ....  ४८३
७२
१०० माण्डवी भरतायेति श्रुतकीर्तिः कनीयसे ।   ....  ४८५
 रामादीनां ततश्चक्रे राजा गोदानमङ्गलम् ॥   ....  ४८७
७३
१०१ तदाऽऽगच्छत् युधाजिच्च साक्षाद्भरतमातुलः ।   ....  ४८९
 ततः पुत्रैर्दशरथो यज्ञशालामुपागमत् ॥   ....  ४९१
१०२ वसिष्ठस्त्वकरोत्सर्वं विधिवन्मन्त्रपूर्वकम् ।   ....  ४९३
 शुभे मुहूर्ते सीतायाः पाणिं जग्राह राघवः ॥   ....  ४९५
१०३ जगृहुश्चोर्मिलादीनां पाणीन् लक्ष्मणपूर्वकाः ।   ....  ४९७
७४
 ततः पुत्रैः स्नुषाभिश्चायोध्यां दशरथो ययौ ॥   ....  ४९९
१०४ मार्गे परशुरामस्तु समागच्छत् सुदुस्सहः ।   ....  ५०१
७५
 स्कन्धे चासज्य परशुं गृहीत्वा वैष्णवं धनुः ॥   ....  ५०३
१०५ स्वयं तु कथयामास स वैष्णवधनुः कथाम् ।   ....  ५०५
 शैवचापाञ्च वैशिष्ट्यं तस्य चापस्य सोऽब्रवीत् ॥   ....  ५०७
१०६ शैवस्य धनुषो भङ्गं व्यडम्बयत गर्वितः ।   ....  ५०९
 धनुषो वैष्णवस्यास्य त्वारोपाय समाह्वयत् ॥   ....  ५११

37

सर्गसङ्ख्या  विषयः     पुटसङ्ख्या
७६  परशुरामप्रतिष्टम्भनम्  ....    .... ५१२
७७  अयोध्यावासः  ....    .... ५२०

श्लोकसङ्ख्या ७६
१०७ रामस्तु रोषितस्तेन तस्माज्जग्राह तद्धभुः ।   ....  ५१३
 लीलया पूरयामास रामस्तद्वैष्णवं धनुः ॥   ....  ५१५
१०८ दृष्ट्वा परशुरामस्तद्भग्नदर्पोऽभवत्तदा ।   ....  ५१७
 रामं परशुरामश्च स्तुत्वाऽगच्छत् यथाऽऽगतम् ॥   ....  ५१९
७७
१०९ ततः प्रस्थाय ते सर्वे त्वयोध्यां प्राविशन् पुरीम् ।   ....  ५२१
 कस्य चित्त्वथ कालस्य भरतः केकयान् ययौ ॥   ....  ५२३
११० शत्रुघ्नोऽपि तदा तेन नीतः प्रीतिपुरस्कृतः ।   ....  ५२५
 रामश्च सीतया सार्धं रेमे द्वादशवत्सरान् ॥   ....  ५२७
 विषयः     पुटसङ्ख्या
 श्रीमद्रामायणस्य व्याख्येयत्वम्  ....    2
 श्रीरामस्य ब्रह्मावतारत्वम्  ....    3
 काव्यरूपस्यापि रामायणस्योपादेयतमत्वम्  ....    3
 अधिकारिनिरूपणम्  ....    5
 वाल्मीकिशब्दनिर्वचनम्  ....    10
 रामस्य ब्रह्मानन्यताज्ञानवत्त्वम्  ....    14
 रामस्य शोकाद्यनुभवनिर्वाहः  ....    15,19
 रामकृष्णावतारयोर्वैलक्षण्यम्  ....    16
 'धनदेन समस्त्यागे' इत्यस्य समर्थनम्  ....    20
 'कैकयी' शब्दविचारः  ....    22
 रामदत्तपादुकाविषयविमर्शः  ....    28
 वैष्णवधनुःकथायां विरोधपरिहारः  ....    30
 अनपकारिणो वालिनो वधस्य हेतु.....  ....    38
 रावणवधेन चराचरसन्तोषोपपादनम्  ....    42
 रामायणनिर्माणकालः  ....    44
 'नार्यश्चाविधवा नित्यं' इत्यस्य समर्थनम्  ....    45
 त्रेतायां कृतयुगधर्मसमर्थनम्  ....    46
 रामाश्वमेघसमर्थनम्  ....    46
 ब्रह्मलोकशब्दार्थः  ....    47
 'रामायण' शब्दनिर्वचनम्  ....    48
 रामायणपाठस्य साक्षान्मुक्तिहेतुत्वम्  ....    49
 निषादं प्रति वाल्मीकिशापस्यायुक्तताऽऽक्षेपः, तत्समर्थनं च  ....    55

(39)

 विषयः     पुटसङ्ख्या
 'पादुकाग्रयाभिषेकं' इति शब्दार्थः  ....    72
 रामायणसर्गश्लोकसङ्ख्यानिर्णयः  ....    77
 रामस्य स्वप्रशंसात्मकरामायणश्रवणसमर्थनम्  ....    86
 काव्यलक्षणं, तत्समन्वयश्च  ....    87
 वसिष्ठस्यैव पुरोहितत्वं, गुरुत्वं च  ....    109
 वेश्याभिः ऋश्यशृङ्गानयने दोषाभावसमर्थनम्  ....    117
 ऋश्यश्रृङ्गस्य महर्षित्वसमर्थनम्  ....    125
 पायसविभजनम्  ....    169
 रामावतारस्य वालिसुग्रीवाद्युत्पत्तेश्च पौर्वापर्यविचारः  ....    172
 वानरादिरूपेण देवानामवतारे हेतुः  ....    173
 रामवालिवैरनिमित्तम्  ....    174
 अक्षौहिणीस्वरूपम्  ....    199
 बलेः यजनसमर्थनम्  ....    251
 अहल्याशापविचारः  ....    362, 363
 त्रिशङ्कोश्चण्डालत्वविचारः  ....    406
 विश्वामित्रस्य त्रिशङ्कुयाजनसमर्थनम्  ....    413
 'अन्यमिन्द्रं करिष्यामि' इति श्लोकार्थः  ....    418
 शुनश्शेफविक्रयसमर्थनम्  ....    425
 हरिश्चन्द्रोपाख्यानयोर्विरोधपरिहारः  ....    431
 विष्णुशिवयुद्धविचारः  ....    507
 वैष्णवधनुःकथायां विरोधपरिहारः  ....    507, 509
 परशुरामवृत्तान्ते विरोधपरिहारः  ....    510
 परशुरामस्य एकविंशतिवारं निक्षत्रीकरणप्रतिज्ञाया मूलम्  ....    510
 'इमां त्वद्गतिं' इत्यत्र गतिशब्दार्थः  ....    516
 सीताविवाहस्य स्वयंवरत्वविचारः  ....    526

अवधेयविशेषविषयाः

स. श्लो.
82 -13   लक्ष्यलक्षणलक्षितौ । अत्र 'सर्वलक्षणक्षितौ' इति गोविन्दराजीये। लक्षितसर्वलक्षणौ-ज्ञातसर्वशब्द-लक्षणावित्यर्थः ॥–गो.
94 -14  नाविद्वान् विद्यते तदा । तदा दशरथराज्यपालनकाले । अनेनायं श्लोको जानपदविषय इति गम्यते । तेनात्र न पौनरुक्त्यपशङ्का ॥-गो.
100 -26   सा योजने च द्वे भूयः । एवं चतुरङ्गबलसंपत्त्या न नगरमात्रं अप्रधृष्यं, किन्त्वभितो द्वे योजने दुर्गमे इत्याह सेति । सा नगरी भूयः-नगराद्बहिरपि द्वे योजने-द्वयोर्योजनयोः, अत्यन्तसंयोगे द्वितीया, सत्यनामा-यथार्थनामा-गो.
101 -1   अमात्याः । 'अमा सह वसन्तीति अमात्याः' इति कतकः । 'अमान्तिकसहार्थयोः' इति कोशात् समीपवाचि 'अमा' इत्यव्ययम् । तथाच अमासह भवन्तीति अमात्या इति निर्वचनम् । अमात्यानां कर्मसचिवत्वेन ते सदा राशस्समीप एव भवन्तीत्यभिप्रायः ॥
102 -4   मन्त्रिणश्च तथाऽपरे ॥ अत्रेदं प्रतीयते-राज्यनिर्वहणाय राज्ञः सहायभूताः सचिवाः द्विविधाः । कर्मसचिवाः मन्त्रसचिवाश्चेति । मन्त्रसचिवाः देशहितं विचिन्त्य समीचीनं मार्गं प्रदर्शयन्ति, न ते

 गो-गोविन्दराजीयम् । शि - शिरोमणिः । ति -तिलकः । ती–महेश्वरतीर्थीयम् ।

(41)
स. श्लो.
कार्यक्षेत्रं प्रविशन्ति । कर्मसचिवास्तदुपदिष्टं कार्यं साधयन्ति । कार्योपदेशः, कार्यनिर्वर्तनं च तयोरसङ्कीर्णो विशेषः । कर्मसचिवाः अमात्यपदेन, मन्त्रसचिवाः मन्त्रिपदेन च व्यवह्रियन्ते । कुत्रचित् व्यतिकरव्यवहारश्च सन्निवेशविशेषनिबन्धनः । समयविशेष हि उभयोरप्युभयं भवति । एवञ्च सुमन्त्राद्याः

अष्टौ अमात्याः । वसिष्ठाद्याश्चाष्टौ मन्त्रिणः । अमात्यानां नामानि तु 'धृष्टिर्जयन्त' इत्यादिना पूर्वश्लोके कथितानि । मन्त्रिणां नामानि तु पाठान्तरत्वेन परिगणिते श्लोके दृश्यन्ते । अयोध्याकाण्डे 'मार्कण्डेयोऽथ मौद्गल्यः वामदेवश्च कश्यपः । कात्यायनो गौतमश्च जाबालिश्च महायशाः । एते द्विजाः सहामात्यैः पृथग्वाचमुदैरयेन् । वसिष्ठमेवाभिमुखाः' (अयो. 67-3) इत्यादौ च निर्दिष्टानि मन्त्रिनामानि । 'सहामात्यैः' इत्यनेन अमात्यवर्गः एभ्यो विलक्षण इति स्पष्टम् । कुत्रचित् नामविपर्यस्तु एकस्यानेकनामवत्त्वादिभिः निर्वाह्य इति । एषु मन्त्रिषु वसिष्ठवामदेवौ पुरोहितावपीति ज्ञेयम् ॥

103  चारेणापि चिकीर्षितं । अत्र चिकीर्षितमपीत्यन्वयः ।
108-5  समानयदिति । अत्र 'समानयत् स तान् सर्वान् गुरूंस्तान् सपुरोहितान्' इति व्याख्यासम्मतः पाठः ॥
110-12  पुत्रान् । एकपुत्रस्यापुत्रप्रायत्वात् 'एष्टव्या बहवः पुत्राः' इति वचनाच्च 'पुत्रान्' इति बहुवचनम्-गो.

'दशास्यां पुत्रानाधेहि' इतिरीत्याऽस्यापि ब्राह्मणाशीर्वादरूपत्वेन 'पुत्रान्' इति बहुवचनमित्याशयः ॥

111-16  शक्यः प्राप्तुं । यदि क्रतुसत्तमेऽस्मिन्नश्वमेधे कष्टः-परमकष्टसंपादकः अपराधः-विधिहानिः न भवेत्

तर्हि सर्वेणापि महीक्षिता अयं यज्ञः कर्तुं शक्यः-शि.

43

स. श्लो.
111 -17

छिद्रं हि मृगयन्ते । यज्ञादिषु मन्त्रक्रियालोपादिना राक्षसत्वं प्राप्ता ब्राह्मणाः–ब्रह्मराक्षसाः विद्वांसः-यज्ञतन्त्रज्ञाः छिद्रं-अपचारं मृगयन्ते । ते चेषदपचारं दृष्ट्वा स्वयं तेषु प्रविश्यापचारधारां संपादयन्ते-ति.

114 -4 नान्यं जानाति । सदा पित्रनुवर्तनात् अन्यं कमपि विषयं, पुरुषं वा न जानाति । हेतुत्वे प्रतियोगित्वे वा पञ्चमी । 'नित्यं' इति स्थाने 'मर्त्यं' इत्यपि पाठः । तदा स्पष्ट एवार्थः ॥
116 -12 विभण्डकसुतं । अस्य 'आनाय्य' इति पूर्वश्लोके-नान्वयः ॥
111 -18 ऋश्यशृङ्गस्तु जामाता ॥ अङ्गराजमित्रत्वस्य राज्ञि वक्ष्यमाणत्वेन मित्रजामाता स्वस्यापि जामातैव-ति.

दशरथस्यौरसी शान्ता, दत्ता रोमपादस्य-गो. शान्ता रोमपादस्य सुतेति कतककारादयः, दशरथस्य सुतेति गोविन्दराजादयः । अत्रेदमवधेयम्–'ऋश्यशृङ्गस्तु जामाता पुत्रांस्तव' इत्यत्र 'तव जामाता' इत्यन्वयः गोविन्दराजसम्मतः । शान्ता दशरथस्यौरसीति च तत्सम्मतम् । कन्या चास्य महाभागा शान्ता नाम भविष्यति (11-3) इत्यत्रापि शान्ताया दशरथसुतात्वं स्वरसतः प्रतीयते । एवमन्वयस्य रामायणशिरोमणिकारसम्मतत्वेऽपि 'रोमपादमित्रत्वाद्दशरथस्य, रोमपादजामातुः दशरथजामातृत्वेन व्यपदेशः' इत्येव तदाशयः ॥

उत्तरत्र 'शान्ता तव सुता' (11-19) इति रोमपादं प्रति दशरथोक्तिः दृश्यते । तत्र शान्ताया रोमपादसुतात्वं स्पष्टं । दशरथेन दत्तत्वात् तथा व्यपदेश इति गोविन्दराजाशयः स्यात् । तत्रैव 'सख्यं सम्बन्धकं चैव' (11-18) इत्यनेन दशरथ-

44

स. श्लो.

रोमपादयोः संख्यातिरिक्तः सम्बन्धः आसीदिति प्रतीयते । शान्ताया जनकपितृत्वरूपः सम्बन्धः दशरथस्येति तत्र गोविन्दराजीयम् । नवमसर्गे रोमपादजामाता दशरथस्यापि रोमपादमित्रत्वात् जामातैव इति निर्वहन्नपि शिरोमणिकारः अत्र (11-18) 'सम्बन्धकं-शान्ताजनकत्वेन तच्छ्रशुर त्वरूपं' इत्याह । भागवते 'रोमपाद इति ख्यात-स्तस्मै दशरथः सखा । शान्तां स्वकन्यां प्रायच्छत् ऋश्यशृङ्ग उवाह ताम् (9-23-7) इति श्लोकः अत्रोपष्टम्भकः । एवं स्थिते-दशरथस्यापुत्रत्वव्यपदेशः राज्यार्हपुरुषसन्तत्यभावात्, राजमहिषीषु पुत्रानुत्पत्तेरिति वा निर्वाह्यम् ॥
परन्तु हरिवंशे-'अथ चित्ररथस्यापि पुत्रो दशरथोऽभवत् । रोमपाद इति ख्यातो यस्य शान्ता सुताऽभवत्' (1-31-46) इति दृश्यते । अनेन रोमपादस्यैव दशरथ इति नामान्तरमासीदिति ज्ञायते । एवञ्च दशरथसुतेत्युक्ते रोमपादसुतेत्येवार्थः । अत कतककारोऽपि-11-5 श्लोकव्याख्याने-'कश्चित् दशरथस्य शान्ताख्या भविष्यतीत्यवोचत् । एवं मृषा प्रलप्य तत्समर्थनाय भूयोऽनेकमृषाऽवोचत्' इत्याह ॥
एवं गोविन्दराजस्य मृषावादित्वकल्पनस्य सुलभत्वेऽपि भागवतश्लोकस्य का गतिः ? कतकरीत्या भागवतोक्तं सर्वथा निरवकाशम् । गोविन्दराजीयरीत्या तु हरिवंशोक्तं सावकाशम् ; सुता-दत्तसुता' इति वक्तुं सुशकत्वात् । अत एव तिलककृदपि ९ सर्गे कतकरीतिमनुसरन्नपि २२ सर्गे 'रोमपादेन सम्ब- न्धश्चार्य तादृशः, येन दशरथस्यापि जामातृत्व-व्यवहारयोग्यः ऋश्यशृङ्गः । एतदेवाभिप्रेत्योक्तं प्राक् 'तव जामाता' इति । क्वचिञ्चैवं पठ्यतेऽपि-

45

अनेन मेऽनपत्याय दत्तेयं वरवर्णिनी । याचते पुत्रतुल्यैषा शान्ता प्रियतरात्मजा । सोऽयं ते श्वशुरो ब्रह्मन् यथैवाहं तथा नृपः' इति । (अत्र याचत इति चतुर्थ्यन्तम्) अत एव प्राक् सान्तः- पुरस्याङ्गदेशगमनमुक्तम् । कन्यास्नेहाद्धि तासां (अन्तः पुरस्त्रीणां) गमनमिति भाति' (11-18) इति व्याचख्याविति ॥
स. श्लो.
123 -22 गच्छन्ति स्मापदेशात् ॥ देशात्-तस्मात्प्रदेशात् अपगच्छन्ति स्म--इति वाऽन्वयः ॥
123 -23 दुःखं स्म परिवर्तते । अत्र दुःखमिति क्रियाविशेषणं वा ।
124 -30 वव्रे प्रसादं विप्रेन्द्रात् । शपेदिति भीतः ऋश्यशृङ्गात् प्रसादं वव्रे-प्रसादप्रार्थनायाः फलमाह-मेति ॥-विप्रं-विभण्डकं मन्युर्मा विशत्विति विप्रेन्द्रात् ऋश्यशृङ्गादेव प्रसादं वव्रे । त्वदानयनेन त्वत्पितुः

विभण्डकस्य मयि मन्युर्यथा नोदेति तथा स त्वया प्रार्थनीय इति ऋष्यशृङ्गमेव नराधिपः प्रार्थयामासेति–ति.

128 -6 प्रदास्यते पुत्रवन्तं । पुत्रवन्तं-पुत्रप्रदानसमर्थे पुत्रयुक्तं वा-गो । पुत्रवन्तमित्यनेन 'जातपुत्रः कृष्णकेशः अग्नीनादधीत' इति विध्युक्तमग्न्याधानाधिकारित्वं सूचितम् । तेनाहिताग्नित्वेनार्त्विज्याधिकारस्तस्योक्तः–ति.
129 -11 पुरा देवयुगे । एतच्चतुर्युगात् प्राक्तनचतुर्युग्याद्येति-ती. देवयुगे-कृतयुगे । यद्वा हे देव पुरा

युगे-कृतयुग इत्यर्थः—गो.

133 -2 देववर्णिनम् । 'वर्णः स्वर्णे व्रते स्तुतौ' इति कोशात्-वर्णशब्दस्य व्रतार्थकत्वेन देवव्रतिनमिति वाऽर्थः । तेन सामान्यमनुष्यैरनुष्ठातुमशक्यैर्व्रतैर्विशिष्टत्वं बोधितम् ।

46

स. श्लो.
150 -33

वावातामपरे तथा । अत्र श्लोके 'हयेन' इति स्थाने 'हस्तेन' इत्यपि पाठः । 'ब्रह्मादयः चत्वारः प्रधान- ऋत्विजः महीषीपरिवृत्तिभ्यां सह वावातां अपरां पालाकलीं च राज्ञो दक्षिणार्थं परिगृह्य हस्तेन सम- योजयन्-रमणवद्धस्तेनागृह्णन् । अत्र श्रुतिः 'अम्बे अम्बाल्यम्बिकेति पत्नीमुदानयति' इत्यादिः । उदानयति–हस्तेन गृह्णातीत्यर्थ इति भास्करः । सूत्रं च-'महिषीं ब्रह्मणे ददाति वावातां होत्रे परिवृत्तिमुद्गात्रे पालाकलीमध्वर्यवे' इति । पश्चात् प्रतिनिधिद्रव्यदानेन निवर्त्येरन् । 'कृताभिषेका महिषी परिवृत्तिरुपेक्षिता । वावाता भोगिनी पात्रप्रदा पालाकली मता' इति वैजयन्ती । -गो.

अथ होत्रादयो महिष्या-कृताभिषेकया परिवृत्त्याराज्ञो भोगाद्वहिष्कृतया दास्या च सह वावातांराज्ञो वल्लभां भुजिष्यां अश्वेन समयोजयन्निति सम्बन्ध इति केचित् । अपरे तु वावाताशब्दो राज्ञो मध्यमजातीयद्वितीयभार्यावाची । तदुक्तमैतरेयारण्यकभाष्ये तृतीयपञ्चिकास्थद्वाविंशतिखण्डस्थवावातेति प्रतीकव्याख्यानावसरे-'राज्ञां हि त्रिविधाः स्त्रियः; उत्तममध्यमाधमजातीयाः । तासां मध्ये उत्तमजातेः क्षत्रियाया महिषीति नाम, मध्यमजातेर्वैश्याया वावातेति, अधमजातेः शूद्रायाः परिवृत्तिरिति' । अत एवाश्वलायनसूत्रे दशमाध्यायेऽष्टम-खण्डस्थवावातेतिप्रतीकं गृहीत्वा, द्वितीया भार्येति व्यख्यातं नारायणवृत्तिकृता-ति.

हयेन-अश्वेन समयोजयन्–अश्वाङ्गसंयोजनरूपविधिं कारयामासुरित्यर्थः । एतेन पत्नीदानपरत्वेन व्याख्यानं प्रत्युक्तम् ; दानस्यात्रानुक्तेः, अध्याहारे गौरवाच्च-शि.

(47)
स. श्लो.
  उदानयति इत्यस्य आह्वयति इति सायणभाष्यम् । भट्टभास्करभाष्ये चायं लोको दृश्यते 'महिष्याः सचिवस्थाने राजपुत्रयश्शतं स्मृताः । वावाताया अराजोग्रदारास्साहाय्यके शतम् । दारास्तु सूतग्रा-मिण्यां परिवृक्तयास्सहायताम् । शतं कुर्वन्ति पञ्चाशत् पञ्चाशद्वर्गयोर्द्वयोः' । इति ।
154 -51

  ततः प्रसर्पकेभ्यः । प्रसर्पकेभ्यः-यज्ञदर्शनार्थमागतेभ्यः– 'यावन्तो वै सदस्यास्ते सर्वे दक्षिण्याः इति श्रुतेः-गो.

182 -14

  कुलीरेऽभ्युदिते रवौ । कुलीरे-कर्कटके रवौ अभ्युदिते-अभिवृद्धे–प्रकाशमान इति यावत् । तथा च रात्रौ मीनलग्ने भरतजन्म, परदिने कटकलग्ने लक्ष्मण-शत्रुघ्नयोर्जन्मेति सिद्धम् । एतेनांशादिभेदेऽपि पञ्च ग्रहोच्चत्वादिकं चतुर्णामपि समानमित्युक्तं भवति ॥

188 -41

 ब्रह्माणमिव वासवः । ब्रह्माणं–चतुर्मुखम्-गो. अत्र 'सपुरोधाः प्रत्युजगाम' इति कथनात् बृहस्पतिसहितः इन्द्रः दृष्टान्तत्वेन सम्मत इति प्रतिभाति । ततश्च ब्रह्मा चतुर्मुख एव वक्तव्य इति गोविन्दराजाशयः ॥

197 -17

 अभिप्रेतमसंसक्तं । अभिप्रेतं-नेयत्वेन मम सम्मतमिति वाऽर्थः । एतेन 'भवद्यज्ञः खलु रक्षणीयः, तदर्थं-राम एव प्रेषणीय इति कुतः ? अन्यमेव प्रेषयामि' इति मा वद' इति पूर्वमेव सूच्यते । असंसक्तमिति क्रियाविशेषणं वा ॥

197 -19  धर्मार्थसहितं । अर्थः-रामस्यास्त्रादिलाभरूपः-ति.
1207 -17  संहारान्नाम दुर्धर्षान् । अत्र वक्तव्यं उत्तरत्र (28-3 पुट 244) वक्ष्यामः ।
210 -7

 त्रिशीर्षाविव पन्नगौ । अत्र 'कलापिनौ धनुष्पाणी' इति विशेषणद्वयस्वारस्यात्, एकपार्श्वे धनुः अपर-


(48)
स. श्लो.
  पार्श्वे तूणीरः, मध्ये शिर इति त्रिशीर्षपन्नगोपमात्वमभिमतमिव ॥
210 -10  कुमाराविव पावकी । पावकी-पावकात् प्रादुर्भूतौ स्कन्दविशाखौ-'ततोऽभवच्चतुर्मूर्तिः क्षणेन भगवान्-

प्रभुः । स्कन्दो विशाखः शाकश्च नैगमेषश्च पृष्ठतः' इति भारतोक्तेः-गो.

211 -12  मन्त्रग्रामं गृहाण त्वं । मन्त्रग्रामं–मन्त्रसमष्टिरूपं; इदं बलाबलयोः प्रत्येकं विशेषणम्-गो.
215 -2  कौसल्या सुप्रजा राम । हे राम त्वया कौसल्या सुप्रजा-शोभनपुत्रवती–ति.

शोभना प्रजा-पुत्रः यस्याः सा सुप्रजाः, त्वज्जननी कौसल्या सुपुत्रा । यद्वा स्वगतवचनम्-एतज्जननी कौसल्या सुप्रजाः-यद्वा कौसल्यायाः सुप्रजा इति सम्बोधनम् । कर्मधारयेप्यार्षोऽसिच् । ढ्रलोपे पूर्वस्य दीर्घोऽणः' इति दीर्घः, 'सुपां सुलुक्' इत्यादिना पूर्वसवर्णदीर्घो वा, गो. अत्र कतकव्याख्या स्वरसा ॥

221 -5   तस्य शब्दस्य निश्चयम् । प्रथमं सामान्यतः शब्दं

शुश्राव । स च शब्दः किंकारणक इति प्रथमं ना- वगतम् । नदीमध्यमागस्य तोयस्य तस्य शब्दस्य निश्चयं-तोयसम्बन्धिशब्दविषयकनिश्चयं आगम्य पप्रच्छेत्युत्तरत्रान्वयः । प्रथमं शब्दश्रवणमात्रं, अनन्तरं स्वयं तोयसंघर्षरूपकारणनिश्चयः । अनन्तरं तोयविशेषजिज्ञासया प्रश्नः ॥

225 -25   ताटका नाम, भद्रं ते । अस्मिन् रामायणे एतत्पूर्वापर-

प्रकरणेष्वपि बहुषु 'भद्रं ते' इति वाक्यं असकृत् श्रूयते । कुत्र चित् मंगलाशंसारूपार्थस्य सामं जस्यसंभवेऽपि सर्वत्र तादृशोऽर्थो न स्वरसः ।


स. श्लो.

यथा-इमौ कुमारौ, भद्रं ते, देवतुल्यपराक्रमौ (48-2) (50-17) इदं जगाद, भद्रं ते, राजानं घोर- रूपिणम् (58-14) सोमदा नाम, भद्रं ते, ऊर्मिला-तनया तदा (33-12) इत्यादौ । एवं बहुषु विचित्रेष्वपि प्रकरणेषु 'भद्रं ते' इत्यस्य श्रवणात् इयं महर्षेर्वाक्यशैली स्याद्वेति संशेमहे । लोके हि प्रायः हुंकार, इतिकार, अथकारादयः कैश्चित् वाक्यमध्ये तत्र तत्र प्रयुज्यन्ते ॥

230 -20

अनिद्रं लोकमिच्छन्ती । अत्र 'अनिन्द्रं लोकमिच्छन्ती' इति गोविन्दराजादिसम्मतः, पुराणाद्यनुगुणश्चपाठः । ब्रह्माण्डपुराणे मध्यमभागे द्विसप्ततितमा-ध्याये इयं कथा श्रूयते । पुरा युद्धे देवैः पराजितानां दैत्यानां पुनः विजयसंपादनाय शुक्राचार्यः तीव्र तपश्चचार। तत् ज्ञात्वा देवाः, तपस्समाप्तेः प्रागेव दैत्यान् जिघांसवः तान् अभ्यद्रवन्। भीता दैत्याः शुक्रं तपोगतं स्मृत्वा, तन्मातरं भृगुपन शरणं ययुः । तत्राप्यभिद्रुत्य राक्षसान् हन्तुमागतान् इन्द्रप्रमुखान् देवान् दृष्टा सा भृगुपत्नी लोकमनिन्द्रं-कर्तुमारेभे । तदा इन्द्रेण प्रार्थितः विष्णुः लोकहितार्थे भृगुपत्न्याः शिरश्चिच्छेदेति ॥

244 -30

संहारं व्याजद्वाराथ । अत्र तिलककतककारादयः संहार-मन्त्रोपदेशातिरिक्तं सत्यवदाद्यस्त्रोपदेशमभिप्रयन्ति । महेशतीर्थगोविन्दराजादयस्तु 'अस्त्राणां त्वहमिच्छामि संहारं मुनिपुङ्गव' इति रामप्रश्नदर्शनात् सत्यवदादीनि संहारमन्त्राणामेव नामधेयानीत्यभि प्रयन्ति । परन्तु पूर्व (21-17) 'संहारान् नाम दुर्धर्षान्' इत्यनेन संहारपदं अस्त्र विशेषपरमिति सर्वैः प्रतिपादितम् । तेषां कृशाश्वतनयत्वं च तत्रोक्तम् । 'कृशाश्वतनयान् राम' (10) इत्यनेन तान्येवात्र प्रत्यभिज्ञायन्ते । अतः सत्यवदादीनि अस्त्रान्तराण्ये-

स. श्लो.

देति कतककृत्तामाशयः । 'अस्त्राणामहमिच्छामि संहार' इति रामः संहारक्रमं पप्रच्छ, एवं स्थिते अस्त्रान्तराणामुपदेशः कथं घटताम् ? इति चेत्- प्रयोगात्राण्यन्यानि, तदनुगुणानि सत्यवदादीनि संहारास्त्राणि च स्वतन्त्राण्यन्यान्येवेति न विरोधः । अथवा, रामः संहारक्रमं पप्रच्छ । ऋषिश्च 'संहारं व्याजहार' इति वाक्यसमाप्तिः । तेन च रामपृष्ट-संहारक्रमोपदेशवृत्तान्तः समापित एव । अनन्तरं च ऋषिः सन्तुष्टः अस्त्रान्तराण्यप्युपदिशति-अथेत्यादिना । एवं सति च 'पात्रभूतोऽसि राघव (10) इति श्लाघनं स्वरसम् । तथा च संहारक्रम-प्रश्नात् शब्दसारूप्येणोद्बुद्धसंस्कारो महर्षिः कृशाश्व-तनयान् संहारनामकान् मन्त्रानपि सत्पात्राय रामायोपदिदेशेति ॥

286 -22

अस्तंगत इवांशुमान् । सूर्येऽस्तमिते खलु लोको निद्राति, तथा महर्षौ निद्रिते इतरे सर्वेऽपि निद्रातुमुपचक्रमुरिति भावः । अत्र 'मुनिरस्तंगतांशुमान्' इति व्याख्यासम्मतः पाठः ॥

296 -20

सुप्रीतमनसस्तदा । अत्र 'लोकानुग्रहाय मूलतेजसो धृतत्वात् देवकार्याय स्कन्नतेजसश्च दत्तत्वात् सन्तोष इति व्याख्या । परन्तु-स्कन्नं तेज एव देवकार्यं साधयिष्यतीति पूर्वं नोक्तम् । यत्र जातः महातेजाः' (19) इत्यादिकं च भविष्यत्कथासूचनया विश्वामित्रेणैव कथितम् । अत एवोत्तरसर्गे सेना-पतिप्राप्तये देवाः पुनर्ब्रह्माणमभिजग्मुरित्युच्यते । अतश्च (अत्र मनसः प्रीतिः स्वप्रार्थनया शिवेन तेजसो धरणेन लोकाविनशादेवेति युक्तम् । अत एवेश्वश्वरोऽप्याह-'धारयिष्याम्यहं तेजः–त्रिदशाः पृथिवी चैव निर्वाणमधिगच्छतु' (14) इति ॥

297 -21

समन्युरशपत् । अब्रवीदित्यस्यैव विवरणं अशपदिति ॥

स. श्लो.
297 -25

अवने नैकरूपा । 'अवनेऽप्येकरूपा' इति व्याख्यासम्मतः पाठः ॥

301 -12

शैलपुत्र्यां । इदं गंगायामित्यस्य विशेषणम् ।

302 -17

सर्वदेवहुताशनः । 'अग्निर्वै सर्वा देवताः' इत्यादिश्रुत्या अग्नेस्सर्वदेवात्मकत्वम् । गोविन्दराजीये–सर्व- 'देवानां हुतं अश्नातीत्यर्थ उक्तः ॥

332 -18

पारिप्लवगताश्चापि । वाहनादिसम्मदेवशात् पारिप्लवं-चलनं गताः इति वाऽर्थः ॥

334 -26

पवित्रमिति पस्पृशुः । पवित्रं-पावनम् । तत्र ज्ञापकहेतुमाह–भवाङ्गपतितमिति । भवेन रुद्रेण शिरसा धृतत्वात् पवित्रमिति ज्ञात्वा पस्पृशुरित्यर्थः । पवित्रमिति सामान्यतः उक्त्या भवस्य, अन्येषां च पवित्रमित्युक्तम् ।.......... यद्वा, भवाङ्गपतितत्वात् पवित्रं, न तु पूर्ववदतिपवित्रम् । अत एव पस्पृशुः, न तु सस्नुः । यद्वा, यद्यपि भवाङ्गात् पतितम्, तथापि विष्णुपादोद्भवत्वात् पवित्रमिति वा, 'नदी वेगेन शुद्ध्यति' इति न्यायात् भवसंपर्कविगमेन पवित्रमिति वा पस्पृशुः-गो. भवाङ्गपतितं । भवाङ्गात् पतितमित्यतः पवित्रं-अतिशुद्धं तोयं पस्पृशुरेव । ........अत्र पस्पृशुरेवेत्युक्त्या न सस्नुरिति फलितम् । तेनावगाहनानर्हवेगवत्त्वं तज्जलस्य सूचितम् । शि. पस्पृशुः-सस्नुः-ति. ती.

351 -15

तमहं त्वत्कृते । अमोघभत्रैनुग्रहेणाप्रतिबन्धसुतोत्पत्तिं मन्वाना ऋजुतया शुश्रूषाफलमुक्तवती-गो. एतेन दितेः कारुण्यं जातमिति सूचितम् । तेन वक्ष्यमाणाशुचित्वहेतुभूतानवधानता दितेः ज्ञानपूर्विकेति व्यक्तम् । शि.

स. श्लो.
351 -16

पादौ कृत्वाऽथ शीर्षतः । शीर्षतः-शाय्यायां शीर्षस्थाने पादौ कृत्वा निद्रया अपहृता-निद्रया गृहीतेत्यर्थः–ती.

शीर्षतः-शिरसि पादौ कृत्वा स्थितेति शेषः । मध्याह्नः शयनपरिग्रहप्रसङ्गाभावेनासन एवोपविशन्त्यास्तस्या निद्रापारवश्येन नम्रं शिरः पादयोः संसक्तमभवदित्यर्थः-गो.

दिवास्वापरूपपापेन, शय्यायां पादस्थाने मस्तककरणेन चाशुचित्वं सूचितम् । केचित्तु उपविष्टाया एव प्रह्वतया पादपर्यन्तं शिरस्सम्बन्धेन शीर्षे पादसम्बधः, तेन ब्राह्मणस्य शूद्रस्पर्श इव शिरसः पादस्पर्शेऽशुचित्वं सूचितम् । तपसि स्थितायाः शय्यासम्बन्धाभावेन पूर्वव्याख्याया अयुक्तत्वादित्याहुः । परे तु भूशयनेऽपि दक्षिणपूर्वदिशोः शिरःस्थापनयोग्यतायाः स्मृतिषूक्तेः तद्वैपरीत्येन शयनस्याशुचित्वसूचकत्वमस्त्येवेत्याहुः-ति.

अत्र ब्रह्माण्डपुराणस्य मध्यमभागगतपञ्चमाध्यायस्य श्लोकोऽयं अवधेयः-

निद्रयाऽपहृता देवी शिरः कृत्वा तु जानुनि ।
केशान् कृत्वा तु पादस्थान् सा तु सुष्वाप देवता ॥
अधस्ताद्यत्तु नाभेर्वै सर्वे तदशुचि स्मृतम्' इति

एवञ्च मध्याह्ने शयनस्य निषिद्धत्वेन जानू आकुंच्योपविष्टा दितिः निद्रापरवशाऽभूत् । तदा च केशाः विशीर्णाः पादयोरपतन् । तथा च शिरसः पादसंपर्कः समजनीत्यशुचित्वं स्पष्टमुपपादितम् ॥

'शोधनिका’


पुटः  पङ्क्तिः  अशुद्धम्   शुद्धम्
9  9  रोषद्दोवा   रोषाद्देव
14  9  इत्येवा   इत्येव
17  9  विशषा   विशेषा
 13  शास्त्राथ   शास्त्रार्थ
19  17  ब्रह्या   ब्रह्मा
22  18  तृती   द्विती
27  23  उपे   उपै
28  4  समा वन   समावन
39  5  सातां   सीतां
42  14  चतुवर्णा   चतुर्वर्णा
46  15  गावां   गवां
48  18  धिकोर   धिकारे
49  16  सङ्कल्पत्व   सङ्कल्पत्वत
50  2  तत्तत्प्रति   तत्तत्प्राति
52  20  अर्घ्योद   अग्रोद (पा).
59  2  बहुश्श्रुतः   बहुश्रुतः
61  21  मित्यत   मित्यतः
74  4  *ॠक्षस्य   ऋक्षस्य

  • एवं 'ॠश्यशृङ्गः' इत्यादावपि 'ऋ' कारो बोध्यः.

(53)

54

पुटः  पङ्क्तिः  अशुद्धम्   शुद्धम्
74  9  वना   वचना
80  11  शृङ्गार   शृङ्गार
 13  प्रवृत्त्य   प्रवृत्त्यु
81  8  वोत्थितौ(पा)   वोद्धृतौ
112  6  तद्याथाविधि पूर्वे   तद्याथा विधिपूर्वे
124  19  विप्रेन्द्रात्   विप्रेन्द्रं(पा)
137  1  चकारः   चकार
139  16  यौता   यौना
144  17-20  १०   
146  11  ब्राह्य   ब्राह्म
163  22  रोशः   शेषः
164  16  महात्ता   महात्त
170  9  अविष्ट   अवशिष्ट
173  18  तादृशां   तांश्च
176  9  वहवो   बहवो
177  3  नभस्थ   नभस्स्थ
184  5  भतानां   भूतानां
 14  मत्प्रताचा   मत्प्रतीचा
185  16  सवाप्रय   सर्वप्रिय
187  2  दप्ति   दीप्त
194  4  स मांस   तौ मांस (पा)
198  8  इत्यर्षे   इत्यार्षे
 13  २९   २१
204  2  सुबहू   सुबाहू

55

पुटः  पङ्क्तिः  अशुद्धम्   शुद्धम्
205  7  शुश्च च   शुश्च
222  21  गमागमे   गमागमौ
223  11  किमिय   किमिद
229  6  ण्यदि   ण्यादि
230  2  रक्ष   रक्षण
246  19  एवमस्वि   एवमस्त्वि
269  17  र्धमश्च   धर्मश्च
271  2  मगधान्   मागधान्
272  14  स्येत्य   स्मेत्य
288  14  हि तथा   तथा हि
307  9  पत्निभ्यां   पत्नीभ्यां
308  7  अस्य व   अस्या व
312  4  उक्थ्याह   उक्थ्याहे
313  16  मैकेको   मेकैको
315  1  मभि   मथा
316  6  शब्दैवा   शब्दैर्वा
 13  पृथिव्यायां   पृथिव्यां
338  20  वद्बह्म   वद्ब्रह्म
339  20  मुात्क्वा   मुक्त्वा
340  17  वतरणां   वतरणं
345  8  निर्मिथ   निर्मथ
 13  षष्ठि   षष्टि
347  14  वात्   त्वात्
351  23  वक्तत्रः   वक्रतः
352  17  अभिदं   अभिन्दं

56

पुटः  पङ्क्तिः  अशुद्धम्   शुद्धम्
368  8  शापस्थान्त   शापस्यान्त
371  7  समर्थां   समर्था
374  3  शाता   शता
384  12  मन्निनित्य   मन्नित्य
 21  विद्विद्या   विद्या
406  21  उक्त   उक्तः
410  21  त्यर्यः   त्यर्थः
412  10  य दूषय   ये दूषय
429  5  पुत्राणां   पुत्राणां
443  5  मारध   मारब्ध
444  21  जानिमो   जानीमो
457  3  धनुर्भङ्ग   धनुर्भङ्गः
479  9  श्रेष्ठ कुलं   श्रेष्ठकुलं





श्रीमद्वाल्मीकिरामायणम्

अमृतकतकव्याख्यासहितम्

बालकाण्डः

बालकाण्डः
प्रथमः सर्गः

 तपस्स्वाध्ययानिरतं तपस्वी वाग्विदां वरम् ।
 नारदं परिपप्रच्छ वाल्मीकिर्मुनिपुङ्गवम् ॥ १ ॥

अमृतकतकव्याख्या

 [३१]कालहस्तीशमेकाम्रनाथं वेदगिरीश्वरम् ।
 स्वमनः प्राण[३२]देहान्त[३३] स्स्थितांस्त्रीन्ब्रह्मणो भजे ॥
 हैरण्यगर्भं यत्तेजः श्रीप्रजेशावतारितम् ।
 चतुर्मुखचतुर्व्यूहं त्रिपदार्थं सदा भजे ॥
 अम्बात्र्यष्टाक्षरोल्लासत्र्यष्टश्लोकसहस्रकम् ।
 महाषोढात्मकाण्डं यत् तद्रामायणमाद्रिये ॥
  असङ्गतव्याकृतिपांसुपङ्किलं
   रामायणं तीर्थसमुद्धतामृतम् ।
  योगीन्द्रवाणी कतकाद्विपकिलं
   सर्वोपकारक्षममस्तु सर्वदा ॥


 भो भोः किमिदं रामायणं व्याख्येयं ? उत न ? यदि प्रयोजनं व्याख्येयम् ; यदि नो, न व्याख्येयम् । प्रयोजनमप्यैहिकमामुष्मिकं वा स्यात् । न तु कृषिवाणिज्यसेवादिना धनधान्यादिवदैहिकं किञ्चित्प्रयोजनं रामायणपाठात्पश्यामः । नाप्यामुष्मिकं ; [३४]निरयं निस्तितीर्षुः स्वरारुक्षुर्मुमुक्षुर्वा [३५]रामायणमाम्नेयात् इति श्रुतिस्स्मृतिर्वा न ह्यस्ति, पारलौकिके चार्थे तु एव प्रमाणम् ॥

 अपि च विशिष्यामुष्मिकश्रेयोऽर्थिमिरिदमनादर्तव्यं ; काव्यत्वात् । 'काव्यालापांश्च वर्जयेत्' इति स्मृतिघण्टाघोषः । काव्यता चास्याविवादा सर्वलोकस्य ॥

 अत्रोच्यते-यत्तावदवादि-निष्प्रयोजनत्वतो न व्याख्येयमिति-तदपेशलम् । एक[३६]भुक्तनियमेन गृहोचितब्रह्मचर्येण श्रवणकाले (षु) वीटीचर्वणास [३७] त्संभाषणसांसारिकव्यापारान्तरपरित्यागपूर्वं [३८]गन्धपुष्पादि [३९]पूजितरामायणार्थतत्त्वविन्निजाचार्यात्समग्रश्रद्धाभक्तयुपबृह्मिततया यथाविधि रामायणश्रवणतो मन्त्रायुर्वेदवदपरोक्षमेव सुपुत्रादिप्राप्तिमहारोग [४०]विमोचनादीष्टप्राप्त्यनिष्टपरिहारयोरतिप्रसिद्धत्वात् ॥

 अपि च गृहक्षेत्रादिबलारोग्यादिबाह्यान्तरार्थसिद्धिद्वादश कोचितपल्लवैः तथा द्वेषभेदादिक्रियासिद्धिद्वादशकोचितपल्लवैश्च शास्त्रसिद्धैरुपेततया अम्बाया उपासने उक्तसिद्धीनां शास्त्रसिद्धत्वात् । अपरोक्षानुभवसिद्धत्वाच्च । अम्बाविलासभूतरामायणध्यानेनापि यथोक्तार्थसिद्धेर्न्यायप्राप्तत्वाच्च । कार्यभूतप्रकृतिरपि यथाकारणं यथाबलं तमोनिवृत्त्यादिप्रयोजन [४१]करणम् ॥


 यच्चावादि रामायणस्यामुष्मिकार्थसाधकत्वे प्रमाणाभाव इति-तदप्यसुष्ठु । 'इदं पवित्रं पापघ्नं' इत्यादि 'जनश्च शूद्रोऽपि महत्वमीयात्' [४२]इत्यन्तैः श्लोकैरामुष्मिकानिष्टपरिहारेष्टप्राप्तिप्रकाशनस्य यथोचितैहिकार्थसाधकत्वस्य च सुस्पष्टमत्रैव श्रूयमाणत्वात् । तथा शृण्वत्रामायणं भक्त्या यः पादं पदमेव वा । स याति ब्रह्मणः स्थानं ब्रह्मणा पूज्यते सदा' इति शतकोटिप्रविस्तरब्राह्मालौकिकमूलरामायणवचनतो ब्रह्मलोकावाप्तेरतिप्रकाशत्वात् । तथा ग्रन्थान्तरे च सकलैहिकामुष्मिकफलसाधकत्वस्मरणाच्च ॥

 न च स्वस्मिन् स्वयमेव प्रमाणमिति न युज्यत इति - परमाप्तपरमर्षिप्रणीतत्वेन रामायणमात्रस्य प्रामाणिकत्वे सिद्धे स्वविषयकत्वे[४३]ऽन्यविषयकत्वे[४४] च तत्प्रतिपाद्यार्थस्य प्रमाणत्वात् । यथा सिद्धप्रामाण्यया श्रुत्या 'वाचा विरूपनित्यया' 'अनन्ता वै वेदाः' इत्यादिवाक्यैः प्रतिपाद्यमाने वेदनित्यत्वे भगवदहर्भेदवशात्तदुचितसन्निवेशविशेषं [४५]जानात्येव, [४६]सैव प्रमाणम् ॥
 अपि [४७]चाम्बया ब्रह्मानुस[४८]न्धानवशाद्ब्रह्मलोकावाप्तिवदम्बाविलासरामायणेन ब्रह्मलीलाविलासावतारवैभावानुसन्धानेन च विभूतिसंपत्तिरपि न्यायसिद्धा। 'देवो भूत्वा देवानप्येति' तथा 'देवान् देवयजो यान्ति मद्भक्ता यान्ति मामपि' इत्यादेश्च । ब्रह्मावतारो भगवान्राम इति च सुस्पष्टम् । प्रक्रमे पुत्रकामेष्टिना यज्ञेन सुप्रीतेन ब्रह्मणा स्वस्यैव तेजसः [४९]स्वीयपुरुषद्वारा प्रदापितस्याविर्भावितलीलाविमहत्वात् । अन्ते च "रामो राज्यमुपासित्वा ब्रह्मलोकं गमिष्यति" इति ब्रह्मलोकप्राप्तेश्च सुस्पष्टत्वात् । भगवतोंऽशावतारत्वस्य च स्वशक्त्यं.


शातिघोरांशस्य शक्तित्वाविशेषप्राप्तस्य शोधनेन दिव्यशक्तितासंपादनं प्रयोजनम् । देवीघोरांशं तच्छोघनं च संप्रदायविदो विदुः ॥

 [५०]ननु किमस्ति यथाधीतमन्त्रस्य शोधनमपि ? किं न शृणोषि ? "अभि नो वीरो अर्वति क्षमेत । प्रजायेमहि रुद्र प्रजाभिः" इति यथाधीतमन्त्रस्य ब्राह्मणेन शोधनं क्रियते । 'त्वं नो वीरो अर्वति क्षमेथा इति ब्रूयान्नाभि न इति । अनभिमानुको हैष देवः प्रजा भवति । प्रजायेमहि रुद्रिय प्रजाभिः इति ब्रूयान्न रुद्रेत्येतस्यैव नाम्नः परिहृत्यै’ इत्याद्यम् । एवमेव श्रीमद्रहस्योपनिषदादौ शोधनादि । प्रयोजनाय [५१]शोधनाद्युपायोप्युदेति । ततोऽस्ति । तत्र दशरथपुत्रप्रति[५२]बन्धादिः प्रथमपादघोरांश[५३]कृतः । राज्यापहारवन[५४]वासादिः द्वितीयपादघोरांश[५५]कृतः । सीतापहा[५६]रादिस्तृतीयपादघोरांश[५७]कृतः । किं बहुना ! सर्वमेव रामचरितं अस्मदादीनामम्बाक्षरार्थविद्योगिनामम्बाक्षरार्थसुप्रोतसुदर्शनं' आप्ततमशिष्याणां च । तत् स्थितं सार्थकत्वं व्याख्येयबीजम् ॥
 यच्चावादि-[५८]काव्यकृतेरनुपादेयतेति-अत्र ब्रूमः-उभयथाऽस्ति-काव्यशब्दः-"कबृ-वर्णनस्तुत्योः" [५९]इत्यस्मादौणादिककि [६०]प्रत्ययजनितकविशब्दादुत्पन्नः चित्तविकृतिजनिद्वाराऽगम्यगमनान्त-


महानर्थहेतुयोषिदासवाद्यसद्विषयवर्णनासन्मनुष्यस्तुत्यादिप्रतिपादकग्रन्थसन्दर्भविशेषार्थकः एकः काव्यशब्दः । अपरस्तु-वारि वहतीति वलाहक इतिवत् "क्रान्तं वेत्तीति कविः" इत्यतीन्द्रियतत्त्वार्थविदः- अनुग्रहाय तत्प्रवक्तारो व्यासादयः पृषोदरादिवत्साधुनानेन कविशब्देनोच्यन्ते । तस्येयं कृतिः-कर्म काव्यमिति ब्राह्मणादेराकृतिगणत्वात् कर्मणि ष्यञन्तः । तस्यास्य काव्यस्य चतुर्विधपुरुषार्थसाक्षात्साधनत्वेन सर्वप्रयत्नोपसंग्राह्यत्वात् रामायणस्य तथात्वस्य प्रागेव प्रतिपादितत्वात् इतरकाव्यकोट्यनभिनिवेशः ॥

 एवं विशिष्टविषयप्रयोजनवादिदं किमधिकारम् ? त्रैवर्णिकाधिकारम् । त्रिपदाविलासत्वात् ॥
 ननु त्रैवर्णिकस्य स्वकुलदैवतब्रह्मानुसन्धानस्य स्वकुलविद्ययैव सिद्धत्वात् किमेतेन ? उच्यते- पञ्चाङ्गसन्ध्यावन्दनाद्यनुष्ठान[६१]रहितेन त्रैवर्णिकेन अम्बया ब्रह्मशक्त्यनुसन्धानं; प्रातर्मध्याह्नसन्ध्ययोश्चैव तयानुसन्धानं; समस्तवैश्वदेवप्राणाग्निहोत्राद्यनन्तरं पुनस्सायंसन्ध्यावन्दनपर्यन्तमम्बया ब्रह्मानुसन्धान(योगात्)म् । तत्र च काले तेषां भगवदनुसन्धानप्रयोजनं च भवति । अतिमानुषभगवद्रामचन्द्रचरितश्रवणेन प्रत्यक्ष सन्तोषभक्त्यतिशयपापक्षयादिश्च भवति । अपि चाम्बानधिकृतब्राह्मणीब्रह्मकुलदास सच्छूद्राणामपि पुण्यलोकादिप्राप्तिहेतुभगवच्छ्रवणं [६२]सप्रयोजनं भवति । तदपीहाङ्गीकृतमेव-"जनश्च शूद्रोऽपि महत्त्वमीयात्" इति । एवं चतुर्णामाश्रममात्राधिकारम्, न सङ्कराधिकारम् , अम्बासम्बन्धिसम्बन्धस्याप्यभावात् ॥
 अथ काव्यविषयस्य रामचरितस्य काव्यस्य च प्रतिपाद्यप्रतिपादकभावस्सम्बन्धः । उक्तप्रयोजनस्य काव्यस्य च साध्यसाधनभाव-


स्सन्बन्धः । एवं समग्र[६३]प्रवृत्त्यंशोपेतं रामायणं व्याख्येयं [६४]प्रतिष्ठितम् ॥

 अथादिकविर्वाल्मीकिर्दिव्य काव्यकृतिशक्तये कृतकाष्ठसमाधिसाधितपरमादृष्टसुप्रीतभगवन्नियोगसमुपागतं देवर्षि नारदं दिव्यं काव्यनायकं पृच्छति स्म । पृष्टस्स यथावद्भगवन्मुखश्रुतं तद्दिव्यकाव्यविषयं प्रपञ्चश्रुतं तदीयचरितञ्चानुस्मृत्य संक्षिप्योपदिश्य अथ सरहस्योऽशेषोऽस्य विस्तरः स्वतः प्रतिभात्वित्यनुगृह्य यथागतं जगाम । ततस्तदनुग्रहस्मृतत्रिपदावलम्बनेन भगवत्प्रपञ्चितं रामचरितं सरहस्यं निरवशेषमनुस्मृत्य स्वयमपि त्रिपदावलम्बनेनैव चतुर्विंशतिसाहस्त्र्या समग्रहीत् ॥
 तस्यास्य दिव्यकाव्यस्याद्यसर्गो बाल्मीकेर्नारदस्योपदेशः । तत्र च 'नाष्पृष्टः कस्य चिह्नयात्' इति न्यायेनापेक्षितप्रश्नाक्षेपः-'तपस्स्वाद्धायेत्यादि--'श्रुत्वा चैतत्' इत्यन्तो ग्रन्थः । अत्र तपस्त्वेन श्रुतः स्वाध्यायः तपस्स्वाध्यायः । श्रूयते च तथा--'तप एव तत्तप्यते । तपो हि स्वाध्यायः' इति । उक्तश्रुत्यर्थसिद्धस्वाध्यायस्य तस्त्वमापस्तम्बश्च स्मरति“ तपस्स्वाध्याय इति ब्राह्मणम् । तत्र श्रूयते 'तपो हि स्वाध्यायः' इति" इति । [६५]स्वाध्यायश्चाप्रायत्यानध्ययनकालदेशादिपरिहारादिनियमोपेततया स्वशाखाध्ययनम् । तस्मिन्निरतः तदभ्यासनिरत इति यावत् । [६६]अत्र तपश्च स्वध्यायश्च तपस्स्वाध्यायौ तयोर्निरत इति द्वंद्वस्तूपेक्ष्यः । गौणतपोविशिष्टैकपरपुंविशेषप्रसिद्धमुनिपुङ्गवशब्देनैव तपस्सम्पत्तिमत्तायास्सिद्धत्वात् । [६७]अन्वयेन मृदुमतिसौकर्याय व्याकुर्मः । वाग्विदां स्वरूपतोऽर्थतश्च शब्दब्रह्मतत्त्वविदां


पाणिनिपतञ्जल्यादीनाम् । निर्धारणे षष्ठी। वरं-तदन्यूनतया तत्त्वविदमिति यावत् । मुनिशब्दो व्याकृतार्थ: । मुनिपुङ्गवमिति । 'सप्तमी' इति योगविभागात्समासः । 'न निर्धारणे' इति निषेधात् षष्ठीसमासोऽशक्याश्रयः । पुमांश्चासौ गौश्च पुङ्गव इति, 'गोरतद्धितलुकि' इति टप् समासान्तः । व्युत्पत्तिमात्रमिदं । श्रैष्ठ्ये रूढस्तु पुङ्गवशब्दः । एवंविशिष्टं नारदं । तपस्वी- गौणमुख्यतपोयुक्तः । तत्र तप इति 'तपो नाऽनशनात्परम्' इति श्रुतेः कृच्छ्रचान्द्रायणैकादश्युपवासादिलक्षणं मुख्यतपः । 'मनसश्चेन्द्रियाणाञ्च ह्येकाग्रथं परमं तपः इत्यादिश्रुतं गौणम् । एवंभूतो वाल्मीकिः प्रपच्छेत्यन्वयः । अत्र प्रष्टुरुक्तविशेषणेन दिव्यकाव्यविषयादिश्रवणाधिकारसम्पत्तिर्द्योतिता । वक्तुरप्युक्तविशेषणैः क्रमात्प्रतिपादनापेक्षितं सर्वज्ञत्वं वाग्मित्वं च प्रतिपादितम् । ग्रहणधारणसिद्धिहेतुशिष्यानुग्रहशक्तिमत्वं च प्रतिपादितम् ॥ १ ॥

 कोन्वस्मिन् सांप्रत लोके गुणवान् कश्च वीर्यवान् ।
 धर्मज्ञश्च कृतज्ञश्च सत्यवाक्यो दृढव्रतः ॥ २ ॥

 किं पप्रच्छेत्यतः प्रश्नाभिनयः-को न्वस्मिन्नित्यादि । नुशब्दो वितर्के । सांप्रतं-संप्रतिपर्यायं स्वरादित्वादव्ययं । वर्तमानकालेऽस्मिन्लोके भूलक्षणे को नु गुणवान् ? भूमप्रशंसादौ मतुप् । सहजनित्यानन्द (नित्य) कल्याणगुणवान् को नु दिव्यः पुरुषः ? अस्यैव प्रपञ्चः कश्च वीर्यबानित्यादि । दिव्यास्त्रबलादिजः शक्तिविशेषो वीर्यम्। वीर्यवदिदमौपधमित्यादौ शक्तिविशेषे सुप्रसिद्धो वीर्यशब्दः । सकृद्व्याकृतश्शब्दः पुनर्न व्याख्यायते ; ग्रन्थगौरवात् । अतस्तत्र सा व्याकृतिर्हदि धार्या । [६८]धर्मज्ञश्च-श्रौतस्मार्त सकलधर्म[६९]रहस्यज्ञश्च । बह्वीमाप्यपकृतिमुपेक्ष्य एका-


मप्युपकृतिं बह्वीयसीं मन्यत इति कृतज्ञः । सत्यवाक्यः-[७०]यथाश्रुतदृष्टार्थवक्ता । दृढव्रतः- आपद्यपि धर्माय परिगृहीतविशेषशैथिल्यरहितः ॥ २ ॥

 चारित्रेण च को युक्तः सर्वभूतेषु को हितः ।
 विद्वान् कः कः समर्थश्च कश्चैकप्रियदर्शनः ॥ ३ ॥

 [७१]'अर्तिलू' इत्यादिना इत्रप्रत्ययान्तो वृत्तसंपत्तिवाची चरित्रशब्दः। तस्माद्वायसादिवत्स्वार्थिकोऽण् । तेन को युक्तः ! सर्वभूतेषु-सर्वप्राणिषु । यतश्च निर्धारणम्" इति सप्तमी । कः-प्राणी- पुमान् हितः-सर्वस्मै हितः । ऐहिकामुष्मिकहितावहः । तथात्वं च भगवत एव समस्ति; यतो रावणस्यापि परलोकहित[७२]मवाक्षीत् । [७३]कश्चिदिह सर्वप्राणिष्वपि हितकरणशील इति हितशब्दयोगमावृत्तसर्वभूतशब्दस्याह-तदसत्-हितयोगे चतुर्थ्या भाव्यत्वात् । को विद्वान्-आत्मानात्मसकलपदार्थतत्त्वज्ञः । "विदेश्शतुर्वसुः" । सामर्थ्यं लौकिकव्यवहारे प्रजारञ्जनादौ चातुर्य, तद्वान् । [७४] अतिकामसौन्दर्यतो नित्यसौमुख्यतश्च एकरूपतया प्रियं दर्शनं यस्य स तथा । एकं प्रति प्रियं दर्शनं यस्यासौ एकप्रियदर्शन इति कश्चित् । तेनानेन किं प्राशस्त्यं प्रतिपादितं; खदासादिकमेकं मुक्त्वा सर्वाप्रियत्वस्य प्रतिपादनात् ॥ ३ ॥


 आत्मवान् को जितक्रोधो द्युतिमान् कोऽनसूयकः
 [७५]कस्य बिभ्यति देवाश्च जातरोषस्य संयुगे ॥ ४ ॥

 आत्मवान्-वशी-जितान्तःकरणः । क्रोधः-त्रिविधजिघांसा । जितक्रोधः-त्रिविधजिघांसा विहितापि व्यर्थहिंसाप्रसङ्गरहित इति यावत् । द्युतिः-सर्वलोकदिदृक्षाजननी देहसौन्दर्यकान्तिविशेषलहरी तद्वान् । अनसूयकः-विद्यौन्नत्यादिपरौन्नत्यासहनमसूया, तद्रहित इति यावत् । असु उपतापे इत्यस्मात्कण्वादियगन्तात् ण्वुलि अनसूयक इति । संयुगे-यथाप्राप्तयुद्धकाले जातरोषस्य कस्य रोषद्दोवा अपि-इन्द्रादयोऽपि बिभ्यति । अभ्यस्तत्वाददादेशः । अविषयानस्मानपि भगवत्क्रोधस्संहरिष्यतीति भयं प्राप्नुवन्तीत्यर्थः । एवं पाङ्क्ते मार्गे स्थिते कस्येति षष्ठी ऋषिवचनत्वादित्याह कश्चित् ॥ ४ ॥

 एतदिच्छाम्यहं श्रोतुं परं कौतूहलं हि मे।
 महर्षे त्वं समर्थोऽसि ज्ञातुमेवंविधं नरम् ॥ ५ ॥

 उक्तगुणजातसामान्यनिर्देशापेक्षया एतदिति नपुंसकं । यदेतदुपन्यस्तं तदेतद्दिव्यपुरुषगुण जातं त्वेतादृशस्यास्तीति श्रोतुमहमिच्छामि । उक्तगुणसामग्र्या एकत्रातिदुर्लभत्वात्तादृशविशेषजिज्ञासायां मे परं-सर्वस्मादपि कौतूहलान्तरादुत्कटं कौतूहलं वर्तते एवं पाङ्क्ते एवमितिपाठः सम्यगिति कश्चित् । ननु कथं त्वत्पृष्टस्सर्वो मया शक्यप्रत्युत्तर इत्यतो-महर्ष इत्यादि हे महर्षे-अपरोक्षातीन्द्रियाशेषार्थ ! इदं हेतुगर्भविशेषणम् । हि-यस्मात् त्वमेवंविधं यथोक्त-


कल्याणगुणाकरं नरं-दिव्यपुरुषं ज्ञातुं समर्थोऽसि-सर्वलोकप्रसिद्धसामर्थ्योऽसि ; तस्मात्त्वत्त एव श्रोतुमिच्छामीति पूर्वेणान्वयः ॥ ५ ॥

 श्रुत्वा चैतत् त्रिलोकज्ञो वाल्मीकेर्नारदो वचः ।
 श्रूयतामिति चामन्त्र्य प्रहृष्टो वाक्यमब्रवीत् ॥ ६ ॥

 श्रुत्वेति ॥ त्रिलोकज्ञः-भूर्भुवः स्वर्लोकलक्षणांस्त्रीन् लोकान् तत्रत्यवृत्तान्तांश्च जानातीति तथा । एवमत्र समाहारद्विगुत्वाभावान्न ङीप् । नारदो वाल्मीकेः एतत्- यथोक्तरूपं वचः श्रुत्वा श्रूयतामिति चामन्त्र्य-सम्बोध्य स्वरहस्यस्य चिरप्रतिपिपादयिषितस्य प्रतिपादनलाभेन प्रहृष्टो भूत्वा वक्ष्यमाणलक्षणं वाक्यमब्रवीत् । अत्र कूजन्तमित्यादिपुराणपाठीयान् श्लोकानपि व्याकुर्वन् तत्र वाल्मीकिशब्दोऽपत्यार्थेऽपि साधुः, [७६]गहादिपाठादित्याह । तदेतद्गहादिपाठस्य वाल्मीकिशब्दोऽपि छप्रत्ययप्रकृतिरित्येतावन्मात्र समर्थत्वेन तदीयव्युत्पत्तिविशेषे औदासीन्यात् । कथं तर्हि तस्य साधुता ? बाह्वादीञन्तत्वादेव । कथं बाह्वादिपाठस्य न ? कारान्तता उपपद्यते ? इञन्तत्वात् । क्वचित् "अत इञ्" अपवादापवादार्थत्वात् । सुमित्रादौ प्रत्ययान्तरबाधनार्थत्वात् । गणत्वेन क्वचिदनपत्यार्थेऽपीञन्तत्वाच्च । यद्वाऽयमप्यपत्यार्थेञन्तः । कथं? वल्मीकगर्भान्निर्गतत्वोपाधिना वल्मीकापत्यत्वस्य गोणीपुत्रः कलशीसुत इत्यादिवत्सुवचत्वात् । यद्वा वल्मीको नाम कश्चिदृषिः ; तस्यापत्यमिति वा । यद्वा दाडिमादिवदव्युत्पन्नः केवलसंज्ञाशब्दः । यद्वा दैवगत्या किञ्चिदवयवव्युत्पत्तेश्च सत्वात्पङ्कजादिवद्योगरूढो वा ॥ ६ ॥

 बहवो दुर्लभाश्चैव ये त्वया कीर्तिता गुणाः ।
 मुने! वक्ष्याम्यहं बुध्वा तैर्युक्तः श्रूयतां नरः ॥ ७ ॥


 त्वया ये बहवो गुणाः कीर्तिताः, त एते प्राकृतपुरुषमात्रे दुर्लभा एव । अथ च-अथापि हे मुने ! यस्तैर्युक्तः तं बुध्वा--स्मृत्वाऽहं वक्ष्यामि । तादृशो नरः श्रूयताम् । प्राप्तकाले लोट् ।

तस्य श्रवणं ते प्राप्तकालमित्यर्थः ॥ ७ ॥

 इक्ष्वाकुवंशप्रभवो रामो नाम जनैः श्रुतः ।
 नियतात्मा महावीर्यो द्युतिमान् धृतिमान् वशी ॥ ८ ॥

 इक्ष्वाकुवंशात्प्रभवः-आविर्भावो यस्य स तथा । रामो नाम- राम इति प्रसिद्धः-जनैश्च तथा श्रुतोऽस्ति कश्चित् । तस्मिन्नेवैकत्र सर्वे त्वत्पृष्टा गुणा इति शेषः । त एते गुणाः त्वदपृष्टानेकगुणाश्च, अनन्त कल्याणालयत्वं रामस्य द्योतयितुं प्रतिपाद्यन्ते-नियतेत्यादि । नियतात्मा-निगृहीतान्तःकरणः । वीर्यादिकं व्याकृतम् । आपत्सम्पदोरविकृतिश्चित्तस्य-धृतिः-तद्वान् । वशी-जिताशेषबहिःकरणः ॥ ८ ॥

 बुद्धिमान् नीतिमान् वाग्मी श्रीमान् शत्रुनिबर्हणः ।
 विपुलांसो महाबाहुः कम्बुग्रीवो महाहनुः ॥ ९ ॥

 बुद्धिः-तत्त्वज्ञानसाधनं सत्त्वप्रधानमन्तःकरणम् । सर्वत्रात्र प्रशंसादौ यथायोगं मतुप् । बुद्धेः प्राशस्त्यं सद्गृहीताविस्मरणावापोद्वापादिशक्तिमत्त्वम् । नीतिः-कामन्दकादिप्रसिद्धराजनीतिः । वाग्मी-"वाचो ग्मिनिः" प्रशस्तवाक् । त्रिलोकशेखरीभूतनिजशासन इति यावत् । श्रीमान् शोभैश्वर्योभयप्रकारनिस्तुलाधिकश्रीयुक्तः । शत्रु-निबर्हणः-शत्रूणां बाह्यान्तराणां यथाकालं यथोचितं निबर्हणः । "कृत्यलुटो बहुलम्” इति कर्तरि ल्युट् । घातूनामनेकार्थत्वान्निपूर्वो ब्रुहिर्हिसार्थः । विपुलांस इत्यादिना सामुद्रिकं लक्षणं कथ्यते । इदमपृष्टगुणकथनम् । विपुलः-विशालः-उत्कृष्ः-उन्नतः अंसः- भुजशिरो यस्य स तथा । "स्कन्धो भुजशिरोंऽसोऽस्त्री" इति निघण्टुः । तदुन्नतत्वं सुलक्षणम् । तथाऽऽह वररुचिः-

 "कक्षः कुक्षिश्च वक्षश्च घ्राणः स्कन्धो ललाटिका ।
 सर्वभूतेषु निर्दिष्टा उन्नतास्तु सुखप्रदाः ॥"

इति । महाबाहुः । "आन्महत" इत्यात्वम् । तत् ब्रह्मत्वलक्षणम् । तथा हि-

 शिरो ललाटश्रवणे ग्रीवा वक्षश्च हृत्तथा ।
 उदरं पाणिपादौ च पृष्ठं दश बृहत्सुखम् ॥"

इति ब्राह्मे । कम्बुवद्रेखात्रयविशिष्टा ग्रीवा यस्य स तथा । कम्बुः-शङ्खः । हनुः-कपोलोपरिभागः । तस्य महत्त्वं मांसलत्वम् । तच्च लक्षणम्-"पूर्णमांसलहनुस्तु भूमिपः" इति संहितायाम् ॥ ९ ॥

 महोरस्को महेष्वासो गृढजत्रुररिन्दमः ।
 आजानुबाहुस्सुशिरास्सुललाटस्सुविक्रमः ॥ १० ॥

 महत् विशालं उरः यस्य स तथा । "उरः प्रभृतीनि" इति नित्यः कप् । 'उरश्शिरो ललाटश्च' इत्यारभ्य "विशालास्ते सुखप्रदाः" इति शास्त्रम् । महेष्वासः-महान् इष्वासः-धनुरस्य । अस्यतेः करणे घञ् । गूढे-मांसलत्वान्मग्ने जत्रुणी-वक्षांससन्धिगतास्थिनी यस्य स तथा । अरीन्-पापान्तरायादिलक्षणान्निजभक्तानां दमयतीति अरिन्दमः । "संज्ञायां भृतृ..." इत्यादिना दमेः खच् । अरिन्दम इति राज्ञोऽन्वर्थसंज्ञा । शत्रुञ्जयो हस्तीत्यादिवत् । आजानुबाहुः-जानुपर्यन्त- दीर्घबाहुः । "दीर्घभ्रूबाहुमुष्कश्च चिरञ्जीवी धनी नरः" इति ब्राह्मे । शिरसस्सुष्टुत्वं समवृत्तत्वम् । तच्च लक्षणम् ।

 "समवृत्तशिराश्चैव छत्राकारशिरास्तथा ।
 एकछत्रां महीं भुङ्क्ते दीर्घमायुश्च विन्दति ॥"

इति नारदः । सुललाटः-ललाटस्य रेखाविशेषवत्वं सौष्ठवम् । तच्च लक्षणम्-

 "ललाटे यस्य दृश्यन्ते चतुस्त्रिद्व्येकरेखकाः ।
 शतद्वयं शत षष्टिस्तस्यायुर्विंशतिस्तथा"

इति कात्यायनः । विक्रमः-पदविक्षेपः; तस्य सौष्ठवं गम्भीरत्वम् । तच्च लक्षणं-"स्वरो गतिश्च नाभिश्च गम्भीरः स प्रशस्यते" इति ब्राह्मे ॥ १० ॥

 समः समविभक्ताङ्गः स्निग्धवर्णः प्रतापवान् ।
 पीनवक्षा विशालाक्षो लक्ष्मीवान् शुभलक्षणः ॥ ११ ॥

 समः-नातिदीर्घो नातिह्रस्वः । "षण्णवत्यकुलोत्सेघो यः पुमान् स दिवौकसाम्" इति ब्राह्मे । अंश इति शेषः । समानि-अन्यूनानधिकपरिमाणानि विभक्तानि-पृथक्कृतानि अंगानि यस्य स तथा । कानि पुनस्तानि ?

 "भ्रुवौ नासापुटे नेत्रे कर्णावोष्ठौ च चूचुकौ ।
 कूर्परौ मणिबंधौ च जानुनी वृषणे कटी ।
 करौ पादौ स्फिजौ यस्य समौ ज्ञेयस्स भूपतिः"

इत्युक्तानि । स्निग्धवर्णः-स्निग्धश्यामलवर्ण इति यावत् । तत्फलं स्निग्धेन्द्रनीलवर्णस्तु भोगं विन्दति फुष्कलम्" इति । प्रतापः-स्मृतिमात्रतः अरिहृदयविदारणक्षमं पौरुषम् । "प्रतापौ पौरुषातपौ " इति निघण्टुः । पनिवक्षाः-मांसलसमोन्नतवक्षाः । तादृशवक्षस्त्वस्य सुलक्षणत्वं प्रागेवोक्तम् । "प्यायः पी" ओदितश्च "इति निष्ठानत्वम् । विशालाक्षः-विस्तृतायताक्षः । "बहुव्रीहौ सक्थ्यक्ष्णोः" इति षच् । "नासिका चक्षुषी कर्णौ प्रजान् यस्य चायताः" इति लक्षणशास्त्रम् । लक्ष्मीवान्– सीतारूपलक्ष्मीशक्तिमान् । मोपघत्वाद्वत्वम् । एवमु[७७]क्तनित्यशुभानि सामुद्रिकशास्त्रोक्तानि लक्षणानि यस्य स तथा ॥ ११॥

 धर्मज्ञस्सत्यसन्धश्च प्रजानां च हिते रतः ।
 यशस्वी ज्ञानसंपन्नः शुचिर्वश्यस्समाधिमान् ॥ १२ ॥

 धर्मज्ञकृतज्ञौ व्याकृतौ । सत्याः-अमोधाः सन्धाः-'सकृदेव प्रपन्नाय तवास्मीति च याचते । अभयं सर्वभूतेभ्यो ददाम्येतद्वतं मम' इत्येवामादिरूपिण्यः प्रतिज्ञाः यस्य स तथा । प्रजानामित्यादि गतार्थम् । यशस्वी-रावणवघादा चन्द्रतारकानस्तमितदिव्ययशस्सम्पन्नः । असन्ततत्वादिनिः । ज्ञानसंपन्नः-विशिष्य ब्रह्मानन्यताज्ञानपरिपूर्णः । तथा हि-विशिष्य ब्रह्मदर्शनमूलं वचनं-जटायुषं प्रति "मया त्वं समनुज्ञातो गच्छ लोकाननुत्तमान्” इति । येभ्य उत्तमा न विद्यन्ते ते अनुत्तमाः-ब्रह्मलोका इति यावत् । तथा च श्रुतिः-"अथ यदतः परो दिवो ज्योतिर्दीप्यते सर्वतः पृष्ठेष्वनुत्तमेषु" इति । ननु कथं “आत्मानं मानुषं मन्ये रामं दशरथात्मजम्" इति रामवचनम्?-ब्रह्मज्ञानवत्वे का दुष्टिः । मानुषदेहोपाधिवशात् यदा रजस्तमस उद्रेकस्तदाऽसमाधिदशायां निजतत्व विस्मरणं स्यात् ; स्वप्ननिद्रयोरिव । तथा हि गीयते- "न तदस्ति पृथिव्यां वा दिवि देवेषु वा पुनः । सत्वं प्रकृतिजैर्मुक्तं यदेभिः स्यात्रिभिर्गुणैः इति । एवं सति उक्तकादाचित्कमानुषभावस्य अभावप्रतिपादनवृथाक्लेशः कस्यचित्केवलं श्राद्धः । तच्चासत्-सीताविरहजप्रलापादीनां


सर्वथैवामानुषभावेऽतिदुर्घटत्वात् ।यथोक्तब्रह्मज्ञानसंभवाय त्रीणि विशेषणानि-शुचिरित्यादीनि । प्रातस्स्नानादिपूर्वकगायत्रीजपादिना रेचकपूरकाभ्यासादिना प्रत्याहारजनितरागद्वेषहानेन च नित्यशुद्धस्थूलसूक्ष्मान्तरपरिकरत्रयः वश्यः-वशंगत इति यावत् । अकृतकानन्यतायोगेन ब्रह्मतावशं गतः । समाधिमान्-यथेच्छं साकारनिराकारनिजब्रह्मतत्त्व समाधिमान् । समा-एकीभूता या परेण ब्रह्मणा चित्तस्य आधिः-धारणं समाधिः । निवातनिश्चलदीपवच्चित्तस्य लक्ष्याचलस्थितिरिति यावत् । अत्र वश्य इति आश्रितपरतन्त्र इति समाधिमान्-प्रतिज्ञावान् इति चाह [७८]

कश्चित् । तदसत् । सत्यसन्ध इति प्रतिज्ञावत्वस्य गतत्वाच्च ।आश्रितपारतन्त्रस्यानुग्राहकत्वमात्रतात्पर्यतः पारतन्त्र्यस्य मिथ्यात्वाच्च ॥ १२ ॥

 प्रजापतिसमः श्रीमान् धाता रिपुनिषूदनः ।
 रक्षिता जीवलोकस्य धर्मस्य परिरक्षिता ॥ १३ ॥

 प्रजापतिसमः। यद्यपि प्रजापतिसमविष्णुभूमिविराट्प्रधानब्रह्माबतारो रामो भगवान् प्रजापतिर्ब्रह्मैव-अथापि-मानुषवैराजलोकदेहावतारोपाधितस्तदुवाधिसंसर्गजानां धर्माणां सीतामूलमोहशोकादीनां' इमौ तौ मुनिशार्दूल किङ्करौ समुपस्थितौ' इत्यादिपारतन्त्र्यादीनां आदेहपातमुपाधिप्रयुक्ताशेषनिजनित्यकर्मणां च कियतां अब्रह्मधर्माणामसमाधिकालेष्वनुवर्तनादस्त्येव चोभयोर्भेदः । अथापि मार्गवलोकप्रतिबंधजटायुलोकप्रदानविभीषणशाश्वतराज्यप्रदानहनूमदाकल्प-नित्यत्वभाविकार्यब्रह्मत्वदानसमुद्रसेतुबंधनस्वावतारानुयायिस्वभूमविमहसर्वदेवावतार (पूर्व) सर्वसेव्यत्वसशरीरसपरिकर ब्रह्मलोक निर्याणा-


न्तानां वयमस्मद्देहानामिव स्वकभूमविग्रहब्रह्माण्डयात्रादिस्वतन्त्रब्रह्मैकसाध्यानां भूयसां ब्रह्मधर्माणां रामोपाधावपि लोकस्य ब्रह्मावतारताप्रत्यायनायाविर्भावित[७९]

त्वाद्वा ब्रह्मसमत्वम् । नैवं धर्माः कृष्णाद्यवतारेऽपि । स तु प्रजापतिविष्णुप्रधानः । तथैव तेनैव भगवतोपदिष्टम् 'महर्षयस्सप्त पूर्वे चत्वारः ' इत्यादिना गीतायाम् । श्रीमान्-एवमादीनां भगवत्कल्याणगुणानामादरातिशयजपौनःपुन्य-कीर्तनमभ्युदयहेतुतोऽलङ्काराय न दोषगन्धाय । अतः परं व्याकृतपद्मतिस्पष्टं पाङ्क्तान्वयश्च त्यज्यते ।घाता-योगरूढ्या । तथा हि--'रामाय रामभद्राय रामचन्द्राय वेधसे' इति (च) ब्रह्मत्वादिदानीमौपाधिरामविग्रहेणापि पितेव सर्वप्रजाधारणाच्च । रिपुनिषूदन इति । 'नन्द्यादिभ्यो ण्यन्तेभ्यस्संज्ञायाम्' इति वचनात्ए वमादौ वा संज्ञायाम् । तथा हि-रिपुं निषूदयतीति रिपुनिषूदन इत्यण्यन्तात्कर्तरि नन्द्यादिल्योरयोगात् "कृत्यलुटो बहुलम्" इत्येव सर्वतो ल्युट् द्रष्टव्यम् । सुषामादित्वात् इह षत्वम् । जीवा ऊर्ध्वस्रोतोलक्षणाः-तेषां लोकः-समूहः-तस्य अन्नपानादिदानचोराद्युपद्रवत्राणादितः स्थूलदेहरक्षिता। धर्मः श्रौतस्मार्तरूपः । तस्य जीवलोकस्य योनित्यप्राप्तो वर्णाश्रमधर्मः तस्य तत्तन्मर्यादापालनद्वारा रक्षिता ॥ १३ ॥

 रक्षिता स्वस्य धर्मस्य स्वजनस्य च रक्षिता ।
 वेदवेदाङ्गतत्वज्ञो धनुर्वेदे च निष्ठितः ॥ १४ ॥

 न केवलं[८०]तस्य ; अपि तु स्वस्य-स्वीयस्य "अध्ययनमध्यापनं यज्ञो याजनं दानं प्रतिग्रहणं [८१]दायाद्यं सिलोञ्छः ।


(आप. धर्मसू. २-२०-४) अन्यच्चापरिगृहीतम् (५) । एतान्येव क्षत्रियस्याध्यापनयाजनप्रतिग्रहणानीति परिहाप्य दण्डयुद्धादिकानि (६) "इत्युपदिष्टस्वधर्मस्य च रक्षिता-सादरं सदानुष्ठाता । अपि च स्वजनस्य [८२]बन्धुजनस्य स्वभक्तजनस्य च विशिष्य रक्षिता । तथा हि-"राजवंशान् शतगुणान् स्थापयिष्यति राघवः" इति, तथा "सकृदेव प्रपन्नाय" इत्यादिकं च । वेदानां चतुर्णां छन्दःकल्पव्याकरणज्योतिषनिरुक्तशीक्षा लक्षणवेदाङ्गानां च पाठतोऽर्थतश्च तत्त्वज्ञः-परमार्थस्वरूपज्ञः । धनुर्वेदः-धनुषो हस्तमुष्टि स्थितिविशेषाकर्षणविमोकादिदिव्यास्त्रादिप्रतिपादकं शास्त्रं; तस्य च वेदत्वमुक्तार्थ [८३] शासनोपचारात् । अत एवान्यत्रापि आयुर्वेदादीनि सव्याख्यानि शास्त्राणि स्मृतयश्च सूत्राण्यपि तत्त्वार्थशास्त्रेणोपचाराच्छास्त्राणि ॥ १४ ॥

 सर्वशास्त्रार्थतत्त्वज्ञः स्मृतिमान् प्रतिभानवान् ।
 सर्वलोकप्रियस्साधुरदीनात्मा विचक्षणः ॥ १५ ॥

 सर्वमूलशब्दशासनाद्व्याकरणं च महाशास्त्रं, कामन्दकादीन्यपि शास्त्रशब्दकानि, सर्वेषामेषामर्थतत्त्वज्ञः । पाठस्य नातिप्रयोजनत्वादर्थविशेषणम् । [८४]स्मृतिमान्-उक्ताघीतवेदशास्त्रविस्मरणरहितः । प्रतिभानवान्-व्यवहारकाले श्रुतस्याश्रुतस्य चोचितार्थस्य द्राक्प्रतिभासः प्रतिभा-प्रतिभानं-तद्वान् । सर्वलोकप्रियः-स्वद्रष्टृस्मर्तृसर्वलोकानामिहामुत्रहितावहः । सर्वलोकानां प्रियं [८५]यस्मादित्यन्यपदार्थो बहुमीहिर्वा । साधुः -[८६]मृदुमधुरशुभस्वभावः । इदं पूर्वोक्तविशेषणसाधकं विशेषणम् । यद्येवं साधुद्विजवद्दीनस्वभावस्स्यादित्यत्रोक्तम्-अदीनात्मेति ।


 "शौर्यं तेजो धृतिर्दाक्ष्यं युद्धे चाप्यपलायनम् ।
 दानमीश्वरभावश्च क्षात्रं कर्म स्वभावजम् ॥" (गी. १८-४३)

इति सहजासाधारणक्षात्रभावेनातिधीरमहाप्रभुस्वभाव एव भवति । अत्र अपकारिष्वपि साधुत्वात्साधुरित्यादिक मसंगतमेवमादौ [८७]कश्चिज्जल्पति । तदसंगतमिति सन्तस्समवेदिषीरन् । तदतःपरमतिविरलं तादृश कश्मलप्रजल्पः प्रकाश्यते । विचक्षणः-यथोचितं लौकिकालौकिकसर्वार्थकृतिकुशलः ॥ १५ ॥

 सर्वदाऽभिगतस्सद्भिस्समुद्र इव सिन्धुभिः ।
 आर्यस्सर्वसमश्चैव सदैव प्रियदर्शनः ॥ १६ ॥

 होमदेवपूजासभाधिष्ठानादिकालेषु, [८८] कामन्दकादिना, (राज्ञा) विमुक्तेषु सर्वेष्वपि तत्तत्कालोचितैस्सद्भिः पुरोहितविद्वन्मन्त्रिप्रधानादिभिश्च'यथा राजा तथा प्रजाः' इति न्यायेन सात्विकस्वभावैः, समुद्रस्तत्तत्प्रदेशे तत्तत्सिन्धुभिरिवामिगतः -सेवितः । आर्यः-सार्वभौमत्वादेव सर्वपूज्यः । सर्वसमः सर्वेष्वपि कर्मायत्तद्वन्द्वमात्रेषु सुखदुःखादिषु हर्षविषादरहितः । शत्रुमित्रोदासीनेषु वैषम्यरहित इत्यन्यः [८९] । किमयं रामः परित्राट् ? येन तथा स्यात् ॥ १६ ॥

 स च सर्वगुणोपेतः कौसल्यानन्दवर्धनः ।
 समुद्र इव गाम्भीर्ये धैर्येण हिमवानिव ॥ १७ ॥

 स रामः एवं क्षत्रियमात्रसामान्यप्राप्तैः सर्वैर्गुणैरुपेतः ।चकाराद्वक्ष्यमाणराज्याभिषेकार्हक्षत्रियगुणैश्चोपेतः । कोसलस्यापत्यं स्त्री कौसल्या । 'वृद्धेत् कोसल....' इति ञ्यङ् । 'यङश्चाप्' । तस्या


आनन्दं सुतत्वाद्वर्धयतीति कौसल्यानन्दवर्धनः । एतेन महाकुलप्रसूतप्रधानमहिषीसुतत्वरूपस्य साक्षादभिषेकापेक्षितधर्मस्य सत्त्वं भगवति दर्शितम् । वक्ष्यमाणास्तु सर्वेऽभिषिषिक्षिते सर्वथाऽपेक्षितधर्मत्वे स्पष्टाः । गाम्भीर्यं-अगाधाशयत्वं; तत्र समुद्रतुल्यः । संयुगे

सर्वसेनापलायनेऽपि स्वयमचलतयावस्थानं धैर्यम् । राजप्रधानं इष्टवियोगादावनतिक्षुमितचित्तत्वं सर्वासाधारणं धैर्यम् । तत्रोभयत्र हिमवत्तुल्यः । अत्र रामस्य सीतावियोगे शोकात् प्रलापदोषमाशंक्य तदभावं समर्थयति [९०] कश्चित् । एवमादिरसङ्गतः प्रत्यक्षवचनविरुद्धो भाक्तः प्रलापः पृष्ठीकार्य इति प्रागेवोक्तम् । उपाधिगतधर्माणां तु संसर्गस्य यावद्देहपातमवर्ज्यत्वात् । अपि तु परमात्म कुलपरम कल्याणगुणपरमपतिव्रताया मातुः सीताया वियोगे यदि शोकं प्रलाप च न कुर्यात् तदा शुभाशुभोचितव्यवहाररहितपिशाचतुल्य एव राम: स्यात् । अतस्तत्कालशोकादिकमुक्तं पुरुषोचितमेवेति नायं दोषः ॥ १७ ॥


 [९१]विष्णुना सदृशो वीर्ये सोमवत्प्रियदर्शनः ।
 कालाग्निसदृशः क्रोधे क्षमया पृथिवीसमः ॥ १८ ॥

 वीर्यं व्याकृतम् ; तत्र विष्णुना तुल्यः । अनुग्रहप्रधानो विराडिष्णुः, स्वप्रधानो विराट् प्रजापतिः । प्रजापतिरेव विष्णुः ; विष्णुरेव प्रजापतिः ; भेदव्यवहारस्तूपाधिमात्रात् । अयमर्थः श्रीमद्ब्रह्मसिद्धान्तप्रकरणे बहुग्रन्थविस्तृत इति नेह शक्यप्रपञ्चनः । यद्यप्ययमेव रामो विष्णुः प्रजापतिः । तथापि मानुषोपाधिभेदात् सादृश्यम् । एवं सर्वत्र द्रष्टव्यम् । सोमवत् प्रियदर्शनः-सभायां प्रजाव्यवहारनिरीक्षणकाले । कालामिसदृशः क्रोधे-युद्धादिकाले । शक्यप्रतिक्रियापकारसहिष्णुता-क्षमा, तया अन्वितत्वे पृथिवीतुल्यः । पृथिवी हि माता सर्वस्रोतसामनन्यगतिकत्वात् तत्प्राप्ताघं क्षमते ॥ १८ ॥

  [९२]धनदेन समस्त्यागे सत्ये धर्म इवापरः ।

 धनत्यागे-यज्ञदानादिरूधर्मार्थवित्तव्ययविषये अपेक्षितधनसंपत्तौ धनदेन-नवनिधीशेन समः । अस्मिन्नेवांशे अयं दृष्टान्तः; न तु


त्यागांशे । स तु यक्षगणैः सर्वतः सर्वेषामपि निधीनपहृत्य नित्यं निजनिधीनेव केवलं पूरयति । धनदव्यवहारस्तु भगवदाज्ञया भगवदवयववस्वदितिदशगणेभ्यो यावद्भगवदाज्ञं ददाति । नान्येभ्यः

काचमात्रमपि । सत्यं व्याकृतम्, तत्रापरो धर्म इव । धर्मस्य मूर्त्यन्तरमिवेति यावत् ॥

 तमेवंगुणसंपन्नं रामं सत्यपराक्रमम् ॥ १९ ॥
 ज्येष्ठं श्रेष्ठगुणैर्युक्तं प्रियं दशरथस्सुतम् ।
 प्रकृतीनां हितैर्युक्तं प्रकृतिप्रियकाम्यया ॥ २० ॥
 यौवराज्येन संयोक्तमैच्छत्प्रीत्या महीपतिः ।

 "तमेवंगुणसंपन्नम्" इत्यारभ्यायोध्याकाण्डीयः संक्षेपः । अतः प्रागुक्तश्लोकैरेव यथाकथञ्चित् बालकाण्डीयोऽर्थः भगवदवतारादिः सूचितो वेदितव्यः[९३]। तत्र इक्ष्वाकुवंशप्रभव इत्यनेन विश्वामित्रानुग्रहजदिव्यास्त्रसंपत्यादिः ताटकावधयज्ञशत्रुनिबर्हणान्तो व्यापारः सूचितः । अथ "विपुलांसः" इत्यादि "लक्ष्मीवान्" इत्यन्तं यौवनदशावर्तिसीतापरिणयादिसंक्षेपः । सत्यपराक्रम इत्यनेन सत्यलोकवर्तिसत्याख्यलोकेश श्रीहिरण्यगर्भभावेन स्वीयेन भार्गवलोकप्रतिबन्धान्तव्यापारः संक्षिप्तो वेदितव्यः । अथ एवंगुणसंपन्नम्- प्रागुक्तनित्यासाधारणकल्याणगुणसंपन्नम्; पश्चादुक्तरीत्या श्रेष्ठगुणैः यौवराज्यसार्वभौमपदाभिषेकार्हविशिष्टगुणैश्च युक्तम् ; सत्यपराक्रमं -सत्यपरिपालनबलात् प्रवर्तमानः सत्यः-अमोघः पराक्रमः-परेषां शत्रूणां आक्रमः-अभिभवः


यस्य स तथा । [९४]प्रकृतीनां मन्त्रिपुरोहितायष्टादशप्रकृतीनां, हितैः इहामुत्रहितावहैः कर्मभिर्युक्तं श्रेष्ठं सुतं तं रामं प्रकृतिप्रियकाम्ययाप्रागुक्तप्रकृतीनां मन्त्रिपुरोहिताद्यष्टादशानां प्रियं कर्तुमिच्छया । यद्यपि

आत्मन इच्छायां काम्यजपि क्वचित्, अथापि 'छन्दसि परेच्छायामपि काम्यज्वक्तव्यः' इति वचनात् आर्षस्यापि छन्दोवद्भावात् काम्यच् । ततः 'अ प्रत्ययात्' इत्यकारे स्त्रीप्रत्यये टेर्लोपे टाप् । युवा चासौ राजा च युबराजः, तस्य भावः कर्म वा, ब्राह्मणादित्वात् प्यन्, यौवराज्यं तेन संयोक्तुं महीपतिः- दशरथः, प्रत्यिा-यौवराज्यपदार्ह-पुत्रानुभवजनितानन्देन ऐच्छत् । सश्वेतच्छत्रे भद्रासने पितरि स्थिते तदतिरिक्त सर्वव्यापारे अभिषेकपूर्वकमधिकृतो युवराजः ॥ २० ॥

 तस्याभिषेकसंभारान् दृष्ट्वा भार्याऽथ कैकयी ॥ २१ ॥
 पूर्वं दत्तवरा देवी वरमेनमयाचत ।

 अथ तस्य रामस्य, यौवराज्याभिषेकापेक्षितान् संभारान्--"औदुम्बरी आसन्दी, तस्यैव प्रादेशमात्राः पादाः स्युः" इत्यादितः तथा "दधिमधुसर्पिरातपवर्ष्या आपः" इत्यन्ततः बहुचब्राह्मणेनोपदिश्यमानान् संभृतान्, दृष्ट्वा-मन्थरावाक्यात् अवगत्य राज्ञः कनीयसी भार्या, पूर्वं-विभक्तिप्रतिरूपकमव्ययम् । 'कालाध्वनोः' इति तृतीयेति कश्चित् । नहि इह अत्यन्तसंयोग मासमधीत इतिवत् पश्यामः । पूर्व-पूर्वस्मिन् इन्द्रसहायार्थप्रवृत्तदशरथयुद्धकाले दशरथोपरि प्रयुक्तां आसुरीं मायां धवलाङ्गमुनिदत्तविद्यया निवारयन्त्यै कैकेय्यै तुष्टेन दशरथेन, दत्तवरा-दत्तौ वरौ यस्यै सा तथा, देवी-कृताभिषेका


कैकयी-[९५]केकयस्य अपत्यं स्त्री, 'क्षत्रियसमानशब्दात् जनपदात् तस्य राजन्यपत्यवत्' इत्याञि जनपदे लुप् । केकयमित्रयु' इत्यादिना यादेरियादेशे गुणे चादिवृद्धौ 'टिढ्ढाणञ्...' इत्यादिना ङीपि 'यस्य-' इति लोपे कैकेयीति भवति । अत्र " अपि माषं मषं कुर्यात् छन्दोभङ्गं न कारयेत्” इति न्यायेन कैकयी इति प्रयोगः । एनं वक्ष्यमाणलक्षणं वरं-पूर्वदत्तं प्राप्तकालत्वादयाचत दशरथं,

द्विकर्मकत्वात् याचेः ॥ २१ ॥

 विवासनं च रामस्य भरतस्याभिषेचनम् ॥ २२ ॥

 किं तत् वरद्वयमित्यतः-विवासनमित्यादि । निजराज्यात् रामस्य उद्वासनं तत्र भरतस्य अभिषेचनं च अयाचत ॥ २२ ॥

 स सत्यवचनाद्राजा धर्मपाशेन संयतः ।
 विवासयामास सुतं रामं दशरथः प्रियम् ॥ २३ ॥

 सत्यवचनात्-सत्यप्रतिज्ञत्वादेव हेतोः सत्यमयेन धर्मपाशेन संयतः-बद्धस्सन् दशरथः प्रियं सुतमपि विवासयामास |॥ २३ ॥

 स जगाम वनं वीरः प्रतिज्ञामनुपालयन् ।
 [९६]पितुर्वचननिर्देशात् कैकेय्याः प्रियकारणात् ॥ २४ ॥

 वीरत्वं-एकेन अनेकैरपरा युखतया धैर्यममुक्ता शोभामुखतया योद्धृत्वं वीरवत्यम् । स रामः पितुः प्रतिज्ञां स्वविवासनेन ।


सत्यतयानुपालयन् । "लक्षणहेत्वोः" इति हेतौ शतृप्रत्ययः । तत एव हेतोर्वनं जगाम । न केवलं स्वेच्छया, अपि तु पितृवचनकृतनिर्देशात्-आज्ञातः । अपि च कैकेय्या मातुश्च प्रियकारणात्-प्रियसिद्धिनिमित्तमपीत्यर्थः । एतेन मातापितृसन्तोषणमेव सर्वात्मना पुत्रस्य परमो धर्म इति सर्वजगतां भगवता रामेणोपदिष्टं भवति ॥ २४ ॥

 तं व्रजन्तं प्रियो भ्राता लक्ष्मणोऽनुजगाम ह ।
 स्नेहाद्विनयसम्पन्नः सुमित्रानन्दवर्धनः ॥ २५ ॥
 भ्रातरं दयितो भ्रातुः सौभ्रात्रमनुदर्शयन् ।

 व्रजन्तं भ्रातरं प्रियः-अर्श आद्यच् । रामे सुहृत्प्रीतिमान् भ्राता रामस्य स्वयं दयितः विनयसंपन्नः सुमित्रानन्दवर्धनो लक्ष्मणो भ्राता च, सौभ्रात्रं-"हायनान्तयुवादिभ्योऽण्" इत्यण् । सुभ्रातृभावं अनुदर्शयन्, स्नेहात्-भ्रातृस्नेहादेव जगाम; न पित्रादिनिर्देशात् ॥ २५ ॥

 रामस्य दयिता भार्या नित्यं प्राणसमा हिता ॥ २६ ॥
 जनकस्य कुले जाता देवमायेव निर्मिता ।
 सर्वलक्षणसम्पन्ना नारीणामुत्तमा वधूः ॥ २७ ॥
 सीताप्यनुगता रामं शशिनं रोहिणी यथा ।

 अथ रामस्य दयिता-इष्टा, भार्या, न केवलामष्टामात्रं- अपि तु प्राणसमा । निरतिशयप्रेमास्पदा; नित्यं हितकारिणी च । जनकस्य निमिपुत्रस्य कुले-अन्वये जाता । यद्यप्ययोनिजा सीता, अथापि जनककुलजस्य सीरध्वजस्य देवयजनलांगलपद्धतावा विर्भूतत्वा-देववादः । कथमेवं प्रादुर्भाव इत्यतो-देवमावेव अचिन्त्योदयस्थितितया देवैरेव स्वकार्यसिद्धिकांक्षिभिराविर्भाविता । यथा देव्या उदयस्तथा तल्लयोप्यचिन्त्यः । तथा भर्तृवियुक्तया बहुकालं स्थितिश्चाचिन्त्यहेतुका । यद्वा इवशब्द एवार्थ । सा देवेन भगवता स्रष्टा देवकार्याय निर्मिता देवमायैव । 'दैवी ह्येषा गुणमयी मम माया'(गी. ७-१४) इति गीता । भगवतोऽनाद्यनन्ता सहजा शक्तिरेव, न केवलं या काचित् द्रौपद्यादिवदयोनिजा स्त्रीति मातुस्त्वात्यन्तिकस्वकुलकथनम् । तिलोत्तमादिवद्देवमायेव स्थितेत्यन्य:[९७] । एवमर्थे निर्मितापदं व्यर्थम् । पुंलक्षणै रामवत् सर्वस्त्रीलक्षणसम्पन्ना । पुरुषेषु रामवन्नारीणामुत्तमा वधूः-स्त्री सीता-'सीता लाङ्गलपद्धतिः'; तदुत्थत्वात्सीता । शशिनं रोहिणी यथा राममनुगता ॥ २७॥

 पौरैरनुगतो दूरं पित्रा दशरथेन च ॥ २८ ॥
 शृङ्गवेरपुरे सूतं गङ्गाकूले व्यसर्जयत् ।
 गुहमासाद्य धर्मात्मा निषादाधिपतिं प्रियम् ॥ २९ ॥
 गुहेन सहितो रामो लक्ष्मणेन च सीतया ।

 अथ रामः पौरै: पित्रा दशरथेन च दूरमनुगतः गङ्गाकूले वर्तमानं निषादाधिपतिं प्रियं-इष्टं गुहमासाद्य-गुहादिभिः सहितो रामः आगङ्गं रथेनागतरामविसर्जनार्थमागतं सूतं गङ्गाकूले व्यसर्जयत् ॥ २९ ॥

 [९८]ते वनेन वनं गत्वा नदीस्तीर्त्वा बहूदकाः ३० ॥
 चित्रकूटमनुप्राप्य भरद्वाजस्य शासनात् ।
 रम्यमावसथं कृत्वा रममाणा वने त्रयः ॥ ३१ ॥
 देवगन्धर्वसंकाशास्तत्र ते न्यवसन् सुखम् ।


 अथ ते सीतारामलक्ष्मणा वनेन-पुरोवर्तिवनप्राप्तिद्वारेण वनं-अपरं वनं गत्वा; वनमिति जात्या; बहूदका नदीश्च तीर्त्वा 'श्र्युकः किति' इतीण्निषेधः । अनु–पश्चात् चित्रकूटं प्राप्य भरद्वाजस्य शासनात् तत्र रम्यमावसथं-पर्णशालां कृत्वा तत्र रममाणाः देवगन्धर्वसंकाशाः ते त्रयः तत्र वने सुखं न्यवसन् ॥ ३-३१ ॥

 चित्रकूटं गते रामे पुत्रशोकातुरस्तदा ॥ ३२ ॥
 राजा दशरथः स्वर्गं जगाम विलपन् सुतम् ।

 चित्रेत्यादि ॥ रामे चित्रकूटं गते सति तदा पुत्रशोकातुरो दशरथो राजा सुतं स्मृत्वा बिलपन्-परिदेवनं कुर्वन्नेव तद्दुःखवशात्स्वर्गं जगाम ॥ ३२ ॥

 गते तु तस्मिन् भरतो वसिष्ठप्रमुखैर्द्विजैः ॥ ३३ ॥
 नियुज्यमानो राज्याय नैच्छद्राज्यं महाबलः ।

 तस्मिन् दशरथे गते-मृते भरतस्तु वसिष्ठप्रमुखैर्द्विजैस्त्रैवर्णिकैस्सह मंत्रिवृद्धैः राज्याय नियुज्यमानो महाबलः-राज्यं कर्तुं समर्थोऽपि सौभ्रात्राद्राज्यं नैच्छत् । राज्यायेति 'तुमर्थाच्च' इत्यादिना चतुर्थी ॥३३॥

 स जगाम वनं वीरो रामपादप्रसादकः ॥ ३४ ॥

 वीरो व्याकृतः । स भरतो रामपादप्रसादकः 'तुमुण्वुलौ क्रियायां क्रियार्थायाम्' इति ण्वुल । पादशब्दः पूज्यवाची। पूज्यं रामं प्रसादयितुं जगाम ॥ ३४ ॥

 गत्वा तु स महात्मानं रामं सत्यपराक्रमम् ।
 अयाचत् भ्रातरं राममार्यभावपुरस्कृतः ॥ ३५ ॥

 स भरतो महात्मानं–सत्यप्रतिज्ञत्वाद्यनेकधर्मैर्महान्-वैभववान् आत्मा यस्य तं सत्यपराक्रमं भ्रातरं रामं गत्वा-आर्यभावपुरस्कृतः-विनीतवेषपुरस्कृतस्सन् 'आर्यो हृद्यो विनीतश्च' इति निघण्टुः । तं रामं राज्याय प्रतिनिवर्तितुमयाचत् । [९९]याचिद्विकर्मकः ॥ ३५ ॥

 त्वमेव राजा धर्मज्ञ इति रामं वचोऽब्रवीत् ।

 ननु कथं मे प्रतिनिवृत्तिः । पितृमातृदत्तराज्यं त्वमेव किलार्हसीत्यत्राह-त्वमेव राजेति ॥ ननु कथमेवमवधारणमित्यत्राह -धर्मज्ञ इति । ज्येष्ठे श्रेष्ठगुणैर्युक्ते कनीयान् राज्यं नार्हतीत्यनादिप्रवाहसिद्धं धर्मं त्वमेव जानासि । अतः प्रतिनिवर्तितव्यमेव इति न्यायमार्गोपेतं वचो रामं प्रत्यब्रवीत् ॥

 रामोऽपि परमोदारः सुमुखस्सुमहायशाः ॥ ३६ ॥
 न चैच्छत्पितुरादेशाद्रामो राज्यं महाबलः ।

 न च राज्यमैच्छत्तदा ॥ वनवासक्षोदक्षममहत्तरसहजकायबलवान्नामोऽपि राज्यं नैच्छत् । कुत इत्यतो हेतुचतुष्टयं-परमोदार इत्यादि । स्वसुखानादरेणाविगीतस्वसुखसाधनस्य परस्मै त्यागस्त्वौदार्यम् । एवं परमोदारत्वाद्राज्यसुखं बालो भरत एव भुङ्क्तामित्युपैक्षिष्ट । सुमुखः । भगवतो रामस्य राज्ये वने वा पादसंवाहनादिसकलबाह्यशुश्रूषायै लक्ष्मण एव । ऐहिकसकलसुखभोगाय राज्ये वने वाऽविशेषेण लोकमाता सीतैव । राज्ये तु प्रजाकार्यनिरीक्षणदुःखमभ्यधिकम् । वने तु तदभावः; योगजसन्तोषश्चाधिकः । अतोराज्याद्वनमेव नः परमं सुखं [१००]दैवगत्या लब्धमिति धिया राज्यादपि वनेऽम्लानाभ्यधिकमुखप्रसादयुक्तः । अत उपेक्षिष्ट । सुमहायशाः-


मुहुः प्राप्तमपि राज्यं पितुः परलोकहेतुसत्यपरिपालनाय रामो न [१०१]स्वीकरोतीति सुमहति यशस्यपेक्षा यस्य स तथा । अत उदासि । अथ परमो हेतुः पितुरादेशादिति । पितुः-चतुर्दशसमा वनवासनियोगस्य परिपालनाद्धेतोः नैच्छत् ॥ ३६ ॥

 पादुके चास्य राज्याय न्यासं दत्त्वा पुनःपुनः ॥ ३७॥
 निवर्तयामास ततो भरतं भरताग्रजः ॥

 यद्येवं-राज्यनाशप्रसङ्गः; तत्रोच्यते-पादुक इत्यादि । चो हेतौ । दत्त्वेति । दाञ् धातोरनेकार्थत्वात् कृतौ । एवं प्रतिनिवृत्तिं याचमानस्यास्य भरतस्य राज्याय-राज्यरक्षणसिद्धये इमे अहल्यादौ दृष्टशक्तिकाचिन्त्यवैभवभगवत्पादस्पृष्टे पादुके एवालं, अतस्तयोर्न्यासं समर्पणं राज्यरक्षार्थं कृत्वा तत एव हेतोर्भरताग्रजो रामश्चतुर्दशसमानन्तरमेव वा सर्वथा प्रतिनिवर्तितव्यमिति तामेव च [१०२]प्रतिनिवृत्तिं पुनःपुनर्याचमानं भरतं तदभ्युपगमेन च निवर्तयामास । [१०३]कश्चित्तु राज्याय राज्यं कर्तुं पादुके न्यासं दत्त्वेत्ययूयुजत् । अनेन न्यासो निक्षेपो यथा तथा दत्त्वेति वक्तव्यत्वतो न्यासस्य क्रियाविशेषत्वेन क्रियान्तर्भावात् पादुकयोरेव ददाति कर्मत्वात् तेनेदमर्थाभिप्रायस्य स्पष्टत्वात् सर्वथा चतुर्ध्या भाव्यत्वेन षष्ठ्ययोगः । न च न्यासमिति पदेन स्वत्वनिवृत्त्यभावात् संप्रदानाभाव इति; ऋणं यज्ञदत्ताय दत्त्वेत्यादौ चतुर्थ्यभावप्रसङ्गात् । अपि च राज्याय पादुके दत्त्वेत्येतावतैव तदपेक्षितार्थसिद्धेर्न्यास इति पदं सर्वथा व्यर्थम् । न्यासतया स्वत्वनिवृत्तिमकृत्वैव


दानं च पादुकयो रामस्यावश्यकं किल ! यतः प्रत्यावृत्त्यनन्तरं सार्वभौमस्य ते दुर्लभे !! एवमादिदुर्योजनकठिनस्थले इदमेवास्य व्याख्यानं, त्यागो वा । तथाऽग्रेऽपि द्रष्टव्यम् ॥ ३७ ॥

 स काममनवाप्यैव रामपादावुपस्पृशन् ॥ ३८ ॥
 नन्दिग्रामेऽकरोद्राज्यं रामागमनकाङ्क्षया ।

 स भरत इदानीं रामप्रतिनिवृत्तिरूपं काममनवाप्यैव रामपादावुपस्पृशन्-नमस्कुर्वन् पश्चान्नमस्कृत्य प्रतिनिवृत्तो नन्दिग्रामे स्थित्वा रामः प्रतिज्ञातसमयानन्तरं राज्यायागमिष्यतीति रामागमनगतयाऽऽकाङ्क्षया पादुकां पुरस्कृत्य राज्यमकरोत्-राज्यरक्षां कृतवान् ॥ ३८ ॥

 गते तु भरते श्रीमान् सत्यसन्धो जितेन्द्रियः ॥ ३९ ॥
 रामस्तु पुनरालक्ष्य नागरस्य जनस्य च ।
 तत्रागमनमेकाग्रो दण्डकान् प्रविवेश ह ॥ ४० ॥

 गत इत्यादि । श्रीमत्त्वादिविशिष्टो रामस्तु अत्यासत्त्या नागरस्य-मन्त्रिवृद्धादिपौरजनस्य सौभ्रात्रादिदिदृक्षया पुनर्भरतस्य च तत्र-चित्रकूटे आगमनं-[१०४]तत्संभावनां आलक्ष्य-पर्यालोच्य तेषां प्रतिनिवर्तनप्रयासाद्वरमित्तोऽपि किञ्चिद्दूरदेशगमनमिति सञ्चिन्त्य दण्डकारण्यानां रक्षश्चोरादिभूयिष्ठत्वात् एकाग्रः-सज्जो भूत्वा दण्डकान्-दण्डो नाम राजा तस्य निवासो जनपदः । 'तस्य निवासः' इत्यणो 'जनपदे लुप्' इति प्राग्दीव्यतीयाणो लुपि दण्डः । [१०५]जनपदस्तु शुक्रशापेन वनतां प्राप्तः, अतः कुत्सायां कन् । अवान्तरबहुवनत्वा इण्डकानिति । प्रविवेश ह । [१०६]हेत्यैतिध्ये प्रसिद्धौ ॥ ४० ॥


 प्रविश्य तु महारण्यं रामो राजीवलोचनः ।
 विरोधं राक्षसं हत्वा शरभङ्गं ददर्श ह ॥ ४१ ॥

 प्रविश्येति ॥ महच्च तदरण्यं च महारण्यम् । राजीवं-पद्मम् । शरभङ्गाद्या ऋषयः । चापीत्यादि निपातमुच्चयः पद्यपूरकः क्वचित्क्वचित् । इहापि पद्यपूरकः ॥ ४१ ॥

 सुतीक्ष्णं चाप्यगस्त्यं च अगस्त्यभ्रातरं तथा ।
 अगस्त्यवचनाच्चैव जग्राहैन्द्रं शरासनम् ॥ ४२ ॥
 खड्गं च परमप्रीतस्तूणी चाक्षयसायकौ ।

 इध्मवाहननामाऽगस्त्यभ्राता । दिव्यं धनुरादिकं कार्याय प्रतिगृहाणेत्येवंरूपादगस्त्यवचनात् । ऐन्द्रं-[१०७]इन्द्रादगस्त्य आगतं शरासनम् । इदमिहानुसन्धेयम्-पूर्वं भार्गवं जित्वा ततः प्राप्तं यद्वैष्णवं धनुर्भागवता वरुणे न्यस्तम्, तदिन्द्रेण वरुणादाहृत्यागस्त्ये स्थापितं रामाय दातुम् । तथा खड्गादिकं च द्रष्टव्यम् । किमर्थमेवं कल्पना ? उच्यते-आरण्ये अगस्त्येनोच्यते-

 इदं दिव्यं महच्चापं हेमरत्नाविभूषितम् ।
 वैष्णवं पुरुषव्याघ्र निर्मितं विश्वकर्मणा ॥
 अमोघः सूर्यसंकाशो ब्रह्मदत्तश्शरोत्तमः ।
 दत्तो मम महेन्द्रेण तूणी चाक्षयसायकौ ॥
 तद्धनुस्तौ च तूणीरौ शरं खड्गं च मानद ।
 जयाय प्रतिगृह्णीष्व वज्रं वज्रघरो यथा ॥"


इति स्वेन दीयमानधनुषोऽगस्त्येन वैष्णवत्वप्रतिपादनात् । तूणी चेति चकारेण धनुषोऽपि महेन्द्रदत्तत्वप्रतिपादनं तत्र । यद्वा इन्द्रः परमेश्वरो विष्णु: तस्येदमैन्द्रम्। अनुरूपायुधलामात्परमप्रीतः । अक्षयाः सायका ययोस्तौ तथा ॥ ४२ ॥

 वसतस्तस्य रामस्य वने वनचरैस्सह ॥ ४३ ॥
 ऋषयोऽभ्यागमन् सर्वे वधायासुररक्षसाम् ।

 वनचरैः–वानप्रस्थमुनिभिस्सह तस्मिन् वने वसतस्तस्य रामस्यान्तिकं असुररक्षसां-असुराः कबन्धादयः, रक्षांसि-खरादयः तेषां वघाय-वधं प्रार्थयितुं ; क्रियार्थोपपदस्य-'इत्यादिना चतुर्थी । सर्वे ऋषयो वनान्तरवर्तिनश्चाभ्यागमन् ॥ ४३ ॥

 [१०८]स तेषां प्रतिशुश्राव राक्षसानां तदा वने ॥ ४४ ॥

 स रामस्तदा तस्मिन् वने तेषां राक्षसानां वधं तेभ्यः सर्वेभ्य ऋषिभ्यः प्रतिशुश्राव-प्राप्तकालं असुररक्षांसि सर्वथा संहरिष्ये, नोपेक्षे इति प्रतिज्ञातवानित्यर्थः ॥ ४४ ॥

 [१०९]प्रतिज्ञातच रामेण वधः संयति रक्षसाम् ।
 ऋषणामग्रिकल्पानां दण्डकारण्यवासिनाम् ॥ ४५ ॥

 एवं ऋषीणामुच्यमानविशेषणानामपेक्षितः रक्षसां वषश्च संयति- यथाप्राप्तकाले करिष्यामीति अचिन्त्यामितनिजशक्तिवैभवाद्रामेण प्रतिज्ञातः ॥ ४५ ॥


 तेन तत्रैव वसता जनस्थाननिवासिनी ।
 विरूपिता शूर्पणखा राक्षसी [११०]कामरूपिणी ॥ ४६ ॥

 तेन तत्रैव-दण्डकारण्यदक्षिणप्रदेशवर्तिपञ्चवट्याश्रम इत्यर्थः । [१११]जनस्थानं नाम रावणसामाजिकबलनिवासदेश: । विरूपिता-तत्करोतीति ण्यन्तान्निष्ठा । यद्वा तारकादेराकृतिगणत्वादितच् । नासिकाछेदनेनेति शेषः । शूर्पणखा- 'नखमुखात्संज्ञायाम्' इति ङीब्निषेधः । 'पूर्वपदात्संज्ञायां-'इति णत्वम् । [११२]कामः-इच्छा । स्वाभीष्टरूपग्रहशक्तिमती ॥ ४६॥

 ततश्शूर्पणखावाक्यादुद्युक्तान् सर्वराक्षसान् ।
 खरं त्रिशिरसं चैव दूषणं नाम राक्षसम् ॥ ४७ ॥
 निजघान रणे रामस्तेषां चैव पदानुगान् ।

 सर्वराक्षसानिति ॥ जनस्थाननिवासिन इति शेषः पदमनुगच्छन्तीति पदानुगाः । 'अन्यत्रापि-'इति वचनाडुः ; टिलोपः ॥ ४७ ॥

 वने तस्मिन्निवसता जनस्थाननिवासिनाम् ॥ ४८ ॥
 रक्षसां निहतान्यासन् सहस्राणि चतुर्दश ।

 निवसतेति। रामेणेति शेषः । चतुर्दशसहस्रसंख्याकानि रक्षसां सैन्यानीति शेषः ॥ ४८ ॥

 ततो ज्ञातिवधं श्रुत्वा रावणः क्रोधमूर्छितः ॥ ४९ ॥
 सहायं वरयामास मारीचं नाम राक्षसम् ।


 वार्यमाणस्सुबहुशो मारीचेन स रावणः ॥ ५० ।।
 न विरोधो बलवता क्षमो रावण तेन ते ।

 ज्ञातिवधमिति ॥ रावणादयः खरादयश्च द्वैमातुरः विश्रवसः पुत्राः । अतो ज्ञातयो रावणस्य खरादयः । रावणशब्दश्च विश्रवः-प्रकृतिकः । कथम्? विश्रवसः अपत्यमित्यर्थे 'विश्रवणरवण' इत्यसन्नियोगे विश्रवणरवणयोरादेशयोर्विधानात् । मूर्च्छितः-व्याक्षिप्तचित्तस्सन् । हे रावण ! ते बलवता तेन रामेण विरोधो न क्षमः-न युक्तः, न हितः च-परदारहरणस्य परमानर्थत्वात् बलवद्विरोषस्य खरादेरिव निजनाशान्तत्वाच्चेत्येवं सुबहुशो मारीचेन द्वित्रिःपञ्चसप्तवारं वार्यमाणोऽपि स ज्ञातिवधकोधमूर्छितो रावणो मारीचं नाम प्रसिद्धं राक्षसं सीतापहारे सहायं वरयामास । वृञ् श्नौ, श्नायां वृङ्, णौ वृञ् वरण इति स्वार्थेण्यन्तोऽपि धातुरस्ति । तथापि नास्माण्णिच् । अपि तु वरशब्दात् 'तत्करोति' इति णिच् ॥ ४९ ॥ ५० ॥

 अनादृत्य तु तद्वाक्यं रावणः कालचोदितः ॥ ५१ ॥
 जगाम सहमारीचस्तस्याश्रमपदं तदा ।

 अथोक्तप्रकारं तद्वाक्यं-मारीचवाक्यं तु कालचोदितः- हेतु गर्भं विशेषणम्; विधिचोदितत्वाद्रावणोऽनादृत्य सहमारीचः- 'वोपसर्जनस्य' इति विकल्पात् सहशब्दस्य सत्वाभावः । तदा तस्य रामस्य आश्रमपर्व जगाम ॥ ५१ ॥

 तेन मायाविना दूरमपवाह्य नृपात्मजौ ॥ ५२ ॥
 जहार भार्या रामस्य गृध्रं [११३]हत्वा जटायुषम् ।


 मायाविना तेन मारीचेन । अस्माया-'इत्यादिना विनिः । नृपात्मजौ दूरमपवाह्य-वहेर्ण्यन्तात् ल्यप्-अपसरणं कारयित्वा । गृधं हत्वेति । पक्षापहारेण कण्ठगतप्राणं कृत्वेति यावत् ॥ ५२ ॥

 गृध्रं च निहतं दृष्ट्वा हृतां श्रुत्वा च मैथिलीम् ॥ ५३ ॥
 राघवश्शोकसन्तप्तो विललापाकुलेन्द्रियः ।

 निहतं-निहतप्रायम् । श्रुत्वेति । गृध्रमुखादिति शेषः । विललापपर्यदेवयत् । आकुलानि-उत्कटरजस्तमोविजृम्भितशोकपरवशानि इन्द्रियाणि यस्य स तथा ॥ ५३ ॥

 ततस्तेनैव शोकेन गृध्रं दग्ध्वा जटायुषम् ॥ ५४ ॥
 मार्गमाणो वने सीतां राक्षसं संददर्श ह ।
 कबन्धं नाम रूपेण विकृतं घोरदर्शनम् ॥ ५५ ॥
 तं निहत्य महाबाहुर्ददाह स्वर्गतश्च सः ।

 तेनैव शोकेनेति । निवृत्तिहेतुमप्राप्तेनाभिभूयमान एव सन् । मार्गमाण इति । मार्गयमाणः । (संस्कारे वा) णौ मार्ग अन्वेषण इति । [११४]णेर्विकल्पितत्वान्मार्गमाण इति । रूपेण विकृतमिति। 'प्रकृत्यादिभ्य उपसंख्यानम्' इति तृतीया । निहत्य ददाह च । ततस्स कबन्धः स्वर्गं गतः ॥ ५५॥

 स चास्य कथयामास शबरीं धर्मचारिणीम् ॥ ५६ ॥
 [११५]श्रमणीं धर्मनिपुणामभिगच्छेति राघवम् ।

 गच्छन् स कबन्धः अस्य रामस्योपचिकीर्षया शबरीं- उच्यमानवि-शेषणाीं अभिगच्छेति राघवं कथयामासेति योजना । श्रमणीं-तापसीं ;


'श्रमु तपसि खेदे च' । अस्मात्कर्तरि ल्युट् । टित्वात् ङीप् । सर्वतोऽस्माभिरुचित एक एव पाठो निश्चयाय लिख्यते ॥ ५६ ॥

 सोऽभ्यगच्छन्महातेजाः शबरीं शत्रुसूदनः ॥ ५७ ॥
 शबर्या पूजितस्सम्यग्रामो दशरथात्मजः ।
 पंपातीरे हनुमता सङ्गतो वानरेण ह ॥ ५८ ॥
 हनुमद्वचनाच्चैव सुग्रीवेण समागतः ।
 सुग्रीवाय च तत्सर्वं शंसद्रामो महाबलः ॥ ५९ ॥
 आदितस्तद्यथावृत्तं सीतायाश्च विशेषतः ।

 हनुमद्वचनादिति । ह्रस्वान्तश्शब्दः क्वचत् । छन्दोवत् दीर्घश्च द्रष्टव्यः । सुग्रीवो युष्मत्सङ्गतिमभिकांक्षत इत्यादिरूपं हनूमद्वचनं । सुग्रीवाय चेति । संगतायेति शेषः । शंसदिति । 'बहुलं छन्दस्यमाङ्योगेऽपि' इत्यडभावः । महाबल इति । सुग्रीवेण स्वपुरुषार्थसाधकमहाबलत्वेनावगत इत्यर्थः । किमशंसदित्यतः- आदित इत्यादि । तत्-प्रसिद्धं वृत्तं स्वीयं यथा येन-प्रकारेण प्रसिद्धं तथैव तदादितः निजजन्मारभ्याशंसत् । सीताया वृत्तमपि विशिष्य रावणापहारा[११६]न्तमशंसत् ॥ ५९ ॥

 सुग्रीवश्चापि तत्सर्वं श्रुत्वा [११७]रामस्य वानरः ॥ ६० ॥
 चकार सख्यं रामेण प्रीतश्चैवाग्निसाक्षिकम् ।

 वानरः सुग्रीवोऽपि तत्सर्वं च श्रुत्वा स्वसमानदुःखमहाबलसम्बन्धलाभात् सुप्रीतस्सन् रामेणाग्निसाक्षिकमेव-अग्निस्साक्षी-साक्षादनुभविता यस्य तत्तथा । ततः शेषाद्विभाषा' इति कप् । पृषोदरादित्वात्साक्षिशब्दस्साधुः । सख्यं चकार ॥ ६० ॥


 ततो वानरराजेन वैरानुकथनं प्रति ॥ ६१ ॥
 रामायावेदितं सर्वं प्रणयाद्दुःखितेन च ।
 प्रतिज्ञातं च रामेण तदा वालिवधं प्रति ॥ ६२ ॥

 ततो वैरानुकथनं-वालिनस्तव च वैरे किं कारणमिति रामकृतमनुकथनं-अनुप्रश्नं प्रति यत् प्रत्युत्तरमावेदितव्यं तत्सर्वं दुखितेन-रामवद्दारापहारान्त कष्टैस्संजातदुःखेन सुग्रीवेण प्रणयाद्रामायावेदितं तदा । एवं तद्वृत्तांतश्रवणानन्तरकाले रामेण वालिवधं च प्रति-उद्दिश्य प्रतिज्ञातं-अवश्यं हनिष्ये वालिनमिति ॥ ६२ ॥

 वालिनश्च बलं तत्र कथयामास वानरः ।
 सुग्रीवश्शङ्कितश्वासीन्नित्यं वीर्येण राघवे ॥ ६३ ॥

 तत्र-ऋश्यमूकपर्वते वालिनो बलं च-कक्षीकृतरावणतया पुरा सूर्योदयादरुणोदयानन्तरं चतुस्समुद्रलंघनादिरूपं कथयामास । अपि च सुग्रीवो नित्यं वीर्येण वालिना तुल्यो न वेति शंकितश्चासीत् । मतिबुद्धिसूत्रे चकारेण शंकिताद्याः कर्तरि क्तान्ताः संगृहीताः ॥ ६३ ॥

 राघवप्रत्ययार्थं तु दुन्दुभेः कायमुत्तमम् ।
 दर्शयामास सुग्रीवो महापर्वतसन्निभम् ॥ ६४ ॥

 अपि च राघवप्रत्ययार्थं-राघवस्य वालिमहाबलज्ञापनार्थं-उत्तमं-बलप्रत्यायनोत्तमसाधनं महापर्वतसन्निभं दुन्दुभेः कायं दर्शयामास । यस्य काय इदानीमेतादृशस्तादृशो दुन्दुभिश्च वालिना इत इति वालिबलप्रख्यापनं भवति ॥ ६४ ॥

 उत्स्मयित्वा महाबाहुः प्रेक्ष्य चास्थि महाबलः ।
 पादाक्रुष्ठेन चिक्षेप संपूर्णं दशयोजनम् ॥ ६५ ॥

 कुत्स्मिवदुत्स्मिरपि स्वार्थे णिः । महाबाहुः-महाबलो रामः अस्थि प्रेक्ष्योत्स्मयित्वा-उत्स्मितं-ईषत्स्मयं कृत्वा तत् पादाङ्गुष्ठेन चिक्षेप । क्षिप्तं च तत् दशयोजनपरिमितदूरं संपूर्णं-अनुपचारेण दशयोजनादन्यूनतय । क्षिप्तमभूत् ॥ ६५ ॥

 बिभेद च पुनस्सालान् सप्तैकेन महेषुणा ।
 गिरिं [११८]रसातलं चैव जनयन् प्रत्ययं तदा ॥ ६६ ॥

 पुनश्च प्रत्ययं जनयन् । हेतौ शता । तदा तदर्थं एकेनैव महेषुणा सकृत्प्रयोगेणैव च सप्तसालान्-सालवृक्षान् ततः पुरोवृत्तिगिरिं [११९]रसातलं-षष्ठमधोलोकञ्च बिभेद । पाताले रसातलो नामाधोलोक-भेद । अतलवितलसुतलतलातलमहातलरसातलपाताला इति सष्ठाधोलोकाः ॥६६॥

 ततः प्रीतमनास्तेन विश्वस्तस्स महाकपिः ।
 किष्किन्धां रामसहितो जगाम च गुहां तदा ॥ ६७ ॥

 ततः-अनन्तरं भगवदतिरिक्तेन येन केन चिदपि दुष्करेण तेन कर्मणा विश्वस्तः-प्राप्तविस्रंभः । इडभावश्छान्दसः । प्रीतमनाश्च महाकपिः किष्किन्धाख्यां गुहां रामसहितो जगाम । पारस्करप्रभृतिषु 'किष्किन्धा गुहा' इति वचनात् षत्वम् ॥ ६७ ॥

 ततोऽगर्जद्धरिवरः सुग्रीवो हेमपिङ्गलः ।
 तेन नादेन महता निर्जगाम हरीश्वरः ॥ ६८ ॥

 ततः अगर्जत् इति पदम् । हरीश्वरो वाली ॥ ६८ ॥


 अनुमान्य तदा तारां सुग्रीवेण समागतः ।
 निजघान च तत्रैनं शरेणैकेन राघवः ॥ ६९ ॥

 तदाऽङ्गदमुखादवगतसुग्रीवरामसहायं, अत एव संयुगनिर्गमनं वारयन्तीं तारां-स्वस्त्रियं 'मयाऽकृतापकारो रामो मह्यं नापकरिष्यति' इति वचनेनानुमान्य-अनुमतिं करोति, तामनुमानयति । मानयतेः क्त्वाया ल्यप् । 'गतिबुद्धि-' इत्यादिना तारायाः कर्मत्वम् । कृतानुमतिकां कृत्वेत्यर्थः । सुग्रीवेण वाली युद्धाय समागतोऽभवत् । तत्र संयुगे एनं 'वालिनं जहि काकुत्स्थ मया बद्धोऽयमञ्जलिः' इत्येवंरूपात्सुग्रीववचनात् राघवः एकेनैव शरेण निजघान । अत्र सुग्रीववचनस्य हननप्रयोजकत्वकथनमनपकारिवालिवधस्यायुक्तत्वेऽपि मित्रापकारित्वेन हननमिति द्योतनायानुवादरूपम् ॥ ६९ ॥

 ततस्सुग्रीववचनात् हत्वा बालिनमाहवे ।
 सुग्रीवमेव तद्राज्ये राघवः प्रत्यपादयत् ॥ ७० ॥

 तत इत्यादि । एवं सुग्रीववचनादाहवे वालिनं हत्वा राघवः सुग्रीवमेव तस्य वालिनो राज्ये प्रत्यपादयत्-प्रतिष्ठापितवान् ॥ ७० ॥

 स च सर्वान् समानीय वानरान् वानरर्षभः ।
 दिशः प्रस्थापयामास दिदृक्षुर्जनकात्मजाम् ॥ ७१ ॥

 स च दिशः-सर्वा दिशः प्रति, दिदृक्षुः - अन्वेषिषुरिति यावत् ॥ ७१ ॥

 ततो गृध्रस्य वचनात् संपातेर्हनुमान् बली ।
 शतयोजनविस्तीर्ण पुप्लुवे लवणार्णवम् ॥ ७२ ॥

 संपातेः गृध्रस्येति योजना । पप्लुवे । प्लुगतौ लिट् । प्लुतवान्-उल्लङ्घितवानिति यावत् ॥ ७ ॥

 तत्र लङ्कां समासाद्य पुरीं रावणपालिताम् ।
 ददर्श सीतां ध्यायन्तीमशोकवनिकां गताम् ॥ ७३ ॥

 रावणपालितां लङ्कापुरीमासाद्य, 'आङः षदेः गतौ णौ च' इति स्वार्थणिच्चास्ति सदिः । तत्र-लङ्कायां । अशोकवनिकां-अशोकवनं प्रमदावनं, तस्मादज्ञाते संज्ञायां वा कन् । 'प्रत्ययस्थात्' इतीत्वम्, तां ध्यायन्तीं-रामविषयकध्यानारूढां सीतां ददर्श ॥ ७३ ॥

 निवेदयित्वाभिज्ञानं प्रवृत्तिं विनिवेद्य च ।
 समाश्वास्य च वैदेहीं मर्दयामास तोरणम् ॥ ७४ ॥

 अभिज्ञानं-अङ्गुलीयकरूपं । प्रवृत्तिं-स्ववियोगानन्तरजरामसुग्रीवसख्यादिसर्ववृत्तान्तम् । त्रैकालिकसर्वव्यपाराः राघवस्य त्वत्प्रत्यापत्त्येकप्रवृत्तय इति तत्वकथनेन वैदेहीं समाश्वास्य । तोरणं-अशोकवनिकागतप्रासाद बहिर्द्वारसन्निवेशं अशोकवनं च मर्दयामास ॥ ७४ ॥

 पञ्च सेनाग्रगान् हत्वा सप्त मन्त्रिसुतानपि ।
 शूरमक्षं च निष्पिष्य ग्रहणं समुपागमत् ॥ ७५ ॥

 सेनाग्रगाः सेनापतयः पिङ्गलनेत्रप्रमुखाः । मंत्रिसुताः-जम्बु-माल्यादयः । अक्षो रावणकुमारः । ग्रहणं-इन्द्रजित्प्रयुक्तब्रह्मास्त्रकृतबन्धनम् ॥ ७५ ॥

 अस्त्रेणोन्मुक्तमात्मानं ज्ञात्वा पैतामहाद्वरात् ।
 मर्षयन् राक्षसान् वीरो यन्त्रिणस्तान् यदृच्छया ॥ ७६ ॥

 'मदस्त्रस्यामोघतस्तेन बन्धनमात्रं, चतुःपञ्चघटिकानन्तरं विमोक्षश्च भवतु' इति भगवतो ब्रह्मणो वरदानानुग्रहात् चतुःपञ्चघटिकानन्तरं ब्रह्मास्त्रेणोन्मुक्तमात्मानं-स्वं ज्ञात्वा [१२०]यदृच्छया कार्यान्तरप्रसङ्गेन रावणदर्शनापेक्षया यन्त्रिणः-बध्वा नेतृृन् तान् राक्षसान् प्रति वीरः-हन्तुं समर्थोऽपि मर्षयन्-क्षमां कुर्वन् ॥ ७६ ॥

 ततो दग्ध्वा पुरीं लङ्कां ऋते सीतां तु मैथिलीम् ।
 रामाय प्रियमाख्यातुं पुनरायान् महाकपिः ॥ ७७ ॥

 ततः रावणदर्शनादिव्यापारानन्तरं मैथिलीं-सीतामृते तदवस्थानप्रदेशं विना 'अन्यारात्' इति पञ्चम्यभाव आर्षः । रामाय प्रियं-सीतादर्शनरूपं प्रियं आख्यातुं पुनः रामान्तिकं महाकपिरायात् ॥७७॥

 सोऽभिगम्य महात्मानं कृत्वा रामं प्रदक्षिणम् ।
 न्यवेदयदमेयात्मा दृष्टा सीतेति तत्वतः ॥ ७८ ॥

 सोऽभिगम्य । 'वा ल्यपि' इत्यनुनासिकलोपाभावः । महात्मानं रामं प्रति प्रदक्षिणं-प्रगतो दक्षिणं-[१२१][१२२]प्रदक्षिणाख्योपचारं कृत्वा अमेयात्मा अपरिच्छेद्यबलबुध्यादिवैभवः सः, दृष्टा सीतेति तत्त्वतः-सार्व-विभक्तिकस्तसिः । तत्त्वं न्यवेदयदित्यर्थः । अत्र दर्शनपदप्रथम प्रयोगः हनुमदुक्तिचातुरी । प्रथमतो दिदृक्षितार्थपदग्रहेणादर्शनविषयक सन्देहोदयो मा भूदिति ॥ ७८ ॥

 ततस्सुग्रीवसहितो गत्वा तीरं महोदधेः ।
 समुद्रं क्षोभयामास शरैरादित्यसन्निभैः ॥ ७९ ॥


 क्षोभयामासेति । लङ्कागमनमार्ग [१२३]प्रदानौदासीन्यादिति शेषः ॥ ७९ ॥

 दर्शयामास चात्मानं समुद्रस्सरितां पतिः ।
 समुद्रवचनाच्चैव नलं सेतुमकारयत् ॥ ८० ॥

 दर्शयामासेति । शरक्षोभित इति शेषः । समुद्रेति । नलं सेतुमकारयादति । नलेन सेतुं कृतवानित्यर्थः । 'हृक्रोरन्यतरस्याम्' इत्यणौ कर्तुः प्रयोज्यस्य कर्मत्वम् ॥ ८० ॥

 तेन गत्वा पुरीं लङ्कां हत्वा रावणमाहवे।
 रामः सीतामनुप्राप्य परां व्रीलामुपागमत् ॥ ८१ ॥

 तेनेति । सेतुनेति यावत् । अनुप्राप्य-प्रत्यापद्य । परां व्रीलारक्षोगृहे वत्सरोषितां पुनर्गृहीतवानिति लोकापवादशङ्काजनितां । तथा कथमप्युषितामहमुभय कुलशुद्धो लोकविख्यातकीर्तिवैभवो गृह्णामीति स्वत एव परां व्रीलाम् ॥ ८१ ॥

 तामुवाच ततो रामः परुषं जनसंसदि ।
 अमृष्यमाणा सा सीता विवेश ज्वलनं सती ॥ ८२ ॥

 ततः अनन्तरं रामः जनसंसदि तां सीतां प्रति [१२४]परुष रूक्षविगर्हितं मर्मस्पृग्वचनान्युवाच । लोकस्य नास्यां रामस्य कामादिदोषतः पुनर्जिघृक्षास्तीति प्रत्यायनार्थम् । अथ उक्तरूपवचनान्यमृष्यमाणा सती-सा सीता ज्वलनं विवेश । सतीति पातिव्रत्यबलान्निजेच्छयाग्निप्रादुर्भावनशक्तिमत्वद्योतनाय । वस्तुतो लक्ष्मणप्रादुर्भावितो ज्वलनः ॥ ८२ ॥


 ततोऽग्निवचनात्सीतां ज्ञात्वा विगतकल्मषाम् ।
 'बभौ रामः संग्रहृष्टः पूजितस्सर्वदेवतैः ॥ ८३ ॥

 ततो जनसंसद्येव 'विशुद्धभावां निष्पापां प्रतिगृह्णीष्व राघव' इत्येवंरूपादग्निवचनात्स्वयं च विगतकल्मषां ज्ञात्वा लोकस्य च तथात्वं प्रत्याय्य संप्रहृष्टः सर्वदैवतैश्च पूजितो बभौ । एवमेव पाकः क्रमपाठः । [१२५] एवं स्थिते 'सदेवर्षि' इत्यर्धानन्तरं 'बभौ रामः' इत्यर्धं लेखकदोषादुपरि लिखितमिति कश्चित् ॥ ८३ ॥

 कर्मणा तेन महता त्रैलोक्यं सचराचरम् ।
 सदेवर्षिगणं तुष्टं राघवस्य महात्मनः ॥ ८४ ॥

 महता तेन रावणवधान्तेन कर्मणा सचराचरं चराचरप्रजासहितं चरप्रजाः-तिर्यगूर्ध्वस्रोतसः । अचरप्रजाः-अर्वाक्स्रोतसः । सदेवर्षिगणं-देवगणाः-इन्द्रादयः । ऋषिगणाः-विश्वामित्रादयः । त्रय एव लोकास्त्रैलोक्यम् । चतुवर्णादित्वात् स्वार्थे ष्यञ् । अत ऊर्ध्वं तिर्यगर्वाक्स्रो तसोरपि बाद ऊर्ध्वस्रोतश्शेषत्वात् । सचराचरं-स्वस्वशेषतिर्यगर्वाक्स्रोतोयुक्तं त्रैलोक्यं त्रिलोकवर्त्यशेषमूर्ध्वस्रोतोमात्रं विशिष्य सदेवर्षिगणं तन्महात्मनो राघवस्य तेन कर्मणा निजैहिकामुष्मिकार्थहेतुतपोयज्ञादि प्रवृत्तिप्रत्यूहनिवर्तकेन तुष्टमभवदिति । अत्र सदेवर्षिगणमिति विशिष्य वचनं रावणस्य मर्त्योपेक्षकत्वात् ; देवर्षिगणयोरेव साक्षादरातिबुध्या नित्योपद्रव करणात् रावणवधाद्विशिष्य हर्षः । एवं लक्षणा-श्रयेण व्याख्या रावणपीडासन्निवृत्तिपरज्ञानप्रसक्तिराहितार्वाक्तिर्यक्स्रोत-


सो रावणवधमूलसन्तोषासम्भवात्, रावणवधाद्यज्ञादिप्रवृत्त्याऽस्माकं वृष्ट्यादिर्भविष्यतीति स्मरणजसन्तोषो दूरापास्तः । 'अथेतरेषां पशूनामशनायापिपासे एवाभिविज्ञानं न विज्ञातं वदन्ति न विदुः श्वस्तनं न लोकालोकौ त एतावन्तो भवन्ति यथाप्रज्ञं हि संभवाः' इति श्रुतेः ॥ ८४ ॥

 [१२६]अभिषिच्य च लङ्कायां राक्षसेन्द्रं विभीषणम् ।
 कृतकृत्यस्तदा रामो विज्वरः प्रमुमोद ह ॥ ८५ ॥

 लङ्कायामिति । लङ्काराज्यपद इत्यर्थः । तदा-विभीषणाभिषेकानन्तरकाले । रावणवधसीताबन्दीविमोकानन्तरमपि प्राक्प्रतिज्ञातविभीषणाभिषेकलक्षण किञ्चित्कृत्यस्यानिर्वर्तितत्वात्तस्य निर्वृत्तौ सर्वात्मना कृतकृत्यत्वं । अत एव विगतचिकीर्षितकृतिविषयकचिन्तातापः प्रमुमोद-मुदहर्षे व्यत्ययात्परस्मैपदम् ॥ ८५ ॥

 देवताभ्यो वरं प्राप्य समुत्थाप्य च वानरान् ।
 अयोध्यां प्रस्थितो रामः पुष्पकेण सुहृद्वृतः ॥ ८ ॥

 'सुप्तोन्मिषितवदुत्तिष्ठन्तु वानराः' इत्येवं रूपं वरं देवताभ्यः प्राप्य । सुहृदः-सुग्रीवविभीषणादयः ॥ ८६ ॥

 भरद्वाजाश्रमं गत्वा रामः सत्यपराक्रमः ।
 भरतस्यान्तिकं रामो हनूमन्तं व्यसर्जयेत् ॥ ८७ ॥

 भरतस्यान्तिकं रामो हनूमन्तं व्यसर्जयदिति ।-'चतुर्दशे हि संपूर्णे वर्षेऽहनि रघूत्तम । न द्रक्ष्यामि यदित्वां तु प्रवेक्ष्यामि हुता-


शनम्' इति भरतेन प्रतिज्ञातत्वात्, भरद्वाजाश्रमे चतुर्दशसमासमाप्त्यनन्तरं एकद्विदिनविलम्बस्य प्राप्तत्वात् स्वागमनप्रबोधनाय हनुमद्विसर्जनम् ॥ ८७ ॥

 पुनराख्यायिकां जल्पन् सुग्रीवसहितस्तदा ।
 पुष्पकं तत्समारूह्य नन्दिग्रामं ययौ तदा ॥ ८८ ॥

 पुनरित्यादि । भरद्वाजाश्रमे पुष्पकादवतीर्णत्वात् पुनश्च तस्पुष्पकं समारुह्य पुनश्चाख्यायिकाः–उपलब्धार्थविषयिणी कथा आख्यायिका । भरद्वाजाश्रमावरोहात्पूर्वमिव सीतायै जरुपन्-'जल्पव्यक्तायां वाचि' व्यक्तमालपन् । सुग्रीवसहित इति विभीषण-देरुपलक्षणम् ॥ ८८ ॥

 नन्दिग्रामे जटां हित्वा भ्रातृभिस्सहितोऽनघः ।
 रामः [१२७]सीतामनुप्राप्य राज्यं पुनरवाप्तवान् ॥ ८९ ॥

 नन्दिग्रामे भरतेन सह स्वस्यापि व्रतप्रयुक्तां जटां हित्वा-'जहातेश्च क्त्वि' इति हिभावः-त्यक्त्वा सर्वैर्भातृभिस्सह प्राप्तविसृष्टं राज्यं पुनरवाप्तवान् । अत्रेदमनुसन्धेयम्-रामस्य राज्यप्राप्त्यनन्तरकाले वाल्मीकेः'को नु' इत्यादिकस्य जिज्ञासितदिव्यकाव्यनायकस्य, अर्थात् काव्यविषयस्य तच्चरितस्य च प्रश्नः । अन्यथा नारदेन तच्चरितोक्तेरपृष्टोत्तरत्वप्रसङ्गात् । तथापृष्टश्च नारदः तादृशं काव्यनायकं इक्ष्वाकुवंश 'इक्ष्वाकुवंशप्रभवः' इत्यादिनोपदिश्य 'तमेवं गुणसंपन्नम्' इत्यादिना राज्यं पुनरवाप्तवान्' इत्यन्तेन वृत्तं तदीयचरितं चोपदिदेश ॥ ८९ ॥


 [१२८]प्रहृष्टमुदितो लोकस्तुष्टः पुष्टस्सुधार्मिकः ।
 निरामयो ह्यरोगश्च दुर्भिक्षभयवर्जितः ॥ ९० ॥

 अतः परमुत्तरकाव्यविषयं भविष्यत्त्वेनोपदिशति-प्रहृष्टेत्यादि ।-प्रहृष्टः प्रातिस्विकपुत्रपश्वादिसम्पत्त्या ; मुदितः साधारणेन क्षामक्षोभराहित्यजेन मोदेन । लोकः सर्वाः प्रजाः । बहुप्रदाद्भगवतो यावदपेक्षितसांसारिकार्थलाभात्तुष्टः, अत एव पुष्टः-दारिद्र्य कार्श्यरहितः । आमयः-मनःपीडा, रोगः-देहीयो व्याधिः । दुर्भिक्षेण चोरादिजेन च भयेन विवर्जितः । भिक्षाया व्यृद्धिः दुर्भिक्षं, व्युद्ध्यर्थेऽव्ययीभावः; भविष्यतीति शेषः ॥९० ॥

 न पुत्रमरणं केचित् द्रक्ष्यन्ति पुरूषाः क्वचित् ।
 नार्यश्वाविधवा नित्यं भविष्यन्ति पतिव्रताः ॥ ९१ ॥

 पुत्रमरणं न द्रक्ष्यन्तीति । पितृषु स्वेषु जीवत्स्विति शेषः । [१२९]अविधवा इति । अतितीववैराग्येण भर्त्रनुगमनेन, धवाङ्गमूतसत्पुत्रबत्वेन वेति शेषः ॥ ९१ ॥

 न चाग्निजं भयं किञ्चिन्नाप्सु मञ्जन्ति जन्तवः ।
 न वातजं भयं किञ्चिन्नापि ज्वरकृतं तथा ॥ ९२ ॥
 न चापि क्षुद्भयं तत्र न तस्करभयं तथा ।
 नगराणि च राष्ट्राणि धनधान्ययुतानि च ॥ ९३ ॥


 क्षुद्भयमिति । क्षुदुपशमोपायाभावजमित्यर्थः ॥ ९३ ॥
 नित्यं प्रमुदितास्सर्वे यथा कृतयुगे तथा ।

 कृतयुगे अधर्मासम्बन्धः स्वाभाविक इति तत्र नित्यं प्रजाप्रमोद: । त्रेतायामधर्मस्य पादांशतस्सम्बन्धप्रसङ्गे रामलक्ष्मणवैभवात् तदनाक्रमात् नित्यप्रमोदत्वम् ॥

 अश्वमेघशतैरिष्ट्वा तथा बहुसुवर्णकैः ॥ ९४ ॥

 एवं रामस्य राज्यपरिपालनवैभवचरितमुपदिश्य भविष्यद्रामस्य वृत्तान्त उपदिश्यते-अश्वमेषेत्यादि । अश्वमेघशतैरिष्ट्वेति । तेषां निष्कामतयाऽनुष्ठानात् ब्रह्मलोकहेतुत्वम् । क्ताप्रत्ययात्कार्यकारणभावश्चावसितः । यद्यपि ब्रह्मैव भगवान् रामः स्वस्वलोकप्राप्तौ न किञ्चित्साघनमपेक्षते अथापि [१३०]मानुषोपाधिप्रयुक्तावर्ज्यसप्ताघशमनद्वारा-ब्रह्मलोकोपयोगः । यथा ब्राह्मणस्यानुपचरितब्रह्ममुक्तेः स्वनित्यब्रह्मलोके ब्रह्मविद्यानुष्ठानोपयोगः[१३१] ...... ॥ ९४ ॥

 गावां कोट्ययुतं दत्वा [१३२]ब्रह्मलोकं प्रयास्यति ।
 असंख्येयं धनं दत्वा ब्राह्मणेभ्यो महायशाः ॥ ९५ ॥


 असंख्येयं धनं दत्वा ब्रह्मलोकं प्रयास्यतीति पूर्वेण सम्बन्धः ॥ ९५ ॥

 राजवंशान् शतगुणान् स्थापयिष्यति राघवः ।
 चातुर्वर्ण्यं च लोकेऽस्मिन् स्वे स्वे धर्मे नियोक्ष्यति ॥ ९६ ॥

 कामरूपकन्याकुब्जादि तत्तद्राज्यपदस्थान् राजवंशान् शतगुणान्-अनेकगुणवृद्धिमतः स्थापयिष्यति । शाश्वततत्तद्राज्यप्रदानेनेति शेषः । चत्वारो वर्णाश्चातुर्वर्ण्यं, स्वार्थे ष्यञ् । नियोक्ष्यतीति । शङ्कितस्वधर्मभ्रंशमपीति शेषः ॥ ९६ ॥

 दशवर्षसहस्राणि दशवर्षशतानि च ।
 रामो राज्यमुपासित्वा ब्रह्मलोकं गमिष्यति ॥ ९७ ॥

 ब्रह्मलोकं प्रयास्यतीत्युक्तं; तत्कियत्कालानन्तरमित्यपेक्षायां-दश-वर्षेत्यादि । उपासित्वेति । राज्यपरिपालनमेव नित्यप्राप्तं योग-बुध्याऽनुष्ठायेत्यर्थः । तथा हि गीयते-'स्वे स्वे कर्मण्यभिरतः संसिद्धिं लभते नरः' इति, 'स्वकर्मणा तमभ्यर्च्य सिद्धिं विन्दति मानवः । इति च । ब्रह्मलोकं गमिष्यतीति । एवं भगवतो रामस्य ब्रह्मत्वं रामतुल्य-यज्ञदानादिनिजनित्यकर्मोपेतयोगिमात्र प्राप्यत्वं ब्रह्मलोकस्यैव सर्वलोकोत्तमत्वं श्रुतिसिद्धं चोपदिष्टं वेदितव्यम् । इह केचिदतिशब्दब्राह्मणाः अविदितकुलदेवताः अनाकुलितकुललोकाः अनुपासितकुलविद्याः अनाश्रितकुलदेशिकाः अखिलवेदशास्त्र निरतिशयश्रुतब्रह्मतल्लोकप्राशस्त्याः धृष्टधूपपिशाचवत् श्रुततदुत्कर्षामर्षोत्थिता ब्रह्मलोकशब्दयोरन्यथा नयने अतिमहत्प्रयतन्ते । कथम्? ब्रह्मेति विष्णुश्शिवो वा तस्य लोको ब्रह्मलोकः । स च भूर्भुवःस्वरादिसर्वलोकोपरिवर्तिसत्यब्रह्मलोकादपि परः इति; तथा ब्रह्मैव लोको ब्रह्मलोक इत्यादि । भगवानेव तेभ्यः प्रतिवक्ति-'तानहं द्विषतः क्रूरान् संसारेषु नराधमान् । क्षिपाम्यजस्रमशुभानासुरीष्वेव योनिषु ॥' इत्यादि 'ततो यान्त्यधमां गतिम्'-इत्यन्तेन । अस्माभिस्तु तेषामस्मदन्तेवास्यनुग्रहाय यद्वक्तव्यं तदाकरे प्रपञ्चितमिति नेह बहुग्रन्थसाध्यतस्सुप्रतिपादनम् । बत नारद एषामदुःखाय विष्णुपदं न प्रायुङ्क्त, नावेदीद्वा? लोकपदं प्रयाणपदं च द्वितीयार्धे व्यक्तं प्रायुङ्क्त ॥ ९७ ॥

 इदं पवित्रं पापघ्नं पुण्यं वेदैश्च सम्मितम् ।
 यः पठेद्रामचरितं सर्वपापैः प्रमुच्यते ॥ ९८ ॥

 अथ नारदः स्वोपदिष्टसंक्षेपपाठफलं प्रवृत्यङ्गमुपदिशति-इदमित्यादि ॥ पूयतेऽनेनेति पवित्रम् । 'कर्तरि चर्षिदेवतयोः' इति यथासंख्यं करणे कर्तरि इत्रः । ऋषिः वेदः । वेदतुल्यश्चेदम् । तथोक्तं वेदैश्च सम्मितमिति । तुल्यामति यावत् ॥ ९८ ॥

 एतदाख्यानमायुष्यं पठन् रामायणं नरः ।
 सपुत्रपौत्रस्सगणः प्रेत्य स्वर्गे महीयते ॥ ९९ ॥

 अनर्थनिवृत्तिवदर्थावातिरप्युपदिश्यते–एतदित्यादि । आयुः प्रयोजनमस्य-आयुष्यं, स्वर्गादिभ्यो यद्वक्तव्यम् । यद्वा निमित्ताधिकोर 'गो यचोऽसंख्या'-इत्यादिना यत् । आयुष्यं वर्चस्यं इत्यादि स्वरितत्वदर्शनात् कश्चन यत् प्रत्यय एवेह मृग्यः । तत्र संयोग रूपे निमित्ते उत्पातरूपे वा निमित्ते अयं यत्प्रत्ययः । अत्र चायुरादिफलमेव कर्त्रा संयुज्यत इति समस्ति । इह च संयोगरूपनिमित्तम् ॥ आख्यानं आख्यायिका, उपलब्धार्थम् । रामायणमिति । अयगतौ भावे ल्युट्, अयनं-चरितम्। रामस्यायनं रामायणं, 'पूर्वपदात्संज्ञायां ' इति णत्वम् । पठन्निति हेतौ शता । अत एव हेतोः- सपुत्रेत्यादिफलम् । गणः-दासीदासादिगणः । सपुत्रपौत्रस्सगणः इह ऐहिकान् भोगान् भुक्त्वा प्रेत्य-मृत्वा स्वर्गे-पुण्यलोके महीयते । महधातुः पूजार्थः । स्वर्गिभिस्सत्कृतो मोदत इत्यर्थः ॥ अथात्र रामायणमित्यनेन विस्तृतसंक्षेपाविशेषेणोपदेशे तु सर्वपापेति सर्वशब्दासंकोचेन प्रेत्य सपुत्रपौत्रः स्वर्गे महीयत इति विनाऽध्याहारं यथावस्थितपदान्वयेन ब्रह्मलोकावाप्तिफलकत्वमेव रामायणस्योपदिश्यत इति युज्यते । ब्रह्मावतारश्चराम इत्यवादिष्ट च न्यायेन । अतस्तच्चरितानुसन्धातुः स्वर्गलोकावाप्तिययसिद्धा। असङ्कोचोपचारेण सर्वपापविमोकश्च ब्रह्मलोकासाधारणधर्मः । तथाविमोकस्ये 'तत्सुकृतदुष्कृते धूनुते' इति श्रुतेः ब्राह्मा- लौकिकविरजावगाह्रैकसाध्यत्वात् । अन्यत्र कुत्रापि कालक्कृतिमूलपुण्यातिवाहाविलयात् । प्रेत्य सपुत्रादिकतया महीयमानत्वस्य ब्रह्मलोकातिरिक्तलोकेऽसम्भवाच्च । तत्र तु "यदि पितृलोककामो भवति सङ्कल्पादेवास्य पितरस्समुत्तिष्ठन्ति । तेन पितृलोकेन सम्पन्नो महीयते "इत्यादिना छान्दोग्येन प्राप्तब्रह्मलोकमुक्तस्य सत्य सङ्कल्पत्वस्तदिच्छया तत्तत्पितृपुत्रादिसमुत्थानस्य घण्टाघोषत्वात् । ब्रह्मलोकश्च परनाकपरस्वर्गादितः सर्वोपनिषत्प्रसिद्धः । उक्तविशेषणबलात् परस्वर्गग्रहश्च । अयमेवास्मदभिप्रेतोऽर्थः ॥ ९९ ॥

 पठन् द्विजो वागृषभत्वमीयात्
  स्यात्क्षत्रियो भूमिपतित्वमीयात् ।
 वणिग्जनः पण्यफलत्वमीयात्
  जनश्च शूद्रोऽपि महत्वमीयात् ॥ १०० ॥

इत्यार्षे श्रीमद्रामायणे बालकाण्डे प्रथमः सर्गः

 एवं चतुर्वर्णसाधारणं फलमुपदिश्य तत्तत्प्रतिस्विकफलोपदेश:-पठन्नित्यादि ॥ हेतौ शता । रामायणमिति शेषः । द्विजः मुख्यो द्विजः । वागृषभत्वमीयादिति । शब्दब्रह्मपारगो भवतीति यावत् ।

यदि रामायणं फठन् क्षत्रियः [१३३]स्यात् तदाऽसौ भूमिपतित्वमीयात् । 'इण्' आशिषि लिङ् । 'अकृत्सार्वधातुके' इति दीर्घः । ईङ् गतावित्यस्मादिति [१३४]कश्चित् । स त्वात्मनेपदी । पण्यैः-क्रयद्रव्यैः साध्यं मूलात् द्विगुणत्रिगुणवृद्ध्यादिरूपं फलं यस्य, तस्य भावस्तत्वम् । शूद्रजनः-द्विजदासोऽपि तदितरसर्वप्रजाभ्यां महत्वं-श्रेष्ठ्यं ईयात्-देहान्तरे स्वोपरिवर्णप्राप्तिलक्षणं महत्वमीयात् ॥ १०० ॥

इति श्रीमद्रामायणामृतकतकटीकायां बालकाण्डे प्रथमः सर्गः


अथ द्वितीयः सर्गः

 नारदस्य तु तद्वाक्यं श्रुत्वा वाक्यविशारदः ।
 पूजयामास धर्मात्मा सहशिष्यो महा [१३५]मुनिः ॥ १ ॥

 एवं नारदादुपश्रुतदिव्यनायकस्योपश्रुतभूतभविष्यच्चरितरूपकाव्यविषयस्य च वाल्मीकेरपि कालिदासादेरिव काव्यमृषाजल्पस्य प्रसङ्गे तद्वदेव परलोकानुपयुक्तत्वप्रसङ्गे च भगवता ब्रह्मणा काव्यस्य स्वावतारविषयत्वेन स्वविषयकत्वाविशेषात्, स्वविषयकाव्यसन्दर्भस्य श्रुतिवदेव स्वलोकप्राप्तिफलकत्वस्यापि न्याय्यत्वात् तस्य च सर्वलोकमूर्धन्यस्यान्वर्थसत्याख्यम्य स्वीयब्रह्मलोकस्य सत्यवचनै कलभ्यत्वात्, स्वविषयकदिव्यकाव्यस्य च सत्यवचनत्वाय सरस्वत्या प्रणयनसिद्धये निजप्रादुर्भावा-


त्प्रागेव तस्य मातुः प्रादुर्भवनपूर्वकं निजापरोक्षानुभवपरमानुग्रहं कृत्वा 'न ते वागनृता काव्ये काचिदत्र भविष्यति' इत्यनुग्रहपूर्वं तावत्काव्यकर्तुरेव शाश्वतब्रह्मलोकशाश्वतप्रतिष्ठानुमतिप्रकाशनाय द्वितीयः सर्गः । एतदर्थप्रकाशनमपि प्रागस्मदुक्तरीत्या रामायणस्य वर्गसाधनताधीस्थैर्याय ॥ नारदस्य त्वित्यादि । विशिष्टा-व्याकरण-संस्कारादिविशेषवती विचित्रार्था वा शारदा-वाणी यस्य स विशारदः । लौकिकालौकिकवाक्यसन्दर्भे विशिष्टवाणीशक्तिमानिति यावत् । व्याकृतपदार्थो न विस्मरणीयः । सहशिष्यः । सहस्य सत्वाभावो 'वोपसर्जनस्य' इति । महामुनिः-वाल्मीकिः । नारदस्य तद्वाक्यं श्रुत्वा वाक्यविशारदत्वादेव तद्वाक्यगुणसामग्रीं दृष्ट्वा हृष्ट्वा तद्वाक्यं प्रथमतः पूजयामास–अतिविचित्रं भगवद्वचनमित्यादिवचनेन । नारदं तु यथागतं जिगमिषुं पुनश्च विशिष्य पूजयामास । अयमर्थो यथावत्पूजित इत्युत्तरवाक्याल्लभ्यते । एवं सर्वत्र प्रत्यक्षरं प्रतिश्लोकं समग्रभावप्रकाशनशक्तौ सत्यामपि बहुतरग्रन्थात् मध्यममार्गेणागच्छम् ॥ २ ॥

 यथावत्पूजितस्तेन देवर्षिनरदस्तथा ।
 [१३६]आपृच्छयैवाभ्यनुज्ञातः स जगाम विहायसम् ॥ २ ॥

 [१३७]आपृच्छ्यैव-साधु यामीत्युक्त्वैव । अनुज्ञातश्चैव यथासुखं विहरतामिति वाल्मीकिनानुगमनपूर्वमभ्यनुज्ञातश्चैव । आभ्यां गुरुशिष्ययोः (शिष्यगुर्वोः) स्नेहभक्तिप्रकाशनम् । विहायसमित्यकारान्तः पुल्लिङ्गः सकारान्तः पुल्लिङ्गो वा द्वितीयान्तः । उभयमप्यस्ति । सः-वाल्मीकिर्मुनिः तस्मिन्-नारदे देवलोकं गते सति स्वयं तदा मुहूर्तं स्वाश्रमे स्थित्वा पश्चान्माध्याह्निकार्थं जाहव्या अविदूरतः -समीपे वर्तमानं


तमसानदी[१३८]तीरं जगाम । [१३९]क्वचिदुक्तं " मुहूर्तमिति 'अपवर्गे तृतीया' इति तृतीयार्थे द्वितीया छान्दसी । मुहूर्तकालेन देवलोकं गत इत्यर्थ इति" इत्यादिकं योजनाशक्तिजमिथ्याप्रलापमात्रमिति विद्वदुपेक्ष्यम् । क्व तृतीयार्थः। क्वापवर्गः । नारदस्येष्टलोकगमनस्य स्मृतिसमकालसाध्यस्य मुहूर्तकालसाध्यत्वं च देवानांप्रियेण केन प्रमाणेनावसितम् ॥ ३ ॥

 स तु तीरं समासाद्य तमसाया मुनिस्तदा ।
 शिष्यमाह स्थितं पार्श्वे दृष्ट्वा तीर्थमकर्दमम् ॥ ४ ॥

 अकर्दमं-अपङ्कं इत्यर्थः । तीर्थं-पुण्यतीर्थं "ऋषिजुष्टजलं तीर्थं" इति निघण्टुः ॥ ४ ॥

 अकर्दममिदं तीर्थं भरद्वाज निशामय ।
 रमणीयं प्रसन्नाम्बु सन्मनुष्यमनो यथा ॥ ५ ॥

 किमाहेत्यतः–अकर्दममित्यादि । निशामय-अवलोकय । एवं दर्शनार्थत्वात् 'शमोऽदर्शने' इति मित्वाभावाद्धस्वाभावः । किमाहापूर्वमित्यतः-रमणीयमित्यादि । रमणीयत्वे हेतुः- प्रसन्नाम्ब्विति । तत्र हेतुः-अकर्दममिति । सन्मनुष्यचित्तस्य कामादिदोषकर्दमराहित्येन नित्यप्रसन्नत्वात्तदंशेऽयं दृष्टान्तः ॥ ५ ॥

 न्यस्यतां कलशस्तात ! दीयतां [१४०]वल्कला मम ।
 इदमेवावगाहिष्ये तमसातीर्थमुत्तमम् ॥ ६ ॥

 न्यस्यतां कलश इति । देवपूजार्थं अर्थ्योदकाय नीयत इति शेषः । वल्कला दीयतामिति-'लिङ्गमशिष्यम्' इति भाष्यकारवचना-


दस्मादेव प्रयोगात् स्त्रीलिङ्गत्वं च ।'वल्कं वल्कलमस्त्रियां' इति निघण्ट्वपि । इदमेवेति । नात्यासन्नमपि गङ्गातीर्थम् । माध्याह्निकादिकालातिक्रमादिति शेषः ॥ ६ ॥

 एवमुक्तो भरद्वाजो वाल्मीकेन महात्मना ।
 प्रायच्छत मुनेस्तस्य वल्कलं नियतो गुरोः ॥ ७ ॥

 वाल्मीकेनेति । तस्य अपत्यमित्यण् । प्रायच्छतेति छन्दोवशप्राप्तमात्मनेपदम् । गुरोर्नियत इति । सदा सेवापर इति यावत् । अत एव माध्याह्निककालेऽपि सहगमनम् ॥ ७ ॥

 स शिष्यहस्तादादाय वल्कलं नियतेन्द्रियः ।
 विचचार ह पश्यंस्तत् सर्वतो विपुलं वनम् ॥ ८ ॥

 नियतेन्द्रियः-जितेन्द्रिय इति यावत् । विचचार हेति । शौचाचरणप्रसङ्गेन एकान्ततो अनुष्ठानाय चेति शेषः । अत एव शिष्यहस्ताद्वल्कलग्रहपूर्व गमनम् ॥ ८ ॥

 तस्याभ्याशे तु मिथुनं चरन्तमनपायिनम् ।
 ददर्श भगवांस्तत्र क्रौञ्चयोश्चारुनिस्वनम् ॥ ९ ॥

 तस्येत्यादि । तस्य-वनस्याभ्याशे-समीपे चरन् भगवान्, (स) तत्र तु-तस्मिन् वनाभ्याश एव चरन्तं अनपायिनं आधिव्याधिमृत्युना कायपीडारहितमिति यावत् । अत एव चारुनिस्वनं क्रौञ्चयोर्मथुनं ददर्श । अनपायिनमिति पुल्लिङ्गः छान्दसः । परस्तु प्रतिश्लोकमसङ्गतं प्रलपति । दुर्योजं त्यजति । भावगूढार्थं न वेत्त्येकः । अतिशब्दवार्थं कथयति ।[१४१] तदस्माभिः उद्भाष्य दूष्यं किं ? मसूरिका-


जलूकाचिकित्सा शक्या केनापि ? अतोऽम्मदुच्यमानरीतिं तदुच्यमानं च सम्यक्पर्यालोचयतामिदमुचितमिदमनुचितमिति स्वयमेव सुस्पष्टं भवति । अतस्सर्गस्य द्वित्रस्थले परकीयासङ्गतवादमुद्भावयिष्यामः ॥ ९ ॥

 तस्मात्तु मिथुनादेकं पुमांसं पापनिश्चयः ।
 जघान वैरनिलयो निषादस्तस्य पश्यतः ॥ १० ॥

 तस्मान्मिथुनात्-पुमांसमेकं तु. अत्र 'पञ्चमी विभक्ते' इति निर्धारणाश्रयात् मिथुनात्पुंसो विभागस्य विद्यमानत्वात्पञ्चमी, तन्मिथु-नस्य प्रतिसंबन्धिभूतमेकमिति निष्कृष्टार्थः । पापनिश्चयः-अनादिपापवासनावासितबुद्धिः । अत एव वैरनिलयः-निजानपकारिप्राणिष्वकारणवैराश्रयः एवंभूतो निषादः, तस्य पश्यतः-पश्यन्तं तमानादृत्य, षष्ठी चानादरे' इति षष्ठी, जघान ॥ १० ॥

 तं शोणितपरीताङ्गं वेष्टमानं महीतले ।
 भार्या तु निहतं दृष्ट्वा रुराव करूणां गिरम् ॥ ११ ॥

 तं वेष्टमानं-लुठन्तं निहतं दृष्ट्वा, निषादेनेति शेषः । करुणां गिरं । गृशब्दे, अस्मात्क्विप् । दीनं शब्दं रुराव । रौतेर्लिट् । अत्र धातुमात्रसामान्ये करोतीत्यर्थमात्रे रौतिः । शब्दमकरोदिति यावत् ॥ ११ ॥

 वियुक्ता पतिना तेन द्विजेन सहचारिणा ।
 ताम्रशीर्षेण मत्तेन पत्रिणा सहितेन च ॥ १२ ॥

 पतित्वादिविशेषणेन तेन द्विजेन वियुक्ताऽभूदित्यन्वयः । अक्रियं वाक्यं अस्ति करोत्यन्यतरक्रियामिति । पतिना-पत्येत्यर्थः नाभावः छान्दसः । भक्ष्याहरणात् पक्ष्यन्तराभिभवादेश्च पातीति तथा । सहचारिणा-अहोरात्रमिति शेषः । ताम्रशीर्षेण-पुंस्त्वात् कुक्कुटादिवत् ताम्रवर्णशीर्षगतचूडायुक्तेनेति यावत् । मत्तेन-कामसम्भोगवशादिति शेषः । तदेव द्योत्यते-पत्रिणेत्यादिभ्यां; पत्रिणा-सम्भोग-कालत्वाद्विततपक्षवता, सहितेन स्त्रिया, उपर्यधोभागे तया सङ्गतेन । एवं कामभोगावस्थितस्य निषादहननात् पूर्वकालीनस्य मिथुनस्य महर्षेदर्शनं वैशब्देन द्योत्यते ॥ १२ ॥

 तथा तु तं द्विजं दृष्ट्वा निषादेन निपातितम् ।
 ऋषेर्धर्मात्मनस्तस्य कारुण्यं समपद्यत ॥ १३ ॥

 तथा तु तमिति । तथा कामभोगदशायामेव तु तं द्विजं निपातितं दृष्टा धर्मात्मनः-दयादाक्षिण्याहिंसामुखधर्मेण प्रवणचित्तस्य महर्षेस्तत एव कारुण्यं घृणा समपद्यत ॥ १३ ॥

 ततः करुणवेदित्वात् अधर्मोऽयमिति द्विजः ।
 निशाम्य रुदतीं क्रौञ्चीं, इदं वचनमब्रवीत् ॥ १४ ॥

 तत इति । ततो द्विजः ऋषिः-रुदतीं क्रौञ्चीं निशाम्य-अवलोक्य अयमधर्म इति निश्चित्य ॥ १४ ॥

 मा निषाद प्रतिष्ठां त्वं अगमः शाश्वतीस्समाः ।
 यत् क्रौञ्चमिथुनादेकं अवधीः काममोहितम् ॥ १५ ॥

 यद्यपि मृगयाविहारिणः क्षत्रियस्य सुतरां निषादस्य च मृगयासु पशुपक्षिहनने न दोषः । तथापि यत्-यस्मात् काममोहितमवधीः, तत्तस्मादेव हेतोस्त्वं क्वचिद्देशे नगरे ग्रामे वा गृहक्षेत्रादिमत्तया प्रतिष्ठां-स्थितिं मा गमः । न केवलमल्पायुषस्तवैकस्यायं शापः, अपि तु सन्तानं-परम्परया शाश्वतीस्समाः-अपारकालव्यापिन्य इति । कथमेवं आत्मात्मीयानपकारिणि घोरशापप्रवृत्तिः ऋषेः, तत्पापं तेन भुज्यतामित्युपेक्षामात्रस्यैव न्यायप्राप्तत्वात् । तथा हि विश्वामित्रादयः स्वापकारिष्वपि राक्षसादिषु क्षमां कुर्वते "शमो दमस्तपश्शौचं" इत्याद्युपदिष्टसहज-ब्रह्मधर्मपरिपालनाय । अत्रोच्यते-नैष दोषः ; ऋषेरेवंवचनस्य परवशप्रवृत्तत्वात् । किंपारवश्यात् ? भगवन्नियोगात् तन्मुखसन्निहित-देवीवशादेव । कथं तर्हि देव्या आदौ शोकशापश्लोकविभावनं ? ऋषि प्रणेतव्यस्य शोकरसप्राधान्य [१४२]सिद्ध्यर्थत्वात् । आदिमध्यावसानेषु तथात्वं स्पष्टम् । तथा त्रैलोक्यानर्थसंहाररूपपरममङ्गलस्य तत्तत्काव्यप्रतिपाद्यार्थस्य सत्यसरस्वतीत्वेनान्यापदेशत आदौ प्रतिपादनार्थत्वाच्च । तथा हि—सादयतेः पचाद्यचि 'सदिरप्रतेः' इति षत्वं । [१४३]नितरां सदेवर्षिगणं त्रैलोक्यमवसादयति पीडयतीति निषादः, तस्य सम्बुद्धिः हे निषाद-रावण । यत्-यस्मात् क्रौञ्चमिथुनात्—अल्पीभावार्थत्वात् क्रुञ्चेर्वा सरूपविधिना पचाद्यचि क्रुञ्चतीति क्रुञ्चः । तस्य भावः क्रौञ्चः, क्रौञ्चयोर्मिथुनं तथा ; राज्यक्षयवनवासादिदुःखेनाल्पीभूतं-परम-कार्श्यं गतं यन्मिथुनं सीतारामलक्षणं तस्यैकमवयवं सीतारूपं, काममोहितं-'धर्माविरुद्धो भूतेषु कामोऽस्मि' इति गीयते, धर्म्यकाम-भोगसुखितं, यत्-यस्मादवधी:-मिथुनादपहृत्य वियुज्यावधिष्ट-वधा-भ्यधिकां पीडां कृतवान् असि, तत्-तस्मादेव, भगवता ते शाश्वतीस्समाः-अनेककोटिकालं, महाजलदुर्ग कनकमयलङ्कापुरे सपुत्रपौत्र-भृत्यगणतया या प्रतिष्ठा दत्ता तां प्रतिष्ठां अतः परं मा गम इति । इदमेव काव्यप्रतिपाद्यं महर्षिणोपदिश्यते-'तदुपगतेत्यादि-दशशिरसश्च वधं निशामयध्वं' इत्येतत्सर्गान्ते । अतस्सत्यसरस्वत्या देव्या परममङ्गलमेव पुरस्तादाविर्भावितमिति योगिकुलाभिध्येयम् ॥ १५ ॥


 तस्यैवं ब्रुवतश्चिन्ता बभूव हृदि वीक्षतः ।
 शोकार्तेनास्य शकुनेः किमिदं व्याहृतं मया ॥ १६ ॥

 तस्यैवं—मानुषेत्याद्युक्तरीत्या ब्रुवतः, 'वर्तमानसामीप्ये वर्तमानवत्' इति लटः शता, उक्तवतस्तस्य मुनेस्स्वोक्तमेव च हृदि वीक्षतः-पर्यालोचयतः । छान्दसं परस्मैपदं । चिन्ता-विचारो बभूव । कीदृश इत्यतः-शोकेत्यादि । अस्य शकुनेः-पतिवियुक्तपक्षिणो दर्शनजेन शोकेनार्तेन-दीनेन मया यदिदं व्याहृतं तदिदं किं गद्यरूपं, पद्यरूपं, आहोस्वित् संस्कृतभाषामात्रमिति चिन्ता बभूवेति पूर्वेणान्वयः ॥ १६ ॥

 चिन्तयन् स महाप्राज्ञश्चकार मतिमान् मतिम् ।
 शिष्यं चैवाब्रवीद्वाक्यमिदं स मुनिपुङ्गवः ॥ १७ ॥

 मतिमान्-प्रशस्तबुद्धिः । महाप्राज्ञः-'प्रज्ञाश्रद्धा' इत्यादिना मत्वर्थीयो णः । ऊहापोहसुशब्दापशब्दपद्यगद्यादिविवेचनचतुर इत्यर्थः । अत एवोक्तश्लोकस्य स्वरूपं चिन्तयन् । मतिं-[१४४]तत्स्वरूपविषयक-निश्चयबुद्धिं चकार । एवं [१४५]कृत्वा अथ स मुनिपुङ्गवः शिष्यं प्रतीदं -वक्ष्यमाणलक्षणं वाक्यं चाब्रवीत् ॥ १७ ॥

 पादबद्धोऽक्षरसमस्तन्त्रीलयसमन्वितः ।
 शोकार्तस्य प्रवृत्तो मे श्लोको [१४६]भवति नान्यथा ॥ १८ ॥

 पक्षिशोकार्तस्य मे प्रवृत्तोऽयं शब्दसन्दर्भः श्लोक एव भवति, कुत इत्यतः-पादबद्ध इत्यादि । 'अष्टाक्षरा गायत्री' इत्यष्टाक्षरगायत्रीपादवत्तया बद्धः-बन्धः यस्य सन्दर्भस्य स तथा । एतेन न गद्यं नापि संस्कृतमात्रमित्युक्तम् । अपि च न केवलं प्राकृतश्लोकमात्रम् । अपि त्वक्षर-


समः-वृत्तरत्नाकरादिछन्दश्शास्त्रप्रतिपाद्यमानगुरुलध्वक्षरवैषम्यरहितः । अत एव तन्त्रीलयसमन्वितः-तन्त्रीसम्बन्धेन गीतियोग्यतया समन्वितस्तथा। तथा नृत्तगीततालादियोग्यतया च समन्वितः । लय:-तालमृदङ्गहस्तपादाभिनयानां समकालविरामः । 'लयस्साम्यम्' इत्यमरः । अतोऽयमुक्तः एवंलक्षणः श्लोक एव भवति नान्यथा । न श्लोकाभासादिः । हे भरद्वाज ! एवमुक्तश्लोकत्व [१४७]ज्ञानपूर्वं तद्ग्रहश्च ते भवतु-[१४८]उक्तश्लोकं गृहाणेति यावत् ॥ १८ ॥

 शिष्यस्तु तस्य ब्रुवतो मुनेर्वाक्यमनुत्तमम् ।
 प्रतिजग्राह सन्तुष्टस्तस्य तुष्टोऽभवन्मुनिः ॥ १९ ॥

 शिष्यस्त्विति । तस्य मुनेस्तु विशिष्टश्लोकं तद्गृहं च स्वस्मै ब्रुवतः अनुत्तमं वाक्यं शिष्यो भरद्वाजः संहृष्टो भूत्वा द्राक् प्रतिजग्राह-गुरोः अर्थतः पाठतश्च गृहीतवान्, अतस्तस्य गुरुः अहो ते सौबुध्यमिति तुष्टोऽभवत् ॥ १९ ॥

 सोऽभिषेकं ततः कृत्वा तीर्थे तस्मिन् यथाविधि ।
 तमेव चिन्तयन्नर्थमुपावर्तत वै मुनिः ॥ २० ॥

 सोऽभिषेकमिति । अभिषेकमिति मध्याह्नकर्तव्यक्रियासामान्योपलक्षणम् । तमेवार्थमिति–उक्तश्लोकस्यार्थमिति यावत् । उपावर्ततन्यवर्तत ॥ २० ॥

 भरद्वाजस्ततः शिष्यो विनीतः श्रुतवान् गुरोः ।
 कलशं पूर्णमादाय पृष्ठतोऽनुजगाम ह ॥ २१ ॥


 भरद्वाजः, श्रुतवान्-बहुश्श्रुतः । [१४९]पृष्ठतः-स्कन्धपृष्ठभागेन पूर्णं कलशमादाय तं मुनिं आचार्यं अनुजगामेति योजना ॥ २१ ॥

 स प्रविश्याश्रमपदं शिष्येण सह धर्मवित् ।
 उपविष्टः कथाश्चान्याश्रकार ध्यानमास्थितः ॥ २२ ॥

 स कथाश्चान्याः-धर्म्याश्चकार । अनन्तरं माध्याह्निककृत्यत्वेन नित्यप्राप्तमम्बया चतुर्मुखध्यानमास्थितो बभूव । [१५०]मध्याह्ने चतुर्मुखरुद्रप्राधान्येनाम्बया ध्यानं गायत्रीहृदयादितः श्रोत्रियमन्त्रप्रसिद्धं चतुर्मुखरुद्राभेदं मामकास्तु विदुः ॥ २२ ॥

 आजगाम ततो ब्रह्मा लोककर्ता स्वयंप्रभुः ।
 चतुर्मुखो महातेजा द्रष्टुं तं मुनिपुङ्गवम् ॥ २३ ॥

 आजगामेति । स्वयं प्रभुः-अनन्यमुख [१५१]निरीक्षकतया भूरादिसर्वलोक लौकिकसर्गादिपञ्चकृत्यापेक्षितसमग्रभूमविद्यैश्वर्यानन्दशक्तिमान् । अत एव लोककर्ता-लोकानां भूरादीनां तल्लोकस्थत्रिस्रोतसां च सर्गादिपञ्चकृत्य-साक्षात्कर्ता, साक्षादखण्डकाले प्रतिष्ठत्वात् । अत एव महातेजा:-यत्तेजः समक्षं सर्वतेजांसि चन्द्रग्रहनक्षत्रतारादीन्यस्तं यान्ति । तथा हि श्रुतिः-"अमी य ऋक्षा निहिता स उच्चा । नक्तं ददृश्रे कुह चिद्दिवेयुः ॥" इति । एवं महातेजाश्चतुर्मुखो ब्रह्मेति अम्बाचतुर्व्यूह-विद्यावलम्बनेन तदर्थरामादिचतुर्व्यूह ब्रह्मावतारमूर्तिप्राधान्येन च सन्तत-


[१५२]ध्यानप्रवृत्तत्वान्महर्षेस्तदनुग्रहाच्चतुर्मुखमूर्त्यैवागमनम्। चतुर्मुखस्वरूपं तु "यजुरथर्वसामर्चक्षमादिव" इत्याद्युपनिषद्रहस्यप्रकाशितम् । प्राकृत-श्रुतिगोचरार्हेऽस्मिन् व्याख्याने वा रहस्यवदनादि प्रापनीय्यम् । मामकास्तु तत्सर्वं विदुरेव । एवं सादर[१५३]सदाध्यानपरत्वादृषिसत्तमं तं वाल्मीकिं द्रष्टुमाजगाम–तदीयकविताचातुर्यकाव्यौन्मुख्यादिप्रवृत्तिं द्रष्टुम्, दृष्ट्वा तामुपोद्वलयितुमाजगामेत्यर्थः । एतेन लोककर्तुर्भगवतः ऋषेर्दर्शनार्थमागमनमश्रद्धेयमिति शङ्काऽपास्ता ॥ २३ ॥

 वाल्मीकिरथ तं दृष्ट्वा सहसोत्थाय वाग्यतः ।
 प्रणतः प्राञ्जलिर्भूत्वा तस्थौ परमविस्मितः ॥ २४ ॥

 प्राक् प्रणतः पश्चात् प्राञ्जलिर्भूत्वा तस्थाविति योजना । अत्र 'पाद्यार्ध्य' इत्युपनिषदुपदिश्यमानषोडशोपचाराणां मध्ये दैवात्सम्पन्नमिहाद्यमुपचारद्वयम् ॥ २४ ॥

 पूजयामास तं देवं पाद्यार्ध्यासनवन्दनैः ।
 प्रणम्य विधिवच्चैनं पृष्ट्वा चैव निरामयम् ॥ २५ ॥

 पाद्यादिः उपचारान्तराणामप्युपलक्षकः, तत्रानामयप्रश्न आवाहनशेषः । अव्ययं–व्ययः–जन्मादिनाशान्तविकारः, स्वेतरसर्वसंस्कारस्य तत्साक्षात्प्रवर्तकं, कालोपग्रहत्वतोऽपि व्ययप्रसक्तिशून्यम्, देवं-अपरोक्षानुभूयमानानन्यसामान्यदिव्यार्थं । प्रथमं स्वागतं अत्रभवतां स्वामिनामित्यनामयं पृष्ट्वा-स्वागतप्रश्नं कृत्वा, पाद्याद्युपचारैस्सम्पूज्य पश्चाद्दक्षिणं बाहुं श्रोत्रसमं प्रसार्य ब्राह्मणोऽभिवादयीत, इत्याद्युपदि-श्यमानन्यायेन विधिवच्च प्रणम्य-ब्राह्मं प्रणामं कृत्वा एनमेवं पूजयामास ॥ २५ ॥


 अथोपविश्य भगवान् आसने परमार्चिते ।
 वाल्मीकये च ऋषये संदिदेशासनं ततः ॥ २६ ॥

 वाल्मीकये च ऋषय इति पठितव्यम् । [१५४]महर्षय इति पाठे चतुर्थगुर्वक्षरेण छन्दोभङ्गः । आसनं सन्दिदेशेति । आसनोपवेशनानुज्ञां कृतवान् भगवानिति यावत् ॥

 ब्रह्मणा समनुज्ञातः सोऽप्युपाविशदासने ।

 [१५५]ब्रह्मणेत्याद्यर्धं स्वस्मिन्नेव परिसमाप्तवाक्यं सत् श्लोकत्वेन गण्यतां, पूर्वापरलोकास्सर्वे यथावदर्धद्वयान्विताः ॥ २६ ॥

 उपविष्टे तदा तस्मिन् साक्षाल्लोकपितामहे ।
 तद्गतेनैव मनसा वाल्मीकिर्ध्यानमाश्रितः ॥ २७ ॥

 उपविष्ट इति । भगवति साक्षादुपविष्टे सति । तद्गतेनैव-भगव-द्गतेनैव मनसा । वाल्मीकिः [१५६]ध्यानं-समाधिमाश्रितः ॥ २७ ॥

 पापात्मना कृतं कष्टं वैरग्रहणबुद्धिना ।
 यत्तादृशं चारुरवं क्रौञ्चं हन्यादकारणात् ॥ २८ ॥
 शोचन्नेव पुनः क्रौञ्चीमुपश्लोकमिमं जगौ ।
 पुनरन्तर्गतमना भूत्वा शोकपरायणः ॥ २९ ॥

 अथापि । पापेत्यादिश्लोकद्वयं एकसम्बन्धम् । पापात्मना-पाप-वासनाविशिष्टचित्तेन । अत एव पशुपक्ष्यादिष्वकारणत एव वैरग्रहण-बुद्धिना-नित्यजिघांसोपगृहीतबुद्धिना अहो कष्टं कृतं । किं कष्टं कृतमित्यतः–यदित्यादि । तादृशं सम्भोगप्रसक्तं चारुवं क्रौञ्चमकारणा-


द्धन्यात्-हतवानस्ति इति यत्, कष्टमेतत् । "यच्चयत्रयोः" इति गर्हायां भूतार्थे लिङ् । एवं वियुक्तां क्रौञ्चीमुद्दिश्य घृणाद्यष्टपालबद्धसंसारित्वात् मुहुश्शोचन् भगवत्यन्तर्गतमना भूत्वैव सन् [१५७]उप-समीपे भगवद्ध्याने क्रियमाण एवान्तरान्तरा प्रागुक्तभावित्वात् शोकपरायणस्सन् इमं श्लोकं-[१५८]पापात्मनेत्याद्युक्तं श्लोकं च पुनःपुनर्जगौ ॥ २८-२९ ॥

 तमुवाच ततो ब्रह्मा ग्रहस्य मुनिपुङ्गवम् ।
 श्लोक एव त्वया बद्धो नात्र कार्या विचारणा ॥ ३० ॥

 ततो भगवान् ब्रह्मा सर्वान्तर्यामित्वात्तदीयं शापबन्धकृतं दुश्चित्तमालक्ष्य प्रहस्य तं मुनिपुङ्गवं उवाच । किमिति-मच्चित्तेनापि त्वया पारतन्त्र्यात् इदानीमपि शोकव्याजेन श्लोक एव बद्धः । त्वया प्राङ्निश्चितश्लोकत्वश्लोकवदयमपि समीचीनश्लोक एव । नात्र संदर्भमात्रत्वाविचारणा-चिन्ता श्लोकाभासत्वादिचिन्ता वा कार्या । णौ चरसंशये,अस्मात् 'ण्यासश्रन्थो युच्' इति युच् ॥ ३० ॥

 मच्छन्दादेव ते ब्रह्मन् प्रवृत्तेयं सरस्वती ।
 रामस्य चरितं कृत्स्नं कुरु त्वमृषिसत्तम ॥ ३१ ॥

 ननु नाथ ! कथं मयि त्वद्ध्यानारूढचित्तेऽपि अन्तरान्तरा मे श्लोकप्रवृत्तिरित्यत उच्यते-मच्छन्दादिति । परमभक्तत्वन्मुखेन मदवताररामचरितविषयकं सत्यं काव्यं प्रवर्तनीयमित्येवंरूपमदभिप्रायानुवर्तनाद्धेतोः, हे ब्रह्मन् ! ते-तव मुखादियं सरस्वती प्रवृत्ता। मदनुग्रहात् त्वयि सन्निहितयानया महर्षिसत्तम ! रामस्य कृत्स्नं चरितं विषयीकृत्य काव्यं कुरु ॥ ३१ ॥


 धर्मात्मनो[१५९] भगवतो लोके रामस्य धीमतः ।
 वृत्तं कथय धीरस्य यथा ते नारदाच्छ्रुतम् ॥ ३२ ॥

 कथं मया कर्तव्यमित्यत्राह-धर्मेति । अस्मिन् लोके इदानीं धर्मात्मनेत्यर्थः ॥ ३२ ॥

 रहस्यं च प्रकाशं च यद्वृत्तं तस्य धीमतः ।
 रामस्य सहसौमित्रे राक्षसानां च सर्वशः ॥ ३३ ॥
 वैदेह्याश्चैव यद्वृत्तं प्रकाशं यदि वा रहः ।
 यच्चाप्यविदितं सर्वं विदितं ते भविष्यति ॥ ३४ ॥

 यच्चाप्यविदितमिति । प्राकृतदुर्वेदं प्रसङ्गात् काव्यमध्ये [१६०]वक्तव्यं ब्रह्मरहस्यान्तमलौकिकार्थतत्त्वं लोकायतान्तलौकिकव्यवहारार्थतत्त्वं चेत्यर्थः ॥ ३४ ॥

 न ते वागनृता काव्ये काचिदत्र भविष्यति ।
 कुरु रामकथां पुण्यां श्लोकबद्धां मनोरमाम् ॥ ३५ ॥

 अनृता-मिथ्यार्था । कुरु रामकथां-रामचरितविषयिणी कथा-[१६१]काव्यप्रबन्धस्तथा ॥ ३५ ॥

 यावत् स्थास्यन्ति गिरयः सरितश्च महीतले
 तावद्रामायणकथा लोकेषु प्रचरिष्यति ॥ ३६ ॥

 यद्यपि त्वदाज्ञासन्निहितदेव्यनुग्रहात् काव्यं सुकरम् । अथापि तस्य प्रचारणे मम शक्तयभावात् किं तेन प्रयोजनमित्यतः-यावदिति । यावत्तावताववध्यर्थावव्ययौ । प्रचरिष्यतीति । मदनुग्रहात् स्वयमेव लोकेष्विति शेषः ॥ ३६॥


 यावद्रामस्य च कथा त्वत्कृता प्रचरिष्यति ।
 तावदूर्ध्वमधश्च त्वं मल्लोकेषु निवत्स्यसि ॥ ३७ ॥

 कर्तुश्च तबानन्यदुर्लभफललाभ इत्युच्यते-यावद्रामेति । ऊर्ध्वमघश्चेत्यव्ययम् । ऊर्ध्वं लोका भूरादयः । अघो लोका अतलादयः सप्त। मल्लोकेष्विति । महाविराडण्डविग्रहमदवयवभूतलोकेष्वित्यर्थः। निवत्स्यसीति । वसेस्स्ये परे 'सस्यार्धधातुके' इति तत्त्वम् ॥ ३७ ॥

 इत्युक्त्वा भगवान् ब्रह्मा तत्रैवान्तरधीयत ।
 ततस्सशिष्यो वाल्मीकिर्मु निर्विस्मयमाययौ ॥ ३८ ॥

 इत्युक्त्वेति । तत्रैवेति । न तु नारदादिवत् ऊर्ध्वादिदेशगमनपूर्वं तस्य अन्तर्धानम् ॥ ३८ ॥

 तस्य शिष्यास्ततस्सर्वे जगुः श्लोकमिमं पुनः ।
 मुहुर्मुहुः प्रीयमाणाः प्राहुश्च भृशविस्मिताः ॥ ३९ ॥

 इममिति । मा निषादेत्याधुक्तरूपम् । प्राहुश्चेति । इदं वक्ष्यमाणवचनमिति शेषः ॥ ३९ ॥

 समाक्षरैश्चतुर्भिर्यः पादैगतो महर्षिणा ।
 सोऽनुव्याहरणाद्भूयः शोकः श्लोकत्वमागतः ॥ ४० ॥

 किं प्राहुरित्यतः-समेति । अयं श्लोको महर्षिणा समाक्षरैश्चतुर्भिः पादैर्गीतः-श्लोकत्वबुद्धिराहित्येन संस्कृतमात्रत्वेन वर्णितः । सः शोक-विषयश्शब्दो भूयोऽनुव्याहरणात्-अनुस्मृत्य व्याहरणाद्धेतो: दैवगत्या लोकत्वमागतस्तिष्ठति । अचिन्तिततया एवं कवितामार्गः प्रादुर्भूतोऽस्मदाचार्यस्य । इदमपूर्वमिति प्राहुरित्यन्वयः पूर्वेण । आहुरित्यर्थः । ब्रूते (भूते)लिंटि 'ब्रुवः पञ्चानाम्' इत्युसाहादेशौ । यद्वा एवमादौ भूतार्थसिद्धये सर्वत्र स्मशब्दोऽध्याहार्यः ॥ ४० ॥

 तस्य बुद्धिरियं जाता वाल्मीकेर्भावितात्मनः ।
 कृत्स्नं रामायणं काव्यमीदृशैः करवाण्यहम् ॥ ४१ ॥

 तस्य करवाण्यहमितीयं बुद्धिरिति योजना । रामायणमिति । रामायणाख्यमिति यावत् । ईदृशैरिति-मा निषादेतिवत् श्लोकरूपैरेव सन्दर्भैरित्यर्थः ॥ ४१ ॥

 उदारवृत्तार्थपदैर्मनोरमैः
  तदास्य रामस्य चकार कीर्तिमान् ।
 समाक्षरैः श्लोकशतैर्यशस्विनो
  यशस्करं काव्यमुदारधीर्मुनिः ॥ ४२ ॥

 सत्यसङ्कल्पत्वात् ऋषेः यथासङ्कल्पं क्रियानिवृत्तिरित्युच्यते उदारेति । "उदारो महति ख्याते" इति वैजयन्ती । वृत्तं-चरितम् । छन्दोवर्तनवाची अयम् । अर्थः-अभिधेयः । पदं-सुप्तिङन्तलक्षणम् । उदाराणि ख्यातानि लोकव्याकरणप्रसिद्धानि वृत्तानि तथा, करणे तृतीया । अत एव मनोरमत्वम् । समाक्षेरैः–गुरुलध्वक्षरवैषम्यरहितैः । अत एव पुरस्ताद्वाल्मीकये च ऋषय इति पाठ इत्युक्तम् । शतशब्दोऽनेक पर्यायः । उदारधीः-महाबुद्धिः । यशस्विनो रामस्य चरितविषयकं लोककवेश्च यशस्करं तत्तादृक्काव्यं चकारेति योजनार्थः ॥ ४२ ॥

 तदुपगतसमाससन्धियोगं
  सममधुरोपनतार्थवाक्य [१६२]बन्धम् ।
 रघुवरचरितं मुनिप्रणीतं
  दशशिरसश्च वधं निशामयध्वम् ॥ ४३ ॥

  इत्यार्षे श्रीमद्रामायणे बालकाण्डे द्वितीयः सर्गः


 एवं काव्यं निर्माय विद्वांसोऽभिमुखीक्रियन्ते-तदुपगतेत्यादि । समासो द्वन्द्वादिः । सन्धिरेकादेशतुगागमादिजः । योगः-विभक्तार्थयोः प्रकृतिप्रत्यययोः । उपगताः-यथाव्याकरणमर्यादं समासादयो यस्मिन् पादे तत्तथा । तस्मान्मत्वर्थीयोऽच् । उपगतसमाससन्धियोगपदवदित्यर्थः । एवं काव्यस्य विशिष्टपदवैभवमुक्ता वाक्यवैभवं उच्यते-समेत्यादि । समः-ओजः प्रसादसमः, ओजस्समस्तपदभूयस्त्वं, प्रसादो व्यस्तपदभूयस्त्वम् । न चागमवत् केवलं ओजोभूयः । न च वेदवत् प्रसादभूय इत्यर्थः । मधुरः-वैदर्भरीतिः । तेन मधुरपाकेन, वाक्याश्रितपद-शक्तिवैभवेन उपनतः-उपलभ्यमानस्तत्तत्प्रकरणोचितार्थो यस्मिन् तत्तथा । परस्परान्वितक्रियाकारकपदं वाक्यम् । वाक्यत्वेन [१६३]बन्धः-सम्बन्धो वाक्य[१६४]बन्धः । समो मधुरः उपनतार्थो वाक्य[१६५]बन्धो यस्मिन् काव्ये तत्तथा । एवं विशिष्टपदवाक्यवैभववतोऽपि मिथ्यार्थकत्वादप्रामाण्यप्रसङ्ग इत्यतः-मुनिप्रणीतमिति । भगवदनुग्रहप्राप्त-सत्यसरस्वतीकमहर्षिप्रणीतम् । अत एव परं प्रमाणम् । एवमपि लौकिकाप्तवाक्यवत् परलोकानुपयोग

इत्यतः-रघुवरचरितमिति । यतो भगवदवतारश्रीरामचरितं अतो ब्रह्मलोकावाप्तिसाधनं तदिदमेव विशेषविषयप्रयोजनकं काव्यम्, श्रेयोऽर्थिनः ! निशामयध्वं-सेन्द्रजित्कुम्भकर्णरावणस्यैव त्रिपदाघोरांशजमलत्वात्तन्नाशपर्यन्तश्रवणत एव युष्माकमपि शुद्धिसिद्धेः आन्तमिदं काव्यं शृणुध्वं इत्यर्थः ॥ ४३ ॥

इति श्रीमद्रामायणामृतकतकटीकार्या बालकाण्डे द्वितीयस्सर्गः


अथ तृतीयः सर्गः

 [१६६]श्रुत्वा वस्तु [१६७]समाप्यं तत् धर्मात्मा धर्मसंहितम् ।
 व्यक्तमन्वेषते भूयो यद्वृत्तं तस्य धीमतः ॥ १ ॥

 एवं नारदात् गुरोः श्रुतदिव्यकाव्यनायकचरितरूपकाव्य-विषयकस्य च प्राप्तकाव्यविषयकभगवन्नियोगानुग्रहस्य च महर्षेर्भगवद्योगबलजभगवदनुग्रहात् यत् संक्षेपश्रुतादभ्यधिकं समग्र रामचरितं दृष्टं तत्सर्वं सामान्यतोऽनुक्रम्यते तृतीयेन-श्रुत्वेत्यादि । वस्तु-काव्यविषयकथाशरीरं नारदाच्छ्रुत्वा समाप्यं-भगवन्नियोगात् सप्रपञ्चप्रतिपादनपूर्व समापनीयत्वेन च प्राप्तम्, घीमत:-रामस्य यद्वृत्तमस्ति, तत् व्यक्तं-प्रपञ्चनेन सुस्पष्टम्, धर्मसंहितं-प्रसङ्गतस्सकलवर्णाश्रमघर्मोपदेशोप-बृह्मितम् यथा, भूयः-अभ्यधिकम् । "बहोर्लोपो भू च बहोः" इति बहोर्भूभाव ईयसुनि ईकारलोपश्च । अव्युत्पन्नो भूयश्शब्दोऽप्ययम् । प्रतिपादयितुं अन्वेषते-उद्युङ्क्ते स्म । एवमादौ भूतार्थसिद्धये सर्वतस्स्म-शब्दोऽध्याहार्य इति प्रागेवावादिष्म ॥ १ ॥

 उपस्पृश्योदकं सम्यक् मुनिः स्थित्वा कृताञ्जलिः ।
 प्राचीनाग्रेषु दर्भेषु धर्मेणान्वेषते गतिम् ॥ २ ॥

 उद्योगस्वरूप एवाभिनीयते–उपेति । 'उपस्पर्शस्त्वाचमनम्' इत्यमरः । 'सम्यक् हृदयङ्गमाभिरद्भिः त्रिः प्रोक्ष्य द्विः परिमृज्य' इत्यादिधर्मोपदिश्यमानरीत्या । प्राचीनेति । 'विभाषाञ्चेरदिक् स्त्रियाम्' इति स्वार्थे खः । दर्भेषु स्थित्वेति योजना । अम्बायोगजेनेति शेषः । धर्मेण गतिम्-रामादीनां जन्मादिचरितरूपम् अन्वेषते स्म-चिन्तयति स्म ॥ २ ॥


 अन्विष्टकार्यसिद्धिरुच्यते-

 रामलक्ष्मणसीताभी राज्ञा दशरथेन च ।
 सभार्येण सराष्ट्रेण यत्प्राप्तं तत्र तत्त्वतः ॥ ३ ॥
 हसितं भाषितं चैव गतिर्यावच्च चेष्टितम् ।
 तत्सर्वं धर्मवीर्येण यथावत्संप्रपश्यति ॥ ४ ॥

 भार्याः-राजभार्याः कौसल्याद्याः । रामादिसहितेन दशरथेन यद्वृत्तं-राज्यपरिपालनादिरूपम् । प्राप्तं प्राप्तानुष्ठानम् । अन्ततो यच्च हसितादिकमपि तत्सर्वम्, धर्मवीर्येण-भगवद्योगबलेन, तत्र-समाधौ, तत्वतः पश्यति स्म ॥ ३-४ ॥

 स्त्रीतृतीयेन च तथा यत्प्राप्तं चरता वने ।
 सत्यसन्धेन रामेण तत्सर्वं चान्ववैक्षत ॥ ५ ॥

 न केवलमेतावत् । अपि तु [१६८]सलक्ष्मणस्य यस्य रामस्य स्त्री-सीता तृतीया सोऽसौ स्त्रीतृतीयः ॥ ५ ॥

 ततः पश्यति धर्मात्मा तत्सर्वं योगमास्थितः ।
 पुरा यत्तत्र निर्वृत्तं पाणावामलकं यथा ॥ ६ ॥

 समाघिदर्शनस्य च [१६९]सन्ध्यादर्शनवत् द्राक् निमेषान्निवर्तनप्रसङ्गात् अकार्यकरतेत्याशङ्क्य भगवद्विशेषानुग्रहमूलत्वान्नैवमित्युच्यते-तत इति । सकलकालदेशसदाव्यापिभगवत्तादात्म्ययोगो योगस्सर्ववेदार्थसिद्धः । तत्र-योगे, पुरा-निजकाव्यकृतिकालात्पुरा यद्वृत्तं रामादिविषयकं यच्चागामि वर्तमानं च तत्सर्वं करतलामलकवत् सुव्यक्तं सुदृढानुभवं च पश्यति स्म ॥ ६ ॥


 तत्सर्वं तत्वतो दृष्ट्वा धर्मेण स महामतिः ।
 अभिरामस्य रामस्य तत्सर्वं कर्तुमुद्यतः ॥ ७ ॥

 एवं चिकीर्षितकृतिकरणसमग्रसामग्रीकत्वात्तत्र प्रवर्तत इत्युच्यते-तत्सर्वं कर्तुमिति । तत्सर्वं विषयीकृत्य काव्यं कर्तुमित्यर्थः ॥ ७ ॥

 कामार्थगुणसंयुक्तं धर्मार्थगुणविस्तरं ।
 समुद्रमिव रत्नाढ्यं सर्वश्रुतिमनोहरम् ॥ ८ ॥

 न केवलं रामचरितं, अपि तु कामार्थः-कामपुरुषार्थप्रयोजनो यो गुणो वर्णनीयधर्मः शृङ्गारलक्षणः, तेन संयुक्तम् । एतेन काव्यलक्षणयुक्तत्वं समर्थितम् । तथा धर्मार्थः धर्मपुरुषार्थसिद्धिप्रयोजनो यो गुणो वर्णनीयधर्म: तस्य विस्तरेण वर्णनोपेतं, बहुव्रीहिः । अतएव रत्नाढ्यं समुद्रमिव, धर्मप्रयोजनवर्णनान्येवेह रत्नानि । तदुपगतेत्याद्यक्तलक्षणकत्वेन सर्वेषां श्रुतिमनोहरम् । [१७०]कश्चित्तु सर्वाभिप्पड्जातिसप्तस्वरसम्बन्धिनीभिः कान्ताभिः द्वाविंशतिश्रुतिभिः मनोहरम् । अत्र शाण्डिल्यः-'सम्प्रयुक्तो विधानेन तथा नाडीसमुद्भवः । सुखहेतु-र्ध्वनिर्यस्सः श्रुतिरित्यभिधीयते ॥ कान्ता प्रभावती सिद्धा सुप्रभा चैव षड्जगाः । उम्रा शिखा च दीप्ता च स्युरेता ऋषभानुगाः ॥ गान्धारानुगते द्वे तु नीह्नादिह्लादिनीति च । क्षान्तिस्सर्वसहा धीरा विभूतिर्मध्यमानुगाः ॥ मालिनी चपला लोला सर्वरत्नप्रभावती । इमाश्चतस्रः श्रुतयः पञ्चमानुगताः स्मृताः ॥ विकल्पिनी च शान्ता च हृदयोन्मालिनी तथा । एतास्तु तिस्रः श्रुतयो धैवतानुगमा मताः ॥ विस्तारिणी प्रसन्ना (पञ्चा) च निषादानुगते उभे ॥' इतीत्यादि तत्रैव सुस्पष्टम् । तन्त्रीनाडीसमुत्पन्ना(त्थाना)दखिलधर्मैश्श्रुतितद्भेदैर्गति-


विशेषोपयुक्तैः काव्यस्य मनोहरत्वम् । एवमधिकमसङ्गतमेव स्वकमिथ्यापण्डित्यप्रकटनाय वृथा ग्रन्थगौरवाय च ब्रूते । तथा प्रकृतिप्रत्य- यविवेचनाबलादर्थविशेषसिद्धिस्थलेपि निस्सन्देहप्रकृतिप्रत्ययस्थलेपि व्याकरणं लिखति । पदार्थसन्देहरहितस्थलेपि निघण्टून् लिखति ।

मिथ्यापाण्डित्यप्रकटनायै (न एव)व, प्रकटयतु तत्प्रीतिमद्भयः ॥ ८ ॥

 स यथा कथितं पूर्वं नारदेन महात्मना ।
 रघुवंशस्य चरितं चकार भगवान्मुनिः ॥ ९ ॥

 स इति । रघुवंशस्येति बहुव्रीहिः । रामस्येति यावत् । चरितं-तद्विषयककाव्यं इत्यर्थः ॥ ९ ॥

 जन्म रामस्य सुमहद्वीर्यं सर्वानुकूलताम् ।
 लोकस्य प्रियतां क्षान्तिं सौम्यतां सत्यशीलताम् ॥ १० ॥

 अथ योगतस्स्वोपदृष्टो नारदश्रुतादभ्यधिको यो विशेषस्तदनुक्रमः क्रियते सामान्यतः काव्यप्रतिपाद्यार्थपरिज्ञानाय-जन्मेति । [१७१]सुमहत् वीर्यं यस्मिन् जन्मनि तत्तथा । पुत्रकामेष्टिप्राजापत्योपनीत-भगवद्ब्रह्मतेजोवशवीर्यरूपवीर्यमूलकं यद्रामस्य जन्मावतरणं योगदृष्टं तच्चकारोत्तमे काव्ये इति सर्गान्तार्धेन सम्बन्धः । तथा तदन्तप्रतिपाद्यं सर्वं । तच्चकारेति-तत्प्रतिपादनं चात्र चकारेत्यर्थः । सर्वानुकूलतां सर्वप्राणिनामिहामुत्रार्थानुक्कूलमनोवाक्कायव्यापरताम् । प्रत्येकं मामको मामक इति अभिस्नेहास्पदताम् । अत्र हेतुः-क्षान्त्यादित्रयम् । शक्यप्रतिक्रियापकारेष्वपि तदपकारोपेक्षा-क्षान्तिः । भृत्येष्वपि परुषवागादिराहित्यं सौम्यता । सत्यशीलतां-सत्यवचनप्रधानसद्वृत्तताम् । 'शीलं स्वभावे सद्वृत्ते' ॥ १० ॥


 नाना चित्राः कथाश्चान्या विश्वामित्रसमागमे ।
 जानक्याश्च विवाहं च धनुषश्च विभेदनम् ॥ ११ ॥

 विश्वामित्रसमागमे नानाचित्रकथाः, लौकिक्यः । धनुर्भेदजानकीविवाहयोः क्रमेणान्वयो द्रष्टव्यः । तथापि क्वचित् । जानक्याश्चेति चकारादूर्मिळादेर्विवाहः ॥ ११ ॥

 रामरामविवादं च गुणान् दाशरथेस्तथा ।

 रामेण-भार्गवेण रामस्य विवादः । तथा गुणानिति भार्गवेणोप-दिश्यमानपरमपुरुषत्वादिगुणान् अयोध्याकाण्डादौ वक्ष्यमाणान् राज्याभिषेकार्हगुणांश्च ॥

 तथाऽभिषेकं रामस्य कैकेय्या दुष्टभावताम् ॥ १२ ॥
 व्याघातं चाभिषेकस्य रामस्य च विवासनम् ।

 व्याघातो विघ्नः ॥ १२ ॥

 राज्ञः [१७२]शोकविलापं च परलोकस्य चाश्रयम् ॥ १३ ॥
 [१७३]प्रकृतीनां विषादं च प्रकृतीनां विसर्जनम् ।

 प्रकृतीनां विसर्जनम् । विवासकाले स्वानुयायिपौराणां प्रतिनिवर्तनम् ॥ १३ ॥

 निषादाधिपसंवाद सूतोपावर्तनं तथा ॥ १४ ॥
 गङ्गायाश्चापि सन्तारं भरद्वाजस्य दर्शनम् ।
 भरद्वाजाभ्यनुज्ञानाच्चित्रकूटस्य दर्शनम् ॥ १५ ॥
 वास्तुकर्म [१७४]निवेशं च भरतागमनं तथा ।
 प्रसादनं च रामस्य पितुश्च सलिलक्रियाम् ॥ १६ ॥


 वास्तुकर्म-चित्रकूटे पर्णशालानिर्माणम् । तत्पूर्वकस्तत्र निवेशः। तथा प्रसादनं च रामस्येति । भरतेनेति शेष ॥ १६ ॥

 पादुकाग्र्याभिषेकं च नन्दिग्रामनिवासनम् ।
 दण्डकारण्यगमनं विराधस्य वधं तथा ॥ १७ ॥

 पादुकयोरग्रघसिद्धिकः-स्ववत्पूज्यतासिद्धिकः-अभिषेकः- [१७५]स्वपादक्रमणरूपिणी अभिषेकभावना । तथा-नन्दिग्रामे निवासनमिति । भरतस्येति शेषः । स्वार्थे णिः । तथाऽग्रेऽपि ॥ १७ ॥

 दर्शनं शरभङ्गस्य सुतीक्ष्णेन समागमम् ।
 [१७६] अनसूया[१७७] समस्यामप्यङ्गरागस्य चार्पणम् ॥ १८ ॥

 अनसूयासमस्यां-अनसूयया अत्रिपत्न्या समस्या-सङ्गमः । सीताया विशिष्येति शेषः । 'परिचर्या परिसर्यामृगयाटाट्यानामुपसंख्यानम्' इत्यादिशब्दादस्यतेः 'स्त्रियाम्' इति यक्प्रत्ययनिपातः ॥१८॥

 [१७८]अगस्त्यवचनं चैव जटायोरभिसङ्गमम् ।
 शूर्पणख्याश्च संवादं विरूपकरणं तथा ॥ १९ ॥

 अगस्त्यवचनमायुधदानादिविषयम् ॥ १९ ॥


 वधं खरत्रिशिरसोरुत्थानं रावणस्य च ।
 मारीचस्य वधं चैव वैदेह्या हरणं तथा ॥ २० ॥

 खरत्रिशिरसोरिति दूषणादेरप्युपलक्षकः । उत्थानं-सीतापहारा-र्थोद्योगः ॥ २० ॥

 राघवस्य विलापं च गृध्रराजनिबर्हणम् ।
 कबन्धदर्शनं चैव पम्पायाश्चापि दर्शनम् ॥ २१ ॥
 शबरीदर्शनं चैव [१७९]फलमूलाशनं तथा ।
 प्रलापं चैव पम्पायां [१८०]हनूमदर्शनं तथा ॥ २२ ॥
 ऋश्यमूकस्य गमनं सुग्रीवेण समागमम् ।
 प्रत्ययोत्पादनं सख्यं वालिसुग्रीवविग्रहम् ॥ २३ ॥

 प्रत्ययोत्पादनं-सालादिभेदेन सुग्रीवस्य विश्वासजननम् । सख्यमिति । रामसुग्रीवयोरिति शेषः । विग्रहमिति । युद्धं, वैरानुकथनमिति यावत् ॥ २३ ॥

 वालिप्रमथनं चैव सुग्रीवप्रतिपादनम् ।
 ताराविलापं समयं [१८१]वर्षरात्रिनिवासनम् ॥ २४ ॥

 प्रतिपादनमिति । राज्ये स्थापनमिति यावत् । शरदिं कार्यार्थोयोगः कार्य इति रामसुग्रीवकृतसङ्केतः- समयः । वर्षरात्रिनिवासनमिति । विरहदुःखपीडया रामस्येति शेषः ॥ २४ ॥

 [१८२]कोपं राघवसिह्मस्य बलानामुपसंग्रहम् ।
 दिशः प्रस्थापनं चैव पृथिव्याश्च निवेदनम् ॥ २५ ॥


 पृथिव्याश्च निवेदनमिति । सीतादर्शनार्थमन्वेषणीयपृथिवीदेशविशेषोपदेशः; सुग्रीवकृत इति शेषः ॥ २५ ॥

 अङ्गुलीयकदानं च ॠक्षस्य बिलदर्शनम् ।
 प्रायोपवेशनं चैव संपातेश्चापि दर्शनम् ॥ २६ ॥

 बिलदर्शनं हनूमदादेरिति शेषः । तथाग्रेऽपि ॥ २६ ॥

 पर्वतारोहणं चैव सागरस्यापि लङ्घनम् ।
 समुद्रवचनाच्चैव मैनाकस्य च दर्शनम् ॥ २७ ॥

 समुद्रवनादिति । विश्रमार्थं प्रेषितस्येति शेषः ॥ २७ ॥

 [१८३]देवताभिप्रसादश्च छायाग्राहस्य दर्शनम् ।
 सिलिकायाश्च निधनं लङ्कामलयदर्शनम् ॥ २८ ॥

 देवतानामभिप्रसादो देवताभिप्रसादनम् । लङ्कामलयो नाम-लङ्काद्वीपगतः कश्चिगिरिः ॥ २८ ॥

 [१८४]रात्रौ लङ्काप्रवेशं च एकस्य च विचिन्तनम् ।
 आपानभूमिगमनमवरोधस्य दर्शनम् ॥ २९ ॥

 एकस्य-असहायस्य । आपानं-पानभूमिः तद्गमनम् तथा । रावणस्येति शेषः । तथाग्रेऽपि ॥ २९ ॥

 दर्शनं रावणस्यापि पुष्पकस्य च दर्शनम् ।
 अशोकवनिकायानं सीतायाश्चापि दर्शनम् ॥ ३० ॥
 अभिज्ञानप्रदानं च सीतायाश्चापि भाषणम् ।
 राक्षसीतर्जनं चैव त्रिजटास्वमदर्शनम् ॥ ३१ ॥

 अभिज्ञायतेऽनेनेत्यभिज्ञानं-अङ्गुळीयकम् ॥ ३१ ॥


 मणिप्रदानं सीताया वृक्षभङ्गं तथैव च ।
 राक्षसीविद्रवं चैव किङ्कराणां निबर्हणम् ॥ ३२ ॥

 मणिप्रदानमिति । रामं प्रतीति शेषः ॥ ३२ ॥

 ग्रहणं वायुसनोच लङ्कादाहाभितर्जनम् ।
 प्रतिप्लवनमेवाथ मधुनिर्यातनं तथा ॥ ३३ ॥

 लङ्कादाहश्च अभितर्जनञ्च तथा । तत्र राक्षसानामिति शेषः । प्रतिप्लवनं पुनः सागरतरणम् । मधूनां क्षौद्राणाम् ॥ ३३ ॥

 राघवाश्वासनं चैव मणिनिर्यातनं तथा ।
 सङ्गमं च समुद्रेण नलसेतोच बन्धनम् ॥ ३४ ॥

 निर्यातनं-दानम् । नलबद्धोः यस्सेतुः स नलसेतुः ॥ ३४ ॥

 प्रतारं च समुद्रस्य रात्रौ लङ्कावरोधनम् ।
 विभीषणेन संसर्गं वधोपायनिवेदनम् ॥ ३५ ॥

 प्रतारं-भावे घञ् । विभीषणसंसर्गः सेतुबन्धनात्पूर्वम् ॥ ३५ ॥

 कुम्भकर्णस्य निधनं मेघनादनिबर्हणम् ।
 रावणस्य विनाशं च सीतावाप्तिमरेः पुरे ॥ ३६॥
 विभीषणाभिषेकं च पुष्पकस्य च दर्शनम् ।

 [१८५]अरेः पुरे सीतावाप्तिं विभीषणाभिषेकं चेत्यन्वयः ॥ ३६ ॥

 अयोध्यायाश्च गमनं भरद्वाजसमागमम् ।
 प्रेषणं वायुपुत्रस्य भरतेन समागमम् ॥ ३७ ।।


 रामाभिषेकाभ्युदयं सर्वसैन्यविसर्जनम् ।
 स्वराष्ट्ररञ्जनं चैव वैदेह्याश्च विसर्जनम् ॥ ३८ ॥

 अभ्युदयः-उत्सवः ॥ ३८ ॥

 अनागतं च यत्किश्चिद्रामस्य वसुधातले ।
 [१८६] [१८७]तच्चकारोत्तमे काव्ये वाल्मीकिर्भगवानृषिः ॥ ३९ ॥

इत्यार्षे श्रीमद्रामायणे बालकाण्डे तृतीयः सर्गः

 अनागतं-ब्राह्मणपुत्रोजीवनाश्वमेघयागादि । उत्तमे काव्य इति । समग्रकाव्यलक्षणलक्षितत्वात् काव्योत्तमे, पूर्वोत्तरविभागवतीति शेषः ॥ ३९ ॥[एकोनचत्वारिंशत् ]

इति श्रीमद्रामायणामृतकतकटीकायां बालकाण्डे तृतीयः सर्गः

अथ चतुर्थः सर्गः

 प्राप्तराज्यस्य रामस्य वाल्मीकिर्भगवानृषिः ।
 चकार चरितं कृत्स्नं विचित्रपदमर्थवत् ॥ १ ॥

 अथैवं कृतस्य काव्यस्य विना प्रचारं प्रयोजनाभावात् तत्रापिरा राजसत्काररहिता विद्या नातिप्रकाशते इति न्यायेनाधिराजास्थानीसम्प्राप्तिं विना पूर्वं प्रचारासम्भवात् चतुर्थेन काव्यस्य सार्वभौमास्थानीसम्प्राप्तिः तच्छिष्यद्वारिका प्रतिपाद्यते-प्राप्तेत्यादि । प्राप्तराज्यस्येति बहुव्रीहिः । रामस्य चरितमिति । तद्विषयककाव्यमिति यावत् ॥ १ ॥


 चतुर्विंशत्सहस्राणि श्लोकानामुक्तवानृषिः ।
 तथा सर्गशतं पञ्च षट् काण्डानि तथोत्तरम् ॥ २ ॥

 अथ श्लोकसङ्ख्यापरिच्छेदं प्रक्षेपादिदोषपरिहाराय, सर्गसङ्ख्यापरिच्छेदं च अस्थाने सर्गविच्छेदादितः सर्गन्यूनाधिक्यपरिहाराय च कुरुते-चतुर्विंशदित्यादि । इयं श्लोकानां चतुर्विंशत्सहस्रसङ्ख्या-'तपस्स्वाध्याय' इत्यारभ्य 'तद्ब्रह्माप्यन्वमन्यत' इत्युत्तररामायणसमाप्ति- ग्रन्थस्य श्लोकराशेरेव, न तु षट्काण्डीयश्लोकानाम् । अत्र कः काण्डः कियच्छलोकः ? उत्तरश्च कियच्छलोकः ? इत्यत्र प्राचीनं सोत्तरकाण्डश्लोकसङ्ख्यापरं श्लोकं लिखामः-

 "ग्रन्थास्स्युर्बालकाण्डे निजखुरगणिता मान्यभावा द्वितीये
 रङ्गे सा श्रीस्तृतीये नरतरुगणिता स्युश्चतुर्थे च काण्डे ।
 काण्डे स्युः पञ्चमेऽपि स्तननगगणिता नाळधामा च षष्ठे
 भोगी रागी परस्मिन् ससुरवर इति स्यात्समस्ता च सङ्ख्या ॥"

परस्मिन्निति-उत्तरकाण्ड इति यावत् । ससुरेत्येवं सङ्ख्याभ्यधिकः सप्तसप्तत्युत्तरद्विशतसङ्ख्याभ्याधिकः उक्तसङ्ख्याभ्याधिक्यक्रुद्वात्रिंशदक्षरप्रमाणेन लोकानां परिगणने त्रिष्टुप् जगत्यादिछन्दोभेदवशात् भवतीत्याहुः । तथा सर्गशतं पञ्चेति । पर्वतीत्यादिना बहुसङ्ख्येयार्थ- त्वेऽपि शतमिति निपातः । पञ्चसङ्ख्यासङ्ख्येयं सर्गशतम् । तथा इयं षट्काण्डीयसर्गसङ्ख्या । कः काण्डः, कियत्सर्गः इत्यत्रापि तत्सङ्ख्यापरं प्राचीनं श्लोकं पठामः-

 "काण्डे किलाद्ये संस्थानं द्वितीये धान्यकानि तु ।
 मासं तृतीये सन्तस्तु चतुर्थे पञ्चमे जितम् ।
 षष्ठं यागायनं रागायनं वातायकोऽन्तिमे ॥"

इति । अत्रापि षट्त्रिंशत्सगाधिक्यं षट्काण्ड्याः प्रतीयते । अत्र षट्काण्डसर्गविषयिणी महासङ्ख्यैव पञ्चशती साक्षादुक्ता । षट्त्रिंशद्रूपिणी अल्पसङ्ख्या तु मुनिना उपेक्षिता । एकसर्गस्य द्विधा विच्छेदे द्वयोस्सर्गयोरेकतया मेळनेऽपि न कथञ्चन भारोऽस्ति । ग्रन्थसङ्ख्याया अपरिक्षयात् कथासन्दर्भस्याविच्छेदाच्च । इदमेवोपलक्षणं उत्तर-काव्यस्य सर्गसङ्ख्यानुपदेशेन द्योत्यते । यच्च श्लोकानां ससुरसङ्ख्याभ्यधिकत्वं पुरातनैर्दृष्टं तत्रापि अक्षरविषयकाणां सहस्राणां महासङ्ख्यानामेव परिच्छेदो दुःखतः कृतः । तु यथा द्योतिता तथान्यदप्यल्पं श्लोकजातमस्ति, तथा सर्गसङ्ख्यायामनुक्तसङ्ख्यासंग्रहाय तथाशब्दस्तत्रापि प्रयुक्तः । वयंतु श्लोकान् प्रतिसर्गं सङ्गणय्य सङ्कलय्य पश्चान्महासङ्ख्यां परिच्छेत्स्यामः । वस्तुतस्तु यथा चरणव्यूहे ऋग्वेदमण्डलवर्गपदसङ्ख्योपदिष्टान्यूनाधिकरहिता अनुभूयते, एवमेव च ऋषीणां सङ्ख्योपदेशकत्वे कापि सङ्ख्या न न्यूनाधिका स्यात् । न ससुरसङ्ख्याग्रन्थः प्रक्षिप्त इति शक्यवादः, साहसमात्रत्वात् । षट्त्रिंशत्सर्गसङ्ख्या च भ्रान्तिकृतेति दुर्वचा । अपि च ग्रन्थसङ्ख्यामुत्तरस्य वदन् तत्सर्गसङ्ख्यां च अवक्ष्यत् । [१८८]अतः प्राचीनेन केनचित् सर्वश्लोकसङ्ख्यागणकेन च स्मार्तश्रोत्रियश्लोकवत् स्वमतिसौकर्यसिद्धये स्थूलदृशा सङ्ख्यापरि ज्ञानाय कृतोऽयं श्लोको ग्रन्थसमीपे च लिखितः । तत्तु मूलग्रन्थान्तर्गतमिति भ्रान्त्या स्वेषामपि सामान्यतस्सङ्ख्यापरिज्ञानमस्त्विति प्राचीनैरपि ग्रन्थान्तः परिक्षिप्तः । सर्वथाऽयं श्लोकः प्रतिक्षिप्त एव । अस्य व्याख्याने प्रत्यक्षस्वप्नदर्शननिमित्तवैषम्यतश्च वयं प्रक्षिप्तत्वं निरचैषिष्म ॥ २ ॥

 कृत्वापि तन्महाप्रज्ञः सभविष्यं सहोत्तरम् ।
 चिन्तयामास को न्वेषः प्रयुञ्जीयादिति प्रभुः ॥ ३ ॥


 महाप्राज्ञ इति । प्राज्ञः-'प्रज्ञाश्रद्धा' इत्यादिना णः । तेन महच्छब्दस्य समासः कर्मधारयः । सर्भविष्यमिति । 'लटः शतृ-इति शत्रभावश्छान्दसः । भविष्यदश्वमेघादिचरिताख्यानोपेतं । अत एव सहोत्तरं, उत्तरकाव्य एव तत्प्रतिपादनात् तेनैकग्रन्थ्यम् । तं महाकाव्यमपि सत्यसङ्कल्पत्वात् कृत्वा, प्रभुः-प्रवर्तनादिशक्तिमान् ऋषिः, को न्वेतत्काव्यं प्रयुञ्जीयात् पठित्वाऽऽस्थानीषु प्रचारयेदिति चिन्तयामास । प्रोपाभ्यां इत्यात्मनेपदाभावः परस्मैपदे यासुटि ईडागमश्च छान्दसः । परस्मैपदे सीयुडार्ष इति कश्चित् । नैतत्सीयुट्, एवं रूपयोगात् ॥ ३ ॥

 तस्य चिन्तयमानस्य महर्षेर्भावितात्मनः ।
 अगृह्णीतां ततः पादौ मुनिवेषौ कुशीलवौ ॥ ४ ॥

 तस्य भावितः–पूजितः आत्मा यस्य स तथा । अगृह्णीतामिति । अजादावपि 'ईहल्यघोः' इतीत्वं छान्दसम् । मुनिवेषाविति । राजकुमारयोरपि आश्रमस्थित्युपाधिवशादिति शेषः । कुशश्च लवश्च कुशीलवौ । सामासिकः कुशीभाव आर्षः ॥ ४ ॥

 कुशीलवौ तु धर्मज्ञौ राजपुत्रौ यशस्विनौ ।
 भ्रातरौ स्वरसंपन्नौ ददर्शाश्रमवासिनौ ॥ ५ ॥
 स तु मेधाविनौ दृष्ट्वा वेदे तु परिनिष्ठितौ ।
 वेदोपबृह्मणार्थाय तावग्राहयत प्रभुः ॥ ६ ॥

 स तु मेघाविनौ 'धीर्धारणावती मेधा' 'अस्मायामेधा' इति विनिः । उपबृह्मणं-उपोद्बलकं, वेदप्रतिपाद्यधर्माणामिह सुबोधतया प्रतिपादनात् । अत्र वेदात् सामान्यावगतार्थस्य परिज्ञाने बुद्धिसौकर्यमिति उपोद्बलकत्वं काव्यस्य ॥ ६ ॥  एवंभूतपौलस्त्यवध काव्यस्य शिष्यमुखात् प्रवृत्त्यपदेशः-पाठ्य इत्यादि । आसर्गसमाप्ति पठेर्मात्रे ण्यः कृतः । पाठ्ये-सामान्यत-श्चिताह्लादार्थे पठने, गेये 'भव्यगेय' इति निपातः, प्राकप्रसङ्गोक्ततन्त्रीनाडी समुत्थश्रुति-भेदोपेततया यत् गानं तत्रोभयत्र च मधुरं श्रोत्रसुखोत्पादनाद्यनुकूलम् । षड्जादयस्सप्तस्वरास्सामान्यतो जातिसंज्ञाः । ताभिर्जातिभिस्सप्तभिर्बद्धम् । गानसमये गातॄणां सप्तस्वरविशिष्टगानानुरोधीति यावत् । अत्र जातिलक्षणे शाण्डिल्य: "सर्वगीतसमाधानो जातिरित्यभिधीयते" इति । गीतं गानं स समाधीयते येषु सप्तस्वरेषु स सर्वोपि निषादादिसप्तस्वरो जातिरित्यभिधीयते इत्यर्थः । अयमेवार्थस्तेनोत्तरश्लोकेन प्रतिपादितः- "षाड्जी चैवाथ नैषादी धैवती पञ्चमी तथा माध्यमी चैव गान्धारी साप्तमी त्वार्षभी मता ॥" व्यापारानुरोधितया स्वराणां प्रयोगैकाग्र्यं-अवधानम् । स्थानं च मूर्च्छना च स्थानमुर्च्छने, तत्तत्त्वपरिज्ञाने कोविदौ-समर्थावित्यर्थः । तथाऽऽह स्थानादिस्वरूपं शाण्डिल्यः– "यदूर्ध्वं हृदयग्रन्थेः कपोलफलकादयः । प्राणसञ्चरणं स्थानं स्थानमित्यभिधीयते" इति । तथा-'यत्रैव स्युः स्वराः पूर्णा मूर्च्छना सेत्युदाहृता' । यत्रैवेति । गीतिविशेष इत्यर्थः । स्वराः पूर्णा इति । एकेन गानकर्त्रा षड्जादिस्वरानामबिलम्बप्रयोजना पूर्तिः-पूर्णता । रूपिणौ-प्रशंसायामिनिः । प्रशस्तरूपवन्तौ । बिम्बात्-सूर्यादेः उद्धृतौ-उत्पन्नौ, बिम्बौ-प्रतिबिम्बौ ॥ ११ ॥

 तौ राजपुत्रौ कार्त्स्येन धर्म्यमाख्यानमुत्तमम् ।
 वाचोविधेयं तत्सर्वं कृत्वा काव्यमनिन्दितौ ॥ १२ ॥

 काव्यं रामायणं कृत्स्नं सीतायाश्चरितं महत् ।
 पौलस्त्यवधमित्येव चकार चरितव्रतः ॥ ७ ॥

 सीताचरितप्रतिपादकमपि काव्यं कृत्स्नमपि पौलस्त्यवधमित्येव चकार । तथा च शिशुपालवधे माघकाव्यं इतिवत् पौलस्त्यवधे रामायणं इत्येव काव्यस्य विशिष्य प्रतिपद्यांशस्सर्गान्तेषु वक्तव्य इत्यावोदितम् । इदमेव चोक्तं प्रागपि 'दशशिरसश्च वधं निशामयध्वम् ।' इति ॥ ७ ॥

 पाठ्ये गेये च मधुरं प्रमाणैस्त्रिभिरन्वितम् ।
 जातिभिस्सप्तभिर्युक्तं तन्त्रीलयसमन्वितम् ॥ ८ ॥
 रसैः श्रृङ्गारकरुणहास्यरौद्र भयानकैः ।
 वीरादिभी रसैर्युक्तं काव्यमेतदगायताम् ॥ ९ ॥

४ सर्गः]
81
महर्षिसंसदि कुशलवाभ्यां रामायणगानम्

इति । तन्त्रीलयसमन्वितमिति । 'पादबद्धोक्षरसमस्तन्त्रीलयसमन्वितः 'इति द्वितीयसर्गे व्याकृतः । वीरादीत्यादिशब्देन बीभत्साद्भुतशान्तिरस-संग्रहः ॥ ८ ॥ ९ ॥

 तौ तु गान्धर्वतत्वज्ञौ स्थानमूर्छनकोविदौ ।
 भ्रातरौ स्वरसंपन्नौ गन्धर्वाविव रूपिणौ ॥ १० ॥
 रूपलक्षणसंपन्नौ मधुरस्वरभाषिणौ ।
 बिम्बादिवोत्थितौ बिम्बौ रामदेहात्तथाऽपरौ ॥ ११ ॥

 तौ गान्धर्वस्य-समग्रनाट्यस्य तत्त्वज्ञौ तथा, "पदस्थस्वर-सङ्घातस्ताळेन सुमितस्तथा । प्रयुक्तश्चावधानेन गान्धर्वमभिधीयते इति", नृत्तपदविक्रमानुरोधितया तिष्ठतीति पदस्थस्वरः । निषादादिमृदङ्गताळ

 ऋषीणां च द्विजातीनां साधूनां च समागमे ।
 यथोपदेशं तत्वज्ञौ जगतुस्सुसमाहितौ ॥ १३ ॥
 महात्मानौ महाभागौ लक्ष्यलक्षणलक्षितौ ।

 तौ धर्म्यं-धर्मादनपेतं । वाचोविधेयमिति । विनापि पुस्तकं पाठयोग्यमिति यावत् । जगतुरिति । गानं कृतवन्ताविति यावत् । महाभागौ । पूज्याविति यावत् । लक्ष्येति । सामुद्रिकशास्त्रविद्भिः यल्लक्ष्यं-परीक्ष्यं लक्षणं-सुलक्षणमस्ति तेन लक्षितौ तथा ॥ १३ ॥

 तौ कदाचित्समेतानामृषीणां भावितात्मनाम् ।
 मध्येसभं समीपस्थौ इदं काव्यमगायताम् ॥ १४ ॥

 भावितः-पूतः ॥ १४ ॥

 तच्छ्रुत्वा मुनयः सर्वे बाष्पपर्याकुलेक्षणाः ।
 साधु साध्विति तावूचुः परं विस्मयमागताः ॥ १५ ॥

 बाष्पः-आनन्दबाष्पः । साधुसाध्विति योजना ॥ १५ ॥

 ते प्रीतमनसः सर्वे मुनयो धर्मवत्सलाः ।
 प्रशशंसुः प्रशस्तव्यौ गायमानौ कुशीलवौ ॥ १६ ॥
 अहो गीतस्य माधुर्यं श्लोकानां च विशेषतः ।
 चिरनिर्वृत्तमप्येतत् प्रत्यक्षमिव दर्शितम् ॥ १७ ॥

 प्रशस्तव्याविति । इडभावनलोपौ छान्दसौ । चिरनिर्वृत्तमप्येतदिति। आभ्यां प्रतिपाद्यमानं रावणवधान्तरामचरितमिति यावत् ॥ १७ ॥

 प्रविश्य तावुभौ सुष्टु तथाभावमगायताम् ।
 सहितौ मधुरं,[१८९] तारं संपन्नं स्वरसंपदा ॥ १८ ॥


 [१९०]प्रविश्य, तत्र ऋष्यादिसमीपमिति शेषः । तारं-अत्युच्चैः सम्पन्नं यथा तथा अगायतामिति पूर्वेणान्वयः ॥ १८ ॥

 एवं प्रशस्यमानौ तौ तपःश्लाघ्यैर्महर्षिभिः ।
 संरक्ततरमत्यर्थं मधुरं तावगायताम् ॥ १९ ॥

 एवमिति । अहो गीतस्येत्याद्युक्तरीत्येति यावत् ॥ १९ ॥

 प्रीतः कश्चिन्मुनिस्ताभ्यां संस्थितः कलशं ददौ ।
 [१९१]प्रसन्नो वल्कलं कश्चित् ददौ ताभ्यां महायशाः ॥ २० ॥

 संस्थित इति । तत्र समाज इति शेषः । ॥ २० ॥

 आश्चर्यमिदमाख्यानं मुनिना संप्रकीर्तितम् ।
 परं कवीनामाधारं समाप्तं च यथाक्रमम् ॥ २१ ॥
 अविगीतमिदं गीतं सर्वगीतिषु कोविदौ ।
 आयुष्यं पुष्टिजननं सर्वश्रुतिमनोहरम् ॥ २२ ॥
 प्रशस्यमानौ सर्वत्र कदाच्चित्तत्र [१९२]गायनौ ।
 रथ्यासु राजमार्गेषु ददर्श भरताग्रजः ॥ २३ ॥


 परं कवीनामाधारमिति । काव्यलक्षणालङ्कारादिविषये दृष्टान्त-तया प्रदर्शनोपयुक्तत्वात् । हे सर्वगीतेषु कोविदौ कुशीलवौ ! यथाकृतं मुनिना तथैवावधृत्य अविगीतं–अनवद्यं यथा तथा युवाभ्यामिदं आयुष्यादिगुणकं काव्यं गीतमित्येवं प्रशस्यमानौ । तत्र–रथ्यादौ । गायिनौ, 'गस्थकन्' 'प्युट् च' इति गायतेः कर्तरि णुट्, गानं कुर्वाणौ भरताग्रजः-रामः ददर्श ॥ २३ ॥

 स्ववेश्म चानीय ततो भ्रातरौ स कुशीलवौ ।
 पूजयामास पूजा रामः शत्रुनिबर्हणः ॥ २४ ॥
 आसीनः काञ्चने दिव्ये स च सिह्मासने प्रभुः ।
 उपोपविष्टस्सचिवैर्भ्रातृभिश्व समन्वितः ॥ २५ ॥

 सचिवादिभिः उप-समीपे उपविष्टः- व्यापारान्तररहितः ॥ २५॥

 दृष्ट्वा तु रूपसंपन्नौ विनीतौ भ्रातरावुभौ ।
 उवाच लक्ष्मणं रामः शत्रुघ्नं भरतं तदा ॥ २६ ॥
 ध्यतामेतदाख्यानमनयोर्देववर्चसोः ।
 विचित्रार्थपदं सम्यक् गायकौ समचोदयत् ॥ २७ ॥

 अनयोरिति । सकाशादिति शेषः । समचोदयदिति । गातुमिति शेषः ॥ २७ ॥

 तौ चापि मधुरं [१९३]रक्तं [१९४] स्वचिन्तायतनिस्वनम् ।
 तन्त्रीलयवदत्यर्थं विश्रुतार्थमगायताम् ॥ २८ ॥


 तौ खचिन्तायतनिस्वनं-स्वीयकाव्यनायकस्य परमकल्याणगुणचिन्ताजनितेनानन्देन आयतौ निस्वनौ यस्मिन्, गेयविषयसौष्ठवस्मृत्या लोकस्य गीतिनादतारत्वं लोकप्रसिद्धम् । न तयोस्तारं गातव्यमितीच्छया तारस्वनत्वमित्यनेन कश्चनातिशयः । अत्यर्थमंगायतामिति योजना ॥२८॥

 ह्लादयन् सर्वगात्राणि मनांसि हृदयानि च ।
 श्रोत्राश्रयसुखं गेयं तद्वभौ जनसंसदि ॥ २९ ॥

 सर्वगात्राणीति । सर्वेषां श्रोतॄणां सर्वाणि गात्राणि । ह्लादयन्-गात्रह्लादो नाम तेषां रोमाञ्चप्रादुर्भावलक्षणः । मनसः आह्लादो नाम निद्रायामिव विस्मृतान्यव्यापारतया तद्गानश्रुतिसुखासक्तिः । हृदयं-'हृद्ययमिति हृदयम्' इत्युपनिषन्निर्वचनात् हार्दाहंभावावच्छिन्नः प्रत्यगात्मा । तस्य ह्लादो नाम भोक्तुर्मे एतद्गानश्रुतिजानन्दभोगोऽस्त्वित्यामनिवेशः । श्रोत्राश्रयसुखमिति बहुव्रीहिः, गेयमन्यपदार्थः । [एकार्धोनत्रिंशत् ] ॥ २९ ॥

 इमौ मुनी पार्थिवलक्षणान्वितौ
  कुशीलवौ चैव महातपस्विनौ ।
 ममापि तद्भूतिकरं प्रचक्षते
  महानुभावं चरितं निबोधत ॥ ३० ॥

 पुनश्चाख्यानस्यान्विष्य श्रोतव्यताप्रयोजनमुपदिशन् आदरात् पुनराख्यानश्रवणे भगवान् रामः प्रचोदयित्वा-तौ प्राग्वत् सञ्चोद्य स्वयमपि श्रोत्रानन्दसुखपरो बभूवेत्युच्यते-इमावित्यादिद्वाभ्याम् । यत्–यस्मान्महातपस्विनौ–जटावल्कलादिसम्बन्धात्, स्वरूपतस्तु आजानुबाहुत्वादिपार्थिवलंक्षणान्वितौ, इमौ कुशीलवौ मुनी अत्याश्चर्यरूपस्वभावौ प्रबन्धस्य गायकौ, चरितं काव्यप्रबन्धनं च, [१९५]महानुभावं-सुशब्दार्थालङ्कारललितसन्दर्भत्वादिविशेषवैभवेन तथा सार्वभौमविषयत्वेन महावैभववत्, अतो युष्माकं श्रेयस्करमिदम् । निबोधत-भ्वादिः बुधिः । न केवलं युष्माकम् अपि तु ममापि काव्यनायकस्यापि दिव्यलक्षणलक्षितस्वविषयकप्रबन्धस्य च श्रवणम्, भूतिकरं-इहामुत्राभ्युदयकरम्, प्रचक्षते-वदन्ति वृद्धाः । लोकेऽपि चास्ति प्रसिद्धिः-एतद्विषयिणी एतत्कवेः कविता शब्दतोऽर्थतो ध्वनितो वास्याशून्यत्वं प्रतिपादयति, अतोऽयमचिरात् प्रसिद्धिमेष्यतीति । तथा शाब्दादितो मङ्गलपरत्वे तु परममङ्गलं तस्य तस्येति ॥ ३० ॥

 ततस्तु तौ रामवचःप्रचोदितौ
 अगायतां मार्गविधानसंपदा ।
 स चापि रामः परिषद्गतश्शनैः
 बुभूषयाऽऽसक्तमना बभूव ॥ ३१ ॥

इत्यार्षे श्रीमद्रामायणे बालकाण्डे चतुर्थः सर्गः


 यतो मयापि मद्विषयकः सुप्रबन्धश्श्रोतव्य एव अतो गायतामिति रामवचःप्रचोदितौ तौ मार्गविधानसम्पदा-मार्गो देशी चेति गानं द्विप्रकारं प्राकृतावलम्बि गानं देशी, संस्कृतावलम्बी तु मार्गः, मार्गाख्यगानमार्गावलम्बनसामग्रया अगायताम् । परिषद्गतः स च रामोऽपि शनैः [१९६]बुभूषया-प्रागुक्तरीत्या इहामुत्र स्वाभ्युदयेच्छया, आसक्त मनाः-सजेरन्तर्भावितणिः, प्रबन्धश्रवणे आसञ्जितमना बभूव ह । परिषदि स्वप्रशंसार्थकत्वेन महापुरुषत्वात् लज्जया शनैश्शनैः प्रवृत्तिरिति द्योत्यते शनैरिति पदेन । [१९७]इदं सर्गचतुष्टयं उपोद्धातरूपं काव्यशरीरं (द्वात्रिंशच्छ्लोक एकार्धोनः) ॥ ३१ ॥

इति श्रीमद्रामायणामृतकतकटीकायां बालकाण्डे चतुर्थस्सर्गः

[ इत्युपोद्धातः ]


अथ पञ्चमः सर्गः

[ कथावतारः, अयोध्यावर्णनं च ]

 [१९८]सर्वापूर्वमियं येषामासीत्कृत्स्ना वसुन्धरा ।
 प्रजापतिमुपादाय नृपाणां [१९९]जयषाळिनाम् ॥ १ ॥

 एवं उपोद्धाततः प्रस्तावितकाव्यस्य प्रस्तावो वस्तुनिर्देशतः क्रियते–दशरथो नाम अयोध्याधिपतिरभूदिति । प्रसङ्गात् काव्यलक्षणं पुरवर्णनं च क्रियते-'सर्गबन्धो महाकाव्यमुच्यते तस्य लक्षणम् ।


आशीर्नमस्क्रियावस्तुनिर्देशो वापि तन्मुखम् ॥ नगरार्णवशैलर्तुचन्द्रार्कोदयवर्णनैः । विप्रलम्भैर्विवाहैश्च कुमारोदयवर्णनैः । उद्यानसलिलक्रीडा-मधुपानरतोत्सवैः । मन्त्रद्यूतप्रयाणाजिनायकाभ्युदयैरपि । अलङ्कृतम-संक्षिप्तं रसभावनिरन्तरम् | काव्यं कल्पान्तरस्थायि जायते सदलङ्कृति । ऊनमप्यत्र यैः कैश्चित् अङ्गैः काव्यं न दुष्यति ' इति पञ्चमेन । सर्वापूर्वमित्यादि । कृत्स्नेयं वसुन्धरा-अरिन्दमवत् 'संज्ञायां-' इत्यादिना खच्, प्रजासर्गादिकारित्वात् प्रजापतिः वैवस्वतमनुः, तं उपादाय-तं उपक्रम्य सन्धायमानानाम् ; जयषाळिनाम्, शलाभेदष्षळयोः; शलगतौ घञि शालो विशालः, तस्मान्मत्वर्थीय इनिः । [२००]जये शाली-समृद्धः जयशाली । तथाग्रेऽपि । येषां नृपाणां सर्वा पूर्वं यथा तथा स्वमासीत् । सर्वे राजानो यस्यां विषये येषां पूर्वे प्रथमभोक्तारो यथा न सम्भवन्ति तथेत्यर्थः । भूमेः प्रथमाधिपतय इत्यर्थः । यद्वा सर्वापूर्वं-ऐहिकामुष्मिकसर्वापूर्वसाधनमभूत् ॥ १ ॥

 येषां स सगरो नाम सागरो येन खानितः ।
 [२०१]षष्टिः पुत्रसहस्राणि यं यान्तं पर्यवारयन् ॥ २ ॥

 अथ असाधारण्यप्रयोजकधर्मान्तरोपदेशः येषामित्यादि । निर्धारणे षष्ठी। सगरो नामाभूदिति शेषः । कोऽस्य विशेष इत्यतः-सागर इत्यादि । षष्टिरिति तु निपातो दर्शितः । तेन पुत्रसहस्राणीति सामानाधिकरण्यम् ॥२॥

 इक्ष्वाकूणामिदं तेषां राज्ञां वंशे महात्मनाम् ।
 महदुत्पन्नमाख्यानं रामायणमिति श्रुतम् ॥ ३ ॥

 इक्ष्वाकूणामिति । तद्राजप्रत्ययस्य बह्वर्थतो लुक् । वंश इति विषयसप्तमी । महदिदमुत्पन्नमाख्यानम् ॥ ३ ॥


 तदिदं [२०२]वर्तयिष्यामि सर्वं निखिलमादितः ।
 धर्मकामार्थसहितं श्रोतव्यमनसूयया ॥ ४ ॥

 तदिदं सर्वं-समग्रमाख्यानं आदितः-आदिमारभ्य निखिलं पूर्वमुत्तरं च, वर्तयिष्यामि-प्रवर्तयिष्यामि ; न तु कृतसमग्रकाव्यस्यैकदेशाप्रवर्तनम् । श्रोतव्यत्वे हेतुगर्भं विशेषणं-धर्मेत्यादि ॥ ४ ॥

 कोसलो नाम मुदितः स्फीतो जनपदो महान् ।
 निविष्टः सरयूतीरे प्रभूतधनधान्यवान् ॥ ५ ॥

 एवं सप्रयोजनान्तश्रवणोन्मुखान् प्रति श्रावणम्-कोसल इत्यादि । "स्फायः स्फी निष्ठायां" स्फीतः, समृद्ध इत्यर्थः । सरयूतीर इति । तदुपलक्षितप्रदेशविशेष इत्यर्थः ॥ ५ ॥

 अयोध्या नाम नगरी तत्रासील्लोकविश्रुता ।
 मनुना मानवेन्द्रेण या पुरी निर्मिता स्वयम् ॥ ६

 तत्रेति । कोसलजनपद इति यावत् ॥ ६ ॥

 आयता दश च द्वे च योजनानि महापुरी ।
 श्रीमती त्रीणि विस्तीर्णा सुविभक्तमहापथा ॥ ७ ॥

 आयता-दीर्घा । सरयूतीरोपश्लेषेणेति शेषः । त्रीणीति | योजनानीति शेषः । विस्तीर्णेति । तिर्यग्विस्तारवतीति यावत् । सुविभक्त-महापथेति । महापथः-बहिर्मार्गः ॥ ७ ॥

 राजमार्गेण महता सुविभक्तेन शोभिता ।
 मुक्तपुष्पावकीर्णेन जलसिक्तेन नित्यशः ॥ ८ ॥


 राजमार्गः । सर्वपण्यशोभितो राजद्वारात् पुरः प्रवृत्तः । मुक्तपुष्पेत्यादिकं राजमार्गविशेषणम् ॥ ८ ॥

 तां तु राजा दशरथो महाराष्ट्रविवर्धनः ।
[२०३]पुरीमावासयामास[२०४]दिवि देवपतिर्यथा ॥ ९ ॥

 महाराष्ट्रविवर्धनः। महद्राष्ट्रं वर्धयति-धर्मन्यायबलेन पोषयतीत्यर्थः । पुरीमावासयामासेति । आवासत्वेनाकरोदित्यर्थः । 'तत्करोति' इति णिच् । दिवि देवपतिर्यथा पुरीं-अमरावत्याख्यां आवासयति तथेत्यर्थः ॥ ९ ॥

 कवाटतोरणवतीं सुविभक्तान्तरापणाम् ।
 सर्वयन्त्रायुधवी[२०५]मुपेतां सर्वशिल्पिभिः ॥ १० ॥

 तोरणं बहिर्द्वारप्रदेशालङ्कारदारु[२०६]बन्धः । सुविभक्तः अन्तर:-परस्परान्तरालो येषां ते तथा, तादृशा आपणा यस्यां सा तथा । सर्वयन्त्रायुधवतीमिति । प्राकारोपरीति शेषः ॥ १० ॥

 सूतमागधसंबाधां श्रीमतीमतुलप्रभाम् ।
 उच्चाट्टालध्वजवतीं शतघ्नीशतसंकुलाम् ॥ ११ ॥

 सूताः-स्तुतिपाठकाः । मागधाः-वंशावलीकीर्तकाः । अट्टालाः-उपरिगृहाः । उच्चेष्वट्टालप्रदेशेषु ध्वजयुक्ताम् । [२०७]शतं पुरुषान् हन्तीति शतघ्नी-अयोभारनिर्मितः प्राकारोपरि स्थापितो [२०८].मुसलविशेषः । 'अमनुष्यकर्तृके च' इति हन्तेष्टक् । उपधालोपादि ॥ ११ ॥


 वधूनाटकसङ्घैश्च संयुक्तां सर्वतः पुरीम् ।
 उद्यानाभ्रवणोपेतां महतीं सालमेखलाम् ॥ १२ ॥

 वधूनाटकशालासङ्घातैस्तथा । सर्वतो ग्रन्थगौरवभयात् उचितमेवार्थं निश्चित्य लिखामः । न तु यद्वाव्याधिमाश्रयामः । पुरीं सर्वत इति । 'उभसर्वतसोः कार्या' इत्यादिना द्वितीया । आम्रवणेति ।'प्रनिरन्तः' इत्यादिना णत्वम् । सालः-प्राकारः ॥ १२ ॥

 दुर्गगम्भीरपरिधां दुर्गामन्यैर्दुरासदाम् ।
 वाजिवारणसम्पूर्णां गोभिरुष्ट्रैः खरैस्तथा ॥ १३ ॥

 [२०९]जलदुर्गैः गम्भीरा-अगाधा परिधा यस्यां सा तथा । अत एवान्यैः दुर्गा, 'अन्यत्रापि' इति डः । दुरासदां-अशक्यसमीपगमनामित्यर्थः ॥ १३ ॥

 सामन्तराजसङ्घैश्च बलिकर्मभिरावृताम् ।
 नानादेशनिवासैश्च वणिग्भिरुपशोभिताम् ॥ १४ ॥

 समन्ताद्भवाः सामन्ताः । बलिः-करः । मूलप्रभवे दशरथाय बलिदानरूपं कर्म येषां ते तथा ॥ १४ ॥

 प्रासादै रत्नविकृतैः [२१०]पर्वतैरुपशोभिताम् ।
 कूटागारैश्च सम्पूर्णामिन्द्रस्येवामरावतीम् ॥ १५ ॥

 विशेषेण कृताः विकृताः, पर्वताः-क्रीडापर्वताः । कूटः-शाला । अगारं-गृहम् ॥ १५ ॥


 चित्रामष्टापदाकारां [२११]वरनारी[२१२]गणैर्युताम् ।
 सर्वरत्नसमाकीर्णां विमानगृहशोभिताम् ॥ १६ ॥

 [२१३]अष्टापदं-स्वर्णं, तद्रूपभूषणादिकृतः आकारः-अलङ्कारो यस्याः सा तथा । विमानगृहं-सप्तभूमिगृहम् । 'विमानोऽस्त्री देवयाने सप्तभूमौ च सद्मनि 'इति [२१४]भास्करः ॥ १६ ॥

 गृहगाढामविच्छिद्रां समभूमौ निवेशिताम् ।
 शालितण्डुलसम्पूर्णामिक्षकाण्डरसोदकाम् ॥ १७ ॥

 गृहैः–पौरकुटुम्बिगृहैः गाढां-निबिडाम् । अत एव अविच्छिद्रां-शून्यगृहरहितरथ्याम् । इक्षुकाण्डरससमानस्वादूदकवतीम् ॥ १७ ॥

 दुन्दुभीभिर्मृदङ्गैश्च वीणाभिः पणवैस्तथा ।
 नादितां भृशमत्यर्थं पृथिव्यां तामनुत्तमाम् ॥ १८ ॥

 दुन्दुभीभिरिति । 'अन्येषामपि' इति दीर्घः । भृशं नादिताम् । पृथिव्यां अत्यर्थं-अत्यन्तमनुत्तमाम् ॥ १८ ॥

 विमानमिव सिद्धानां तपसाधिगतं दिवि ।
 सुनिवेशितवेश्मान्तां नरोत्तमसमावृताम् ॥ १९ ॥

 तपसाधिगतमिति विमानविशेषणम् । सुनिवेशितः वेश्मानामन्तः-अन्तर्गेहप्रदेशः यस्यास्सा तथा ॥ १९ ॥

 ये च बाणैर्न विध्यन्ति विविक्त [२१५]मपरावरम् ।
 शब्दवेध्यं च विततं लघुहस्ता विशारदाः ॥ २० ॥


 ये च लघुहस्ताः–क्षिप्रकारिणः विशारदाः-अस्त्रशस्त्रप्रयोगसमर्थाः शूराः विविक्तं-स्वयूथ्यात् विवेकं प्राप्तं -भ्रष्टमिति यावत्, तं सुवेधमपि बाणैर्न विध्यन्ति; यश्चापरावरः-परकीयो स्वकीयश्च केवलप्रेक्षकः तं न विध्यन्ति । शब्दवेध्यं-शब्दमात्रानुमितसत्ताकमनवगतवेध्यावेध्यत्वं न विध्यन्ति । तथा वितथं-विरुध्य युद्धं कृत्वा पश्चात्ततः पलायमानं न विध्यन्ति; तेषां सहस्रैः पूर्णामित्यग्रेण सम्बन्धः । उक्तविषयकस्सर्वोऽपि वेधः-शास्त्रनिषिद्धः शूरापयशस्करश्च ॥ २० ॥

 सिंहव्याघ्रवराहाणां मत्तानां नर्दतां वने ।
 हन्तारो निशितैः शस्त्रैर्बलाद्वाहुबलैरपि ॥ २१ ॥
 तादृशानां सहस्रैस्तामभिपूर्णां महारथैः ।
 पुरीमावासयामास राजा दशरथस्तदा ॥ २२ ॥

 अथ शत्रुविषयकशौर्यप्रकाशः-सिंहेत्यादि । ये च वने मत्ततादिगुणानां सिह्मादीनां, कृद्योगलक्षणा षष्ठी, बलात्-अस्त्रशस्त्राभ्यास-बलात्, पाणिबलात्, सहजकायबलमूलबाहुबलादपि निशितैर्बाणैर्हन्तारो भवन्ति, तादृशानां सहस्रैरभिपूर्णां । तथा महारथैः—‘आत्मानं सारथिं चाश्वान् रक्षन् युध्येत यो नरः । स महारथसंज्ञस्स्यात् ' तैश्च पूर्णां तां पुरीं राजा दशरथः आवासयामास । एवं दृष्टबलसंपत्ति-रुक्ता ॥ २१-२२ ॥

 तामग्निमद्भिर्गुणवद्भिरावृतां
  द्विजोत्तमैर्वेदपडपारगैः ।
 सहस्रदैस्सत्यरतैर्महात्मभिः
  महर्षिकल्पैः ऋषिभिश्च केवलैः ॥ २३ ॥

इत्यार्षे श्रीमद्रामायणे बालकाण्डे पञ्चमः सर्गः

 अथ काव्यलक्षणं वृत्तभेदेन सर्गसमापनं कुर्वता अदृष्टबलसंम्पत्तिश्चोपदिश्यते-अग्निमद्भिरित्यादि । अग्नयस्त्रेधालक्षणाः, गुणाश्शमदमादयः । वेदानां वेदषडङ्गानां च पारगास्तथा । एवं ब्रह्मसङ्घभूयस्त्वम् । अथ राजर्षिसङ्घभूयस्त्वोपदेशः-सहस्रदैरित्यादि । 'दानमीश्वरभावश्च क्षात्रं कर्म स्वभावजम्' । महर्षिकल्पैः-महर्षितुल्यवृत्तैश्च, केवलैः ऋषिभिश्च, पूर्णां तां इति पूर्वेणान्वयः । गिरि (२३) मानः ॥ २३ ॥

इति श्रीमद्रामायणामृतकतकटीकायां बालकाण्डे पञ्चमः सर्गः


अथ षष्ठः सर्गः

[दशरथस्य, तत्प्रजानां च वर्णनम्]

 तस्यां पुर्यामयोध्यायां वेदवित्सर्वसङ्ग्रहः ।
 दीर्घदर्शी महातेजाः पौरजानपदप्रियः ॥ १ ॥

 अथ काव्योत्तमस्य परलोकोपकारकत्वेन अप्राकृतत्वायान्वयमुखेन राजधर्मः व्यतिरेकमुखेन तत्प्रजाधर्मश्चोपदिश्यते-तस्यामित्यादि । वेदविदिति । त्रैवर्णिकमात्रस्य सर्वाद्योऽयं गुणः । अथ क्षत्रियविशेषधर्मः-सर्वसङ्ग्रह इत्यादि । [२१६] सर्वेषां अपरिमितकोशचतुरङ्गबलराष्ट्रदुर्गादीनां सार्वभौमापेक्षितपदार्थानां सङ्ग्रहो यस्मिन् । 'ग्रहवृह-' इत्यप् । एवं सामादिप्रयोगे एवं फलं भविष्यतीत्यादिलक्षणदीर्घदर्शनशीलः । तेजः-प्रतापः ॥ १ ॥

 [२१७]इक्ष्वाकूणामतिरथो यज्वा [२१८]धर्मरतो वशी ।
 महर्षिकल्पो राजर्षित्रिषु लोकेषु विश्रुतः ॥ २ ॥


 'महारथैरेकयोद्धा भवेदतिरथो रथी' । महर्षिकल्पः-व्याकृतचरः ॥ २ ॥

 बलवान्निहतामित्रो मित्रवान्विजितेन्द्रियः ।
 धनैश्च [२१९]सञ्चयैश्चान्यैः शक्रवैश्रवणोपमः ॥ ३ ॥

 धनं-हिरण्यम् । धनापेक्षयान्ये सञ्चयाः-मुक्तादिनवरत्नदिव्याम्बराभरणादयः । विश्रवसोऽपत्यं वैश्रवणः । विश्रवणरवण इत्यण्-सन्नियोगे विश्रवणादेश इति प्रागेवोक्तम् ॥ ३ ॥

 [२२०]यथा मनुर्महातेजा लोकस्य परिरक्षिता ।
 तथा दशरथो राजा वसञ्जगदपालयत् ॥ ४ ॥

 महातेजस्त्वे मनुदृष्टान्तः-तथा तद्वन्महातेजाः-तस्यां पुर्यां वसन् जगदपालयदिति योजना ॥ ४ ॥

 तेन सत्याभिसन्धेन त्रिवर्गमनुतिष्ठता ।
 पालिता सा पुरी श्रेष्ठा इन्द्रेणेवामरावती ॥ ५ ॥

 धर्मकामार्थास्त्रिवर्गसंज्ञाः। त्रिवर्गानुष्ठानप्राधान्यं गृहीत्वा पालिताऽभवदिति योजनीयम् ॥ ५ ॥

 तस्मिन् पुरवरे हृष्टा धर्मात्मानो बहुश्रुताः ।
 नरास्तुष्टा धनैः स्वैः स्वैरलुब्धाः सत्यवादिनः ॥ ६ ॥

 धर्मात्मानः-धर्मवासनावासितान्तःकरणाः । बहुश्रुता इति बहुब्रीहिः । श्रुतं-वेदशास्त्रलक्षणम् । कर्मणि निष्ठा । प्राप्तोत्तरस्पृहावत्त्वे सति काचमात्रस्यापि दित्साभावो लोभः ॥ ६ ॥


 नाल्पसन्निचयः कश्चिदासीत्तस्मिन् पुरोत्तमे ।
 कुटुम्बी यो ह्यसिद्धार्थोऽगवाश्वधनधान्यवान् ॥ ७ ॥

 अल्पतया[२२१] सन्-विधमानो निचयः-धान्यादिसङ्ग्रहो यस्य स तथा । यो हि अगवाश्वधनादिमान्, अत एव असिद्धार्थः-असिद्धैहिकामुष्मिकप्रयोजनः, कुटुम्बी न कश्चिदिति योजनार्थः ॥ ७ ॥

 कामी वा न कदर्यो वा नृशंसः पुरुषः क्वचित् ।
 द्रष्टुं शक्यमयोध्यायां नाविद्वान्न च नास्तिकः ॥ ८ ॥

 कामी-कामैकतत्परः । कदर्यः-'आत्मानं धर्मकृत्यं च पुत्रदारांश्च पीडयेत्-ग.वञ्चयन् । लोभाद्यः पितरौ भ्रातॄन् स कदर्य इति स्मृतः ॥' इति मनुः । नृशंसः-क्रूरः । द्रष्टुं शक्यमिति छान्दसं नपुंसकत्वम् ॥ ८॥

 सर्वे नराश्च नार्यश्च धर्मशीलास्सुसंयताः ।
 [२२२]उदिताश्शीलवृत्ताभ्यां महर्षय इवामलाः ॥ ९ ॥

 सुसंयताः-सुष्ठु निगृहीतेन्द्रियाः । सहशीलवृत्ततयोदितत्वे महर्षि-दृष्टान्तः ॥ ९ ॥

 नाकुण्डली नामकुटी नास्रग्वी नाल्पभोगवान् ।
 नामृष्टो [२२३]नानुलिप्ताङ्गो [२२४]नासुगन्धश्च विद्यते ॥ १० ॥

 भोगाः-धर्माविरुद्धकामभोगाः । 'निर्णिक्तं शोधितं मृष्टं' । अमृष्टः–अभ्यङ्गस्नानादिनाऽनिर्णिक्तदेह इति यावत् । नानुलिप्ताङ्ग इति । 'सुप्सुपा' इति समासः । भद्रदारुपनसादिनाप्यनुलिप्तत्वसम्भवादुच्यते-असुगन्ध इति । अलभ्यचन्दनादिसुगन्ध इति यावत् ॥ १० ॥


 नामृष्टभोजी नादाता नाप्यनङ्गदनिष्कधृक् ।
 नाहस्ताभरणो वाऽपि दृश्यते नाप्यनात्मवान् ॥ ११ ॥

 सृष्टं-पूर्णम् । अन्नाभावप्रयुक्तपूर्णभोजनरहित इति यावत् । नादातेति । [२२५]साक्षिभोजनरहित इति यावत् । अङ्गदं, निष्कं-उरोभूषणं च धरतीति तथा । 'हेम्न्युरोभूषणे निष्के दीनारेऽपि फलेऽपि च' इति निघण्टुः । अनात्मवान्-अजितान्तःकरणः ॥ ११ ॥

 नानाहिताग्निर्नायज्वा न क्षुद्रो वा न तस्करः ।
 कश्चिदासीदयोध्यायां [२२६]न च निवृत्तसङ्करः ॥ १२ ॥

 अयज्वा-सोमयागरहितः । क्षुद्रः-अल्पविद्यैश्वर्यवान्, तिरस्कारार्ह इति यावत् । निर्वृत्तं-अनुष्ठितं सङ्करः-साङ्कर्यं-परक्षेत्रे बीजा-बापादिसाङ्कर्यं येन स तथा ॥ १२ ॥

 स्वकर्मनिरता नित्यं ब्राह्मणा विजितेन्द्रियाः ।
 दानाध्ययनशीलाश्च संयताश्च [२२७]प्रतिग्रहे ॥ १३ ॥

 दानाध्ययनेति । 'ततो यत्किंच ददाति सा दक्षिणा' इति नित्यप्राप्तयथाशक्तचन्नपानादिदानादिमन्तः । संयताः-सङ्कुचिताः ॥ १३ ॥

 [२२८]न नास्तिको नानृतको न कश्चिदबहुश्रुतः ।
 नासूयको न वाऽशक्तो नाविद्वान्विद्यते तदा ॥ १४ ॥


 नास्ति दिष्टं मतिर्यस्य स नास्तिकः, 'अस्ति नास्ति दिष्टं मतिः' इति ठक् । अनुतकः-असत्यवचनः । अशक्तः

-स्वस्यैहिकामुष्मिकार्थसाघनासमर्थः । नाविद्वानिति । गुणवर्णनेष्वादरात् पौनरुक्त्यमदोषायेति प्रागेवोपपादितम् ॥ १४ ॥

 नाषडङ्गविदत्रासीन्नावतो [२२९]नासहस्रदः ।
 [२३०]न दीनः क्षिप्तचित्तो वा व्यथितो वाऽपि कश्चन ॥ १५ ॥

 व्रतं-एकादश्यादिव्रतम् । क्षिप्तचित्त इति । उन्मादादिनेति शेषः । व्यथितः-आधिव्याध्यादिपीडितचित्त इत्यर्थः ॥ १५ ॥

 कश्चिन्नरो वा नारी वा [२३१]नाश्रीमान्नाप्यरूपवान् ।
 द्रष्टुं शक्यमयोध्यायां नापि राजन्यभक्तिमान् ॥ १६ ॥

 स्त्रियास्तु नाश्रीमतीत्याद्यूह्यम् । मूर्धाभिषिक्तो राजा दशरथः, तस्मिन् भक्तिः स्नेहं, तद्रहितो नाभूत् । इदं सर्वप्रजासाधारणं शुभमित्युच्यते ॥ १६ ॥

 वर्णेष्वग्र्यचतुर्थेषु देवतातिथिपूजकाः ।
 कृतज्ञाश्च वदान्याश्च [२३२]शूरा विक्रमसंयुताः ॥ १७ ॥

 वर्णेष्वित्यादि । अग्र्यः-ब्राह्मणः । अग्रे भवः, अग्राद्यत्', स चतुर्थो येषां वर्णानां ते तथा । 'वदान्यो दानशौण्डस्स्यात्' इति विश्वः ॥ १७ ॥


 दीर्घायुषो नरास्सर्वे धर्मं सत्यं च संश्रिताः ।
 सहिताः पुत्रपौत्रैश्च नित्यं स्त्रीभिः पुरोत्तमे ॥ १८ ॥
 क्षत्रं ब्रह्ममुखं चासीद्वैश्याः क्षत्रमनुव्रताः ।
 शूद्रास्स्व[२३३]. धर्मनिरतास्त्रीन्वर्णा[२३४]नुपचारिणः ॥ १९ ॥

 ब्रह्ममुखं-ब्रह्मप्रधानम्, तदाज्ञानुवर्तीति यावत् । कश्शूद्रस्य धर्म इत्यतः-त्रीन्वर्णानित्यादि । उपचारिणः-उपचरणशीलाः । चरे-स्ताच्छीलिको णिनिः ॥ १९ ॥

 सा तेनेक्ष्वाकुनाथेन पुरी सुपरिरक्षता ।
 यथा पुरस्तान्मनुना मानवेन्द्रेण धीमता ॥ २० ॥
 [२३५]योधानामग्निकल्पानां पेशलानाम् [२३६]मर्षिणाम् ।
 सम्पूर्णा कृतविद्यानां गुहा केसरिणामिव ॥ २१ ॥

 योधानामग्निकल्पानामिति । शौर्यातिशयादभिकल्पत्वं योधानाम् । पेशलाः-अकुटिलाः । अमर्षिणः-पराभिभवासहिष्णवः । अमर्षिणां पूर्णेति योज्यम् । कृता-शिक्षिता अस्त्रशस्त्रादिविद्या यैस्ते तथा ॥ २१ ॥

 काम्भोजविषये जातैः [२३७]बाह्लिजैश्च हयोत्तमैः ।
 [२३८]वनायुजैर्नदीजैश्च पूर्णा हरिहयोत्तमैः ॥ २२ ॥

 एवं पदातिसौष्ठवमुक्त्वा अश्वादिसौष्ठवोपदेशः-काम्भोजेत्यादि । विषयो देशः । बाह्लीकः बाह्लिरिति गृह्यते नामैकदेशतः, छन्दोवशात् । हरिः-इन्द्रः, तस्य हयः-उच्चैश्रवाः, तद्वदुत्तमा इति यावत् ॥ २२ ॥


 विन्ध्यपर्वतजैर्मत्तैः पूर्णा हैमवतैरपि ।
 मदान्वितैरतिबलैर्मातङ्गैः पर्वतोपमैः ॥ २३ ॥

 हैमवतैः । 'तत्र जातः' इति शैषिकोऽण् ॥ २३ ॥

 ऐरावतकुलीनैश्च महापद्मकुलैस्तथा ।
 [२३९]अञ्जनादपि [२४०]निष्पन्नैर्वामनादपि च द्विपैः ॥ २४ ॥

 कुले भवाः कुलीनाः । 'कुलात्खः' । पुण्डरीकाख्यो दिग्गजो महापद्म इत्युच्यते, तस्य कुलं-वंशो येषां ते तथा । अज्जनादिरपि दिग्गजविशेषः ॥ २४ ॥

 [२४१]भद्रैर्मन्द्रैमृगैश्चैव भद्रमन्द्रमृगैस्तथा ।
 भद्रमन्द्रैर्भद्रमृगैर्मृगमन्द्रैश्च सा पुरी ॥ २५ ॥
 नित्यमत्तैस्सदा पूर्णा नागैरचलसन्निभैः ।

 हिमवति जाता भद्राख्याः । विन्ध्यजाता मन्द्राख्याः | सह्यजाता मृगाख्याः । तत्र त्र्यादिस्वभाववन्तोऽन्ये भद्रमन्द्रमृगाः । द्विस्वभाववन्तो भद्रमन्द्रादयः ॥ २५ ॥

 [२४२]सा योजने च द्वे भूयः सत्यनामा प्रकाशते ॥ २६ ॥

 पुरी द्वे योजने, द्वयोर्योजनयोरत्यन्तसंयोगे द्वितीया । भूयः-अभ्यधिकम् । सत्यनामा–योद्धुमशक्या अयोध्येत्येवं अन्वर्थनामा प्रका-


शते । द्वादशयोजनायामायाः तिर्यक् त्रियोजनविस्तारवत्याः तस्याः राज्ञो मूलधाम्न उक्तद्वियोजनमानकत्वतो भूयः सत्यनामत्वम् । सत्यनामेति । 'डाबुभाभ्याम्' इति डाप् ॥ २६ ॥

 तां पुरीं स महातेजा राजा दशरथो महान् ।
 शशास शमितामित्रो नक्षत्राणीव चन्द्रमाः ॥ २७ ॥

 तां सत्यनामां दृढतोरणार्गलां
  गृहैर्विचित्रैरुपशोभितां शिवाम् ।
 पुरीमयोध्यां नृसहस्रसङ्कुलां
  शशास वै शक्रसमो महीपतिः ॥ २८ ॥

इत्यार्षे श्रीमद्रामायणे बालकाण्डे षष्ठः सर्गः

 शमितः-नाशितः अमित्रो येन स तथा । 'निष्ठायां सेटि' इति णिलोपे अमन्ततो मित्वाद्धूस्वः । तां सत्यनामामित्यत्रापि डाप् । [ सप्तविंशतिः अर्धाधिका? ] ॥ २८ ॥

इति श्रीमद्रामायणामृतकतकटीकायां बालकाण्डे षष्ठः सर्गः


अथ सप्तमः सर्गः

[अमात्यादिवर्णनम्]

 तस्यामात्या गुणैरासन्निक्ष्वाकोस्तु महात्मनः ।
 मन्त्रज्ञाश्वेङ्गितज्ञाश्च नित्यं प्रियहिते रताः ॥ १ ॥

 अथेदानीं सन्मन्त्रिसम्पत्तिरूपो राज्ञो विशेषधर्म उपदिश्यते-तस्येत्यादि । अमात्याः । राज्ञा सर्वराज्यव्यापारेषु सह वसन्तीत्यमात्याः । 'अव्ययात्त्यप्' । गुणैः-अमात्यापेक्षितैर्वक्ष्यमाणैरुपेताः । इक्ष्वाकोः-दशरथस्य, तद्वंशजत्वात्ताच्छन्द्यम् । मन्त्रः-कार्यविचारः । इङ्गितं-पौराभिप्रायः, तत् मुखसङ्कोचव्यङ्ग्यवचनादिभिः जानन्तीति तथा ॥ १ ॥

 अष्टौ बभूवुर्वीरस्य तस्यामात्या यशस्स्विनः ।
 शुचयश्चानुरक्ताश्च राजकृत्येषु नित्यशः ॥ २ ॥

 शुचयः-असत्यस्वामिद्रोहादिरूपवाङ्मनसाशुचिरहिताः । नित्यशो राजकृत्येषु-तदनुष्ठानेषु अनुरक्ताः-तत्पराः ॥ २ ॥

 धृष्टिर्जयन्तो विजयः [२४३]सिद्धार्थो ह्यर्थसाधकः ।
 अशोको मन्त्रपालश्च सुमन्त्रश्चाष्टमोऽभवत् ॥ ३ ॥

 के च तेऽष्टावित्यत आह-धृष्टिरित्यादि ॥ ३ ॥

 ऋत्विजौ द्वावभिमतौ तस्याऽऽस्तामृषिसत्तमौ ।
 [२४४]वसिष्ठो वामदेवश्च मन्त्रिणश्च तथापरे ॥ ४ ॥

 ऋत्विजौ-पुरोहिताविति यावत् । अपर इति । उक्ताष्टप्रधानमन्त्रिव्यतिरिक्ता इति यावत् । कश्चिदपरः-"मन्त्रिणः मन्त्रविदः-ऋत्विजः आसन्" इत्याह । तदसत् । उत्तरत्र मन्त्रिगुणवर्णने" प्राप्तकालं च ते दण्डान् धारयेयुस्सुतेष्वपि "इत्यादीनां ब्राह्मणेष्वसम्भावितत्वात् ॥ ४ ॥

 विद्याविनीता ह्रीमन्तः कुशला नियतेन्द्रियाः ।
 परस्परानुरक्ताश्च नीतिमन्तो बहुश्रुताः ॥ ५ ॥

 विद्याविनीता इति । विद्यायाः विनयः किल फलम् ॥ ५ ॥


 श्रीमन्तश्च महात्मानः शास्त्रज्ञा दृढविक्रमाः ।
 कीर्तिमन्तः प्रणिहिताः यथावचनकारिणः ॥ ६॥

 प्रणिहिताः-राजकृत्येषु सावधानाः । यथावचनकारिण इति । राज्ञ इति शेषः ॥ ६॥

 तेजःक्षमायशःप्राप्ता स्मितपूर्वाभिभाषिणः ।
 क्रोधात्कामार्थहेतोर्वा न ब्रूयुरनृतं वचः ॥ ७ ॥

 तेजआदीनि प्राप्ताः । 'द्वितीयाश्रित' इत्यादिना समासः । स्मितेति । स्मितपूर्वतया पूर्वभाषिण इत्यर्थः । कामार्थयोर्हेतुस्तथा ॥ ७ ॥

 [२४५]तेषामविदितं किंचित् स्वेषु नास्ति परेषु वा ।
 क्रियमाणं कृतं वापि चारेणापि चिकीर्षितम् ॥ ८ ॥

 अविदितं किं नास्तीत्यतः–क्रियमाणमित्यादि । सन्धिविग्रहादिकमिति शेषः । चारेण, चरसञ्चरणे, चारेण कृतक्रियमाणचिकीर्षितसन्ध्यादिसर्वव्यापारः स्वपरगोचरस्तदज्ञातो नास्तीत्यर्थः । तेषामविदितं इत्यत्र 'मतिबुद्धि' इत्यादिना अविदितमिति कर्तरि तस्य योगे "क्तस्य वर्तमान" इति तेषामिति षष्ठी ॥ ८ ॥

 कुशला व्यवहारेषु सौहृदेषु परीक्षिताः ।
 प्राप्तकालं तु ते दण्डं धारयेयुस्सुतेष्वपि ॥ ९ ॥


 परीक्षिताः । राज्ञेति शेषः । परीक्षा तु बहुशस्स्वेष्टप्रवृत्तिपरा निष्टाऽप्रवृत्त्यादिविषयिणी । प्राप्तः सापराधत्वलक्षणः कालो यस्य स तथा । धारयेयुरिति । प्रवर्तयन्तीत्यर्थः ॥ ९ ॥

 कोशसङ्ग्रहणे युक्ता बलस्य च परिग्रहे ।
 अहितं वाऽपि पुरुषं न [२४६]हिंस्युरविदूषकम् ॥ १० ॥

 कोशसङ्ग्रहणं बलपरिग्रहहेतुः । बलं-चतुरङ्गबलम् । तस्य परिग्रहः-पुनःपुनरश्वादेस्सङ्ग्रहः। अहितमिति । स्वहिताचरणरहितमुदासीनमिति यावत् । अविदूषकमिति । दोषः-अपराधः, तदकर्तारमिति यावत् । 'दोषो णौ' इत्युत्वम् । तस्मात् स्वार्थण्यन्तात् ण्वुल् ॥ १० ॥

 वीराश्च नियतोत्साहा राजशास्त्रमनुष्ठिताः ।
 शुचीनां रक्षितारश्च नित्यं विषयवासिनाम् ॥ ११ ॥

 राजशास्त्र-"राज्ञस्तु विशेषणान् वक्ष्यामः । दक्षिणद्वारं वेश्म पुरं च मापयेत् । अन्तरस्यां पुरी वेश्म" इत्यादिना धर्मशास्त्रेण विशिष्य राज्ञ उपदिश्यमानं शास्त्रं राजशास्त्रम्, कामन्दकादिप्रणीतं सामादि विषयकनीतिशास्त्रं राजनीतिशास्त्रं च । स्तेयानृतरहिताश्शुचयः । विषयो देशः ॥ ११ ॥

 ब्रह्मक्षत्रमहिंसन्तः ते कोशं सम्पूरयन् ।
 सुतीक्ष्णदण्डास्संप्रेक्ष्य पुरुषस्य [२४७]बलाबलम् ॥ १२ ॥

 ब्रह्मक्षत्रमिति । सर्वो द्वन्द्वो विभाषेत्येकत्वम् । पुरुषस्य-दण्ड्य-पुरुषस्य । बलाबलं-अपराधतारतम्यम् । सम्प्रेक्ष्य तदनुसारेण-सुतीक्ष्णदण्डाः निर्घृणप्रवृत्तदण्डाः । अयं कोशपूरणहेतुः ॥ १२ ॥


 शुचीनामेकबुद्धीनां सर्वेषां सम्प्रजानताम् ।
 नासीत्पुरे वा राष्ट्रे वा मृषावादी नरः क्वचित् ॥ १३ ।।

 शुचीनामित्यादि । शुचिशब्दो व्याकृतः । एकबुद्धीनां-अन्योन्यमेककण्ठानाम्, तथा सम्प्रजानतां-पुरराष्ट्रवृत्तान्तं विचारयतां तेषां मन्त्रिणां विचारविषये पुरादौ मृषावादी कश्चन नासीत् । [२४८]एवं पाङ्के स्थिते शुचिषु सम्प्रजानत्सु अनुतवादी नासीत् इति भावलक्षणे षष्ठी च भवति, 'षष्ठी चानादरे' इति योगविभागात्, अनादराभावे षष्ठीत्यस्माभिरुच्यत इति मिथ्यापाण्डित्यं प्राचीकटत् ॥ १३ ॥

 कश्चिन्न दुष्टस्तत्रासीत् परदाररतो नरः ।
 प्रशान्तं सर्वमेवासीत् राष्ट्रं पुरवरं च तत् ॥ १४ ॥

 प्रशान्तं-प्रशान्तान्यायाधर्मकम् ॥ १४ ॥

 सुवाससस्सुवेषाश्च ते च सर्वे सुशीलिनः ।
 हितार्थं च नरेन्द्रस्य जाग्रतो नयचक्षुषा ॥ १५ ॥
 [२४९][२५०]गुरौ गुणगृहीताश्च प्रख्याताश्च पराक्रमे ।
 विदेशेष्वपि विख्याताः सर्वतो बुद्धिनिश्चयात् ॥ १६ ॥

 गुरौ-स्वस्वाचार्ये गुणगृहीताः-अर्थतः कार्यतश्शुश्रूषागुणेन विद्याग्रहणादौ सौबुद्ध्यादिगुणेन च आप्ततच्छिष्यतया परिगृहीताः । एतेन सर्वमूलसद्गुर्वनुग्रहप्राप्तसर्वविद्यात्वमुपदिष्टम् । कश्चित् गुणगृहीताः-गृहीतगुणदोषाः-आहिताग्निवदित्यादिना मिथ्यामुक्त्वा तस्य व्याख्यानं चाह । तेन गुराविति पदमनन्वितमिव उपेक्षणीयम् । न च गुरावेव


गृहीतगुणदोषा इति; शान्तं पापं, अलमेतन । प्रख्याताश्च पराक्रम इति । अयं सर्वतो विदेशेष्वपि विज्ञातत्वे हेतुः । बुद्धिनिश्चयात्-बुद्ध्या सम्पन्नसन्ध्यादिशास्त्रविषयको निश्चयस्तथा, तस्मात् ॥ १६ ॥

 [२५१]सन्धिविग्रहतत्त्वज्ञाः प्रकृत्या सम्पदान्विताः ॥
 मन्त्रसंवरणे सक्ताः श्लक्ष्णास्सूक्ष्मासु बुद्धिषु ॥ १७ ॥
 नीतिशास्त्रविशेषज्ञाः सततं प्रियवादिनः ॥

 सन्ध्यादितत्त्वज्ञाः प्रकृत्या-राजस्वभावत्वादेव, सम्पदा-धनधान्यदासीदासादिशिबिकाद्यैहिकसम्पदाऽन्विताः । इदमेव च सर्वतस्समर्थत्वे मूलम् । न हि दरिद्रवचः सभामारुरुक्षति । मन्त्रो राष्ट्रायव्ययादिविचारः, तद्ग्रहणे-तत्साधनसङ्ग्रहणे इत्यर्थः । सूक्ष्मासु बुद्धिषु-विचारेषु सक्ताः, लक्ष्णाः-अरूक्षस्वभावाः ॥ १७ ॥

 ईदृशैस्तैरमात्यैश्च राजा दशरथोऽनघः ॥ १८ ॥
 उपपन्नो गुणोपेतैरन्वशासद्वसुन्धराम् ।

 ईदृशैः–'विद्याविनीताः' इत्याद्यारम्भोपदिष्टविशेषणविशिष्टैः । अत एव गुणोपेतैः समग्रामात्यगुणोपेतैः-तैः अमात्यैः उपपन्न इति योजना । अन्वशासत्-लुङि 'सर्तिशस्ति' इत्यङ् ॥ १८ ॥

 अवेक्षमाणश्चारेण प्रजा धर्मेण रञ्जयन् ॥ १९ ॥
 प्रजानां पालनं कुर्वन्नधर्म परिवर्जयन् ।

 अवेक्षमाणः–स्वपरदेशवृत्तान्तमिति यावत् । अधर्मं परिवर्जयन्निति हेतौ शता ॥ १९ ॥


 विश्रुतस्त्रिषु लोकेषु वदान्यस्सत्यसङ्गरः ॥ २० ॥
 स तत्र पुरुषव्याघ्रश्शशास पृथिवीमिमाम् ।

 अत एव हेतोः–विश्रुत इत्यादि । तत्र-अयोध्यायाम् ॥ २० ॥

 नाध्यगच्छद्विशिष्टं वा तुल्यं वा शत्रुमात्मनः ॥ २१ ॥
 मित्रवान्नतसामन्तः प्रतापहतकण्टकः ।
 स शशास जगद्राजा [२५२]दिवि देवपतिर्यथा ॥ २२ ॥

 मित्रवान् । नताः सामन्ताः यस्मै स तथा । कण्टकाः-शत्रव-श्चोराश्च । यथेति-दिवमिति शेषः ॥ २१ ॥

 तैर्मन्त्रिभिर्मन्त्रहिते नियुक्तैः
  वृतोऽनुरक्तः कुशलैस्समर्थैः ।
 स पार्थिवो दीप्तिमवाप युक्तः
  तेजोमयैर्गोभिरिवोदितोऽर्कः ॥ २३ ॥

इत्यार्षे श्रीमद्रामायणे बालकाण्डे सप्तमः सर्गः

 मन्त्र इति । मन्त्रो विचारः, तत्साध्यं हितं तथा । कुशलैः-मन्त्रप्रयोगकुशलैः । समर्थैः- मन्त्रतत्त्ववेदनसमर्थैः, तेजोमयैः-स्वार्थिको मयट् । गोभिः-किरणैः युक्तः उदितः-प्राप्तोदयोऽर्क इवेति योजना ॥ २२ ॥

इति श्रीमद्रामायणामृतकतकटीकायां बालकाण्डे सप्तमः सर्गः


अथ अष्टमः सर्गः

[पुत्रार्थं अश्वमेधयजनोद्यमो दशरथस्य]

 तस्य त्वेवंप्रभावस्य धर्मज्ञस्य महात्मनः ।
 सुतार्थं तप्यमानस्य नासीद्वंशकरस्सुतः ॥ १ ॥

 एवं समग्रसार्वभौमगुणस्यापि सत्पुत्रेणार्जितपितृलोकत्वात्, तदितरगुणानां तदभावे अगुणकल्पत्वात्, 'सर्वं वाऽश्वमेध्याप्नोति' इति श्रुतेः, पुत्रार्थमप्यश्वमेधेन प्रवृत्तिरष्टमेन–तस्येत्यादि । तप्यमानस्येति । तपो लटश्शानाचि श्यन् । सन्तापं कुर्वाणस्येत्यर्थः । वंशकरः, कृञो हेतौ टः ॥ १ ॥

 चिन्तयानस्य तस्यैवं बुद्धिरासीन्महात्मनः ।
 सुतार्थी वाजिमेधेन किमर्थं न यजाम्यहम् ॥ २ ॥

 चिन्तयानस्येति । आनेमुगभावश्छान्दसः । एवमिति वक्ष्यमाणप्रकारम् ॥ २ ॥

 स निश्चितां मतिं कृत्वा यष्टव्यमिति बुद्धिमान् ।
 मन्त्रिभिस्सह धर्मात्मा सर्वैरेव कृतात्मभिः ॥ ३ ॥

 यष्टव्यामिति निश्चितां मतिमिति योजना ॥ ३ ॥

 ततोऽब्रवीदिदं राजा सुमन्त्रं मन्त्रिसत्तमम् ।
 शीघ्रमानय मे सर्वान् गुरूंस्तान् सपुरोहितान् ॥ ४ ॥

 ततस्सुमन्त्रस्त्वरितं गत्वा त्वरितविक्रमः ।
 समानयत् स तान् सर्वान् समेतान् वेदपारगान् ॥ ५ ॥

 समानयत्स तान्सर्वानिति । तान्-प्रसिद्धान् सपुरोहितांस्तानिति योजनीयम् । तच्छब्दद्वयस्य विद्यमानत्वात् ॥ ५ ॥

 सुयज्ञं वामदेवं च जाबालिमथ काश्यपम् ।
 पुरोहितं वसिष्ठं च ये चान्ये द्विजसत्तमाः ॥ ६ ॥

 तत्र सुयज्ञादयः तत्तद्विद्याविशेषगुरवोऽध्यापकाः । वसिष्ठः पुरोहितः । तदेवोक्तम्-पुरोहितं वसिष्ठं चेति । ननु 'उपनयीत तमध्यापयीत' इति विधेरुपनेतुरेवाध्यापकत्वाद्वसिष्ठस्यैव च पुरोहितत्वत उपनेतृत्वात् कथं गुर्वन्तरसंबन्धः-उपनीतस्य स्वयं स्वशिष्यप्रायेषु स्वपौरोहित्यादिव्याक्षेपादध्ययनाय नियोजनादिति ब्रूमः । ये चान्य इति । अश्वमेधार्त्विज्यापेक्षिता इति शेषः ॥ ६ ॥

 तान् पूजयित्वा धर्मात्मा राजा दशरथस्तदा ।
 इदं धर्मार्थसहितं वाक्यं श्लक्ष्णमथाब्रवीत् ॥ ७ ॥
 मम [२५३]लालप्यमानस्य पुत्रार्थं नास्ति वै सुखम् ।
 तदर्थं हयमेधेन यक्ष्यामीति मतिर्मम ॥ ८ ॥

 पुत्रार्थं–पुत्रप्राप्तिमुद्दिश्य, लालप्यमानस्य-लपेर्यङन्तात् शानच्, पुनः पुनः भृशं विलपतः मम राज्यादिनापि सुखं नास्ति, वै प्रसिद्धौ । तदर्थं पुत्रार्थं हयमेघेन यक्ष्यामीति मतिः-दृढाध्यवसायोऽद्य मम संवृत्तः ॥ ८ ॥

 तदहं यष्टुमिच्छामि शास्त्रदृष्टेन कर्मणा ।
 कथं प्राप्स्याम्यहं कामं बुद्धिरत्र विचार्यताम् ॥ ९ ॥

तत्-तस्मात् । अहं यष्टुं-यागकर्मणि प्रवर्तितुं इच्छामि । कर्मणा-विधिना अहं कामं- पुत्रप्राप्तिलक्षणाभीष्टं कथं प्राप्स्यामीत्यत्र बुद्धिः-उपायः विचार्यताम् ॥ ९ ॥


 ततस्साध्विति तद्वाक्यं ब्राह्मणाः प्रत्यपूजयन् ।
 वसिष्ठप्रमुखास्सर्वे पार्थिवस्य [२५४]मुखेरितम् ॥ १० ॥

 पार्थिवस्य मुखेरितं-साक्षात्तन्मुखानिर्गतम् ॥ १० ॥

 ऊचुश्च परमग्रीताः सर्वे दशरथं वचः ।
 [२५५]सम्भारास्सम्भ्रियन्तां ते तुरगश्च विमुच्यताम् ॥ ११ ॥

 ते अश्वमेधीयाः प्रसिद्धाः सम्भाराः-एकविंशतियूपपात्रशालामुखाः सम्भ्रियन्ताम् ॥ ११ ॥

 सर्वथा प्राप्स्यसे पुत्रानभिप्रेतांश्च पार्थिव ।
 यस्य ते धार्मिकी बुद्धिरियं पुत्रार्थमागता ॥ १२ ॥

 पुत्रानिति बहुवचनं विवक्षितबहुत्वम् । धार्मिकी-'धर्मं चरति' इति ठक्, धर्माचरणविषयिणी ॥ १२ ॥

 ततः प्रीतोऽभवद्राजा श्रुत्वैतद्दि्वजभाषितम् ।
 अमात्यांश्चाब्रवीद्राजा हर्षपर्याकुलेक्षणः ॥ १३ ॥

 प्रीतोऽभवदिति । सर्वथा प्राप्स्यसे इति प्रतिज्ञानात् । कर्म-कर्तरीदमात्मनेपदम् । हर्षेण-तज्जानन्दाश्रुणा पर्याकुले-परिप्लवे ईक्षणे यस्य स तथा ॥ १३ ॥

 सम्भारास्सम्भ्रियन्तां मे गुरूणां वचनादिह ।
 समर्थाधिष्ठितश्चाश्वः सोपाध्यायो विमुच्यताम् ॥ १४ ॥

 इहेति । अस्मिन् काले सरयूत्तरतीरे चेत्यर्थः । समर्थाधिष्ठितः 'चतुश्शता रक्षन्ति यज्ञस्याघाताय' इति श्रुतेः, रक्षण समर्थैश्चतुश्शतराजपुत्रै रक्षित इत्यर्थः । सोपाध्यायः-'अश्वस्य मेध्यस्य पदे पदे जुह्वति' इति होमापेक्षितोपाध्यायसहितस्तथा ॥ १४ ॥


 सरय्वाश्चोत्तरे तीरे यज्ञभूमिर्विधीयताम् ।
 शान्तयश्चाभिवर्धन्तां यथाकल्पं यथाविधि ॥ १५ ॥

 शान्तयश्चेति । 'अश्वमुत्सृक्ष्यन्निष्टिभ्यां यजेत शुक्रं चान्द्रमस्या सौर्ययेतरम्' इति श्रौती शान्तिः, स्मार्ती भगवतो ब्रह्मणस्पतेर्विघ्नेश्वरस्य समाराधनलक्षणः, तथान्याश्च शान्तयः-शान्तिकर्माणि अभिवर्द्धन्तां–प्रवर्तयन्तामिति यावत् । 'वर्धन्तु त्वा सुष्टुतयः' इति-वदार्षत्वाच्छपोऽप्यार्धधातुकत्वेन णिलोपः । यथाकल्पं-शान्तिकल्पोक्तपुण्याहवाचनादि कर्मानुक्रमप्रकारम् । यघाविधि-इदं कर्मैवं कर्तव्यमिति विधिं चानतिक्रम्येत्यर्थः ॥ १५ ॥

 [२५६]शक्यः प्राप्तुमयं यज्ञः सर्वेणापि महीक्षिता ।
 नापराधो भवेत्कष्टो यद्यस्मिन् क्रतुसत्तमे ॥ १६ ॥

 सर्वेणापि राजमात्रेण-देवतानुग्रहरहितेनापि चेत्यर्थः । अपराधः-प्रायश्चेतव्यविध्यपराधः। यदिशब्दो यथापर्यायः, अव्ययानामनेकार्थत्वात् । अस्मिन् ऋतौ कष्टस्स यथा न भवेत्तथा प्रयत्यतामिति शेषः ॥ १६ ॥

 [२५७]छिद्रं हि मृगयन्तेऽत्र विद्वांसो ब्रह्मराक्षसाः ।
  निहतस्य च यज्ञस्य सद्यः कर्ता विनश्यति ॥ १७ ॥

 सर्वथा विध्यपराधाभावार्थं यतितव्यमित्याह-छिद्रमित्यादि । विद्वांसः-अश्वमेधप्रवृत्तिं जानन्तः ब्रह्मराक्षसाः-अकृतप्रायश्चित्तप्रतिमहायाज्ययाजनादिपापेन राक्षसत्वं प्राप्ता ब्राह्मणाः, तथा । ये तु


यज्ञस्वरूपं तदपराधं च सम्यग्जानन्ति, ते तु अश्वमेधे छिद्रं-अपराधं नानाविधं मृगयन्ते-यदि छिद्रं प्राप्नुवन्ति, यज्ञं नाशयन्ति यज्ञस्यात्मसात्करणेन । किं तत इत्यतः-निहतस्य यज्ञस्य कर्ता-यजमानः ऋत्विग्वर्गश्च सद्यो विनश्यति ॥ १७ ॥

 तद्यथाविधि पूर्वं मे क्रतुरेष समाप्यते ।
 तथा विधानं क्रियतां समर्थाः करणेष्विह ॥ १८ ॥

 यदेवं तस्माद्यथा चेत् विधिपूर्वमेष क्रतुः समाप्यते तथा विधानं क्रियतां । तथाकरणेषु-अनुष्ठापनेषु यूयं समर्थाः खल्वपीति स्तुतिः ॥ १८ ॥

 तथेति चाब्रुवन् सर्वे मन्त्रिणः प्रत्यपूजयन्
 पार्थिवेन्द्रस्य तद्वाक्यं यथाऽऽज्ञप्तं निशम्य ते ॥ १९ ॥

 तथेत्यादि । ते सर्वे मन्त्रिणः यथा-उक्तप्रकारतो नरेन्द्रेण आज्ञप्तम्-आज्ञापितम् । 'वा दान्त' इत्यादिना वैकल्पिक इडभावो निपातितः । स्वार्थणेर्ज्ञपेर्भावे निष्ठा, आज्ञापनरूपं पार्थिवेन्द्रस्य तद्वाक्यं निशम्य तथेत्यब्रुवन्, समीचीनोऽध्यवसायो महाराजस्येति प्रत्यपूजयंश्च ॥ १९ ॥

 तथा द्विजास्ते धर्मज्ञा वर्धयन्तो नृपोत्तमम् ।
 अनुज्ञातास्ततस्सर्वे पुनर्जग्मुर्यथागतम् ॥ २० ॥

 वर्धयन्त इति-आशीर्भिरिति शेषः ॥ २० ॥

 विसर्जयित्वा तान् विप्रान् सचिवानिदमब्रवीत् ।
 ऋत्विग्भिरुपसन्दिष्टो यथावत्क्रतुराप्यताम् ॥ २१ ॥

 [२५८]उपसन्दिष्ट इति त्रिपदम्, उपदिष्टोऽयं ऋतु: यथावत् समाप्यतामिति योजना । 'व्यवहिताश्च' इति व्यवहितप्रयोग उपसर्गस्य ॥ २१ ॥

 इत्युक्त्वा नृपशार्दूलः सचिवान् समुपस्थितान् ।
 विसर्जयित्वा स्वं वेश्म प्रविवेश महाद्युतिः ॥ २२ ॥
 ततस्स गत्वा ताः पत्नीः नरेन्द्रो हृदयप्रियाः ।
 उवाच दीक्षां विशत यक्ष्येऽहं सुतकारणात् ॥ २३ ॥

 ताः पत्नीः-स्ववेश्मगताः पत्नीरित्यर्थः । 'पत्युर्नो यज्ञसंयोगे' इति-नकारोऽन्तादेशः । दीक्षां विशतेति । दीक्षाविषयकदृढबुद्धिं संगच्छध्वमिति यावत् ॥ २३ ॥

 तासां तेनातिकान्तेन वचनेन सुवर्चसा ।
 मुखपद्मान्यशोभन्त पद्मानीव हिमात्यये ॥ २४ ॥

इत्यार्षे श्रीमद्रामायणे बालकाण्डे अष्टमः सर्गः

 अतिकान्तेन–अत्यन्तमिष्टेन । वर्चो दीप्तिः-सुप्रकाशेन सुशो-भनेनेत्यर्थः । अर्धाधिकचतुर्विंशतिः ॥ २४ ॥

इति श्रीमद्रामायणामृतकतकटीकायां बालकाण्डे अष्टमः सर्गः


अथ नवमः सर्गः

[सुमन्त्रेण दशरथाय सनत्कुमारवचसो निवेदनम् ]

 एतच्छ्रुत्वा रहस्सूतो राजानमिदमब्रवीत् ।
 [२५९][२६०]ऋत्विग्भिरुपदिष्टोऽयं पुरावृत्तो मया श्रुतः ॥ १ ॥


 अथ पुत्रप्राप्त्यसाधारणोपायप्रवृत्तिप्रस्तावः-एतच्छ्रुत्वेत्यादि । एतदिति । पुत्रार्थं अश्वमेधप्रवृत्तिमित्यर्थः । सूतः-सुमन्त्रः । [२६१]स तूभयधर्मा राज्ञः । इदं वक्ष्यमाणम् । अयं अश्वमेधप्रवृत्तिरूपपुत्रार्थोपायस्ते ऋत्विम्भिरुपदिष्टः, मया तु पुरावृत्त इति स्वरूपतोऽन्य एव त्वत्पुत्रावाप्तये श्रुतः ॥ १ ॥

 सनत्कुमारो भगवान् पूर्वं कथितवान् कथाम् ।
 ऋषीणां सन्निधौ राजन् ! तव पुत्रागमं प्रति ॥ २ ॥

 कथमित्यतः-सनत्कुमार इत्यादि । कथामिति । सर्वज्ञत्वाद्भविष्यद्विषयिणीमिति शेषः ॥ २ ॥

 काश्यपस्य तु पुत्रोऽस्ति [२६२]विभण्डक इति श्रुतः ।
 ऋश्यशृङ्ग इति ख्यातस्तस्य पुत्रो भविष्यति ॥ ३ ॥

 का भविष्यन्मत्पुत्रप्राप्तिविषयिणी कथेत्यतः-काश्यपस्येत्यादि । विभण्डकास्तित्वं सनत्कुमारकथाकथनकालीनम् । ऋश्यशृङ्गजनिस्तस्मात् भाविनी । तदाख्यातो भविष्यतीति । धातुसम्बन्धे प्रत्यया इति न्यायेन भूतभविष्यतोस्साधुत्वम् ॥ ३ ॥

 स वने नित्यसंवृद्धो मुनिर्वन [२६३]चरस्सदा ।
 नान्यं जानाति विप्रेन्द्रो नित्यं पित्रनुवर्तनात् ॥ ४ ॥

 नित्यसंवृद्धः-पुरपौरग्रामग्रामीणादिस्वरूपव्यापारानुभवराहित्येनैव संवृद्धः-पित्रा वर्षित इत्यर्थः । अत एव वनचरत्वादि । पित्रनुवर्तनादिति। न क्वापि त्वया गन्तव्यं इति पित्राज्ञानुवर्तनादित्यर्थः ॥ ४


 द्वैविध्यं ब्रह्मचर्यस्य भविष्यति महात्मनः ।
 लोकेषु प्रथितं राजन् ! विप्रैश्च कथितं सदा ॥ ५ ॥

 द्वैविध्यमित्यादि । यद्ब्रह्मचर्यं लोकेषु मेखलाजिनादिना सर्वलोकस्य प्रसिद्धं, यच्च विप्रैर्याज्ञवल्क्यादिस्मर्तृभिः कथितमृतुगमनलक्षणं गौणब्रह्मचर्यमस्ति तदिदं द्वैविध्यं-द्विप्रकारकब्रह्मचर्यं च महात्मनस्तस्य भविष्यति । द्वे विधे यस्य तद्द्विविधम् तस्य भाव इति ष्यञ् ॥ ५ ॥

 तस्यैवं वर्तमानस्य कालस्समभिवर्तत ।
 अग्निं शुश्रूषमाणस्य पितरं च यशस्विनम् ॥ ६ ॥

 अथ कथं तथा वनचरस्य यथोक्तगौणब्रह्मचर्यस्य प्रसक्तिरित्यतः तदुपपादनम्–तस्येत्यादि । अग्न्यादिकं शुश्रूषमाणस्य एवं मुख्यब्रह्मचर्ये वर्तमानस्य कालः-कतिपयः समभिवर्तत । 'छन्दसि लुङ्लङ्लिट:' इति भविष्यति लङ्, अडभावश्छान्दसः, समभिवर्तिष्यते-गमिष्यतीत्यर्थः ॥ ६ ॥

 एतस्मिन्नेव काले तु रोमपादः प्रतापवान् ।
 अङ्गेषु प्रथितो राजा भविष्यति महाबलः ॥ ७॥
 एतस्मिन्-तस्य ब्रह्मचर्यदशायामित्यर्थः ॥ ७ ॥
 तस्य व्यतिक्रमाद्राज्ञो भविष्यति सुदारुणा ।
 अनावृष्टिस्सुघोरा वै सर्वभूतभयावहा ॥ ८ ॥

 व्यतिक्रमात्-क्षत्रनित्यप्राप्तप्रजापरिपालनवर्णाश्रमशिक्षणादिधर्मबिलोपनादित्यर्थः ॥ ८ ॥

 अनावृष्ट्यां तु वृत्तायां राजा दुःखसमन्वितः ।
 ब्राह्मणाञ्छ्रुतवृद्धांश्च समानीय प्रवक्ष्यति ॥ ९ ॥

 श्रुतेन वृद्धाः श्रुतवृद्धाः ॥ ९ ॥

 भवन्तः श्रुतधर्माणो लोकचारित्रवेदिनः ।
 [२६४]समादिशन्तु नियमं प्रायश्चित्तं यथा भवेत् ॥ १० ॥

 समादिशन्तु । यथा चेन्मत्पापस्यानावृष्ट्यादिमूलस्य प्रायश्चित्तं भवति तादृङ्नियममनुष्ठेयांशमादिशन्तु ॥ १० ॥

 वक्ष्यन्ति ते महीपालं ब्राह्मणा वेदपारगाः ।
 आनाय्य च महीपाल ! ऋश्यशृङ्गं सुसत्कृतम् ॥ ११ ॥

 एवं राज्ञा पृष्टास्ते शुद्धब्रह्मचारिणे कन्याप्रदानमेव परं प्रायश्चित्तमिति वक्ष्यन्तीत्युपदिश्यते-वक्ष्यन्तीत्यादि-कन्यां प्रयच्छेत्यन्तेन । आनाय्येति । नीञो हेतुमण्ण्यन्ताल्लयप् । महीपाल ऋश्येति ऋत्यकः' इति प्रकृतिभावः ॥ ११ ॥

 विभण्डकसुतं राजन् ! ब्राह्मणं वेदपारगम् ।
 प्रयच्छ कन्यां शान्तां वै विधिना सुसमाहितः ॥ १२ ॥

 प्रयच्छ । ऋश्यशृङ्गायेति शेषः ॥ १२ ॥

 तेषां तु वचनं श्रुत्वा राजा चिन्तां प्रपत्स्यते ।
 केनोपायेन वै शक्य इहा-ङ.शक्यमिहानेतुं स वीर्यवान् ॥ १३ ॥

 राज्ञश्चिन्ताभिनयः–केनोपायेनेत्यादि । वीर्यवान् विद्यावृत्ततपोवीर्यवान् ॥ १३ ॥

 ततो राजा विनिश्चित्य सह मन्त्रिभिरात्मवान् ।
 पुरोहितममात्यांश्च ततः प्रेष्यति सत्कृतान् ॥ १४ ॥


 ते तु राज्ञो वचश्श्रुत्वा व्यथिता विनताननाः ।
 न गच्छेम ऋषेर्भीता अनुनेष्यन्ति तं नृपम् ॥ १५ ॥

 ते त्विति । पुरोहितमन्त्रिण इति यावत् । व्यथिताः-अशक्यार्थयोगतः खिन्नाः, अत एव विनताननाः, ऋषेर्विभण्डकाद्भीतास्सन्तो न वयं गच्छेम इत्युक्त्वा तं नृपं रोमपादं अनुनेष्यन्ति । अशक्यार्थत्वात् त्वन्नियोगो नास्माभिरनुष्ठीयते, अतः क्षन्तव्यमित्यनुनेष्यन्ति ॥ १५ ॥

 वक्ष्यन्ति चिन्तयित्वा ते तस्योपायांश्च तत्क्षमान् ।
 आनेष्यामो वयं विप्रं [२६५]न च दोषो भविष्यति ॥ १६ ॥

 एवमनुनीयाथ क्षमान्-उचितान् तदानयनोपायांश्चिन्तयित्वा तस्य राज्ञो वक्ष्यन्ति । अम्मदुक्तं यदि शृणोषि तदा वयं तं विप्रमानेष्यामः । तदाऽस्माकमपि शापादिदोषो न भविष्यति, गणिकाद्वारत्वात् ॥ १६ ॥

 एवमङ्गाधिपेनैव गणिकाभिॠषेस्सुतः ।
 [२६६]आनीतोऽवर्षयद्देवः शान्ता चास्मै प्रदीयते ॥ १७ ॥

 ऋश्यशृङ्गस्तु [२६७]जामाता पुत्रांस्तव विधास्यति ।
 सनत्कुमारकथितमेतावद्ध्याहृतं मया ॥ १८ ॥

 एवं स्वामात्यवचनात् गणिकाश्च प्रेषयता अङ्गाधिपेन गणिकाभिः-द्वाराभिः ऋषेस्सुतः आनीतस्सन् देवः-पर्जन्यः अवर्षयत्-वर्ष-


यिष्यति । प्रदीयते-प्रदास्यते, छान्दसो लट् । अत एव ऋश्यशृङ्गस्तु राज्ञो जामाता भविष्यति । स एव तव पुत्रान्विधास्यति-इत्येवमेतावत् सनत्कुमारकथितं मया श्रुतं, इदानीं तुभ्यमिदं व्याहृतं च । अतः परं देवः प्रमाणमिति शेषः ॥ १७-१८ ॥

 अथ हृष्टो दशरथः सुमन्त्रं प्रत्यभाषत ।
 यथर्श्यशृङ्गस्त्वानीतो विस्तरेण त्वयोच्यताम् ॥ १९ ॥

इत्यार्षे श्रीमद्रामायणे बालकाण्डे नवमः सर्गः

 हृष्टः-निश्चितपुत्रप्राप्त्युपायलाभासंतुष्टः । अथोत्तरसर्गप्रतिपाद्यार्थस्य पातनिका-यथेत्यादि । आनीत इति । गणिकाभिः रोमपादेनेति शेषः। धैर्य(१९)मानः ॥ १९ ॥

इति श्रीमद्रामायणामृतकतकटीकायां बालकाण्डे नवमः सर्गः


अथ दशमः सर्गः

[ऋश्यशृङ्गोपाख्यानम्]

 सुमन्त्रचोदितो राज्ञा प्रोवाचेदं वचस्तथा ।
 [२६८]यथर्श्यशृङ्गस्त्वानीतः शृणु मे मन्त्रिभिस्सह ॥ १ ॥

 अथ पुरोहिताशक्यानयनः कथं गणिकाभिरानीत इति असम्भावनया तदानयनप्रकारे चोदिते यथाश्रुततत्त्वकथनेन तं सम्भावयति सुमन्त्रः-सुमन्त्र इत्यादि । चोदित इति । विस्तरेणानयनप्रकारकथनायेति शेषः । मन्त्रिभिस्सह संमन्त्र्य रोमपादेन यथर्श्यशृङ्गस्त्वानतिः, तं प्रकारं मे मम सकाशात् शृण्विति योजनार्थः ॥ १ ॥


 रोमपादमुवाचेदं सहामात्यः पुरोहितः ।
 उपायो निरपायोऽयमस्माभिरभिचिन्तितः ॥ २ ॥

 रोमेत्यादि । सहामात्यः पुरोहितो रोमपादमिदमुवाच । किमुवाचेत्यतः-उपाय इत्यादि ॥ २ ॥

 ऋश्यशृङ्गो वनचरः तपस्स्वाध्यायने रतः ।
 अनभिज्ञस्स नारीणां विषयाणां सुखस्य च ॥ ३ ॥

 ऋश्येत्यादि । नारीणां विषयाणामिति व्याधिकरणे सम्बन्धमात्रे षष्ठ्यौ ॥ ३ ॥

 इन्द्रियार्थैरभिमतैर्नरचित्तप्रमाथिभिः ।
 पुरमानाययिष्यामः क्षिप्रं चाध्यवसीयताम् ॥ ४॥

 इन्द्रियार्थाः-द्रव्यवस्त्रगीत्यादयः । अध्यवसीयतामिति । अस्मदुक्तार्थकरण इति शेषः ॥ ४ ॥

 गणिकास्तत्र गच्छन्तु रूपवत्यः स्वलङ्कृताः ।
 प्रलोभ्य विविधोपायैरानयिष्यन्ति सत्कृताः ॥ ५॥

 किं मयाऽनुष्ठयमित्यतो–गणिका इत्यादि । सत्कृताः-विचित्राम्बराभरणानपानकृतोपचारा गणिका इति योजना ॥ ५ ॥

 श्रुत्वा तथेति राजा च प्रत्युवाच पुरोहितम् ।
 पुरोहितो मन्त्रिणश्च तथा चक्रुश्च ते तदा ॥ ६ ॥
 वारमुख्यास्तु तच्छ्रुत्वा वनं प्रविविशुर्महत् ।

 राजा पुरोहितं तथेति प्रत्युवाचेति । मन्नियोगात् भवानेव तथा अनुतिष्ठेत्युक्तवानित्यर्थः । अत्यल्पविषयत्वाद्राज्ञ एवंवादः । अथ पुरोहितस्य च द्विजत्वात् गणिकादिव्यवहारोऽनुचित इति सोऽपि मन्त्रिणः प्रत्युवाच गणिकानियोगं । ते मन्त्रिणस्तथा चक्रुः; साक्षाद्गणिकाः प्रैरयन् तच्छ्रुत्वेति यावत् ॥ ६॥

 आश्रमस्याविदूरेऽस्मिन् यत्नं कुर्वन्ति दर्शने ॥ ७ ॥
 ऋषिपुत्रस्य धीरस्य नित्यमाश्रमवासिनः ।
 पितुस्स नित्यसन्तुष्टो नातिचक्राम चाश्रमात् ॥ ८ ॥

 यद्वनं प्रविविशुः, अस्मिन् वने आश्रमस्य-विभण्डकाश्रमस्य अविदूरे स्थित्वा धीरत्वादिगुणकस्य ऋषिपुत्रस्य दर्शने यत्नं कुर्वन्ति स्म । पितुरिति । उपलालनभेदैरिति शेषः ॥ ८ ॥

 न तेन जन्मप्रभृति दृष्टपूर्वं तपस्विना ।
 स्त्री वा पुमान् वा यच्चान्यत् सर्वं नगरराष्ट्रजम् ॥ ९ ॥

 नगरजं सत्वं उत्तमाश्वादिकं । राष्ट्रजं सत्वं ग्रामसूकरकुक्कुटादिः ॥

 ततः कदाचित्तं देशमाजगाम यदृच्छया ।
 विभण्डकसुतस्तत्र ताश्चापश्यद्वराङ्गनाः ॥ १० ॥

 कदाचिदिति । दैवगत्येति । शेषः । तं देशमिति । वारस्त्रीसञ्चारप्रदेशमित्यर्थः ॥ १० ॥

 ताश्चित्रवेषाः प्रमदा गायन्त्यो मधुरस्वरैः ।
 ऋषिपुत्रमुपागम्य सर्वा वचनमब्रुवन् ॥ ११ ॥
 कस्त्वं किं वर्तसे ब्रह्मन् ज्ञातुमिच्छामहे वयम्
 एकस्त्वं विजने घोरे वने चरसि शंस नः ॥ १२ ॥

 कस्त्वमिति । किं जातिः ? कस्य पुत्र इत्यर्थः । किं वर्तसे इति । किं नामधेयो वर्तस इत्यर्थः । अपि च विजने एकस्सन् कथं चरसीति प्रश्नत्रयम् ॥ १२ ॥

 अदृष्टरूपास्तास्तेन काम्यरूपा वने स्त्रियः ।
 हार्दात्तस्य मतिर्जाता ह्याख्यातुं पितरं स्वकम् ॥ १३ ॥

 अदृष्टरूपाः । इतः प्रागदृष्टैवंरूपाः, अपि च कमनीयरूपाः तास्त्रियः । तेन वने दृष्टा इति शेषः ॥ १३ ॥

 पिता विभण्डकोऽस्माकं तस्याहं सुत औरसः ।
 ऋश्यश्रङ्ग इति ख्यातं नाम कर्म च मे भुवि ॥ १४ ॥

 इहाश्रमपदेऽस्माकं समीपे शुभदर्शनाः ।
 करिष्ये वोऽत्र पूजां वै सर्वेषां विधिपूर्वकम् ॥ १५ ॥

 इह-वने समीपे वर्तमाने अस्माकं आश्रमपदे वः पूजां करिष्ये इत्यनेन नाहमेकाकी विजने वने पिशाचवत् सञ्चरामि, अपि तु समातापित्रकस्य मे स्वीयं स्थानमेवेत्युक्तं भवति । इहाश्रमपदोऽस्माकमिति पाठोऽस्तीत्यभिप्रेत्य तत्राश्रमपद इति लिङ्गव्यत्यय [२६९]इत्यन्ये । तदा तु व्यक्तमेव तृतीयप्रश्नोत्तरम् । अत्र सर्वेषामिति निर्देशस्त्वविवक्षितस्त्रीत्ववस्तुमात्राभिप्रायेण । एतेन स्त्रीविकारापरिज्ञानं द्योतितम् ॥

 ऋषिपुत्रवचश्श्रुत्वा सर्वासां मतिरास वै ।
 तदाश्रमपदं द्रष्टुं जग्मुस्सर्वाश्च तेन ताः ॥ १६ ॥

 असेः अनुप्रयोगवत् भूभावाभावश्छान्दसः ॥ १६ ॥


 आगतानां ततः पूजां ऋषिपुत्रश्चकार ह ।
 इदमर्ध्यमिदं पाद्यमिदं मूलमिदं फलम् ॥ १७ ॥
 प्रतिगृह्य तु तां पूजां सर्वा एव समुत्सुकाः ।
 ऋषेर्भीतास्तु शीघ्रं ता गमनाय मतिं दधुः ॥ १८ ॥

 सर्वा एव समुत्सुका इति । चिरं तदालापसमुत्सुका एवेति यावत् । ऋषेः-विभण्डकात् ॥ १८ ॥

 अस्माकमपि मुख्यानि फलानीमानि वै द्विज !
 गृहाण प्रति भद्रं ते भक्षयस्व च मा चिरम् ॥ १९ ॥

 मुख्यानीति । प्रशस्तास्वादवन्तीति यावत् । फलानीति प्रतारणार्थं मोदका एवोच्यन्ते । गृहाणप्रतीति । 'छन्दसि परेऽपि' इति प्रयोगः, प्रतिगृहाणेति यावत् । ते भद्रं-भक्षणायातिमधुरम् । अतो भक्षयस्व, मा चिरं-विलम्बं मा कुरु ॥ १९ ॥

 ततस्तास्तं समालिङ्ग्य सर्वा हर्षसमन्विताः ।
 मोदकान् प्रददुस्तस्मै भक्षांश्च विविधान् शुभान् ॥ २० ॥

 समालिङ्ग्य । स्पर्शतो वशीकरणार्थमिति शेषः । हर्षसमन्विता इति-उभयथापि बालब्रह्मचारितस्सुन्दरालिङ्गनप्राप्तया स्वकार्यानुकूलस्पर्शसिद्ध्या च ॥ २० ॥

 तानि चास्वाद्य तेजस्वी फलानीति स्म मन्यते ।
 अनास्वादितपूर्वाणि वने नित्यनिवासिनाम् ॥ २१ ॥

 वने नित्यनिवासिनां अनास्वादितपूर्वाणि, 'पूरणगुण' इति सुहितार्थयोगजषष्ठ्यास्समासनिषेधादेव ज्ञापकात् तृतीयार्थे षष्ठी, पूर्वमनास्वादितानि । सुप्सुपेति समासः । फलानीति मन्यते स्मेति योजना ॥ २१ ॥

 आपृच्छ्य तु तदा विप्रं व्रतचर्यां निवेद्य च ।
 गच्छन्ति स्मापदेशात्ताः भीतास्तस्य पितुः स्त्रियः ॥ २२ ॥

 व्रतचर्यामिति । [२७०]मिथ्यैव-गत्वास्माभिः किंचिद्व्रतमनुष्ठेयमिति-व्रतानुष्ठानं तस्य निवेद्य तस्मात् अपदेशात् व्याजात् । तस्य पितुः ऋषेः विभण्डकात् भीतास्तास्स्त्रियो गच्छन्ति स्म ॥ २२ ॥

 गतासु तासु सर्वासु काश्यपस्यात्मजो द्विजः ।
 अस्वस्थहृदयश्वासीद्दुःखं स्म परिवर्तते ॥ २३ ॥

 अस्वस्थहृदयः-अप्रसन्नचित्तश्चासीत् । हि-यस्मात् दुःखं-ताह-शजैह्वचाक्षुषादिविषयसुखविश्लेषजं संपरिवर्तते स्म ॥ २३ ॥

 ततो परेद्युस्तं देशं आजगाम स वीर्यवान् ।
 [२७१]मनोज्ञा यत्र ता दृष्टा वारमुख्या: स्वलङ्कृताः ॥ २४ ॥

 तत एव हेतोः । अपरेद्युश्च तं देशं जगाम । तमिति किमित्यतः-मनोज्ञा इत्यादि ॥ २४ ॥

 दृष्ट्वैव च तदा विप्रमायान्तं हृष्टमानसाः ।
 उपसृत्य ततस्सर्वास्तास्तमूचुरिदं वचः ॥ २५ ॥

 एह्याश्रमपदं सौम्य ! ह्यस्माकमिति चाब्रुवन् ।


 चित्राण्यत्र बहूनि स्युः मूलानि च फलानि च ।
 तत्राप्येष विधिः श्रीमान् विशेषेण भविष्यति ॥ २६ ॥

 एष विधिरिति-स्वादिष्टभक्षणादिरूपः ॥ २६ ॥

 श्रुत्वा तु वचनं तासां सर्वासां हृदयङ्गमम् ।
 गमनाय मतिं चक्रे तं च निन्युस्तदा स्त्रियः ॥ २७ ॥

 हृदयङ्गममिति । खच्प्रकरणे 'गमेस्सुप्युपसंङ्ख्यानम्' इति खच् । तं च निन्युरिति । गङ्गायां पूर्वस्थापितं नावमारोप्य प्रवहणेनैवाङ्गदेशनिन्युरिति भारते प्रसङ्गात् ॥ २७ ॥

 तत्र चानीयमाने तु विप्रे तस्मिन्महात्मनि ।
 ववर्ष सहसा देवो जगत्प्रहादयंस्तदा ॥ २८ ॥

 तत्र चाङ्गदेशे तस्मिन्विप्रे आनीयमाने तु देवो ववर्ष ॥ २८ ॥

 [२७२]वर्षेणैवागतं विप्रं विषयं स्वं नाराधिपः ।
 प्रत्युद्गम्य मुनिं प्रह्वः शिरसा च महीं गतः ॥ २९ ॥

 तदा वर्षेण सहैवाभीष्टेन विषयं स्वं देशमागतं प्रत्युजगाम । प्रह्णः-शिरसा महीं गतश्च । प्रथमं केवलाञ्जलिपूर्वं साष्टाङ्गनमस्कारं कृतवानिति यावत् ॥ २९ ॥

 अर्घ्यं च प्रददौ तस्मै न्यायतस्सुसमाहितः ।
 वव्रे प्रसादं विप्रेन्द्रात् मा विप्रं मन्युराविशेत् ॥ ३० ॥

 वव्र इति । अर्ध्यादिपूजितं तं विप्रं ऋश्यशृङ्गं वव्रे । किं वव्रे ? तस्य प्रसादं–सौमुख्यमेव ; मह्यं नित्यं प्रसन्नो भव, सापराधेऽपि


मयीति । किमर्थमेवं वरणम् । गणिकाभिः पश्चाद्यवहारकाले अतिजुगुप्सितप्रतीताभिर्विलोक्य-स्वानयनमन्वीक्ष्य मन्युः ऋश्यशृङ्गं विप्रेन्द्रं मा प्रविशत्विति। ततः प्रसन्नत्वादेव तन्मत्यनुरोधेनान्तः पुरप्रवेशशान्तापरिग्रहतत्सम्बन्धजसन्तोषश्च ॥

 सर्वमेतत् बालपिशाचकथोपमं मन्यामहे । कुतः ? अज्ञत्वे प्राकृतव- द्वर्षानुग्रहनिग्रहादिशक्त्यभावप्रसङ्गात् । पुत्राद्यर्थं याजनादिप्रवृत्त्ययोगात् । स्वपितर्येव निरतिशयनिर्मल-ब्रह्मचर्यवासतो निखिलवेदशास्त्रज्ञत्वपूर्णत-पस्त्वधर्मयोः स्थितयोः, अष्टविधस्त्रीप्रसङ्गपरिहारलक्षणब्रह्मचर्य परिज्ञाने च स्थिते, स्वस्य च ब्रह्मचर्याश्रमित्वात् तद्भ्रंशे परमानर्थपरिज्ञानवत्वे स्थिते शास्त्रत एव, अन्ततो वनचरस्त्रीणामेव अनुभवात् स्त्र्यादिस्वरूपपरिज्ञाने तत्परिहार्यत्वबुद्धौ दृढं जागरूकायां, कथं नाम कटाक्षेणापि स्त्रीं निरीक्षयेत् ; कथं च तमुन्मत्तमिव सर्वज्ञ स्त्रीपिशाच्यो विलोभयेयुः ? कुतश्च ताः स्वाश्रमपदं प्रापयेत् ? पित्राज्ञामीतः कुतस्तरां प्रपूजयेत् ? पितुरसन्निधिकालेऽपि कथं च पित्रनुमतिं पितृप्रीति चोपेक्ष्य ता अनुयायात् ? कथं च नाम विलोभ्य वाऽऽनीतः ? कुतः पुत्रं पिता नामार्गयत ? कथं च नेत्रीस्तास्तत्प्रयोजकं राजानं च समाधिना वीक्ष्य तत्क्षणादेव न क्रुद्धश्शपेत् ? अतः पिशाचकथोपममिति । अत्रोच्यते-प्रागुक्तरीत्याऽवर्ज्यप्राप्तसार्वज्ञ्यत्वात् प्राचीनकर्म-वशात् स्वजन्मविशेषसंम्बन्धवत् प्रारब्धकर्मवशादेव क्षत्रस्त्रीपरिग्रहकश्मलप्राप्तिरपि सर्वज्ञत्वाजानान एव तत्प्राप्तिद्वारभूतवेश्यापिशाच्यश्च विलोभ्यमान इवानुचक्रे । पिताऽपि सर्वज्ञतमत्वात् कुलवृद्ध्यै सन्तत्यपेक्षत्वात्तेनापि स्वपुत्रस्य क्षात्रक्षेत्रप्राप्तिं विदित्वा उपेक्ष्यैव तद्विवासं नान्विष्ट । अपि तु दशशिरोपहृतसीतां रामवत् अज्ञातपुत्रविदेशगमनेनेव स्थितमिति सर्वमवदातम् । अतस्त्विह कविनाऽन्यनारी नरापरिज्ञानवर्णनं नित्यप्रत्यङ्मुखत्वपूर्णब्रह्मचर्यत्वगुर्वैकायनलौकिकालौकिक-सर्वकृत्यत्वादिशुद्धतरपूर्णब्रह्मचर्य [२७३]प्रतिपादनार्थम् । अपूपादेः फलत्वेन मननं च तदशुद्धिनिरासार्थम् । तद्भक्षणादिकं च तासां निजानुकूल्यद्योतनार्थम् । तच्च स्वप्रारब्धभोगशेषतयेत्युक्तमेव ॥ ३१ ॥

 अन्तःपुरं प्रविश्यास्मै कन्यां दत्वा यथाविधि ।
 शान्तां शान्तेन मनसा राजा हर्षमवाप सः ॥ ३१ ॥
 एवं स न्यवसत्तत्र सर्वकामैस्सुपूजितः ।
 ऋश्यशृङ्गो महातेजाः शान्तया सह भार्यया ॥ ३२ ॥

इत्यार्षे श्रीमद्रामायणे बालकाण्डे दशमः सर्गः

 द्वात्रिंशत् (३२) । आहत्य शतांग (३६५) मानम् ॥ ३२ ॥

इति श्रीमद्रामायणामृतकतकटीकायां बालकाण्डे दशमः सर्गः


अथ एकादशः सर्गः

[दशरथेन स्वनगरं प्रति ऋश्यशृङ्गानयनम्]

 भूय एव हि राजेन्द्र ! श्रुणु मे वचनं हितम् ।
 यथा स देवप्रवरः कथायामेवमब्रवीत् ॥ १ ॥

 एवं रोमपादप्रसङ्गेन दशरथस्य ऋश्यशृङ्गात् पुत्रप्राप्तिकथां ब्रह्मपुत्रीयामुक्ता अथ प्राधान्यात् ऋश्यशृङ्गाद्दशरथस्य पुत्रप्राप्तिकथा च कालान्तरोक्ता ब्रह्मपुत्रीयाऽस्तीति सुमन्त्रोऽनेकयुगवृद्धो राज्ञः ऋश्यशृङ्गानयनमेव साक्षात्पुत्रप्राप्तिसाधनमिति स्थैर्यायाह-भूय इत्यादि । देवप्रवर इति । यः पूर्वं रोमपादप्रसङ्गेन त्वत्पुत्रोपायमुक्तवान् स ब्रह्मपुत्र इत्यर्थः । कथायामिति । कालान्तरीयायामिति शेषः ॥ १ ॥


 इक्ष्वाकूणां कुले जातो भविष्यति सुधार्मिकः ।
 राजा दशरथो नाम श्रीमान् सत्यप्रतिश्रवः ॥ २ ॥

 सत्यप्रतिश्रवः-सत्यप्रतिज्ञः ॥ २ ॥

 अङ्गराजेन सख्यं च तस्य राज्ञो भविष्यति ।
 कन्या चास्य महाभागा शान्ता नाम भविष्यति ॥ ३ ॥

 अङ्गराजेन रोमपादेन । तस्येति । दशरथस्येति यावत् । येनाङ्गराजेन दशरथस्य सख्यं भविष्यति, अस्याङ्गराजस्य शान्ताख्या कन्या च भविष्यति ॥ ३ ॥

 पुत्रस्त्वङ्गाधिराजस्य रोमपाद इति श्रुतः ।
 अङ्गराजं दशरथो गमिष्यति महायशाः ॥ ४ ॥

 किंनामकोऽसावङ्गदेशाधिपतिः राजा ? येन दशरथस्य सख्यमित्यत्रोक्तम्–पुत्र इत्यादि । अङ्गस्य- अङ्गदेशाधिपतेः राज्ञः पुत्रः, दशरथसखा च रोमपाद इति श्रुतः । तं रोमपादं स्वमित्रं गमिष्यतीति । ऋश्यशृङ्गानयनार्थमिति शेषः ॥ ४ ॥

 अनपत्योऽस्मि धर्मात्मन् ! शान्ताभर्ता मम क्रतुम् ।
 आहरेत त्वयाऽऽज्ञप्तः सन्तानार्थं कुलस्य च ॥ ५॥

 तदेव प्रतिपाद्यते-अनपत्योऽस्मीत्यादि । धर्मात्मा-धर्मदेवताबतारमूर्ति: । शान्तायास्त्वत्पुत्र्याः भर्ता त्वद्गृहवासी, ऋश्यशृङ्ग इति यावत् । एवं स्थिते पाङ्क्ते पूर्वापराविरुद्धे [२७४]कश्चित्–कन्या चास्येत्यत्र


 अस्य दशरथस्य शान्ताख्या भविष्यतीत्यवोचत् । एवं मृषा प्रलप्य तत्समर्थनाय भूयोऽनेकमृषाऽवोचत् । प्रलपतु नाम । आहरेतेति प्रार्थने लिङ् ॥ ५ ॥

 श्रुत्वा राज्ञोऽथ तद्वाक्यं मनसा स विचिन्त्य च ।
 प्रदास्यते पुत्रवन्तं शान्ताभर्तारमात्मवान् ॥ ६ ॥

 मनसा स विचिन्त्येति । दशरथस्यास्मज्जामात्रा यज्ञप्रवर्तनमसहायेन दुश्शकम् । अतो मम दौहित्रसहितमेव जामातरं प्रेषयिष्यामि इति निश्चित्य पुत्रवन्तं शान्ताभर्तारं प्रदास्यते ॥ ६ ॥

 प्रतिगृह्य च तं विप्रं स राजा विगतज्वरः ।
 आहरिष्यति तं यज्ञं प्रहृष्टेनान्तरात्मना ॥ ७ ॥

तं यज्ञमिति । पुत्रकामेष्टिरूपमिति यावत् ॥ ७ ॥

 तं च राजा दशरथो यष्टुकामः कृताञ्जलिः ।
 ऋश्यशृङ्गं द्विजश्रेष्ठं वरयिष्यति धर्मवित् ॥ ८ ॥

 वरयिष्यतीति । वरः-वरणम् । 'तत्करोति' इति णिच् । टिलोपस्य स्थानिवत्त्वाद्वृद्ध्यभावः । एवं पाङ्क्ते, शाब्दिकमानी कश्चित् 'आधृषाद्वा' इति णिच्, प्रयोगपरम्परावशात् वृद्ध्यभाव इत्यजल्पत् ॥

 यज्ञार्थं प्रसवार्थं च स्वर्गार्थं च जनेश्वरः ।
 लभते च स तं कामं विप्रमुख्याद्विशां पतिः ॥ ९ ॥

 किंविषयकं वरणमित्यतो-यज्ञार्थम् । नापुत्रस्य लोकोऽस्तीति श्रुतेः । प्रसवः-स्वर्गद्वारम् ॥ ९ ॥

 पुत्राश्चास्य भविष्यन्ति चत्वारोऽमितविक्रमाः ।
 वंशप्रतिष्ठानकराः सर्वलोकेषु विश्रुताः ॥ १० ॥
 एवं स देवप्रवरः पूर्वं कथितवान् कथाम् ।
 सनत्कुमारो भगवान् पुरा देवयुगे प्रभुः ॥ ११ ॥

 पूर्वं-विभक्तिप्रतिरूपकमव्ययम्, पूर्वस्मिन् काले । कस्मिन्पूर्वस्मिन् काले इत्यतः-पुरा देवयुग इति । कृतयुग इति यावत् ॥

 स त्वं पुरुषशार्दूल ! समानय सुसत्कृतम् ।
 [२७५]स्वयमेव च राजेन्द्र ! गत्वा सबलवाहनः ॥ १२ ॥

 स्वयमेवेति । न पुरोहितादिद्वारा ॥ १२ ॥

 [२७६]अनुमान्य वसिष्टं च सूतवाक्यं निशम्य च ।
 सान्तःपुरः सहामात्यः प्रययौ यत्र स द्विजः ॥ १३ ॥

 अनुमान्य-कृतानुमतिकं कृत्वा । [२७७]उक्तप्रक्रियः । पुरोहिते मयि स्थिते कथं यज्ञार्थं अन्यानयनमिति शङ्काप्रसङ्गात्तदनुमतिस्सुमन्त्रोक्त-वृत्तान्तकथनद्वारा । यत्रेति । रोमपादसमीप इत्यर्थः ॥ १३ ॥

 वनानि सरितश्चैव व्यतिक्रम्य शनैश्शनैः ।
 अभिचक्राम तं देशं यत्र वै मुनिपुङ्गवः ॥ १४ ॥
 आसाद्य तं द्विजश्रेष्ठं रोमपादसमीपगम् ।
 ऋषिपुत्रं ददर्शादौ दीप्यमानमिवानलम् ॥ १५ ॥


 ततो राजा यथान्यायं पूजां चक्रे विशेषतः ।
 सखित्वात्तस्य वै राज्ञः प्रहृष्टेनान्तरात्मना ॥ १६ ॥

 ततो राजेति । रोमपाद इति यावत् । तस्य वै राज्ञ इति । दशरथस्येति यावत् ॥ १६ ॥

 रोमपादेन चाख्यातमृषिपुत्राय धीमते ।
 सख्यं सम्बन्धकं चैव तदा तं प्रत्यपूजयत् ॥ १७ ॥

 रोमपादेन स्वस्य दशरथस्य च सख्यं-सखित्वं यौतादिसम्बन्धकं चैव ऋषिपुत्रायाख्यातमभूत् । तदेत्यादि । श्रवणानन्तरकाले तं-दशरथं ऋषिपुत्रः प्रत्यपूजयत् ॥ १७ ॥

 एवं सुसत्कृतस्तेन सहोषित्वा नरर्षभः ।
 सप्ताष्टदिवसान् राजा राजानमिदमब्रवीत् ॥ १८ ॥

 तेन सहेति । रोमपादेन सहेति यावत् ॥ १८ ॥

 शान्ता तव सुता राजन् ! सहभर्त्रा विशांपते !
 मदीयं नगरं यातु कार्यं हि महदुद्यतम् ॥ १९ ॥

 शान्ता तव सुता राजन्-हे रोमपाद ! एवं स्पष्टे दशरथस्य कन्या शान्तेति प्रलपितवन्तं किं ब्रूमः ॥ १९ ॥

 तथेति राजा संश्रुत्य गमनं तस्य धीमतः ।
 उवाच वचनं विप्रं गच्छ त्वं सह भार्यया ॥ २० ॥
 ऋषिपुत्रः प्रतिश्रुत्य तथेत्याह नृपं तदा ।
 स नृपेणाभ्यनुज्ञातः प्रययौ सह भार्यया ॥ २१ ॥

 सह भार्यया प्रतिश्रुत्य-तथा भवत्विति श्वशुरं प्रतिश्रुत्य, नृपं-दशरथं च प्रति तथास्त्वित्याह ॥ २१ ॥

 तावन्योन्याञ्जलिं कृत्वा स्नेहात् संश्लिष्य चोरसा ।
 ननन्दतुर्दशरथो रोमपादश्च वीर्यवान् ॥ २२ ॥
 ततस्सुहृदमापृच्छ्य प्रस्थितो रघुनन्दनः ।
 पौरेभ्यः प्रेषयामास दूतान् वै शीघ्रगामिनः ॥ २३ ॥
 क्रियतां नगरं सर्वं क्षिप्रमेव स्वलङ्कृतम् ।
 धूपितं सिक्तसंमृष्टं पताकाभिरलङ्कृतम् ॥ २४ ॥

 स्वलङ्कृतमित्यस्यैव प्रकारकथनं-धूपितमित्यादि । इतजन्तोऽयम् । पूर्वं सिक्तः पश्चात्संमृष्टः तथा । 'पूर्वकाल' इति समासः ॥ २४ ॥

 ततः प्रहृष्टाः पौरास्ते श्रुत्वा राजानमागतम् ।
 तथा प्रचक्रुस्तत्सर्वं राज्ञा यत्प्रेषितं तदा ॥ २५ ॥
 ततः स्वलङ्कृतं राजा नगरं प्रविवेश ह ।
 शङ्खदुन्दुभिनिर्घोषैः पुरस्कृत्य द्विजर्षभम् ॥ २६ ॥
 ततः प्रमुदितास्सर्वे दृष्ट्वा तं नागरा द्विजम् ।
[२७८]प्रवेश्यमानं सत्कृत्य नरेन्द्रेणेन्द्रकर्मणा ॥ २७ ॥

 द्विजमिति । ऋश्यशृङ्गमिति यावत् । प्रवेश्यमानं सत्कृत्येति । नगरालङ्कारचतुरङ्गबलोपेता[२७९]भ्युत्थानादिनेति शेषः । इन्द्रसहायार्थं कर्म यस्य स तथा; एतेन राज्ञस्समग्रमहिमा सूचितः ॥ २८ ॥

 अन्तःपुरं प्रवेश्यैनं पूजां कृत्वा विधानतः ।
 कृतकृत्यं तदाऽऽत्मानं मेने तस्योपवाहनात् ॥ २९ ॥

 उपवाहनात्-स्वसमीपानयनात् ॥ २९ ॥


 अन्तःपुरस्त्रियस्सर्वाः शान्तां दृष्ट्वा तथाऽऽगताम् ।
 सह भर्त्रा विशालाक्षीं प्रीत्याऽऽनन्दमुपागमन् ॥ ३० ॥
 पूज्यमाना च ताभिस्सा राज्ञा चैव विशेषतः ।
 उवास तत्र सुखिता कञ्चित्कालं [२८०]सहद्विजा ॥ ३१ ॥

इत्यार्षे श्रीमद्रामायणे बालकाण्डे एकादशः सर्गः

 सहद्विजेति । सहभर्तृकेति यावत् ॥ ३१ ॥

इति श्रीमद्रामायणामृतकतकटीकायां बालकाण्डे एकादशः सर्गः

अथ द्वादशः सर्गः

[अश्वमेधसंभारः]

 ततः काले बहुतिथे कस्मिंश्चित् सुमनोहरे ।
 वसन्ते समनुप्राप्ते राज्ञो यष्टुं मनोऽभवत् ॥ १ ॥

 एवमानीतादृश्यशृङ्गात् पुत्रप्राप्तौ निश्चितायां तस्याश्च तदसाधारणफलकपुत्रकामेष्टिसाध्यत्वात्तत्फलस्य च पापप्रतिबन्धे प्रतिबन्धस्यावश्यकत्वात् "सर्वं पाप्मानं तरति तरति ब्रह्महत्यां योऽश्वमेधेन यजते इति श्रुतेः सार्वभौमाधिकारिकाश्वमेधेनैव तस्य सार्वभौमस्य सर्वपापनिवृत्तेस्साध्यत्वात् ऋश्यराङ्गप्रसङ्गात् प्रागेव च सामान्यतस्तत्तत्प्रकृतेस्संक्षिप्तत्वाच्च प्रथमं प्रथमसङ्कल्पिताश्वमेधेन यजनप्रवृत्तिः इत्यादि । बहुतिथे-बहूनां पूरणो बहुतिथः । 'तस्य पूरणे' इति डट्, तस्मिन् परे 'बहुपूगण' इत्यादिनाङ्गस्य तिथुगागमः ; बहुकाल इति यावत् । अतीत इति शेषः । कस्मिंश्चिद्वसन्त इति योजना ॥ १ ॥


 ततः प्रसाद्य शिरसा तं विनं देववर्णिनम् ।
 यज्ञाय वरयामास सन्तानार्थं कुलस्य वै ॥ २ ॥

 देववर्णिनं-देवतेजसम् । सन्तानार्थं यज्ञायेति । सन्तानप्रयोजनमुद्दिश्य तच्छेषतया अश्वमेधयज्ञार्थमित्यर्थः ॥ २ ॥

 तथेति च स राजानमुवाच च सुसत्कृतः ।
 [२८१]सम्भारास्सम्भ्रियन्तां ते तुरगश्च विमुच्यताम् ॥ ३ ॥
 ततो राजाऽब्रवीत् [२८२]सूतं ब्राह्मणान् वेदपारगान् ।
 सुमन्त्रावाहय क्षिप्रमृत्विजो ब्रह्मवादिनः ॥ ४ ॥

 ततो राजा सूतमब्रवीत् । किमब्रवीदित्यतः-ब्राह्मणेत्यादि । हे सुमन्त्र, ब्राह्मणान् वेदपारगान् ऋत्विगादींश्च आवाहयेति ॥ ४ ॥

 सुयज्ञं वामदेवं च जावालिमथ काश्यपम् ।
 पुरोहितं वसिष्ठं च ये चाप्यन्ये द्विजातयः ॥ ५ ॥
 ततस्सुमन्त्रस्त्वरितं गत्वा त्वरितविक्रमः ।
 समानयत् स तान् सर्वान् समर्थान् वेदपारगान् ॥ ६ ॥

 ततः सुमन्त्र इत्यादिर्गतार्थः ॥ ६ ॥

 तान् पूजयित्वा धर्मात्मा राजा दशरथस्तदा ।
 धर्मार्थसहितं युक्तं श्लक्ष्णं वचनमब्रवीत् ॥ ७ ॥
 मम लालप्यमानस्य पुत्रार्थं नास्ति वै सुखम् ।
 तदर्थं हयमेधेन यक्ष्यामीति मतिर्मम ॥ ८ ॥


 तदहं यष्टुमिच्छामि शास्त्रदृष्टेन कर्मणा ।
 ऋषिपुत्रप्रभावेन कामान् प्राप्स्यामि चाप्यहम् ॥ ९ ॥
 ततस्साध्विति तद्वाक्यं ब्राह्मणाः प्रत्यपूजयन् ।
 वसिष्ठप्रमुखास्सर्वे पार्थिवस्य मुखाच्चयुतम् ॥ १० ॥
 ऋष्यशृङ्गपुरोगाश्च प्रत्यूचुर्नृपतिं तदा ।
 [२८३]सम्भारास्सम्भ्रियन्तां ते तुरगश्च विमुच्यताम् ॥ ११ ॥
 सर्वथा प्राप्स्यसे पुत्रांश्चतुरोऽमितविक्रमान् ।
 यस्य ते धार्मिकी बुद्धिरियं पुत्रार्थमागता ॥ १२ ॥
 ततः प्रीतोऽभवद्राजा श्रुत्वा तु द्विजभाषितम् ।
 अमात्यांश्चाब्रवीद्राजा हर्षेणेदं शुभाक्षरम् ॥ १३ ॥
 गुरूणां वचनाच्छीघ्रं सम्भारास्सम्भ्रियन्तु मे ।
 समर्थाधिष्ठितश्चाश्वस्सोपाध्यायो विमुच्यताम् ॥ १४ ॥

 सम्भ्रियन्तु-सम्भारोपस्थानं कुर्वन्तु । छान्दसं परस्मैपदम् ॥ १४ ॥

 सरय्वाश्चोत्तरे तीरे यज्ञभूमिर्विधीयताम् ।
 शान्तयश्चाभिवर्धन्तां यथाकल्पं यथाविधि ॥ १५ ॥
 शक्यः कर्तुमयं यज्ञः सर्वेणापि महीक्षिता ।
 नापराधो भवेत्कष्टो यद्यस्मिन् ऋतुसत्तमे ॥ १६ ॥
 छिद्रं हि मृगयन्तेऽत्र विद्वांसो ब्रह्मराक्षसाः ।
 विघ्नितस्य हि यज्ञस्य सद्यः कर्ता विनश्यति ॥ १७ ॥
 तद्यथा विधिपूर्वं मे क्रतुरेष समाप्यते ।
 तथा विधानं क्रियतां समर्थाः करणेष्विह ॥ १८ ॥
 तथेति च ततस्सर्वे मन्त्रिणः प्रत्यपूजयन् ।
 पार्थिवेन्द्रस्य तद्वाक्यं यथाऽऽज्ञप्तमकुर्वत ॥ १९ ॥


 ततो द्विजास्ते धर्मज्ञमस्तुवन् पार्थिवर्षभम् ।
 अनुज्ञातास्ततः सर्वे पुनर्जग्मुर्यथागतम् ॥ २० ॥
 [२८४]गतानां तु द्विजातीनां मन्त्रिणस्तान्नराधिपः ॥
 विसर्जयित्वा स्वं वेश्म प्रविवेश महाद्युतिः ॥ २१ ॥

इत्यार्षे श्रीमद्रामायणे बालकाण्डे द्वादशः सर्गः

 गतानामित्यादि । गतेषु द्विजातिष्विति यावत् । संवत्सरान्ते यागार्थं अश्वं विसर्जयित्वेति शेषः । 'षष्ठी चानादरे' इति भावलक्षणमात्रेऽपि छन्दसि षष्ठी । तथाऽन्यत्रापि ॥ २१ ॥

इति श्रीमद्रामायणामृतकतकटीकायां बालकाण्डे द्वादशः सर्गः


अथ त्रयोदशः सर्गः

[अश्वमेधदीक्षा]

 पुनः प्राप्ते वसन्ते तु पूर्णस्संवत्सरोऽभवत् ।
 प्रसवार्थं गतो यष्टुं हयमेधेन वीर्यवान् ॥ १ ॥

 अथ 'संवत्सरान्ते दीक्षेत' इति सूत्रात् पूर्ववसन्तविसृष्टाश्वस्य पुनः संवत्सरान्ते प्राप्ते दीक्षादिप्रवृत्तिरुपदिश्यते-पुनरित्यादि । पूर्णस्संवत्सरोऽभवदिति । पूर्ववसन्ते ऋत्विजो वरित्वा 'इह धृतिस्स्वाहेहविधृतिस्स्वाहेह रन्तिस्स्वाहेह चतुर्षु पत्सु जुहोति' इति विहरन्तीकर्मानुष्ठानपूर्वं 'भूरसि भुवे त्वा भव्याय त्वा भविष्यतेत्युत्सृजति सर्वत्वाय' इति विसृष्टाश्वस्येति शेषः । प्रसवार्थमित्यादि । 'प्रजापतये त्वा जुष्टं प्रोक्षामि प्रजापतिं वा एष ईप्सतीत्याहुः योऽश्वमेधेन यजते'


इति श्रुतेः अश्वमेधस्य प्राजापत्यत्वःत् पुत्रकामेष्ट्याश्च प्रजापतिदेवताकत्वात् प्रसवफलपाश्चात्ययागफलसिद्धिशेषतया भगवन्तं प्रजापतिं स्वाभिलषितं पुत्रं प्रदास्यन्तं हयमेधेन यष्टुं पुरोहितस्य वसिष्ठस्यान्तिकं गत इत्यर्थः ॥ १ ॥

 अभिवाद्य वसिष्ठं च न्यायतः प्रतिपूज्य च ।
 अब्रवीत् प्रश्रितं वाक्यं प्रसवार्थं द्विजोत्तमम् ॥ २ ॥

 वसिष्ठं चेति चकारात् अरुन्धतीं चेत्यर्थः । प्रतिपूज्येति-उपदाविशेषैरिति शेषः । द्विजोत्तमं वाक्यमब्रवीदिति द्विकर्मकत्वात् ॥ २ ॥

 यज्ञो मे क्रियतां विप्र ! यथोक्तं मुनिपुङ्गव !
 यथा न विघ्नः क्रियते यज्ञाङ्गेषु विधीयताम् ॥ ३ ॥

 यज्ञांगेषु-अश्वादिष्विति यावत् ॥ ३ ॥

 भवान् स्निग्धस्सुहन्मह्यं गुरुश्च परमो महान् ।
 वोढव्यो भवता चैव भारो यज्ञस्य चोद्यतः ॥ ४ ॥

 स्निग्धस्सुहृदिति । सुहृदः स्निग्धत्वाव्यभिचारात् साधीयस्त्वं स्नेहस्य गम्यते । वोढव्यो भवतेति । प्राप्तकाले कृत्यप्रत्ययः, 'कृत्यानां कर्तरि वा' इति पाक्षिकी कर्तरि तृतीया । उद्यतः । विसृष्ट्वा पुनः प्राप्ताश्वकत्वात् प्राप्तोद्योगकाल इत्यर्थः ॥ ४ ॥

 तथेति च स राजानमब्रवीत् द्विजसत्तमः ।
 करिष्ये सर्वमेवैतत् भवता यत्समर्थितम् ॥ ५ ॥

 समर्थितमिति-सम्यक् प्रार्थितमिति यावत् ॥ ५ ॥

 ततोऽब्रवीत् द्विजान् वृद्धान् यज्ञकर्मसु निष्ठितान् ।
 स्थापत्ये निष्ठितांश्चैव वृद्धान् परमधार्मिकान् ॥ ६ ॥

 स्थापत्ये-स्थपतिः-रथकारः, तस्य भावः कर्म वा स्थापत्यम्, तत्र निष्ठिताः । कर्मप्रतिपादकमधमत्यादिशास्त्रे निष्ठिता इति यावत् ॥

 कर्मान्तिकान् शिल्पकरानू वर्धकीन् खनकानपि ।
 गणकान् शिल्पिनश्चैव तथैव नटनर्तकान् ॥ ७ ॥

 कर्मणामन्तः-समाप्तिर्यैस्ते तथा, 'अत इनि ठनौ' इति ठन्, भृतकानिति यावत् । शिल्पं-चित्रादि । वर्धकीन्-सामान्यतक्षाशिल्पिनश्चर्मकारादयः । नटनर्तकानिति । सूत्रधारा नृत्तकर्तारश्चेत्यर्थः ॥

 तथा शुचीन् शास्त्रविदः पुरुषान् सुबहुश्रुतान् ।
 यज्ञकर्म समीहन्तां भवन्तो राजशासनात् ॥ ८ ॥

 समीहन्तामिति । अब्रवीदिति पूर्वेणान्वयः ॥ ८ ॥

 इष्टका बहुसाहस्री शीघ्रमानीयतामिति ।
 औपकार्याः क्रियन्तां च राज्ञां बहुगुणान्विताः ॥ ९॥

 इष्टकेति जात्या । बहुसाहस्री-बहुसहस्रसङ्ख्येया | उपकार्याराजसद्म, 'सौधोऽस्त्री राजसदनमुपकार्योपकारिका' इति निघण्टुः । स्वार्थिकोऽण् । बहुगुणान्विताः-बह्वन्नपानाद्युपकरणयुक्ताः ॥ ९ ॥

 ब्राह्मणावसथाश्चैव कर्तव्याः शतशः शुभाः ।
 भक्ष्यान्नपानैर्बहुभिः समुपेताः सुनिष्ठिताः ॥ १० ॥

 सुनिष्ठिताः-महावातवर्षादिनिवारणक्षमतया सुप्रतिष्ठिताः ॥ १० ॥

 [२८५]तथा पौरजनस्यापि कर्तव्या बहुविस्तराः ।
 आवासा बहुभक्ष्या वै सर्वकामैरुपस्थिताः ॥ ११ ॥
 तथा जानपदस्यापि जनस्य बहुशोभनम् ।
 दातव्यमन्त्रं विधिवत् सत्कृत्य न तु लीलया ॥ १२ ॥

 सत्कृत्य देयम्-परलोकप्रयोजनबुद्ध्या देयम् । न तु लीलयेति । केवलमुत्सवमात्रबुद्ध्येत्यर्थः ॥ १२ ॥

 सर्ववर्णा यथा पूजां प्राप्नुवन्ति सुसंस्कृताः ।
 न चावज्ञा प्रयोक्तव्या कामक्रोधवशादपि ॥ १३ ॥
 यज्ञकर्माणि ये व्यग्राः पुरुषाः शिल्पिनस्तथा ।
 तेषामपि विशेषेण पूजा कार्या यथाक्रमम् ॥ १४ ॥
 ते च स्युः सम्भृताः सर्वे वसुभिर्भोजनेन च ।

 विशेषेणापि पूजा कार्येति । विशिष्टताम्बूलचन्दनसुवस्त्रादिदानेनेति शेषः । यथाक्रममिति । ज्येष्ठानुक्रमेणेत्यर्थः । सर्वे ते चेत्यादि । सर्वे भृतकाः । वसु-धनम् । वस्वादिभिर्यथा सम्भृतास्स्युस्तथा कार्यम् ॥

 यथा सर्वं सुविहितं न किञ्चित्परिहीयते ॥ १५ ॥
 तथा भवन्तः कुर्वन्तु प्रीतिस्निग्धेन चेतसा ।

 सर्वमिति । उक्तोपकरणजातमिति यावत् ॥ १५ ॥

 ततस्सर्वे समागम्य वसिष्ठमिदमब्रुवन् ॥ १६ ॥
 यथोक्तं तत्सुविहितं न किञ्चित्परिहीयते ।
 यथोक्तं तत्करिष्यामो न किञ्चित्परिहास्यते ॥ १७ ॥


 यथोक्तं तत्सुविहितम्, अतः परं यदुक्तं भविष्यति तच्च यथोक्तं करिष्यामः ॥ १७ ॥

 ततः सुमन्त्रमानीय वसिष्ठो वाक्यमब्रवीत् ।
 निमन्त्रयस्व नृपतीन् पृथिव्यां ये च धार्मिकाः ॥ १८ ॥

 तत इति । द्विजातिनियोजनानन्तरमित्यर्थः ॥ १८ ॥

 ब्राह्मणान् क्षत्रियान् वैश्यान् शूद्रांश्चैव सहस्रशः ।
 समानयस्व सत्कृत्य सर्वदेशेषु मानवान् ॥ १९ ॥

 सर्वदेशेष्विति । स्थितानिति शेषः ॥ १९ ॥

 मिथिलाधिपतिं शूरं जनकं सत्यविक्रमम् ।
 निष्ठितं सर्वशास्त्रेषु तथा वेदेषु निष्ठितम् ॥ २० ॥
 तमानय महाभागं स्वयमेव सुसत्कृतम् ।
 [२८६]पूर्वसम्बन्धिनं ज्ञात्वा ततः पूर्वं ब्रवीमि ते ॥ २१ ॥

 वेदेषु निष्ठितं स्वयमेवेति । [२८७]न तु मनुष्यमुखेन । कुत एवं विशेषः? कुतश्च तदानयनस्य प्रथममुपदेशः ? इत्यतः–पूर्वेत्यादि । पूर्वकालमारभ्यैवास्मद्राज्ञा यौतादिसर्वसम्बन्धवानिति ज्ञत्वा तत एव हेतोः पूर्वं तस्यानयनं ते ब्रवीमि ॥ २१ ॥

 तथा काशीपतिं स्निग्धं सततं प्रियवादिनम् ।
 वयस्यं राजसिह्नस्य स्वयमेवानयस्व ह ॥ २२ ॥


 तथा केकयराजानं वृद्धं परमधार्मिकम् ।
 श्वशुरं राजसिह्मस्य सपुत्रं त्वमिहानय ॥ २३ ॥

 केकयराजानमिति । समासान्तस्यानित्यात्वाट्टजभावः ॥ २३ ॥

 अङ्गेश्वरं महाभागं रोमपादं [२८८]समीपगम् ।
 [२८९]वयस्यं राजसिह्मस्य समानय यशस्विनम् ॥ २४ ॥

 समीपगतमिति । आसन्नदेशवर्तिनमिति यावत् ॥ २४ ॥

 प्राचीनान् सिन्धुसौवीरान् सौराष्ट्रेयांश्च पार्थिवान् ।
 दाक्षिणात्यान्नरेन्द्रांश्च समस्तानानयस्व ह ॥ २५ ॥

 प्राचीनान् । 'विभाषाञ्चेः' इति स्वार्थे खः । प्राग्देशवर्तिन इति यावत् । सिन्धौ सौवीरे सौराष्ट्रे च भवाः, ढ आर्षः । सिन्धुसौवीरसौराष्ट्रेयान् ॥ २५ ॥

 सन्ति स्विग्धाश्च ये चान्ये राजानः पृथिवीतले ।
 [२९०]तानानय यथाक्षिप्रं सानुगान् सहबान्धवान् ॥ २६ ॥
 वसिष्ठवाक्यं तच्छ्रुत्वा सुमन्त्रस्त्वरितस्तदा ।
 व्यादिशत् पुरुषांस्तत्र राज्ञामानयने शुभान् ॥ २७ ॥
 स्वयमेव हि धर्मात्मा प्रययौ मुनिशासनात् ।
 सुमन्त्रस्त्वरितो भूत्वा समानेतुं महीक्षितः ॥ २८ ॥

 स्वयन्तु त्वरितो भूत्वा समानेतुमिति । वसिष्ठेन विशिष्योक्तानिति शेषः ॥ २८ ॥


 ते च कर्मान्तिकाः सर्वे वसिष्ठाय च धीमते ।
 सर्वं निवेदयन्ति स्म यज्ञे यदुपकल्पितम् ॥ २९ ॥

 ते चेति । पूर्वनियुक्ता इत्यर्थः । यज्ञ इति [२९१]निमित्तसप्तमी ॥ २९॥

 [२९२]ततः प्रीतो द्विजश्रेष्ठस्तान् सर्वान् पुनरब्रवीत् ।
 अवज्ञया न दातव्यं कस्यचिल्लीलयाऽपि वा ॥ ३० ॥
 अवज्ञया कृतं हन्यात् दातारं नात्र संशयः ।

 अवश्यशिक्षणीयांश पुनश्च शिक्षयति-अवज्ञयेत्यादि । कुत एवमिहातिवर्तत इत्यत्र-अवश्येत्यादि ॥ ३० ॥

 ततः कैश्चिदहोरात्रैरुपयाता महीक्षितः ॥ ३१ ॥
 बहूनि रत्नान्यादाय राज्ञो दशरथस्य हि ।

 तत इति । सुमन्त्रगमनानन्तरमित्यर्थः । रत्नानीति । मणिमुक्तादिरत्नविचित्राभरणाम्बरचन्दनकुङ्कुमकर्पूराद्युत्तमवस्तूनीत्यर्थः ॥ ३१ ॥

 ततो वसिष्ठस्सुप्रीतो राजानमिदमब्रवीत् ॥ ३२ ॥
 उपयाता नरव्याघ्र ! राजानस्तव शासनात्
 मया च संकृताः सर्वे यथार्ह राजसत्तमाः ॥ ३३ ॥
 यज्ञियं च कृतं राजन् ! पुरुषैः सुसमाहितैः

 यज्ञियमिति । यज्ञमर्हति, 'यज्ञर्त्विग्भ्यां घखञौ 'इति घः । यज्ञाय यस्सम्पाद्यं तत्सर्वं सम्पादितमित्यर्थः ॥ ३३ ॥


 निर्यातु च भवान् यष्टुं यज्ञायतनमन्तिकात् ॥ ३४ ॥
 सर्वकामैरुपहृतैरुपेतं वै समन्ततः ।
 द्रष्टुमर्हसि राजेन्द्र मनसेव विनिर्मितम् ॥ ३५ ॥

 अन्तिकादिति । 'दूरान्तिकार्थेभ्यो द्वितीया च' इति चकारेण पञ्चमीसमुच्चयः, अन्तिकेन वर्तमानं यज्ञायतनं-शालामित्यर्थः । मनसेवेति क्षिप्रसिद्धत्वे उपकरणसौष्ठवे च दृष्टान्तः ॥ ३५ ॥

 [२९३]तथा वसिष्ठवचनादृश्यशृङ्गस्य चोभयोः ।
 शुभे दिवसनक्षत्रे निर्यातो जगतीपतिः ॥ ३६ ॥
 ततो वसिष्ठप्रमुखाः सर्व एव द्विजोत्तमाः ।
 ऋश्यशृङ्गं पुरस्कृत्य यज्ञकर्मारभंस्तदा ॥ ३७ ॥
 यज्ञवाटगतास्सर्वे यथाशास्त्रं यथाविधि ।
 श्रीमांश्च सहपत्नीभी राजा दीक्षामुपाविशत् ॥ ३८ ॥

इत्यार्षे श्रीमद्रामायणे बालकाण्डे त्रयोदशः सर्गः

 आरभत्रिति छान्दसः । यज्ञवाटगतास्सर्वे यजमानर्त्विगादयः स्वीयं स्वीयं यज्ञकर्म यथाविधि यथाकल्पसूत्रं यथाशास्त्रं, शास्त्रं-मीमांसा, तच्चानतिक्रम्यारभन्तेत्यर्थः । जाल (३८) मानः सर्गः ॥ ३८ ॥

इति श्रीमद्रामायणामृतकतकटीकायां बालकाण्डे त्रयोदशः सर्गः


अथ चतुर्दशः सर्गः

[अश्वमेधः]

 अथ संवत्सरे पूर्णे तस्मिन् प्राप्ते तुरङ्गमे ।
 सरय्वाश्रोत्तरे तीरे राज्ञो यज्ञोऽभ्यवर्तत ॥ १ ॥

 एवं वसन्तोत्सृष्टाश्वत्वात् पुनर्वसन्तप्रवृत्तिकाले तन्मेदःपुरोडाशेन [२९४]यागाय सम्भारसम्भरणादिशाला प्रवेशनान्तकर्माणि प्रवृत्ते वसन्तान्तरे संवत्सरपूर्तौ [२९५]मेध्ये तुरङ्गे सदः प्राप्ते सति पश्चाद्यथाविधि यज्ञप्रवृत्युपदेशः, काव्यलक्षणत्वाच्च यज्ञवर्णनम्-अथेत्यादि । संवत्सरे पूर्णे इति । त्रिंशद्दिनात्मकसावनमासपरिच्छिन्नोऽत्र संवत्सरो भवतीति सूत्रात् ॥ १ ॥

 ऋश्यशृङ्गं पुरस्कृत्य कर्म चक्रुर्द्विजर्षभाः ।
 अश्वमेधे महायज्ञे राज्ञोऽस्य सुमहात्मनः ॥ २ ॥

 ऋश्यशृङ्गं पुरस्कृत्येति । अनेन प्रधानार्त्विज्यं ब्रह्मत्वं च तस्येति गम्यते ॥ २ ॥

 कर्म कुर्वन्ति विधिवत् याजका वेदपारगाः ।
 यथाविधि यथान्यायं परिक्रामन्ति शास्त्रतः ॥ ३ ॥

 यथाविधीति। विधिः–वेदः साक्षात् ; विप्रकीर्णतया वेदविहितार्थस्य प्रयोगानुकूलतया साकल्यविधिः कल्पसूत्रं-शास्त्रम् ; तत्प्रतिपाद्यार्थस्यैव पूवोत्तरपक्षप्रवर्तनेन स्थिरीकारिका पूर्वमीमांसा-न्यायः, [२९६]तदनतिक्रम्येति यावत् । शास्त्रतः परिक्रामन्तीति । अमुकर्त्विजि अमुकं कुर्वाणे तस्मिन्नेव काले अनेनर्त्विजेदं कर्तव्यमित्यादि तच्छास्त्रतः प्रतिपाद्यमानं स्वस्वकर्मकालमविस्मृत्य परिकामन्ति-प्रवर्तन्त इत्यर्थः ॥ ३ ॥


 प्रवर्ग्यं शास्त्रतः कृत्वा तथैवोपसदं द्विजाः ।
 चक्रुश्च विधिवत्सर्वमधिकं कर्म शास्त्रतः ॥ ४ ॥

 उपसदं । यागविशेषप्राप्तमिष्टिविशेषम् । अधिकमिति । प्रकृत्युपदिष्टांगानुमितौ तत्तद्विकृत्यपेक्षातो विशेषोऽधिकं कर्म ॥ ४ ॥

 अभिपूज्य ततो दृष्टाः सर्वे चक्रुर्यथाविधि ।
 प्रातस्सवनपूर्वाणि कर्माणि मुनिपुङ्गवः ॥ ५ ॥

 अभिपूज्येति । तत्तत्कर्मभिः पूजनीयां देवतामिति शेषः । अस्यैव प्रपञ्चः-प्रातस्सवनेत्यादि ॥ ५ ॥

 ऐन्द्रश्च विधिवद्दत्तो राजा चाभिष्टुतोऽनघः ।
 माध्यान्दिनं च सवनं प्रावर्तत यथाक्रमम् ॥ ६ ॥

 ऐन्द्रं चेति । इन्द्रदेवताकहविर्विशेषः । राजा-सोमलता । अभिष्टुतः, ग्रावभिस्संक्षुद्य सारनिस्सारणमभिषवः ॥ ६ ॥

 तृतीयतवनं चैव राज्ञोऽस्य सुमहात्मनः ।
 [२९७]चक्रुस्ते शास्त्रतो दृष्ट्वा तथा ब्राह्मणपुङ्गवाः ॥ ७ ॥
 नचाहुतमभूत्तत्र स्खलितं वाऽपि किं च न ।
 दृश्यते ब्रह्मवत्सर्वं क्षेमयुक्तं हि चक्रिरे ॥ १० ॥

 अहुतमिति । अन्यथा हुतमित्यर्थः । स्खलितं-अज्ञानतः कस्यचित्कर्मणस्त्यागः । ब्रह्मवत्-मन्त्रवत् । क्षेमः-विध्यपराधराहित्यम् ॥ १० ॥


 न तेष्वहस्सु श्रान्तो वा क्षुधितो वापि दृश्यते ।
 नाविद्वान् ब्राह्मणस्तत्र नाशतानुचरस्तथा ॥ ९ ॥

 श्रान्तः-स्वार्त्विज्याशक्तः । तत्र-तद्यज्ञर्त्विक्षु । शतं अनुचराः न विद्यन्ते यस्य स तथा ॥ ९ ॥

 ब्राह्मणा भुञ्जते नित्यं नाथवन्तश्च भुञ्जते ।
 तापसा भुञ्जते चापि श्रमणा भुञ्जते तथा ॥ १० ॥

 नाथवन्तः-दासाः-शूद्रा इति यावत् । तापसाः-शैवमार्गगाः[२९८] शुद्राः । श्रमणाः--त्यक्तपुत्र [२९९]भृत्यादिसंसाराः काषायाम्बराः शूद्रविशेषाः ॥ १० ॥

 वृद्धाश्च व्याधिताश्चैव स्त्रियो बालास्तथैव च ।
 अनिशं भुञ्जमानानां न तृप्तिरुपलभ्यते ॥ ११ ॥

 व्याधिताः-संजातव्याधयः । स्त्रिय इति-आकुलस्त्रियः । न तृप्तिरुपलभ्यत इति । भोजनसौष्ठवाददरपूर्तावपि मानसी तृप्तिर्नोपलभ्यते । वतोदरं पूर्णं ! एवं भक्ष्यमेवं भोज्यमेवं धनक्षीरशर्कराम्रकदस्यादि, न शक्नुमो भोक्तुं, किं कुर्म इति ॥ ११ ॥

 दीयतां दीयतामन्नं वासांसि विविधानि च ।
 इति सञ्चोदितास्तत्र तथा चक्रुरनेकशः ॥ १२ ॥

 तथा चक्रुरिति । दत्तवन्त इति यावत् ॥ १२ ॥

 अन्नकूटाश्च बहवो दृश्यन्ते पर्वतोपमाः ।
 दिवसे दिवसे तत्र सिद्धस्य विधिवत्तदा ॥ १३ ॥


 सिद्धस्येति । पक्वस्येति यावत् । इदमन्नकूटा इत्यन्नविशेषणम् । [३००]अन्नेति लुप्तषष्ठीकमार्षम् । अन्नस्य कूटा इति यावत् ॥ १३ ॥

 नानादेशादनुप्राप्ताः पुरुषाः स्त्रीगणास्तथा ।
 अन्नपानैस्सुविहितास्तस्मिन् यज्ञे महात्मनः ॥ १४ ॥
 सुविहिता इति । सुविहिततृप्तिका इति यावत् ॥ १४ ॥
 अन्नं हि विधिवत्स्वादु प्रशंसन्ति द्विजर्षभाः ।
 अहो तृप्ताः स्म भद्रं त इति शुश्राव राघवः ॥ १५ ॥
 स्वलङ्कृताश्च पुरुषा ब्राह्मणान् पर्यवेषयन् ।
 उपासते च तानन्ये सुमृष्टमणिकुण्डलाः ॥ १६ ॥

 ब्राह्मणपरिवेषणस्य पुरुषकर्तृत्वं भोक्तृबहुत्वेन स्त्र्यसाध्यत्वात् । स्वलङ्कृता इत्यनेन शुचित्वं प्रदर्शितम् । सुमृष्टमणिकुण्डला इत्यनेन यज्ञपरिचारकसत्कारवैभवो राजकृतः प्रकाश्यते । तानिति । परिवेषयितृृनिति यावत् । अन्य इति । तत्सहायभूता हति यावत् । सुमृष्टं-उत्तेजितं–मणिखचितं कुण्डलं–कर्णाभरणविशेषो येषां ते तथा ॥ १६ ॥

 कर्मान्तरे तदा विप्रा हेतुवादान् बहूनपि ।
 प्राहुः स्म वाग्मिनो धीराः परस्परजिगीषया ॥ १७ ॥

 कर्मान्तरे–एकं सवनं समाप्य पुनस्सवनान्तरारम्भकालागमात् पूर्वस्मिन्नन्तरालकाले । हेतूपन्यासविशेषैः परस्परविजिगीषार्थाः वादाः ॥ १७ ॥

 दिवसे दिवसे तत्र संस्तरे कुशला द्विजाः ।
 सर्वकर्माणि चक्रुस्ते यथाशास्त्रं प्रचोदिताः ॥ १८ ॥


 तथा तत्र संस्तरे-तस्मिन्यज्ञे । 'संस्तरौ प्रस्तराध्वरौ'[३०१]। प्रचोदिता इति । शास्त्रीयब्रूहिप्रेष्यादिशब्दैरिति शेषः ॥ १८ ॥

 नाषडङ्गविदत्रासीन्नाव्रतो नाबहुश्रुतः ।
 सदस्यास्तस्य वै राज्ञो नावादकुशला द्विजाः ॥ १९ ॥

 सदस्याः–"सदस्या विधिदर्शिनः" इति निघण्टुः ॥ १९ ॥

 प्राप्ते यूपोच्छ्रये तस्मिन् षड् बैल्वाः खादिरास्तथा ।
 तावन्तो बिल्वसहिताः पर्णिनश्च तथापरे ॥ २० ॥

 यूपोच्छ्रये-यूपोत्क्षेपणप्रैषकाल इति यावत् । बैल्वा इति-'तस्य विकारः' इत्यधिक रे 'बिल्वादिभ्योऽण्' इत्यण् । तावन्त इति । षडिति यावत् । अपि त्वेषां विशेषः-बिल्वसहिता इति । बिल्वयूपसमीपे स्वावस्थानवन्तः, प्रयोगेऽयं विशेषः । पर्णिनः–पर्णः-पलाशः;"पलाशे किंशुकः पर्णः"-पर्णः प्रकृतिभूतो येषां यूपानामिति पर्णिनः । तथेति । षट्सङ्ख्याका इति यावत् ॥ २० ॥

 श्लेष्मातकमयो दिष्टो देवदारुमयस्तथा
 द्वावेव तत्र विहितौ बाहुव्यस्तपरिग्रहौ ॥ २१ ॥

 श्लेष्मातकः–राज्जुदालपर्यायः । न च [३०२]विभ्वेकत्वं विवक्षितम् । दिष्टः-सन्दिष्टः–उपदिष्ट इति यावत् । तथा देवदारुमयोऽप्यस्ति यूपः, अपि तु नायमेकः, नापि षट्, अपि तु तत्र यज्ञे द्वावेव देवदारुयूपौ विहितौ । अपि च बाहुव्यस्तपरिग्रहौ । [३०३]आहिताग्न्यादि । व्यस्तबाहुभ्यां-प्रसारितभुजाभ्यां तावदायामेन परिग्रहः–स्वीकारो


ययोस्तौ तथा । "एवं च राज्जुदालमनिष्ठं मिनोति" इत्यनुवाकोपदिष्टा एकविंशतियूपा इहोक्ताः ।

"पौतुद्रवावभितो भवतः" इति श्रुतेः राज्जुदालयूपस्योभयपार्श्वतो देवदारुयूपौ भवतः । तत्रैकपार्श्ववर्तिदेवदारुयूपस्य दक्षिणतः उत्तरतश्च द्विषा विभक्तबिल्वयूपत्रिकयोस्स्थापनं । तथा तत्पार्श्ववर्तिदेवदारुयूपस्य दक्षिणोत्तरयोः खादिरत्रिकयोः । पलाशयूपास्त्वन्यत्र । एवं च प्रागुक्तबिल्वसमीपवर्तित्वधर्मः खादिरयूपानां सिद्धः । यथोक्तरूपतया बैल्वादियूपस्थापनं सूत्रात् 'त्रयो बैल्वा दक्षिणतस्त्रय उत्तरतः, त्रयः खादिरा दक्षिणतस्त्रय उत्तरतः' इति ॥ २१ ॥

 कारितास्सर्व एवैते शास्त्रज्ञैर्यज्ञकोविदैः ।
 शोभार्थं तस्य यज्ञस्य काञ्चनालङ्कृता भवन् ॥ २२ ॥

 शास्त्रज्ञैरिति । शिल्पशास्त्रज्ञैश्चेत्यर्थः । काञ्चनालङ्कृता भवन्निति । अभवन्निति यावत् । 'बहुलं छन्दस्यमाङ्योगेऽपि' इत्यडभावः ॥२२॥

 एकविंशतियूपास्ते एकविंशत्यरत्नयः ।
 वासोभिरेकविंशद्भिरेकैकं समलङ्कृताः ॥ २३

 'चतुर्विंशत्यङ्गुलयोऽरत्निः' इति सूत्रम् ॥ २३ ॥

 विन्यस्ता विधिवत्सर्वे शिल्पिभिस्सुकृता दृढाः ।
 अष्टाश्रयः सर्व एव श्लक्ष्णरूपसमन्विताः ॥ २४ ॥

 अश्रयः–कोटयः । श्लक्ष्णः—[३०४] तक्षणसामर्थ्येन श्लक्ष्णेन-श्लक्ष्णस्पर्शवता रूपेण-स्वरूपेण समन्विताः ॥ २४ ॥


 आच्छादितास्ते वासोभिः पुष्पैर्गन्धैश्च पूजिताः ।
 सप्तर्षयो दीप्तिमन्तो विराजन्ते यथा दिवि ॥ २५ ॥

 यथा विराजन्ते तथा व्यराजन्तेत्यनुकर्षः ॥ २५ ॥

 इष्टकाश्च यथान्यायं कारिताश्च प्रमाणतः ।
 चितोऽग्निर्ब्राह्मणैस्तत्र कुशलैः शुल्बकर्मणि ॥ २६ ॥

 यथान्यायमिति । अर्धेष्टकामण्डलेष्टकादयश्च यथा चेत् न्यायात्-सूत्रादनपेता भवन्ति तथेत्यर्थः । कारिता इति । शिल्पविद्भिरिति शेषः । अग्निरिति श्रौतमिष्टकानां नाम । शुल्बकर्मणि कुशलैः ब्राह्मणैरग्निश्चितः-कृतचयनः ॥ २६ ॥

 स चित्यो राजसिंहस्य सञ्चितः कुशलैर्द्विजैः ।
 गरुडो रुक्मपक्षो वै त्रिगुणोऽष्टादशात्मकः ॥ २७ ॥

 एवं चित्यः-चेतव्यः चित्याग्निचित्ये च' इति निपातः । सः-अग्निः कुशलैश्चितः । कथं चित इत्यतः-गरुड इत्यादि । गरुडसंस्थानः । रुक्मपक्ष इति । 'सहस्रहिरण्यशल्कैः प्रतिदिशमग्निं प्रोक्षति' इति सूत्रात् रुक्मपक्षत्वम् । एवं पाङ्क्ते, अग्निः-अग्न्याधारभूतो देश इत्याह कश्चित् । त्रिगुणः-त्रिगुणप्रस्तारः । अत एव अष्टादशात्मकः-अष्टादशप्रस्तारात्मकः सञ्चित इत्यन्वयः । 'षट् चितयो भवन्ति' इति श्रुतेः श्येनः षट्चितिको भवति प्रकृतिः, अश्वमेधस्य तत्रैगुण्यविधानादष्टादशगुणात्मकः ॥ २७ ॥

 नियुक्तास्तत्र पशवस्तत्तदुद्दिश्य दैवतम् ।
 उरगाः पक्षिणश्चैव यथाशास्त्रं प्रचोदिताः ॥ २८ ॥

 नियुक्त इति । 'अमुष्मै त्वा जुष्टं नियुनज्मि' इति देवतोदेशेन नियुक्ताः । तदेवोक्तम्-तत्तदुद्दिश्य दैवतामति । के ते पशव इत्यतः–उरगा इत्यादि । 'इन्द्राय राज्ञे सूकरः' इत्याद्यनुवाकैस्ते प्रतिपादिताः ॥ २८ ॥

 शामित्रे तु हयस्तत्र तथा जलचराश्च ये ।
 ऋत्विग्भिस्सर्वमेवैतन्नियुक्तं शास्त्रतस्तदा ॥ २९ ॥

 तथा हयश्च शामित्रे-मरणविशसनादिकर्मणि नियुक्तं-नियतं-बद्धं ॥ २९ ॥

 पशूनां त्रिशतं तत्र यूपेषु नियतं तदा ।
 अश्वरत्नोत्तमं तत्र राज्ञो दशरथस्य च ॥ ३० ॥

 अश्वरत्नेषु-अश्वश्रेष्ठेषूत्तमः-श्रेष्ठस्तथा । नियत इत्यनुकर्षः ॥ ३० ॥

 कौसल्या तं हयं तत्र परिचर्य समन्ततः ।
 कृपाणैर्विशशासैनं त्रिभिः परमया मुदा ॥ ३१ ॥

परिचर्य-प्रोक्षणादिना संस्कृत्य । त्रिभिः कृप्राणै:-शस्त्रैः एनं-अश्वं परमया मुदा विशशास । 'महिष्योऽश्वस्यासिपथान् कल्पयन्ति' इति सूत्रम् ॥ ३१ ॥

 पतस्त्रिणा तदा सार्धं सुस्थितेन च चेतसा ।
 अवसद्रजनीमेकां कौसल्या धर्मकाम्यया ॥ ३२ ॥

 पतत्रिणा-अश्वेन, पुरा अश्वानां पतस्त्राणि सन्तीति प्रसिद्ध्या त्वेवं वादः । सुस्थितेन-स्थिरेण चेतसा उपलक्षिता सती धर्मकाम्यया ; काम्यजन्तादकारप्रत्यये टाप् ॥ ३२ ॥

 होताऽध्वर्युस्तथोद्गाता हयेन समयोजयन् ।
 महिष्या परिवृत्त्या च वावातामपरे तथा ॥ ३३ ॥

 राज्ञो भोगात् बहिष्कृता परिवृत्तिः, राज्ञो वल्लभा महिषी, भुजिष्या वावाता, महिषी परिवृत्तिभ्यां सह वावातां अपरे श्रेष्ठा होत्रादयो हयेन समयोजयन् ॥ ३३ ॥

 पतत्रिणस्तस्य वपां उद्धृत्य नियतेन्द्रियः ।
 ऋत्विक् परमसंपन्नः श्रपयामास शास्त्रतः ॥ ३४ ॥
 धूमगन्धं वपायास्तु जिघ्रति स्म नराधिपः ।
 यथाकालं यथान्यायं निर्णुदन् पापमात्मनः ॥ ३५ ॥

 वपां-चन्द्राख्यं मेदः "चन्द्रनामा मेदोऽस्ति तदुद्धरति नास्य वपा विद्यते' इति सूत्रात् । परमेण- श्रौतप्रयोगचातुर्येण सम्पन्नस्तथा । निर्णुदन् जिघ्रति स्मेति योजना ॥ ३४ ॥ ३५ ॥

 हयस्य यानि चाङ्गानि तानि सर्वाणि ब्राह्मणाः ।
 अग्नौ प्रास्यन्ति विधिवत् [३०५] सवसाः षोडशर्त्विजः ॥ ३६ ॥

 तानि सर्वाणि ब्राह्मणाः इत्यार्षं गुर्वक्षरम् । सवसाः-वसा-सहिताः ॥ ३६ ॥

 प्लक्षशाखासु यज्ञानां अन्येषां क्रियते हविः ।
 अश्वमेधस्य यज्ञस्य वैतसो भाग इष्यते ॥ ३७ ॥

 अन्येषां-अश्वमेधातिरिक्तयागानां पाशुकं हविः प्लक्षशाखासु क्रियते-निधायावदीयते । अश्वमेधस्य यज्ञस्य योऽयमाश्वो हविर्भागः स वैतसो भवति, वैतसे कटे निधायावदातव्यो भवति । वैतस इति शैषिकोऽण्, दार्षदाः सक्तव इत्यादिवत् ॥ "वैतसः कटो भवति" इति श्रुतेः ॥ ३७ ॥


 त्र्यहोऽश्वमेधः सङ्ख्यातः कल्पसूत्रेण ब्राह्मणैः ।
 [३०६]चतुष्टोममहस्तस्य प्रथमं परिकल्पितम् ॥ ३८ ॥
 उक्थ्यं द्वितीयं सङ्ख्यातमतिरात्रं तथोत्तरम् ।
 कारितास्तत्र बहवो विहिताः शास्त्रदर्शनात् ॥ ३९ ॥

 त्र्यह इति । त्रीण्यहानि सवनीयानि यस्य स तथा । अश्वमेधस्यानेकाहस्साध्यत्वेऽपि सवनीयानां प्राधान्यात्तद्ग्रहः । अश्वमेधस्य त्रीणि सवनीयान्यहानि' इति कल्पसूत्रेण तन्मूलब्राह्मणैश्चाश्वमेधस्त्र्यहस्सङ्ख्यातः । 'अच्प्रत्यन्वव' इत्यत्र अच् इति योगविभागे त्र्यह इति षष्ठीसमासादचि टिलोपः । तान्येव सवनीयानि व्यहानीति गण्यन्ते । चतुष्टोममित्यादि । 'त्रिवृत् पञ्चदशः सप्तदशः एकविंशः' इति स्तोमचतुष्टययुक्तत्वादग्निष्टोमः चतुष्टोमशब्दवाच्यः । उत्तरमिति । तृतीयमिति यावत् । अप्रधानभूताः शास्त्रदर्शनाद्विहिताः बहवः ऋतवश्चात्र कारिताः ॥ ३९ ॥

 ज्योतिष्टोमायुषी चैवमति[३०७].रात्रौ विनिर्मितौ ।
 अभिजिद्विश्वजिच्चैव[३०८]मप्तोर्यामौ [३०९]महाक्रतुः ॥ ४० ॥

 के ते ऋतेव इत्यतः-ज्योतिरित्यादि । आयुः आयुष्टोमः । अतिरात्राविति द्विवचनादतिरात्रस्य द्विः प्रयोगः । तथा अप्तोर्यामाविति ॥ ४० ॥

 प्राचीं होत्रे ददौ राजा दिशं स्वकुलवर्धनः ।
 अध्वर्यवे प्रतीचीं तु ब्रह्मणे दक्षिणां दिशम् ॥ ४१ ॥
 उद्गात्रे वै तथोदीचीं दक्षिणैषा विनिर्मिता ।
 हयमेधे महायज्ञे स्वयम्भूविहिते पुरा ॥ ४२ ॥


 प्राचीमित्यादि । 'प्रतिदिशं दक्षिणां ददाति, प्राचीं होतुः दक्षिणां ब्रह्मणः प्रतीचीं अध्वर्योरुदीचीं उद्गातुः' इति सूत्राद्दिशो दक्षिणात्वेन विनिर्मिताः-विहिता इति यावत् । स्वयंभूविहित इति ।'प्रजापतिरश्वमेधमसृजत' इति श्रुतेः ॥ ४२ ॥

 क्रतुं समाप्य तु तथा न्यायतः पुरुषर्षभः ।
 [३१०]ऋत्विग्भ्यो हि ददौ राजा धरां तां क्रतुवर्धनः ॥ ४३ ॥
 ऋत्विजश्चाब्रुवन् सर्वे राजानं गतकल्मषम् ।
 भवानेव महीं कृत्स्नां एको रक्षितुमर्हति ॥ ४४ ॥

 हि-यस्मात् ऋत्विग्भ्यः सर्वां धरां ददौ, तस्मात् सर्व ऋत्विजो राजानमब्रुवन् । किमब्रुवन् इत्यत्र-भवानित्यादि ॥ ४४ ॥

 न भूम्या कार्यमस्माकं न हि शक्ताः स्म पालने ।
 रताः स्वाध्यायकरणे वयं नित्यं हि भूमिप ! ॥ ४५ ॥
 निष्क्रयं किञ्चिदेवेह प्रयच्छतु भवानिति ।

 न भूम्या कार्यमस्माकमिति । भूमेर्भोगेकप्रयोजनत्वात् न तया नः किंचित्प्रयोजनमित्यर्थः । अपि च तस्याः पालने चोरनिवारणादिद्वारके वयं न हि शक्ताः स्म । कुत इत्यतः-रता इत्यादि । स्वाध्यायकरण इति । स्वाध्यायाभ्यासकर्मणीति यावत् । नापि च दण्डादाबस्माकमधिकार इति शेषः । निष्क्रयमित्यादि । 'मूल्यं वस्तु निष्क्रयश्च' इति पर्याय: । मया दत्तकृत्स्त्रभुवो कथं मूल्यं शक्यदानमित्यतः-किञ्चिदेवेति । यथाशक्ति स्वल्पमेवेति यावत् ॥ ४५ ॥

 मणिरत्नं सुवर्णं वा गावो यद्वा समुद्यतम् ॥ ४६ ॥
 तत्प्रयच्छ नरश्रेष्ठ! धरण्या न प्रयोजनम् ।


 भूमेर्व्यतिरेकेण मया देयं किंचिद्वा किं स्यादित्यतः–मणिरत्नमित्यादि । मणिरत्नं–मणिश्रेष्ठं; अनर्घरत्नमिति यावत् । तस्य राजैकार्हत्वात् पक्षान्तरं–सुवर्णं वेत्यादि । समुद्यतमिति । उपस्थितमिति यावत् ॥ ४६ ॥

 एवमुक्तो नरपतिः ब्राह्मणैर्वेदपारगैः ॥ ४७ ॥
 गवां शतसहस्राणि दश तेभ्यो ददौ नृपः ।
 दशकोटीस्सुवर्णस्य रजतस्य [३११]चतुर्दश ॥ ४८ ॥

 शतसहस्राणि दशेति । दशलक्षमिति यावत् । चतुर्दशेति । चतुर्दशकोटीरिति यावत् ॥ ४८ ॥

 ऋत्विजस्तु ततस्सर्वे प्रददुः सहिता वसु ।
 ऋश्यशृङ्गाय मुनये वसिष्ठाय च धीमते ॥ ४९ ॥

 ततस्सर्वे ऋत्विजः सहिताः सर्वं वसु दक्षिणाप्राप्तं धनजातमङ्गीकृत्य दानाय ऋश्यशृङ्गवसिष्ठाभ्यां ददुः ॥ ४९ ॥

 ततस्ते न्यायतः कृत्वा प्रविभागं द्विजोत्तमाः ।
 सुप्रीतमनसस्सर्वे प्रत्यूचुर्मुदिता भृशम् ॥ ५० ॥

 न्यायतः प्रविभागं कृत्वेति योजना । वसिष्ठादिद्वारा विभज्य गृहीत्वेति यावत् । सुप्रीतमनसः सन्तो राजानं प्रति, सर्वे वयं भृशं मुदिता इत्यूचुः ॥ ५० ॥

 ततः प्रसर्पकेभ्यस्तु हिरण्यं सुसमाहितः ।
 जाम्बूनदं कोटिसङ्ख्यं ब्राह्मणेभ्यो ददौ तदा ॥ ५१ ॥

 प्रसर्पकेभ्यो ब्राह्मणेभ्य इति । परिचारकद्विजेभ्य इति यावत् । जाम्बूनदं हिरण्यमिति । दशवर्णसुवर्णमिति यावत् ॥ ५१ ॥


 [३१२]दरिद्राय द्विजायाथ हस्ताभरणमुत्तमम् ।
 कस्मैचिद्याचमानाय ददौ राघवनन्दनः ॥ ५२ ॥

 अथ सर्वदक्षिणादानानन्तरमागताय दरिद्राय याचमानाय दातव्यवस्त्वन्तराभावात् स्वकमेव हस्ताभरणमेव ददौ ॥ ५२ ॥

 ततः प्रीतेषु नृपतिर्द्विजेषु द्विजवत्सलः ।
 प्रणाममकरोत्तेषां हर्षपर्याकुलेक्षणः ॥ ५३ ॥
 तस्याशिषोऽथ विधिवद्ब्राह्मणैः समुदाहृताः ।
 उदारस्य नृवीरस्य धरण्यां प्रणतस्य च ॥ ५४ ॥
 ततः प्रीतमना राजा प्राप्य यज्ञमनुत्तमम् ।
 पापापहं स्वर्नयनं [३१३]दुस्तरं पार्थिवर्षभैः ॥ ५५ ॥

 तत इति । तेन च हस्ताभरणस्य दानेनेत्यर्थः । विविधाशिष इति । आब्रह्मन्' 'आयुष्मन्तम्' इत्याद्याः । उदार:-उन्नतचित्तः । पापापहमिति । 'अपे क्लेशतमसोः' इति हन्तेर्डः । पापमेवेह क्लेशतम:-पर्यायाश्रयणेन गृह्यते । अत एव स्वर्नयनं स्वर्गप्रापकं दुस्तरं प्राकृतेन तरितुमशक्यं, अप्राप्यपारमिति यावत् ॥ ५५ ॥

 ततोऽब्रवीदृश्यशृङ्गं राजा दशरथस्तदा ।
 कुलस्य वर्धनं त्वं तु कर्तुमर्हसि सुव्रत ! ॥ ५६ ॥
 तथेति स राजानमुवाच द्विजसत्तमः ।
 [३१४]भविष्यति सुता राजंश्चत्वारस्ते कुलोद्वहाः ॥ ५७ ॥

इत्यार्षे श्रीमद्रामायणे बालकाण्डे चतुर्दशः सर्गः


 पूर्वं यज्ञार्थं प्रसवार्थं स्वर्गार्थं च वृत ऋश्यशृङ्गः । तत्र यज्ञस्तद्वारा स्वर्गश्च सिद्धः । ततस्तत्सिद्ध्यनन्तरं अवशिष्टार्थे युङ्क्त इत्युच्यते–तत इत्यादि । कुलं वर्धयतीति कुलवर्धनम्, तादृशं कर्मेति यावत् ॥ सम (५७) मानः ॥ ५७ ॥

इति श्रीमद्रामायणामृतकतकटीकायां बालकाण्डे चतुर्दशः सर्गः

पञ्चदशः सर्गः

[पुत्रीयेष्टिः, विष्णुं प्रति देवानां प्रार्थना च]

 मेधावी तु ततो ध्यात्वा स किञ्चिदिदमुत्तरम् ।
 लब्धसंज्ञस्ततस्तं तु वेदज्ञो नृपमब्रवीत् ॥ १ ॥

 अथ जलपृथिवीप्रघाधानस्थूलभूमविग्रहोपग्रहस्य विराजो ब्रह्मणो जलप्राधान्येन प्रजापत्यात्मना सृष्टत्रिस्रोतस [३१५]आहरतः तत्संसारप्रवृत्तये तद्वारा पालनसिद्धये भूमप्राधान्येन विष्ण्वात्मना युगे युगेऽवतारनैसर्गस्य प्रतीतान्नपानादिदेहयात्रात्रिमलवन्निजभूमविग्रह यात्रा वशजत्रिमलस्य रावणादित्रिरक्ष: परिणतस्य संहाराय त्रेतायामपि यथाप्राप्त-कालोचितावतारो दशरथपुत्रप्रवृत्तिप्रसङ्ग उपदिश्यते– मेधावीत्यादिना । ततः–पुत्रोत्पादन प्रतिश्रवानन्तरम् । मेधावी-सदा स्वबुद्धिभृताशेषवेदशास्त्रः । अत एव सदा [३१६]वेदज्ञः-स्वरूपतोऽर्थतश्च वेदतत्ववित् । स ऋश्यशृङ्गः। प्रतिश्रुतांशनिर्वाहाय किं कर्तव्यमिति निश्चेतुं किञ्चित्कालं विकल्पसमाधौ स्थितो ध्यात्वा तत इदमुत्तरं-इदमिहोत्तरमनुष्ठेयकृत्यमिति निश्चित्य पश्चात् लब्घसंज्ञः-समाधिव्युत्थितः तं तु नृपमब्रवीत् ॥ १ ॥


 इष्टिं तेऽहं करिष्यामि पुत्रीयां पुत्रकारणात् ।
 अथर्वशिरसि प्रोक्तैः मन्त्रैः सिद्धां विधानतः ॥ २ ॥

 किमब्रवीदित्यतः-इष्टिमित्यादि । पुत्रकारणात्-पुत्रप्राप्तिहेतोः, ते पुत्रीयां--पुत्र प्राप्तिनिमित्तभूताम्, निमित्ताधिकारे 'पुत्राच्छ च' इति छः, अथर्वशिरसि प्रोक्तैः मन्त्रैः विधानतः–कल्पसूत्रतः सिद्धामिष्टिं करिष्यामि । इत्युक्त्वेति शेषः ॥ २ ॥

 ततः प्रारब्धवानिष्टिं पुत्रीयां पुत्रकारणात् ।
 जुहाव चाग्यौ तेजस्वी मन्त्रदृष्टेन कर्मणा ॥ ३ ॥

 मन्त्रदृष्टेनेति । मन्त्रपूर्वकतया कल्पसूत्रदृष्टेनेत्यर्थः ॥ ३ ॥

 ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः ।
 भागप्रतिग्रहार्थं वै समवेता यथाविधि ॥ ४ ॥

 ततः-तत्रेति यावत् ॥ ४ ॥

 ताः समेत्य यथान्यायं तस्मिन् सदसि देवताः ।
 अब्रुवँल्लोककर्तारं ब्रह्माणं वचनं महत् ॥ ५ ॥

 तस्मिन् सदसि ता देवतास्समेत्येति । अन्तर्धानशक्तया मर्त्यानवलोकितमिति शेषः । लोककर्तारं– यज्ञदेवतायज्ञपशुयज्ञकर्तृमयसंसारस्रष्टारं भगवन्तं [३१७]सावित्र्यंशं विराजं ब्रह्माणमिति यावत् ॥ ५ ॥

 भगवंस्त्वत्प्रसादेन रावणो नाम राक्षसः ।
 सर्वान्नो बाधते वीर्याच्छासितुं तं न शक्नुमः ॥ ६ ॥


 त्वया तस्मै वरो दत्तः प्रीतेन भगवन् पुरा ।
 मानयन्तश्च तं नित्यं सर्वं तस्य क्षमामहे ॥ ७ ॥

 कुतो युष्मद्बाधनक्षमवीर्यलाभ इत्यतः-त्वयेत्यादि । युष्माकमपि दत्तमेव वीर्यमस्माभिरित्यत्र-मानयन्तश्च तमिति । सर्वदेवताभिरवध्यत्वरूपो यो वरो दत्तस्तं परिपालयन्त इति यावत् ॥ ७ ॥

 उद्वेजयति लोकांस्त्रीनुच्छ्रितान् द्वेष्टि दुर्मतिः ।
 शक्रं त्रिदशराजानं प्रधर्षयितुमिच्छति ॥ ८ ॥

 त्रिदशराजानमिति । प्रागप्युक्त मनित्यस्समासान्त इति ॥ ८ ॥

 ऋषीन् यक्षान् सगन्धर्वानसुरान् ब्राह्मणांस्तथा ।
 अतिक्रामति दुर्धर्षो वरदानेन मोहितः ॥ ९ ॥

 असुराः-राहुप्रमुखाः आजानजदेवयोनयः ॥ ९ ॥

 नैनं सूर्यः प्रतपति पार्श्वे वाति न मारुतः ।
 चलोर्मिमाली तं दृष्ट्वा समुद्रोऽपि न कम्पते ॥ १० ॥

 न प्रतपतीति-अन्तर्भाविताणः, न तापयतीति यावत् । एवमादिकं तत्कार्यातिशयप्रकाशनपरम् । चलोर्मिभिः मालाऽस्यास्तीति तथा, व्रीह्यादित्वादिनिः ॥ १० ॥

 तन्महन्नो भयं तस्माद्राक्षसाद्धोरदर्शनात् ।
 वधार्थं तस्य भगवन्नुपायं कर्तुमर्हसि ॥ ११ ॥
 एवमुक्तस्सुरैस्सर्वैचिन्तयित्वा ततोऽब्रवीत् ।
 हन्तायं विदितस्तस्य वधोपायो दुरात्मनः ॥ १२ ॥

 एवमुक्त इति । भगवान् ब्रह्मेति शेषः । हन्तेत्यनुकम्पायाम् ॥ १२ ॥

 तेन गन्धर्वयक्षाणां देवदानवरक्षसाम् ।
 अवध्योऽस्मीति वागुक्ता तथेत्युक्तं च तन्मया ॥ १३ ॥

 अयमिति क इत्यतः-तेनेत्यादि । तत् तथास्त्वित्युक्तमिति योजना ॥ १३ ॥

 नाकीर्तयदवज्ञानात् तद्रक्षो मानुषांस्तदा ।
 तस्मात् स मानुषाद्वध्यो मृत्युर्नान्योऽस्य विद्यते ॥ १४ ॥

 तदेति । अवध्यत्ववरणसमय इत्यर्थः । मृत्यु:-मृतिसाधकमिति यावत् ॥ १४ ॥

 एतच्छ्रुत्वा प्रियं वाक्यं ब्रह्मणा समुदाहृतम् ।
 सर्वे महर्षयो देवाः प्रहृष्टास्तेऽभवंस्तदा ॥ १५ ॥

 प्रहृष्टा इति । मनुष्यद्वारेणापि वधश्रवणजस्सन्तोषः ॥ १५ ॥

 एतस्मिन्नन्तरे विष्णुरुपयातो महाद्युतिः ।
 शङ्खचक्रगदापाणिः पीतवासा जगत्पतिः ॥ १६ ॥
 वैनतेयं समारुह्य भास्करस्तोयदं यथा ।
 तप्तहाटककेयूरो बन्धमानस्सुरोत्तमैः ॥ १७ ॥
 ब्रह्मणा च समागत्य तत्र तस्थौ समाहितः ।

 एतस्मिन्नन्तर इति । मनुष्याद्वधश्रवणजसर्वदेवतासन्तोषकाल इति यावत् । सर्वास्वपि देवतासु भूमावतारो भूमशक्तिप्राधान्यान्मदेकसाध्यः, विशिष्य तु देवारातिसंहारकः । अतो मयेदं सर्वदेवताप्रीतिकरं कृत्यमनुष्ठेयमित्यभिध्याय भगवानपि स्वप्रधानमूर्त्या ब्रह्मणा समागत्य देवकार्येण समाहितस्तस्थौ ॥ १७ ॥

 तमब्रुवन् सुरास्सर्वे समभिष्टूय संनताः ।
 त्वां नियोक्ष्यामहे विष्णो! लोकानां हितकाम्यया ॥ १८ ॥

 सन्नताः-प्रणता इति यावत् । हे विष्णो ! त्वां नियोक्ष्यामह इति ।

प्रागुक्तरीत्या भूमावतारस्य त्वदेकसाध्यत्वादिति भावः ॥ १८ ॥

 राज्ञो दशरथस्य त्वं अयोध्याधिपतेर्विभोः ।
 धर्मज्ञस्य वदान्यस्य महर्षिसमतेजसः ॥ १९ ॥
 तस्य भार्यासु तिसृषु हीश्रीकीर्त्युपमासु च ।
 विष्णो! पुत्रत्वमागच्छ कृत्वाऽऽत्मानं चतुर्विधम् ॥ २० ॥

 कस्मिन्नियुङ्ध्व इत्यतो राज्ञ इत्यादि । अत्रत्यराजराजपत्नीविशेषणं विष्णोरवतारयोग्यताप्रतिपादकम् ॥ २० ॥

 तत्र त्वं मानुषो भूत्वा प्रवृद्धं लोककण्टकम् ।
 अवध्यं दैवतैर्विष्णो ! समरे जहि रावणम् ॥ २१ ॥

 कुतो ममैष नियोग इत्यतः--अवध्यं दैवतैरित्यादि । 'कृत्यानां कर्तरि वा' इति पक्षे तृतीया । जहि-हन्तेर्जः ॥ २१ ॥

 स हि देवान् सगन्धर्वान् सिद्धांश्च ऋषिसत्तमान् ।
 राक्षसो रावणो मूर्खो वीर्योत्सेकेन बाधते ॥ २२ ॥
 ऋषयस्तु ततस्तेन गन्धर्वाप्सरसस्तथा ।
 क्रीडन्तो नन्दनवने क्रूरेण किल हिंसिताः ॥ २३ ॥
 वधार्थं वयमायातास्तस्य वै मुनिभिस्सह ।
 सिद्धगन्धर्वयक्षाश्च ततस्त्वां शरणं गताः ॥ २४ ॥

 त्वं गतिः परमा देव ! सर्वेषां नः परन्तप !
 वधाय देवशत्रूणां नृणां लोके मनः कुरु ॥ २५ ॥

 हे देव ! नस्सर्वेषां अत्र विषये त्वमेव परमा गतिः-उपायः । नृणामिति । 'नृच' इति पाक्षिको नामि न दीर्घः । मनः कुर्विति । अवतरितुमिति शेषः ॥ २५ ॥

 एवमुक्तस्तु देवेशो विष्णुस्त्रिदशपुङ्गवः ।
 पितामहपुरोगांस्तान् सर्वलोकनमस्कृतः ॥ २६ ॥
 अब्रवीत् त्रिदशान् सर्वान् समेतान् धर्मसंहितान् ।
 भयं त्यजत भद्रं वः, हितार्थं युधि रावणम् ॥ २७ ॥
 सपुत्रपौत्रं सामात्यं समित्रज्ञातिवान्धवम् ।
 हत्वा क्रूरं दुरात्मानं देवर्षीणां भयावहम् ॥ २८ ॥
 दशवर्षसहस्राणि दशवर्षशतानि च ।
 वत्स्यामि मानुषे लोके पालयन् पृथिवीमिमाम् ॥ २९ ॥

 हत्वा वत्स्यामीति योजना ॥ २९ ॥

 एवं दत्वा वरं देवो देवानां विष्णुरात्मवान् ।
 मानुषे चिन्तयामास जन्मभूमिमथात्मनः ॥ ३० ॥

 चिन्तयामासेति । यथा देवैराज्ञप्तं तथेति शेषः ॥ ३० ॥

 ततः पद्मपलाशाक्षः कृत्वाऽऽत्मानं चतुर्विधम् ।
 पितरं रोचयामास तदा दशरथं नृपम् ॥ ३१ ॥
 ततो देवर्षिगन्धर्वाः सरुद्राः साप्सरोगणाः ।
 स्तुतिभिर्दिव्यरूपाभिः तुष्टुवुर्मधुसूदनम् ॥ ३२ ॥
 दिव्यरूपाभिः स्तुतिभिस्तुष्टुवुः ॥ ३२ ॥

 तमुद्धतं रावणमुग्रतेजसम्
  प्रवृद्धदर्पं त्रिदशेश्वरद्विषम् ॥
 विरावणं साधुतपस्विकण्टकं
  तपस्विनामुद्धर तं भयावहम् ॥ ३३ ॥

 स्तुत्वा च, उच्यमानविशेषणं रावणं उद्धर-तमुन्मूलय, सबलत्वादिविशेषणकमेव हत्वा स्वर्लोकमागच्छेत्यपि न्ययुञ्जतेति शेषः । विरावणं-विशेषेण त्रिलोकमाक्रन्दयितारं । अत्र तत्तदसाधारणकृत्ये तत्तद्देवस्य तदितरदेवेभगवदादिगुरुब्रह्मैकावयवैर्नियोजनम् । तस्य तस्य तत्र तत्र नियोज्यत्वं च गुणं एव, न तु दोषः । यथा "तेषामसुराणां तिस्त्रः पुर आसन्" इत्यारभ्य रुद्रैकसाध्य कृत्ये रुद्रस्य सर्वदेवैर्नियोगः– "रुद्र इत्यब्रुवन्, रुद्रो वै क्रूरः, सोऽस्यत्विति, "तथा यज्ञस्य शिरोऽच्छिद्यत । ते देवा अश्विनावब्रुवन् । भिषजौ वै स्थः इदं यज्ञस्य शिरः प्रतिधत्तम्" इति । तथा अग्नेस्त्रयो ज्यायांसो भ्रातर आसन्" इत्यादि । "उप न आवर्तस्व, हव्यं नो वह", इति नियोगः । मूढास्तु ततः किञ्चिदुत्कर्षापकर्षं कल्पयन्ति । एकस्य भगवतः श्रीमदादिब्रह्मणोऽपत्यानि त्रिब्रह्ममुखाः सर्वे त्रिदशाः सर्वेऽपि यथा चक्षुरदिः स्वस्वकृत्ये प्रधानभूताः तत्र भगवन्नियोगवन्तश्च । रूपादौ नियतनियोगस्तिष्ठति तथा ॥ ३३ ॥

 चमेव हत्वा सबलं सबान्धवं
  विरावणं रावणमुग्रपौरुषम् ।
 स्वर्लोकमागच्छ गतज्वरश्चिरं
  सुरेन्द्रगुप्तं गतदोपकल्मषम् ॥ ३४ ॥

इत्यार्षे श्रीमद्रामायणे बालकाण्डे पञ्चदशः सर्गः

 अत्र स्वर्लोकमित्यस्य गतदोषकल्मषमिति विशेषणमस्ति । तत्र दोषा रागद्वेषमोहादयः । कल्मषं-पापं-स्वहृदि स्वात्मतयाऽवस्थितश्रीमदादिब्रह्मानुपासनादि ब्रह्महत्यान्तम् । एतयोः प्रसङ्गो यत्र गतः तादृश स्वर्लोकमिति । इदं च परस्वर्गाख्ये ब्रह्मलोक एव । समस्त सुरेन्द्रैसर्वैरपि यथाभगवद्दत्तस्वस्वदेशमवस्थितैर्गुप्तमिति चासङ्कोचेन ब्रह्मलोक एवास्ति । नापि च शक्रलोकप्रत्यागमनियोगश्च युज्यते । विष्णोर्भगवतो विराड्त्वतो वैराजब्रह्मलोकप्रत्यागतिरेवोपदिश्यते । राज्यमुपासित्वा ब्रह्मलोकं गमिष्यतीति स्पष्टत्वाच्च । तदविदितब्रह्मतत्वा मोहात्स्वकुलदैवब्रह्मापकर्षगवेषणपरमश्रद्धामिथ्यापकर्षं चापादयन्तो वदन्तु नाम । [३१८]भग(३४)मानः ॥ ३४ ॥

इति श्रीमद्रामायणामृतकतकटीकायां बालकाण्डे पञ्चदशः सर्गः

अथ षोडशः सर्गः

[पायसोत्पत्तिः, तत्प्राशनं च]

 ततो नारायणो विष्णुर्नियुक्तः सुरसत्तमैः ।
 जानन्नपि सुरानेवं श्लक्ष्णं वचनमब्रवीत् ॥ १ ॥

 एवं प्राप्तनियोग उक्तावतारोपायश्च भगवान्विष्णुः पुनस्तान् स्थैर्याय ब्रूते । तदप्यस्माभिरस्मत्कार्यनियुक्तस्य साहाय्यकमस्माभिः कर्तव्यमिति बुद्ध्या । ततो नारायण इत्यादि । नियुक्तः-कृतनियोगः । देवनियोगे दोष इत्याशङ्क्य नियुक्तः-प्रार्थित इति परिहरतीव कश्चित् । भदोषत्वमारादेव तस्योक्तमस्माभिः । जानन्नपीति-तमब्रुवन्नित्यादिपूर्व-सर्गोक्तवचनैरिति रोषः ॥ १ ॥


 उपायः को वधे तस्य राक्षसाधिपतेः सुराः !
 यमहं तं समास्थाय निहन्यामृषिकण्टकम् ॥ २ ॥

 यमुपायमास्थाय तमहं हन्यां स उपायः क इति योजना ॥ २ ॥

 एवमुक्तास्सुरास्सर्वे प्रत्यूचुर्विष्णुमव्ययम् ।
 मानुषीं तनुमास्थाय रावणं जहि संयुगे ॥ ३ ॥
 स हि तेपे तपस्तीव्रं दीर्घकालमरिन्दम !
 येन तुष्टोऽभवद्ब्रह्मा लोककृ[३१९]त्पूर्वपूर्वजः ॥ ४ ॥

 पूर्वेषामपि पूर्वजो ब्रह्मेति । श्रीमच्चतुर्मुखरुद्रश्रीप्रजेशविष्ण्वादयो ये पूर्वे– [३२०]सर्वसंसारपूर्वभूताः कारणमूर्तयः सन्ति तेषामपि पूर्वजः-भगवान् हिरण्यगर्भ इति यावत् । श्रीमदादिब्रह्मण आन्तरज्ञानमूर्तित्वात् तस्य सर्वपूर्वजत्वं, "हिरण्यगर्भः समवर्तताग्रे" इत्यादेः ॥४॥

 सन्तुष्टः प्रददौ तस्मै राक्षसाय वरं प्रभुः ।
 नानाविधेभ्यो भूतेभ्यो भयं नान्यत्र मानुषात्
 अवज्ञाताः पुरा तेन वरदाने हि मानवाः ।
 एवं पितामहात्तास्मात् वरं प्राप्य स दर्पितः ॥ ६॥
 उत्सादयति लोकांस्त्रीन् स्त्रियश्चाप्यपकर्षति ।
 तस्मात्तस्य वधो दृष्टो मानुषेभ्यः परन्तप ! ॥ ७॥
 इत्येतद्वचनं श्रुत्वा सुराणां विष्णुरात्मवान् ।
 पितरं रोचयामास तदा दशरथं नृपम् ॥ ८ ॥
 स चाप्यपुत्रो नृपतिस्तस्मिन् काले महाद्युतिः ।
 अयजत् पुत्रियामिष्टिं पुत्रेप्सुररिसूदनः ॥ ९ ॥


 स चापीति । स दशरथोऽपीत्यर्थः । तस्मिन् काल इति । भगवदवतितीर्षाकाल इत्यर्थः । पुत्रियामिति । ह्रस्वश्छान्दसः ॥ ९ ॥

 स कृत्वा निश्रयं विष्णुरामन्त्र्य च पितामहम् ।
 अन्तर्धानं गतो देवैः पूज्यमानो महर्षिभिः ॥ १० ॥

 निश्चयं-अवतारविषयम् । आमन्त्र्य चेति । साधयामीत्युक्तेति यावत् । अन्तर्धानं गत इति । तस्मादेव समाजादिति शेषः ॥ १० ॥

 [३२१]ततौ वै यजमानस्य पावकादतुलप्रभम् ।
 प्रादुर्भूतं महद्भूतं महावीर्यं महाबलम् ॥ ११ ॥

 यजमानस्य पावकादिति। गार्हपत्यादित्यर्थः । एतदनेः पुरुषोत्थानादेवावतार्यमाणं तेजो हैरण्यगर्भमिति सुस्पष्टम् । तस्य तु भूम्यवतारे विष्णूपाधिः द्वारमिति सिद्धान्तः । अतुलप्रभमिति । विद्युदादिवत् दृष्टिप्रतिघातकतेजस्वीति यावत् । महद्भुतमिति । एतेन प्रादुर्भावसमये अनिर्धार्यमाणस्त्रीपुरुषादिलिङ्गविशेषमिति सूचितम् ॥ ११ ॥

 कृष्णं रक्ताम्बरधरं रक्ताक्षं दुन्दुभिस्वनम् ।
 स्निग्धहर्यक्षतनुजश्मश्रुप्रवरमूर्धजम् ॥ १२ ॥

 अनन्तरमाकारानुभवः । कृष्णं-कृष्णवर्णम् । स्निग्धाः-चिक्कणाः हर्यक्षस्येव तनुजाः–लोमानि श्मश्रुप्रवरा मूर्धजाः–केशाश्च यस्य स तथा ॥ १२ ॥

 शुभलक्षणसम्पन्नं दिव्याभरणभूषितम् ।
 शैलश्शृङ्गसमुत्सेधं दृप्तशार्दूलविक्रमम् ॥ १३ ॥

 समुत्सेधोऽत्र उछ्रायः । दृप्तशार्दूलविक्रममिति । तद्वद्भयङ्कर-दर्शनमिति यावत् ॥ १३ ॥


 [३२२]दिवाकरसमाकारं दीप्तानलशिखोपमम् ।
 तप्तजाम्बूनदमयीं राजतान्तपरिच्छदाम् ॥ १४ ॥
 दिव्यपायससम्पूर्णां पात्रीं पत्नीमिव प्रियाम् ।
 प्रगृह्य विपुलां दोर्भ्यां स्वयं मायामयीमिव ॥ १५ ॥

 दिवाकरसमाकारमिति प्रभामण्डलवत्त्वांशे दृष्टान्तः । तैक्ष्ण्यांशे दृष्टान्तः-दीप्तानलशिखोपममिति । राजतो-रजतविकारः अन्ते-उपरि परिच्छदः-पिधानपात्रं—यस्यास्सा तथा । पात्रीति लिङ्गसामान्यात् । प्रियां पत्नीमिवेति। अयं कविसमाधिः । स्वयं दोर्भ्यां परिगृह्य प्रादुर्भूत-मित्यन्वयः । भावे निष्ठा । मायामयीमिव । इव शब्द एवार्थे । भगवतो हिरण्यगर्भस्याचिन्त्यशक्तिदेवमायाविर्भावितामेवेत्यर्थः ॥ १५ ॥

 समवेक्ष्याब्रवीद्वाक्यं इदं दशरथं नृपम् ।
 प्राजापत्यं नरं विद्धि मामिहाभ्यागतं नृप ! ॥ १६ ॥

 दशरथं समवेक्ष्येति योजना । प्राजापत्यं- "पत्यन्तपुरोहितादिभ्यो यक्" इत्यपत्यादिप्राग्दीव्यतीयाधिकारे[३२३]ण्यप्रत्ययः, प्रजापतिपुत्रः प्रजापतिनिसृष्टः–प्रजापतेरागत इत्याद्यर्थः ॥ १६ ॥

 अतः परं ततो राजा प्रत्युवाच कृताञ्जलिः ।
 भगवन् ! स्वागतं तेऽस्तु किमहं करवाणि ते ॥ १७ ॥


 अतः परमिति । प्राजापत्यं मां विद्धीत्युक्त्यनन्तरम् । ततः-तत एव हेतोः । गतभीस्सन् राजा कृताञ्जलिः प्रत्युवाच । महाभूता-कारतयोत्थानात्कृत्ययेव नाशशङ्कामीतः पश्चात्प्राजापत्यत्वश्रवणान्निर्भय उवाच ॥ १७ ॥

 अथो पुनरिदं वाक्यं प्राजापत्यो नरोऽब्रवीत् ।
 राजन्नर्चयता देवानद्य प्राप्तमिदं त्वया ॥ १८ ॥

 देवानिति ब्रह्मादीनर्चयता–हयमेधपूर्वकपुत्रकामेष्टयेति यावत् ॥ १८ ॥

 इदं तु नरशार्दूल ! पायसं देवनिर्मितम् ।
 प्रजाकरं गृहाण त्वं धन्यमारोग्यवर्धनम् ॥ १९ ॥

 इदमिति किमित्यतः-इदं त्वित्यादि । देवनिर्मित[३२४]मिति । देवनिर्मितजलपृथिवीमयभूलोके निजकार्यावताराय प्रजेश[३२५]विष्ण्वात्मनावतरितव्यत्वात् परमान्नमयप्रजापतिविष्ण्वात्मना देवेन श्रीहिरण्यगर्भेण निर्मितं, अत एव ते प्रजाकरं, धन्यं; 'स्वर्गादिभ्यो यत्' इति यत् ; व्युत्पत्तिमात्रमिदम् । प्रशस्तमिति यावत् ॥ १९ ॥

 भार्याणामनुरूपाणामश्रीतेति प्रयच्छ वै ।
 तासु त्वं लप्स्यसे पुत्रान् यदर्थं यजसे नृप ! ॥ २० ॥

 भार्याणामिति षष्ठी छान्दसी । भार्याभ्य इति यावत् । अनु-रूपाः-त्वदनुकूलाः एतत्प्राशनोचिताश्चेत्यर्थः, अशभोजने-तस्मात् थस्य तादेशः । 'ईहल्यघोः' इतीत्वम् । यजस इति कर्त्रभिप्रायत्वात् ॥ २० ॥


 तथेति नृपतिः प्रीतः शिरसा प्रतिगृह्य ताम् ।
 पात्रीं देवान्नसंपूर्णां देवदत्तां हिरण्मयीम् ॥ २१ ॥

 हिरण्मयीं-[३२६]हिरण्यविकाराम् । दाण्डिनायनसूत्रे यादिलोपनिपातः ॥ २१ ॥

 अभिवाद्य च तद्भूतमद्भुतं प्रियदर्शनम् ।
 मुदा परमया युक्तञ्चकाराभिप्रदक्षिणम् ॥ २२ ॥

 अभितः प्रदक्षिणं-अभिप्रदक्षिणं । अद्भुतप्रख्यं-अद्भुताकारम् ॥ २२ ॥

 ततो दशरथः प्राप्य पायसं देवनिर्मितम् ।
 बभूव परमप्रीतः प्राप्य वित्तमिवाधनः ॥ २३ ॥
 ततस्तदद्भुतप्रख्यं भूतं परमभास्वरम् ।
 संवर्तयित्वा तत्कर्म तत्रैवान्तरधीयत ॥ २४ ॥

 भूतं कर्तृ । संवर्तयित्वा-समाप्य । तत्कर्मेति । श्रीहिरण्यगर्भतेजोंऽशावतारण कर्मेति यावत् । तत्रेति । अग्निकुण्ड इति यावत् ॥ २४ ॥

 हर्षरश्मिभिरुद्योतं तस्यान्तःपुरमाबभौ ।
 शारदस्याभिरामस्य चन्द्रस्येव नभोंऽशुभिः ॥ २५ ॥

 हर्षेति । हर्षजाः रश्मयः-स्मितज्योत्स्नारूपाः [३२७]तैरुद्भूतः उद्योतः-प्रकाशो यस्य तत्तथा । अन्तःपुरं तद्वर्तिस्त्रीजातमिति यावत् । शरदि भवश्शारदः । चन्द्रस्यांशुभिः नभ इवेति योजना ॥ २५ ॥


 सोऽन्तःपुरं प्रविश्यैव कौसल्यामिदमब्रवीत्
 पायसं प्रतिगृह्णीष्व पुत्रीयं त्विदमात्मनः ॥ २६ ॥

 आत्मन इति । स्वस्या इत्यर्थः । 'मनः' इति ङीब्निषेधः ॥ २६ ॥

 कौसल्यायै नरपतिः पायसार्धं ददौ तदा ।
 अर्धादर्धं ददौ चापि सुमित्रायै नराधिपः ॥ २७ ॥
 कैकेय्यै चावशिष्टार्धं ददौ पुत्रार्थकारणात् ।
 प्रददौ चावशिष्टाधं पायसस्यामृतोपमम् ॥ २८ ॥
 अनुचिन्त्य सुमित्रायै पुनरेव महीपतिः ।

 कौसल्याया इत्यादि । अत्रेदं ब्रह्मविद्भिर्मामकैरनुसन्धेयम्  'पुष्पवद्धिरण्यरजश्शचीन्द्रौ धीस्वयम्भुवौ' इत्युपदिष्टाश्वमेधमहायागविकारश्रीमद्ब्रह्मयोगराज-ब्रह्मविद्याविलासप्रकृतिभूताष्टब्रह्मविद्यातदर्थपुण्यकर्मपरमकाष्ठाश्वमेधप्राप्यफलश्रीहिरण्यगर्भतेजोमयमूलविद्यायाः प्राजापत्यपादे ऋश्यश्रृङ्गबीजान्वयात् श्रीहिरण्यगर्भपादे च गर्भबीजान्वयात् विहितगर्भशक्तिमत्पायसं अष्टब्रह्मविद्यात्मत्वात् अष्टांशं भवति । तस्यास्य पुष्पवतोः भास्करसौरसरस्वतीस्वयम्भुमयांशचतुष्टयमेकमर्धं भवति । चन्द्रपरोरजश्शचीन्द्रमयांशचतुष्टयमपरमर्धं भवति । एवं प्रथमतो द्विधाकृतस्य [३२८]पायसस्यार्धं स्वायम्भुवान्नापरीतं प्रधानमहिष्यै कौसल्यायै प्रथमं ददौ । अनन्तरमस्यै दत्तमर्धं च द्विधाकृत्य तु तयोश्चैकमर्धं द्विधा कृत्वा तदेकभागं योगप्रधानां कौसल्यामनु-ब्रतायै सुमित्रायै ददौ । अयमेव भागो भास्करात्मा लक्ष्मणः । ततश्च कौसल्यायां धीस्वयम्भूसौरभागास्त्रयः स्थिताः । अन्तः पूर्णशक्तिर्भगवान् हिरण्यगर्भो रामः । अथैन्द्रमर्धं कैकेय्यै ददौ । तदपि द्विधा कृत्वा अथ तयोश्चैकमर्धं द्विधा कृत्वा तदेकभागं च भोगपत्नी कैकेयीमप्यनुव्रतायै


सुमित्रायै ददौ । अयमेव भागश्चन्द्रश्शत्रुघ्नः । अहो भरतश्च पूर्णशक्तिर्विराड्प्रधानः । लक्ष्मणशत्रुघ्नौ मध्यस्थसम्राड्प्रधानौ । भगवान् रामः स्वराट् हिरण्यगर्भ इति । शब्दतो योजयामः । तदा नरपतिः कौसल्यायै समग्रपायसस्यार्षं ददौ । अपि च नराधिपस्सुमित्रायै अर्धादर्धं ददौ । अत्र आवृत्तोऽर्षशब्दो द्रष्टव्यः । तथाऽग्रेपि । तथाचार्धार्धादर्धं ददौ । अथ कैकेय्यै च पुत्रकारणादवशिष्टार्धं-कौसल्यायै दत्तादवशिष्टार्धं ददौ । पुनरेव च नराधिपोऽनुचिन्त्य अमृतोपमं पायसस्यावशिष्टार्धं च सुमित्रायै प्रददौ । अविष्टस्य-कौसल्यादत्तावशिष्टस्य कैकेयीपायसस्यार्धादर्धं ददावित्यर्थः ॥ २८ ॥

 एवं तासां ददौ राजा भार्याणां पायसं पृथक् ॥ २९ ॥
 एवमित्यादि । पृथगिति । विभज्येति शेषः ॥ २९ ॥
 तास्त्वेतत्पायसं [३२९]प्राश्य नरेन्द्रस्योत्तमास्त्रियः ।
  [३३०]समानं मेनिरे सर्वाः प्रहर्षोदितचेतसः ॥ ३० ॥

 प्राश्य प्रहर्षोदितचेतसः-उदितं-उन्मिषितं, प्रहर्षविकसितचेतस इति यावत् । ताः उत्तमस्त्रियः नृपतिं समानं मेनिरे । स्वासु समानस्नेहं अपक्षपातमवागमन् । यद्यपि कौसल्या कैकेय्योस्त्रयो भागाः, सुमित्रायै द्वौ; अथापि मय्येवमनुशयो राज्ञः, यदुभयत्रापि मामनुसस्मारेति सुमित्राया अपि सन्तोषः ॥ ३० ॥

 ततस्तु ताः प्राश्य तदुत्तमस्त्रियो
  महीपतेरुत्तमपायसं पृथक् ।
 हुताशनादित्यसमानतेजसोऽ-
  चिरेण गर्भान् प्रतिपेदिरे तथा ॥ ३१ ॥


 हुताशनादित्यसमानतेजस इति गर्भविशेषणं दिव्यगर्भवतस्त्रीविशेषणं च, प्रथमान्ततया रूपं चाविशिष्टम् ॥ ३१ ॥

 ततस्तु राजा प्रतिवीक्ष्य ताः स्त्रियः
  प्ररूढगर्भाः प्रतिलब्धमानसः ।
 बभूव हृष्टस्त्रिदिवे यथा हरिः
  सुरेन्द्रसिद्धर्षिगणाभिपूजितः ॥ ३२ ॥ ॥

इत्यार्षे श्रीमद्रामायणे बालकाण्डे षोडशः सर्गः

 प्ररूढगर्भाः प्रतिवीक्ष्य प्रतिलब्धमानसः-प्राप्तगर्भसत्तानिश्चयं मानसं यस्य स तथा । इदं विशेषणं हरेरिन्द्रस्यापि [३३१]हर्षोत्पतौ समानम् । रङ्ग (३२) मानः सर्गः ॥ ३२ ॥

इति श्रीमद्रामायणामृतकतकटीकायां बालकाण्डे षोडशः सर्गः

अथ सप्तदशः सर्गः

[ऋक्षवानराद्युत्पत्ति:]

 पुत्रत्वं तु गते विष्णौ राज्ञस्तस्य महात्मनः ।
 उवाच देवताः सर्वाः स्वयम्भूर्भगवानिदम् ॥ १ ॥

 अथ प्रपञ्च इव एक एव भगवान् त्रिभूमविग्रहोपगृहीतस्त्रिब्रह्ममूर्तिरपि विराडवतारे वैराजविष्णूपग्रहप्राधान्येनावतीर्णः स्वावयव-सर्वत्रिदशानपि [३३२] स्वस्वस्थूलविराड्विष्णूपग्रहप्राधान्येन प्रधानदेवता-


मयस्वसहायार्थं स्वयमेवावतारनियोगं करोति । (नित्य) अवयव्यवतारप्रसङ्गादवयवानामप्यवतारोपदेशः-पुत्रत्वमित्यादि । विष्णौ-विराडुप-ग्रहब्रह्माणि । एवं सर्वत्रार्थो द्रष्टव्यः । स्वयम्भूरिति । 'भुवस्संज्ञान्तर-योः' इति क्विप् ॥ १ ॥

 सत्यसन्धस्य वीरस्य सर्वेषां नो हितैषिणः ।
 विष्णोस्सहायान् बलिनः सृजध्वं कामरूपिणः ॥ २ ॥

 सहायानिति । सहायकरणसमर्थानित्यर्थः । ननु कथं विष्णौ पुत्रत्वं गते ब्रह्मा देवान् अवतारे नियुङ्क इति । वालिसुग्रीवादेरुत्पत्तिवैरादीनां प्रागेव चिरप्रवृत्तत्वात् । उच्यते–पुत्रत्वं गते सहायार्थं सृजध्वमित्ययं भगवन्नियोगः प्राचीन एव । कविस्त्वद्य प्रसङ्गात्प्रतिपादयतीति ॥ २ ॥

 मायाविदश्च शूरांश्च वायुवेगसमान् जवे ।
 नयज्ञान् बुद्धिसम्पन्नान् विष्णुतुल्यपराक्रमान् ॥ ३ ॥

 मायाविद इति । असुरादिमायासंहारसमर्थदेवमायाशक्तिमन्त इति यावत् । जवे-वेगवत्वविषये ॥ ३ ॥

 असंहार्यानुपायज्ञान् सिंहसंहनान्वितान् ।
 सर्वास्त्रगुणसम्पन्नानमृतप्राशनानिव ॥ ४ ॥

 असंहार्यानिति । परैरिति शेषः । संहननं-गात्रं-सिंहसिंहनन-समानसंहननान्विता इत्यर्थः । अमृतप्राशनाः-देवाः, कर्तरि ल्युट्, देववत्सर्वास्त्रावध्यत्वसम्पन्ना इत्यर्थः ॥ ४ ॥

 अप्सरस्सु च मुख्यासु गन्धर्वीणां तनूषु च ।
 यक्षपन्नगकन्यासु ऋक्षविद्याधरीषु च ॥ ५ ॥

 गन्धर्वीणामिति । 'जातेरस्त्रीविषयात्' इति ङीष् । तथा विद्याधरीष्वित्यपि ॥ ५ ॥

 किन्नरीणां च गात्रेषु वानरीणां तनूषु च ।
 सृजध्वं हरिरूपेण पुत्रांस्तुल्यपराक्रमान् ॥ ६ ॥

 हरिरूपेणेति । वानररूपेणेति यावत् । ननु मनुष्यरूपेणैव कुतो नावयवदेवानामप्यवताराः । उच्यते –वनवासे सीतापहारादेव रावणस्य शीर्षछेद्यत्वे प्राप्ते तत्र च तपस्विनो रामस्य मनुष्यवेषैरशक्यसंहारसहायत्वात्, वानरशब्दस्यान्वर्थत्वतो मनुष्यवत्सुकरव्यवहारत्वात, नन्दिना कृतस्य रावणशापस्य समर्थत्वाच्च । तथा हि–दिग्विजये रावणं नन्दिकेश्वरो भगवान् [३३३]रावणकृतपरिहासश्शशाप- "तस्मान्मद्रूप-संयुक्ता मद्वीर्यसमतेजसः । उत्पत्स्यन्ति वधार्थं हि कुलस्य तव वानराः" इति । अकथकमेकं नास्ति । तुल्यपराक्रमानिति । [३३४]स्वतुल्य-पराक्रमानित्यर्थः, यथाबीजं तथाङ्कुरमिति न्यायेन ॥ ६ ॥

 पूर्वमेव मया सृष्टो जाम्बवानृक्षपुङ्गवः ।
 जृम्भमाणस्य सहसा मम वक्त्रादजायत ॥ ७ ॥

 यद्देहपरिग्रहनियोगः? इत्यत्र कार्यार्थमस्माभिरप्यपारमितज्ञानायुरैश्वर्यवन्तो ये सृष्टाः, तादृशां अंशतस्स्वीकृत्येत्याह-पूर्वमित्यादि । विराड्व्यतिरिक्तब्रह्मसृष्टेरनेकमूलत्वादाह-जृम्भमाणस्येत्यादि । सहसाद्रागिति यावत् ॥ ७ ॥

 ते तथोक्ता भगवता तत्प्रतिश्रुत्य शासनम् ।
 जनयामासुरेवं ते पुत्रान् वानररूपिणः ॥ ८ ॥


 ऋषयश्च महात्मानः सिद्धविद्याधरोरगाः ।
 चारणाश्च सुतान् वीरान् ससृजुर्वनचारिणः ॥ ९ ॥
 वानरेन्द्रं महेन्द्राभमिन्द्रो वालिनमूर्जितम् ।
 सुग्रीवं जनयामास तपनस्तपतां वरः ॥ १० ॥

 एवमिति । वक्ष्यमाणप्रकारस्तावत् ; देवराजः-इन्द्रो वालिनं जनयामास । कथमिदं भगवन्नियोगविपरीतया राघवारातिमेव भगवानिन्द्रस्सृजति! उच्यते–अवतीर्णदेवसेनानुग्रहक्षमराजसिद्धये स्वतुल्य[३३५]पराक्रमवालिसर्गः । नास्य रामस्य च किञ्चिन्निमित्तमरातित्वम् । अपि त्वेतत्सख्ये रामस्य वृत्ते अयमेव सीतां क्षणात्प्रत्यर्पयेत् वाली । रावणः चिरकक्षपीडितः [३३६]तच्चीटीमात्रेण स्वयमेव भीतः सीतां प्रत्यर्पयेत् । ततश्च देवकार्यं न संवृत्तं स्यात् । अत एवास्य वधः स्वसमान-दुःखसापेक्षसुग्रीवसख्याय । अतो यावत्सुग्रीवराज्यं देवसेनारक्षणप्रयोजन एव वालिसर्गः । अपि च रामोऽपि महाबलत्वात् स्वयमन्यसख्यं न प्रार्थयेत् । वाली तु सुतरां अकण्टकमहाबलमहाराजो निष्प्रयोजनं रामसख्यं कटाक्षेणापि नेक्षेत । तथा च देवसेनानां सीतान्वेषणादिरामकृत्यानुपयोगः । अत उक्तमेव प्रयोजनम् ॥ १० ॥

 बृहस्पतिस्त्वजनयत् तारं नाम महाहरिम् ।
 सर्ववानरमुख्यानां बुद्धिमन्तमनुत्तमम् ॥ ११ ॥
 धनदस्य सुतः श्रीमान् वानरो गन्धमादनः ।
 विश्वकर्मा त्वजनयत् नलं नाम महाहरिम् ॥ १२ ॥
 पावकस्य सुतः श्रीमान् नीलोऽग्निसदृशप्रभः ।
 तेजसा यशसा वीर्यात् अत्यरिच्यत वानरान् ॥ १३ ॥


 रूपद्रविणसम्पन्नौ अश्विनौ रूपसम्मतौ ।
 मैन्दं च द्विविदं चैव जनयामासतुः स्वयम् ॥ १४ ॥

 रूपेण-लक्षणेन, द्रविणेन-वित्तेन सम्पन्नौ तथा । अत एव रूपसम्मतमैन्दद्विविदयोस्सर्गः । रूपसम्मताविति मत्वर्थीयोऽच् । प्रशस्तरूपवत्वेन सर्वलोकसम्मतावित्यर्थः ॥ १४ ॥

 वरुणो जनयामास सुषेणं नाम वानरम् ।
 शरभं जनयामास पर्जन्यस्तु महाबलम् ॥ १५ ॥

 पर्जन्यः-जगद्वर्षानुग्रहकरभगवद्देवराजमूर्त्यन्तरम् ॥ १५ ॥

 मारुतस्यात्मजः श्रीमान् हनूमान् नाम वानरः ।
 वज्रसंहननोपेतो वैनतेयसमो जवे ॥ १६ ॥
 सर्ववानरमुख्येषु बुद्धिमान् बलवानपि ।

 वज्रवदभेद्यसंहननोपेतः । तथा वानरमुख्याः-सुग्रीवादयस्सुषेणान्ताः ॥ १६ ॥

 ते सृष्टा बहुसाहस्रा दशग्रीववधे रताः ॥ १७ ॥
 अप्रमेयबला वीरा विक्रान्ताः कामरूपिणः ।

 दशग्रीववधे रता इति । भविष्यति निष्ठा [३३७]छान्दसी, रंस्यमाना इति यावत् । अपि च ये रता भविष्यन्ति तादृशा बहुसाहस्राः सृष्टा इति । धातुसम्बन्धे प्रत्यया इति साधुः ॥ १७ ॥

 मेरुमन्दरसङ्काशा वपुष्मन्तो महाबलाः ॥ १८ ॥
 ऋक्षवानरगोपुच्छाः क्षिप्रमेवाभिजज्ञिरे ।

 गोपुच्छाः–वानरविशेषाः ॥ १८ ॥


 यस्य देवस्य यद्रूपं वेषो यश्च पराक्रमः ॥ १९ ॥
 अजायत समस्तेन तस्य तस्य सुतः पृथक् ।

 रूपं-नीलपीतादि । वेषो-वृत्तचतुरश्रादि संस्थानविशेषः ॥ १९ ॥

 गोलाङ्गूलिषु चोत्पन्नाः केचित् संमतविक्रमाः ॥ २० ॥
 ऋक्षीषु च तथा जाता वानराः किन्नरीषु च ।
 देवा महर्षिगन्धर्वाः तार्क्ष्या यक्षा यशस्विनः ॥ २१ ॥
 नागाः किम्पुरुषाश्चैव सिद्धविद्याधरोरगाः ।
 [३३८]वहवो जनयामासुः हृष्टास्तत्र सहस्रशः ॥ २२ ॥
 वानरान् सुमहाकायान् सर्वान् वै वनचारिणः ।
 अप्सरस्सु च मुख्यासु तथा विद्याधरीषु च ॥ २३ ॥
 नागकन्यासु च तथा गन्धर्वीणां तनूषु च ।
 कामरूपबलोपेता यथाकामं विचारिणः ॥ २४ ॥
 सिंहशार्दूलसदृशा दर्पेण च बलेन च ।
 शिलाप्रहरणाः सर्वे सर्वे पादपयोधिनः ॥ २५ ॥
 नखदंष्ट्रायुधाः सर्वे सर्वे सर्वास्त्रकोविदाः ।

 सर्वास्त्रकोविदा इति । देवांशत्वात् स्वयं प्रतिभातसर्वास्त्रपरिहारोपाया इत्यर्थः । नैव तेऽस्त्रप्रयोक्तारः । शिलादिप्रहरणा इत्युक्तत्वात् ॥ २५ ॥

 विचालयेयुश्शैलेन्द्रान् भेदयेयुः स्थिरान् दुमान् ॥ २६ ॥
 क्षोभयेयुश्च वेगेन समुद्रं सरितां पतिम् ।

 विचालयेयुरित्यादौ 'शकि लिङ् च' इति लिङ् | 'कम्पने चलिः' इति मित्वेपि ह्रस्वाभावश्छान्दसः ॥ २६ ॥


 दारयेयुः क्षितिं पद्भ्यामाप्लवेयुर्महार्णवम् ।
 नभस्थलं विशेयुश्च गृह्णीयुरपि तोयदान् ॥ २७ ॥

 आप्लवेयुरिति । सन्तरेयुरिति यावत् ॥ २७ ॥

 गृह्णीयुरपि मातङ्गान् मत्तान् प्रव्रजतो वने ।
 नर्दमानाश्च नादेन पातयेयुर्विहङ्गमान् ॥ २८ ॥

 प्रव्रजतः । स्वच्छन्दगतीनित्यर्थः ॥ २८ ॥

 ईदृशानां सहस्राणि हरीणां कामरूपिणाम् ।
 शतं शतसहस्राणि यूथपानां महात्मनाम् ॥ २९ ॥

 शतं शतसहस्राणीति । अनेकानीति यावत् ॥ २९ ॥

 ते प्रधानेषु यूथेषु हरीणां हरियूथपाः ।
 बभूवुर्यूथपश्रेष्ठा वीरांश्चाजनयन् हरीन् ॥ ३० ॥

 त इत्यादि । ते प्रागुक्ताः सुग्रीवादिसुषेणान्ताः हरीणां प्रधानेषु। यूथेषु-महायूथेषु हरियूथपाः बभूवुः । ते यूथपश्रेष्ठाश्च वीरान् हरीनजनयन् ॥ ३० ॥

 अन्ये ऋक्षवतः प्रस्थान् उपतस्थुः सहस्रशः ।
 अन्ये नानाविधान् शैलान् काननानि च भेजिरे ॥ ३१ ॥
 [३३९]सूर्यपुत्रं च सुग्रीवं शक्रपुत्रं च वालिनम् ॥ ३२ ॥
 भ्रातरापतस्थुस्ते सर्व एव हरीश्वराः ।
 नलं नीलं हनूमन्तमन्यांश्च हरियूथपान् ॥ ३३ ॥


 ते तार्क्ष्यबलसम्पन्नाः सर्वे युद्धविशारदाः ।
 विचरन्तोऽर्दयन् दर्पात् सिंहव्याघ्रमहोरगान् ॥ ३४ ॥
 तांश्च सर्वान् महाबाहुर्वाली विपुलविक्रमः ।
 जुगोप भुजवीर्येण ऋक्षगोपुच्छवानरान् ॥ ३५ ॥

 वाली जुगोपति देवराजावतारत्वादेव ॥ ३५ ॥

 तैरियं पृथीवी शूरैः सपर्वतवनार्णवा ।
 कीर्णा विविधसंस्थानैर्नानाव्यञ्जनलक्षणैः ॥ ३६ ॥

 विविधसंस्थानैः-स्थूलसूक्ष्मह्रस्वदीर्घादिनानाप्रकारदेहसंस्थानविशेषवद्भिः । नानाविधानि व्यञ्जनानि-अयं सुग्रीवः, अयं हनुमानित्यसाधारणतत्तत्स्वरूपव्यक्त्य[३४०]साधारणानि लक्षणानि-प्रशस्तहनुयुक्तत्वादिचिह्नानि येषां ते तथा ॥ ३६ ॥

 तैर्मेघबृन्दाचलकूटकल्पैः
  महाबलैर्वानरयूथपालैः ।
 बभूव भूर्भीमशरीररूपैः
  समावृता रामसहायहेतोः ॥ ३७ ॥

इत्यार्षे श्रीमद्रामायणे बालकाण्डे सप्तदशः सर्गः

 अचलकूटः-पर्वतशृङ्गः । शरीररूपं-शरीरसंस्थानम् । साल (३७) मानः सर्गः ॥ ३७ ॥

इति श्रीमद्रामायणामृतकतकटीकायां बालकाण्डे सप्तदशः सर्गः


अथ अष्टादशः सर्गः

[श्रीरामाद्यवतारः, विश्वामित्रागमनं च]

 निर्वृत्ते तु क्रतौ तस्मिन् हयमेधे महात्मनः ।
 प्रतिगृह्य सुरा भागान् प्रतिजग्मुर्यथागतम् ॥ १ ॥

 एवं [३४१]प्रासङ्गिकावयवदेवताः प्रसङ्गादुक्ता प्रकृतप्रधानदेवता प्रतिपाद्यते-निर्वृत्ते त्वित्यादि । 'पुत्रोत्पत्ति विचिन्तयन्' (श्लो. ७) इत्यन्तो वृत्तानुवादः । निर्वृत्ते–समाप्ते । हयमेध इति । स्वोपकार्य-पुत्रेष्टियुत इति शेषः ॥ १ ॥

 समाप्तदीक्षानियमः पत्नीगणसमन्वितः ।
 प्रविवेश पुरीं राजा सभृत्यवलवाहनः ॥ २ ॥

 प्रविवेश-प्रवेशाभिमुखो बभूव ॥ २ ॥

 यथार्हं पूजितास्तेन राज्ञा वै पृथिवीश्वराः ।
 मुदिताः प्रययुर्देशान् प्रणम्य मुनिपुङ्गवम् ॥ ३ ॥

 [३४२] [३४३] मुनिपुङ्गवः वसिष्ठः । पुरोहित आश्रयणीयः किल !॥ ३ ॥

 श्रीमतां गच्छतां तेषां [३४४]स्वपुराणि पुरात्ततः ।
 बलानि राज्ञां शुभ्राणि प्रहृष्टानि चकाशिरे ॥ ४ ॥

 शुभ्राणीति । दशरथदत्तवस्त्राभरणादितोऽत्युज्वलानि । तत एव हेतोः प्रहर्षः ॥ ४ ॥

 गतेषु पृथिवीशेषु राजा दशरथस्तदा ।
 प्रविवेश पुरीं श्रीमान् पुरस्कृत्य[३४५]द्विजोत्तमान् ॥ ५ ॥

 द्विजोत्तमाः-वसिष्ठाद्याः ॥ ५ ॥


 शान्तया प्रययौ सार्धमृश्यशृङ्गस्सुपूजितः ।
 [३४६]अनुगम्यमानो राज्ञाऽथ सानुयात्रेण धीमता ॥ ६ ॥

 अनुगम्यमान इति ऋश्यशृङ्गविशेषणं । आर्षं गुरुलध्वक्षरवैषम्यम् ॥ ६॥

 एवं विसृज्य तान् सर्वान् राजा सम्पूर्णमानसः ।
 उवास सुखितस्तत्र पुत्रोत्पत्तिं विचिन्तयन् ॥ ७ ॥

 एवं विसृज्येति। एवं द्विजैस्सह प्रविश्य तांश्च विसृज्येत्यर्थः ॥ ७ ॥

 ततो यज्ञे समाप्ते तु [३४७]ऋतूनां षट् समत्ययुः ।
 ततश्च द्वादशे मासे चैत्रे नावमिके तिथौ ॥ ८ ॥
 नक्षत्रेऽदितिदैवत्ये स्वोच्चसंस्थेषु पञ्चसु ।
 ग्रहेषु कर्कटे लग्ने वाक्पताविन्दुना सह ॥ ९ ॥
 प्रोद्यमाने जगन्नाथं सर्वलोकनमस्कृतम् ।
 कौसल्याऽजनयद्रामं सर्वलक्षणसंयुतम् ॥ १० ॥
 [३४८]विष्णोरर्धं महाभागं पुत्रमैक्ष्वाकनन्दनम् ।
 कौसल्या शुशुभे तेन पुत्रेणामिततेजसा ॥ ११ ॥
 यथा वरेण देवानामदितिर्वज्रपाणिना ।

 द्वादश इति । 'तस्य पूरणे' इति डट् । चैत्रे मास इति। चैत्री पौर्णमास्यस्मिन् मास इति चैत्रः । 'साऽस्मिन् पौर्णमासीति' इति संज्ञायामण् । नवम्या संसृष्टं नावमिकम्, 'संसृष्टे' इति ठक् । 'तदा-


द्यास्तिथयो द्वयोः' इति पुंस्त्वम्, नवमीतिथावित्यर्थः । अदितिदैवत्ये नक्षत्र इति । पुनर्वसुनक्षत्र इति यावत् । देवतान्तात्तादर्थ्ये यक् छान्दसः । स्वोच्चसंस्थेषु-स्वस्वोच्चस्थानगतेषु पञ्चसु ग्रहेषु-सूर्याङ्गार-कसौरि बृहस्पतिशुक्रेषु । सामान्यतो ग्रहाणामुच्चस्थानानि तु अजवृषभमृगाङ्गनाकुलीरा झषवणिजौ च दिवाकरादि तुङ्गाः' इति । वाक्पतिः-बृहस्पतिः । इन्दुना सह प्रोद्यमान इति–पुनर्वसु नक्षत्रस्य कर्कटकराशित्वादेव इन्दुः तत्र । कर्कटकस्तु बृहस्तेरुच्चस्थानम् । सूर्योऽपि स्वोच्चे मेषे स्थितः । एवं मन्दाङ्गारकशुक्रास्तदानीं तुलामकरमीन[३४९]स्था इति ज्ञेयम् । राममिति । रमन्तेऽस्मिन् लोका इत्यधिकरणेघञ् । विष्णोरर्धमिति। विष्ण्वंशस्य पायसस्य प्रथमप्रविभागप्राधान्येन सिद्धम् । ऐक्ष्वाकस्य-दशरथस्य नन्दनम् । 'दाण्डिनायन' इत्यादिना उकारलोपः । वरः-श्रेष्ठः ॥ ११ ॥

 भरतो नाम कैकेय्यां जज्ञे सत्यपराक्रमः ॥ १२ ॥
 साक्षाद्विष्णोचतुर्भागः सर्वैः समुदितो गुणैः ।

 चतुर्भाग इति । चतुरंशोपेतो भागः पायसार्धभागप्राधान्यसिद्धः ॥ १२ ॥

 अथ लक्ष्मणशत्रुघ्नौ सुमित्राऽजनयत् सुतौ ॥ १३ ॥
 [३५०]सर्वास्त्रकुशलौ वीरौ विष्णोरर्धसमन्वितौ ।

 अथ लक्ष्मणशत्रुघ्नाविति । पायसपूर्वापराधैकदेशसिद्धाविति शेषः । तदेवोक्तम्–विष्णोरर्धसमन्विताविति । प्रथमचरमार्धयोरर्धादर्धेति यावत् ॥ १३ ॥


 पुष्ये जातस्तु भरतो मीनलग्ने प्रसन्नधीः ॥ १४ ॥
 सार्पे जातौ च सौमित्री कुलीरेऽभ्युदिते रवौ ।

 [३५१]सार्पः आश्लेषः । सौमित्रीति द्विवचनेन यमत्वं सूच्यते । बाह्लादित्वादिञ् ॥ १४ ॥

 राज्ञः पुत्रा महात्मानश्चत्वारो जज्ञिरे [३५२]पृथक् ॥ १५ ॥
 गुणवन्तोऽनुरूपाश्च रुच्या *प्रोष्ठपदोपमाः ।

 पृथक् गुणवन्त इति । प्रत्येकमनन्यसाधारणगुणवन्त इति यावत् । अनुरूपाः-ज्येष्ठकनिष्ठत्वादि-रूपव्यवहारवन्तः । रुच्या चतुर्ध्वाकारजशोभया-पूर्वोत्तरप्रोष्ठपदाश्चत्वारः, अत एव तदुपमात्वम् ॥ १५ ॥

 जगुः कलं च गन्धर्वा ननृतुश्चाप्सरोगणाः ॥ १६ ॥
 देवदुन्दुभयो नेदुः पुष्पवृष्टिश्च खाच्च्युता ।

 जगुरित्यादि । रामाद्युत्पत्तिकाल इति शेषः ॥ १६ ॥

 उत्सवश्च महानासीदयोध्यायां जनाकुलः ॥ १७ ॥
 रथ्याश्च जनसम्बाधा नटनर्तकसकुलाः ।
 [३५३]गायनैश्च विराविण्यो वादनैश्च तथाऽपरैः ॥ १८ ॥

 गायनैः । गायतेः 'ण्युट् च' इति कर्तरि ण्युट्, गायकैरिति यावत् । तथाऽपरैर्वादनैश्च विराविण्यो रथ्याः आसन्निति योजना ॥ १८ ॥

 प्रदेयांश्च ददौ राजा सूतमागधवन्दिनाम् ।
 ब्राह्मणेभ्यो ददौ वित्तं गोदानानि सहस्रशः ॥ १९ ॥


 प्रदेयाः-पारितोषिकाः । सूताः-पौराणिकाः । मागधाः-वंशा-वळीकीर्तकाः । वन्दिनः-स्तुतिपाठकाः । वन्दिनामिति सम्बन्धसामान्ये षष्ठी । सूतादिसम्बन्धि यद्देयं पारितोषिकं तत्तेभ्यो ददाविति योजना ॥ १९ ॥

 अतीत्यैकादशाहं तु नामकर्म तथाऽकरोत् ।

 एकादशमासन्नं अहः यस्य तदेकादशाहम्, द्वादशाहमित्यन्यपदार्थः । क्षत्रियस्य द्वादशाहं सूतकमिति स्मृतेरेवं व्याख्या । [३५४]इयमेव व्याख्या तु शब्दद्योतिता । नामकर्म-नामकरणम् अकरोत् । पुत्राणां यथाकृतजातकर्मणामिति शेषः ।

 ज्येष्ठं रामं महात्मानं भरतं कैकयीसुतम् ॥ २० ॥
 सौमित्री लक्ष्मणमिति शत्रुघ्नमपरं तथा ।

 कस्य किन्नामेत्यतः-ज्येष्ठमित्यादि । राममिति । रामनामकमिति यावत् । तथाऽग्रेऽपि । सौमित्री- सुमित्रापुत्रौ ॥ २० ॥

 वसिष्ठः परमप्रीतो नामानि कृतवांस्तदा ॥ २१ ॥

 ननु कथं राज्ञो नामकरणादावधिकार इत्यतः-वसिष्ठ इत्यादि । तथा च पुरोहितद्वारा अकरोदित्युक्तं भवति ॥ २१ ॥

 ब्राह्मणान् भोजयामास पौरान् जानपदानपि ।
 अददद्ब्राह्मणानां च रत्नौघममितं बहु ॥ २२ ॥

 ब्राह्मणानामदददिति । एवमादौ सर्वत्र सम्बन्धसामान्ये षष्ठी । अमितं रत्नौघं बह्वदददिति । बहुप्रकारवदिति क्रियाविशेषणम् । दानस्य बहुप्रकाराः हेमाद्यादिस्मृतिप्रसिद्धाः ॥ २२ ॥


 तेषां जन्मक्रियादीनि सर्वकर्माण्यकारयत् ।

 जन्मक्रियादीनि । जातकर्माद्युपनयनान्तानीति यावत् ॥ २२ ॥

 तेषां केतुरिव ज्येष्ठो रामो रतिकरः पितुः ॥ २३ ॥
 बभूव भूयो भूतानां स्वयम्भूरिव संमतः ।

 केतुः-बिरुदध्वजः । स यथान्नदानादिकीर्तिं ख्यापयति एवं इक्ष्वाकुकुलवैभवप्रकाशकः । पितुः भूयः-अभ्यधिकं रतिकरः-सन्तोषकरः । अपि च भूतानां-सर्वप्राणिनां स्वयम्भूः-भगवान् हिरण्यगर्भ इव संमतः-नित्यप्रेमास्पदभूतः । कमेकं सिद्धवत्कृत्य दृष्टान्तः ?-उच्यते। भगवतो हिरण्यगर्भस्यैकस्यैव समग्रजगत्सर्गादिपञ्चकृत्यसमग्रसहजशक्तित्वात् । स्वतस्त्वादिशक्तिप्राधान्येन स महेशः सर्वस्रोतास्त्रतनू उपादानभूय सृजति। 'तदात्मानं स्वयमकुरुत' इति सर्वत्रिस्रोतस्त्रितनुमत्प्रताचामनुपचारेण स्वस्यैवोगदानतया वस्थितत्वात् । अत एव श्रुत्या च तत्त्वमस्यादितोऽकृतकतदनन्यताप्रतिपादनात् । क्रिमेरपि स्वस्वात्मनः परमप्रेमास्पदत्वं च सुस्पष्टम् । एतेन कारणगुणा हि कार्ये गुणानारभन्त इति न्यायेन श्रीमदादिब्रह्ममात्रासाधारणधर्मभूतं सर्वसमतत्वं परमचिति भगवत्तेजोऽशप्रधानावतारे भगवत्यपि रामे स्वत एव न्यायप्राप्तमित्युपदिष्टं वेदितव्यम् ॥ २३ ॥

 सर्वे वेदविदः शूराः सर्वे लोकहिते रताः ॥ २४ ॥
 सर्वे ज्ञानोपपन्नाथ सर्वे समुदिता गुणैः ।

 ज्ञानोपपन्नाः । आत्मानात्मतत्त्वज्ञानयुक्ता इति यावत् । गुणैः-सर्ववर्णाश्रमसाधारणैः क्षत्रासाधारणैश्च सद्गुणैरिति यावत् ॥ २४ ॥

 तेषामपि महातेजा रामः सत्यपराक्रमः ॥ २५ ॥
 इष्टः सर्वस्य लोकस्य शशाङ्क इव निर्मलः ।

 तेषामपीति निर्धारणे षष्ठी। सर्वगुणसमुदित इति शेषः । इष्टः सर्वस्येत्यादि । गुणकथने पौनरुक्त्यं अलङ्कार इत्यादावेवोक्तम् ॥ २५ ॥

 गजस्कन्धेऽश्वपृष्ठे च रथचर्यासु संमतः ॥ २६ ॥
 धनुर्वेदे च निरतः पितुः शुश्रूषणे रतः ।

 रथचर्यासु । रणोचितरथप्रचारेष्वित्यर्थः ॥ २६ ॥

 बाल्यात्प्रभृतिसुस्निग्धो लक्ष्मणो लक्ष्मिवर्धनः ॥ २७ ॥
 रामस्य लोकरामस्य भ्रातुर्येष्ठस्य नित्यशः ।

 बाल्यादिति । प्रभृतियोगे पञ्चम्यस्ति । लक्ष्मिवर्धन इति । 'ड्यापोः संज्ञाछन्दसोः' इति ह्रस्वः । परस्तु मृषाह 'इको ह्रस्वः' इति । लोकान् रमयतीति लोकरामः । ण्यन्तात्कर्मण्यण् ॥ २७ ॥

 सर्वप्रियकरस्तस्य रामस्यापि शरीरतः ॥ २८ ॥
 लक्ष्मणो लक्ष्मिसम्पन्नो बहिः प्राण इवापरः ।

 सर्वेत्यादि । अन्तः प्राणात् अपरः-अन्यः बहिश्वरन् प्राण इव रामस्य निरतिशय प्रेमास्पदभूतो लक्ष्मण: ; अत एव रामस्य शरीरतः -स्वशरीरादपि सवाप्रयकरः-सकलानुकूलकर्मकारी बभूव ॥ २८ ॥

 न च तेन विना निद्रां लभते पुरुषोत्तमः ॥ २९ ॥
 मृष्टमन्नमुपानीतमश्नाति न हि तं विना ।

 तेन-लक्ष्मणेन, "पृथग्विना" इति तृतीया । अन्यतरस्यां-ग्रहणात् तं विनेत्यपि ॥ २९ ॥

 यदा हि हयमारूढो मृगयां याति राघवः ॥ ३० ॥
 तदैनं पृष्ठतोऽभ्येति सधनुः परिपालयन् ।

 मृगया इति निपातः-आखेटः, तमुद्दिश्येति यावत् । सधनुः-धनुस्सहितः । परिपालयन्, रामशरीरमिति शेषः । अयं तु लक्ष्मणस्य भक्त्यतिशयप्रवृत्तः स्वाभाविको व्यापारः, न तु लोकरक्षकस्य रामस्य स्वशरीररक्षणे परापेक्षाऽस्ति ॥ ३० ॥

 भरतस्यापि शत्रुघ्नः लक्ष्मणावरजो हि सः ॥ ३१ ॥
 प्राणैः प्रियतरो नित्यं तस्य चासीत्तथा प्रियः ।

 हि-यस्मात् शत्रुघ्नो लक्ष्मणावरजः-अवरकालप्राशित कैकेयीपिण्डांशजः, तस्माल्लक्ष्मणो रामस्येव भरतस्य शत्रुघ्नः प्रिय आसीदित्यर्थः ॥ ३१ ॥

 स चतुर्भिर्महाभागैः पुत्रैर्दशरथः प्रियैः ॥ ३२ ॥
 बभूव परमप्रीतो देवैरिव पितामहः ।

 चतुर्भिर्देवैः पितामह इवेति । 'वसवः पुरस्तात् रुद्रा दक्षिणतः, आदित्याः पश्चात्, विश्वेदेवा उत्तरतः' इति श्रुतेः भगवच्चतुर्मुखजैः भगवत्पुत्रैर्वस्वादिभिः तथेन्द्रयमवरुणकुबेरैश्च भगवत्पुत्रैर्भगवानिव परमप्रीत इत्यर्थः ॥ ३२ ॥

 ते यदा ज्ञानसम्पन्नास्सर्वे समुदिता गुणैः ॥ ३३ ॥
 ह्रीमन्तः कीर्तिमन्तश्च सर्वज्ञा दीर्घदर्शिनः ।

 ज्ञानादिकं व्याकृतम् ॥ ३३ ॥

 तेषामेवं प्रभावानां सर्वेषां दीप्ततेजसाम् ॥ ३४ ॥
 पिता दशरथो हृष्टो ब्रह्मा लोकाधिपो यथा ।

 तेषां पिता दशरथः तत्पुत्रलाभतः हृष्टो बभूव । यथा भूरादिब्रह्मलोकान्तसावर्तनावर्तनसकललोकस्य, अस्मच्छरीरेषु वयमिव, साक्षात्स्वामी भगवान् ब्रह्मा हिरण्यगर्भः, सर्वेषामेव दप्तितेजसां गृहनक्षत्रचन्द्राग्निभास्करादीनां पुत्राणां लाभतो हृष्टो भवति तथेत्यर्थः ॥ ३४ ॥

 ते चापि मनुजव्याघ्रा वैदिकाध्ययने रताः ॥ ३५ ॥
 पितृशुश्रूषणरताः धनुर्वेदे च निष्ठिताः ।

 अध्ययनं-नियमोपेतो विद्याभ्यासः । वेदसम्बन्धि वैदिकम्, तादृशेऽध्ययने रताः-नियताः इत्यर्थः ॥ ३५ ॥

 अथ राजा दशरथस्तेषां दारक्रियां प्रति ॥ ३६॥
 चिन्तयामास धर्मात्मा सोपाध्यायः सबान्धवः ।

 दाराक्रिया-विवाहः ॥ ३६॥

 तस्य चिन्तयमानस्य मन्त्रिमध्ये महात्मनः ॥ ३७ ॥
 अभ्यागच्छन्महातेजा विश्वामित्रो महामुनिः ।

 मन्त्रिमध्य इति । कदाचित्सभायामवस्थितस्येति शेषः ॥ ३७ ॥

 स राज्ञो दर्शनाकाङ्क्षी द्वाराध्यक्षानुवाच ह ॥ ३८ ॥
 शीघ्रमाख्यात मां प्राप्तं कौशिकं गाधिनन्दनम् ।

 कौशिकं-कुशिकगोत्रजम् ॥ ३८ ॥

 तच्छ्रुत्वा वचनं तस्य राज्ञो वेश्म प्रदुद्रुवुः ॥ ३९ ॥
 सम्भ्रान्तमनसः सर्वे तेन वाक्येन चोदिताः ।

 वेश्मेति । अन्तर्वेश्मेति यावत् । सम्भ्रान्तमनस इति । क्षुभितचित्ता इति यावत् । तेनेति । तदीयेनेति शेषः ॥ ३९ ॥

 ते गत्वा राजभवनं विश्वामित्रमृषिं तदा ॥ ४० ॥
 प्राप्तमावेदयामासुः [३५५]नृपायेक्ष्वाकवे तदा ।

 इक्ष्वाकव इति । तद्वंशजत्वाताच्छब्द्यम् । तथा सर्वत्र ॥ ४० ॥

 तेषां तद्वचनं श्रुत्वा सपुरोधाः समाहितः ॥ ४१ ॥
 प्रत्युजगाम तं हृष्टो ब्रह्माणमिव वासवः ।

 सपुरोधाः-पुरोहितसहितः । ब्रह्माणमिति । [३५६]बृहस्पतिमिति यावत् । तथा हि-'बृहस्पतिर्देवानां ब्रह्म' इति ॥ ४१ ॥

 तं दृष्ट्वा ज्वलितं दीप्तया तापसं संशितव्रतम् ॥ ४२ ॥
 प्रहृष्टवदनो राजा ततोऽर्ध्यमुपहारयत् ।

 ज्वलितमिति । अकर्मकत्वात् 'गत्यर्थाकर्मक' इति कर्तरि क्तः । संशितव्रतं-तीक्ष्णनियमम् । शो तनूकरणे, 'शाच्छोरन्यतरस्यां' ; तादौ कितीत्वम् । उपहारयदिति । अडभावश्छान्दसः ॥ ४२ ॥

 स राज्ञः प्रतिगृह्यार्घ्यं शास्त्रदृष्टेन कर्मणा ॥ ४३ ॥
 कुशलं चाव्ययं चैव पर्यपृच्छन्नराधिपम् ।

 कुशलं-यथास्थितस्य परिपालनं ; व्ययः-अपायः, तदभावः अव्ययं ; सुखाभिवृद्धिमनुपद्रवञ्चेत्यर्थः ॥ ४३ ॥

 पुरे कोशे जनपदे बान्धवेषु सुहृत्सु च ॥ ४४ ॥
 कुशलं कौशिको राज्ञः पर्यपृच्छत्सुधार्मिकः ।

 किं विषयकः कुशलादिप्रश्न इत्यतः-पुर इत्यादि । अथ विशिष्य प्रश्नः-कुशलमित्यादि ॥ ४४ ॥


 अपि ते सन्नताः सर्वे सामन्ता रिपवो जिताः ॥ ४५ ॥
 दैवं च मानुषं चापि कर्म ते साध्वनुष्ठितम् ।

 राज्ञो विशेषः कुशलप्रश्न प्रकारः-अपि त इत्यादि । अपिः प्रश्ने । सामन्ताः सन्नताः-प्रवणा अपि ? रिपवो जिता अपि ? दैवं-देव-लोकोपकारकम् । मानुषं-मनुष्यलोकोपकारकम् । तत्राद्यं कर्म नित्यनैमित्तिकप्रायश्चित्तरूपं, द्वितीयं सामादिषट्कर्मरूपम् ॥ ४५ ॥

 वसिष्ठं च समागम्य कुशलं मुनिपुङ्गवः ॥ ४६ ।।
 ऋषींश्चान्यान् यथान्यायं महाभागानुवाच ह ।

 मुनिपुङ्गवः-विश्वामित्रः; वसिष्ठं च पुरोहितत्वात् राजक्रियाग्निहोत्रदेवपूजागृहादौ स्थितं स्वकार्यार्थं समागम्य-यथान्यायं प्रणामादिपूर्वं सङ्गत्य तान् प्रसिद्धान् वामदेवादीन् ऋषींश्च यथान्यायं समागत्य कुशलं चोवाच । कुशलप्रश्नमपि कृतवानित्यर्थः ॥ ४६ ॥

 ते सर्वे हृष्टमनसस्तत्र राज्ञो निवेशनम् ॥ ४७ ॥
 विविशुः पूजितास्तत्र निषेदुश्च [३५७]यथार्हतः ।

 एवं स्वकार्यार्थं कृतसङ्गमा वसिष्ठादयः सर्वे राज्ञो निवेशनं-तत्सभारूपं विविशुः । पूजिता इति । राज्ञेति शेषः ॥ ४७ ॥

 अथ हृष्टमना राजा विश्वामित्रं महामुनिम् ॥ ४८ ॥
 उवाच परमोदारो हृष्टस्तमभिपूजयन् ।

 परमोदारः-परमदाता । "उदारो दातृमहतोः" हृष्टः- पुलकितः । 'हृषेर्लोमसु' इतीडभावः ॥ १८ ॥


 यथाऽमृतस्य सम्प्राप्तिः यथावर्षमनूदके ॥ ४९ ॥
 यथा सदृशदारेषु[३५८] पुत्रजन्माप्रजस्य च ।

 अनूदके-'अन्येषामपि' ति दीर्घः । सहशदारेषु-जातिवयोरूप-कुलगुणतुल्येष्वित्यर्थः ॥ ४९ ॥

 प्रणष्टस्य यथा लाभो यथा हर्षो महोदये ॥ ५० ॥
 तथैवागमनं मन्ये स्वागतं ते महामुने ! ।

 यथा प्रणष्टस्य-अदृष्टस्य निजपित्रादिस्थापितनिध्यादेः लाभः यथा महोदयः-महः-पुत्रविवाहाद्युत्सवः तस्य उदयो यस्य स तथा, तादृशो हर्षो यथा, तथैव ते आगमनं अचिन्तितोपनतमिति सन्तोषकरं सिद्धं मन्ये । हे महामुने ! ते स्वागतम् ॥ ५० ॥

 कं च ते परमं कामं करोमि किमु हर्षितः ॥ ५१ ॥
 पात्रभूतोऽसि मे ब्रह्मन् ! दिष्ट्या प्राप्तोऽसि धार्मिक ! ।

 कं च ते परमं कामं-अभीष्टं करोमि-कुर्याम्, वर्तमान सामीप्ये वर्तमानवल्लट् । हर्षितः-तत्कारणमपि मे सिध्यति किमु ! मे त्वद्विषयकमत्कर्तृकसर्वशुश्रूषाणां पात्रभूतस्त्वं दिष्ट्या-शुभादृष्टवशेन प्राप्तोऽसि ॥ ५१ ॥

 [३५९]अद्य मे सफलं जन्म जीवितं च सुजीवितम् ॥ ५२ ॥
 पूर्वं राजर्षिशब्देन तपसा द्योतितप्रभः ।
 ब्रह्मर्षित्वमनु प्राप्तः पूज्योऽसि बहुधा मया ॥ ५३ ॥


 पूर्वं राजर्षिशब्देन-तद्वाच्यसाधकेन तपसा अस्मदादिवत् द्योतितप्रभः-प्रकाशितवैभवः,

अनु–पश्चात् ब्रह्मर्षिशब्दवाच्यत्वसाधकेन तपसा ब्रह्मर्षित्वं च प्राप्तः । यदेवं अतः बहुधा-बहुप्रकारेण राजर्षिप्रकारेण ब्रह्मर्षिप्रकारेण च विशिष्य पूज्योऽसि ॥ ५३ ॥

 तदद्भुतमिदं ब्रह्मन् ! पवित्रं परमं मम ।
 शुभक्षेत्रगतश्चाहं तव सन्दर्शनात् प्रभो ! ॥ ५४ ॥

 इदमिति । त्वदागमनमित्यर्थः । हे प्रभो ! तव सन्दर्शनात् एतद्देहलब्धात् अहं शुभक्षेत्रगतः-ऐहिकामुष्मिकसकलशुभसाधनपुण्यदेहमेव प्राप्तवानस्मि; सफलजन्मास्मीति यावत् । "इदं शरीरं कौन्तेय क्षेत्रमित्यभिधीयते" इति गीतिः ॥ ५४ ॥

 ब्रूहि यत् प्रार्थितं तुभ्यं कार्यमागमनं प्रति ।
 इच्छाम्यनुगृहीतोऽहं त्वदर्थपरिवृद्धये ॥ ५५ ॥

 तुभ्यमिति षष्ठ्यर्थे चतुर्थी । ते यत्कार्यं प्रति आगमनं तत्ते प्रार्थितं कार्यं ब्रूहि अभिमतकार्यनियोगेनानुगृहीतोऽहं त्वदर्थपरिवृद्धये–त्वत्प्रयोजनपरिवृद्धिं कर्तुमिच्छामि । 'तुमर्थाच्च भाववचनात्' इति चतुर्थी ॥ ५५ ॥

 कार्यस्य न विमर्शं च गन्तुमर्हसि कौशिक !
 कर्ता चाहमशेषेण दैवतं हि भवान् मम ॥ ५६ ॥

 विमर्शः-करिष्यति न वेति संशयः । उक्तविमर्शं विना नियोगहेतुः-दैवतं हीति ॥ ५६ ॥

 मम चायमनुप्राप्तो महानभ्युदयो द्विज !
 तवागमनजः कृत्स्नो धर्मश्चानुत्तमो मम ॥ ५७ ॥

 इतश्च न विमर्शं [३६०]गन्तुमर्हसीत्युच्यते-मम चेत्यादि ॥ ५७ ॥

 इति हृदयसुखं निशम्य वाक्यं
  श्रुतिसुखमात्मवता विनीतमुक्तम् ।
 प्रथितगुणयशा गुणैर्विशिष्टः
  परम ऋषिः परमं जगाम हर्षम् ॥ ५७ ॥

इत्यार्षे श्रीमद्रामायणे बालकाण्डे अष्टादशः सर्गः

 हृदयसुखं अत एव श्रुतिसुखं च । विनीतं-विनयान्वितं यथा तथा उक्तम् । प्रथितगुणयशाः-'ततो मूलैः फलैः पर्णैस्तृणैरिति च वर्तयन् चरन्नन्ततः प्रवृत्तानि । ततोऽपो वायुमाकाशम्' इत्युपदिष्टैः प्रसिद्धै[३६१]रलौकिकसामान्यतपोगुणैः अम्बा चतुर्व्यूह चतुर्दिगनुष्ठानपरमसाधनैः उपजातब्रह्मदेवाम्बया नूतनस्थिरसर्गप्रवृत्यादिरूपं यशो यस्य स तथा । गुणैः-ब्रह्मर्षित्वप्रापकैश्शमदमतपश्शौ चादिनवगुणैर्वसिष्ठादिवद्विशिष्टः, अत एव परमऋषिः । 'ऋत्यक' इति प्रकृतिभावः । [३६२]इच्छांश (५७) मानः सर्गः ॥ ५७ ॥

इति श्रीमद्रामायणामृतकतकटीकायां बालकाण्डे अष्टादशः सर्गः


अथ एकोनविंशः सर्गः

[विश्वामित्रवाक्यम् ]

 तच्छ्रुत्वा राजसिह्मस्य वाक्यमद्भुतविस्तरम् ।
 हृष्टरोमा महातेजा विश्वामित्रोऽभ्यभाषत ॥ १॥


 अथ राजप्रतिश्रुतस्वकार्येण विश्वामित्रेण स्वकार्यप्रवृत्तिरिव देवकार्य एव प्रवृत्तिः। तच्छ्रुत्वेत्यादि । अद्भुतविस्तरं-'दैवतं हि भवान् मम' इत्युक्तेः ; अद्भुतः-विस्मयकरः विस्तरः यस्मिन् 'अथ हृष्टमना राजा' इत्यादिराजवाक्ये तत्तथा । 'प्रथने वावशब्दे' इति व्युपसर्गे घञनिषेधः ॥ १ ॥

 सदृशं राजशार्दूल ! तवैतद्भुवि[३६३] नान्यतः ।
 महाकुलप्रसूतस्य वसिष्ठव्यपदेशिनः ॥ २ ॥

 सहशमित्यादि । महावंशप्रसूतत्वादिगुणकस्य तवैव एतत्-उक्तरूपं वचनं सदृशम् । कुतः-यस्मादेतादृशवचनं नान्यतः-अन्यस्माद्यस्मादपि कस्माद्राज्ञः समस्ति, अतस्तवैव सदृशं-युक्तरूपम् । वसिष्ठव्यपदेशिनः । व्यपदेशः-नियोगः सोऽस्यास्तीति इनिः । वसिष्ठनियोगवर्तिन इति यावत् । इदमेव सर्वगुणसम्पत्तिमूलम् ॥ २ ॥

 यत्तु मे हृद्गतं वाक्यं तस्य कार्यस्य निश्चयम् ।
 कुरुष्व राजशार्दूल ! भव सत्यप्रतिश्रवः ॥ ३ ॥

 यत्त्वित्यादि । अतः परं वक्तव्यं हृद्गतं यन्मे वाक्यं अस्ति, तद्विषयकस्य कार्यस्यावश्य[३६४] कर्तव्यत्वनिश्चयं कुरुष्व । प्रतिश्रवः-प्रतिज्ञा ॥ ३ ॥

 अहं नियममातिष्ठे [३६५]विध्यर्थं पुरुषर्षभ !
 तस्य विघ्नकरौ द्वौ तु राक्षसौ कामरूपिणौ ॥ ४ ॥


 व्रते मे बहुशचीर्णे समाप्त्यां राक्षसाविमौ ।
 मारीचश्च सुबाहुश्च वीर्यवन्तौ सुशिक्षितौ ।
 समांसरुधिरौघेण वेदिं तामभ्यवर्षताम् ॥ ५ ॥

 किंतद्वाक्यमित्यत्र 'रामं मे दातुमर्हसि' इति वक्तुं पातनिकां-करोति-अहमित्यादि । विधिः-यागः । यदाऽहं यज्ञार्थं नियम-मातिष्ठे-दीक्षामास्थितोऽस्मि तदा तस्य यज्ञस्य विघ्नकरौ ॥ ४ ॥ कामरूपत्वादिगुणकौ मारीचाद्याख्यौ यौ द्वौ राक्षसौ स्तः, ताविमौ मे-मम व्रते-दीक्षारूपे नियमे बहुशः-अभ्यधिकम्, समाप्तकल्पतयेति यावत्, चीर्णे-अनुष्ठिते सति, चरेः निष्ठायामनिट्त्वम्, ईकारश्च छान्दसः, समाप्त्यां-समाप्तिकाले मांसरुधिरौधेण तां वेदिमभ्यवर्षतां ॥ ५ ॥

 अवधूते तथाभूते तस्मिन्नियमनिश्चये ।
 कृतश्रमो निरुत्साहस्तस्मादेशादपाक्रमे ॥ ६ ॥

 तस्मिन् यज्ञे तथाभूते-नाशिते नियमनिश्चये च अवधूते कृतश्रमः–कृतवृथाप्रयासः अत एव निरुत्साहः तस्माद्देशादपाक्रमे-अप-गतो भवामि ॥ ६ ॥

 न च मे क्रोधमुत्स्रष्टुं बुद्धिर्भवति पार्थिव !
 तथा भूता हि सा चर्या न शापस्तत्र मुच्यते ॥ ७ ॥

 ननु प्रतिसर्गकर्तुः महामहिमस्य ते कियदस्त्येतद्रक्षः प्रक्षेप इत्यत्रोक्तम्-न च म इत्यादि । क्रोधमुत्स्रष्टुमिति । शप्तुमिति यावत् । कुतोऽशाप इत्यतः–तथेत्यादि । हि यस्मात् सा चर्या-दीक्षा तथाभूता-शापादि प्रवृत्यनर्हा, तस्मात् तत्र-तस्यां चर्यायाम् शापो न विमुच्यते-न क्रियते ॥ ७ ॥

 स्वपुत्रं राजशार्दूल! रामं सत्यपराक्रमम् ।
 काकपक्षधरं शूरं ज्येष्टं मे दातुमर्हसि ॥ ८ ॥

 किं तत इत्यतः-स्वपुत्रमित्यादि । काकपक्षधरं-बालानां शिखा काकपक्षः ॥ ८ ॥

 शक्तो ह्येष मया गुप्तो दिव्येन स्वेन तेजसा ।
 राक्षसा ये विकर्तारस्तेषामपि विनाशने ॥ ९ ॥

 किमेतेन पितृमातृपरिपालनीयेन बालेनेत्यतः-शक्त इत्यादि । मयेति । पितृस्थानीयेनेति शेषः । दिव्येन स्वेन तेजसा तु ये राक्षसा विकर्तारः-विघ्नकर्तारः तेषां विनाशनेऽपि शक्तः । अतो नाप्रयोजनतैतन्नयनस्य ॥ ९ ॥

 श्रेयश्चास्मै प्रदास्यामि बहुरूपं न संशयः ।
 त्रयाणामपि लोकानां येन ख्यातिं गमिष्यति ॥ १० ॥

 बहुरूपमिति । ऐहिकामुष्मिकबहुविषयत्वेन बहुविधत्वम्। त्रयाणामिति। त्रिष्वपीति यावत् । येनेति । मत्प्रवृत्तश्रेयसेति यावत् ॥ १० ॥

 न च तौ राममासाद्य शक्तौ स्थातुं कथञ्चन ।
 न च तौ राघवादन्यो हन्तुमुत्सहते पुमान् ॥ ११ ॥ ॥

 आसाद्येति। तत्पुरतो युद्ध इति शेषः ॥ ११ ॥

 वीर्योत्सिक्तौ हि तौ पापौ कालपाशवशं गतौ ।
 रामस्य राजशार्दूल ! न पर्याप्तौ महात्मनः ॥ १२ ॥

 कुतो रामादन्यो हन्तुं नोत्सहत इत्यतः-वीर्येत्यादि । रामो वा कथं हन्यादित्यतः-कालेत्यादि । रामस्य-वीर्यायेति शेषः ॥ १२ ॥

 [३६६]न च [३६७]पुत्रगतं स्नेहं कर्तुमर्हसि पार्थिव ! ।
 अहं ते प्रतिजानामि हतौ तौ विद्धि राक्षसौ ॥ १३ ॥

 पुत्रं गतं-पुत्रगतम् । 'द्वितीया श्रित' इत्यादिना समासः । अस्मासु विसर्जनप्रतिबन्धभूतमिति शेषः ॥ १३ ॥

 अहं वेद्मि महात्मानं रामं सत्यपराक्रमम् ।
 वसिष्ठोऽपि महातेजा ये चेमे तपसि स्थिताः ॥ १४ ॥

 कुत एवमित्यतः-अहमित्यादि । रामं वेद्मीति । निरतिशयवैभवश्रीहिरण्यगर्भतेजोविभूत्यवताररूपं रामतत्त्वमित्यर्थः । उक्ततत्त्वज्ञानं ब्रह्मर्षिमात्रसिद्धमित्युच्यते-वसिष्ठ इत्यादि ॥ १४ ॥

 यदि ते धर्मलाभं च यशश्च परमं भुवि ।
 स्थितमिच्छसि राजेन्द्र! सुतं मे दातुमर्हसि ॥ १५ ॥

 न केवलं मत्कार्यमात्रसिद्धिः, अपि तु तवापि ; यथेच्छसि तथा कुर्वित्युच्यते-यदीत्यादि । यदि धर्मलाभमिच्छसि, भुवि स्थितं-शाश्वतीं प्रतिष्ठाम् परमं यशश्च यदीच्छसि तदा ते-तव सुतं-रामं मे-मह्यं दातुमर्हसि ॥ १५ ॥

 यद्यप्यनुज्ञां काकुत्स्थ ! ददते तव मन्त्रिणः ।
 वसिष्ठप्रमुखाः सर्वे ततो रामं विसर्जय ॥ १६ ॥


 यदि मदुक्तार्थो मदूचनमात्रतस्ते हितं न भाति, अथापि त्वदिष्टसंमतानामेव वचनानुयोगं कुर्वित्युच्यते-यद्यपीत्यादि । अनुज्ञारामदानविषयकानुमतिः । [३६८]ततोऽपि-तदापि वा इति योजनार्थः ॥ १६ ॥

 अभिप्रेतमसंसक्तमात्मजं दातुमर्हसि ।
 दशरात्रं हि यज्ञस्य रामं राजीवलोचनम् ॥ १७ ॥

 नापि चिरविप्रयोगः पुत्रेण ते इत्याह-अभिप्रेतमित्यादि । इष्टमिति यावत् । असंसक्तमिति । अतीतबाल्यत्वान्मातापितृकसक्तिरहितं रामं दातुमर्हसि | हि-यस्मात् यज्ञस्य दशरात्रं-यज्ञसम्बधी दशरात्रपरिमितकाल एव राजीवलोचनं रामं अपेक्षते यज्ञपूर्तये, दशानां रात्रीणां समाहारः, द्विगुरेकवचनम्, ततः 'अहस्सर्व' इत्यादिना सङ्ख्यापूर्वराज्यन्तादप्यच् । 'रात्राह्न' इत्यादिना पुंस्त्वम् । 'कालाध्वनोः' इति द्वितीया ॥ १७ ॥

 नात्येति कालो यज्ञस्य यथाऽयं मम राघव !
 तथा कुरुष्व भद्रं ते मा च शोके मनः कृथाः ॥ १८ ॥

 हे राघव-दशरथ ! ममाऽयं यज्ञस्य कालो यथा-यथोक्तकालं च नात्येति-नाभ्याधिककालविलम्बी भवतीत्यर्थः । आवृत्तिरपीह । तदयमर्थः । हे राघव ! ममाऽयं यज्ञस्य कालो यथा नात्येति-नातिपतेत् तथा कुरुष्वेति ॥ १८ ॥

 इत्येवमुक्त्वा धर्मात्मा धर्मार्थसहितं वचः ।
 विरराम महातेजा विश्वामित्रो महामुनिः ॥ १९ ॥

 धर्मार्थसहितं-धर्मप्रयोजनसहितम् ॥ १९ ॥

 स तन्निशम्य राजेन्द्रो विश्वामित्रवचः शुभम् ।
 शोकमभ्यागमत्तीव्रं व्यषीदत भयान्वितः ॥ २० ॥


 व्यषीदत। 'प्राक्सितादङ्व्यवायेऽपि' इति षत्वम्। व्यत्ययादात्मनेपदम् । भयान्वितः-रक्षोनिमित्तपुत्रविपत्तिभययुक्तः ॥ २० ॥

 इति हृदयमनोविदारणं
  मुनिवचनं तदतीव शुश्रुवान् ।
 नरपतिरभवन्महांस्तदा
  व्यथितमनाः प्रचचाल चासनात् ॥ २१ ॥

इत्यर्षे श्रीमद्रामायणे बालकाण्डे एकोनविंशः सर्गः

 हृदयं-हृदयपुण्डरीकं, तद्वर्त्यात्मा तथेत्युच्यते । मनः-तदन्तःकरणम् । अतीव-अत्यर्थम् हृदयादि विदारणमिति योजना । महान् । सार्वभौम इति यावत् । महात्मा-महाबुद्धिः । व्यथितमनाः-[३६९]मूर्च्छितचित्तः। आसनाच्चचालेति । अवस्थातुमशक्तो निस्संज्ञः पपातेति यावत् । आकार (२९ १/२) मानः ॥ २१ ॥

इति श्रीमद्रामायणामृतकतकटीकायां बालकाण्डे एकोनविंशः सर्गः


अथ विंशः सर्गः

[दशरथसन्तापः]

 तच्छ्रुत्वा राजशार्दूलो विश्वामित्रस्य भाषितम् ।
 मुहूर्तमिव निस्संज्ञः संज्ञावानिदमब्रवीत् ॥ १ ॥

 एवमर्थितरामदानकस्य नृपतेः, रामे प्राकृतमानवमत्या प्राप्तो लौकिकव्यवहार उपन्यस्यते-तच्छ्रुत्वेत्यादि । अनेन वृत्तानुवादः । इव शब्द एवार्थे । मुहूर्तं निस्संज्ञ एव-मूर्च्छित एव स्थित्वेत्यर्थः॥ १ ॥


 ऊनषोडशवर्षो मे रामो राजीवलोचनः ।
 न युद्धयोग्यतामस्य पश्यामि सह राक्षसैः ॥ २ ॥

 ऊनेति । एकेन द्वाभ्यां वा ऊनाः षोडशवर्षाः यस्य स तथा । इदं विशेषणं 'न युद्धयोग्यतामस्य पश्यामि' इत्युक्तिप्रयोजकम्[३७०] । षोडशवर्षः कुमारः क्षत्रियकुमार एव कवचधरो युद्धार्हः इति शास्त्रम् । अतो रामो विश्वामित्रायतिकाले द्वादशवर्षः पञ्चदशवर्षो वेति काकदन्तपरीक्षायां बहु प्रयतते [३७१]कश्चित् ॥ २ ॥

 इयमक्षौहिणी पूर्णा यस्याहं पतिरीश्वरः ।
 अनया संवृतो गत्वा योद्धाऽहं तैर्निशाचरैः ॥ ३ ॥

 अक्षोहिणीति।' अक्षादूहिन्यां वृद्धिर्वक्तव्या' । सा च सङ्ख्यादि-पर्वोक्ता-एको रथो गजश्चैको नराः पञ्च पदातयः । त्रयश्च तुरगास्तज्ज्ञैः पत्तिरित्यभिधीयते । पतिं तु त्रिगुणामेकां विदुः सेनामुखं बुधाः । त्रीणि सेनामुखान्येको गुल्म इत्यभिधीयते ॥ त्रयो गुल्मा गणो नाम, वाहिनी तु गणास्त्रयः । स्मृतास्त्रित्रस्तु वाहिन्यः पृतनेति विचक्षणैः ॥ चमूस्तु पृतनास्तिस्रुश्चम्वस्तिस्रस्त्वनीकिनी । अनीकिनीं दशगुणां प्राहुरक्षौहिणीं बुधाः-इति । यस्याहमिति-सन्धिरार्षः । पतिः, पालयिता-'पातेर्डेतिः' ईश्वरः-स्वामी । योद्धेति तृच् । अस्तीति शेषः, तेर्यज्ञविघ्नकरैरिति च शेषः ॥ ३ ॥

 इमे शूराश्च विक्रान्ता भृत्या मेऽस्त्रविशारदाः ।
 योग्या रक्षोगणैर्योद्धुं न रामं नेतुमर्हसि ॥ ४ ॥


 अहमेव धनुष्पाणिर्गोप्ता समरमूर्धनि ।
 यावत्प्राणान् धरिष्यामि तावद्योत्स्ये निशाचरैः ॥ ५ ॥

 [३७२]अत एव-समरमूर्धनीत्यादि ॥ ५ ॥

 निर्विघ्ना व्रतचर्या सा भविष्यति सुरक्षिता ।
 अहं तत्र गमिष्यामि न रामं नेतुमर्हसि ॥ ६ ॥
 बालो ह्यकृतविद्यश्च न च वेत्ति बलाबलम् ।
 न चास्त्रबलसंयुक्तो न च युद्धविशारदः ॥ ७ ॥
 न चासौ रक्षसां योग्यः, कूटयुद्धा हि ते भृशम् ।

 रामनयने काऽनुपपत्तिरित्यतस्तद्वर्णनम्-बाल इत्यादि । ऊनषोडशवर्षत्वादेव बालत्वम् । अत एवाकृत सर्वविद्यश्च । न हि धनुर्वेदे बालस्याधिकारः । अयमेव हेतुरग्रिमविशेषणानामपि सिद्धौ न चासौ रक्षसां योग्य इति । तत्सम्बन्धिनि रण इति शेषः । कुत इत्यतः-कूटेत्यादि । 'कूटं कपटशालादौ' ॥ ७ ॥

 विप्रयुक्तो हि रामेण मुहूर्तमपि नोत्सहे ॥ ८ ॥
 जीवितुं मुनिशार्दूल ! न रामं नेतुमर्हसि ।

 तिष्ठतु रामस्य क्षमचिन्ता ; मद्वृत्तान्त एतावानित्याह-विप्रयुक्त इत्यादि ॥ ८ ॥

 अथ वा राघवं ब्रह्मन् ! नेतुमिच्छसि सुव्रत ! ॥ ९॥
 चतुरङ्गसमायुक्तं मया च सहितं नय ।

 अनन्तरोक्तानुपपत्तिपरिहारः-अथवेत्यादि ॥ ९ ॥


 षष्टिर्वर्षसहस्राणि जातस्य मम कौशिक ! ॥ १० ॥
 दुःखेनोत्पादितश्चायं न रामं नेतुमर्हसि ।

 इतश्चेतश्च [३७३]रामनयनमयुक्तमित्याह-षष्टिरित्यादि । जातस्य ममेति । अतीतानि तदनन्तरमिति शेषः । दुःखं व्रतोपवासयज्ञदीक्षा-लक्षणम् ॥ १० ॥

 चतुर्णामात्मजानां हि प्रीतिः परमिका मम ॥ ११ ॥
 ज्येष्ठं धर्मप्रधानं च न रामं नेतुमर्हसि ।

 परमिका । परमशब्दात्स्वार्थे कः । 'प्रत्ययस्थात्' इत्यादिना इत्वम् ॥ ११ ॥

 किंवीर्या राक्षसास्ते च कस्य पुत्राश्च ते च के ? ॥ १२ ॥
 कथंप्रमाणाः के चैतान् रक्षन्ति मुनिपुङ्गव ! ।

 अथ सर्वथा रामनयनमन्याय्यमिति प्रतिपादयितुं योद्धव्यरक्षस्वरूपादिप्रश्नः-किंवीर्या इत्यादि । के च त इति । किंनामान इति यावत् । कथंप्रमाणाः-[३७४]किंवाक्यप्रमाणकाः ॥ १२ ॥

 कथं च प्रतिकर्तव्यं तेषां रामेण रक्षसाम् ॥ १३ ॥
 मामकैर्वा बलैर्ब्रह्मन् ! मया वा कूटयोधिनाम् ।

 तेषां प्रतिकर्तव्यं-प्रतिक्रिया संहारश्च कथं स्यात् ॥ १३ ॥

 सर्वं मे शंस भगवन् ! कथं तेषां मया रणे ॥ १४ ॥
 स्थातव्यं दुष्टभावानां, वीर्योत्सिक्ता राक्षसाः ।


 दुष्टभावानां तेषां सम्बधिनि रण इति योजना ॥ १४ ॥

 तस्य तद्वचनं श्रुत्वा विश्वामित्रोऽभ्यभाषत ॥ १५ ॥
 पौलस्त्यवंशप्रभवो रावणो नाम राक्षसः ।
 स ब्रह्मणा दत्तवरस्त्रैलोक्यं बाधते भृशम् ॥ १६ ॥
 महावलो महावीर्यो राक्षसैर्बहुभिर्वृतः ।

 त्रैलोक्यं बाघत इति । इदं किं वीर्या इत्यस्योत्तरम् ॥ १६ ॥

 श्रूयते हि महावीर्यो रावणो राक्षसाधिपः ॥ १७ ॥
 साक्षाद्वैश्रवणभ्राता पुत्रो विश्रवसो मुनेः ।

 प्रसिद्धश्चायं रावण इत्युच्यते-श्रूयत इति ॥ १७ ॥

 यदा स्वयं न यज्ञस्य विघ्नकर्ता महाबलः ॥ १८ ॥
 तेन सञ्चोदितौ द्वौ तु राक्षसौ वै महाबलौ ।
 मारीचश्च सुबाहुश्च यज्ञविघ्नं करिष्यतः ॥ १९ ॥

 यदा स्वयं न विघ्नकर्तेति । अलक्ष्यत्वादिनेति शेषः । तेन सञ्चोदिताविति किंप्रमाणा इत्यस्योत्तरम् ॥ १९ ॥

 इत्युक्तो मुनिना तेन राजोवाच मुनिं तदा ।
 न हि शक्तोऽस्मि सङ्ग्रामे स्थातुं तस्य दुरात्मनः ॥ २० ॥

 अथ रक्षःस्वरूपादि प्रश्ने रावणप्रसङ्गेन स्वयमेव निवृत्तप्रतिक्रियाप्रत्याशो राजाऽऽह-इत्युक्त इत्यादि ॥ २० ॥

 स त्वं प्रसादं धर्मज्ञ ! कुरुष्व मम पुत्रके ।
 मम चैवाल्पभाग्यस्य दैवतं हि भवान् गुरुः ॥ २१ ॥

 अल्पभाग्यस्येति । प्रकृतनियोगकरणासमर्थत्वादित्याशयः । कथं तर्हि मत्प्रसादप्रसङ्ग इत्यत्राह-दैवतं हीत्यादि । देवताः–ब्रह्मविदः परमाचार्याश्च नित्यकृतार्थत्वतः कुतश्चित्किञ्चिदलाभान्न कोपादिविकृतिं प्राप्नुवन्तीत्याशयः ॥ २१ ॥

 देवदानवगन्धर्वाः यक्षाः पतगपन्नगाः ।
 न शक्ता रावणं सोढुं किं पुनर्मानवा युधि ॥ २२ ॥

 रावणसङ्ग्रामाद्वैमुख्यमपि न मे दूषणं अशक्यार्थत्वादित्याहदेवेत्यादि ॥ २२ ॥

 स हि वीर्यवतां वीर्यमादत्ते युधि राक्षसः ।
 तेन चाहं न शक्नोमि संयोद्धुं तस्य वा बलैः ॥ २३ ॥
 सबलो वा मुनिश्रेष्ठ ! सहितो वा ममात्मजैः ।

 वीर्यमादत्त इति । आहरतीति यावत् । तस्य वा बलैः-मारीचादिभिरिति यावत् ॥ २३ ॥

 कथमध्यमरप्रख्यं सङ्क्रामाणामकोविदम् ॥ २४ ॥
 बालं मे तनयं ब्रह्मन् ! नैव दास्यामि पुत्रकम् ।

 अमरप्रख्यं-देवतुल्यरूपादिमन्तम् । तर्हि यज्ञरक्षायै देहि इत्यत्राह-सङ्ग्रामाणामित्यादि । पुत्रकमिति । अनुकम्पायां कन् । अनुकम्पाया विषयभूतमिति यावत् ॥ २४ ॥

 अथ कालोपमौ युद्धे सुतौ सुन्दोपसुन्दयोः ॥ २५ ॥
  [३७५]यज्ञविघ्नकरौ तौ, ते नैव दास्यामि पुत्रकम् ।
 [३७६]तयोरन्यतरेणाहं योद्धा स्यां स सुहृद्गणः ॥ २६ ॥


 सुन्दोपसुन्दयोस्तौ सुतौ युद्धे कालोपमौ-माचिसुबहू इति यावत् । अतः तद्युद्धस्य पुत्रकं न दास्यामीति ॥ २६ ॥

 इति नरपतिजल्पनाद्द्विजेन्द्रं
  कुशिकसुतं सुमहान् विवेश मन्युः ।
 सुहुत इव समिद्भिराज्यसिक्तः
  समभवदुज्वलितो महर्षिवह्निः ॥ २७ ॥

इत्यार्षे श्रीमद्रामायणे बालंकाण्डे विंशः सर्गः

 सुहुतः प्रथमं शुष्कसमिद्भिः पश्चादाज्यसिक्तोऽग्निरिवेति योजना । सार (२७) मानः । आहत्य मायास्था (७१५) मानः ॥ २७ ॥

इति श्रीमद्रारामायणामृतकतकटीकायां बालकाण्डे विंशः सर्गः


अथ एकविंशः सर्गः

[वसिष्टेन दशरथसान्त्वनम्]

 तच्छ्रुत्वा वचनं तस्य स्नेहपर्याकुलाक्षरम् ।
 समन्युः कौशिको वाक्यं प्रत्युवाच महीपतिम् ॥ १ ॥

 एवं स्नेहपाशात् प्राप्तमहानर्थं राजानमन्वर्थपुरोहितस्त्रायत इत्यावेद्यते-तच्छ्रुत्वेत्यादि । स्नेहेन पर्याकुलानि-गद्गदान्यक्षराणि यस्मिन् तत्तथा ॥ १ ॥

 पूर्वमर्थं प्रतिश्रुत्य प्रतिज्ञां हातुमिच्छसि ।
 राघवाणामयुक्तोऽयं कुलस्यास्य विपर्ययः ॥ २ ॥

 अर्थमिति । प्रार्थितार्थमित्यर्थः । अयं विपर्यय इति । प्रतिज्ञा-हानिरूपोऽयं विपर्ययः राघवाणामस्य कुलस्यायुक्तः ॥ २ ॥

 यदीदं ते क्षमं राजन् ! गमिष्यामि यथाऽऽगतम् ।
 मिथ्याप्रतिज्ञः काकुत्स्थ ! सुखीभव सबान्धवः ॥ ३ ॥

 इदमिति । कुलानुचितार्थानुष्ठानमित्यर्थः । मिथ्याप्रतिज्ञ-इत्यादिः व्यङ्ग्योक्तिः ॥ ३ ॥

 तस्य [३७७]रोषपरीतस्य विश्वामित्रस्य धीमतः ।
 चचाल वसुधा कृत्स्ना विविशुश्च च भयं सुराः ॥ ४ ॥

 धीमत इति । रोषं दृष्ट्वेति शेषः । सुरा भयं विविशुरिति । जगदन्यथाकृतिसमर्थोऽयमद्य च क्रुद्धः किं करिष्यतीति भयम् ॥ ४ ॥

 त्रस्तरूपं स विज्ञाय जगत् सर्वं महानृषिः ।
 नृपति सुव्रतो धीरो वसिष्ठो वाक्यमब्रवीत् ॥ ५ ॥

 त्रस्तरूपं-भीतस्वरूपं । जगत्-त्रिस्रोतोमात्रं । धरिः-निर्भयः ॥ ५ ॥

 इक्ष्वाकूणां कुले जातस्साक्षाद्धर्म इवापरः ।
 धृतिमान् सुव्रतःश्रीमान् न धर्मं हातुमर्हसि ॥ ६ ॥
 त्रिषु लोकेषु विख्यातो [३७८]धर्मात्मा इति राधवः ।
 स्वधर्मं प्रतिपद्यस्व नाधर्मं वोढुमर्हसि ॥ ७ ॥
 संश्रुत्यैवंकरिष्यामीत्यकुर्वाणस्य राघव !
 इष्टापूर्तबधो भूयात् तस्माद्रामं विसर्जय ॥ ८ ॥

 धर्म इवापर इति । इतः पूर्वमिति शेषः । धर्मात्मा इतीति असन्धिश्छान्दसः । स्वधर्मं-सत्यप्रतिज्ञत्वम् ॥ ७ ॥


 अकुर्वाणस्येति । प्रतिज्ञांतार्थमननुतिष्ठत इत्यर्थः । इष्टं-अश्वमेधान्तयागः, पूर्तं-वापीकूपतडाकादिप्रतिष्ठा, तयोर्वधः-नाशः भूयात् । भवेदिति यावत् ॥ ७ ॥

 कृतास्त्रमकृतास्त्रं वा नैनं शक्ष्यन्ति राक्षसाः ।
 गुप्तं कुशिकपुत्रेण ज्वलनेनामृतं यथा ॥ ९ ॥

 अथ पुत्रविपत्तिभीतिमपनयति-कृतेत्यादि । शक्ष्यन्तीति । प्रधर्षितुमिति शेषः ॥ ९ ॥

 एष विग्रहवान् धर्म एष वीर्यवतां वरः ।
 एष [३७९]बुध्याऽधिको लोके तपसश्च परायणम् ॥ १० ॥

 कुत एवं प्रभावः कुशिकपुत्रस्येत्यतः-एष इत्यादि । परं च तत् अयनं-आस्पदं तथा । नातोऽधिकः क्वचित्तपस्वी भूतो भावी वेति यावत् ॥ १० ॥

 एषोऽस्त्रान् विविधान् वेत्ति त्रैलोक्ये सचराचरे ।
 नैनमन्यः पुमान् वेत्ति न च वेत्स्यन्ति के चन ॥ ११ ॥

 अस्त्रानिति पुल्लिङ्गश्छान्दसः । एनं-एतदवगतमस्त्रसमूहम् ॥ ११॥

 [३८०]नैवं देवा न ऋषयः नासुरा न च राक्षसाः ।
 गन्धर्वयक्षप्रवराः सकिन्नरमहोरगाः ॥ १२ ॥

 केचनेत्यस्यैव प्रपञ्चः-नैवं देवा इत्यादि ॥ १२ ॥

 सर्वास्त्राणि कृशाश्वस्य पुत्राः परमधार्मिकाः ।
 कौशिकाय पुरा दत्ता यदा राज्यं प्रशासतिं ॥ १३ ॥


 ननु कथं देवाद्यनवगतसर्वास्त्रप्राप्तिः ऋषेर्विश्वामित्रस्येत्यतः-सर्वास्त्राणीत्यादि । कृशाश्वः-प्रजापतिष्वेकः । परमधार्मिकाः-प्रतिष्ठावन्त इति यावत् । एतेन पापिदुर्लभत्वं सूचितम् । प्रशासतीति बहुवचनं छान्दसं । प्रशासतस्तस्येति यावत् ॥ १३ ॥

 तेऽपि पुत्राः कृशाश्वस्य [३८१]प्रजापतिसुतासुताः ।
 नैकरूपा महावीर्या दीप्तिमन्तो जयावहाः ॥ १४ ॥

 तेषां मातृप्राशस्त्यमपि प्रतिपाद्यते-तेऽपीत्यादि ॥ १४ ॥

 जया च सुप्रभा चैव दक्षकन्ये सुमध्यमे ।
 ते सुवातेऽस्त्रशस्त्राणि शतं परमभास्वरम् ॥ १५ ॥

 के ते प्रजापतिसुते इत्यतः-जया चेत्यादि । शस्त्राणि–शसेः ष्टन् । परविशसितृणीति यावत् ॥ १५ ॥

 पञ्चाशतं सुतान् लेभे जया नाम परान् पुरा ।
 वधायासुर सैन्यानाम मेयान् कामरूपिणः ॥ १६ ॥

 का कति सुतान् इत्यतः-पञ्चाशतमित्यादि । परान्-श्रेष्ठान् ॥ १६ ॥

 सुप्रभाऽजनयच्चापि सुतान् पञ्चाशतं पुनः ।
 संहारान्नामदुर्धर्षान् दुराक्रमान् बलीयसः ॥ १७ ॥

 संहारान्-अन्वर्थसहारना मकान् । दुर्धर्षान्-परैस्सोढुमशक्यान् । दुराक्रामान्-परैश्च शक्याक्रमान् ॥ १७ ॥

 तानि चास्त्राणि वेत्येष यथावत् कुशिकात्मजः ।
 अपूर्वाणां च जनने शक्तो भूयस्स धर्मवित् ॥ १८ ॥

 अपूर्वाणामिति । विद्याविशेषाणामिति शेषः ॥ १८ ॥


 [३८२]एवंवीर्यो महातेजा विश्वामित्रो महायशाः ।
 न रामगमने राजन् ! संशयं गन्तुमर्हसि ॥ १९ ॥

 यदेवमतः-न रामगमन इत्यादि ॥ १९ ॥

 [३८३]तेषां निग्रहणे शक्तः स्वयं च कुशिकात्मजः ।
 तव पुत्रहितार्थाय त्वामुपेत्याभियाचते ॥ २० ॥

 वस्तुतस्तु त्वदनुग्रहप्रयोजनमेव विश्वामित्रागमनमित्याह-तेषामित्यादि । पुनहितार्थायेति । अतिरहस्यानन्यदुर्लभाने कविद्याप्रदानानुग्रहार्थमित्यर्थः ॥ २० ॥

 इति मुनिवचनात् प्रसन्नचित्तः
  रघुवृषभश्च मुमोद भास्वराङ्गः ।
 गमनमभिरुरोच राघवस्य
  प्रथितयशाः कुशिकात्मजाय बुद्ध्या ॥ २१ ॥

इत्यार्षे श्रीमद्रामायणे बालकाण्डे एकविंशः सर्गः

 भास्वराङ्गः-"स्थेशभास" इति वरच्, भासनशीलाङ्गः, प्रसन्नमुख इति यावत् । मुमोद-व्यत्ययात्परस्मैपदम् । अतो राघवस्य गमनं अभिरुरोच । अतो राघवं कुशिकात्मजाय दातुं च बुध्या अचिन्तयदिति शेषः । करि (२१) मानस्सर्गः ॥ २१ ॥

इति श्रीमद्रामायणामृतकतकटीकायां बालकाण्डे एकविंशतितमः सर्गः


अथ द्वाविंशः सर्गः

[रामलक्ष्मणयोः प्रस्थानं, विश्वामित्रेण विद्योपदेशश्च]

 तथा वसिष्ठे ब्रुवति राजा दशरथस्सुतम् ।
 प्रहृष्टवदनो राममाजुहाव सलक्ष्मणम् ॥ १ ॥

 अथ रामविद्यादानानुग्रहैक प्रयोजनागमनाद्विश्वामित्रात् भूष्णूरामब्रह्मणः पुरा खसृष्टनित्यभ्रातृप्रभास्वक महाविद्याशक्तिसम्बन्घोपदेशः-तथा वसिष्ठ इत्यादि । आजुहाव । आहूतं च उच्यमानविशेषण कं ददाविति सम्बन्धः ॥ १ ॥

 कृतस्वस्त्ययनं मात्रा पित्रा दशरथेन च ।
 पुरोधसा वसिष्ठेन मङ्गलैरभिमन्त्रितम् ॥ २ ॥

 स्वस्त्ययनं-मङ्गलानुष्ठानम् । मङ्गलैः-मङ्गलाचरणमन्त्रैः, "स्वस्तिरिन्द्रस्वस्ति नो मिमीताम्" इत्यादिभिः ॥ २ ॥

 स पुत्रं मूर्ध्न्युपाघ्राय राजा दशरथः प्रियम् ।
 [३८४]ददौ कुशिकपुत्राय सुप्रीतेनान्तरात्मना ॥ ३ ॥
 ततो वायुः सुखस्पर्शो विरजस्को ववौ तदा ।
 विश्वामित्रगतं रामं दृष्ट्वा राजीवलोचनम् ॥ ४ ॥

 अथ यात्रायां सुनिमित्तसम्पत्त्युपदेशः-तत इत्यादि । बिरजस्कः । उरः प्रभृतित्वात् कप् | विश्वामित्रगतमिति द्वितीयासमासः ॥

 पुष्पवृष्टिर्महत्यासीत् देवदुन्दुभिनिस्वनैः ।
 शङ्खदुन्दुभिनिर्घोषः प्रयाते तु महात्मनि ॥ ५ ॥


 शङ्खदुन्दुभिनिर्घोषः स्वपुरजः । प्रयाते । प्रयाणोन्मुख इति यावत् ॥ ५ ॥

 विश्वामित्रो ययावग्रे ततो रामो महायशाः ।
 काकपक्षधरो धन्वी तं च सौमित्रिरन्वगात् ॥ ६ ॥

 अथ धर्मप्रयुक्तगतिविशेषोपदेशः–विश्वामित्र इत्यादि । धन्वी धनुष्मान् । व्रीह्यादित्वादिनिः । उकारान्तोऽप्यस्ति धनुश्शब्दः ॥ ६ ॥

 कलापिनौ धनुष्पाणी शोभयानौ दिशो दश ।
 विश्वामित्रं महात्मानं त्रिशीर्षाविव पन्नगौ ॥ ७ ॥
 अनुजग्मतुरक्षुद्रौ पितामहमिवाश्विनौ ।

 कलापिनौ-सतूर्णारौ । "कलापो भूषणे बर्हे तूणीरे संहतावपि" । शोभयानौ–आने मुगभावश्छान्दसः, प्रकाशयन्ताविति यावत् । प्रत्येकं तूणीरद्वयधारणात् त्रिशीर्षपन्नगोपमानम् । अक्षुद्रौ- अनरपवीर्यादिवैभवौ । अत एवाश्विनोपमानम् ॥ ७ ॥

 तदा कुशिकपुत्रं तु धनुष्पाणी स्वलङ्कृतौ ॥ ८ ॥
 बद्धगोधाङ्गुलित्राणौ खड्गवन्तौ महायुती ।
 कुमारौ चारुवपुषौ भ्रातरौ रामलक्ष्मणौ ॥ ९ ॥
 अनुयातौ श्रिया दीप्तया शोभयेतामनिन्दितौ ।
 स्थाणुं देवमिवाचिन्त्यं कुमाराविव पावकी ॥ १० ॥

 बद्धं गोधाचर्मकृतमङ्गुलित्राणं ययोस्तौ तथा । शोभयेतामिति । लङि आताम् । अडभावश्छान्दसः । स्थाणुः रुद्रः । अचिन्त्यं-अचिन्त्यवैभवम् । पावकी इति । पावकस्यामेरपत्यम् । अत इञ् । पावकी द्वौ कुमारौ सुब्रह्मण्याविवेत्यभूतोपमान्तः । पावकित्वविशेषणं तेजोविशेषवत्त्वद्योतनाय ॥ १० ॥

 अध्यर्धयोजनं गत्वा सरय्वा दक्षिणे तटे ।
 रामेति मधुरां वाणीं विश्वामित्रोऽभ्यभाषत ॥ ११ ॥

 अध्यारूढमर्धं यस्मिन् तत् अध्यर्धम्, ततः कर्मधारयः, सार्धयोजनमिति यावत् । तावद्दूरगमने बालकयोः क्षुत्तृड्पीडाप्रादुर्भावस्यावश्यकत्वात् महावैभव ऋषिर्विनाऽप्यन्नं परमतृप्तये दिव्यविद्ये उपदिशति—रामेत्यादि ॥ ११ ॥

 गृहाण वत्स! सलिलं मा भूत् [३८५]कालस्य पर्ययः ।
 मन्त्रग्रामं गृहाण त्वं बलामतिबलां तथा ॥ १२ ॥

 सलिलं गृहाणेति । शुद्धाचमनं कुर्विति यावत् । पर्ययः-अतिक्रमः । मन्त्रग्रामं-मन्त्रसमूहम्- [३८६]प्रागुक्तजयासुतादिव्यास्त्रशतम्, तथा प्रकृतोपयोगिन्यौ बलामतिबलां च विशिष्य गृहाण । अत्र त्वमिस्याद्येकवचनेन रामस्यैव विद्योपदेश इति प्रतिभाति । इदं तु रामस्य विद्योपदेशप्राधान्यद्योतनमात्रम्, उपलक्षणं च लक्ष्मणविद्योपदेशस्यापीति द्रष्टव्यम् । प्रत्यक्षक्षुत्पिपासाशान्तिभावीन्द्रजिज्जयादिगुरुकार्याणां च दिव्यानुग्रहाभावे असाध्यत्वात् ॥ १२ ॥

 न श्रमो न ज्वरो वा ते न रूपस्य विपर्ययः ।
 न च सुप्तं प्रमत्तं वा धर्षयिष्यन्ति नैर्ऋताः ॥ १३ ॥


 अथ बलातिबलयोरेव विशिष्य फलोपदेशः-न श्रम इत्यादि । बहुदूरगमनादावपति शेषः। ते-तव । रूपविपर्ययः-वैवर्ण्यम् । प्रमत्तं-क्रीडाव्याक्षिप्तचित्तम् । धर्षणं-अभिभवः ॥ १३ ॥

 न बाह्वोः सदृशो वीर्ये पृथिव्यामस्ति कश्चन ।
 [३८७]त्रिषु लोकेषु वा राम! न भवेत् सदृशस्तव ॥ १४ ॥

 पृथिव्यामस्तीति। वर्तमानसामीप्ये भविष्यति लट् । न भविष्यति इति यावत् । न केवलं पृथिव्यां ; अपि तु त्रिष्वित्यादि ॥ १४ ॥

 न सौभाग्ये न दाक्षिण्ये न ज्ञाने बुद्धिनिश्चये ।
 नोत्तरे प्रतिवक्तव्ये समो लोके तवानघ ! ॥ १५ ॥

 [३८८]सौभाग्ये इत्यादिकं पदम् । ज्ञानं-तत्त्वज्ञानम् । बुद्धिनिश्चयः ऐहिकविषयः ॥ १५ ॥

 एतद्विद्याद्वये लब्धे भविता नास्ति ते समः ।
 बला चातिबला चैव सर्वज्ञानस्य मातरौ ॥ १६ ॥
 क्षुत्पिपासे न ते राम! भविष्येते नरोत्तम !

 मातराविति । 'बुभुक्षितं न प्रतिभाति किञ्चित्' इति न्यायेन सर्वाप्रतिभामूलक्षुधादिनिवृत्यसाधारणसामर्थ्यात् ॥ १६ ॥

 [३८९]विद्याद्वयमधीयाने यशश्चाप्यतुलं त्वयि ॥ १७ ॥


 नृपतेरिति ! पुत्रकेति शेषः । अधीयाने त्वयि पथि क्षुत्पिपासे न भविष्येते इति योजना । अपि च यशश्चातुलं भुवि भविष्यति इति शेषः ॥ १७ ॥

 पितामहसुते ह्येते विद्ये तेजस्समन्विते ।
 प्रदातुं तव काकुत्स्थ ! सहशस्त्वं हि धार्मिक ! ॥ १८ ॥

 एवं वैभवः कुतः तयोरित्यत्राह-पितामहेत्यादि । एते तव-ते प्रदातुं योग्ये । धार्मिकस्त्वं हि सदृश इति । ब्रह्मपुत्रौ, प्रागुक्तब्रह्मपुत्रांश्च प्रदातुं त्वं हि पात्रं, ब्रह्मांशत्वात् । [३९०]अत एव तत्प्रदानोचितपरधर्मवत्वाच्च ॥ १८ ॥

 कामं बहुगुणाः सर्वे त्वय्येते नात्र संशयः ।
 तपसा सम्भृते चैते बहुरूपे भविष्यतः ॥ १९ ॥

 अपि च । एते इति व्यत्ययात्प्रथमा, एतयोः सम्प्रदानयोग्याः सर्वे बहुगुणाः त्वयि सन्त्येव, नात्र संशयः । अतो मम तपसा सम्भृते-प्राप्ते एते त्वयि कामं-अभ्यधिकं बहुरूपे-बहुवर्यविलासवैभवे भविष्यतः । न चात्र संशयः ॥ १९ ॥

 ततो रामो जलं स्पृष्ट्वा प्रहृष्टवदनः शुचिः ।
 प्रतिजग्राह ते विद्ये महर्षेर्भावितात्मनः ॥ २० ॥

 जल स्पृष्ट्वा-आचम्य ॥ २० ॥

 विद्यासमुदितो रामः शुशुभे भूरिविक्रमः ।
 सहस्ररश्मिर्भगवान् शरदीव दिवाकरः ॥ २१ ॥


 स्वतः सहस्ररश्मेः कालविशेषो यथा विशेषाभिव्यक्तिकारकः, एवं स्वतो भूरिविक्रमो रामो विद्यासम्बन्धादभ्यधिकं शुशुभे इत्यर्थः ॥ २१ ॥

 गुरुकार्याणि सर्वाणि नियुज्य कुशिकात्मजे ।
 ऊषुस्तां रजनीं तत्र सरय्वां सुसुखं त्रयः ॥ २२ ॥

 एवं रामे संप्राप्त (गुरु ?) शिष्यसम्बन्धः कुशिकात्मजो गुरुणा शिष्यस्य गुरुसेवाविषये नियोजनीयानि आदेष्टव्यानि-यानि कार्याणि 'अथ यः पूर्वोत्थायी जघन्यसंवेशी, यावदासीनो बाहुभ्यां प्राप्नुयात्, गच्छन्तमनुगच्छेत्, धावन्तमनुधावेत्' इत्यादीनि तानि सर्वाणि नियुज्य अथ स्वयं तौ चेति त्रयः तां रजनीं तत्र सुखं यथा ऊषुः । रजनीमिति । 'कालाध्वनोः' इति द्वितीया ॥ २२ ॥

 दशरथनृपसूनुसत्तमाभ्यां
  तृणशयनेऽनुचिते तदोषिताभ्याम् ।
 कुशिकसुतवचोऽनुलालिताभ्यां
  सुखमिव सा विबभौ विभावरी च ॥ २३ ॥

इत्यार्षे श्रीमद्रामायणे बालकाण्डे द्वाविंशः सर्गः

 सत्तमाभ्यामित्यादौ 'चतुर्थ्यर्थे बहुलं छन्दसि' इत्यत्र बहुलग्रहणात् षष्ठ्यर्थेऽपि चतुर्थी । तृणाद्यनुचितशयनोषितयोरपि विभावर्यास्सुखवद्विभातत्वे हेतुः-कुशिकसुतवचोऽनुलालितत्वम् । विबभाविति । व्युष्टेति यावत् । गुरु (२३) मानः सर्गः ॥ २३ ॥

इति श्रीमद्रामायणामृतकतकटीकायां बालकाण्डे द्वाविंशः सर्गः


अथ त्रयोविंशः सर्गः

[कामाश्रमकथा]

 प्रभातायां तु शर्वर्यां विश्वामित्रो महामुनिः ।
 अभ्यभाषत काकुत्स्थौ शयानौ पर्णसंस्तरे ॥ १ ॥

 अथ गमनप्रसङ्गात् महारुद्रदिव्यचरितवर्णनं बालकयोः पुण्याय, विस्मयसन्तोषाभ्यां च । प्रभातायामित्यादि । पर्णसंस्तरे-मृदुपर्णादिपरि-कल्पितशयनीये । 'ऋदोरप्' इत्यप् ॥ १ ॥

 कौसल्यासुप्रजाराम ! पूर्वा सन्ध्या प्रवर्तते ।
 उत्तिष्ठ नरशार्दूल ! कर्तव्यं दैवमाह्निकम् ॥ २ ॥

 किमभ्यभाषतेत्यत्राह-कौसल्येत्यादि । शोभना चेयं प्रजा सुप्रजा; अनेन कौसल्याशब्दस्य षष्ठीतत्पुरुषः, ततः 'सुपां सुलुक्' इत्यादिना सम्बुद्धेराकारः, ततोऽन्तरङ्गः सवर्णदीर्घः । उभयाश्रयेनान्तादिवद्भावात् 'आङिचापस्सम्बुद्धौ च' इत्येत्वाभावः । हे कौसल्यासुप्रजा ! कौसल्यासुपुत्र ! एवं महाकौशल्य मार्गानुसारादुक्तं वस्तुतोऽसत् । अपि तु-सुप्रजारूपो रामः- सुप्रजारामः । कौसल्यापदेनास्य षष्ठीतत्पुरुषः । हे कौसल्यापुत्ररामेत्येकं पदम् । पूर्वा सन्ध्या, अत एव आह्निकं-अहनि भवम्, 'कालात् ठञ्', दैवं-कुलदैवतब्रह्मोपासनाविषयं, विशिष्य प्रातर्हिरण्यगर्भोपासनविषयकं च कर्म कर्तव्यम्, अत उत्तिष्ठ ॥ २ ॥

 तस्यर्षेः परमोदारं वचःश्रुत्वा नरोत्तमौ ।
 स्नात्वा कृतोदकौ वीरौ जेपतुः परमं जपम् ॥ ३ ॥

 परमोदारं-गम्भीरम् । कृतोदकाविति । कृतौ बाह्यानुष्ठानाङ्गौ-अर्ध्यप्रदा नावित्यर्थः । परमं जपं ; 'न सावित्रयाः परं जप्यं' इत्यादेः नित्यप्राप्तत्वात्, स्नानार्ध्यादेः बाह्यानुष्ठानत्वोपदेशाच्च परमजपो गायत्रीजपः ॥ ३ ॥

 कृताह्निकौ महावीर्यौ विश्वामित्रं तपोधनम् ।
 अभिवाद्याभिसंहृष्टौ गमनायाभितस्थतुः ॥ ४ ॥

 अभितस्थतुरिति । अभिमुखौ स्थितौ इति यावत् ॥ ४ ॥

 तौ प्रयातौ महावीर्यौ दिव्यां त्रिपथगां नदीम् ।
 ददृशाते ततस्तत्र सरय्वाः सङ्गमे शुभे ॥ ५ ॥

 तत इति । प्रयाणानन्तरमिति यावत् ॥ ५ ॥

 [३९१]तत्राश्रमपदं पुण्यमृषीणामुग्रतेजसाम् ।
 बहुवर्षसहस्राणि तप्यतां परमं तपः ॥ ६ ॥

 तत्राश्रमेति । गङ्गासरयूसङ्गमदेश इति यावत् । तप्यतामिति । तपतामिति यावत् । कर्तरि यत् छान्दसः ॥ ६ ॥

 तं दृष्ट्वा परमप्रीतौ राघवौ पुण्यमाश्रमम् ।
 [३९२]ऊचतुस्तं महात्मानं विश्वामित्रमिदं वचः ॥ ७ ॥
 कस्यायमाश्रमः पुण्यः को न्वस्मिन् वसते पुमान् ।
 भगवन् ! श्रोतुमिच्छावः परं कौतूहलं हि नौ ॥ ८ ॥

 वसत इति । वसतीति यावत् ॥ ८ ॥


 तयोस्तद्वचनं श्रुत्वा प्रहस्य मुनिपुङ्गवः ।
 अब्रवीक्छ्रूयतां राम ! यस्यायं पूर्व आश्रमः ॥ ९ ॥

 बालकानामज्ञानमूलाभिवादनादिव्यवहारस्य पितृवत्तुल्यानामतिप्रीतिकरत्वादृषेः बालकवचन श्रवणजसन्तोषात्-प्रहस्येति । अथ कस्यायं पूर्वः? इदानीं कः इह वसतीति प्रश्नयोः प्रथमप्रश्नोत्तरं ब्रूते-अब्रवीदित्यादि । यस्यायमाश्रमः पूर्वः-पूर्वकालाधिष्ठेयोऽभूत् स श्रूयताम् ॥ ९ ॥

 कन्दर्पो मूर्तिमानासीत् काम इत्युच्यते बुधैः ॥ १० ॥

 एवं प्रतिज्ञाय तत्प्रतिपादनाय पातनिका-कन्दर्प इत्यादि । यः काम इति बुधैरुच्यते कन्दर्पपर्यायस्सोऽसौ पुरा मूर्तिमानासीत् ॥ १० ॥

 तपस्यन्तमिह स्थाणुं नियमेन समाहितम् ।
 [३९३]कृतोद्वाहं तु देवेशं गच्छन्तं समरुद्गणम् ।
 धर्षयामास दुर्मेधा हुङ्कृतश्च महात्मना ॥ ११ ॥

 किन्ततः इत्यतः-तपस्यन्तमित्यादि । नियमेन समाहितं-समाहितचित्तम् । इह-आश्रमे । तपस्यन्तं-तपश्चरन्तम् । कर्मणो रोमन्थतपोभ्यां' इत्यादिना तपश्शब्दात् क्यङ्, 'तपसः परस्मैपदं च' इति । तद्वत्स्थाणुं-तद्वदविकल्पसमाधिम् । अथ तपस्समाघेः कृतोद्वाहं-कृतव्युत्थानम् । अत एव समरुद्गणं यथा तथा व्युत्थानकालोचितलीलाविलासदेशं गच्छन्तं देवेशं दुर्मेधाः कामो धर्षयामास-चित्तविकारोस्पादनेनाऽभिभूतवान् ॥ ११ ॥


 [३९४]अवध्यातस्य रुद्रेण चक्षुषा रघुनन्दन !
 व्यशीर्यन्त शरीरात् स्वात् सर्वगात्राणि दुर्मतेः ॥ १२ ॥

 ततो देवेशेन महात्मना रुद्रेणावध्यातः-कुत एवमिति ध्यानम्, ज्ञातापराधः, ततो हुङ्कृतः, चक्षुषा दग्धश्च । अयं व्यापारः कस्मिंश्चिदहनि रुद्रमूर्तिभेदेन काममूर्तिभेदस्येति द्रष्टव्यम् । ततः किं इत्यतः-व्यशीर्यन्तेत्यादि । शृ हिंसने । ततश्च कर्तरि श्यन् ॥ १२ ॥

 [३९५]तत्र गात्रं हतं तस्य निर्दग्धस्य महात्मना ।
 अशरीरः कृतः कामः क्रोधाद्देवेश्वरेण हि ॥ १३ ॥

 तत्र हतमिति । तस्मिन् काले देशे चेत्यर्थः । हिशब्दः प्रसिद्धौ ॥ १३ ॥

 अनङ्ग इति विख्यातः तदाप्रभृति राघव !
 स चाङ्गविषयः श्रीमान् यत्राङ्गं प्रमुमोच ह ॥ १४ ॥

 स चाङ्गविषय इत्यादि । यत्र देशे स कामोऽङ्गं मुमोच ह, तत एवान्वर्थनिर्वचनः श्रीमान् सोऽसौ अङ्गविषयः ॥ १४ ॥

 तस्यायमाश्रमः पुण्यः तस्येमे मुनयः पुरा ।
 शिष्या धर्मपरा नित्यं तेषां पापं न विद्यते ॥ १५ ॥

 [३९६]तस्मिन्-अस्मिन् देशे वर्तमानः पुण्योऽयमाश्रमः तस्य-स्थाणोः । इमे हि मुनयः इदानीमिह तपस्यन्तस्तस्य दक्षिणामूर्तिरुद्रस्य पुरा-पूर्वकालमारभ्य सन्तानपरम्परया च शिष्याः । यदेवमतः-धर्मपराः-धर्मैकतत्पराः । अतः तेषां कदापि पापं न विद्यते । एतेन प्रश्नद्वयं तत् प्राप्तोत्तरम् ॥ १५ ॥


 इहाद्य रजनीं राम ! वसेम शुभदर्शन !
 पुण्ययोः सरितोर्मध्ये श्वस्तरिष्यामहे वयम् ॥ १६ ॥

 सरितोः-गङ्गासरय्वोः ॥ १६ ॥

 अभिगच्छामहे सर्वे शुचयः पुण्यमाश्रमम् ।
 इह वासः परोऽस्माकं, सुखं वत्स्यामहे निशाम् ।
 स्नाताश्च कृतजप्याच हुतहव्या नरोत्तम ! ॥ १७ ॥

 गङ्गा नद्यादिस्नानादि कर्मभिर्युक्ताः, अत एव शुचयः भूत्वैव पुण्यमाश्रममभिगच्छामहे । व्यत्ययात्तङ् ॥ १७ ॥

 तेषां संवदतां तत्र तपोदीर्घेण चक्षुषा ।
 विज्ञाय परमप्रीता मुनयो हर्षमागमन् ॥ १८ ॥
 अर्घ्यं पाद्यं तथाऽऽतिथ्यं निवेद्य कुशिकात्मजे ।
 रामलक्ष्मणयोः पश्चादकुर्वन्नतिथिक्रियाम् ॥ १९ ॥

 तेषां संवदतां; भावलक्षणे षष्ठी । तत्र आश्रमे तेष्वेवं संवदत्सु तान् अदृष्ट्वाऽपि तत्रत्यमुनयस्तपोमहिम्ना दीर्घदर्शन ज्ञानचक्षुषा रामाद्यागमनं विज्ञाय परमप्रीता मुनयः कुशिकात्मजायार्थ्यादिकं निवेद्य हर्षमागमन् ॥ १९ ॥

 सत्कारं समनुप्राप्य कथाभिरभिरञ्जयन् ।
 यथार्हमजपन् सन्ध्यामृषयस्ते समाहिताः ॥ २० ॥

 अभिरञ्जयन्निति । भोजनात्परमतिष्ठन्निति शेषः । अजपन्निति । नदीतीर इति शेषः ॥ २० ॥

 तत्र वासिभिरानीता मुनिभिः सुव्रतैः सह ।
 न्यवसन् सुसुखं तत्र कामाश्रमपदे तदा ॥ २१ ॥

 तत्र–आश्रमे निवासिभिः सुत्रतैः मुनिभिः संवेशनाय पुनः स्वाश्रममानीताः तत्र-सर्वकामपरिपूर्णे दुष्कामप्रसक्तिरहिते आश्रमे-श्रीदक्षिणमूर्तिरुद्राश्रमस्थाने तथा सुखं न्यवसन् ॥ २१ ॥

 कथाभिरभिरामाभिः अभिरामौ नपात्मजौ ।
 रमयामास धर्मात्मा कौशिको मुनिपुङ्गवः ॥ २२ ॥

इत्यार्षे श्रीमद्रामायणे बालकाण्डे त्रयोविंशः सर्गः

 खारि (२२) मानः सर्गः ॥ २२ ॥

इति श्रीमद्रामायणामृतकतकटीकायां बालकाण्डे त्रयोविंशः सर्गः


अथ चतुर्विंशः सर्गः

[गङ्गातरणं, ताटकावनप्रवेशश्च]

 ततः प्रभाते विमले कृत्वाऽऽह्निकमरिन्दमौ ।
 विश्वामित्रं पुरस्कृत्य नद्यास्तीरमुपागतौ ॥ १ ॥

 अथ बाल्यैकमूललौकिकपरप्रश्नमुचितप्रतिवचनेनोपलालयन् निजाश्रमसमीपवर्तिनिजारातिनिवृत्तिप्रयोजनं वक्ष्यति भगवान विश्वामित्रः-ततः प्रभात इत्यादि । नद्याः-गङ्गाया इति यावत् ॥ १ ॥

 ते च सर्वे महात्मानो मुनयस्संशितव्रताः ।
 उपस्थाप्य शुभां नावं विश्वामित्रमथाब्रुवन् ॥ २ ॥
 आरोहतु भवान्नावं राजपुत्रपुरस्कृतः ।
 अरिष्टं गच्छ पन्थानं मा भूत् कालविपर्ययः ॥ ३ ॥

 राजपुत्रपुरस्कृत इति तृतीयातत्पुरुषः । तीर्त्वेति शेषः । अरिष्टं-कष्टम् । ताटकोपद्रवादिति शेषः । विपर्ययः-अत्ययः ॥ ३ ॥

 विश्वामित्रस्तथेत्युक्त्वाा तानृषीनभिपूज्य च ।
 ततार सहितस्ताभ्यां सरितं सागरङ्गमाम् ॥ ४ ॥

 सागरङ्गमामिति । खच्प्रकरणे 'गमेस्सुप्युपसङ्ख्यानम्' इति खच् ॥ ४ ॥

 ततश्शुश्राव वै शब्दमतिसंरम्भवर्धितम् ।
 मध्यमागम्य तोयस्य [३९७]तस्य शब्दस्य निश्चयम् ॥ ५॥

 अतिसंरम्भेण-तरङ्गपरस्परसङ्घट्टजक्षोभेण वर्धितं-अतिप्रवृद्धम् । निश्चयमिति । सहज औपाधिको वेति निश्चयम् ॥ ५ ॥

 अथ रामस्सरिन्मध्ये पप्रच्छ मुनिपुङ्गवम् ।
 वारिणो भिद्यमानस्य किमयं तुमुलो ध्वनिः ॥ ६ ॥

 अथ तदनन्तरं-जिज्ञासानन्तरम् । भिद्यमानस्य-परस्परं सङ्घट्य-मानस्य तुमुलः-निबिडः यः ध्वनिः, स किं वारिस्वभावजो वा उतोपाधिजो वेति प्रश्नः ॥ ६ ॥

 राघवस्य वचःश्रुत्वा कौतूहलसमन्वितः ।
 कथयामास धर्मात्मा तस्य शब्दस्य निश्चयम् ॥ ७ ॥
 कैलासपर्वते राम ! मनसा निर्मित सरः ।
 ब्रह्मणा नरशार्दूल ! तेनेदं मानसं सरः ॥ ८ ॥

 उपाधिज इति सपातनिकमुत्तरम्-राघवस्येत्यादि । एवमपि प्रश्नो भगवति रामे ब्रह्मणि निज दृढवैभवप्रकटनप्रयोजन: प्रादुर्भूतः ; तदेव प्रतिपाद्यते-एतच्छ्रुत्वेत्यादि ॥ ८ ॥


 तस्मात् सुस्राव सरसः साऽयोध्यामुपगूहते ।
 सरःप्रवृत्ता सरयूः पुण्या ब्रह्मसरश्च्युता ॥ ९ ॥

 सा-ब्रह्मसरःप्रवृत्तसृतिरिति यावत् । तस्यास्सरःप्रवृत्तत्वात् सरयूरिति नाम । सरसो यौति-प्रवर्तते इति सरयूः । पूरुषादिवत् दीर्घः ॥ ९ ॥

 तस्यायमतुलः शब्दो जाह्नवीमभि वर्तते ।
 वारिसंक्षोभजो राम ! प्रणामं नियतः कुरु ॥ १० ॥

 तस्यायमिति सन्धिश्च्छान्दसः । अभि-अभिगताया इति यावत् । यदेवमतः–वारिसङ्क्षोभजः ॥ १० ॥

 ताभ्यां तु तावुभौ कृत्वा प्रणाममतिधार्मिकौ ।
 तीरं दक्षिणमासाद्य जग्मतुर्लघुविक्रमौ ॥ ११ ॥

 ताभ्यां-गङ्गासरयूभ्यां ॥ ११ ॥

 स वनं घोरसङ्काशं दृष्ट्वा नृपवरात्मजः ।
 अविग्रहतमैक्ष्वाकः पप्रच्छ मुनिपुङ्गवम् ॥ १२ ॥

 सङ्काशत इति सङ्काशः, घोरसङ्काशं धोररूपमिति । अविप्रहतं [३९८]अप्रहतं, खिलमिति यावत् [३९९]। सार्थगमागमाभावात् ॥ १२ ॥

 अहो वनमिदं दुर्गं झिल्लिकागणनादितम् ।
 भैरवैः श्वापदैः पूर्णं शकुन्तैर्दारुणारखैः ॥ १३ ॥


 झिल्लिका– "भृङ्गारी चीरिका चीरी झिल्लीका च समा इमाः"(xxxxx) । श्वापदानि-दुष्टमृगाः । दारुणं आरवं येषां ते तथा । शकुन्तो भास उच्यते ॥ १३ ॥

 नानाप्रकारैः शकुनैः वाश्यद्भिर्भैरवस्वनैः ।
 सिंहव्याघ्रवराहैश्च वारणैश्चोपशोभितम् ॥ १४ ॥

 शकुनाः सर्वपक्षिणः। वाश्यद्भिः-कुत्सितं शब्दायमानैः ॥ १४ ॥

 धवाश्वकर्णककुभैः मरुतिन्दुकपाटलैः ।
 सङ्कीर्णं बदरीभिश्च किं न्वेतद्दारुणं वनम् ॥ १५ ॥

 धवः-श्वेताक्षः (xxx) । अश्वकर्ण:-साल:, 'इन्द्रद्रुः ककु-भोऽर्जुनः' (xxx)। किं नु–किमियम् ॥ १५ ॥

 तमुवाच महातेजा विश्वामित्रो महामुनिः ।
 श्रूयतां वत्स काकुत्स्थ ! यस्यैतद्दारुणं वनम् ॥ १६ ॥

 एतद्दारुणं वनं यस्य प्राणिनः स प्राणी श्रूयतामिति योजना ॥ १६ ॥

 एतौ जनपदौ स्फीतौ पूर्वमास्तां नरोत्तम !
 मलदाश्च करूशाश्च देवनिर्माणनिर्मितौ ॥ १७ ॥

 तमेव प्रतिपादयितुं पातनिका-एतावित्यादि । स्फीतौ-प्रवृद्ध-धनधान्यौ । मलदाश्च करूशाश्चेति एतौ देवनिर्माणेन निर्मितनामधेयौ ॥ १७ ॥

 पुरा वृत्रवधे राम ! मलेन समभिप्लुतम् ।
 क्षुधा चैव सहस्राक्षं ब्रह्महत्या समाविशत् ॥ १८ ॥

 कोऽसौ देव एतयोर्नामनिर्मातेत्यतः–पुरेत्यादि । मलेन-प्रकृत्या मर्त्यधर्मप्रसिद्धाकारेण तथा तद्धर्मप्रसिद्धक्षुधा च । ब्रह्महत्येत्यादि । 'हनस्त च' इति क्यप्सन्नियोगे हन्तेस्तकारादेशः । वृत्रस्य ब्रह्म-सन्तानत्वात् तद्धनने ब्रह्महत्या ॥ १८ ॥

 तमिन्द्रं स्नापयन् देवा ऋषयश्च तपोधनाः ।
 कलशैः स्नापयामासुः मलं चास्य प्रमोचयन् ॥ १९ ॥

 तमिन्द्रं देवाः-वस्वादयः कलशैः-गङ्गातीर्थकलशैः स्नापयन्-'ष्णा शौचे' अनुपसर्गे वा मित्, अडभावश्छान्दसः, अस्नापयन् । अथ ऋषयः-वसिष्ठाद्याश्च कलशैः स्नापयामासुः । तद्बलेनास्य मलं करूशपर्यायं क्षुधं च प्रमोचयन् । अडभावश्छान्दसः । तथा सर्वत्राऽग्रे द्रष्टव्यम् ॥ १९ ॥

 इह भूम्यां मलं दत्त्वा दत्त्वा कारूशमेव च ।
 शरीरजं महेन्द्रस्य ततो हर्षं प्रपेदिरे ॥ २० ॥

 तत इह भूम्यां महेन्द्रस्य शरीरजं मलं कारूशमेव च दत्त्वा ततो हर्षं प्रपेदिरे ॥ २० ॥

 निर्मलो निष्करूशश्च शुचिरिन्द्रो यदाऽभवत् ।
 ददौ देशस्य सुप्रीतो वरं प्रभुरनुत्तमम् ॥ २१ ॥

 यदा तदेति योजना ॥ २१ ॥

 इमौ जनपदौ स्फीतौ ख्यातिं लोके गमिष्यतः ।
 मलदाश्च करूशाश्च ममाङ्गमलधारिणौ ॥ २२ ॥

 कीदृशीं ख्यातिमित्यतः-मलदाश्चेति । दारादिवच्छब्दस्वाभाव्यमूलं बहुत्वम् । यस्मात् ममाङ्गमलधारिणौ तस्मादिति योजना ॥ २२ ॥

 साधु साध्विति तं देवाः पाकशासनमब्रुवन् ।
 देशस्य पूजां तां दृष्ट्वा कृतां शक्रेण धीमता ॥ २३ ॥

 शक्रेण कृतां देशस्य पूजां दृष्ट्वा देवाः पाकशासनं साधु साध्वित्यब्रुवन् ॥ २३ ॥

 एतौ जनपदौ स्फीतौ दीर्घकालमरिन्दम !
 मलदाश्च करूशाश्च मुदितौ धनधान्यतः ॥ २४ ॥

 यदेवमतः-एतावित्यादि ॥ २४ ॥

 कस्यचित्त्वथ कालस्य यक्षी वै कामरूपिणी
 बलं नागसहस्रस्य धारयन्ती तदा ह्यभूत् ॥ २५ ॥
 ताटका नाम, भद्रं ते, भार्या सुन्दस्य धीमतः ।

 कस्य चिदिति । कियत इति यावत् । कालस्येति । यदा, अपगमे, इति शेषः। ताटका नामाभूत् । हे राम ! ते-तुभ्यम् भद्रं-शुभम् भूयात् । सहस्रनागबलवत्या यक्ष्याः प्रसङ्गे बालस्य त्रासो माभूदिति मध्य एवाशीर्वादो विश्वामित्रस्य ॥ २५ ॥

 मारीचो राक्षसः पुत्रो यस्याः शक्रपराक्रमः ॥ २६ ॥
 वृत्तबाहुर्महावीर्यो विपुलास्यतनुर्महान् ।
 राक्षसो भैरवाकारो नित्यं त्रासयते प्रजाः ॥ २७ ।।

 यस्याः, उच्यमानविशेषणकायो नित्यं प्रजास्त्रासयते स मारीचः पुत्रः, साऽभूदिति योजना ॥ २६-२७ ॥

 इमौ जनपदौ नित्यं विनाशयति राघव !
 मलदांश्च करुशांश्च ताटका दुष्टचारिणी ॥ २८ ॥
 सेयं पन्थानमावार्य [४००]वसत्यत्यर्धयोजने ।


 इमावित्यादि । या विनाशयति सेयमिति योजना । आवार्यवृद्धिश्छान्दसी, आवृत्य ; निरुध्येति यावत् । अतिक्रान्तोऽर्धमत्यर्धम्, ततः कर्मधारयः, अस्माभिरतीतार्धके योजने-अर्धयोजनदूरे पन्थानमावार्य तिष्ठति ॥ २८ ॥

 अत एव च गन्तव्यं ताटकाया वनं यतः ॥ २९ ॥
 स्वबाहुबलमाश्रित्य जहीमां दुष्टचारिणीम् ।
 मन्नियोगादिमं देशं कुरु निष्कण्टकं पुनः ॥ ३० ॥

 यतश्चेदं ताटकावनमस्माभिर्गन्तव्यं अत एव हेतोः हे राम ! स्वबाहुबलमाश्रित्य दुष्टचारिणीं मन्नियोगात् त्यक्तस्त्रीवधशङ्को जहि, हत्वा च तमिमं देशं पुनः निष्कण्टकं कुरु ॥ २९-३० ।।

 न हि कश्चिदिमं देशं शक्नोत्यागन्तुमीदृशम् ।
 यक्षिण्या घोरया राम ! उत्सादितमसाया ॥ ३१ ॥

 ईदृशमिति अनुभूयमानाभिनयः॥ ३१ ॥

 एतत्ते सर्वमाख्यातं यथैतद्दारुणं वनम् ।
 यक्ष्या चोत्सादितं सर्वं अद्यापि न निवर्तते ॥ ३२ ॥

इत्यार्षे श्रीमद्रामायणे बालकाण्डे चतुर्विंशः सर्गः


 पृष्टोत्तरमुक्तमुपसंह्रियते-एतदित्यादि । दारुणं सर्वमेतद्वनं-ताटकावनं यथा- येन प्रकारेण यक्ष्योत्सादितं, एतत्ते सर्वमाख्यातं । अपि च अद्यापि यक्ष्युत्सादनमस्य वनस्य न निवर्तते, अतो निष्कण्टकं कुरु । [४०१]लीला (३३) (?) मानः ॥ ३२ ॥

इति श्रीमद्रामायणामृतकतकटीकायां बालकाण्डे चतुर्विंश सर्गः



अथ पञ्चविंशः सर्गः

[ ताटकावृत्तान्तः, तद्वधसमर्थनं च ]

 अथ तस्याप्रमेयस्य मुनेर्वचनमुत्तमम् ।
 श्रुत्वा पुरुषशार्दूलः प्रत्युवाच शुभां गिरम् ॥ १ ॥

 अथैवं स्त्रीवधे नियोगे सति स्त्रियास्तादृग्बलतद्वधसंशयौ रामस्यापोहति विश्वामित्रः-अथेत्यादि ॥ १ ॥

 अल्पवीर्या यदा यक्षाः श्रूयन्ते मुनिपुङ्गव !
 [४०२]कथं नागसहस्रस्य धारयत्यबला बलम् ॥ २ ॥

 यदेति। यस्मात् श्रूयन्ते, पुराणादिष्विति शेषः । नागः-गजः । अबलेति[४०३]साभिप्रायम् ॥ २ ॥

 तस्य तद्वचनं श्रुत्वा रामस्य विदितात्मनः ।
 विश्वामित्रोऽब्रवीद्वाक्यं शृणु येन बलोत्तरा ॥ ३ ॥
 वरदानकृतं वीर्यं धारयत्यबला बलम् ।

 वरदानकृतं वीर्य-तत्कृतं बलं च धारयति ॥ ३ ॥

 पूर्वमासीत् महायक्षः सुकेतुर्नाम वीर्यवान् ॥ ४ ॥
 अनपत्यः शुभाचारः स च तेपे महत्तपः ।

 कुतो वरप्राप्तिरित्यतः–पूर्वमित्यादि । ते इति । पुत्रार्थं पितामहमुद्दिश्येति शेषः ॥ ४ ॥

 पितामहस्तु संप्रीतस्तस्य यक्षपतेस्तदा ॥ ५ ॥
 कन्यारत्नं ददौ राम ! ताटकां नाम नामतः ।

 कन्यारत्नमिति । उत्तमदिव्यदेवरूपवतीमित्यर्थः ॥ ५ ॥


 ददौ नागसहस्रस्य बलं चास्याः पितामहः ॥ ६॥
 न त्वेव पुत्रं यक्षाय ददौ ब्रह्मा महायशाः ।
 तां तु जातां विवर्धन्तीं रूपयौवनशालिनीम् ॥ ७॥
 [४०४]खज्जुपुत्राय सुन्दाय ददौ भार्या यशस्विनीम् ।

 खञ्ज्वोः पुत्रः खञ्जुपुत्रः । ननु सुन्दोऽसुरः, सुकेतुर्यक्षः, स कथमसुराय दद्यात् भार्यात्वेन ? यक्षस्यापि देवयोनिमात्रत्वात् । नैर्ऋतानामपि तथात्वादेवैकजात्यं, तदुचितो यौनसम्बन्धः ॥ ७ ॥

 कस्य चित्त्वथ कालस्य यक्षी पुत्रमजायत ॥ ८ ॥
 मारीचं नाम दुर्धर्षं यः शापाद्राक्षसोऽभवत् ।

 अजायतेति । जनी [४०५]जनने, जननं-गर्भविमोचनम् ; प्रासोष्टेति यावत् ॥ ८ ॥

 सुन्दे तु निहते राम ! साऽगस्त्यं मुनिपुङ्गवम् ॥ ९ ॥
 ताटका सह पुत्रेण प्रधर्षयितुमिच्छति ।
 भक्षार्थं जातसंरम्भा गर्जन्ती साऽभ्यधावत ॥ १० ॥

 'शापाद्राक्षसोऽभवत्' इत्युक्ते किंशापादित्यतः–सुन्दे तु निहत इत्यादि । अगस्त्येनेति शेषः । इच्छति-इच्छति स्म । जातसंरम्भा-स्वभर्तृवधजकोपवती । अत एव-भक्षार्थमभ्यधावतेति । एतेन यक्षरक्षोऽसुरादेः पुरुषादत्वादिधर्मवत्वेन च साजात्यं यौनसम्बधार्हं द्रष्टव्यम् ॥ १० ॥

 आपतन्तीं तु तां दृष्ट्वा अगस्त्यो भगवानृषिः ।
 राक्षसत्वं भजस्वेति मारीचं व्याजहार सः ॥ ११ ॥

 राक्षसत्वं भजस्वेति । शुद्धदेवयोनिस्वरूपं मुक्त्वेति शेषः ॥ ११ ॥


 अगस्त्यः परमक्रुद्धस्ताटकामपि शप्तवान् ।
 पुरुषादी महायक्षी विरूपा विकृतानना ॥ १२ ॥
 इदं रूपं विहायाथ दारुणं रूपमस्तु ते

 पुरुषादीति । जतिलक्षणङीष् । कोपवशाद्विरूपविकृताननत्वम् । वैरूप्यं-क्रोधवशजमुखारुण्यदि । इदं रूपं-यक्षीरूपम् । दारुणं रूपमिति । पुत्रवदेव राक्षसं रूपमित्यर्थः ॥ १२ ॥

 सैषा शापकृतामर्षा ताटका क्रोधमूर्च्छिता ॥ १३ ॥
 देशमुत्सादयत्येनमगस्त्यचरितं शुभम् ।

 देशोत्सादने हेतुगर्भविशेषणम्-अगस्त्यचरितमिति ॥ १३ ॥

 एनां राघव ! दुर्वृत्तां यक्षीं परमदारुणाम् ॥ १४ ॥
 गोब्राह्मणहितार्थाय जहि दुष्टपराक्रमाम् ।

 यक्षिः यक्षी यक्षिन्-इति रूपत्रयमप्यस्ति ॥ १४ ॥

 न ह्येनां शापसंस्पृष्टां कश्चिदुत्सहते पुमान् ॥ १५ ॥
 निहन्तुं त्रिषु लोकेषु त्वामृते रघुनन्दन !

 शापः--आगस्त्यः ॥ १५ ॥

 न हि ते स्त्रीवधकृते घृणा कार्या नरोत्तम ! ॥ १६ ॥
 चातुर्वर्ण्यहितार्थाय कर्तव्यं राजसूनुना ।

 हे नरोत्तम ! ते स्त्रीवधनिमित्ता या घृणा सा त्वया न कार्येति योजना । कुत एवमित्यतः-चातुर्वर्ण्यहितार्थायेति । स्वार्थे ष्यञ् ॥ १६ ॥

 नृशंसमनृशंसं वा प्रजारक्षणकारणात् ॥ १७ ॥
 पातकं वा सदोषं वा कर्तव्यं रक्षता [४०६]सदा ।


 नृशंसः-क्रूरकर्मा । प्रजारक्षकारणादिति । प्रजारक्षणसिद्धिहेतोरित्यर्थः । रक्षता सदेति । रक्षाधर्मसिद्धिशेषत्वेनेति यावत् ॥ १७ ॥

 राज्यभारनियुक्तानां एष धर्मः सनातनः ॥ १८ ॥
 अधर्म्यां जहि काकुत्स्थ ! धर्मो ह्यस्या न विद्यते ।

 इतश्चास्या वधो न्याय्य इत्याह-अधर्म्यामिति । धर्मादनपेता धर्म्या, सा न भवतीत्यधर्म्या । अयमेवार्थः स्थिरीक्रियते-धर्म इत्यादि ॥ १८ ॥

 श्रूयते हि पुरा शक्रो विरोचनसुतां नृप ! ॥ १९ ॥
 पृथिवीं हन्तुमिच्छन्तीं मन्थरामभ्यसूदयत् ।

 प्रजारक्षाप्राप्तोऽधर्म्यस्त्रीवधो धर्म्य एवेतीममर्थं सम्मतिभिः स्थिरीकरोति–श्रूयत इत्यादि । पृथिवीमित्यादि । देवताविग्रहवतीमिति यावत् ॥ २० ॥

 विष्णुना च पुरा राम ! भृगुपत्नी दृढव्रता ॥ २० ॥
 [४०७]अनिद्रं लोकमिच्छन्ती काव्यमाता निषूदिता ।

 अनिंद्र-निद्रासुखरहितम् । काव्यः-शुक्रः ॥ २१ ॥

 एतैश्चान्यैश्च बहुभी राजपुत्र ! महात्मभिः ॥ २१ ॥
 अधर्मसहिता नार्यो हताः पुरुषसत्तमैः ।
 तस्मादेनां घृणां त्यक्त्वा जहि मच्छासनान्नृप ! ॥ २२ ॥

इत्यार्षे श्रीमद्रामायणे बालकाण्डे पञ्चविंशः सर्गः


 एतैरिति । छान्दसं बहुत्वम् । एताभ्यां शकविष्णुभ्यामित्यर्थः । रुद्र (२२) मानः ॥ २२ ॥

इति श्रीमद्रामायणामृतकतकटीकायां बालकाण्डे पञ्चविंशः सर्गः



अथ षड्विंशः सर्गः

[ताटकावधः]

 मुनेर्वचनमक्लीबं श्रुत्वा नरवरात्मजः ।
 राघवः प्राञ्जलिर्भूत्वा प्रत्युवाच दृढव्रतः ॥ १॥

 एवं न्यायापनुत्तस्त्रीवधदोषशङ्केन रामेण ताटकावधः । मुनेरित्यादि । अक्लीबं-धृष्टम् ॥ १ ॥

 पितुर्वचननिर्देशात् पितुर्वचनगौरवात् ।
 वचनं कौशिकस्येति कर्तव्यमविशङ्कया ॥ २ ॥

 पितुरित्यादि । 'कौशिकस्य वचनं अविशङ्कया कर्तव्यं त्वया' इत्येवंरूपात् पितुर्वचननिर्देशात्- नियोगात् तस्य च पितुर्वचनगौरवात्-परमाप्तवाक्यत्वेन परमप्रामाण्याच्च भगवन् ! त्वद्वचनं कर्तव्यम्, निश्चितमिति शेषः ॥ २ ॥

 अनुशिष्टोऽस्म्ययोध्यायां गुरुमध्ये महात्मना ।
 पित्रा दशरथेनाहं नावज्ञेयं च तद्वचः ॥ ३ ॥

 कदैवं पितुः-मद्वचनं कर्तव्यमिति नियोगः ? इत्यतः–अनुशिष्ट इत्यादि । गुरुमध्य इति । वसिष्ठवामदेवाद्यधिष्ठितनिजसभामध्य इत्यर्थः । नावज्ञेयं च तद्वचः-प्रागुक्तहेतोः ॥ ३ ॥

 सोऽहं पितुर्वचः श्रुत्वा शासनाद्ब्रह्मवादिनः ।
 करिष्यामि न सन्देहः ताटकावधमुत्तमम् ॥ ४ ॥

 एवं पितृवचःश्रुत्वा ततो निष्कम्पप्रवृत्तिः । सोऽहं ब्रह्मवादिनः तव शासनात्-यथाप्राप्तकालात् उत्तमं- उत्तमधर्मभूतताटकावधं करिष्यामि ; न सन्देहः ॥ ४ ॥

 गोब्राह्मणहितार्थाय देशस्यास्य सुखाय च ।
 तव चैवाप्रमेयस्य वचनं कर्तुमुद्यतः ॥ ५ ॥

 कुत एवमित्यतः-तव चेत्यादि । चो हेतौ, च-यस्मात्, अप्रमेयस्य तव वचनं कर्तुमेव पितृनियोगः तं कर्तुमुद्यतः, अतो न विचिकित्साप्रसङ्गः ॥ ५ ॥

 एवमुक्त्वा धनुर्मध्ये बध्वा मुष्टिमरिन्दमः ।
 ज्याघोषमकरोत्तीव्रं दिशः शब्देन नादयन् ॥ ६ ॥

 तीव्रं-परुषश्रवणम् ॥ ६॥

 [४०८]तेन शब्देन वित्रस्ता ताटकावनवासिनः ।

 वित्रस्ताः-भीताः ॥ ७ ॥

 ताटका च सुसङ्क्रुद्धा तेन शब्देन मोहिता ॥ ७ ॥
 तं शब्दमभिनिध्याय राक्षसी क्रोधमूर्च्छिता ।
 श्रुत्वा चाभ्यद्रवद्वेगात् यतः शब्दो विनिस्सृतः ॥ ८ ॥

 मोहिता-किमिदानीं कर्तव्यमिति सम्भ्रान्तचित्ता यतश्शब्दो विनिस्सृतः, तं शब्दं श्रुत्वा तमेव अभिनिध्याय-आलक्ष्य अभ्यद्रवदिति योजना ॥ ८ ॥

 तां दृष्ट्वा राघवः क्रुद्धां विकृतां विकृताननाम् ।
 प्रमाणेनाति [४०९]वृत्तां च, लक्ष्मणं सोऽभ्यभाषत ॥ ९ ॥

 प्रमाणेन-शरीरप्रमाणेन । अतिवृत्तां-अतिप्रवृद्धाम् ॥ ९ ॥


 पश्य लक्ष्मण ! यक्षिण्या भैरवं दारुणं वपुः ।
 [४१०]भिन्देरन् दर्शनादस्या भीरूणां हृदयानि च ॥ १० ॥
 एनां पश्य दुराधर्षां मायाबलसमन्विताम् ।
 विनिवृत्तां करोम्यद्य हृतकर्णाग्रनासिकाम् ॥ ११ ॥

 विनिवृत्तामिति । अस्मदभियानादिति शेषः ॥ ११ ॥

 न ह्येनामुत्सहे हन्तुं स्त्रीस्वभावेन रक्षिताम् ।
 वीर्यं चास्या गतिं चापि हनिष्यामीति मे मतिः ॥ १२ ॥

 कुत एवं निवर्तनमात्रमित्यतः-नहीत्यादि । कथमेवं वक्ति ? ताटकावधं करिष्यामीत्युक्त्वा पुनः 'हन्तुं नोत्सहे' इति । प्राणवियोजनेनापि तत्कृतपीडाभावस्यैव साध्यत्वात् पाणिपादादिछेदनेन वीर्यगतिमाया[४११]संहारेणाकिंञ्चित्करत्वस्य [४१२]सिद्धत्वात्तावता गुरुवचनानुष्ठानस्य च सिद्धत्वात् शूरविगर्हितो माऽस्तु स्त्रीवध इति यावत् ॥ १२ ॥

 एवं ब्रुवाणे रामे तु ताटका क्रोधमूर्च्छिता ।
 उद्यम्य बाहू गर्जन्ती राममेवाभ्यधावत ॥ १३ ॥

 'धावुञ् गतिशुद्ध्योः' इति, उभयपदित्वादस्य-अभ्यधावत इति ॥ १३ ॥

 विश्वामित्रस्तु ब्रह्मर्षिः हुङ्कारेणाभितर्ज्य ताम् ।
 स्वस्ति राघवयोरस्तु जयं चैवाभ्यभाषत ॥ १४ ॥

 विश्वामित्रस्य दुर्घर्षतेजस्त्वेन तं विसृज्य राममेव मानुषबुद्ध्या धावन्तीं तां ताटकां विश्वामित्रो हुङ्कारेण सामान्यतः अभितर्ज्य,


राघवयोः स्वस्त्यस्तु जयश्चास्त्विति, जयं, जयविषयकाशिषं च

अभ्यभाषत । प्रायुङ्क्तेति यावत् ॥ १४ ॥

 उद्धून्वाना रजो घोरं ताटका राघवावुभौ ।
 रजोमेघेन महता मुहूर्तं सा व्यमोहयत् ॥ १५ ॥

 रजोमेघेन-[४१३]तत्प्रादुर्भावनेन रज उद्धन्वानेति योजना ॥ १५ ॥

 ततो [४१४]मायां समास्थाय शिलावर्षेण राघवौ ।
 अवाकिरत् सुमहता ततश्चक्रोध राघवः ॥ १६ ॥

 ततो मायां समास्थायेति । अन्तर्धानं गत्वेति यावत् । ततश्चुक्रोधेति । शिलावर्षस्य स्वेषामतिपीडा करत्वात् स्त्रीप्रयुक्तदाक्षिण्यं विसृज्य भगवान् क्रोधं प्राप्त इत्यर्थः ॥ १६ ॥

 शिलावर्षं महत्तस्याः शरवर्षेण राघवः ।
 [४१५]प्रतिहत्योपधावन्त्याः करौ चिच्छेद पत्रिभिः ॥ १७ ॥

 प्रतिहत्य । ल्यप् स्थानिवत्वेन कित्वात् स्वतः पित्वाद्वा अनुनासिकलोपः-निवार्य, अनन्तरं तत्करौ चिच्छेदेति । शिलावर्षादेस्तन्मूलत्वात् ॥ १७ ॥

 ततश्च्छिन्नभुजां श्रान्तां अभ्याशे परिगर्जतीम् ।
 सौमित्रिरकरोत् क्रोधात् हृतकर्णाग्रनासिकाम् ॥ १८ ॥

अभ्याशे-समीपे ॥ १८ ॥


 कामरूपधरा सद्यः कृत्वा रूपाण्यनेकशः ।
 अन्तर्धानं गता यक्षी मोहयन्ती[४१६]व मायया ।
  [४१७]अश्मवर्षं विमुञ्चन्ती भैरवं विचचार ह ॥ १९ ॥

 ताटकायास्सहजाकारस्याकिञ्चित्करत्वात् सा तं परित्यज्य कामरूपशक्तिमत्वात् रूपान्तरं, पुरोऽवस्थानमिया अन्तर्धानं च माया-शक्तया प्राप्य भैरवमश्मवर्ष विमुञ्चन्ती भैरवा विचचार ॥ १९ ॥

 ततस्तावश्मवर्षेण कीर्यमाणौ समन्ततः ॥ २० ॥
 दृष्ट्वा गाधिसुतः श्रीमान् इदं वचनमब्रवीत् ।
 अलं ते घृणया वीर ! पापैषा दुष्टचारिणी ॥ २१ ॥
 यज्ञविघ्नकरी यक्षी पुरा वर्धति मायया ।
 वध्यतां तावदेवैषा पुरा सन्ध्या प्रवर्तते ॥ २२ ॥
 रक्षांसि सन्ध्याकालेषु दुर्धर्षाणि भवन्ति वै ।

 घृणयाऽलमिति । स्त्रीति घृणा माऽस्त्वित्यर्थः । दुष्टचारिणी अश्मवर्षादिरूपदुष्टव्यापारा, दुष्टं यथा तथा मायाशक्तयान्तर्धानेन सञ्चरणशीला । एतेन प्रत्यक्षात्मनाशप्रसक्तया घृणाया अनौचित्यं प्रदर्शितम् । यज्ञविघ्नकरीत्यनेन पारलौकिकात्मीयपुरुषार्थनाशकत्वादनौचित्यं घृणायाः । पुरावर्धतेति । मायया यावद्वर्षते तावत्-तत्कालात् पुरैव-पूर्वमेव एषा वध्यतां । कुत इदानीमस्या मायावृद्धिप्रसङ्ग-पुरेत्यादि ।'यावत्पुरा' इति भविष्यति लट्, सन्ध्या प्रवर्तिष्यते इत्यर्थः । किं तत इत्यतः-रक्षांसीत्यादि ॥ २२ ॥

 इत्युक्तस्तु तदा यक्षीमश्मवृष्ट्याऽभिवर्षतीम् ।
 दर्शयन् शब्दवेधित्वं तां रुरोध स सायकैः ॥ २३ ॥


 अश्मवृष्ट्येति । करण तृतीया । शब्दमात्रेण लक्ष्यं सम्यक् निश्चित्य वेधी-शब्दवेधी, तादृशं स्वीयं सामर्थ्यं दर्शयन् भूत्वा तां यक्षीं रुरोध ॥ २३ ॥

 सा रुद्धा शरजालेन मायाबलसमन्विता ।
 अभिदुद्राव काकुत्स्थं लक्ष्मणं च विनेदुषी ॥ २४ ॥

 शरजालेनेति । शब्दवेधिऽशरजालेनेति यावत् । अभिदुद्रावेति । अन्तर्धानस्याप्रयोजनत्वात् तद्धित्वेति शेषः ॥ २४ ॥

 तामापतन्तीं वेगेन विक्रान्तामशनीमिव ।
 शरेणोरसि विव्याथ, सा पपात, ममार च ॥ २५ ॥

 अशनीमिवेति । 'सर्वतोऽक्तिन्नर्थादित्येके' इति धूळीपाल्यादिवत् ङीष् ॥ २५ ॥

 तां हतां भीमसङ्काशां [४१८] सुरपतिस्तदा ।
 साधु साध्विति काकुत्स्थं, सुराश्च समपूजयन् ॥ २६ ॥

 भीमसङ्काशां-भीमरूपाम् ॥ २६॥

 उवाच परमप्रीतः सहस्राक्षः पुरन्दरः ।
 सुराश्च सर्वे संहृष्टा विश्वामित्रमथाब्रुवन् ॥ २७ ॥

 सहस्राक्षो विश्वामित्रमुवाच इति योजना ॥ २७ ॥

 मुने कौशिक ! भद्रं ते सेन्द्राः सर्वे मरुद्गणाः ।
 तोषिताः कर्मणाऽनेन स्नेहं दर्शय राघवे ॥ २८ ॥

 सहस्राक्षादयः किमुक्तततः‌-मुने इत्यादि । अनेन कर्मणेति । त्वत्प्रवर्तितताटकावधकर्मणेति यावत् । स्नेहं दर्शयेति ।


मदीयोऽयमाप्ततमाश्शिष्य इति स्नेहमूलं व्यापार प्रवर्तयेति यावत् ॥ २८ ॥

 प्रजापतेः [४१९]कृशाश्वस्य पुत्रान् सत्यपराक्रमान् ।
 तपोबलभृतो ब्रह्मन् ! राघवाय निवेदय ॥ २९ ॥

 कोऽसौ तथा प्रवर्तनीयव्यापारः? इत्यतः-प्रजापतेरित्यादि ॥ २९ ॥

 पात्रभूतश्च ते ब्रह्मन् ! तवानुगमने धृतः ।
 कर्तव्यं च महत्कार्यं सुराणां राजसूनुना ॥ ३० ॥

 अनुगमने-शुश्रूषणे । धृतः-स्थिरनिश्चयः ॥ ३० ॥

 एवमुक्त्वा सुराः सर्वे जग्मुर्हृष्टा यथाऽऽगतम् ।
 विश्वामित्रं [४२०]पुरस्कृत्य, ततः सन्ध्या प्रवर्तते ॥ ३१ ॥

 पुरस्कृत्य-पूजयित्वा जग्मुरिति योजना । सन्ध्या-सायंसन्ध्या प्रवर्तते स्म ॥ ३१ ॥

 ततो मुनिवरः प्रीतः ताटकावधतोषितः ।
 मूर्ध्नि राममुपाघ्राय इदं वचनमब्रवीत् ॥ ३२ ॥
 इहाद्य रजनीं राम ! वसेम शुभदर्शन !
 श्वः प्रभाते गमिष्यामः तदाश्रमपदं मम ॥ ३३ ॥
 विश्वामित्रवचः श्रुत्वा हृष्टो दशरथात्मजः ।
 उवास रजनीं तत्र ताटकाया वने सुखम् ॥ ३४ ॥
 [४२१]मुक्तशापं वनं तच्च तस्मिन्नेव तदाऽहनि ।

 मुक्तशापं-अपगतशापजताटकोपद्रवम् ॥ ३४ ॥


 रमणीयं विबभ्राज यथा चैत्ररथं वनम् ॥ ३५ ॥

 ताटकावधतोषितः-प्राप्तसंतोषः । रामेणेति शेषः । अत एव रामाय प्रीतः-प्रसन्नः ॥

 निहत्य तां यक्षसुतां स रामः
  प्रशस्यमानः सुरसिद्धसङ्घैः ।
 उवास तस्मिन् मुनिना सहैव
  प्रभातवेलां प्रतिबोध्यमानः ॥ ३६ ॥

इत्यार्षे श्रीमद्रामायणे बालकाण्डे षड्विंशः सर्गः


 प्रभातवेलां प्रतिबोध्यमान इति । विश्वामित्रेणेति शेषः । अस्तग (३६ १/२) मानः सर्गः ॥ ३६ ॥

इति श्रीमद्रामायणामृतकतकटीकायां बालकाण्डे षड्विंशः सर्गः


अथ सप्तविंशः सर्गः

[ सर्वास्त्रग्रहणम् ]

 अथ तां रजनीमुष्य विश्वामित्रो महायशाः ।
 [४२२]प्रहस्य राघवं वाक्यं उवाच मधुराक्षरम् ॥ १ ॥

 अथ यथादेवतानियोगं विश्वामित्रानुष्ठानम् । अथ तामित्यादि । उष्येति । समासे ल्यप्, 'क्त्वापि छन्दसि' इत्यपिशब्दात् । राममुखदर्शनसंतोषजो मुख[४२३]विकासः प्रहासः, सन्तुष्टो मन्दस्मितं कृत्वेति यावत् ॥ १ ॥


 परितुष्टोऽस्मि भद्रं ते राजपुत्र ! महायशः ।
 प्रीत्या परमया युक्तो ददाम्यस्त्राणि सर्वशः ॥ २ ॥

 महायश इति । सम्बुद्धित्वान्न दीर्घः । सर्वशः-सर्वाणीति यावत् ॥ २ ॥

 देवासुरगणान् वाऽपि सगन्धर्वोरगानपि ।
 यैरमित्रान् प्रसह्याजौ वशीकृत्य जयिष्यसि ॥ ३

 आजौ प्रसह्य-बलात्कारेण संहारेण वा जयिष्यसि, स्वार्थे णिः, जेष्यसि । यदि वा दया, तदा वशीकृत्य संमोहनास्त्रादिना जयिष्यसि ॥ ३ ॥

 तानि दिव्यानि भद्रं ते ददाम्यस्त्राणि सर्वशः ।
 दण्डचक्रं महदिव्यं तव दास्यामि राघव ! ॥ ४ ॥

 दिव्यास्त्राणामनुक्रमः–दण्डचक्रमित्यादि । दण्डचक्रादयश्चक्रभेदाः ॥ ४ ॥

 [४२४]धर्मचक्रं ततो वीर ! कालचक्रं तथैव च ।
 वज्रमस्त्रं [४२५]नरश्रेष्ठ ! शैवं [४२६].शूलवरं तथा ॥ ५ ॥
 अस्त्रं ब्रह्मशिरश्चैव ऐषीकमपि राघव ! ।
 ददामि ते महाबाहो ! ब्राह्ममस्त्रमनुत्तमम् ॥ ६॥

 शूलवरं-शूलवरनामकम् । ब्रह्माशीरोऽप्यन्यत् । ब्रह्मास्त्रमप्यन्यत् ॥

 गदे द्वे चैव काकुत्स्थ ! मोदकी शिखरी उभे ।
 प्रदीप्ते नरशार्दूल ! प्रयच्छामि नृपात्मज ! ॥ ७ ॥

 मोदकी शिखरीसंज्ञे ये द्वे गदे स्तः, ते उभे च दास्यामि ॥ ७ ॥


 धर्मपाशमहं राम ! कालपाशं तथैव च ।
 पाशं वारुणमस्त्रं च ददाम्यहमनुत्तमम् ॥ ८ ॥

 अस्त्रं चेति । वारुणास्त्रं चेत्यर्थः ॥ ८ ॥

 अशनी द्वे प्रयच्छामि शुष्कार्द्रे रघुनन्दन ! |
 ददामि चास्त्रं पैनाकमस्त्रं नारायणं तथा ॥ ९ ॥

 अशन्योर्द्वैतमेव प्रदर्श्यते-शुष्कार्द्रे इति । पिनाकिन इदं पैनाकम् ॥ ९ ॥

 आग्नेयमस्त्रं दयितं शिखरं नाम नामतः ।
 वायव्यं [४२७] प्रथमं नाम ददामि च, तवानघ ! ।। १० ।।

 नामतः शिखरं नाम-शिखरमिति प्रसिद्धम् अग्नेः दयितं-इष्टम् आग्नेयं च प्रथमं नाम-प्रथमसंज्ञम् ॥ १०॥

 अस्त्रं हयशिरो नाम क्रौञ्चमस्त्रं तथैव च ।
 शक्तिद्वयं च काकुत्स्थ ! ददामि तव राघव ! ॥ ११ ॥
 कङ्कालं मुसलं घोरं कापालमथ [४२८]कङ्कणम् ।
 [४२९]धारयन्त्यसुरा यानि ददाम्येतानि सर्वशः ॥ १२ ॥

 धारयन्त्यसुरा यानीति । कङ्कालादीनीति यावत् ॥ १२ ॥

 वैद्याधरं महास्त्रं च नन्दनं नाम नामतः ।
 असिरत्नं महाबाहो ! ददामि नृवरात्मज ! ॥ १३ ॥

 नन्दनं नाम असिरत्नमित्यन्वयः ॥ १३ ॥


 गान्धर्वमस्त्रं दयितं [४३०]मानवं नाम नामतः ।
 प्रस्वापनप्रशमने दद्मि सौरं च राघव ! ॥ १४ ॥

 ददामीत्यत्राकारलोपे दद्मीति छान्दसः ॥ १४ ॥

 [४३१]वर्षणं शोषणं चैव सन्तापनविलापने ।
 [४३२]मर्दनं चैव दुर्धर्षं कन्दर्पदयितं तथा ॥ १५ ॥

 विलापयति परिदेवयतीति विलापनम् । मर्दयतीति मर्दनम् ॥

 पैशाचमस्त्रं दयितं मोहनं नाम नामतः ।
 प्रतीच्छ नरशादूल ! राजपुत्र ! महायशः ! ॥ १६ ॥

 प्रतीच्छ-गृहाण ॥ १६ ॥

 तामसं नरशार्दूल ! सौमनं च महाबल !
 संवर्तं चैव दुर्धर्षं मौसलं नाम नामतः ॥ १७ ॥

 प्रागुक्तासुरमुसलास्त्रादन्यत् मौसलम् ॥ १७ ॥

 सत्यमस्त्रं महाबाहो तथा मायाधरं परम् ।
 [४३३]घोरं तेजःप्रभं नाम परतेजोऽपकर्षणम् ॥ १८ ॥
 सौम्यास्त्रं शिशिरं नाम त्वाष्ट्रमस्त्रं सुकामदम् ।
 दारुणं च भगस्यापि शीतेषुमथ मानवम् ॥ १९ ॥

 शतेषु मानवमित्यन्वयः ॥ १९ ॥

 एतान् राम ! महाबाहो ! कामरूपान् महाबलान् ।
 गृहाण परमोदारान् क्षिप्रमेव नृपात्मज ! ॥ २० ॥


 स्थितस्तु प्राङ्मुखो भूत्वा शुचिर्मुनिवरस्तदा
 ददौ रामाय सुप्रीतो मन्त्रग्राममनुत्तमम् ॥ २१ ॥

 नन्वस्त्राणि दास्यामीति प्रतिश्रुत्य तानि च अनुक्रम्यान्ते मन्त्रग्रामं ददावित्युच्यते । उपसंहारेऽस्त्राणि ददावित्येवान्ते वक्तव्यत्वात् । नैतत्, अनुक्रान्तदिव्यास्त्राणां ब्रह्मपुत्राणां देवतात्वेन मन्त्रैकसहजात्मानः भामण्डलवपुष्मन्तो मण्डलानुग्रहायेति चिद्रहस्यात्, अस्त्रदेवानां स्वस्वमन्त्रस्यैव सहजमूर्तित्वात्, भामण्डलवपुर्ग्रहस्योपासकानुग्रहोपाधिमूलत्वेनासहजत्वादशक्यदानाच्च भद्रतरमुक्तम्–मन्त्रग्रामं ददाविति । [४३४]ननु 'मन्त्रग्रामं गृहाण त्वम्' इति बलातिबलादानप्रसङ्गे उक्तः । पुनरिह कुतो मन्त्रग्रामदानं ? सत्यमुक्तम्–गृहाणेति, न तु दत्तं, तत्कालोपयोगिबलातिबलामन्त्रस्यैव दानात् ॥ २१ ॥

 सर्वसङ्ग्रहणं येषां दैवतैरपि दुर्लभम् ।
 तान्यस्त्राणि तदा विप्रो राघवाय न्यवेदयत् ॥ २२ ॥

 सर्वेत्यादि । येषां उक्तदिव्यास्त्राणां सर्वसङ्ग्रहणं सर्वेषामुक्तानामेकेन सङ्ग्रहणं कर्तुम् दैवतैरपि दुर्लभं-दुष्करमिति यावत् । कश्चिद्देवोऽपि किञ्चिदेवात्रत्येषु जानाति, न सर्वम् । एवमनेकदुष्प्रापाणि तानि सर्वाणि अस्त्राणि एकस्मै रामाय तदा विप्रः-विश्वामित्रो न्यवेदयत्–दत्तवान् ॥ २२ ॥

 जपतस्तु मुनेस्तस्य विश्वामित्रस्य धीमतः ।
 उपतस्थुर्महार्हाणि सर्वाण्यत्राणि राघवम् ॥ २३ ॥

 एवं मन्त्रं दत्त्वा, मन्त्रमिव मन्त्रदैवतान्यपि शिष्यानुवर्तनाय योजयितुं तानि स्मृत्वा जपतो विश्वामित्रस्य मुनेः आज्ञया गृहीत-


भामण्डलवपुष्मन्ति सन्ति उपतस्थुः । तत उपस्थितानि विश्वामित्रनियोजितरामसेवकानि तानि सर्वाण्यस्त्राणि महात्मानं राघवं चोपतस्थुः ॥

 ऊचुश्च मुदिताः सर्वे रामं प्राञ्जलयस्तदा ।
 इमे स्म परमोदाराः किङ्करास्तव राघव ! ॥ २४ ॥
 [४३५]यद्यदिच्छसि, भद्रं ते, तत्सर्वं करवाम वै ।

 उपस्थाय, सर्वे अस्त्रदेवताः प्राञ्जलयः साक्षात्स्वाधीनदेवताः ब्रह्मरामसम्बन्धेन मुदिताः सत्यः तं ऊचुः । किमित्यतः—इम इत्यादि । किङ्कराः–नियोज्याः–अङ्गीकृतकैङ्कर्याः ॥ २४ ॥

 ततो रामः प्रसन्नात्मा तैरित्युक्तो महाबलैः ॥ २५ ॥
 प्रतिगृह्य च काकुत्स्थः समालभ्य च पाणिना ।
 मानसा मे [४३६]भविष्यध्वमिति तानभ्यचोदयत् ॥ २६ ॥

 तान् काकुत्स्थः पाणिना समालभ्य-उपस्पृश्य, स्त्रियं पतिरिव, प्रतिगृह्य च-स्वीकृत्य च तान् मानसा भविष्यध्वमित्यभ्यचोदयत् । मनस्स्मृतिकालोपस्थानाः मानसाः, दार्षदादिवत् शैषिकोऽण् । भविष्यध्वमिति व्यत्ययात्तङ् ॥ २६ ॥

 ततः प्रीतमना रामो विश्वामित्रं महामुनिम् ।
 अभिवाद्य महातेजा गमनायोपचक्रमे ॥ २७ ॥

इत्यार्षे श्रीमद्रामायणे बालकाण्डे सप्तविंशः सर्गः


 सरो(२७)मानः सर्गः ॥ २७ ॥

इति श्रीमद्रामायणामृतकतकटीकायां बालकाण्डे सप्तविंशः सर्गः



अथ अष्टाविंशः सर्गः

[अस्त्रसंहारग्रहणम् ]

 प्रतिगृह्य ततोऽस्त्राणि प्रहृष्टवदनश्शुचिः ।
 गच्छन्नेव च काकुत्स्थो विश्वामित्रमथाब्रवीत् ॥ १ ॥

 अथावगतप्रयोगास्त्राणां उपसंहारापरिज्ञाने पुनः प्रयोगानर्हत्वेनाप्राप्तप्रायत्वात् परमचतुरेण रामेणावगतास्त्रोपसंहारे च पृष्टे तमुपदिश्य तच्चातुरीस्वावगतसर्वास्त्रपात्रत्वायान्यानपि दिव्यास्त्राण्यसङ्कोचोपचारेण-सर्वास्त्रविदुषे रामायोपदिशति । प्रतिगृह्येत्यादि ॥ १ ॥

 गृहीतास्त्रोऽस्मि भगवन् ! दुराधर्षः सुरासुरैः ।
 अस्त्राणां त्वहमिच्छामि संहारं मुनिपुङ्गव ! ॥ २ ॥

 गृहीतास्त्रोऽस्मीति। गृहीतास्त्रप्रयोगमार्गोऽस्मीत्यर्थः ॥ २ ॥

 एवं ब्रुवति काकुत्स्थे विश्वामित्रो महायशाः ।
 संहारं व्याजहाराथ धृतिमान् सुव्रतश्शुचिः ॥ ३ ॥

 संहारमिति। तत्तदस्त्रमूलमन्त्रवर्तितत्तत्संहारमार्गमित्यर्थः ॥ ३ ॥

 [४३७]सत्यवन्तं सत्यकीर्तिं धृष्टं रभसमेव च ।
 प्रतिहारतरं नाम पराङ्मुखमवाङ्मुखम् ॥ ४ ॥

 अथ उपदिष्टास्त्रसंहारमार्गेपिदेशानन्तरं धृतिमत्त्वादिगुणक ऋषिः सत्यवदादीन्यन्यान्यपि ददाति-सत्यवन्तमित्यादि । ददामीति सर्वत्रान्वयः ॥ ४ ॥

 लक्षाक्षविषमौ चैव दृढनाभसुनाभकौ ।
 दशाक्षशतवक्रौ च दशशीर्षशतोदरौ ॥ ५ ॥


 पद्मनाभमहानाभौ दुन्दुनाभसुनाभकौ ।
 ज्योतिष कृशनं चैव नैराश्यविमलावुभौ ॥ ६ ॥

 दुन्दुनाभ इति । नामैकदेशे नामग्रहः, दुन्दुभीनाभ इति यावत् ॥ ६ ॥

 [४३८]यौगन्धरहरिद्रौ च दैत्यप्रशमनौ तथा ।
 सार्चिर्माली धृतिर्माली वृत्तिमान् रुचिरस्तथा ॥ ७ ॥

 सार्चिर्माल्यादयो ये, तांश्च ददामीति योजना ॥ ७ ॥

 पितृसौमनसं चैव विधूतमकरावुभौ ।
 करवरिकरं चैव धनधान्यौ च राघव ! ॥ ८ ॥
 कामरूपं कामरुचिं मोहमावरणं तथा ।
 जृम्भकं सर्वनाभं च सन्तानवरणौ तथा ॥ ९ ॥
 कृशाश्वतनयान् राम ! भास्वरान् कामरूपिणः ।
 प्रतीच्छ मम, भद्रं ते, पात्रभूतोऽसि राघव ! ॥ १० ॥
 [४३९]बाढमित्येव काकुत्स्थः प्रहृष्टेनान्तरात्मना ।

 कृशाश्वेत्यादि । सत्यवदादिवरणान्तान् मया दीयमानानभास्वरत्वादिगुणकान् कृशाश्वतनयान् मम सकाशात् प्रतीच्छ-गृहाण । हे राघव ! यथाऽहं, मत्तोऽधिकं वा सर्वास्त्राधिदैवततत्पितृब्रह्मरूपत्वात् पात्रभूतोऽसि । एवं विश्वामित्रेण बहुकालबहुदेवतोपासनप्राप्त-सर्वास्त्राणामप्रयासत एकदैव प्राप्तेः भगवान् रामो ब्रह्मैवेति सुज्ञेयम् । न ह्यन्यं ब्रह्मपुत्राः कटाक्षेणापि वीक्षेरन्, येष्वेकोऽपि विश्वामित्रवदेव तत्तच्चिरकालोपासनैकलभ्यः । पितरन्तु पुत्रास्स्वयमेवोपासते । पिता च


स्वेच्छया तान् विनियुङक्ते । अत एव नियुक्तो रामो बाढं-तथाऽस्त्वित्युक्त्वा

प्रहृष्टेनान्तरात्मना जग्राहेति शेषः ॥ १० ॥

 दिव्यभास्वरदेहाथ मूर्तिमन्तस्सुखप्रदाः ॥ ११ ॥
 केचिदङ्गारसदृशाः केचिद्धूमोपमास्तथा ।
 चन्द्रार्कसदृशाः केचित् प्रह्वाञ्जलिपुटास्तथा ॥ १२ ॥
 रामं प्राञ्जलयो भूत्वाऽब्रुवन् मधुरभाषिणः ।

 अथ प्रागुक्तमार्गेण गृहीतदिव्यतादिविशेषणकास्ते प्राञ्जलयो भूत्वा राममब्रुवन्नित्यन्वयः । तत्र प्रह्वा इति शिरःकायप्रावण्यधर्मकाः । अञ्जलेः पुटः-संश्लेषो येषां ते तथा ॥ १२ ॥

 इमे स्म नरशार्दूल ! शाधि किं करवाम ते ॥ १३ ॥

 इमे स्मेति । सन्निहिता वयमित्यर्थः । शाधि–आज्ञापय । शाभावस्याबाघसिद्ध्या 'हुझल्भ्यः-' इति धित्वम् ॥ १३ ॥

 मानसाः कार्यकालेषु साहाय्यं मे करिष्यथ ।
 गम्यतामिति तानाह [४४०]यथेष्ट रघुनन्दनः ॥ १४ ॥

 अथ 'ते किं करवाम' इति विज्ञापितवतोऽस्त्रदेवान्नियुङ्क्तेमानसा इत्यादि । व्याकृतचरश्शब्दः । गम्यतामिति । इदानीमिति शेषः ॥ १४ ॥

 अथ ते राममामन्त्र्य कृत्वा च चाभिप्रदक्षिणम् ।
  [४४१]एवमस्विति काकुत्स्थमुक्त्वा जग्मुर्यथाऽऽगतम् ॥ १५ ॥


 अभितः प्रदक्षिणं-अभिप्रदक्षिणं । एतेनापि रामस्तत्पिता ब्रह्मेति ज्ञेयम् । न हि देवतास्स्वानुग्राह्ये प्रदक्षिणाद्याचरन्ति ॥ १५ ॥

 स च तान् राघवो ज्ञात्वा विश्वामित्रं महामुनिम् ।
 गच्छन्नेवाथ मधुरं श्लक्ष्णं वचनमब्रवीत् ॥ १६ ॥

 स च तानिति । पश्चादुपदिष्टास्त्रांश्चेत्यर्थः । ज्ञात्वेति । मन्त्रतो मूर्तितः प्रयोगतश्चेति शेषः ॥ १६ ॥

 किं न्वेतन्मेघसङ्काशं पर्वतस्याविदूरतः ।
 वृक्षषण्डमितो भाति परं कौतूहलं हि मे ॥ १७ ॥

 अथ वक्ष्यमाणार्थबीजप्रक्षेपः- किं न्वेतदित्यादि । मेघसङ्काशमिति कार्ष्ण्यनैपिड्यात् । पर्वतस्याविदूरतः इतः-इह यद्वृक्षषण्डं भाति, एतत् वनवृक्षषण्डं ? आश्रमवृक्षषण्डं वा ? इति प्रश्नः ॥ १७ ॥

 दर्शनीयमृगाकीर्ण मनोहरमतीव च।
 नानाप्रकारैश्शकुनैः वल्गुनारलङ्कृतम् ॥ १८ ॥
 निस्सृताः स्म मुनिश्रेष्ठ ! कान्ताराद्रोमहर्षणात् ।
 अनया त्ववगच्छामि देशस्य सुखवत्तया ॥ १९ ॥
 सर्वं मे शंस भगवन् ! कस्याश्रमपदं त्विदम् ।

 अथ किञ्चित्समीपगमने स्वयमेवाश्रमीयत्वं वृक्षषण्डस्य ज्ञात्वा 'कस्याश्रमपदम् ?' इति पृच्छति–दर्शनीयेत्यादि । निस्सृताः स्मेति । यतो दर्शनीयमृगाकीर्णत्वादिलक्षणमिदं वृक्षषण्डं, तस्मात्रोमहर्षणात्-भीत्या रोमाञ्चकारात् दुष्प्रवेशभयदुःखावहकष्टारण्यात् निर्गताः स्म । अपि च अनया देशस्य सुखवत्तया चेदमाश्रमपदमित्यवगच्छामि । तदिदं कस्येत्यादि यन्मे जिज्ञासितं, तत्सर्वं शंस ॥ १९ ॥

 संप्राप्ता यत्र ते पापा ब्रह्मघ्ना दुष्टचारिणः ॥ २० ॥
 तव यज्ञस्य विघ्नाय दुरात्मानो महामते ! ।
 भगवंस्तस्य को देशः सा यत्र तव याज्ञिकी ॥ २१ ॥
 रक्षितव्या क्रिया ब्रह्मन् ! मम वध्याश्च राक्षसाः ।
 एतत्सर्वं मुनिश्रेष्ठ! श्रोतुमिच्छाम्यहं प्रभो ! ॥ २२ ॥

इत्यार्षे श्रीमद्रामायणे बालकाण्डे अष्टाविंशः सर्गः


 सर्वशब्दविवक्षितं स्वजिज्ञास्यान्तरं स्वयमेव ब्रूते रामः--सम्प्राप्ता इत्यादि । ब्रह्मघ्नाः-'अमनुष्यकर्तृके च' इति हन्तेष्टकि 'गमहन' इत्युपधालोपादिः, ब्रह्मघातकत्वादिविशेषणकास्ते पापाः यत्र युष्मदाश्रमप्रदेशे सम्प्राप्ताः तव यज्ञस्य विघ्नाय भवन्ति, यत्र च मया रक्षितव्या सा तव याज्ञिकी क्रिया, यत्र च तच्छेषतया मया राक्षसाश्च वध्याः, तस्य भगवदाश्रमस्य देशः-प्रदेशः कः ? एतत्सर्वं श्रोतुमिच्छामि इति । रात्रि (२२) मानः सर्गः ॥ २२ ॥

इति श्रीमद्रामायणामृतकतकटीकायां बालकाण्डे अष्टाविंशः सर्गः


अथ एकोनत्रिंशः सर्गः

[सिद्धाश्रमवृत्तान्तः]

 अथ तस्याप्रमेयस्य तद्वनं परिपृच्छतः ।
 विश्वामित्रो महातेजा व्याख्यातुमुपचक्रमे ॥ १ ॥

 अथ प्रागुक्तबीजोऽर्थः प्रकाश्यते–अथ तस्येत्यादि । रामस्य व्याख्यातुमिति । पृष्टोत्तरमिति शेषः ॥ १ ॥

 इह राम ! महाबाहो ! विष्णुर्देववरः प्रभुः ।
 वर्षाणि सुबहून्येव तथा युगशतानि च ॥ २ ॥
 तपश्चरणयोगार्थमुवास सुमहातपाः ।

 इहेत्यादि । हे राम ! इह-भूलोके इहाश्रमपदे देववरः प्रभुर्विष्णुः-विराट्पुरुषः प्रजापतिर्ब्रह्मा तपश्चरणयोगार्थं तपश्चरणोपेतः, योगः-समाधिः स्वकसहजभूमविराट्तुर्यब्रह्मानन्यतामयनिजतत्त्वानु- सन्धानात्मकः, तत्सिद्ध्यर्थं उवास । समूलकार्योपाधेरस्य विराजः तत्त्वव्रते परमकारणं तुरीयं ब्रह्मैव विषयः । उक्तयोगं स्वीयं विराड-विष्णुरेव जगौ--"पश्य मे योगमैश्वरं । परं भावमजानन्तो ममाव्ययमनुत्तमम्" इत्यादि । किमर्थोऽयं योगो विराजः ? तुर्यवदप्रतिहतज्ञानक्रियाशक्तितयैव प्रतियुगं भूत्वा भूत्वा स्वसृष्टस्रोतसः स्वाहरन् तत्पञ्चकृत्यप्रवर्तनार्थमेव । आधारशक्तिप्राधान्यमेव विराजः । केवलं सम्राजः क्रियाशक्तिप्रधान्यम् । स्वराजो भगवतो ज्ञानशक्तिप्राधान्यम् । तुर्यस्य श्रीमदादिगुरोर्ब्रह्मणः सर्वातीतत्वेन विराडादित्रिब्रह्ममूर्तिलीलामूर्तित्वेन च तस्य तस्येव सर्वं तस्य प्रधानम् । 'प्रजापति-रकामयत प्रजास्सृजेयेति' 'स तपोऽतप्यत । स तपस्तप्त्वा । इदं सर्वमसृजत इत्यादिसर्वश्रुत्यैककण्ठो विराजो नित्यतपश्चरणयोगः । अत एव सुमहातपाः ॥ २ ॥

 एष पूर्वाश्रमो राम ! वामनस्य महात्मनः ॥ ३ ॥
 सिद्धाश्रम इति ख्यातः सिद्धो ह्यत्र महातपाः ।

 एष इत्यादि । हे राम! महात्मनो वामनस्य करिष्यमाणवामनाबतारस्य विष्णोः एषः पूर्वाश्रमः- वामनावतारात् पूर्वकाले तदुचितमातापित्रादिपरिकरसिद्धिप्रयोजनकयोगार्थं परिगृहीत आश्रमस्तथा । तदा विष्णुतपःकाले अयं सिद्धाश्रम इति ख्यातः | हि यस्मात्, महातपाः-विष्णुरत्र तपस्सिद्धः, तस्मादेव । [४४२]तदाख्या ॥ ३ ॥

 एतस्मिन्नेव काले तु राजा वैरोचनिर्बलिः ॥ ४ ॥
 निर्जित्य दैवतगणान् सेन्द्रांश्च समरुद्गणान् ।
 [४४३]कारयामास तद्राज्यं त्रिषु लोकेषु विश्रुतः ॥ ५ ॥

 एतस्मिन्नेव काले विष्णोविराजस्तपश्चरणकाल एव तद्राज्यं कारयामास, स्वार्थे णिः, इन्द्रादिदेवराज्यं स्वयमेवाभुङ्क्तेति यावत् ॥ ५ ॥

 बलेस्तु यजमानस्य देवाः साग्निपुरोगमाः ।
 समागम्य स्वयं चैव विष्णुमूचुरिहाश्रमे ॥ ६ ॥

 बलेरित्यादि । भावलक्षणे षष्ठी, बलौ यजमाने यागं कुर्वाणे सति, पुरोगमेनाग्निना सहिताः साग्निपुरोगमाः देवाः, अग्निमुखत्वादेव देवानां तत्पुरोगमत्वम् इहाश्रमे तपश्चरन्तं विष्णुं स्वयमेव समागत्योचुः ॥ ६ ॥

 बलिर्वैरोचनिर्विष्णो ! यजते यज्ञमुत्तमम् ।
 असमाप्ते क्रतौ तस्मिन् स्वकार्यमभिपद्यताम् ॥ ७ ॥

 किमूचुरित्यतः–बलिरित्यादि । यजत इति । कर्त्रभिप्रायत्वादात्मनेपदम् । ननु कथं असुरस्य यागः ? काऽनुपपत्तिः ? उच्यते--'यस्यै देवतायै हविर्गृहीतं स्यात् तां ध्यायेत् वषट्करिष्यन् साक्षादेव तद्देवतां प्रीणाति' इति श्रुतेस्तत्तद्देवताध्यानपूर्वं तत्तन्मन्त्रेण तत्तदुद्देशेन


तद्धविःप्रदानं याग इत्यविवादः । एवं च सर्वदेवतारातिरसुरः किंदेवताप्रीतये कां देवतां किं फलमुद्दिश्य यजतेति । तर्हि चतुर्थ्यन्तश्शब्द एव देवता । यज्ञार्थश्च शब्दोऽनादिश्रुतिरूपः । तत्प्राप्तिश्चादितिसुतानामिव दितिसुतानामपि स्वपितुर्बह्मणः सुलभा । अतो यागप्रवृत्तिरिति । सत्यम् ; अथापि शब्दमात्रात्मिका देवतेति न युज्यते । 'साक्षादेव तद्देवतां प्रीणाति' इति श्रुतेः । अचेतनशब्दस्य प्रीत्याद्ययोगात् । ततो यजमानस्य स्वर्गादिसिद्ध्ययोगाच्च । अत एव क्रियया

फलायोगः विततश्चान्यत्र । अतश्शब्दातिरिक्ता शब्दवाच्या सचेतना वज्रादितत्तच्चिह्नोपेतविग्रहवती देवतेत्यास्थेयम् । न च विग्रहवत्त्वे युगपदनेकयागासन्निधानप्रसङ्ग इति; दिव्यैश्वर्यशक्तिमत्त्वेन सक्नुदेवाने कमूर्त्यासर्वयागसान्निध्ये वषट्कारात् । यद्येवं [४४४]स्थितैवासुरयागानुपपत्तिः ॥

 अत्रोच्यते-तावद्यागप्रवृत्तिमूलकारणश्रुतिलाभस्तु सुरासुराविशेषेण स्वपितुः, अविशिष्टशुक्रबृहस्पत्यादिस्वपुरोहितभ्यो वा । तथा सर्वैरपि श्रौतर्यज्ञैर्यजनीया देवता तत्प्रीता तत्फलदा अत्र चाविशिष्टा । कथं ? सामान्या यज्ञदेवताः 'अष्टौ वसव एकादश रुद्रा द्वादशा दित्याः प्रजापतिश्च वषट्कारश्चैते देवास्सोमपाः, एकादश प्रयाजा एकादशानूयाजा एकादशोपयाजा एते सोमपाः पशुभाजनास्सोमेन सोमपान् प्रीणाति पशुनाऽसोमपान्, उभये हास्यैता देवताः प्रीता अभीष्टा भवन्ति' इति श्रुतेः सोमपासोमपद्विप्रभेदाः । तत्रासोमपा उपाङ्गदेवताः यस्य सोमपा अङ्गदेवताः, प्रधानदेवता मन्त्रमयो भगवान् प्रजापतिः वषट्कारो दानक्रियात्मा च । स एव कथं ? 'प्रजापतिर्वा एष पितायते यद्यज्ञ्ः' इति, 'एष वै प्रजापतिं सर्वं करोति, योऽश्वमेघेन यजते ' इत्यादेः क्रियात्मता भगवतः प्रजापतेः, तथा व्याहृतिजयादिदशहोत्रच्छन्दोवीर्यसप्तदशाक्षरीसावित्रीत्रयीमुखसर्वयज्ञमन्त्रात्मता च ।


स एव कथम् ?-'प्रजापतिर्वा अयमकारः पवमाननित्याश्रितजलप्राधान्यात् । स एव भूप्राधान्येन वेदिसदस्सर्वसान्नाय्यपुरुषाश्वांतसर्वयज्ञसमारम्भात्मना विष्णुशब्दश्च । तत्र जलभूमयस्यापि विराजो ब्रह्मणस्तु जलमूर्तेरेव प्राधान्यम् । विनाऽपि भुवं वायौ जलं तिष्ठति, न विना जलं भूस्तिष्ठति । अपि च जलकृतसंश्लेषा महाचलधृता जलानुग्रहप्रवृत्तसर्वस्त्रोतस्सम्यादिपोषवती च । अतः प्रधानदेवता भगवान् प्रजापतिः । तेन भगवता स्वमनःप्राणदेहप्राधान्यसृष्टा वस्वादयः स्वावयवभूता

इत्यङ्गदेवतात्वम् ; प्रयाजादीनां सोमासम्बन्धादुपाङ्गत्वं भगवतः । तत्र वसुसमष्टिर्वासव इन्द्रः । 'रुद्रो वा एष यदग्निः' इत्यादेः रुद्रसमष्टिरग्निः । एताविन्द्राग्नी च समष्ट्या भगवत्सृष्टौ भगवदङ्गेष्वप्रधानाङ्गभूतौ । एतेन यज्ञदेवताश्च सर्वयज्ञयजमानसाधारणाः । कथं ? 'पुरुषे त्वे वाविस्तारामात्मा' 'तदात्मानं स्वयमकुरुत' इत्यादेः । तेजोंऽशप्राधान्येन देवासुरसर्वयजमानोपादानत्वात् भगवान् यज्ञः प्रजापतिः तद्यजमानः प्रत्यगात्मना प्रतितिष्ठति । तस्मिंस्तथा स्थिते तदवयवदेवाश्च तद्यजमानावयवात्मना प्रतितिष्ठन्ति । ते च ते स्वस्वोपादानतः स्वात्मरूपं यज्ञं स्वस्वीययज्ञकर्मणा संस्कृत्य तमेव शाश्वतपरगतिं परलोके प्राप्नुवन्ति । तथा हि श्रुतिः-'यज्ञो वै प्रजापतिः । यज्ञमेव प्रजापतिं संस्करोति । आत्मानमेव तत् संस्करोति । तत्संस्कृतमा-मात्मानम् । अमुष्मिलोकेऽनु परैति' इति । तथा 'स ईश्वर आर्तिमार्तोः । प्रजापतिस्त्वावैनं तत उन्नेतुमर्हती त्याहुः । यत्प्राजापत्ययर्चा पुनरेति । प्रजापतिरेवैनं तत उन्नयति । नार्तिमार्च्छति यजमानः इति । तथा 'प्रजापतिं वा एष ईप्यतीत्याहुः । योऽश्वमेधेन यजते' इत्यादेः । अतस्स्वस्वतत्त्वस्य शाश्वतपरगतेभगवतः प्राप्तये इह पूर्णकामा वा देवाः, असुरादयो वा यजन्त इति राजमार्गः ॥  यद्येवं बल्यादयः कं देवं द्विषन्ति ? कर्मदेवानित्येव । द्विधा देवाः कर्मदेवाः, आजानजदेवा इति । तत्र ये कर्मणा देवानपि जयन्ति, ते कर्मदेवाः । आजानजा भगवदयवभूता अनाद्यन्तनित्यसत्यशब्द-यज्ञमन्त्रार्थभूता यज्ञमन्त्रनित्यसम्बद्धा नित्याश्च, भगवानिव नित्यविद्यैश्वर्यानन्दापहतपाप्मत्वाद्यष्टकल्याणगुणाश्च निसर्गतः । त इमे कर्मदेवप्राप्यगतिरूपाः । 'वसूनां सायुज्यं गच्छति, रुद्राणां सायुज्यं गच्छति' इत्यादेशः । त एते कर्मदेवा विराडादिप्रधानाङ्गपरिचारद्वारा समाजब्रह्मलोकेषु सामाजिकं लोकमेव कर्मबलेन यान्ति, कर्मक्षये च पुनः पतन्ति । द्वारादिब्रह्मलोकभाजस्तु अंशतो नियतावतारोक्ता तारा न पतन्ति । तिष्ठतु तत् । वक्तव्यः बहुप्रपञ्चः । इह एतान् कर्मदेवान् मनुष्या असुरादयश्च भगवदाश्रयबलेन तत्तत्पदात् प्रच्यावयन्ति । अतस्ते चैषां मानुषा-सुरादिभगवद्यज्ञानां विघ्नं कुर्वन्ति । तथा हि "न चैतदिष्टं देवानां मर्त्यैरुपरिवर्तनं । तस्माद्विघ्नन्ति तद्यज्ञं स्वपदच्युतिभीरवः" इति व्यासादिवचनम् । अतः कर्मदेवैस्स्वारातिबलियज्ञविघ्नाय प्रवृत्तिः । तस्यापि तत्पदप्रच्यावनार्थैव यज्ञप्रवृत्तिरिति सिद्धान्तः ॥

 स्वकार्यमिति । स्वेषामस्माकं देवानां कार्यस्वकार्यम् । अभिपद्यतामिति । अन्तर्भावितणिः पदिः, अभितः कायैन सम्पाद्यतामित्यर्थः ॥ ७ ॥

 ये चैनमभिवर्तन्ते याचितार इतस्ततः ।
 यच्च यत्र यथावच्च सर्वं तेभ्यः प्रयच्छति ॥ ८ ॥

 तथासम्पादने स्वयमेवोपायं वदन्ति-ये चेति । अभिवर्तन्ते अभितः आगच्छन्ति-इतस्ततः नानादेशादिति यावत् । ये याचितारः यत्र–गोभूहिरण्यादियाचनीयवस्तुविषये यच्च वस्तु याचन्ते, तत्सर्वं तेभ्यो यथावद्यज्ञसाद्गुण्यायावमानादिराहित्येन सत्कारपूर्वं प्रयच्छतीत्यर्थः ॥ ८ ॥

 स त्वं सुरहितार्थाय मायायोगमुपागतः ।
 वामनत्वं गतो विष्णो ! कुरु कल्याणमुत्तमम् ॥ ९ ॥

 मायायोगमिति । दिव्यवैभवविष्णुतत्त्वसमाच्छादनेन प्राकृतमर्त्यादिभावप्रकाशिका शक्तिर्माया, तस्या योगः-सम्बन्धः, तमुपागतः, तमवष्टभ्येति यावत् । अवतारासाधारणसाधनभूतेयं शक्तिः । तथा च जगौ-'प्रकृतिं स्वामधिष्ठाय सम्भवाम्यात्ममायया' इति । वामनत्वं-वामनावतारमिति यावत् ॥ ९ ॥

 एतस्मिन्नन्तरे राम ! काश्यपोऽग्नि समप्रभः ।
 अदित्या सहितो राम ! दीप्यमान इवौजसा ॥ १० ॥
 देवीसहायो भगवान् दिव्यं वर्षसहस्रकम् ।
 व्रतं समाप्य, वरदं तुष्टाव मधुसूदनम् ॥ ११ ॥

 एतस्मिन्नन्तर इति । एवं देवैर्वामनावतारप्रार्थनसमय इत्यर्थः । देवानां सिद्धसङ्कल्पत्वात् सङ्कल्पादेवावतारपरिकरसिद्धिरिति प्रदर्श्यते-काश्यप इत्यादि । स्वतः अग्निसमप्रभः, अदित्या सर्वधर्मसाधनशक्तिरूपया सहितः । अत एव ओजसा-अर्चिषा दीप्यमानाग्निरिव काश्यपप्रजापतिः देवीसहायः-स्वधर्मपत्न्यदितिसहितो भूत्वा दिव्यं वर्षसहस्रं विष्णुपुत्रप्राप्तयुद्देशेन व्रतं कृत्वा, तदन्ते व्रतं समाप्य, तदन्ते कृतसन्निधानं वरदं-वरदानोन्मुखं मधुसूदनं तुष्टाव ॥ ११ ॥

 तपोमयं तपोराशिं तपोमूर्तिं तपात्मकम् ।
 तपसा त्वां सुतप्तेन पश्यामि पुरुषोत्तमम् ॥ १२ ॥

 स्तोत्रस्यैव प्रकारः-तपोमयमित्यादि । तपोमयं-तपःप्रचुरम्, तत्प्रकृतवचने मयट् 'इति मयट्, प्रकृतं-प्रस्तुतं-प्रचुरमिति यावत् । अत एव तपोराशिं-बहुतपस्समष्ट्यधिकरणम् । अत एव-तपोमूर्तिंतपएकारब्धदिव्यलीला विग्रहम् । अत एव-तपात्मकम्, छान्दसमकारान्तत्वम्, यद्वा 'धञर्थे कविधानम्' इति वा, तपनं-तपः, तपेन कृच्छ्रादिलक्षणेन स्वाश्रितेन संस्कृत आत्मा-स्वान्त करणं-प्रत्यगात्मा यस्य स तथा मध्यमपदलोपी समासः । एवं सिद्धाश्रमाचरानुष्ठिततपोमयं त्वाम् अत्रैव सुतप्तेन तपसा-एतद्बलेन पश्यामि ॥ १२ ॥

 शरीरे तव पश्यामि जगत्सर्वमिदं प्रभो !
 त्वमनादिरनिर्देश्यः त्वामहं शरणं गतः ॥ १३ ॥

 शरीर इति । वैराजतावकभूमविग्रह इति यावत् । जगत्-त्रिस्रोतोमात्रम् । अनिर्देश्यं- एतावत्त्वेनाशक्यपरिच्छेदविद्यैश्वर्यादिवैभवम् । शरणं-रक्षितारम् ॥ १३ ॥

 तमुवाच हरिः प्रीतः कश्यपं धूतकल्मषम्
 [४४५]वरं वरय भद्रं ते वरार्होऽसि मतो मम ॥ १४ ॥

 प्रीतः-सुप्रीतः कश्यपमुवाच । किमिति-वरमित्यादि । वरं-अभीष्टं वरय, 'तत्करोति' इति णिच् । भद्रमस्तु । दिव्य वर्षसहस्रतपसः त्वं वरार्हः- वरदानार्हः इति मम मतोऽसि ॥ १४ ॥

 तच्छ्रुत्वा वचनं तस्य मारीचः काश्यपोऽब्रवीत् ।
 अदित्या देवतानां च मम चैवानुयाचतः ॥ १५ ॥
 वरं वरद ! सुप्रीतो दातुमर्हसि सुव्रत !

 मरीचेः पुत्रो मारीचः । अदित्या इत्यादौ याचमानाया इत्याद्यूह्यम् । देवतानां च याचमानानामिति-प्रागुक्तरीत्येति शेषः ॥१५॥


 पुत्रत्वं गच्छ भगवन् ! अदित्या मम चानघ! ॥ १६ ॥
 भ्राता भव यवीयांस्त्वं शक्रस्यासुरसूदन !
 शोकार्तानां तु देवानां साहाय्यं कर्तुमर्हसि ॥ १७ ॥

 किं तद्युष्मद्याचकीयं वरमित्यतः—पुत्रत्वमित्यादि । यवीयान् । 'स्थूलदूर' इत्यादिना यणादिपरलोपगुणौ, कनिष्ठ इति यावत् ॥ १७ ॥

 अयं सिद्धाश्रमो नाम प्रसादात् ते भविष्यति ।
 सिद्धे कर्मणि देवेश ! उत्तिष्ठ भगवन्नितः ॥ १८ ॥

 अयमिति । यत्राश्रमे तपोमयस्त्वं मया देवैश्वानुभूयसे-अयमित्यर्थः । हे भगवन् देवेश ! एतदाश्रमस्थितिसाध्ये तपःकर्मणि सिद्धे सति इह प्रयोजनाभावात् इत उत्तिष्ठ देवकार्याय ॥ १८ ॥

 अथ विष्णुर्महातेजा अदित्यां समजायत ।
 [४४६]वामनं रूपमास्थाय वैरोचनिमुपागमत् ॥ १९ ॥

 अथ-एवं देवकार्यनियोगानन्तरं ॥ १९ ॥


 त्रीन् क्रमानथ भिक्षित्वा प्रतिगृह्य च [४४७]मानदः ।
 आक्रम्य लोकान् लोकात्मा सर्वलोकहिते रतः ॥ २० ॥

 क्रमः-पदविक्षेपः । [४४८]मानद इति । देवानां पूजाप्रदः ॥ २० ॥

 महेन्द्राय पुनः प्रादात् नियम्य बलिमोजसा ।
 त्रैलोक्यं स महातेजाः चक्रे शक्रवशं पुनः ॥ २१ ॥

 नियम्य-बध्वा ॥ २१ ॥

 तेनैष पूर्वमाक्रान्त आश्रमः श्रमनाशनः ।
 मया तु भक्त्या तस्यैष वामनस्योपभुज्यते ॥ २२ ॥

 तेन–चामनेन । पूर्वमिति । वामनावतारात् पूर्वमित्यर्थः । भक्त्या-वामनावतारवति विष्णौ भक्त्या, तस्य-वामनस्य, एष आश्रमः मयाऽप्यद्य उपभुज्यते । मयेत्यस्मच्छब्दो विश्वामित्रार्थः ॥ २२ ॥

 एतमाश्रममायान्ति राक्षसा विघ्नकारिणः ।
 अत्रैव पुरुषव्याघ्र ! हन्तव्या दुष्टचारिणः ॥ २३ ॥

 अथपूर्वसर्गान्तकृतद्वितीय प्रश्नस्योत्तरम् एतमाश्रममित्यादि ॥ २३ ॥


 अद्य गच्छामहे राम! सिद्धाश्रममनुत्तमम् ।
 [४४९]तदाश्रमपदं तात ! तवाप्येतद्यथा मम ॥ २४ ॥

 अनुत्तमं–सर्वोत्तमम् । तातेति उपलालने । हेतौ तत् । एतत् आश्रमपदं यथा मम तथा तवापि सर्वसिद्धिसाधकं सुखावहं च, इति शेषः ॥ २४ ॥

 प्रविशन्नाश्रमपदं व्यरोचत महामुनिः ।
 शशीव गतनीहारः पुनर्वसुसमन्वितः ॥ २५ ॥
 तं दृष्ट्वा मुनयस्सर्वे सिद्धाश्रमनिवासिनः ।
 उत्पत्योत्पत्य सहसा विश्वामित्रमपूजयन् ॥ २६ ॥

 उत्पत्योत्पत्येति । सन्तोषातिशयादिति शेषः ॥ २५-२६ ॥

 यथार्हं चक्रिरे पूजां विश्वामित्राय धीमते ।
 तथैव राजपुत्राभ्यामकुर्वन्नतिथिक्रियाम् ॥ २७ ॥
 मुहूर्तमिव विश्रान्तौ राजपुत्रावरिन्दमौ ।
 प्राञ्जली मुनिशार्दूलमूचतू रघुनन्दनौ ॥ २८ ॥
 अद्यैव दीक्षां प्रविश, भद्रं ते, मुनिपुङ्गव !
 सिद्धाश्रमोऽयं सिद्धः स्यात् सत्यमस्तु वचस्तव ॥ २९ ॥

 अद्यैवेति । प्रवेशदिन एवेति यावत् । दीक्षां प्रविशपरिगृहाण । अद्यैवेति वचनं कालविलम्बकस्याप्रयोजकत्वात् तद्दिनस्य पञ्चाङ्गशुद्ध्यादिबहुगुणयुक्तत्वाच्चत्याशयेन । अयं सिद्धाश्रमश्च सिद्धस्स्यात्त्वद्यज्ञसिद्ध्या अन्वर्थसिद्धसंज्ञो भूयात् । 'अत्रैव पुरुषव्याघ्र ! हन्तव्या दुष्टचारिणः' इति याऽभूत् तव वचः, तदपि सत्यमस्तु । राक्षसांश्चात्र हनिष्ये । अतः ते भद्रमस्तु इति योजना ॥ २९ ॥


 एवमुक्तो महातेजा विश्वामित्रो महामुनिः ।
 प्रविवेश ततो दीक्षां नियतो नियतेन्द्रियः ॥ ३० ॥

 नियतः-निगृहीतान्तःकरणः ॥ ३० ॥

 कुमारावपि तां रात्रिमुषित्वा सुसमाहितौ ।
 प्रभातकाले चोत्थाय पूर्वां सन्ध्यामुपास्य च ॥ ३१ ॥
 स्पृष्टोदकौ शुची जप्यं समाप्य नियमेन च ।
 हुताग्निहोत्रमासीनं विश्वामित्रमवन्दताम् ॥ ३२ ॥

इत्यार्षे श्रीमद्रामायणे बालकाण्डे एकोनत्रिंशः सर्गः


 कुमाराविति । अभूतोपमेत्युक्तम् । नियमेन जप्यं समाप्य, अग्निहोत्रं—अग्नेर्होत्रं-होमं-औपासनं होमं कृत्वा यज्ञशालायां आसीनं विश्वामित्रमवन्दताम् । एवमग्निहोत्रपदस्य व्याख्यानं 'दीक्षामध्ये नाग्निहोत्रं, न दर्शपूर्णमासाभ्यां यजते' इत्यग्निहोत्रहोमस्य निषेधात् । प्रविवेश-तदा दीक्षाप्रवेशस्य प्रागेवोक्तत्वाच्च । राग (३२) मानः सर्गः ॥ ३२ ॥

इति श्रीमद्रामायणामृतकतकटोकायां बालकाण्डे एकोनत्रिंशः सर्गः


अथ त्रिंशः सर्गः

[यज्ञसंरक्षणम् ]

 अथ तो देशकालज्ञौ राजपुत्रावरिन्दमौ ।
 देशे काले च वाक्यज्ञावब्रूतां कौशिकं वचः ॥ १ ॥

 अथ प्रक्रान्तदीक्षापारगमनोपदेशः–अथ तावित्यादि । कौशिकं वचोऽब्रूतामिति । दीक्षायां मौनापरिज्ञानादेवं प्रश्नः ॥ १ ॥

 भगवन् ! श्रोतुमिच्छावो यस्मिन् काले निशाचरौ ।
 संरक्षणीयौ तौ ब्रह्मन् ! नातिवर्तेत तत्क्षणम् ॥ २ ॥

 यस्मिन्काले प्राप्ते तौ निशाचरौ आवाभ्यां संरक्षणीयौ-यज्ञसंरक्षणाय निवारणीयौ। गहादेराकृतिगणत्वात् 'शेषे' इति लक्षणत्वाच्च उक्तार्थे छः । स कालो यथा चेत् नातिवर्तेत, अतस्तदर्थं, तत्क्षणं-स चासौ क्षणः-तत्क्षणः, तं कालं भगवन् श्रोतुमिच्छावः ॥ २ ॥

 एवं ब्रुवाणौ काकुत्स्थौ त्वरमाणौ युयुत्सया ।
 सर्वे ते मुनयः प्रीताः प्रशशंसुर्नृपात्मजौ ॥ ३ ॥
 अद्यप्रभृति षड्रात्रं रक्षतं राघवौ युवाम् ।
 दीक्षां गतो ह्येष मुनिमनित्वं च गमिष्यति ॥ ४ ॥

 एवं विश्वामित्रे पृष्टे तस्य दीक्षया मौनित्वादृषयः प्रतिब्रुवन्ते सर्वे त इत्यादि । प्रशशंसुः । प्रशस्य च अद्यप्रभृतीत्यादि गमिष्यतीत्यन्तेन प्रत्युत्तरं चोरिति योजना । मौनित्वं च गमिष्यतीति । अद्यापि दीक्षितत्वान्मौनिः, अतः परं षड्रात्रपर्यन्तं च मौनित्वं गमिष्यतीत्यर्थः ॥ ४ ॥

 तौ च तद्वचनं श्रुत्वा राजपुत्रौ यशस्विनौ ।
 अनिद्रौ षडहोरात्रं तपोवनमरक्षताम् ॥ ५ ॥
 उपासांचक्रतुर्वीरौ यत्तौ परमधन्विनौ ।
 ररक्षतुर्मुनिवरं विश्वामित्रमरिन्दमौ ॥ ६ ॥

 परमं धनुर्ययोस्तौ–परमधन्विनौ । समासान्तस्तु अनङ् । अनित्यत्वान्न व्रीह्यादित्वादिनिः ॥ ६ ॥

 अथ काले गते तस्मिन् षष्ठेऽहनि समागते ।
 सौमित्रिमब्रवीद्रामो यत्तो भव समाहितः ॥ ७ ॥

 काल इति । पञ्चाहोरात्रलक्षण इत्यर्थः । यत्तः-सज्जः, यती प्रयत्ने, ईदित्वान्निष्ठायां नेट् । अस्मात् 'यजयाच' इत्यादिना नङि तु यत्न इति । समाहितः-एकाग्रचित्तः ॥ ७॥

 रामस्यैवं ब्रुवाणस्य त्वरितस्य युयुत्सया ।
 प्रजज्वाल ततो वेदिः सोपाध्यायपुरोहिता ॥ ८ ॥

 उपाध्यायः-ब्रह्मा । पुरोहितः-उपद्रष्टा । इदमुपलक्षणं ऋत्विगन्तरसाहित्यस्य ॥ ८ ॥

 सदर्भचमसस्रुक्का ससमित्कुसुमोच्चया ।
 [४५०]विश्वामित्रेण सहिता वेदिर्जज्वाल सर्विजा ॥ ९ ॥

सदर्भाश्चमसाः स्रुवश्च यस्यां सा तथा । समिद्भिः कुसुमोच्चयैश्च सहिता तथा, विश्वामित्रो यजमानः, तेन मण्डिता-भूषिता ॥

 [४५१]मन्त्रवच्च यथान्यायं यज्ञोऽसौ संप्रवर्तते ।
 आकाशे च महान् शब्दः प्रादुरासीद्भयानकः ॥ १० ॥

 यदा संप्रवर्तते स्म तदा आकाश इति योजना ॥ १० ॥

 आवार्य गगनं मेघो यथा प्रावृषि निर्गतः ।
 तथा मायां विकुर्वाणौ राक्षसावभ्यधावताम् ॥ ११ ॥

 यथा प्रावृषि निर्गतो मेघो गगनमावार्य–वारयतेः स्वार्थे णेर्ल्यप्, आवृत्याभिधावति, तथा मायां विकुर्वाणौ । मेघः अतिदुर्घोषातिमहाशब्दमहावर्षादिविचित्रकार्यमिव विचित्रप्रवर्तकौ अभ्यधावतामिति योजनार्थः ॥ ११ ॥


 मारीचश्च सुबाहुश्च तयोरनुचराश्च ये ।
 आगम्य भीमसङ्काशा रुधिरौघमवासृजन् ॥ १२ ॥

 कौ तौ ? किं तद्विचित्रकार्यमित्यतः—मारीच इत्यादि ॥ १२ ॥

 [४५२]सा तेन रुधिरौघेण वेदिर्जज्वाल मण्डिता ।
 सहसाऽभिद्रुतो रामः तानपश्यत् ततो दिवि ॥ १३ ॥

 रुधिरौघेण मण्डितेति । अभ्याश इति शेष: । अभिद्रुतः-अभित-श्शालां प्रधावन् तत्रादृष्ट्वा ततो दिवि तानपश्यत् ॥ १३ ॥

 [४५३]तावापतन्तौ सहसा दृष्ट्वा राजीवलोचनः ।
 लक्ष्मणं त्वनु संप्रेक्ष्य रामो वचनमब्रवीत् ॥ १४ ॥
 पश्य लक्ष्मण ! दुर्वृत्तान् राक्षसान् पिशिताशनान् ।
 [४५४]मानवास्त्रसमाधूताननिलेन यथा घनान् ॥ १५ ॥

 अनु-पश्चात् । मानवास्त्रसमाधूतान् करोमि, पश्ये, इति योजना ॥ १५ ॥


 मानवं परमोदारमस्त्रं परमभास्वरम् ।
 चिक्षेप परमक्रुद्धो मारीचोरसि राघवः ॥ १६ ॥

 उदारः-श्रेष्ठः ॥ १६ ॥

 स तेन परमास्त्रेण मानवेन समाहतः ।
 सम्पूर्णं योजनशतं क्षिप्तः सागरसम्प्लवे ॥ १७ ॥

 सम्पूर्णं योजनशतं-ताबद्दूरं यथा क्षेपो भवति तथा क्षिप्तः अभूत् । सागरसम्प्लवे-समुद्रोदके ॥ १७ ॥

 विचेतनं विघूर्णन्तं शीतेषुबलताडितम् ।
 निरस्तं दृश्य मारीचं रामो लक्ष्मणमब्रवीत् ॥ १८ ॥

 शीतेषुरिति मानवास्त्रनाम । दृश्य-दृष्ट्वेति यावत्- इत्यादिरुक्त गतिकः प्रागेव ॥ १८ ॥

 [४५५] पश्य लक्ष्मण शीतेषु मानवं धर्मसंहितम् ।
 मोहयित्वा नयत्येनं न च प्राणैर्व्ययुज्यत ॥ १९ ॥

 धर्मेण संहितः-प्रयुक्तस्तथा । व्ययुज्यतेति । श्यन्; न वियोजयतीति यावत् । एवमस्त्रवैभवं पश्येति प्रदर्शनम् ॥ १९ ॥

 इमानपि वधिष्यामि निर्घृणान् दुष्टचारिणः ।
 राक्षसान् पापकर्मस्थान् यज्ञमान् रूधिराशनान् ॥ २० ॥

 यज्ञघ्नान् । 'अमनुष्यकर्तृके च ' इति टक् ॥ २० ॥

 [४५६]इत्युक्त्वा लक्ष्मणं चाशु लाघवं दर्शयन्निव ।
 संगृह्यास्त्रं ततो रामो दिव्यमानेयमद्भुतम् ।
 सुबाहूरसि चिक्षेप स विद्धः प्रापतद्भुवि ॥ २१ ॥


 शेषान् वायव्यमादाय निजघान महायशाः ।
 राघवः परमोदारो मुनीनां मुदमावहन् ॥ २२ ॥

 निजघानेति । दूरोत्सारणपूर्वकविनाशनं वायव्यास्त्रफलं, न तूच्चाटनमात्रमिति दर्शितम् ॥ २२ ॥

 स हत्वा राक्षसान् सर्वान् यज्ञघ्नान् रघुनन्दनः ।
 ऋषिभिः पूजितस्तत्र यथेन्द्रो विजये पुरा ॥ २३ ॥
 अथ यज्ञे समाप्ते तु विश्वामित्रो महामुनिः ।
 निरीतिका दिशो दृष्ट्वा काकुत्स्थमिदमब्रवीत् ॥ २४ ॥

 निरीतिकाः-निर्बाधाः ॥ २४ ॥

 कृतार्थोऽस्मि महाबाहो ! कृतं गुरुवचस्त्वया ।
 [४५७]सिद्धाश्रममिदं सत्यं कृतं राम ! महायशः ! ॥ २५ ॥

इत्यार्षे श्रीमद्रामायणे बालकाण्डे त्रिंशः सर्गः


 सत्यं कृतमिति । अन्वर्थनाम कृतमित्यर्थः । मार्ग (२५)मानः सर्गः ॥ २५ ॥

इति श्रीमद्रामायणामृतकतकटीकायां बालकण्डे त्रिंशः सर्गः


अथ एकत्रिंशः सर्गः
[मिथिलाप्रस्थानम् ]

 अथ तां रजनीं तत्र कृतार्थौ रामलक्ष्मणौ ।
 ऊषतुर्मुदितौ वीरौ प्रहृष्टेनान्तरात्मना ॥ १ ॥

 एवं स्वयज्ञविघ्ननिवृत्तिनान्तरप्रयोजनं सर्वास्त्रशक्तिसम्बन्धानुग्रहं कृत्वा भगवान् विश्वामित्रस्ततस्सहजलक्ष्मीशक्तिसम्बन्धानुग्रहाय प्रवर्तते-अथ तामित्यादि । तत्रेति । यज्ञशालायामित्यर्थः ॥ १ ॥


 प्रभातायां तु शर्वर्यां कृतपौर्वाह्णिकक्रियौ ।
 विश्वामित्रं मुनींश्चान्यान् सहितावभिजग्मतुः ॥२॥

 कृता पौर्वाह्निकी क्रिया याभ्यां तौ तथा । 'पुंवत्कर्मधारय' इति पुंवद्भावः । सहितौ-युगपत्समवेतौ ॥ २ ॥

 अभिवाद्य मुनिश्रेष्ठं ज्वलन्तमिव पावकम् ।
 ऊचतुर्मधुरोदारं वाक्यं मधुरभाषिणौ ॥३॥

 मुनिश्रेष्ठं-विश्वामित्रम् ॥ ३ ॥

 इमौ स्म मुनिशार्दूल किङ्करौ समुपागतौ ।
 आज्ञापय यथेष्टं वै शासनं करवाम किम् ॥ ४ ॥

 स्मेत्यव्ययम्, समुपागतौ स्म-आगतावभूव ॥ ४ ॥

 एवमुक्तस्ततस्ताभ्यां सर्व एव महर्षयः।
 विश्वामित्रं पुरस्कृत्य रामं वचनमब्रुवन् ॥ ५॥

 एवं विश्वामित्रनियोगप्रार्थनायां विश्वामित्रेण कृता या रामविसर्जनशङ्का तद्व्यावृत्तये रामाभ्युदयसंपिपादयिषवः ऋषय एव रामं कृत्यविषेशे नियुञ्जत इत्युच्यते-एवमुक्त इत्यादि । विश्वामित्रं पुरस्कृत्येति । कृतविश्वामित्रानुमतिका इति यावत् ॥५॥

 मैथिलस्य नरश्रेष्ठ ! जनकस्य भविष्यति ।
 यज्ञः परमधर्मिष्ठस्तस्य यास्यामहे वयम् ॥ ६॥

 मिथिलाया ईश्वरो मैथिलः, 'तस्येश्वरः' इत्यण् । अतिशयेन धर्मवान्–धर्मिष्ठः, इष्ठनि, 'विन्मतोर्लुक् ' इति मतुपो लुक् । वयमिति । सविश्वामित्रा इत्यर्थः ॥ ६॥

 त्वं चैव नरशार्दूल! सहास्माभिर्गमिष्यसि ।
 अद्भुतं च धनूरत्नं तत्र तद्द्रष्टुमर्हसि ॥ ७ ॥

 यदा अस्माभिस्सह गमिष्यसि तदा अद्भुतमिति योज्यम् । धनूरलमिति । धनेरौणादिक उस्प्रत्ययः, धनुश्च तद्रत्नं तथा ॥ ७ ॥

 तद्धि पूर्वंं नरश्रेष्ठ ! दत्तं सदसि दैवतैः ।
 अप्रमेयबलं घोरं मखे परमभास्वरम् ॥ ८ ॥

 तद्धि धनूरत्नं माहेश्वरम्, पूर्वं-पूर्वस्मिन् काले, देवान् यजतः सीरध्वजाख्यस्य प्राचीनजनकस्य यज्ञसदसि देवैस्तन्नगर एव सन्तानपरम्परयाऽवस्थानार्थंं दत्तं ; अतस्तत्र तिष्ठतीति शेषः । अप्रमेयबलत्वादि विशेषणं तत् मखे जनकीये द्रक्ष्यसीत्यनुकर्षः ॥ ८ ॥

 नास्य देवा न गन्धर्वा नासुरा न च राक्षसाः ।
 कर्तुमारोपणं शक्ता न कथञ्चन मानुषाः ॥ ९ ॥

 पूर्वमद्भुतमित्युक्तं, कीदृशं तदित्यपेक्षायामुच्यते—नास्येत्यादि । आरोपणमिति । ज्यारोपणमिति यावत् ॥ ९ ॥

 धनुषस्तस्य वीर्यं तु जिज्ञासन्तो महीक्षितः ।
 न शेकुरारोपयितुं राजपुत्रा महाबलाः ॥ १० ॥

 जिज्ञासन्त इति । जिज्ञासमाना इति यावत् । राजवेश्मन्यर्चितमिति योजना (१) ॥ १० ॥

 तद्धनुर्नरशार्दूल! मैथिलस्य महात्मनः ।
 तत्र द्रक्ष्यसि काकुत्स्थ ! यज्ञं चाद्भुतदर्शनम् ॥ ११ ॥

 तत्र द्रक्ष्यसीति । मिथिलायां राजवेश्मनीत्यर्थः ॥ ११ ॥

 तद्धि यज्ञफलं तेन मैथिलेनोत्तमं धनुः।
 याचितं नरशार्दूल ! सुनाभं सर्वदैवतैः ॥ १२ ॥

 कुतस्तादृशस्य धनुषः तत्र स्थितिरित्यतः-तद्धीत्यादि । उत्तमं धनुः मैथिलेन निजयज्ञप्रीतदेवेभ्यो निजवेश्मनि नित्यस्थिति याचितम् ,सर्वदैवतैश्च तथा दत्तस्थितिकं, तस्य यज्ञफलतया तत्र प्राप्तस्थितिकमित्यर्थः । सुनाभं-शोभना नाभी-मुष्टिबन्धस्थानं यस्य तत् तथा । 'अच्प्रत्यन्वव' इत्यत्र अचीति योगविभागादच् ॥ १२ ॥

 [४५८]आयागभूतं नृपतेस्तस्य वेश्मनि राघव !
 अर्चितं विविधैर्गन्धैर्माल्यैश्चागरुगन्धिभिः ॥ १३ ॥

 तद्धनुरतस्तस्य नृपतेर्वेश्मनि आयागभूतं-यज्यत इति यागः, कर्मणि घञ्, यजनीयदेवतेति यावत् , तद्भावं प्राप्तं तथा । अत एव-अर्चितमित्यादि ॥ १३ ॥

 [४५९]एवमुक्त्वा मुनिवरः प्रस्थानमकरोत्तदा ।
 सर्षिसङ्घः सकाकुत्स्थः आमन्त्रय वनदेवताः॥ १४ ॥

 एवमुक्त्वेति । स्वशिष्यमहर्षिसङ्घद्वारेणेति यावत्। मुनिवर:-विश्वामित्रः । वनाधिष्ठात्र्यो देवताः-वनदेवताः ॥ १४ ॥

 स्वस्ति वोऽस्तु गमिष्यामि सिद्धस्सिद्धाश्रमादहम् ।
 [४६०]उत्तरे जाह्नवीकूले हिमवन्तं शिलोच्चयम् ॥ १५ ॥

 सिद्धः-सिद्धयज्ञोऽहम् । क्व गमिष्यसत्यिपेक्षायां-उत्तरमित्यादि। उत्तरे जाह्नवीकूले वर्तमानं हिमवन्तं शिलोच्चयं गमिष्यामीत्यनुकर्षः ॥ १५ ॥


 प्रदक्षिणं ततः कृत्वा सिद्धाश्रममनुत्तमम् ।
 उत्तरां दिशमुद्दिश्य प्रस्थातुमुपचक्रमे ॥ १६ ॥
 तं प्रयान्तं मुनिवरमन्वयादनु[४६१]सारिणम् ।
 शकटीशतमात्रं च प्रायेण ब्रह्मवादिनाम् ॥ १७ ॥

 अनुसारिणं-उत्तरदिगनुसृत्य गच्छन्तं, प्रायेण-बाहुल्येन ब्रह्मवादिनां शकटीशतमात्रं-शकट्यारोपिताग्निहोत्रसंभारादिमच्छतप्रमाणंअनुजग्मुरित्यग्रेण सम्बन्धः ॥ १७ ॥

 मृगपक्षिगणाश्चैव सिद्धाश्रमनिवासिनः ।
 अनुजग्मुर्महात्मानं विश्वामित्रं महामुनिम् ॥ १८ ॥
 निवर्तयामास ततः पक्षिसङ्घान् मृगानपि ।

 पक्ष्यादीन्निवर्तयामासेत्यनेन ऋषीणामनिवर्तनमुक्तम् ॥ १८ ॥

 ते गत्वा दूरमध्वानं लम्बमाने दिवाकरे ।
 वासं चक्रुर्मुनिवरा: शोणाकूले समागताः ॥ १९ ॥

 तदेवोच्यते-गत्वेत्यादि । शोणेति काचिन्नदी । शोणस्तु नदः पुल्लिङ्गः । स एव वा शोणेत्यपि व्यपदिश्यते ॥ १९ ॥

 तेऽस्तं गते दिनकरे स्नात्वा हुतहुताशनाः |
 विश्वामित्रं पुरस्कृत्य निषेदुरमितौजसः ॥ २० ॥

 अस्तं गत इति । अस्तं गमिष्यतीति यावत् ॥ २० ॥

 रामोऽपि सहसौमित्रिर्मुनींस्तानभिपूज्य च ।
 अग्रतो निषसादाथ विश्वामित्रस्य धीमतः ॥ २१ ॥


 अथ रामो महातेजा विश्वामित्रं महामुनिम् ।
 पप्रच्छ नरशार्दूलः कौतूहलसमन्वितः ॥ २२ ॥

 भगवन् ! [४६२]किं नु देशोऽयं समृद्धवनशोभितः ।  श्रोतुमिच्छामि, भद्रं ते, वक्तुमर्हसि तत्त्वतः ॥ २३ ॥  अयं देश इति । शोणकूलप्रदेश इत्यर्थः । किं नु-किंवैभव इत्यर्थः ॥ २३ ॥

 चोदितो रामवाक्येन कथयामास सुव्रतः ।
 तस्य देशस्य निखिलमृषिमध्ये महातपाः ॥ २४ ॥

इत्यार्षे श्रीमद्रामायणे बालकाण्डे एकत्रिंशः सर्गः

 निखिलमिति । वैभवमिति शेषः । खंवा (२४) मानः सर्गः ॥ २४ ॥

इत्यार्षे श्रीमद्रामायणामृतकतकटीकायां बालकाण्डे एकत्रिंशः सर्गः

अथ द्वात्रिंशः सर्गः
[कुशनाभकन्योपाख्यानम् ]

 ब्रह्मयोनिर्महानासीत् कुशो नाम महातपाः ।
 अक्लिष्टव्रत[४६३]र्धमश्च सज्जनप्रतिपूजकः ॥ १ ॥

 एवं शोणाकूलप्रदेशवैभवप्रश्ने, अयं देशो मद्वंश्यानामिति प्रतिपादनशेषतया निजान्वयः प्रकाश्यते–ब्रह्मयोनिरित्यादि । ब्रह्मयोनिः-


ब्रह्मपुत्रः-प्राजापत्यः, मन्वादिवत् क्षत्रक्षेत्रप्राधान्यात् क्षत्रियत्वम् ।'क्लिशूविबाघने', अक्लिष्टं–निर्बाधं व्रतं धर्मश्च यस्य स तथा ॥ १ ॥

 स महात्मा कुलीनायां [४६४]युक्तायां [४६५]सुगुणोल्बणान् ।
 वैदर्भ्यां जनयामास सदृशांश्चतुरस्सुतान् ॥ २ ॥
 कुशाम्बं कुशनाभं च [४६६]असूर्तरजसं वसुम् ।

 युक्तायां-अशेषोत्तमस्त्रीगुणयुक्तायाम् | असूर्तेति । 'प्रतूर्तसूर्त' इति निपातनम् विद्यते, सूर्तं-निस्सृतं रजो यस्य स तथा । 'अच्' इति योगविभागादच् ॥ २ ॥

 दीप्तियुक्तान् महोत्साहान् क्षत्रधर्मचिकीर्षया ॥ ३ ॥
 तानुवाच कुशः पुत्रान् धर्मिष्ठान् सत्यवादिनः ।
 क्रियतां पालनं पुत्राः ! धर्म प्राप्स्यथ पुष्कलम् ॥ ४ ॥

 पालनं–क्षत्रधर्मपरिपालनम् ॥ ३ ॥

 ऋषेस्तु वचनं श्रुत्वा चत्वारो लोकसम्मताः ।
 निवेशं चक्रिरे सर्वे पुराणां नृवरास्तदा ॥ ५ ॥
 कुशाम्बस्तु महातेजाः कौशाम्बीमकरोत् पुरीम् ।
 कुशनाभस्तु धर्मात्मा पुरं चक्रे महोदयम् ॥ ६ ॥
 असूर्तरजसो राम ! धर्मारण्यं महीपतिः ।
 चक्रे पुरवरं राजा वसुश्चक्रे गिरिव्रजम् ॥ ७ ॥
 एषा वसुमती राम ! वसोस्तस्य महात्मनः ।
 एते शैलवराः पञ्च प्रकाशन्ते समन्ततः ॥ ८ ॥

 एषेति । गिरिव्रजपर्यायेत्यर्थः । एषा इत्यपरोक्षनिर्देशः ॥


 सुमागधी नदी रम्या मगधन् विश्रुताऽऽययौ ।
 पञ्चानां शैलमुख्यानां मध्ये मालेव शोभते ॥ ९ ॥

 सुमागाधी-तत्संज्ञा । आययौ इति पदम् ॥ ९ ॥

 सैषा हि मागधी राम ! वसोस्तस्य महात्मनः ।
 पूर्वाभिचरिता राम ! सुक्षेत्रा सस्यमालिनी ॥ १० ॥

 हे राम एषा मागधी-मगधादागतत्वेन तथासंज्ञा, एषा शोणा एतद्देशश्च मद्वंश्यस्य वसोर्भवति । सा-पूर्वां दिशमभि चरितं-गमनं यस्यास्सा तथा पूर्ववाहिनीति यावत् । सुक्षेत्रेति उभयपार्श्वयोरिति शेषः ॥ १० ॥ -

 कुशानाभस्तु राजर्षिः कन्याशतमनुत्तमम् ।
 जनयामास धर्मात्मा घृताच्यां रघुनन्दन ! ॥ १३ ॥

 घृताच्यां-अप्सरस्त्रियाम् ॥ ११ ॥

 तास्तु यौवनशालिन्यो रूपवत्यः स्वलङ्कृताः ।
 उद्यानभूमिमागम्य प्रावृषीव शतह्नदाः ॥ १२ ॥
 गायन्त्यो नृत्यमानाश्च वादयन्त्यश्च सर्वशः ।
 आमोदं परमं जग्मुर्वराभरणभूषिताः ॥ १३ ॥
 अथ ताश्चारुसर्वाङ्गयो रूपेणाप्रतिमा भुवि ।
 उद्यानभूमिमागम्य तारा इव घनान्तरे ॥ १४ ॥

 आमोदं-सन्तोषम् । उद्यानभूमिमागम्य धनान्तरे-मेघमध्ये - तारा:-तारका इव रेजुः ॥ १३-१४ ॥

 ताः सर्वगुणसम्पन्ना रूपयौवनसंयुताः ।
 दृष्ट्वा सर्वात्मको वायुरिदं वचनमब्रवीत् ॥ १५ ॥

 अहं वः कामये सर्वा भार्या मम भविष्यथ ।
 मानुषस्त्यज्यतां भावो दीर्घमायुरवाप्स्यथ ॥ १६ ॥

 वायोर्वशीकरणार्थवादः-मानुषस्त्यज्यतामित्यादि । यदा भविष्यथ-तदा मानुष इति योज्यम् ॥ १६ ॥

 चलं हि यौवनं नित्यं मानुषेषु विशेषतः ।
 अक्षयं यौवनं प्राप्ता अमर्यश्च भविष्यथ ॥ १७ ॥
 तस्य तद्वचनं श्रुत्वा वायोरक्लिष्टकर्मणः ।
 अपहास्य ततो वाक्यं कन्याशतमथाब्रवीत् ॥ १८ ॥

 वायोर्वाक्यमपहास्येति । 'तत्करोति' इति ण्यन्ताल्ल्यप् , अपहासं कृत्वा ॥ १८ ॥

 अन्तश्चरसि भूतानां सर्वेषां त्वं सुरोत्तम !
 प्रभावज्ञाः स्म ते सर्वाः किमस्मानवमन्यसे ॥ १९ ॥

 सर्वाः वयं ते प्रभावज्ञाः स्म, स्येत्यव्ययमिति प्रागेवोक्तम् । त्वं चास्मत्प्रभावज्ञः–किमस्मानवमन्यसे ॥ १९ ॥

 कुशनाभसुताः सर्वाः समर्थास्त्वां सुरोत्तम !
 स्थानाच्च्यावयितुं देवं, रक्षामस्तु तपो वयम् ॥ २० ॥

 को भवतीनां प्रभाव इत्यत-कुशेत्यादि । यस्माद्राजर्षेः

कुशनाभस्य सर्वा वयं सुताः, अतः त्वां देवमपि स्थानात्-वायुपदात्-च्यावयितुं समर्था एव । अपि च सर्वा वयं तु तपः-अक्षतयोनित्व-रूपकन्याधर्मं रक्षामः ॥ २० ॥

 [४६७]मा भूत् स कालो दुर्मेधः ! पितरं सत्यवादिनम् ।
 नावमन्यस्व, धर्मेण स्वयं वरमुपास्महे ॥ २१ ॥

 हे दुर्मेधः ! स कालः-मृत्युस्ते मा भूत् । धर्मेण स्वयमिति । पित्रा स्वयं-स्वेच्छया क्रियमाणेन कन्यादानरूपेण यो वर आयाति तं वरमुपास्महे । वर्तमानसामीप्ये लट् ॥ २१ ॥

 पिता हि प्रभुरस्माकं दैवतं परमं हि नः ।
 यस्य नो दास्यति पिता स नो भर्ता भविष्यति ॥ २२ ॥

 अयमेवार्थः स्पष्टं व्याख्यायते-पिता हीत्यादि ॥ २२ ॥

 तासां तद्वचनं श्रुत्वा वायुः परमकोपनः ।
 [४६८]प्रविश्य सर्वगात्राणि बभञ्ज भगवान् प्रभुः ॥ २३ ॥
 ताः कन्या वायुना भग्ना विविशुर्नृपतेर्गृहम् ।
 प्रापतन् भुवि संभ्रान्ताः सलज्जाः साधुलोचनाः ॥ २४ ॥

 सलज्जा इति । अन्याय्यपतिप्रसङ्गतस्सलज्जाः ॥ २४ ॥

 स च ता दयिता दीनाः कन्याः परमशोभनाः ।
 दृष्ट्वा भग्नास्तदा राजा संभ्रान्त इदमब्रवीत् ॥ २५ ॥

 संभ्रान्तः- पर्याकुलचित्तः ॥ २५ ॥


 किमिदं कथ्यतां पुत्र्यः ! को धर्ममवमन्यते ।
 [४६९]कुब्जाः केन कृताः सर्वा वेष्टन्त्यो नाभिभाषथ ॥ २६ ॥

 को धर्ममवमन्यत इति । बलात्कारं करोतीति यावत् ॥ २६ ॥

 एवं राजा विनिश्वस्य [४७०]समाधिमकरोत् ततः ॥ २६ ॥

इत्यार्षे श्रीमद्रामायणे बालकाण्डे द्वात्रिंशः सर्गः

 एवमिति । पृष्ट्वेति शेषः । समाधिमकरोदिति । किं वक्ष्यन्तीति तद्वचनश्रवणैकाग्रचित्तोऽभूदित्यर्थः । इतर (२६ १/२)मानः सर्गः ॥ २६ ॥

इति श्रीमद्रामायणामृतकतकटीकायां बालकाण्डे द्वात्रिंशः सर्गः


अथ त्रयस्त्रिंशः सर्गः
[कुशनाभकन्यापरिणयः]

 तस्य तद्वचनं श्रुत्वा कुशनाभस्य धीमतः ।
 शिरोभिश्चरणौ स्पृष्ट्वा कन्याशतमभाषत ॥ १ ॥

 अथ पृष्टप्रत्युत्तरतदुचितोत्तरव्यापारः-तस्येत्यादि ॥ १ ॥

 वायुः सर्वात्मको राजन् ! प्रधर्षयितुमिच्छति ।
 अशुभं मार्गमास्थाय न धर्मं प्रत्यवेक्षते ॥ २ ॥

 प्रधर्षयितुं-अभिभवितुं । अशुभं-बलात्काररूपं नावेक्षते स्म ॥


 पितृमत्यः स्म, भद्रं ते, स्वच्छन्दे न वयं स्थिताः ।
 पितरं नो वृणीष्व त्वं यदि नो दास्यते तव ॥ ३ ॥

 किञ्च यतः पितृमत्यः स्म वयं, ततो न स्वच्छन्दे-स्वातन्त्र्ये किञ्चित्पतिस्वीकारविषयके स्थिताः-वर्तामहे । यदेवमतः -नः पितरमेव वृणीष्व त्वम् । स यदि नः-अस्मान् तुभ्यं दास्यते तदा तव भविष्यामः । तव भद्रमस्तु ॥ ३ ॥

 तेन पापानुबन्धेन वचनं नप्रतीच्छता ।
 एवं ब्रुवन्त्यः सर्वाः स्म वायुना निहता भृशम् ॥ ४ ॥

 इत्येवंब्रुवन्तीनां नः वचनं नप्रतीच्छता-अनङ्गीकुर्वता पापानुबन्धेन-अधर्मानुबद्धचित्तेन, तत एव धर्मंं ब्रुवन्त्यः सर्वाः वयं वायुना भृशं निहताः ॥ ४ ॥

 तासां तद्वचनं श्रुत्वा राजा परमधार्मिकः ।
 प्रत्युवाच महातेजाः कन्याशतमनुत्तमम् ॥ ५ ॥
 [४७१]क्षान्तं  क्षमावतां पुत्र्यः कर्तव्यं सुमहत् कृतम् ।
 ऐकमत्यमुपागम्य कुलं चावेक्षितं मम ॥ ६ ॥
 अलङ्कारो हि नारीणां क्षमा तु पुरुषस्य वा ।
 दुष्करं तद्धि वः क्षान्तं त्रिदशेषु विशेषतः ॥ ७ ॥

 हे पुत्र्यः ! क्षमावतां-क्षमावत्वे प्रसिद्धभूम्यादिभिः कर्तव्यं- कर्तुमर्हं, 'कृत्यानां कर्तरि वा' इति षष्ठी, यत् क्षान्तं-भावे निष्ठा,क्षमा, तत् भवतीभिः कृतं इदं सुमहत् कर्म; देवे प्रार्थयमाने-कामवेगस्य,


तथा गात्रं भञ्जयति तदुत्थक्रोधवेगस्य च सहनमपि कृतचित्तत्वरूपं

दुष्करमित्यर्थः । पूरुषस्य वेति । अविशेषेणेति शेषः । यच्च भवतीनां क्षान्तमभूत् तत्, त्रिदशेषु-त्रिदशविषयेषु विशेषतो दुष्करं-कामस्य रूप-गतिभोगविद्यैश्वर्यपतिविषयत्वात्तद्विषयक कामवेगोपशमनं दुष्करमित्यर्थः ॥

 यादृशी वः क्षमा पुत्र्यः ! सर्वासामविशेषतः ।

 अथ अलङ्कारो हीत्यादिना प्रागुक्त एवार्थ आदरात्पुनः प्रतिपाद्यते-यादृशीत्यादि । अविशेषत इति । स्त्रीपुरुषाविशेषेणेति यावत् ॥ ८ ॥

 क्षमा दानं क्षमा सत्यं क्षमा यज्ञश्च पुत्रिकाः ! ॥ ८ ॥
 क्षमा यशः क्षमा धर्मः क्षमया विष्ठितं जगत् ।

 क्षमाप्रशंसा-क्षमा दानमित्यादि ॥ ८ ॥

 विसृज्य कन्याः काकुत्स्थ ! राजा त्रिदशविक्रमः ॥ ९ ॥
 मन्त्रज्ञो मन्त्रयामास प्रदानं सह मन्त्रिभिः ।
 देशकालौ प्रदानस्य सदृशे प्रतिपादनम् ॥ १० ॥

 प्रदानं । कन्याप्रदानमिति यावत् । अथ मन्त्रणीयांशः प्रतिपाद्यते-देश इत्यादि । उचिते देशे काले च यथावत्क्रियमाणकन्या-प्रदानस्य सदृशे-स्वकुलादिसदृशे पात्रे यत्प्रदानं सिद्ध्यति, तदर्थंं मन्त्रयामासेत्यर्थः ॥ १० ॥

 एतस्मिन्नेव काले तु चूली नाम महामुनिः ।
 ऊर्ध्वरेताः शुभाचारो ब्राह्मं तप उपागमत् ॥ ११ ॥

 ऊर्ध्वरेताः-सर्वोर्ध्वब्रह्मलोकोन्मुखरेतस्त्रयः । ब्राह्मं तप इति । श्रीमत्स्वकुलब्रह्मविद्यया श्रीमदादिगुरुब्रह्माविषयं तपश्चित्तैकाग्र्यं,मनसश्वेन्द्रियाणां च ह्यैकाग्र्यं परमं तपः' इति स्मृतिः । अत एव ऊर्ध्वरेतस्त्वविशेषणम् । ब्राह्मतपोमात्रे तस्यावश्यकत्वात् ॥ ११ ॥

 तप्यन्तं तमृषिं तत्र गन्धर्वी पर्युपासते ।
 सोमदा नाम, भद्रं ते, ऊर्मिलातनया तदा ॥ १२ ॥

 तप्यन्तं-दाहार्थेऽपि व्यत्ययात् श्यन् । गन्धर्वीति । जातिवाचित्वात् ङीष् । यदा चूली तपश्चरति, तत्र-काले ऊर्मिलातनया सोमदानाम गन्धर्वी 'भगवन् ! ते मयि भद्रमस्तु-अनुग्रहबुद्धिरस्तु' इति पर्युपासते स्म । एवमादिदुर्योजस्थलं त्यक्त्वैव गच्छति, विद्धकर्णस्य न विकलतेति न्यायेनान्यः ॥ १२ ॥

 सा च तं प्रणता भूत्वा शुश्रूषणपरायणा ।
 उवास काले धर्मिष्ठा तस्यास्तुष्टोऽभवद्गुरुः ॥ १३ ॥

 उक्तानुवादपूर्वंं गन्धर्व्याः कार्यसिद्धिः प्रदर्श्यते-सा चेत्यादि । काले-शुश्रूषाजनितधर्मपरिपाककाले । गुरुरिति । एतेन गुरुशिष्यभावेन दिव्ययोगिनीयोगिनामकल्मषतपः प्रवृत्तिरस्तीति सुस्पष्टं प्रतिपादितम् ॥

 स च तां कालयोगेन प्रोवाच रघुनन्दन !
 परितुष्टोऽस्मि, भद्रं ते, किं करोमि तव प्रियम् ॥ १४ ॥

 कालयोगेन–तपः परिपाककालसम्बन्धेन हेतुना तुष्ट इति शेषः । किं प्रियमिति योजना ॥ १४ ॥

 परितुष्टं मुनिं ज्ञात्वा गन्धर्वी मधुरस्वरा ।
 उवाच परमप्रीता वाक्यज्ञा वाक्यकोविदम् ॥ १५ ॥

 लक्ष्म्या समुदितो ब्राह्म्या ब्रह्मभूतो महातपाः ।
 ब्राह्मेण तपसा युक्तं पुत्रमिच्छामि धार्मिकम् ॥ १६ ॥

 ब्राह्म्या लक्ष्म्या-श्रीमूलब्रह्मविद्याजानतया लक्ष्म्या, ब्रह्मवर्चसेनेति यावत्, समुदितः अत एव ब्रह्मभूतः- अकृतकभगवदनन्यताब्रह्मयोग-सिद्ध, अपि च महातपाः-कृच्छ्रचान्द्रायणादिवायुभक्षतपोयुक्तो यः पुत्रो भवति तादृशं ; अपि च विशिष्य ब्राह्मेण-ब्रह्म-स्वाध्यायः तत्सम्बन्धिना तदभ्यासरूपेण सर्वमूलेन 'तपो हि स्वाध्यायः' इति प्रसिद्धेन तपसा युक्तं पुत्रमिच्छामि ॥ १६॥

 अपतिश्चास्मि, भद्रं ते, भार्या चास्मि न कस्यचित् ।
 ब्राह्मणोपगतायाश्च दातुमर्हसि मे सुतम् ! ॥ १७ ॥

 अपि च भगवन् । अहं अपतिश्चास्मि । इतः परमपि न कस्यचित्भार्याऽस्मि । तथाऽपि मे यथा पुत्रप्राप्तिस्तथा ते मयि भद्रं-अनुग्रहोऽस्तु । एवं ब्रह्मयोगिनं त्वां ब्राह्मणैव योगेन भगवदनन्यतालक्षणेनोपगतायास्तदुचितमेव च सुतं दातुमर्हसि-न हि विराज इव भगवतो हिरण्यगर्भस्य यौनः पुत्रोऽस्ति ॥ १७ ॥

 तस्याः प्रसन्नो ब्रह्मर्षिर्ददौ पुत्रमनुत्तमम् ।
 ब्रह्मदत्त इति ख्यातं मानसं चूलिनः सुतम् ॥ १८ ॥

 एवं शुद्धब्रह्मनिष्ठायाः तस्याः प्रसन्नः चूलिनः-फली फलिन इत्यादिवत् चूली चूलिन इति इनजन्तः । अन्यः चूलिक इति पठितव्यमिति निरबध्नात् । चूलिनो महर्षिः तथाविधं-यादृग्गुणको वृतः तादृग्गुणकं ब्रह्मयोगवैभवेन ब्रह्मर्षिणा मनसा दत्तत्वात् ब्रह्मदत्त इति ख्यातं मानसं

सुतमंदात् ॥ १८ ॥

 स राजा सौमदेयस्तु [४७२]पुरीमध्यावसत्तदा ।
 कांपिल्यां परया लक्ष्म्या देवराजो यथा दिवम् ॥ १९ ॥

 अथ सौमदेयः-'स्त्रीभ्यो ढक्', सोमदायाः पुत्रः स ब्रह्मदत्तः, गन्धर्व्या सोमदायाः क्षत्रियत्वात् क्षेत्रद्वारप्राप्तया परया लक्ष्म्या [४७३]कांपिल्यां-कांपिल्यादिनिर्वृत्तां 'सङ्काश कांपिल ' इति सङ्काशादित्वात् 'वुञ्छण्' इत्यादिसूत्रेण ण्यः, ततष्टाप् । पुरीं तदा कुशनामेन वरान्वेषणकाले अध्यावसत्-'उपान्वध्याङ्वसः' इति आधारस्य कर्मत्वं-पुर्यामुषितवानिति यावत् ॥ १९ ॥

 स बुद्धिं कृतवान् राजा कुशनाभः सुधार्मिकः ।
 ब्रह्मदत्ताय काकुत्स्थ ! दातुं कन्याशतं तदा ॥ २० ॥

 किं तत इत्यतः-स इत्यादि । काकुत्स्थेति रामस्य सम्बुद्धिः । तदा-काम्पिल्यायां ब्रह्मदत्तस्यावासकाले ॥ २० ॥

 तमाहूय महातेजा ब्रह्मदत्तं महीपतिः ।
 ददौ कन्याशतं राजा सुप्रीतेनान्तरात्मना ॥ २१ ॥
 यथाक्रमं ततः पाणीन् जग्राह रघुनन्दन !
 ब्रह्मदत्तो महीपालस्तासां देवपतिर्यथा ॥ २२ ॥

 तासां पाणीन् इत्यन्वयः । देवपतिदृष्टान्तो दिव्यवैभववत्त्वे; न तु पाणिग्रहांशे । देवपतिशब्देन सोमराजविवक्षायां तु पाणिग्रहांशेऽपि दृष्टान्तः ॥ २२ ॥

 स्पृष्टमात्रे ततः पाणौ विकुब्जा विगतज्वराः ।
 [४७४]युक्ताः परमया लक्ष्म्या बभुः कन्या शतं तदा ॥ २३ ॥


 ततः तेन ब्रह्मदत्तेन तासां पाणौ, जामातृस्पृष्टमात्रे सति विकुब्जत्वादिगुणवत्यः शतं कन्या बभुः ।

[४७५]कन्याशतमिति शकार लोपः। इदमेव दिव्यवैभवब्रह्मदत्तजामात्रन्वेषणफलं कुशनाभस्य ॥ २३ ॥

 स दृष्ट्वा वायुना मुक्ताः कुशनाभो महीपतिः ।
 बभूव परमप्रीतः, हर्षंं लेभे पुनः पुनः ॥ २४ ॥

 स कुशनाभः तदा वायुना मुक्ताः कन्याः दृष्ट्वा परमप्रीतो बभूव ॥ २४ ॥

 कृतोद्वाहं तु राजानं ब्रह्मदत्तं महीपतिः ।
 सादरं प्रेषयामास सोपाध्यायगणं तदा ॥ २५ ॥

 प्रेषयामासेति । काम्पिल्यां प्रतीति शेषः ॥ २५ ॥

 सोमदाऽपि सुसंहृष्टा पुत्रस्य सदृशीं क्रियाम् ।
 यथान्यायं च गन्धर्वी स्नुषास्ताः प्रत्यनन्दत ।
 [४७६]स्पृष्ट्वा स्पृष्ट्वा च ताः कन्याः कुशनाभं प्रशस्य च ॥ २६ ॥

इत्यार्षे श्रीमद्रामायणे बालकाण्डे त्रयस्त्रिंशः सर्गः

 सोमदाऽपि-ब्रह्मदत्तमाताऽपि । सदृशीं क्रियामिति । दारक्रियामित्यर्थः–दृष्ट्वेति शेषः । प्रतिनन्दनप्रकारः-स्पृष्ट्वा स्पृष्ट्वेत्यादि। सार (२७) मानः सर्गः ॥ २६ ॥

इति श्रीमद्रामायणमृतकतकटीकायां बालकाण्डे त्रयस्त्रिंशः सर्गः


अथ चतुस्त्रिंशः सर्गः
[विश्वामित्रवंशवर्णनम्]

 कृतोद्वाहे गते तस्मिन् ब्रह्मदत्ते च राघव !
 अपुत्रः पुत्रलाभाय पौत्रीमिष्टिमकल्पयत् ॥ १ ॥

अथ प्रकृते किं ततः इत्यतः-कृतोद्वाह इत्यादि । अपुत्र इति । पूर्वं कन्याशतमात्रस्यैव लाभात् । पुत्रार्थेयं पौत्री ॥ १ ॥

 इष्ट्यां च वर्तमानायां कुशनाभं महीपतिम् ।
 उवाच परमोदारः कुशो ब्रह्मसुतस्तदा ॥ २ ॥

कुशः-कुशनाभस्य पिता ॥ २ ॥

 पुत्र ! ते सदृशः पुत्रो भविष्यति सुधार्मिकः ।
 गाधिं प्राप्यसि तेन त्वं कीर्तिं लोके च शाश्वतीम् ॥ ३ ॥

 किमुवाचेत्यतः-पुत्रेत्यादि । हे पुत्र कुशनाभ ! ते-तव सदृशः सुधार्मिकः पुत्रो भविष्यति, पुत्रीयेष्टिसमाप्त्यनन्तरं किञ्चित्कालात्परं भविष्यति, न तु द्रौपद्यादिवत् तत्कालम् । हे पितः ! कोऽसौ मया प्रापणीयपुत्रः ? इत्यतः-गाधिमिति । गाधिं-गाधिनामानं पुत्रं प्राप्स्यसि; तेन च गाधिना शाश्वतीं-शश्वद्भवां, अण् बहिषष्टिलोपवचनादव्ययानां भमात्रे टिलोपः क्वचिन्न, ततो ङीष् कीर्तिं प्राप्स्यति ॥ ३ ॥

 एवमुक्त्वा कुशो राम ! कुशनाभं महीपतिम् ।
 जगामाकाशमाविश्य ब्रह्मलोकं सनातनम् ॥ ४ ॥

 एवमुक्ता कुशः आकाशमाविश्य ब्रह्मलोकं जगाम । एतेन रामवत् कुशस्यापि ब्रह्मपुत्रावतारत्वनिरतिशयवैभवतः पुत्रानुग्रहपूर्वं सशरीरतया स्वीयब्रह्मलोकप्रत्यापत्तिरुक्ता । अयमर्थ इदानीन्तनानामपि ब्रह्मांशावताराणां अविशिष्टः ॥ ४ ॥

 कस्य चित्त्वथ कालस्य कुशनाभस्य धीमतः ।
 जज्ञे परमधर्मिष्ठो गाधिरित्येव नामतः ॥ ५ ॥

 कस्य चित्त्वथ कालस्येति । अत्ययानन्तररामिति शेषः । गाधिरित्येव नामत इति । यथा पित्रा कुशेनोक्तं तेनैव प्रकारेणेत्यर्थः ॥

 स पिता मम काकुत्स्थ ! गाधिः परमधार्मिकः ।
 कुशवंशप्रसूतोऽस्मि कौशिको रघुनन्दन ! ॥ ६ ॥

 ममेति । अस्मदर्थो विश्वामित्रः । कुशवंशप्रसूत इति यतः अतः कौशिकोऽस्मि । अपत्यादित्वादापत्यष्ठक् । एवं स्थिते मिथ्याप्रक्रियाः बह्वजल्पत् शाब्दिकमानी कश्चित् ॥ ६॥

 पूर्वजा भगिनी चापि मम राघव ! सुव्रता |
 नाम्ना सत्यवती नाम ऋचीके प्रतिपादिता ॥ ७ ॥

 पूर्वजेति। न केवलमहं गाधेरेकः पुत्रः; मम पूर्वजा ज्येष्ठा भागनी चास्ति । ऋचीके प्रतिपादितेति । ऋचीकाय दत्तेति यावत् ॥

 सशरीरा गता स्वर्गं भर्तारमनुवर्तिनी ।
 कौशिकी परमोदारा प्रवृत्ता च महानदी ॥ ८ ॥
 दिव्या पुण्योदका रम्या हिमवन्तमुपाश्रिता ।
 लोकस्य हितकाम्यार्थंं प्रवृत्ता भगिनी मम ॥ ९ ॥

 सशरीरा स्वर्गं गतेत्यत्र साधनोपदेशः-भर्तारमनुवर्तिनीति । किमुक्तमेतेन अनुमरणं कृतवतीत्येव । अपि चान्यदप्यस्ति तस्याश्चरितमित्युच्यते-कौशिकीत्यादि । महानदी-महानदीरूपिणी च प्रवृत्ता । क्वैवं प्रवृत्तेत्यतो-हिमवन्तमुपाश्रितेति । किं प्रयोजनेनैवं प्रवृत्तिरित्यतः-लोकस्येत्यादि ।[४७७]हितकाम्यार्थं-इष्टकाम्यार्थसिद्ध्यर्थमित्यर्थः ॥ ९ ॥

 ततोऽहं हिमवत्पार्श्वे वसामि निरतः सुखम् ।
 भगिन्यां स्नेहसंयुक्तः कौशिक्यां रघुनन्दन ! ॥ १० ॥

 तत इति । यतो भगिन्यां स्नेहसंयुक्तः, तत एव हिमवत्पार्श्वे वर्तमानायां कौशिक्यां निरतः-नित्यप्रतिष्ठितः सुखं वसामि ॥ १० ॥

 सा तु सत्यवती पुण्या सत्ये धर्मे प्रतिष्ठिता ।
 पतिव्रता महाभागा कौशिकी सरितां वरा ॥ ११ ॥

 इतश्च तस्यां वासः-सा त्वित्यादि ॥ ११ ॥

 अहं हि नियमाद्राम ! हित्वा तां समुपागतः ।
 सिद्धाश्रममनुप्राप्य सिद्धोऽस्मि तव तेजसा ॥ १२ ॥

 ननु दिव्यवैभव कौशिकीनित्यप्रतिष्ठस्य कुतास्सिद्धाश्रमागम इत्यतः-अहं हीत्यादि । नियमादिति । गयापिण्डदानवत् सिद्धाश्रमैकसिद्धियागविशेषसिद्धिहेतोरित्यर्थः । आगमनकार्यं च त्वदनुग्रहात् सिद्धमित्याह-सिद्धाश्रममित्यादि ॥

 एषा राम ! ममोत्पत्तिः स्वस्य वंशस्य कीर्तिता ।
 देशस्य च महाबाहो ! यन्मां त्वं परिपृच्छसि ॥ १३ ॥


 उपसंहरति-एषेत्यादि । मम गाधेरुत्पत्तिः, स्वस्य वंशस्य कुशात् ब्रह्मपुत्रात् उत्पत्तिः कीर्तिता | देशस्य शोणकूलीयदेशस्य गिरिव्रजस्य प्राचीनकर्त्रधिष्ठानमूलो वैभवश्च कीर्तितः । हे राम ! त्वं यद्वृत्तान्तं मां परिपृच्छसि, वर्तमानसामीप्ये लट्, पर्यपृच्छः, तत्सर्वमुक्तमिति शेषः ॥ १३ ॥

 गतोऽर्धरात्रः काकुत्स्थ ! कथाः कथयतो मम ।
 निद्रामभ्येहि, भद्रं ते, मा भूद्विघ्नोऽध्वनीह नः ॥ १४ ॥

 अतः परं न प्रष्टव्यमित्याह-गत इत्यादि । अर्धं रात्रेः अर्धरात्रः । 'अर्धं नपुंसकम् ' इति समासः । 'अहस्सर्व' इत्यच् ।'रात्राह्न' इत्यादिना पुंस्त्वम् । इहाध्वनि विघ्नो मा भूदिति । श्वोगन्तव्याध्वनि निद्राभावप्रयुक्तजाड्यमूलो विघ्नो मा भूदित्यर्थः ॥ १४ ॥

 निष्पन्दास्तरवः सर्वे निलीना मृगपक्षिणः ।
 नैशेन तमसा व्याप्ता दिशश्च रघुनन्दन ! ॥ १५ ॥

 निष्पन्दास्तरवस्सर्व इति । मध्यरात्रे वायोश्वाल्पस्पन्दादेकदेश-स्पन्दमूलशकुन्यादीनामप्यस्पन्दात्तरूणामप्यस्पन्दत्वम् ॥ १५ ॥

 शनैर्वियुज्यते सन्ध्या नभो नेत्रैरिवावृतम् ।
 नक्षत्रतारागहनं ज्योतिर्भिरवभासते ॥ १६ ॥

 शनैर्वियुज्यत इति। वर्तमानसमीप्ये भूते लट्, वियुक्तेति यावत् । अश्विन्यादिनक्षत्रैः केवलताराभिश्च गहनं-व्याप्तं नभः उक्तरूपैः ज्योतिर्भिः–उपाधिभिः नैत्रैः-चक्षुर्भिः सहस्राक्षवदावृतं व्याप्तमिव अवभासते । एवं स्थिते नैत्रेरंशुकैरित्यादि प्रलपति ॥ १६ ॥

 उत्तिष्ठति च शीतांशुः शशी लोकतमोनुदः ।
 ह्लादयन् प्राणिनां लोके मनांसि प्रभया विभो ! ॥ १७ ॥

 उत्तिष्ठतीति । 'उदोऽनूर्ध्वकर्मणि' इति निषेधादात्मनेपदाभावः । तमो नुदतीति-तमोनुदः, उपधालक्षणः कः ॥ १७॥

 नैशानि सर्वभूतानि प्रचरन्ति ततस्ततः ।
 यक्षराक्षससङ्घाश्च रौद्राश्च पिशिताशनाः ॥ १८ ॥

 निशायां प्रभवानि नैशानि । 'प्रभवति' इत्यण् ॥ १८ ॥

 एवमुक्त्वा महातेजा विरराम महामुनिः ।
 साधु सध्विति तं सर्वे ऋषयो ह्यभ्यपूजयन् ॥ १९ ॥

 अभ्यपूजयन्। अस्तुवान्नति यावत् ॥ १९ ॥

 कुशिकानामयं वंशो महान् धर्मपरः सदा ।
 ब्रह्मोपमा महात्मानः कुशवंश्या नरोत्तमाः ॥ २० ॥

 तस्यैव प्रकारविशेषः-कुशिकानामित्यादि । गाधेः कुशिक इति नामान्तरम् । कुशिकस्य गोत्रापत्यं, 'अनुष्यानन्तर्ये' इत्यादिना अञ्, तस्य बहुषु यञञोश्च' इति लुक्, कुशिकानां-तद्गोत्रजानामित्यर्थः । ब्रह्मोपमा इति । ब्रह्मर्षितुल्या इति यावत् ॥ २० ॥

 विशेषेण भवानेव विश्वामित्रो महायशाः ।
 कौशिकी च सरिच्छ्रेष्ठा कुलोद्योतकरी तव ॥ २१ ॥

 भवानेवेति । महात्मेत्यनुकर्षः ॥ २१ ॥

 इति तैः मुनिशार्दूलैः प्रशस्तः कुशिकात्मजः ।
 निद्रामुपागमच्छ्रीमान् अस्तंगत इवांशुमान् ॥ २२ ॥

 प्रशस्तः-स्तुतः, 'शंसुस्तुतौ ' 'यस्य विभाषा' इति नेट्, अनिदिताम्' इति नलोपः । श्रीमान्-दिव्यविद्यैश्वर्यवान् । निद्रामुपागमत् इत्यत्र हेतुगर्भंं विशेषणम्-अस्तंगत इत्यादि । अस्तमितः अंशुमान्-सूर्यो यस्मै स तथा ॥ २२ ॥

 रामोऽपि सहसौमित्रिः किञ्चिदागतविस्मयः ।
 प्रशस्य मुनिशार्दूलं निद्रां समुपसेवते ॥ २३ ॥

इत्यार्षे श्रीमद्रामायणे बालकाण्डे चतुस्त्रिंशः सर्गः

 प्रशस्येति ल्यप् । स्थानिवत्त्वेन कित्वादनुनासिकलोपः । सेवते- सेवते स्म । गोष्ठ (२३) मानः सर्गः ॥ २३ ॥

इति श्रीमद्रामायणामृतकतकटीकायां बालकाण्डे चतुस्त्रिंशः सर्गः

अथ पञ्चत्रिंशः सर्गः
[उमा-गङ्गोत्पत्तिकथनम्]

 उपास्य रात्रिशेषं तु शोणाकूले महर्षिभिः ।
 निशायां सुप्रभातायां विश्वामित्रोऽभ्यभाषत ॥ १ ॥

 एवं रामस्य देशविषयप्रश्नप्रसङ्गे स्ववंशविषयिणीं पुण्यकथामुपवर्ण्य तथैव बाल्यवशात् तदज्ञानप्रवृत्तरामप्रश्नेषु काव्यपरमपुरुषार्थसाधकत्वप्रयोजकानां पुण्यकथान्तराणामप्यन्तरान्तरा रामचरितमुपदेशः । उपास्येत्यादि । रात्रिशेषं तु शोणाकूले उपास्य-निद्रया अतीत्य-अतिवाह्य ॥ १ ॥

 सुप्रभाता निशा राम ! पूर्वा सन्ध्या प्रवर्तते ।
 उत्तिष्ठोत्तिष्ठ, भद्रं ते, गमनायाभिरोचय ॥ २ ॥

 गमनाय-गमनं कर्तुम्, 'क्रियार्थोपपदस्य' इति चतुर्थी ॥ २ ॥

 तच्छ्रुत्वा वचनं तस्य कृत्वा पौर्वाह्णिकीं क्रियाम् ।
 गमनं रोचयामास वाक्यं चेदमुवाच ह ॥ ३ ॥

 पूर्वाह्णे भवा पौर्वाह्णिकी, 'कालात् ठञ्' ॥ ३ ॥

 अयं शोणः शुभजलोऽ[४७८] गाधः पुलिनमण्डितः ।
 कतरेण पथा ब्रह्मन् ! सन्तरिष्यामहे वयम् ॥ ४ ॥

 अयं शोण इति । शोणैव शोण इति व्यपदिश्यते । कतरेण पथा सन्तरिष्यामह इति प्रश्नबीजम्-अगाध इति । 'अगाधमतलस्पर्शे' इति निघण्टुः ॥ ४ ॥

 एवमुक्तस्तु रामेण विश्वामित्रेण धीमता ।
 एष पन्था मयोद्दिष्टो येन यान्ति महर्षयः ॥ ५ ॥

 एष इत्यादि । येन सर्वे महर्षयो यान्ति, एष एव पन्था [४७९]मया बालस्य तवापि गमनयोग्य उद्दिष्टः-निश्चितः ॥ ५ ॥


 ते गत्वा दूरमध्वानं गतेऽर्धदिवसे तदा ।
 जाह्नवीं सरितां श्रेष्ठां ददृशुर्मुनिसेविताम् ॥ ६॥
 तां दृष्ट्वा पुण्यसलिलां हंससारससेविताम् ।
 बभूवुर्मुनयः सर्वे मुदिताः सहराघवाः ॥ ७ ॥

सारसः-xxxxxx ॥ ७ ॥

 [४८०][४८१]सरस्तीरे ततश्चक्रुः त आवासपरिग्रहम् ।

 आवासाय परिगृह्यत इति आवासपरिग्रहः, सम्मार्जनादिना आवासस्थानञ्चक्रुरिति यावत् ॥

 अथ स्नात्वा यथान्यायं संतर्प्य पितृदेवताः ॥ ८ ॥
 हुत्वा चैवाग्निहोत्राणि प्राश्य चामृतवद्धविः ।
 विविशुर्जाह्नवीतीरे शुचौ मुदितमानसाः ॥ ९ ॥
 [४८२]विश्वामित्रं महात्मानं परिवार्य समन्ततः ।

 अमृतवत्-अमृततुल्यं हविः-पञ्चयज्ञाद्यवाशिष्टमन्नं ; हि तथा 'यज्ञशिष्टामृतभुजो यान्ति ब्रह्म सनातनम्' इति ॥ ९ ॥

 अथ तत्र तदा रामो विश्वामित्रमथाब्रवीत् ॥ १० ॥
 भगवन् ! श्रोतुमिच्छामि गङ्गां त्रिपथगां नदीम् ।
 त्रैलोक्यं कथमाक्रम्य गता नदनदीपतिम् ॥ ११ ॥

 गङ्गां श्रोतुमिति । गङ्गाविषयकं किञ्चित् श्रोतव्यमिति यावत् । किं तदित्यतः-त्रैलोक्येत्यादि । त्रैलोक्यमाक्रम्येति । स्वकम्स्रोतोभेदेनेति शेषः ॥ ११ ॥


 चोदितो रामवाक्येन विश्वामित्रो महामुनिः ।
 वृद्धिं जन्म च गङ्गाया वक्तुमेवोपचक्रमे ॥ १२ ॥

 वृद्धिः त्रैलोक्यव्याप्तिरूपिणी ॥ १२ ॥

 नगेन्द्रो हिमवान्नाम धातूनामाकरो महान् ।
 तस्य कन्याद्वयं राम ! रूपेणाप्रतिमं भुवि ॥ १३ ॥

 धातूनां-अयस्ताम्रादिधातूनाम् ॥ १३ ॥

 या मेरुदुहिता राम ! तयोर्माता सुमध्यमा ।
 नाम्ना मनोरमा नाम पत्नी हिमवतः प्रिया ॥ १४ ॥

 मेरोर्दुहिता मेरुदुहिता । तयोरिति । कन्ययोरित्यर्थः । मनोरमेति मेनाया नाम ॥ १४ ॥

 तस्यां गङ्गेयमभवत् ज्येष्ठा हिमवतः सुता ।
 उमा नाम द्वितीयाऽभूत् नाम्ना तस्यैव राघव ! ॥ १५ ॥
 अथ ज्येष्ठां सुरास्सर्वे देवतार्थचिकीर्षया ।
 शैलेन्द्रं वरयामासुः गङ्गां त्रिपथगां नदीम् ॥ १६ ॥

 देवतार्थचिकीर्षया-देवतानां प्रयोजनसम्पादनेच्छया । देवताप्रयोजनं च स्वर्लोकस्नानपानादिः वक्ष्यमाणभगवद्वीर्यधारणं च । त्रयश्चते पन्थानः,'ऋक्पू: 'इत्यकारस्समासान्तः, त्रिप्रथात् गच्छतीति तथा ॥ १६ ॥

 ददौ धर्मेण हिमवान् तनयां लोकपावनीम् ।
 स्वच्छन्दपथगां गङ्गां त्रैलोक्यहितकाम्यया ॥ १७ ॥

 धर्मेण-धर्ममार्गेण ददौ । ननु देवप्रयोजनाय कथं स्वर्गमनम् ; न हि जलमाकाशे तिष्ठतीत्यत्रोक्तम्-स्वच्छन्दपथगामिति । स्वच्छन्दःस्वेच्छा, तदायत्तः पन्थाः, प्राग्वदकारः, तेन गच्छतीति तथा । 'डोऽन्यत्राऽपि' इति डः । अभ्रजलवत् परिवहादिमहावाय्वैकाधारा भवतीति स्वच्छन्दगतिता ॥ १७ ॥

 प्रतिगृह्य त्रिलोकार्थंं त्रिलोकहितकारिणः ।
 गङ्गामादाय तेऽगच्छन् कृतार्थेनान्तरात्मना ॥ १८ ॥
 या चान्या शैलदुहिता कन्याऽऽसीद्रघुनन्दन !
 उग्रं सा व्रतमास्थाय तपस्तेपे तपोधना ॥ १९ ॥

 अथ द्वितीयां कन्यां कस्मै ददाविति प्रसङ्गात् तस्य प्रतिपादनं-या चेत्यादि ॥ १९ ॥

 उग्रेण तपसा युक्तां ददौ शैलवरः सुताम् ।
 रुद्रायाप्रतिरूपाय उमां लोकनमस्कृताम् ॥ २० ॥
 एते ते शैलराजस्य सुते लोकनमस्कृते ।
 गङ्गा च सरितां श्रेष्ठा उमा देवी च राघव ! ॥ २१ ॥
 एतत्ते सर्वमाख्यातं यथा त्रिपथगा नदी ।
 खं गता प्रथमं तात ! गतिं गतिमतां वरा ॥ २२ ॥
 सैषा सुरनदी रम्या शैलेन्द्रस्य सुता तदा ।
 सुरलोकं समारूढा विपापा जलवाहिनी ॥ २३ ॥

इत्यार्षे श्रीमद्रामायणे बालकाण्डे पञ्चत्रिंशः सर्गः

 एतत्त इति । गङ्गोमयोरुत्पत्यादिकमित्यर्थः । यथा त्रिपथगामिनी भवति गङ्गा, तथा प्रतिपादयामीति शेषः । तदेव क्रियते-खामित्यादि । तावच्छब्दो वाक्यालङ्कारे । प्रथमं तावत् खं-खात्मिकां गतिं गता; पश्चात् सुरलोकं च समारूढा अभवत् । अंगार (२३ १/२)मानः सर्गः ॥ २३ ॥

इत्यार्षे श्रीमद्रामायणामृतकतकटीकायां बालकाण्डे पञ्चत्रिंशः सर्गः

अथ षट्त्रिंशः सर्गः
[ईश्वरं प्रति देवानां प्रार्थना]

 उक्तवाक्ये मुनौ तस्मिन् उभौ राघवलक्ष्मणौ ।
 अभिनन्द्य कथां वीरौ ऊचतुर्मुनिपुङ्गवम् ॥ १ ॥

 एवं गङ्गोमयोरुत्पत्त्यादिके संक्षेपत उक्ते पुनम्तद्विषयकविस्तारप्रश्ने तत्प्रतिपादनं-उक्तवाक्य इत्यादि । तस्मिन्निति । उपरत इति शेषः ॥ १ ॥

 धर्मयुक्तमिदं ब्रह्मन् ! कथितं परमं त्वया ।
 दुहितुः शैलराजस्य ज्येष्ठाया वक्तुमर्हसि ॥ २ ॥
 विस्तरं, विस्तरज्ञोऽसि, दिव्यमानुषसम्भवम् ।

 शैलराजस्य ज्येष्ठाया दुहितुर्दिव्यमानुषसम्भव-द्युलोक- निबन्धनंमानुषलोकनिबन्धनं च विस्तरं वक्तुमर्हसि ॥२॥

 त्रीन् पथो हेतुना केन प्लावयेल्लोकपावनी ॥ ३ ॥

 को युष्मच्छुश्रूषितो विस्तर इत्यतः-त्रीनित्यादि । त्रीन् पथः-भूर्भुवस्स्वर्मार्गान् केन हेतुना प्लावयेत् ? इत्येतद्विषयक एकः शुश्रूषित-विस्तरः द्वितीयस्त्रिपथगेति प्रसिद्धिः किं निबन्धना,त्रिलोक्यां गङ्गायाः कर्म चरितं च कीदृशमित्येतद्विषयकश्च विस्तरश्शुश्रूषित इत्यर्थः ॥ ३ ॥

 कथं गङ्गा त्रिपथगा विश्रुता सरिदुत्तमा ।
 त्रिषु लोकेषु धर्मज्ञ ! कर्मभिः कैस्समन्विता ॥ ४ ॥

 कथमिति प्रश्नस्याग्रिमसर्गैरुत्तरं भविष्यति ॥ ४ ॥

 तथा ब्रुवति काकुत्स्थे विश्वामित्रस्तपोधनः ।
 निखिलेन कथां सर्वां ऋषिमध्ये न्यवेदयत् ॥ ५ ॥

 निखिलेन–कार्येन–विस्तरेणेति यावत् ॥ ५ ॥

 पुरा राम ! कृतोद्वाहो नीलकण्ठो महातपाः ।
 दृष्ट्वा च स्पृहया देवीं मैथुनायोपचक्रमे ॥ ६ ॥
 शितिकण्ठस्य देवस्य दिव्यं वर्षशतं गतम् ।

 कृतोद्वाहः-कृतोमापरिणयः। देवीं दृष्ट्वा तया सह मैथुनायेति योजना । गतमिति । क्रीडयेति शेषः ॥ ६ ॥

 [४८३]तस्य संक्रीडमानस्य महादेवस्य धीमतः ॥ ७ ॥
 [४८४]न चापि तनयो राम ! तस्यामासीत् परंतप !

 तनय इति । रुद्रपुत्राय उमासंयोजन परमयत्नपूर्व प्रार्थितप्रादुर्भावस्वसेना सेनानीचिकीर्षितो रुद्रतेजोमयस्त्वसह्यः पुत्र इत्यर्थः ॥ ७ ॥

 ततो देवाः [४८५]समुद्युक्ताः पितामहपुरोगमाः ।
 यदिहोत्पद्यते भूतं कस्तत् प्रतिसहिष्यते ॥ ८ ॥

 तत इत्यादि । समुद्युक्ता इति । वर्षशतक्रीडा[४८६]वशान्मुमुक्षाकाले रौद्रतेजसो मोचनं वारयितुं समुद्युक्ता बभूवुरित्यर्थः । एवं व्याख्यानं तु 'यस्मान्निवारिता चैव संगतिः पुत्रकाम्यया' इति ईश्वरीवचनात् वक्ष्यमाणात्स्पष्टम् । कथं रुद्रपुत्राय उमासंयोजनादियत्नं कुर्वद्भिः रुद्रतेजोमोचननिवारणोद्योगः? इत्यत्रोच्यते-तदित्यादि । इह-अस्या-मुमायां अतः परमपि कियत्कालक्रीडानन्तरमीश्वरेच्छया विमुक्तं रौद्रतेजोऽस्यां भूतं-गर्भत्वेन सम्भूतं-सिद्धं, पश्चाद्यथोचितकालानन्तरं यदि लोकवदेव पुत्ररूपं उत्पद्येत कस्तत्प्रतिसहिष्यते ? न कोऽपि देवोऽन्यो वा तत्पुरस्तात् स्थातुं, अन्ततो निरीक्षितुमपि शक्नोति । यतो रुद्रकोपज-


स्वेदबिन्दुमात्रजो रुद्रकुमारो वीरभद्रोऽशेषदेवैरपि दुस्सहो दुर्निरीक्ष्यश्चेत्यनुभवसिद्धम् । अतो माभूदम्माकमौरसरुद्रकुमारोत्पत्तिरिति निश्चित्य देव्यां तेजस्त्यागं निवारयितुं उद्युक्ता इत्यर्थः ॥ ८ ॥

 अभिगम्य सुराः सर्वे प्रणिपत्येदमब्रुवन् ॥ ९ ॥

 एवं निश्चित्य तदमोकस्य चाचिन्त्यशक्तिवैभवभगवदेकसाध्यत्वात्तमेव तत्र परमं शरणं जम्मुरित्युच्यते-अभिगम्येति ॥ ९ ॥

 देव देव महादेव ! लोकस्यास्य हिते रत !
 सुराणां प्रणिपातेन प्रसादं कर्तुमर्हसि ॥ १० ॥

 प्रणिपातः–अनन्यगतिकतया तत्पादमूलपतनम्, तेन अस्माकं प्रसादं कर्तुमर्हसि ॥ १० ॥

 न लोका धारयिष्यन्ति तव तेजः सुरोत्तम !
 ब्राह्मण तपसा युक्तो देव्या सह तपश्चर ॥ ११ ॥

 किं विषयकः प्रसाद इत्यतः-न लोका इत्यादि । भूरादिलोकान्तर्लौकिकसकलप्रजाश्चेत्यर्थः । न धारयिष्यन्ति-अनन्तकोटि-वीरभद्रतुल्यं स्मृत्वा च हृदयविदारकं मनस्यपि धर्तुमपि न शक्नुयुः। तेज इति । मुक्त्वा यथावद्गर्भादुत्पन्नमिति शेषः । तर्हि किमस्माभिः कर्तव्यमित्यतः-ब्राह्मणेत्यादि । ब्राह्मेण-श्रीमदादिगुरुतुर्यब्रह्मगोचरेण तपसा अकृतकतदनन्यतायोगलक्षणेन युक्तो भूत्वा देव्या सह तदङ्गभूतं तप एव चर ॥ ११ ॥

 त्रैलोक्यहितकामार्थंं तेजस्तेजसि धारय ।
 रक्ष सर्वानिमान् लोकान्, नालोकं कर्तुमर्हसि ॥ १२ ॥

 कीदृशमुख्यब्राह्मतपोऽङ्गभूतमस्मच्चरितव्यमित्यतः तन्नियोगः- तेजस्तेजसि धारयेति । 'पुरुषो ह वा अयमादितो गर्भो भवति । यदेतत्तद्रेतस्त्तदेतत् सर्वेभ्योऽङ्गेभ्यस्तेजस्सम्भूतमात्मन्येवात्मानं बिभर्ति' इति न्यायेन निजतेजः-पारदरूपं निजतेजसि-सहजाष्टाङ्गयोगरूपे धारय । ननु मत्तेजसि मया धृते मुक्ते वा को लाभः ? का हानिर्वा वः ? इत्यत्रोच्यते-रक्ष सर्वानिमान् लोकानिति । धृत्वेति शेषः । भवति किल धारणे लोकरक्षा, कथम् ? 'अथ यदेतत् पुरुषे रेतो भवत्यादित्यस्य तद्रूपम्' इति श्रुतेः सम्राट्पुरुषस्य ब्रह्मणो रेतोरूपं तेज एवादित्यमण्डलान्तर्यद्धृतं तन्मूलयाऽत्र सकलमपि जगद्रक्षितं भवति । अथ विपर्यये विपर्ययश्च भवतीत्याहुः । नालोकं कर्तुमर्हसीति । निजतेजः पातयित्वाऽऽदित्यं विनाश्य अलोकं-सर्वलोकास्तमयं कर्तुं नार्हसि ॥ १२ ॥

 देवतानां वचः श्रुत्वा सर्वलोकमहेश्वरः ।
 बाढमित्यब्रवीत् सर्वान् [४८७]ततश्चैवमुवाच ह ॥ १३ ॥

 एवं सर्वदेववचनं श्रुत्वा, सर्वदेवतावयाविनस्तस्य च, स्वावयवसर्वदेवतानाशे स्वस्य च छिन्नाशेषशाखास्थाणुताप्रसङ्गात् अवश्यं देववचनं कर्तव्यमङ्गीकरोतीत्याह-देवतानां वचःश्रुत्वा बाढमित्यब्रवीदिति । बाढमित्यङ्गीकृतांश एव प्रतिपाद्यते-ततश्चैवमुवाच ह ॥ १३ ॥

 धारयिष्याम्यहं तेजः तेजस्येव सहोमया
 त्रिदशाः पृथिवी चैव निर्वाणमधिगच्छतु ॥ १४ ॥

 धारयिष्यामीत्यादि । उमया सहेति । उमाऽपि स्ववीर्यं रजोमयेऽग्नौ स्वतेजसि बिभर्तु । 'तद्यदेतत् स्त्रियां लोहितं भवति अग्नेस्तद्रूपम्' इति श्रुतेः मातृरजोऽग्निरेव । अहमपि स्ववीर्यं सृतं सत्त्वमये रसे भरिष्यामि । एवं च । त्रिदशाः पृथिवी चैव निर्वाणं-सौख्यं अधिगच्छतु । ईश्वरयोस्तेजसोर्भुवि पाते दाहदुर्भरत्वाभ्यां पृथिवी-


पीडा-'यदेतद्रेतः, तदेतत् सर्वेभ्योऽङ्गेभ्यस्तेजस्सम्भूतम्' इति श्रुतेः । तस्य यथान्यायं योगेन शोधनक्षमपात्रसम्पादनं विना प्राकृतवत्पातने सर्वेऽपि देवा नाशिता भवन्ति । अत एत स्वाविशेषतया सर्वानुग्रहार्थं स्ववीर्यं धारयिष्याव इत्यर्थः ॥ १४ ॥

 यदिदं क्षुभितं स्थानान्मम तेजो ह्यनुत्तमम् ।
 धारयिष्यति कस्तन्मे ब्रुवन्तु सुरसत्तमाः ! ॥ १५ ॥

 अथ दिव्यवर्षशतसम्भोगवशतो लोकवदेव क्षुभितं क्लेदरूपंयत्तेजः तस्य च गलितस्य स्वावयवधृतस्यामोघस्य चातः परं देवकार्याय सुसहशक्तिसुतसिद्धये मोचनीयस्य किं क्षेममिति भगवान्महेश्वरः पृच्छति-यदिदमित्यादि । स्थानात्-हिरण्यमयभूमहृदयपुण्डरीकलक्षणात् शाश्वतस्थानात् क्षुभितं-चिरकालभोगो-पाधेरेकदेशे सञ्चालितं अनुत्तमं-देवकार्यार्ह सुतसमर्थत्वेन सर्वोत्तमंयदिदं तेजः-क्लेदरूपमस्ति अमोघमिदमपि वा को धारयिष्यति ? च्युतत्वादेवोमागर्भानर्हं 'कुम्भे रेतस्सिषिचतुस्समानं । ततोहमानमुदियाय मध्यात्ततो जातमृषिमाहुर्वसिष्ठम्' इति न्यायेन क्वचिदयोनिरूपे क्षेत्र विशेष एव सेचनीयम् । तथा सिक्तं तत् को धारयिष्यति ? तत् विचार्य मह्यं ब्रुवन्तु हे सुरसत्तमाः ! ॥ १५ ॥

 एवमुक्तास्ततो देवाः प्रत्यूचुर्वृषभध्वजम् ।
 यत्तेजः क्षुभितं ह्येतत् तद्धरा धारयिष्यति ॥ १६ ॥

 एवं पृष्टे उत्तरम्-एवमित्यादि । धरा धारयिष्यतीति । तस्या अशेषसंसारधारणशक्तित्वादेवेत्याशयः ॥ १६ ॥

 एवमुक्तः सुरपतिः प्रमुमोच महीतले ।
 तेजसा पृथिवी येन व्याप्ता सगिरिकानना ॥ १७ ॥

 एवमुक्तः सुरपतिः-रुद्रः येन तेजसा-स्कन्नेनावरेण तेजसाऽपि सगिरिकानना पृथिवी शक्त्या व्याप्ता भवति, तादृशं तेजः प्रमुमोच । हः प्रसिद्धौ ॥ १७ ॥

 ततो देवाः पुनरिदं ऊचुश्चाथ हुताशनम् ।
 प्रविश त्वं महातेजो रौद्रं वायुसमन्वितः ॥ १८ ॥

 अथ पृथिवीमुक्तस्य तेजसो रक्षार्थं 'अग्निः पृथिव्या अधिपतिः 'इति पृथिव्यभिमान्यामं नियुञ्जते-तत इत्यादि । हुताशनमिति । देवीक्लेदोंऽशरूपमिति शेषः । अन्यादृशाग्ने रौद्रतेजस्त्रोतःप्रवेशायोगाद्रसबलसाध्यश्वेतपर्वतायोगाच्च । वायुसमन्वितः इत्यनेन चारणलक्षण-प्रवेशोपाय उक्तः । पुनश्शब्दो वाक्यालङ्कारे ॥ १८ ॥

तदग्निना पुनर्व्याप्तं संजातः श्वेतपर्वतः ।
दिव्यं शरवणं चैव पावकादित्यसन्निभम् ॥ १९ ॥
यत्र जातो महातेजाः कार्तिकेयोऽग्निसंभवः ।

 तत्-तेजः उक्ताग्निचारणजारणबलान् बद्धं सदुपरि क्रियारहितं केवलं श्वेतपर्वतात्मनावस्थितमभूत् । तच्च श्वेतपर्वतात्मनाऽवस्थिततेजः तत्प्रदेशे तन्महिम्ना दिव्यं पावकादित्यसन्निमं शरवणं चाभूत् । 'प्रनिरन्तरश्शर' इति णत्वम् । यत्र जात इति । जातः भविष्यतीति यावत् । अग्निना कियत्कालं धृत्वा मोक्ष्यमाणत्वादग्निसन्निभत्वं; कार्तिकेयत्ववत् ॥ १९ ॥

 अथोमां च शिवं चैव देवास्सर्षिगणास्तदा ॥ २० ॥
 पूजयामासुरत्यर्थं सुप्रीतमनसस्तदा ।

 देवास्सुप्रीतमनसस्तदेति । लोकानुग्रहाय मूलतेजसो धृतत्वात्,

देवकार्याय स्कन्नतेजसश्च दत्तत्वात् सन्तोषः ॥ २० ॥

 [४८८]अथ शैलसुता राम ! त्रिदशानिदमब्रवीत् ।
 समन्युरशपत्सर्वान् क्रोधसंरक्तलोचना ॥ २१ ॥

 उमां च शिवं चैव पूजयामासुरित्युक्तम् । तदा उमादेवी पूजां नाङ्गीकरोति स्म, प्रत्युत क्रुद्धैवाभूदित्याह-अथ शैलेत्यादि ॥ २१ ॥

 यस्मान्निवारिता चैव सङ्गतिः पुत्रकाम्यया ॥ २२ ॥
 अपत्यं स्वेषु दारेषु तस्मान्नोत्पादयिष्यथ ।

 किन्निमित्तः क्रोधः, कीदृशश्च तच्छाप इत्यतः-यस्मादित्यादि । यस्मात् मया ईश्वरादौरसपुत्रकाम्ययैव क्रियमाणा सङ्गतिर्निवारिता, तस्मात् हेतोः स्वेषु दारेषु औरसं अपत्यं नोत्पादयिष्यथ ॥ २२ ॥

 [४८९]अद्यप्रभृति युष्माकमप्रजास्सन्तु पत्नयः ॥ २३ ॥
 एवमुक्त्वा सुरान् सर्वान् शशाप पृथिवीमपि ।

 अत एव–अद्यप्रभृतीत्यादि । मच्छापादेव पत्नयः इत्यादि ।

 अवने नैकरूपा त्वं बहुभार्या भविष्यसि ॥ २४ ॥
 न च पुत्रकृतां प्रीतिं मत्क्रोधकलुषीकृता ।
 प्राप्स्यसि त्वं, सुदुर्मेधे ! मम पुत्रमनिच्छती ॥ २५ ॥

 पृथिवीमपि शशापेत्यत्र हेतुः-मम पुत्रमनिच्छतीति । अविघ्नसम्भोगसुखं यथाकालं सम्प्राप्तनिजभर्तृतेजोगर्भभरणरूपं पूर्वं लोकवदौरसं पुत्रं मम ईप्सितं अनिच्छती-अननुकुर्वती, देवेप्सितं चान्याय्यमनुकुर्वती चासीरिति यतः, अतः अनेन हेतुना एकरूपा अपि त्वं


भहुभार्या भविष्यसि । पुत्रकृतां-औरसपुत्रकृतां न प्राप्यसीति । मद्वदिति शेषः । सुदुर्मेधे इति । 'नित्यमसिच् प्रजामेधयोः' इत्यसिच् ॥ २५ ॥

 तान् सर्वान् [४९०]पीडितान् दृष्ट्वा सुरान् सुरपतिस्तदा ।
 गमनायोपचक्राम दिशं वरुणपालिताम् ॥ २६ ॥

 तानित्यादि । पीडितान्-देवीशापात् दुःखितांस्तान् दृष्ट्वा, तस्य चाशक्यपरिहारत्वात्तद्दर्शनपरिहाराय तपश्चरणविषयकनियोगसम्पादनाय च ततो देशात् वरुणपालितां दिशं-पश्चिमदेशं प्रति गमनायोपचक्राम, छान्दसं परस्मैपदम् ॥ २६ ॥

 स गत्वा तप आतिष्ठत् पार्श्वे तस्योत्तरे गिरेः ।
 हिमवत्प्रभवे शुङ्गे सह देव्या महेश्वरः ॥ २७ ॥

 एवं हिमवतः पश्चिमप्रदेशं गत्वा तत्रापि तत्र गिरेरुत्तरपार्श्वे, तत्रापि हिमवद्भवे शृङ्ग एव देव्या सह तप आतिष्ठत् ॥ २७ ॥

 एष ते विस्तरो राम ! शैलपुत्र्या निवेदितः ।
 गङ्गायाः प्रभवं चैव शृणु मे सहलक्ष्मणः ॥ २८ ॥

इत्यार्षे श्रीमद्रामायणे बालकाण्डे षट्त्रिंशः सर्गः

 उपसंहियते–एष त इत्यादि । शैलपुत्रधा विस्तरः-चरितविस्तारो निवेदितः। ' त्रिषु लोकेषु धर्मज्ञ कर्मभिः कैस्समन्विता' इति प्रश्नोत्तरणीय्यस्य देवगर्भधारणरूपगङ्गाचरितस्योपदेशशेषतयेति शेषः । अथ [४९१]शेषप्रकृतप्रश्नोत्तरं वक्तुं प्रतिजानीते-गङ्गाया इत्यादि। प्रभवामिति । छान्दसो ह्रस्वः । ऐशतेजोधारणरूपं प्रभावमित्यर्थः ॥ २८ ॥

इति श्रीमद्रामायणामृतकतकटीकायां बालकाण्डे षट्त्रिंशः सर्गः


अथ सप्तत्रिंशः सर्गः
[कुमारसम्भवः]

 तप्यमाने तपो देवे देवाः सर्षिगणाः पुरा ।
 सेनापतिमभीप्सन्तः पितामहमुपागमन् ॥ १ ॥

 अथ यथाप्रतिज्ञमुक्तवैभवोपदेशः-तप्यमान इत्यादि । देवसेनाकार्यचिन्तामकृत्वेति शेषः । सेनापतिं-स्वसेनारक्षकम् ॥ १ ॥

 ततोऽब्रुवन् सुरास्सर्वे भगवन्तं पितामहम् ।
 प्रणिपत्य सुरास्सर्वे सेन्द्राः साग्निपुरोगमाः ॥ २ ॥

 तत इति । उपगमनानन्तरमित्यर्थः ॥ २ ॥

 [४९२]येन सेनापतिर्देव ! दत्तो भगवता पुरा ।
 तपः परममास्थाय तप्यते स्म सहोमया ॥ ३ ॥

 किमब्रुवन्नित्यतः-येनेत्यादि । येन भगवता-रुद्रेण सेनापतिः बीजात्मना दत्तः, स तूष्णीं तपस्तप्यते-अनुतिष्ठति। तपःकर्मकत्वाद्यगात्मनेपदकर्मवद्भावौ । स्मशब्दो वाक्यालङ्कारे ॥ ३ ॥

 यदत्रानन्तरं कार्यं लोकानां हितकाम्यया ।
 संविधत्स्व विधानज्ञ ! त्वं हि नः परमा गतिः ॥ ४ ॥

 अनन्तरं-बीजमात्रं दत्त्वा तस्योपरमानन्तरं तस्य पुत्राकार-सम्पत्तये यत्-संविधेयं तत् संविधत्स्व ॥ ४ ॥

 देवतानां वचः श्रुत्वा सर्वलोकपितामहः ।
 सान्त्वयन् मधुरैर्वाक्यैः त्रिदशानिदमब्रवीत् ॥ ५ ॥

 सान्त्वयन् | इष्टकार्यालाभखिन्नानिति शेषः ॥ ५ ॥


 शैलपुत्र्या यदुक्तं [४९३]तत् अप्रजाः सन्तु पत्नयः
 तस्या वचनमक्लिष्टं सत्यमेतन्न संशयः ॥ ६ ॥

 यत्-यस्मात् शैलपुत्र्या अप्रजा भविष्यथेति उक्तं, तत्-तस्मात्-न प्रजास्सन्तु वः । अत एव वः पत्नयश्च अप्रजाः, छान्दस इकारान्तप्रयुक्तो जसो गुणः । ननु भवद्बलात् तद्वचोऽप्यन्यथायितव्यमित्याशङ्क्योच्यते-तस्या इत्यादि । अक्लिष्टमिति । परमापराधमूलतोऽन्यायतः प्राप्तं यतस्तस्मात् सत्यमेव न संशयः । एवं पाङ्क्ते पाठे पाङ्कते च व्याख्याने स्थिते "न प्रजास्यथ" इति मृषोक्त्वा तद्व्याख्यानं चाह [४९४]कश्चित् ॥ ६ ॥

 इयमाकाशगा गङ्गा यस्यां पुत्रं हुताशनः ।
 जनयिष्यति देवानां सेनापतिमरिन्दमम् ॥ ७ ॥

 तर्हि का गतिरित्यपेक्षायामाह-इयमित्यादि । यस्यां जनयिष्यति सेयमस्तीति योजना ॥ ७ ॥

 ज्येष्ठा शैलेन्द्रदुहिता मानयिष्यति तत्सुतम् ।
 उमायास्तद्बहुमतं भविष्यति न संशयः ॥ ८ ॥

 उचितं चेदमेत्रेत्याह-ज्येष्ठेत्यादि । मानयिष्यतीति । स्वकनिष्ठापत्यत्वात् स्वापत्यवादति शेषः ॥ ८ ॥

 तच्छ्रुत्वा वचनं तस्य कृतार्था रघुनन्दन
 प्रणिपत्य सुरास्सर्वे पितामहमपूजयन् ॥ ९ ॥


 ते गत्वा पर्वतं राम ! कैलासं धातुमण्डितम् ।
 अग्निं नियोजयामासुः पुत्रार्थं सर्वदैवताः ॥ १० ॥

 ते कैलासं पर्वतं गत्वेति । तत्रैव भगवत्तेजोऽनुप्रविष्टाग्नेरवस्थानात् ॥

 देवकार्यमिदं देव ! संविधत्स्व हुताशन !
 शैलपुत्र्यां महातेजः ! गङ्गायां तेज उत्सृज ॥ १२ ॥

 हे महातेज इति सम्बुद्धिः । शैलपुत्र्यां तेज उत्सृजेति । गङ्गायामैश्वरं तेज इत्यर्थः ॥ १२ ॥

 देवतानां प्रतिज्ञाय गङ्गामभ्येत्य पावकः ।
 गर्भं धारय वै देवि ! देवतानामिदं प्रियम् ॥ १३॥

 देवतानां प्रतिज्ञायेति । तथा करोमीति प्रतिज्ञायेत्यर्थः ॥ १३ ॥

 तस्य तद्वचनं श्रुत्वा दिव्यं रूपमधारयत् ।
 दृष्ट्वा तन्महिमानं स समन्तादवशीर्यत ॥ १४ ॥

 दिव्यं रूपमधारयदिति । स्रोतोरूपं मुक्त्वेति शेषः । अथ तस्या महिमानं दिव्यरूपत्रैभवं दृष्ट्वा सः-ईश्वरतेजोराशिः पारदः समन्तादवशीर्यत, व्यत्ययात्तङ् । न द्रुतिसंस्कारं प्राप्तमभूदित्यर्थः । उत्तमस्त्रीदर्शने रसेश्वरस्य तद्ग्रहणयोल्लालनं द्वियोजनपर्यन्तमिति सुप्रसिद्धम् ॥ १४ ॥

 समन्ततस्तदा देवीमभ्यषिञ्चत पावकः ।
 सर्वस्रोतांसि पूर्णानि गङ्गाया रघुनन्दन ॥१५॥

 एवं समन्ततो विकीर्णेन रसेश्वरेण पावको देवीमभ्यषिञ्चत । तेनाभिषिच्यमानेन रसेश्वरेण देवीसुषुम्नेलापिङ्गलादिनाडीरूपाणि

सर्वस्रोतांसि पूर्णानि-व्याप्तानि ॥ १५ ॥

 तमुवाच ततो गङ्गा सर्वदेवपुरोहितम् ।
 अशक्ता धारणे देव ! तव तेजः समुद्धतम् ।
 दह्यमानाऽग्निना तेन संप्रव्यथितचेतना ॥ १६ ॥

 सर्वदेवपुरोहितं—सर्वदेवानां पुरोयायी, हितकरश्च तथा ।'अग्निमीळे पुरोहितं' अग्निर्ब्रह्मा नृषदने विधत्ते' इत्यादेः बृहस्पत्यपरमूर्तिमानित्यर्थः । तव तेजस्समुद्धतं- अग्नेरनुप्रवेशादाग्नेयेन तेजसा च समुद्धतं अत्युग्रशक्त्यैश्वरं तेजः-तेजस इति यावत् । कृद्योग-लक्षणषष्ठ्यभावश्छान्दसः । धारणे शक्ता न भवामि । अपि च -दह्यमानेत्यादि ॥ १६ ॥

 अथाब्रवीदिदं गङ्गां सर्वदेवहुताशनः ।
 इह हैमवते पादे गर्भोऽयं सन्निवेश्यताम् ॥ १७ ॥

 सर्वदेवात्मको हुताशनस्तथा ॥ १७ ॥

 श्रुत्वा त्वग्निवचो गङ्गा तं गर्भमतिभास्वरम् ।
 उत्ससर्ज महातेजः स्रोतोभ्यो हि तदाऽनघ ! ॥ १८ ॥

 स्रोतोभ्यः उत्कृष्य हिमवत्पार्श्व उत्ससर्जेति योजना ॥ १८ ॥

 यदस्या निर्गतं तस्मात् तप्तजाम्बूनदप्रभम् ।
 काञ्चनं धरणीं प्राप्तं हिरण्यममलं शुभम् ॥ १९ ॥
 ताम्रं कार्ष्णायसं चैव तैक्ष्ण्यादेवाभ्यजायत ।
 मलं तस्याभवत्तत्र त्रपु सीसकमेव च ।
 तदेतद्धरणीं प्राप्य नानाधातुरवर्धत ॥ २० ॥

 यत्-यस्मात् अस्याः निर्गतं, तस्मात् गङ्गागर्भनिस्सृतिसिद्धवेधसंस्कार- वैभवादेव तत्तेजः धरणीं प्राप्तं सत् तप्तजाम्बूनदप्रभंजम्बूनद्यां भवं जाम्बूनदं-दशवर्णसुवर्णं । जाम्बूनदं-द्रुतजाम्बूनदवर्णं सुवर्णं काञ्चनं प्रथमं अभवत् । पश्चात् अमलं निर्मलं, अत एव शुभदक्षिणालङ्काराद्यर्हं हिरण्यं चाभवत् । रजतं हिरण्यमभवत्' इति श्रुतेर्हिरण्यशब्दः स्वर्णरजतसाधारणः । इदमुभयं क्रमात् शुद्धपारदगन्धप्राधान्यात् भवति । पारदे तैक्ष्ण्यैकरूपं मलमस्ति । गन्धे मालिन्यरूपं मलमस्ति । उभयमलमुक्तादग्निबन्धरसात् द्रुतप्राधान्यवेधे स्वर्णं, गन्धप्राधान्यवेधे रजतं, तीक्ष्णमलप्राधान्यवेधे तु ताम्रादिकं मालिन्यं, मलप्राधान्यवेषे तु त्रपुसीसन् । तदेवोक्तम्-ताम्रमित्यादि । तत्र बन्धरसेऽपि यन्मूलं द्रुत्यादिसंस्कारवैकल्यादशोधितमभूत् तस्याभि-सम्बन्धात् त्रप्वादिकमभवदिति योजना । नानाधातुरवर्धतेति । उक्तरीत्येति शेषः ॥ १९-२० ॥

 निक्षिप्तमात्रे गर्भे तु तेजोभिरभिरञ्जितम् ।
 सर्वं पर्वतसन्नद्धं सौवर्णमभवद्वनम् ॥ २१ ॥

 न केवलं तस्य स्पर्शवेधित्वं, अपि तु रूपवेधित्वमपीत्युच्यते- निक्षिप्तेत्यादि । पर्वतसन्नद्धं-स्वर्णपर्वतीभूतमहारससम्बद्धमिति यावत् ॥

 तं देशं तु ततो ब्रह्मा संप्राप्यैनमभाषत ।
 जातस्य रूपं यत्तस्मात् जातरूपं भविष्यति ॥ २२ ॥
 जातरूपमिति ख्यातं तदाप्रभृति राघव !
 सुवर्णं पुरुषव्याघ्र ! हुताशनसमप्रभम् ॥ २३ ॥
 [ तृणवृक्षलतागुल्मं सर्वं भवति काञ्चनम् ]

 यदा काञ्चनीभूतो महारसो रूपवेधी जातस्तदाप्रभृति

जातरूपमित्यपि ख्यातम् । जातं सौवर्णं रूपं यस्मात्, स्वासन्नस्य च तत्तथा ॥ २२-२३ ॥

 तं कुमारं ततो जातं सेन्द्राः सह मरुद्गणाः ।
 क्षीरसम्भावनार्थाय कृत्तिकाः समयोजयन् ॥ २४ ॥

 तं कुमारं तत इति । सुवर्णपर्वतात्मनाऽ[४९५]वस्थितात्तत एव महारसादानन्दकन्दादिरसशास्त्रोपदिश्यमानरीत्या शब्दवेधित्वसंस्कारे च सति तत्रोच्यमानखेचरदिव्यदेहोत्पत्तिमार्गेण शनैर्जातो यो रुद्रकुमारः तं कुमारं क्षीरसम्भावनार्थाय-क्षीरपानप्रयोजनसिद्धये, कृत्तिका इति, 'सुपां सुलुक्' इत्यादिना भिसस्तु जस्, कृत्तिकाभिः समयोजयन् ॥

 ताः क्षीरं जातमात्रस्य कृत्वा समयमुत्तमम् ।
 ददुः पुत्रोऽयमस्माकं सर्वासामिति निश्चितः ॥ २५ ॥

 अथ ताः कृत्तिकाः अयमस्माकं सर्वासां पुत्रो भवतु इति कृतनिश्चयास्सत्यस्तादृशं उत्तमं समय-भावं स्तन्य[४९६]प्रवृद्धिहेतुभूतं पुत्रभावं कृत्वा जातमात्रस्य तस्य क्षीरं ददुः ॥ २५ ॥

 ततस्तु देवतास्सर्वाः कार्तिकेय इति ब्रुवन् ।
 पुत्रस्त्रैलोक्यविख्यातो भविष्यति न संशयः ॥ २६ ॥

 ततः-अनन्तरं तत एव हेतोः सर्वा देवताः स्वयं कार्तिकेय इति ब्रुवन् अडभावः छान्दसः उक्तवन्तः । अपि चायं पुत्रः कार्तिकेय इति त्रैलोक्यविख्यातश्च भविष्यतीति अब्रुवन् ॥ २६ ॥

 तेषां तद्वचनं श्रुत्वा स्कन्नं गर्भपरिस्रवे ।
 स्नापयन् परया लक्ष्म्या दीप्यमानं यथाऽनलम् ॥ २७ ॥

 अथ तेषां-देवानां म्वेष्टानुकूलं वचनं श्रुत्वा [४९७]आदौ ईश्वरयोस्सकाशात् स्कन्नं, पश्चात् गङ्गाया गर्भात् परिस्रवे सति तत्संस्कारतो


लक्ष्म्या परया दप्यिमानं अनलं-अनलवद्दुस्पर्शं-तं सुग्रहप्रयोजनशैत्योपचारसिद्धये स्नापयन् | स्तन्यैरिति शेषः ॥ २७ ॥

 स्कन्द इत्यब्रुवन् देवाः स्कन्नं गर्भपरिस्रवात् ।
 कार्तिकेयं महाभागं काकुत्स्थ ! ज्वलनोपमम् ॥ २८ ॥

 एवं कृत्तिकाभिः पुत्रत्वेन स्वीकृत्य स्तन्यपानानन्तरं पूर्वं कार्तिकेयत्वेनोक्तमुच्यमानविशेषणकं [४९८]तं प्रागुक्तरीत्या स्कन्नगर्भपरिस्रुतत्वहेतोः स्कन्द इति अन्वर्थनाम च चक्रुरित्यर्थः ॥ २८ ॥

 गृहीत्वा क्षीरमेकाह्ना सुकुमारवपुस्तदा ।
 अजयत् स्वेन वीर्येण दैत्यसैन्यगणान् विभुः ॥ २९ ॥

 एवं षण्मुखेन यावदपेक्षं क्षीरं गृहीत्वा एकाह्नैव-एकदिनेनैव,'राजाहः' इति टजभावोऽनित्यत्वात्, सुकुमारवपुः-आप्यायनेन कोमलसुन्दरपुष्टवपुरभवत् । तथा शनैः प्रवृद्धो दैत्यगणानजयत् ॥ २९ ॥

 प्रादुर्भूतं ततः क्षीरं कृत्तिकानामनुत्तमम् ।
 षण्णां षडाननो भूत्वा जग्राह स्तनजं पयः ॥ ३० ॥

 अनन्तरं पानार्थमपि कृत्तिकानां क्षीरं प्रादुर्भूतं । तच्च षण्णां स्तनजक्षीरं अचिन्त्यशक्तित्वाद्दाहातिशयेन च षण्मुखो भूत्वा जग्राह ॥

 सुरसेनागणपतिं ततस्तमतुलद्युतिम्
 अभ्यषिञ्चन् सुरगणाः समेत्याग्निपुरोगमाः ॥ ३१ ॥

 तत इति । यतोऽसुरगणमजयत् तत एव हेतोरित्यर्थः ॥ ३१ ॥

 एष ते राम ! गङ्गाया विस्तरोऽभिहितो मया ।
 कुमारसम्भवश्चैव धन्यः पुण्यस्तथैव च ॥ ३२ ॥


 उपसंहारः-एष इत्यादि । विस्तर इति । चरितविस्तर इति

यावत् ॥ ३२ ॥

 भक्तश्च यः कार्तिकेये काकुत्स्थ ! भुवि मानवः ।
 आयुष्मान् पुत्रपौत्रैश्च स्कन्दसालोक्यतां व्रजेत् ॥ ३३ ॥

इत्यार्षे श्रीमद्रामायणे बालकाण्डे सप्तत्रिंशः सर्गः

 सालोक्यतां, स्वार्थिकःष्यञ् सलोकतां व्रजेत् । इमं कुमार सम्भवसर्गं पठन्निति शेषः । गङ्गा(३३)मानः सर्गः ॥ ३३ ॥

इति श्रीमद्रामायणामृतकतकटीकायां बालकाण्डे सप्तत्रिंशः सर्गः

अथ अष्टात्रिंशः सर्गः
[सगरवृत्तान्तः]

 तां कथां कौशिको रामे निवेद्य कुशिकात्मजः ।
 पुनरेवापरं वाक्यं काकुत्स्थमिदमब्रवीत् ॥ १ ॥

 अथ 'त्रीन् पथो हेतुना केन' इत्यादिप्रश्नस्य चोत्तरार्थं उपोद्धातः-तां कथामित्यादि । इदमपरं वाक्यमिति । [४९९]अपृष्टोत्तरं वक्ष्यमाणरूपमिति शेषः ॥ १ ॥

 अयोध्याधिपतिः शूरः पूर्वमासीन्नराधिपः ।
 सगरो नाम धर्मात्मा प्रजाकामः स[५००] चाप्रजः ॥ २ ॥

 यस्मात् अप्रजः तस्मात् प्रजाकामः अभूत् ॥ २ ॥


 वैदर्भदुहिता ! राम ! केशिनी नाम नामतः ।
 ज्येष्ठा सगरपत्नी सा धर्मिष्ठा सत्यवादिनी ॥ ३ ॥

 विदर्भाधिपतेरपत्यं । 'जनपदशब्दात् क्षत्रियादञ्' इत्यञ् ॥ ३॥

 अरिष्टनेमिदुहिता रूपेणाप्रतिमा भुवि ।
 द्वितीया सगरस्यासीत् पत्नी सुमतिसंज्ञिता ॥ ४ ॥

 अरिष्टनेमिः-काश्यपः, तस्य दुहिता तथा । 'सुपर्णभगिनी' इत्यारात्प्रयोगात् अरिष्टनेमिः काश्यपः ॥ ४

 ताभ्यां सह तथा राजपत्निभ्यां तप्तवांस्तपः ।
 हिमवन्तं समासाद्य भृगुप्रस्रवणे गिरौ ॥ ५ ॥

 भृग्वधिष्ठितं प्रस्रवणं-प्रवाहः यस्मिन् स तथा । गिरौ-हिमवतः पादपर्वत इति यावत् ॥ ५ ॥

 अथ वर्षशते पूर्णे तपसाऽऽराधितो मुनिः ।
 सगराय वरं प्रादात् भृगुः सत्यवतां वरः ॥ ६ ॥
 अपत्यलाभः सुमहान् भविष्यति तवानघ !
 कीर्तिं चाप्रतिमां लोके प्राप्स्यसे पुरुषर्षभ ! ॥ ७ ॥
 एका जनयिता तात ! पुत्रं वंशकरं तव ।
 षष्टिं पुत्रसहस्राणि अपरा जनयिष्यति ॥ ८ ॥

 तातेति उपलालने । जनयितेति लुट् । षष्टिमिति । निपातना- देकवचनान्तस्य सहस्राणीत्यनेन सामानाधिकरण्यम् ॥ ८ ॥

 भाषमाणं महात्मानं राजपुत्र्यौ प्रसाद्य तम् ।
 ऊचतुः परमप्रीते कृताञ्जलिपुटे तदा ॥ ९ ॥

 भाषमाणमिति । राजपुत्र्याविति छत्रिन्यायेन वादः ॥ ९ ॥

 एकः कस्य सुतो ब्रह्मन् ! का बहून् जनयिष्यति ।
 श्रोतुमिच्छावहे ब्रह्मन् ! सत्यमस्तु वचस्तव ॥ १० ॥
 तयोस्तद्वचनं श्रुत्वा भृगुः परमधार्मिकः ।
 उवाच परमां वाणीं स्वच्छन्दोऽत्र विधीयताम् ॥ ११ ॥

 स्वच्छन्दोऽत्रेति । अत्र-उक्तयुष्मत्प्रश्नविषये स्वच्छन्द एव-युष्मदिच्छैव, न तु मया अस्या एकः, अस्य बहव इति निर्णेतव्यं; अत एकोऽस्तु वा बहवो वा सन्तु, यस्यै कस्यै वा । अतः का, कं वरमिच्छामीति भवतीभ्यामेव विधीयतां-नियमः क्रियताम् ॥ ११ ॥

 एको वंशकरो वाऽस्तु बहवो वा महाबलाः !
 कीर्तिमन्तो महोत्साहाः, का वा कं वरमिच्छति ॥ १२ ॥

 वंशकरः-कृञन्तो हेतौ, वंशवृद्धिहेतुत्वगुणोऽत्र वर्णितः ॥ १२ ॥

 मुनेस्तु वचनं श्रुत्वा केशिनी रघुनन्दन !
 पुत्रं वंशकरं राम ! जग्राह नृपसन्निधौ ॥ १३ ॥

 नृपसन्निधावित्यनेन तस्यापि साक्षित्वमात्रं, तस्याप्येकानेक- वरणनियमाकर्तृतेत्यावेदितम् ॥ १३ ॥

 षष्टिं पुत्र सहस्राणि सुपर्णभगिनी तदा ।
 महोत्साहान् कीर्तिमतो जग्राह सुमतिः सुतान् ॥ १४ ॥

 सुपर्णो गरुडः ॥ १४ ॥

 प्रदक्षिणमृषिं कृत्वा शिरसाऽभिप्रणम्य च ।
 जगाम स्वपुरं राजा सभार्यो रघुनन्दन ! ॥ १५ ॥
 अथ काले गते तस्मिन् ज्येष्ठा पुत्रं व्यजायत ।
 असमञ्ज इति ख्यातं केशिनी सगरात्मजम् ॥ १६ ॥

 व्यजायत-प्रसूतवती ॥ १६ ॥

 सुमतिस्तु नरव्याघ्र ! गर्भतुम्बं व्यजायत ।
 षष्टिः पुत्राः सहस्राणि तुम्बभेदाद्विनिस्सृताः ॥ १७ ॥

 गर्भतुम्भं-गर्भावरणकोशस्तुम्बम् । तुम्बमिति । जालगर्भयुक्ततुम्बानि व्यजायतेति यावत् । कथं तप्तः पुत्रोदय इत्यतः-षष्टिरित्यादि । तुम्बभेदादिति । न तु गान्धार्या इव पश्चाद्विभजनीया इत्यर्थः ॥ १७ ॥

 घृतपूर्णेषु कुम्भेषु धात्रयस्तान् समवर्धयन् ।
 कालेन महता सर्वे यौवनं प्रतिपेदिरे ॥ १८ ॥

 तान्-वियुक्ततुम्बान् ॥ १८ ॥

 अथ दीर्घेण कालेन रूपयौवनशालिनः ।
 षष्टिः पुत्रसहस्राणि सगरस्याभवंस्तदा ॥ १९ ॥
 स च ज्येष्ठो नरश्रेष्ठः सगरस्यात्मसम्भवः ।
 बालान् गृहीत्वा तु जले सरय्वा रघुनन्दन ! ॥ २० ॥
 प्रक्षिप्य ग्राहसन्नित्यं मज्जतस्तान् समीक्ष्य वै ।

 ज्येष्ठस्तु असमञ्जः बालान् जले प्रक्षित्य मज्जतस्तान् समीक्ष्य प्राहसत्-प्रहासं कृत्वा स्थितवानिति यावत् ॥ २० ॥

 एवं पापसमाचारः सज्जनप्रतिबाधकः ॥ २१ ॥
 पौराणामहिते युक्तः पुत्रो निर्वासितः पुरात् ।

 जनानां प्रतिबाधको जनप्रतिबाधकः । निर्वासितः-निष्कासितः ॥

 तस्य पुत्रोंऽशुमान्नाम असमञ्जस्य वीर्यवान् ॥ २२ ॥
 संमतः सर्वलोकस्य सर्वस्यापि प्रियंवदः ।

 तस्य असमञ्जस्य अंशुमान् प्रियंवदत्वादिगुणयुक्तत्वात् पितामहस्य-सगरस्य समीपे स्थितः ॥ २२ ॥

 ततः कालेन महता मतिस्समभिजायत ॥ २३ ॥
 सगरस्य नरश्रेष्ठ ! यजेयमिति निश्चिता ।
 स कृत्वा निश्चयं राम ! सोपाध्यायगणस्तदा ॥ २४ ॥
 यज्ञकर्मणि वेदज्ञो यष्टुं समुपचक्रमे ।

इत्यार्षे श्रीमद्रामायणे बालकाण्डे अष्टात्रिंशः सर्गः

 [५०१]मार (२५) मानः सर्गः ॥ २५ ॥

इति श्रीमद्रामायणामृतकतकटीकायां बालकाण्डे अष्टात्रिंशः सर्गः


अथ एकोनचत्वारिंशः सर्गः
[ सगरपुत्रैः पृथिवीविदारणम् ]

 विश्वामित्रवचः श्रुत्वा कथाऽन्ते रघुनन्दनः ।
 उवाच परमप्रीतो मुनिं दीप्तमिवानलम् ॥ १ ॥

एवं यज्ञोपक्रमणश्रवणे सति तस्य सार्वभौमस्वपूर्वकर्तृकत्वात् तत्सिद्धिविस्तारशुश्रूषया रामप्रश्ने तत्प्रतिपादनं । विश्वामित्रेत्यादि । कथान्ते-यज्ञोपक्रम[५०२]कथनानन्तरम् ॥ १ ॥

 श्रोतुमिच्छामि, भद्रं ते, विस्तरेण कथामिमाम् ।
 [५०३]पूर्वको मे कथं ब्रह्मन् ! यज्ञं वै समुपाहरत् ॥ २ ॥


 इमामिति । [५०४]

यज्ञोपार्जनकथामित्यर्थः । ननु कस्ते इह आदरातिशय इत्यतः-पूर्वक इत्यादि । मद्वंशकूटस्थ इत्यर्थः ॥ २ ॥

 विश्वामित्रस्तु काकुत्स्थमुवाच प्रहसन्निव ।
 श्रूयतां विस्तरो राम ! सगरस्य महात्मनः ॥ ३ ॥

 स्ववंश्य इति कृत्वा रामस्य च लोकवत् स्नेहः सम्पन्न इति प्रहासः । इव शब्द एवार्थे । प्रसन्नो भूत्वैवेति यावत् । कथामध्ये पुनः कथान्तरप्रश्ने शाखाचङ्क्रमजकोपमकृत्वैवेत्यर्थः । विस्तर इति । यज्ञस्येति शेषः ॥ ३ ॥

 शङ्करश्वशुरो राम ! हिमवानचलोत्तमः ।
 विन्ध्यपर्वतमासाद्य निरीक्षेते परस्परम् ॥ ४ ॥

 विन्ध्यपर्वतमासाद्य-मध्ये महापर्वतनिरोधाभावात् प्राप्य, तथा विन्ध्योऽपि हिमवन्तमित्येवं परस्परमासाद्य प्रागुक्तवीक्षानिरोधाभावादेव निरीक्षेते-अन्योन्यदर्शनं सख्यप्रयुक्तमनुभवतः ॥ ४ ॥

 तयोर्मध्ये प्रवृत्तोऽभूद्यज्ञः स पुरुषोत्तम !
 स हि देशो नरव्याघ्र ! प्रशस्तो यज्ञकर्मणि ॥ ५॥

 किं तत इत्यतः-तयोरित्यादि । स हि प्रशस्त इति । 'आर्यावर्तः पुण्यभूमिर्मध्यं विन्ध्यहिमालयोः' इति वचनात् । प्रशस्तः-प्रसिद्ध इत्यर्थः ॥ ५ ॥

 तस्याश्वचर्यां काकुत्स्थ ! दृढधन्वा महारथः ।
 अंशुमानकरोत्तात ! सगरस्य मते स्थितः ॥ ६ ॥

 चर्या-रक्षा । दृढधन्वा-'धनुषश्च' इत्यनङ् । मते-शासने ॥


 तस्य पर्वणि तं यज्ञं यजमानस्य वासवः ।
 राक्षसीं तनुमास्थाय यज्ञियाश्वमपाहरत् ॥ ७ ॥

 पर्वणि-[५०५]उक्थ्याह । तं यज्ञामति । विहन्तुमिति शेषः । यज्ञियः-यज्ञार्हश्वासावश्वस्तथा । 'यज्ञर्त्विग्भ्याम्' इति घः ॥ ७ ॥

 हियमाणे तु काकुत्स्थ ! तस्मिन्नश्वे महात्मनः ।
 उपाध्यायगणाः सर्वे यजमानमथाब्रुवन् ॥ ८ ॥
 अयं पर्वणि वेगेन यज्ञियाश्वोऽपनीयते ।
 हर्तारं जहि काकुत्स्थ ! हयश्चैवोपनीयताम् ॥ ९ ॥
 यज्ञच्छिद्रं भवत्येतत् सर्वेषामशिवाय नः ।
 तत्तथा क्रियतां राजन् ! यथाऽच्छिद्रः क्रतुर्भवेत् ॥ १० ॥

 अच्छिद्र इति पदम् ॥ १० ॥

 उपाध्यायवचः श्रुत्वा तस्मिन् सदसि पार्थिवः ।
 षष्टिं पुत्रसहस्राणि वाक्यमेतदुवाच ह ॥ ११ ॥
 गतिं पुत्राः ! न पश्यामि रक्षसां पुरुषर्षभाः ।
 मन्त्रपूतैर्महाभागैरास्थितो हि महाक्रतुः ॥ १२ ॥

 हे पुत्राः ! हि-यस्मात् महाक्रतुः मन्त्रपूतैर्महाभागैरास्थितः-अधिष्ठितः तस्मात्तस्यास्य रक्षसां मायया यदि छिद्रं स्यात्तदाऽस्माकं गतिं न पश्यामि । तथा तैर्महाभागैरुक्तं 'यज्ञच्छिद्रं भवत्येतत् सर्वेषामशिवाय नः' इति ॥ १२ ॥

 तद्गच्छत विचिन्वध्वं पुत्रकाः ! भद्रमस्तु वः ।
 [५०६]समुद्रमालिनीं सर्वां पृथिवीमनुगच्छत ॥ १३ ॥


 तत्-तस्मात् गच्छतेत्यादि । अनुगच्छत । अन्विष्यध्वमिति

यावत् ॥ १३ ॥

 यावत्तुरगसन्दर्शः तावत् खनत मेदिनीम् ।
 तं चैव हयहर्तारं मार्गमाणा ममाज्ञया ॥ १४ ॥

 भूमेरुपर्यन्वेषणे[५०७] न लब्धं चेत्तदा-यावत्तुरगेत्यादि ॥ १४ ॥

 दीक्षितः पौत्रसहितः सोपाध्यायगणो ह्यहम् ।
 इह स्थास्यामि, भद्रं वः, यावत्तरगदर्शनम् ॥ १५ ॥

 स्वस्य तुरगानुगमनमयुक्तमित्याह-दीक्षित इत्यादि । यस्माद्दीक्षितः, तस्मात् 'गर्भो वा एष यद्दीक्षितो योनिर्दीक्षितविमितम्' इत्यादिना 'न प्रवस्तव्यम्' इति निषेधात् अहमिह स्थास्यामि, पौत्रस्य [५०८]बालत्वतः तत्सहित एव तिष्ठामि ॥ १५ ॥

 इत्युक्ता हृष्टमनसो राजपुत्रा महाबलाः ।
 [५०९]जग्मुर्महीतलं राम ! पितुर्वचनयन्त्रिताः ॥ १६ ॥

 यन्त्रिताः-नियुक्ताः ॥ १६ ॥

 योजनायामविस्तारमैकैको धरणीतलम् ।
 बिभिदुः पुरुषव्याघ्र ! वज्रस्पर्शसमैर्नखैः ॥ १७ ॥

 आयामः-दैर्ध्यं । विस्तारः-विशालता च । एकैको धरणीतलं सर्वमपि सस्नेहात्-समुदं बिभिदुरित्यर्थः ॥ १७ ॥


 शूलैरशनिकल्पैश्च हलैश्चापि सुदारुणैः ।
 भिद्यमाना वसुमती ननाद रघुनन्दन ! ॥ १८ ॥

 भिद्यमानेति । सर्वत इति शेषः । वसुमतीति । तद्वर्तिसर्वस्रोतांसीति यावत् ॥ १८ ॥

 नागानां वध्यमानानां असुराणां च राघव !
 राक्षसानां च दुर्धर्षः सत्त्वानां निनदोऽभवत् ॥ १९ ॥
 योजनानां सहस्राणि षष्टिं तु रघुनन्दन !
 बिभिदुर्धरणीं वीक्ष्य रसातलमनुत्तमम् ॥ २० ॥

 योजनानामित्यादि । पितृनियुक्तमार्गेण सर्वां सन्दिग्धां खननोपेतां विचित्य पृथिव्यधोभागं रसातलमेव विचेतुं धरणीं एकैकत: योजनानां सहस्राणि षष्टिं तु बिभिदुः ॥ २० ॥

 एवं पर्वतसम्बाधं जम्बूद्वीपं नृपात्मजाः ।
 खनन्तो नरशार्दूल ! सर्वतः परिचक्रमुः ॥ २१ ॥

 पर्वतैस्सम्बाधः-नैबिढ्यं-यस्य तत्तथा ॥ २१ ॥

 ततो देवास्सगन्धर्वाः सासुरास्सहपन्नगाः ।
 सम्भ्रान्तमनसः सर्वे पितामहमुपागमन् ॥ २२ ॥
 ते प्रसाद्य महात्मानं विषण्णवदनास्तदा ।
 उचुः परमसंत्रस्ताः पितामहमिदं वचः ॥ २३ ॥
 भगवन् ! पृथिवी सर्वा खन्यते सगरात्मजैः ।
 बहवश्च महात्मनो हन्यन्ते तलवासिनः ॥ २४ ॥

 तलवासिनो महात्मान इति । कपिलवद्रसातलवासिनो महात्मानः सिद्धगन्धर्वादयः इत्यर्थः ॥ २४ ॥

 अयं यज्ञहरोऽस्माकं अनेनाश्वोऽपनीयते ।
 इति ते सर्वभूतानि निघ्नन्ति सगरात्मजाः ॥ २५ ॥

इत्यार्षे श्रीमद्रामायणे बालकाण्डे एकोनचत्वारिंशः सर्गः

 अपनीयते-अपनीयते स्म इति तत्प्रसङ्गरहितानि सर्वभूतानि राजवदविचार्यैव घ्नन्तीत्यर्थः । माद्री (२५) मानः तर्गः ॥ २५ ॥

इति श्रीमद्रामायणामृतकतकटीकायां बालकाण्डे एकोनचत्वारिंशः सर्गः


अथ चत्वारिंशः सर्गः
[सगरपुत्राणां भस्मीभावः]

 देवतानां वचः श्रुत्वा भगवान् वै पितामहः ।
 प्रत्युवाच सुसंत्रस्तान् कृतान्तबलमोहितान् ॥ १ ॥

 एवं भगवता त्रस्तपुत्रत्राणोपदेशपूर्वकं पुनश्च प्रकृतप्रवृत्युपदेशः । देवतानामित्यादि । कृतान्तति । कृत अन्तः– प्रागुक्तरीत्या सर्वलोक-नाशः यैस्तानि तथा, तानीमानि सगरसुतबलानि तथा, तैर्मोहिताः-मूर्च्छितचित्तास्तथा ॥ १ ॥

 यस्येयं वसुधा कृत्स्ना वासुदेवस्य धीमतः ।
 [५१०]कापिलं रूपमास्थाय धारयत्यनिशं धराम् ॥ २ ॥

 कृत्स्नाऽपीयं वसुधा यस्येति । जलभूमयविराजो भूप्रधानमूर्तित्वाद्वासुदेवस्य भूमेः असाधारणस्वत्वम् । धारयतीति । योगबलनेति शेषः ॥ २ ॥


 तस्य कोपाग्निना दग्धा भविष्यन्ति नृपात्मजाः ।
 पृथिव्याश्चापि निर्भेदो दृष्ट एव सनातनः ॥ ३ ॥
 सगरस्य च पुत्राणां विनाशो [५११]दीर्घदर्शिनाम् ।

 पृथिव्या निर्भेदश्च सनातनः-प्रतिकल्पमवश्यंभावी, श्रौतस्मार्त- सागरादिशब्दैवा[५१२]दृष्ट एव । अत एव यथाप्राप्तार्थ इति न तत्र शोकः कार्य इति शेषः । दीर्घदर्शिनां अस्माकं सगरस्य पुत्राणां विनाशस्तु द्रष्टव्य एव । अतः सोऽपि भविष्यति । अतो न शोकः कार्य इत्यर्थः ॥ ४ ॥

 पितामहवचः श्रुत्वा त्रयस्त्रिंशदरिन्दम ! ॥ ४ ॥
 देवाः परमसंहृष्टाः पुनर्जग्मुर्यथागतम् ।
 सगरस्य च पुत्राणां प्रादुरासीन्महात्मनाम् ॥ ५ ॥
 पृथिव्यायां भिद्यमानायां निर्घातसमनिस्वनः ।

 प्रकृतकार्यप्रवृत्तिः– सगरस्येत्यादि । ५-६ ॥

 ततो भित्वा महीं सर्वे कृत्वा चापि प्रदक्षिणम् ॥ ६॥
 सहिताः सागरास्सर्वे पितरं वाक्यमब्रुवन् ।

 सहिताः-एकत्र संहताः ॥ ७ ॥

 परिक्रान्ता मही सर्वा सत्त्ववन्तश्च सूदिताः ॥ ७ ॥
 देवदानवरक्षांसि पिशाचोरगकिन्नराः ।
 न च पश्यामहेऽश्व तमश्वहर्तारमेव च ॥ ८ ॥
 किं करिष्याम, भद्रं ते, बुद्धिरत्र विचार्यताम् ।


 ते अस्मासु भद्रं-अनुग्रहबुद्धिरस्तु । वयं किं करिष्यामः,

सलोपश्छान्दसः ॥ ८ ॥

 तेषां तद्वचनं श्रुत्वा पुत्राणां राजसत्तमः ॥ ९ ॥
 समन्युरनवीद्वाक्यं सगरो रघुनन्दन !
 भूयः खनत, भद्रं वः, निर्भिद्य वसुधातलम् ॥ १० ॥
 अश्वहर्तारमासाद्य कृतार्थाश्च निवर्तथ ।

 भूयो निर्भिद्येति योजना। निवर्तथ–व्यत्ययात् परस्मैपदम्-निवर्तध्वम् ॥ १० ॥

 पितुर्वचनमासाद्य सगरस्य महात्मनः ॥ ११ ॥
 षष्टिः पुत्रसहस्राणि रसातलमभिद्रवन् ।
 खन्यमाने ततस्तस्मिन् ददृशुः पर्वतोपमम् ॥ १२ ॥
 दिशागजं विरूपाक्षं धारयन्तं महीतलम् ।

 खन्यमाने इति । षष्टियोजनसहस्रात्परमपीति शेषः । दिशागजमिति । वाचानिशादिशब्दानां हलन्तानामप्यजादिगणपाठतष्टाप् ॥

 सपर्वतवनां कृत्स्नां पृथिवीं रघुनन्दन ! ॥ १३ ॥
 शिरसा धारयामास विरूपाक्षो महागजः ।

 कृत्स्नामिति । तद्दिक्प्रदेशावच्छिन्नामिति शेषः ॥ १३ ॥

 यदा पर्वणि काकुत्स्थ ! विश्रमार्थं महागजः ॥ १४ ॥
 खेदाच्चालयते शीर्षं भूमिकम्पस्तदा भवेत् ।

 यदा पर्वणि-यस्मिन् काले । “तिथिभेदे क्षणे पर्व" इति

निघण्टुः ॥ १४ ॥

 ते तं प्रदक्षिणं कृत्वा दिशापालं महागजम् ॥ १५ ॥
 मानयन्तो हि ते राम ! जग्मुर्भित्वा रसातलम् ।

 मानयन्त इति । दिशागजमिति शेषः ॥ १६ ॥

 ततः पूर्वां दिशं भित्वा दक्षिणां बिभिदुः पुनः ॥ १६ ॥
 दक्षिणस्यामपि दिशि ददृशुस्ते महागजम् ।
 महापद्मं महात्मानं सुमहत्पर्वतोपमम् ॥ १७ ॥
 शिरसा धारयन्तं ते विस्मयं जग्मुरुत्तमम् ।
 ततः प्रदक्षिणं कृत्वा सगरस्य महात्मनः ॥ १८ ॥
 षष्टिः पुत्रसहस्राणि पश्चिमां बिभिदुर्दिशम् ।
 पश्चिमायामपि दिशि महान्तमचलोममम् ॥ १९ ॥
 दिशागजं सौमनसं ददृशुस्ते महाबलाः ।
 तं ते प्रदक्षिणं कृत्वा पृष्ट्वा चापि निरामयम् ॥ २० ॥
 खनन्तः समुपक्रान्ता दिशं हैमवतीं ततः ।

 निरामयं । कुशलमिति यावत् । खनन्तः-खननं कुवार्णाः ते हैमवतीं दिशं तदा समुपक्रान्ताः-उपगतवन्तः ॥ २१ ॥

 उत्तरस्यां रघुश्रेष्ठ ! ददृशुर्हिमपाण्डुरम् ॥ २१ ॥
 भद्रं भद्रेण वपुषा धारयन्तं महीमिमाम् ।
 समालभ्य ततः सर्वे कृत्वा चैनं प्रदक्षिणम् ॥ २२ ॥
 षष्टिः पुत्रसहस्राणि बिभिदुर्वसुधातलम् ।

 समालभ्य-उपलभ्येति यावत् ॥ २३ ॥

 ततः प्रागुत्तरां गत्वा सागराः प्रथितां दिशम् ॥ २३ ॥
 रोषादभ्यखनन् सर्वे पृथिवीं सगरात्मजाः ।

 प्रागुत्तरयोरन्तरालं-प्रागुत्तरां-ईशान-दिशामिति यावत् ॥ २३ ॥

 ते तु सर्वे महात्मानो भीमवेगा महाबलाः ॥ २४ ॥
 ददृशुः कपिलं तत्र वासुदेवं सनातनम् ।
 हयं च तस्य देवस्य चरन्तमविदूरतः ॥ २५ ॥
 प्रहर्षमतुलं प्राप्ताः सर्वे ते रघुनन्दन !
 ते तं [५१३]यज्ञहनं ज्ञात्वा क्रोधपर्याकुलेक्षणाः ॥ २६ ॥
 खनित्रलाङ्गलधरा नानावृक्षशिलाधराः ।
 अभ्यधावन्त संक्रुद्धाः तिष्ठ तिष्ठेति चाब्रुवन् ॥ २७ ॥

 ते तमिति । तं-कपिलमेव यज्ञहनं-यज्ञं हन्तीति, पचाद्यच्, अविचारतस्तमेवाश्वापहारद्वारा यज्ञहन्तारं ज्ञात्वा इत्यर्थः ॥ २७ ॥

 अस्माकं त्वं हि तुरगं यज्ञियं हृतवानसि ।
 दुर्मेधः ! त्वं हि संप्राप्तान् विद्धि नः सगरात्मजान् ॥ २८ ॥
 श्रुत्वा तु वचनं तेषां कपिलो रघुनन्दन !
 रोषेण महताऽऽविष्टो हुङ्कारमकरोत्तदा ॥ २९ ॥
 ततस्तेनाप्रमेयेन कपिलेन महात्मना ।
 भस्मराशीकृताः सर्वे, काकुत्स्थ ! सगरात्मजाः ॥ ३० ॥

इत्यार्षे श्रीमद्रामायणे बालकाण्डे चत्वारिंशः सर्गः

 नीड (३०) मानः सर्गः ॥ ३० ॥

इति श्रीमद्रामायणामृतकतकटीकायां बालकाण्डे चत्वारिंशः सर्गः


अथ एकचत्वारिंशः सर्गः
[सगरयज्ञसमापनम्]

 पुत्रांश्चिरगतान् ज्ञात्वा सगरो रघुनन्दन !
 नप्तारमब्रवीद्राजा दीप्यमानं स्वतेजसा ॥ १ ॥

 एवमश्ववदश्वान्वेषिष्वपि प्रत्यागमनरहितेषु सगरस्य तदुभयान्वेषणप्रवृत्तिः-पुत्रानित्यादि । चिरगतान् ज्ञात्वेति । अप्रत्यायातानिति शेषः । नप्तारं-पौत्रम् ॥ १ ॥

 शूरश्च कृतविद्यश्च पूर्वैस्तुल्योऽसि तेजसा ।
 पितॄणां गतिमन्विच्छ येन चाश्वोऽपवाहितः ॥ २ ॥

 पूर्वैः-पितृभिः । गतिं-वृत्तान्तं । येन चाश्वोऽपवाहितः-देशान्तरं प्रापितः, तद्गतिं च अन्विच्छ ॥ २ ॥

 अन्तर्भौमानि सत्त्वानि वीर्यवन्ति महान्ति च ।
 तेषां त्वं प्रतिघातार्थं सासिं गृह्णीष्व कार्मुकम् ॥ ३ ॥

 भूमेरन्तः यानि भौमानि-भूबिलमाश्रितानि सत्त्वानि-महानागप्रमुखानि सन्ति । कार्मुकाविषयासन्नसंहारार्थं-सासिमिति ॥ ३ ॥

 अभिवाद्याभिवाद्यांस्त्वं हत्वा विकरानपि ।
 सिद्धार्थस्सन्निवर्तस्व मम यज्ञस्य पारगः ॥ ४ ॥

 अभिवाद्यान्–अभिवादनमर्हन्तीत्यभिवाद्याः, 'तदर्हति' इति यत् । सिद्धार्थस्सन्निवर्तस्व । अश्वमेधयज्ञस्य पारगः, अन्तर्भाविताणिः,गमैः 'अन्तात्यन्त' इत्यादिना ढः, पारप्रापकश्च भव ॥ ४ ॥

 एवमुक्तोंऽशुमान् सम्यक् सगरेण महात्मना ।
 धनुरादाय खड्गं च जगाम लघुविक्रमः ॥ ५ ॥

 सुखातं पितृभिर्मार्गं अन्तर्भौमं महात्मभिः ।
 प्रापद्यत नरश्रेष्ठः तेन राज्ञाऽभिचोदितः ॥ ६ ॥

 महात्मभिः पितृभिः भूमेरन्तः सुखातं भौममेव मार्गं तद्वृ त्तान्तपरिज्ञानाय प्रापद्यत ॥ ६ ॥

 दैत्यदानवरक्षोभिः पिशाचपतगोरगैः ।
 पूज्यमानं महातेजा दिशागजमपश्यत ॥ ७ ॥
 स तं प्रदक्षिणं कृत्वा पृष्ट्वा चैव निरामयम् ।
 पितॄन् स परिपप्रच्छ वाजिहर्तारमेव च ॥ ८ ॥

 परिपप्रच्छेति । 'क्व आसत इति' इति शेषः ॥ ८ ॥

 दिशागजस्तु तच्छ्रुत्वा प्रत्याहांशुमतो वचः ।
 आसमञ्ज ! कृतार्थस्त्वं सहाश्वः शीघ्रमेष्यसि ॥ ९ ॥

 आसमञ्ज-असमञ्जसुत ! इञभाव आर्षः शीघ्रमेष्यसीति । स्ययमेवान्वेषणादिति शेषः ॥ ९ ॥

 तस्य तद्वचनं श्रुत्वा सर्वानेव दिशागजान् ।
 यथाक्रमं यथान्यायं प्रष्टुं समुपचक्रमे ॥ १० ॥
 तैश्च सर्वेर्दिशापालैर्वाक्यज्ञैर्वाक्यकोविदैः ।
 पूजितः सहयश्चैव गन्ताऽसीत्यभिचोदितः ॥ ११ ॥

 वाक्यज्ञैः–वक्तुमर्हं–वाक्यम् । ॠहलोर्ण्यत्' ।

चजोः कु' इति कुत्वम् । वाक्यकोविदैः । तयोरेव भावे कृत्यः, कालदेशादिवक्तव्यतत्त्वज्ञैः । तदुचितवचनसमर्थैश्चेत्यर्थः । तदुचितवचनं च–स्वयमेवान्विष्येत्यस्मदुक्तरूपम् ॥ ११ ॥

 तेषां तद्वचनं श्रुत्वा जगाम लघुविक्रमः ।
 भस्मराशीकृता यत्र पितरस्तस्य सागराः ॥ १२ ॥

 सागराः-तस्य पितरो यत्र भस्मराशीकृताः तं प्रदेश जगाम ॥

 स दुःखवशमापन्नस्त्वसमञ्जसुतस्तदा ।
 चुक्रोश परमार्तस्तु वधात्तेषां सुदुःखितः ॥ १३ ॥

 दुःखवशमापन्न इति। गत्वा, दृष्ट्वा च भस्मीभूतपितृनिति शेषः ॥ १३ ॥

 यज्ञियं च हयं तत्र चरन्तमविदूरतः ।
 ददर्श पुरुषव्याघ्रो दुःखशोकसमन्वितः ॥ १४ ॥
 स तेषां राजपुत्राणां कर्तुकामो जलक्रियाम् ।
 सलिलार्थी महातेजा न चापश्यञ्जलाशयम् ॥ १५ ॥
 विसार्य निपुणां दृष्टिं ततोऽपश्यत् खगाधिपम् ।
 पितॄणां मातुलं राम ! सुपर्णमानिलोपमम् ॥ १६ ॥

 विसार्य–समन्तात् प्रसार्येत्यर्थः । निपुणां-दूरवीक्षणसमर्थाम् । पितृणां मातुलमिति । सुवर्णभगिनी सुमतिरिति प्रागेवोक्तत्वात् । अनिलोपममिति । वेगेनेति शेषः ॥ १६ ॥

 स चैवमब्रवीद्वाक्यं वैनतेयो महाबलः ।
 मा शुचः, पुरुषव्याघ्र ! वधोऽयं लोकसम्मतः ॥ १७ ॥

 माशुच इति । च्लेरङ् । कश्चित् मृषाह द्युतादित्वादाङिति, द्युतादिस्सर्वस्तङन्त एव, शुचिस्तु नास्ति तत्र । लोकसम्मतः-लोकहितः । अत एव 'क्तेन च पूजायाम्' इति परोच्यमानषष्ठीसमासनिषेधाप्रसङ्गः ॥

 कपिलेनाप्रमेयेन दग्धा हीमे महाबलाः ।
 सलिलं नार्हसि प्राज्ञ ! दातुमेषां हि लौकिकम् ॥ १८ ॥

 हि यस्मात् अप्रमेयेन-महात्मना कपिलेन दग्धाः अत एव लौकिकं सलिलं दातुं नार्हसि । 'चाण्डालादुदकात् सर्पाद्वैद्युतात् ब्राह्मणादपि । दंष्ट्रिभ्यश्च पशुभ्यश्च मरणं पापकर्मणाम् । उदकं पिण्डदानं च प्रेतेभ्यो यद्विधीयते । नोपतिष्ठति तत्सर्वमन्तरिक्षे विनश्यति ॥” इति स्मृतेरित्याशयः । प्रकृते ब्राह्मणाद्वधः ॥ १८ ॥

 गङ्गा हिमवतो ज्येष्ठा दुहिता पुरुषर्षभ !
 तस्यां कुरु महाबाहो ! पितॄणां तु जलक्रियाम् ॥ १९ ॥
 भस्मराशीकृतानेतान् प्लावयेल्लोकपावनी ।
 तया क्लिन्नमिदं भस्म गङ्गया लोककान्तया ॥ २० ॥
 [५१४]षष्टिं पुत्रसहस्त्राणि स्वर्गलोकं नयिष्यति ।

 [५१५]गङ्गायां जलक्रियां कुर्वित्युक्ते-तर्हि देवलोकगत्या गङ्गयोदकक्रिया कार्येति शङ्कायामाह-भस्मेत्यादि । यदा प्लावयेत्तदा क्लिन्नमिति योजना । नयिष्यति । गङ्गोदकसेकरूपसंस्कारेणेति शेषः ॥ २० ॥

 गच्छ चाश्वं महाभाग ! सङ्गृह्य पुरुषर्षभ !
 यज्ञं पैतामहं वीर ! निर्वर्तयितुमर्हसि ॥ २१ ॥
 सुपर्णवचनं श्रुत्वा सोंऽशुमानतिवीर्यवान् ।
 त्वरितं हयमादाय पुनरायान्महायशाः ॥ २२ ॥
 ततो राजानमासाद्य दीक्षितं रघुनन्दन !
 न्यवेदयद्यथावृत्तं सुपर्णवचनं तथा ॥ २३ ॥
 यथावृत्तमिति । पितृव्यविषयकमिति शेषः ॥ २३ ॥


 तच्छ्रुत्वा घोरसङ्काशं वाक्यमंशुमतो नृपः ।
 यज्ञं निर्वतयामास यथाकल्पं यथाविधि ॥ २४ ॥
 स्वपुरं चागमच्छ्रीमान् इष्टयज्ञो महीपतिः ।
 गङ्गायाश्चागमे राजा निश्चयं नाध्यगच्छत ॥ २५ ॥

 इष्टः यज्ञः यस्येति बहुव्रीहिः । आगम इति । भूमावागम-इत्यर्थः । निश्चयं-उपायनिश्चयं । अध्यगच्छतेति तङ् व्यत्ययात् ॥

 अकृत्वा निश्चयं राजा कालेन महता महान् ।
 त्रिंशद्वर्षसहस्राणि राज्यं कृत्वा दिवं गतः ॥ २६ ॥

इत्यार्षे श्रीमद्रामायणे बालकाण्डे एकचत्वारिंशः सर्गः

 [५१६]चारु (२६) मानः सर्गः ॥ २६ ॥

इति श्रीमद्रामायणामृतकतकटीकायां बालकाण्डे एकचत्वारिंशः सर्गः

अथ द्विचत्वारिंशः सर्गः
[भगीरथतपः]

 कालधर्मं गते, राम ! सगरे प्रकृतीजनाः ।
 राजानं रोचयामासुरंशुमन्तं सुधार्मिकम् ॥ १ ॥

 अथ गङ्गायास्त्रिपथगमनहेतुप्रकार एव प्रस्तुतः प्रतिपाद्यते- कालधर्ममित्यादि । संसारिमात्रस्य कालेनावश्यंभावी धर्मः कालधर्मः, मरणामिति यावत् । प्रकृतीजनाः इति छान्दसो दीर्घः । प्रकृतिजनः अमात्यवर्गः । "प्रकृतिस्सहजे योनावमात्ये परमात्मानि " । राजानं रोचयामासुरिति । न्यायप्राप्तत्वादेव ॥ १ ॥


 स राजा सुमहानासीदंशुमान् रघुनन्दन !
 तस्य पुत्रो महानासीद्दिलीप इति विश्रुतः ॥ २ ॥
 तस्मिन् राज्यं समावेश्य दिलीपे रघुनन्दन !
 हिमवच्छिखरे पुण्ये तपस्तेपे सुदारुणम् ॥ ३ ॥

 तपस्तेप इति । तपःकर्मकतपेः कर्मवद्भावात् सर्वत्रात्मनेपदमित्युक्तमेव । पितॄणां गतय इति शेषः ॥ ३ ॥

 द्वात्रिंशच्च सहस्राणि वर्षाणि सुमहायशाः ।
 तपोवनं गतो राम ! स्वर्गं लेभे तपोधनः ॥ ४ ॥
 दिलीपस्तु महातेजाः श्रुत्वा पैतामहं वधम् ।
 दुःखोपहतया बुद्ध्या निश्चयं नाध्यगच्छत ॥ ५ ॥

 पैतामहं वधमिति । स्वपितामहानां सागराणामपमृत्युमित्यर्थः ॥

 कथं गङ्गावतरणं कथं तेषां जलक्रिया ।
 तारयेयं कथं चैतानिति चिन्तापरोऽभवत् ॥ ६ ॥

 निश्चयानधिगतिरेवामिनीयते-कथमित्यादि ॥ ६ ॥

 तस्य चिन्तयतो नित्यं धर्मेण विदितात्मनः ।
 पुत्रो भगीरथो नाम जज्ञे परमधार्मिकः ॥ ७ ॥
 दिलीपस्तु महातेजा यज्ञैर्बहुभिरिष्टवान् ।
 त्रिंशद्वर्षसहस्राणि राजा राज्यमकारयत् ॥ ८ ॥
 अगत्वा निश्चयं राजा तेषामुद्धरणं प्रति
 व्याधिना नरशार्दूल ! कालधर्ममुपेयिवान् ॥ ९ ॥

 व्याधिनेति । पितॄणामुद्धरणालाभजदुःखजेनेति

शेषः ॥ ९ ॥

 इन्द्रलोकं गतो राजा स्वार्जितेनैव कर्मणा
 राज्ये भगीरथं पुत्रमभिषिच्य नरर्षभः ॥ १० ॥

 ननु राज्ये पुत्रं भगीरथमभिषिच्य इन्द्रलोकं दिलीपो गतवानिति इहोच्यते । कालिदासस्तु दिलीपपुत्रं रघुमाह । किमिह प्रमाणम् ? उभयमपि प्रमाणम् । भगीरथपुत्रकदिलीपादन्य एव तद्वंश्यो रघुपुत्रकदिलीप इति ॥ १० ॥

 भगीरथस्तु राजर्षिर्धार्मिको रघुनन्दन !
 अनपत्यो महातेजाः प्रजाकामः सचाप्रजः ॥ ११ ॥

 अनपत्य इत्यादि व्याकृतचरः ॥ ११ ॥

 मन्त्रिष्वाधाय तद्राज्यं गङ्गावतरणे रतः ।
 स तपो दीर्घमातिष्ठत् गोकर्णे रघुनन्दन ! ॥ १२ ॥

 गोकर्णः-हैमवतपादविशेष एव । तपस उत्तरत्रैव गन्तव्यत्वात् ॥

 ऊर्ध्वबाहुः पञ्चतपा मासाहारो जितेन्द्रियः ।
 तस्य वर्षसहस्राणि घोरे तपसि तिष्ठतः ॥ १३ ॥
 अतीतानि महाबाहो ! तस्य राज्ञो महात्मनः ।

 पञ्चाग्निमध्ये तपो यस्य सः पञ्चतपाः । मासस्य सकृदाहारो यस्य सः मासाहारः। उभावपि मध्यमपदलोपिसमासौ । परः पृषोदरादित्वात्साधुत्वमित्याह । तदसत्-यत्र वर्णविकारलोपादेशादि श्मशानबलाहकादिवत्, तत्रैव तेन साधुताया वक्तव्यत्वात् । काकदन्तपरीक्षां करिष्यामीति शाब्दिकत्वमत्या बहुस्थले मृषाप्राप्तीर्वदति । तत्सर्वं

मदुच्यमानरीतिदृक्शाब्दिकशिरोमणीनाममत्सराणां सुदर्शमित्यर्थवादाः अशक्यगणनातो नानूद्यन्ते । तदप्युच्यमानरीतितः पदवाक्यसाहित्य-निष्णातसूरिदर्शनम् ॥ १३ ॥

 सुप्रीतो भगवान् ब्रह्मा प्रजानां पतिरीश्वरः ॥ १४ ॥

 प्रजानां पतिरिति स्वापत्यत्वादेव । ईश्वर इति अनन्यसामान्यतया सर्वसंसारपञ्चकृत्य प्रवर्तकत्वात् ॥ १४ ॥

 ततस्सुरगणैस्सार्धं उपागम्य पितामहः ।
 भगीरथं महात्मानं तप्यमानमथाब्रवीत् ॥ १५ ॥
 भगीरथ महाभाग ! प्रीतस्तेऽहं जनेश्वर !
 तपसा च सुतप्तेन वरं वरय सुव्रत ! ॥ १६ ॥
 तमुवाच महातेजाः सर्वलोकपितामहम् ।
 भगीरथो महाभागः कृताञ्जलिरुपस्थितः ॥ १७ ॥
 यदि मे भगवन् ! प्रीतो यद्यस्ति तपसः फलम् ।
 सगरस्यात्मजास्सर्वे मत्तस्सलिलमाप्नुयुः ॥ १८॥

 यदि प्रीतः, यद्यस्ति इति वादो दुःखातिशयात् ॥ १८ ॥

 गङ्गायास्सलिलक्लिन्ने भस्मन्येषां महात्मनाम् ।
 स्वर्गं गच्छेयुरत्यन्तं सर्वे मे प्रपितामहाः ॥ १९ ॥

 मत्तस्सलिलमाप्नुयुरिति-कीदृशमित्यपेक्षायां-गङ्गाया इत्यादि । एषां भस्मनि गङ्गायास्सलिलक्लिन्न एव स्वर्गं गच्छेयुः, नान्यथा; तथा गरुत्मद्वचनात् । अतस्तादृशं सलिलं मत्तः आप्नुयुः ॥ १९ ॥

 देया च सन्ततिर्देव ! नावसीदेत् कुलं च नः ।
 इक्ष्वाकूनां कुले देव ! एष मेऽस्तु वरः परः ॥ २० ॥

 इक्ष्वाकूनां कुल इति । उत्पन्नस्य मम इति शेषः । परो वर इति । द्वितीयो वर इत्यर्थः ॥ २० ॥

 उक्तवाक्यं तु राजानं सर्वलोकपितामहः ।
 प्रत्युवाच शुभां वाणीं मधुरां मधुराक्षरम् ॥ २१ ॥
 मनोरथो महानेषः भगीरथ महारथ !
 एवं भवतु, भद्रं ते, इक्ष्वाकुकुलवर्धन ! ॥ २२ ॥

 मनोरथ इति । तावक इति शेषः ॥ २२ ॥

 इयं हैमवती गङ्गा ज्येष्ठा हिमवतस्सुता ।
 तां वै धारयितुं शक्तो हरस्तत्र नियुज्यताम् ॥ २३ ॥

 इयमिति भगवत्समीपे स्थितत्वान्निर्देशः ॥ २३ ॥

 गङ्गायाः पतनं राजन् ! पृथिवी न सहिष्यति ।
 तां वै धारयितुं वीर ! नान्यं पश्यामि शूलिनः ॥ २४ ॥

 कुतो हरनियोग इत्यतः-गङ्गाया इत्यादि ॥ २४ ॥

 तमेवमुक्त्वा राजानं गङ्गां चाभाष्य लोककृत् ।
 जगाम त्रिदिवं देवस्सह देवैर्मरुद्गणैः ॥ २५ ॥

इत्यार्षे श्रीमद्रामायणे बालकाण्डे द्विचत्वारिंशः सर्गः


 गङ्गां चाभाष्येति । [५१७] राजानं यथाकालमनुगृहाणेत्युक्त्वेति यावत् । देवैः–आजानजैः । मरुद्गणाः-कर्मदेवाः । [५१८]मरु (२५) मानः सर्गः ॥ २५ ॥

इति श्रीमद्रामायणामृतकतकटीकायां बालकाण्डे द्विचत्वारिंशः सर्गः


अथ त्रिचत्वारिंशः सर्गः
[गङ्गावतरणम्]

 देवदेवे गते तस्मिन् सोऽङ्गुष्ठाग्रनिपीडिताम् ।
 कृत्वा वसुमतिं राम ! संवत्सरमुपासत ॥ १ ॥

 अथ भगीरथस्य गङ्गावतरणयात्राशेषकथनम्-देवदेव इत्यादि । आजानजानामपि देवानां देवः, 'सर्वालङ्कारोपचारभूतिकृत्याविमुक्ततानीत्यादियोगाद्देवतानामीशस्स्वेशित्रनुग्रहादित्युच्यमानदिविदेवधर्मत्वसम्पादकः। अङ्गुष्ठाग्रेति । एकाङ्गुष्ठाग्रेणेति यावत् । उपासतेति । छान्दसं बहुवचनम् । उमापतिमिति शेषः ॥ १ ॥

 [ऊर्ध्वबाहुर्निरालम्बो वायुभक्षो निराश्रयः ।
 अचलस्स्थाणुवत् स्थित्वा रात्रिंदिवमरिन्दम ! ॥]
 अथ संवत्सरे पूर्णे सर्वलोकनमस्कृतः ।
 उमापतिः पशुपती राजानमिदमब्रवीत् ॥ २ ॥
 प्रीतस्तेऽहं नरश्रेष्ठ ! करिष्यामि तव प्रियम् ।
 [तमब्रवीनृपवरो गङ्गां धारय वै हर ! ॥
 इत्युक्तो वचनं भर्गः करिष्यामि प्रियं तव ।]
 शिरसा धारयिष्यामि शैलराजसुतामहम् ॥ ३ ॥
 [५१९]ततो हैमवती ज्येष्ठा सर्वलोकनमस्कृता ।
 तथा सतिमहद्रूपं कृत्वा वेगं च दुस्सहम् ॥ ४ ॥
 आकाशादपतद्राम ! शिवे शिवशिरस्युत ।

 तथा सतीति । ईश्वरेण धारणाङ्गीकारे सतीत्यर्थः । शिवे-शोभने । उत-अनन्तरम् ॥ ४ ॥


 अचिन्तयच्च सा देवी गङ्गा परमदुर्धरा ।
 विशाम्यहं हि पातालं स्रोतसा गृह्य शङ्करम् ॥ ५ ॥

 ननु महद्रूपं वेगं दुस्सहं च किमर्थमकरोदित्यतः—अचिन्तयदित्यादि ॥ ५ ॥

 तस्यावलेपनं ज्ञात्वा क्रुद्धस्तु भगवान् हरः ।
 तिरोभावयितुं बुद्धिं चक्रे त्रिनयनस्तदा ॥ ६ ॥

 तस्यावलेपनमिति । छान्दसस्सन्धिः । अवलेपनं स्वस्यापि स्रोतसाऽभिभवनचिन्तारूपं गर्वम् । तिरोभावयितुं-तिरोहितां-अभिभूतां कर्तुम् ॥ ६ ॥

 सा तस्मिन् पतिता पुण्या पुण्ये रुद्रस्य मूर्धनि ।
 हिमवत्प्रतिमे राम ! जटामण्डलगह्वरे ॥ ७ ॥

 जटामण्डलेन गह्वरे-दुष्प्रवेशनिर्गमे ॥ ७ ॥

 सा कथंचिन्महीं गन्तुं नाशक्रोद्यत्नमास्थिता ।
 नैव निर्गमनं लेभे जटामण्डलमोहिता ॥ ८ ॥

 यत्नमास्थिताऽपि महीं गन्तुं नाशक्नोत् । अन्ततः निर्गमनं- जटामण्डलाद्बहिर्निर्गमनमपि न लभे ॥ ८ ॥

 तत्रैवा[५२०]बभ्रमद्देवी संवत्सरगणान् बहून् ।
 तामपश्यन् पुनस्तत्र तपः परममास्थितः ॥ ९ ॥

 तर्हि किं कृतवतीत्यत्रोच्यते-तत्रैवेत्यादि । अबभ्रमदिति ।भ्रान्ताऽभूत् । सन्वदित्वाभावः छान्दसः । अथ जटया तिरोहितां


गङ्गां अपश्यन् भगीरथः पुनश्च तत्र तत्प्राप्तिविषये हरमुद्दिश्य परमं तप आस्थितः ॥ ९ ॥

 अनेन तोषितश्चासीत् अत्यर्थं रघुनन्दन !
 विससर्ज ततो गङ्गां हरो बिन्दुसरः प्रति ॥ १० ॥

 ततः-अनेन तपसा हरः तोषितश्चासीत् । ततस्तुष्टस्सन् हरो बिन्दुसरः प्रति, हिमवति ब्रह्मनिर्मितसरोविशेषो बिन्दुसरः, तत्प्रति विससर्ज ॥ १० ॥

 तस्यां विसृज्यमानायां सप्त स्रोतांसि जज्ञिरे ।
 ह्लादिनी पावनी चैव नलिनी च तथाऽपरा ॥ ११ ॥

 तस्यामित्यादिना त्रिपथगमनं भगीरथतपोहेतुकमुक्तम् ॥ ११ ॥

 तिस्रः प्राचीं दिशं जग्मुः गङ्गाशिवजलाशुभाः ।
 सुचक्षुश्चैव सीता च सिन्धुश्चैव महानदी ॥ १२ ॥
 [५२१]तिस्रस्त्वेता दिशं जग्मुः प्रतीचीं तु शुभोदकाः ।
 सप्तमी चान्वगात्तासां भगीरथमथो नृपम् ॥ १३ ॥

 एतेन त्रीन् पथः केन हेतुनेत्यस्योत्तरं जातमेव ॥ १३ ॥

 भगीरथोऽपि राजर्षिः दिव्यं स्यन्दनमाश्रितः ।
 प्रायादग्रे महातेजा गङ्गा तं चाप्यनुव्रजत् ॥ १४ ॥

 अतः परं 'कर्मभिः कैस्समन्विता' इति बहुवचनदर्शित चरितभेदप्रश्नस्योत्तरम्-भगीरथोऽपीत्यादि । तं चापीति । प्रागुत्तरदिशीव दक्षिणाञ्जिगमिषुञ्चाप्यनुव्रजत् । अडभाव आर्षः ॥ १४ ॥


 गगनाच्छङ्करशिरः, ततो धरणिमाश्रिता ।
 व्यसर्पत जलं तत्र तीव्रशब्दपुरस्कृतम् ॥ १५ ॥

 तीव्रशब्दपुरस्कृतमित्यत्र हेतुः–गगनादित्यादि ॥ १५ ॥

 मत्स्यकच्छपसङ्घैश्च शिशुमारगणैस्तदा ।
 पतद्भिः पतितैश्चान्यैः व्यरोचत वसुन्धरा ॥ १६ ॥

 "शिंशुमारस्त्वम्बुकपिः" इति वैजयन्ती । कप्याकारो जलचरविशेष इत्यर्थः । पतद्भिरिति वर्तमानप्रयोगः ॥ १६ ॥

 ततो देवर्षिगन्धर्वा यक्षाः सिद्धगणास्तदा ।
 व्यलोकयन्त ते तत्र गगनाद्गां गतां तथा ॥ १७ ॥

 गगनात् गां गतामिति । रुद्रजटाकाशात् भुवमित्यर्थः ॥ १७ ॥

 विमानै[५२२]र्गगनाकारैर्हयैर्गजवरैस्तदा ।
 [५२३]पारिप्लव[५२४]गताश्चापि देवतास्तत्र विष्ठिताः ॥ १८ ॥

 गजवरैरिति । चरन्त इति शेषः । गगनशब्देन मेधा लक्ष्यन्ते । पारिप्लवो यानभेदः (शिबिकादिभेदः) शिबिकादिरूपः कुबेरादेः ; तं गताः । द्वितीयासमासः ॥ १८ ॥

 तदद्भुततमं लोके गङ्गापतनमुत्तमम् ।
 दिदृक्षवो देवगणाः समीयुरमितौजसः ॥ १९ ॥

 अमितौजसो देवगणाः इत्यनेन वस्वादय उच्यन्ते ॥ १९ ॥

 सम्पतद्भिस्सुरगणैस्तेषामाभरणौजसा ।
 शतादित्यमिवाभाति गगनं गततोयदम् ॥ २० ॥

 उक्तविशेषणमूलमुपमानं-सम्पतद्भिरित्यादि ॥ २० ॥


 शिंशुमारोरगगणैमनैरपि च चञ्चलैः
 विद्युद्भिरिव विक्षिप्तमाकाशमभवत्तदा ॥ २१ ॥

 विक्षिप्तैः-निस्सृतैरिति यावत् । विद्युच्छब्दोऽपि पुल्लिङ्गः,लिङ्गमशास्यमिति प्रयोगैकावसेयत्ववादाल्लिङ्गस्य । कथं तर्हि विद्युदादेर्नियतलिङ्गपाठः ? प्रायोऽभिप्रायादित्येव ॥ २१ ॥

 पाण्डुरैः सलिलोत्पीडैः कीर्यमाणैः सहस्रधा ।
 शारदाभ्रैरिवाकीर्णैः गगनं हंससंप्लवैः ॥ २२ ॥

 सलिलोत्पीडः–फेनः । सहस्रधा कीर्यमाणैरिति । वाय्वाद्युपाधित इति शेषः । अत एव आकीर्णैश्शारदाभ्रैरिव हंससंप्लवैः हंससमूहैरिव च गगनं आभातीति पूर्वेणान्वयः । एवं पाङ्क्ते पाठे अर्थे च स्थिते आकर्णिमिति पठति । सलिलोत्पीडो जलपिण्ड इति च [५२५] व्याकरोति ॥

 क्वचिद्दुततरं याति कुटिलं क्वचिदायतम् ।
 विनतं[५२६] क्वचिदुद्धूतं क्वचिद्याति शनैः शनैः ॥ २३ ॥

 क्वचिद्दुततरं यातीति ।[५२७]गङ्गासलिलमिति शेषः। आयतं-बहुप्रदेशव्यापितया विस्तृत- प्रवाहं, क्वचिद्विनतं-अगाधदेशे सङ्कचित-प्रवाहं । उद्ध्रूतमिति । पाषाणादिताडनादिति शेषः । इदमेवोर्ध्वपथ-गमनेऽपि निमित्तम् ॥ २३ ॥

 सलिलेनैव सलिलं क्वचिदभ्याहतं पुनः ।
 मुहुरूर्ध्वमुखं गत्वा पपात वसुधातलम् ॥ २४ ॥
 तच्छङ्करशिरोभ्रष्टं भ्रष्टं भूमितले पुनः ।
 व्यरोचत तदा तोयं निर्मलं गतकल्मषम् ॥ २५ ॥

 निर्मलत्वे हेतुः भ्रंशद्वयम् ॥ २५ ॥


 तत्र देवर्षिगन्धर्वा वसुधातलवासिनः
 भवाङ्गपतितं तोयं पवित्रमिति पस्पृशुः ॥ २६ ॥

 भवाङ्गं–जटा ॥ २६ ॥

 शापात्प्रपतिता ये च गगनाद्वसुधातलम् ।
 कृत्वा तत्राभिषेकं ते बभूवुर्गतकल्मषाः ॥ २७ ॥
 [५२८]धूतपापाः पुनस्तेन तोयेनाथ [५२९]शुभान्विताः ।
 पुनराकाशमाविश्य स्वांल्लोकान् प्रतिपेदिरे ॥ २८ ॥

 न केवलं पापसंहारमात्रं कृत्यं गङ्गायाः; अपि तु पुण्यलोक-प्रापणमपीत्युच्यते-पुनराकाशमित्यादि ॥ २८ ॥

 मुमुदे मुदितो लोकस्तेन तोयेन भास्वता ।
 कृताभिषेको गङ्गायां बभूव विगतक्लमः ॥ २९ ॥

 दर्शनमात्रेण मुदितो लोकः विशिष्य स्नानपानादिना मुमुदे ॥

 भगीरथोऽपि राजर्षिर्दिव्यं स्यन्दनमास्थितः ।
 प्रायादग्रे महातेजास्तं गङ्गा पृष्ठतोऽन्वगात् ॥ ३० ॥
 देवाः सर्पिगणाः सर्वे दैत्यदानवराक्षसाः ।
 गन्धर्वयक्षप्रवराः सकिन्नरमहोरगाः ॥ ३१ ॥
 सर्वाश्चाप्सरसो राम ! भगीरथ[५३०]रथानुगाः ।
 गङ्गामन्वगमन् प्रीताः सर्वे जलचराश्च ये ॥ ३२ ॥

 भगीरथरथानुगास्सन्तो गङ्गामन्वगमन् । एतेन स्वस्वपुरुषार्थप्रयोजना गङ्गासेवोपदिष्टा ॥ ३२ ॥


 यतो भगीरथो राजा ततो गङ्गा यशस्विनी ।
 जगाम सरितां श्रेष्ठा सर्वपापविनाशिनी ॥ ३३ ॥

 यतस्तत इति । यत्र तत्रेति यावत् ॥ ३३ ॥

 ततो हि यजमानस्य जह्नोरद्भुतकर्मणः ।
 गङ्गा संप्लावयामास यज्ञवाटं महात्मनः ॥ ३४ ॥

 अद्भुतकर्मण इति वक्ष्यमाणगङ्गोपसंहाराभिप्रायकम् ॥ ३४ ॥

 तस्यावलेपनं ज्ञात्वा क्रुद्धो जह्रुश्च राघव !
 अपिबच्च जलं सर्वं गङ्गायाः [५३१]परमाद्भुतम् ॥ ३५ ॥

 [५३२]तस्यावलेपनं, [५३३]प्राग्वत् । सर्वं जलं अपिबत् इति । अगस्त्यस्समुद्रजलमिव योगशक्त्येति शेषः । परमाद्भुतमिति । तदभवल्लोकस्येति शेषः ॥ ३५ ॥

 ततो देवाः सगन्धर्वाः ऋषयश्च सुविस्मिताः ।
 पूजयन्ति महात्मानं जह्नुं पुरुषसत्तमम् ॥ ३६ ॥

 पूजयन्ति । स्तोत्रादिद्वारेति शेषः ॥ ३६ ॥

 गङ्गां [५३४]चानुनयन्ति स्म दुहितृत्वे महात्मनः ।
 ततस्तुष्टो महातेजाः श्रोत्राभ्यामसृजत् पुनः ॥ ३७ ॥

 दुहितृत्वे-दुहितृभावापत्तौ । शैलराजदुहिताऽहं कथमन्यस्य दुहिता स्यामिति विमतिवशादनुनयो गङ्गायाः । ततस्तुष्ट इति । गङ्गाया देवैस्स्वदुहितृत्वप्रापणादित्यर्थः ॥ ३७ ॥

 [विसृज्य गङ्गां राजेन्द्रो ज्ञात्वा प्राप्तं भगीरथम् ।]


 [पूजयित्वा यथान्यायं यज्ञवाटमुपागमत् ॥]
 तस्माज्जह्नुसुता गङ्गा प्रोच्यते जाह्नवीति च ।

 यतः पीतां पुनश्चासृजत् तस्मादेव हेतोः जह्नुसुतेति समासवृत्त्या, जाह्नवीति तद्धितवृत्त्या च गङ्गा अपत्यतया जह्नोरुच्यते ॥

 जगाम च पुनर्गङ्गा भगीरथरथानुगा ॥ ३८ ॥
 सागरं चापि सम्प्राप्ता सा सरित्प्रवरा तदा ।
 रसातलमुपागच्छत् सिद्ध्यर्थं तस्य कर्मणः ॥ ३९ ॥

 तस्य कर्मणः सिद्ध्यर्थमिति । भगीरथस्य स्ववंश्योद्धारकर्म- सिद्ध्यर्थम् ॥ ३९ ॥

 भगीरथोऽपि राजर्षिः गङ्गामादाय यत्नतः ।
 पितामहान् भस्मकृतानपश्यद्दीनचेतनः ॥ ४० ॥

 यत्नत इति । यत्नाः प्रागुक्तलक्षणा: । भस्मत्वेन कृताः-भस्म कृताः, कपिलकोपवह्निनेति शेषः ॥ ४० ॥

 [५३५]अथ तद्भस्मनां राशिं गङ्गासलिलमुत्तमम् ।
 प्लावयत्, पूतपाप्मानः स्वर्गं प्राप्ता रघूत्तम ! ॥ ४१ ॥

इत्यार्षे श्रीमद्रामायणे बालकाण्डे त्रिचत्वारिंशः सर्गः

 प्लावयत्-सेचयति स्म । ततः पूतपाप्मान इत्यादि । पर्व (४१) मानः सर्गः ॥ ४१ ॥

इति श्रीमद्रामायणामृतकतकटीकायां बालकाण्डे त्रिचस्वारिंशः सर्गः


अथ चतुश्चत्वारिंशः सर्गः
[सगरपुत्रोद्धारः]

 स गत्वा सागरं राजा गङ्गयाऽनुगतस्तदा ।
 प्रविवेश तलं भूमेर्यत्र ते भस्मसात्कृताः ॥ १ ॥

 अथ 'प्लावयत् पूतपाप्मानः' इति प्राक् सङ्क्षेपोक्तबीजार्थस्य विस्तरः-स गत्वेत्यादि । भस्मसात्कृताः-सर्वात्मना भस्मभावापत्तये सम्पादिताः । 'विभाषा साति कार्त्स्न्ये' इति सातिः ॥ १ ॥

 भस्मन्यथाप्लुते राम ! गङ्गायाः सलिलेन वै ।
 सर्वलोकप्रभुर्ब्रह्मा राजानमिदमब्रवीत् ॥ २ ॥

 सर्वलोकानां-सर्वभुवनानां सर्वभुवनवर्तिप्राणिनां च प्रभुः- असङ्कोचोपचारेण ईश्वरः ॥ २ ॥

 तारिता नरशार्दूल ! दिवं याताश्च देववत् ।
 षष्टिः पुत्रसहस्राणि सगरस्य महात्मनः ॥ ३ ॥

 तारिताः-प्रेत्यभावादुत्तारिताः देववत् ॥ ३ ॥

 सागरस्य जलं लोके यावत् स्थास्यति पार्थिव !
 सगरस्यात्मजास्तावत् स्वर्गे स्थास्यन्ति देववत् ॥ ४ ॥

 स्वर्गप्राप्तेर्विशेषं चानुगृह्णाति-सागरस्येत्यादि ॥ ४ ॥

 इयं हि दुहिता ज्येष्ठा तव गङ्गा भविष्यति ।
 त्वत्कृतेन च नाम्नाऽथ लोके स्थास्यति विश्रुता ॥ ५ ॥

 त्वत्कृतेनेति । त्वन्मूलत्रिपथगत्वधर्मकृतेनेति यावत् ॥ ५ ॥

 गङ्गा त्रिपथगा राजन् ! दिव्या भागीरथीति च ।
 त्रीन् पथो भावयन्तीति ततस्त्रिपथगा स्मृता ॥ ६ ॥

 तत्कृतनामादिविश्रुतत्वमेव प्रकाशयति-गङ्गा त्रिपथगेत्यादि ।

तत्कृतनाम्नोऽन्वर्थत्वं दर्शयति-त्रीनित्यादि । अनेन कथं गङ्गा त्रिपथगा श्रुतेत्यस्योत्तरं संवृत्तम् ॥ ६ ॥

 पितामहानां सर्वेषां त्वमत्र मनुजाधिप !
 कुरुष्व सलिलं राजन् ! प्रतिज्ञामपवर्जय ॥ ७ ॥

 कुरुष्वेति । गङ्गाजलसेकतः कृतप्रायश्चित्तत्वेन सलिलदानार्हतस्सलिलदानाद्युत्तरक्रियानुमतिः । अपवर्जय । अपवर्गस्समाप्तिः । गरुत्मदुपदिष्टस्य गङ्गोदकेन सलिलक्रियाप्रतिज्ञानोपदेशस्यानुष्ठानसमाप्ति कुर्वित्यर्थः ॥ ७ ॥

 पूर्वकेण हि ते राजन् ! तेनातियशसा तदा ।
 धर्मिणां प्रवरेणापि नैष प्राप्तो मनोरथः ॥ ८ ॥

 पूर्वकेणेति । सगरणेति यावत् । तस्य गङ्गाऽलाभदुःखित्वकुत्सा कप्रत्ययेन द्योत्यते ॥ ८ ॥

 तथैवांशुमता तात ! लोकेऽप्रतिमतेजसा ।
 गङ्गां प्रार्थयता नेतुं प्रतिज्ञा नापवर्जिता ॥ ९ ॥
 राजर्षिणा गुणवता महर्षिसमतेजसा ।
 मत्तुल्यतपसा चैव क्षत्रधर्मस्थितेन च ॥ १० ॥

 क्षत्रधर्मे स्थितेनापि मत्तुल्यतपसा । तपः-स्वाध्यायः । अयं ब्रह्मवद्ब्रह्मर्षिवच्च दुर्लभः क्षत्रियेणेति स्तुतिः । महर्षिसमतेजसेति । अनेन पूर्णतपस्त्वं स्वाध्यायातिरिक्तमुक्तमेव ॥ १० ॥

 दिलीपेन महाभाग ! तव पित्रातितेजसा ।
 पुनर्न [५३६]शकिता नेतुं गङ्गां प्रार्थयताऽनघ! ॥ ११ ॥


 गङ्गां पुनर्नेतुं प्रार्थयताऽपि सा पुनर्नेतुं न शकिता सौ नामतेतस्येद्यत्वट् । अशक्या भूदित्यर्थः । [५३७]कश्चित् शङ्कितेति मृषोक्तिव्याख्याने प्रायतिष्ट । तथाऽग्रेपि ॥ ११ ॥

 सा त्वया [५३८]समनुक्रान्ता प्रतिज्ञा पुरुषर्षभ !
 प्राप्तोऽसि परमं लोके यशः परमसंमतम् ॥ १२ ॥

 समनुक्रान्ता-समनुतिष्ठितपारा ॥ १२ ॥

 यच्च गङ्गावतरणं त्वया कृतमरिन्दम् !
 अनेन च भवान् प्राप्तो धर्मस्यायतनं महत् ॥ १३ ॥
 प्लावयस्व त्वमात्मानं नरोत्तम ! सदोचिते ।
 सलिले, पुरुषव्याघ्र ! शुचिः पुण्यफलो भव ॥ १४ ॥

 प्लावयस्वेत्यादिरुपसंहारेण वादः । अत्मानं त्वद्देहं । सदोचित इति । कर्कटकनध्येऽपि स्नानोचिते; भूप्रभवनदी नामेव तत्काले भौमत्वमूलरजस्सम्बन्धात् स्नानाद्यनर्हत्वम् । पुण्यफल इति । [५३९]मत्वर्थीयोऽजन्तः ॥ १४ ॥

 पितामहानां सर्वेषां कुरुष्व सलिलक्रियाम् ।
 स्वस्ति तेऽस्तु, गमिष्यामि स्वं लोकं, गम्यतां नृप ! ॥ १५ ॥

 स्वं लोकं गमिष्यामि इति । त्वया च गम्यतां स्वपुरं, कृतोदकक्रियेणेति शेषः । अयं नियोगो राजधर्मपरिपालनाय ॥ १५ ॥

 इत्येवमुक्त्वा देवेशः सर्वलोकपितामहः ।
 यथाऽऽगतं तथाऽगच्छत् देवलोकं महायशाः ॥ १६ ॥
 भगीरथोऽपि राजर्षिः कृत्वा सलिलमुत्तमम् ।
 यथाक्रमं यथान्यायं सागराणा महायशाः ॥ १७ ॥


 कृतोदकः शुची राजा स्वपुरं प्रविवेश ह ।
 समृद्धार्थो नरश्रेष्ठ ! स्वराज्यं प्रशशास ह ॥ १८ ॥
 प्रमुमोद च लोकस्तं नृपमासाद्य राघव !
 नष्टशोकः समृद्धार्थो बभूव विगतज्वरः ॥ १९ ॥
 एष ते, राम ! गङ्गाया विस्तरोऽभिहितो मया ।
 स्वस्ति प्राप्नुहि, भद्रं ते, सन्ध्याकालोऽतिवर्तते ॥ २० ॥

 उपसंहारः-एष त इत्यादि । स्वस्ति प्राप्नुहि-भद्रं प्राप्नुहि । भद्रं तवास्तु । सन्ध्याकालः-सायंसन्ध्याकालः ॥ २० ॥

 धन्यं यशस्यमायुष्यं पुत्र्यं स्वर्गमतीव च ।
 यः श्रावयति विप्रेषु क्षत्रियेष्वितरेषु च ॥ २१ ॥
 प्रीयन्ते पितरस्तस्य प्रीयन्ते दैवतानि च ।

 स्कन्दाख्यानस्येव गङ्गावतरणाख्यानस्य च श्रवणादिकलं-धन्य- मित्यादि । 'गोद्व्यचोऽसङ्ख्यापरिमाणाश्वादेर्यत्' इति यत् । इतरेषु-विट्-शूद्रेष्वति यावत् । प्रीयन्ते-प्रीञ् प्रणिने । पितरः प्रीयन्ते-प्रीता भवन्ति ॥ २१ ॥

 इदमाख्यानमव्यग्रो गङ्गावतरणां शुभम् ॥ २२ ॥
 यः श्रुणोति च काकुत्स्थ सर्वान् कामानवाप्नुयात् ।
 सर्वे पापाः प्रणश्यन्ति आयुः कीर्तिश्च वर्धते ॥ २३ ॥

इत्यार्षे श्रीमद्रामायणे बालकाण्डे चतुश्चत्वारिंशः सर्गः

 गिरि (२३) मानः सर्गः ॥ २३ ॥

इति श्रीमद्रामायणामृतकतकटीकायां बालकाण्डे चतुश्चत्वारिंशः सर्गः

अथ पञ्चचत्वारिंशः सर्गः
[ क्षीरार्णवमथनम् ]

 विश्वामित्रवचः श्रुत्वा राघवः सहलक्ष्मणः ।
 विस्मयं परमं गत्वा विश्वामित्रमथाब्रवीत् ॥ १ ॥

 अथ महेन्द्रचरितपुण्यकथा च प्रसङ्गात्सर्गत्रयेण-विश्वामित्र- वच इत्यादि । विश्वामित्रमब्रवीत् । रात्रिकाले इति शेषः ॥ १ ॥

 अत्यद्भुतमिदं ब्रह्मन् ! कथितं परमं त्वया ।
 गङ्गावतरणं पुण्यं सागरस्यापि पूरणम् ॥ २ ॥
 क्षणभूतेव नौ रात्रिः संवृत्तेयं महातपः !
 इमां चिन्तयतस्सर्वां निखिलेन कथां तव ॥ ३ ॥
 सन्तुष्टं मे मनो ब्रह्मन् ! इत्युक्त्वा विरराम ह ।

 तव कथामिति । तवोपदेशश्रुतार्थमित्यर्थः ॥ ३ ॥

 तस्य सा शर्वरी सर्वा सह सौमित्रिणा तदा ॥ ४ ॥
 जगाम चिन्तयानस्य विश्वामित्रकथां शुभाम् ।

 तस्य रामस्य चिन्तयानस्य जगामेति तच्चिन्तोपेततया अ तीतेत्यर्थः ॥ ४ ॥

 ततः प्रभाते विमले विश्वामित्रं महामुनिम् ॥ ५॥
 उवाच राघवो वाक्यं कृताह्निकमरिन्दमः ।
 गता भगवती रात्रिः श्रोतव्यं परमं श्रुतम् ॥ ६ ॥
 तराम सरितां श्रेष्ठां पुण्यां त्रिपथगां नदीम् ।
 नौरेषा हि सुखास्तीर्णा ऋषीणां पुण्यकर्मणाम् ॥ ७ ॥
 भगवन्तमिह प्राप्तं ज्ञात्वा त्वरितमागता ।

 राघववचनप्रकारः-गतेत्यादि । तरामः-तरणं कुर्मः । शुभमास्तीर्णं-आस्तरणं यस्यास्सा तथा । ऋषीणां नौस्त्वरितमागतेति योजना ॥ ७ ॥

 तस्य तद्वचनं श्रुत्वा राघवस्य महात्मनः ॥ ८ ॥
 संतारं कारयामास [५४०]सर्षिसङ्घः सराघवः ।

 कारयामासेति । स्वार्थे णिः । अकरोदिति यावत् [५४१] ॥ ८ ॥

 उत्तरं तीरमासाद्य सम्पूज्यर्षिगणं तदा ॥ ९ ॥
 गङ्गाकूले निविष्टास्ते विशालां ददृशुः पुरीम् ।

 सम्पूज्यर्षिगणमिति । नावानायकमिति शेषः ॥ ९ ॥

 ततो मुनिवरस्तूर्णं जगाम सह राघवः ॥ १० ॥
 विशालां नगरीं रम्यां दिव्यां स्वर्गोपमां तदा ।

 दृष्ट्वा विशालां जगामेति योजना ॥ १० ॥

 अथ रामो महाप्राज्ञो विश्वामित्रं महामुनिम् ॥ ११ ॥
 पप्रच्छ प्राञ्जलिर्भूत्वा विशालामुत्तमां पुरीम् ।

 विशालां पप्रच्छेति । विशालाविषयं प्रश्नं कृतवानित्यर्थः ॥

 कतरो राजवंशोऽयं विशालायां महामुने !
 श्रोतुमिच्छामि, भद्रं ते, परं कौतूहलं हि मे ॥ १२ ॥
 तस्य तद्वचनं श्रुत्वा रामस्य मुनिपुङ्गवः ।
 आख्यातुं तत्समारेभे विशालस्य पुरातनम् ॥ १३ ॥


 एवं प्रश्ने सम्प्रत्ययं वर्तत इत्युत्तरशेषतया विशालाया महादेवतासिद्धिक्षेत्रत्वेन महाक्षेत्रत्वं, पश्चात्काले विशालपुरीनिर्मितिश्चोच्यते-आख्यातुमित्यादिना । विशालस्येति । विशालापुर्यधिष्ठानदेशस्येत्यर्थः । तस्य पुरातनमिति । विशालापुरीनिर्मितेः प्राक्तनं वृत्तान्तमिति शेषः ॥

 श्रूयतां राम ! शक्रस्य कथां कथयतः शुभाम् ।
 अस्मिन् देशे तु यद्वृत्तं तदपि शृणु राघव ! ॥ १४ ॥

 शक्रस्य कथां विशालावैभवप्रतिपादनशेषतया कथयतो मत्तः सकाशात् कथा श्रूयतां । अस्मिन् देशे-विशालपुर्यधिष्ठानदेशे । यद्वृत्तमिति । पुरातनं भूतत्वेन श्रुण्विति योजना ॥ १४ ॥

 पूर्वं कृतयुगे राम ! दितेः पुत्रा महाबलाः ।
 अदितेश्च महामाग ! वीर्यवन्तः सुधार्मिकाः ॥ १५ ॥

 अदितिपुत्रानामभ्याधिकं विशेषणं-सुधार्मिका इति । आसन्निति शेषः ॥ १५ ॥

 ततस्तेषां नरश्रेष्ठ ! बुद्धिरासीन्महात्मनाम् ।
 अमरा अजराश्चैव कथं स्याम निरामयाः ॥ १६ ॥

 म्रियन्त इति मराः; पचाद्यच् । अमराः-मरणधर्मरहिता इति यावत् । जरा-कालवशावर्ज्यप्राप्तदुःखं, आमयाः-शक्याशक्यप्रतिक्रिया व्याधयः । एतावदेव सांसारिकदुःखम् ॥ १६ ॥

 तेषां चिन्तयतां राम ! बुद्धिरासीन्महात्मनाम् ।
 क्षीरोदमथनं कृत्वा रसं प्राप्स्याम तत्र वै ॥ १७ ॥

 तत्र वै-क्षीरोदे प्रसिद्धं रसं-सारममृतरूपरसायनमित्यर्थः ॥ १७॥

 ततो निश्चित्य मथनं योक्त्रं कृत्वा च वासुकिम् ।
 [५४२]मन्थानं मन्दरं कृत्वा ममन्थुरमितौजसः ॥ १८ ॥

 योक्त्रं-मथनरज्जुः । 'वशाखे मन्थमन्थानौ' ॥ १८ ॥


 अथ वर्षसहस्रेण सदण्डः सकमण्डलुः ।
 पूर्वं धन्वन्तरिर्नाम अप्सराश्च सुवर्चसः ॥ १९ ॥

 धन्वन्तरिरिति । उत्पपातेति योजना । अप्सरा इत्याकारान्तात् बहुवचनम् ॥ १९ ॥

 अप्सु निर्मथनादेव रसस्तस्माद्वरस्त्रियः ।
 उत्पेतुर्मनुजश्रेष्ठ ! तस्मादप्सरसोऽभवन् ॥ २० ॥

 अप्सु निर्मिथनादिति । अब्विकारक्षीरनिर्मथनादित्यर्थः । अलुक् छान्दसः । तस्मादिति । मथ्यमानात् क्षीरोदलवणादपां सरसो रसादुत्पन्नत्वादेवेत्यर्थः । पृषोदरादित्वात्साधुः ॥ २० ॥

 षष्टिः कोट्योऽभवस्तासां अप्सराणां सुवर्चसाम् ।
 असङ्ख्येयास्तु काकुत्स्थ ! यास्तासां परिचारिकाः ॥ २१ ॥

 तासामिति। षष्ठिकोटिसङ्ख्यानां प्रधानाप्सरसामित्यर्थः ॥ २१ ॥

 न ताः स्म प्रतिगृह्णन्ति सर्वे ते देवदानवाः ।
 अप्रतिग्रहणादेव तेन साधारणाः स्मृताः ॥ २२ ॥

 न ताः प्रतिगृह्णन्ति स्मेति । अपरिमितपरिचारकोपेतषष्टिकोट्यप्सरस इति यावत् । ममैवेमा नान्यस्येत्यसाधारण्येन न प्रतिगृह्णन्ति स्म, देवा दानवाश्चेत्यर्थः । किं विरक्ता: ? उत ताः दुर्भगाः ? यतोऽप्रतिग्रहः–उच्यते-तासां देवदानवमध्ये विशिष्य वारुणीवत् किञ्चित्पतिमार्गणाभावेन य आयाति स आयातु न इति सम्मुग्धाकारतया स्थितत्वादेव विशिष्य तासां प्रतिग्रहाभावः । तदेवोक्तम्-अप्रतिग्रहणादित्यादि ॥ २२ ॥

 वरुणस्य ततः कन्या वारुणी रघुनन्दन !
 उत्पपात महाभागा मार्गमाणा परिग्रहम् ॥ २३ ॥

 वरुणस्येति । क्षीरार्णवाधिष्ठातृदेवताया इत्यर्थः । परिग्रहमिति । केनचित् पत्या असाधारण्येन परिग्रहमित्यर्थः ॥ २३ ॥

 दितेः पुत्रा न तां राम ! जगृहुर्वरुणात्मजाम् ।
 अदितेस्तु सुता वीर ! जगृहुस्तामनिन्दिताम् ॥ २४ ॥

 अदितिसुतैर्वारुणीपरिग्रहे हेतुः-अनिन्दितामिति । कथं एतत् ?- शास्त्रेणाधिकारिविशेषविषयेऽविमानात् ; शास्त्रस्य च देवतानधिकारात् स्वरूपतस्तद्ग्राहिणां सुखहेतुत्वश्रवणाच्च अनिन्दितत्वम् ॥ २४ ॥

 असुरास्तेन दैतेयाः सुरास्तेनादितेः सुताः ।
 हृष्टाः प्रमुदिताश्चासन् वारुणीग्रहणात् सुराः ॥ २५ ॥

 सुरास्तेनेति मत्वर्थीयाजन्तः । येन सुरापरिग्रह एषामस्ति तेनेत्यर्थः ॥ २५ ॥

 [५४३]उच्चैःश्रवा हयश्रेष्ठो मणिरत्नं च कौस्तुभम् ।
 उदतिष्ठन्नरश्रेष्ठ ! तथैवामृतमुत्तमम् ॥ २६ ॥


 अथ तस्य कृते राम ! महानासीत् कुलक्षयः ।
 अदितेस्तु ततः पुत्रा दितेः पुत्रानसूदयन् ॥ २७ ॥

 अथ तस्य कृत इति । तस्यामृतस्य ग्रहणनिमित्तमित्यर्थः । ततः-कलहप्रवृत्यानन्तरं ॥ २७ ॥

 एकतामगमन् सर्वे ह्यसुरा राक्षसैस्सह ।
 युद्धमासीन्महाघोरं वीर ! त्रैलोक्यमोहनम् ॥ २८ ॥

 असुरा राक्षसैः सह एकतामगमन् । अदितिपुत्रसूद्यमानानां स्वेषां बलसिद्ध्यर्थमिति शेषः । वीरेति सम्बुद्धिः ॥ २८ ॥

 यदा [५४४]क्षयं गताः सर्वे तदा विष्णुर्महाबलः ।
 अमृतं सोऽहरत्तूर्ण मायामास्थाय मोहिनीम् ॥ २९ ॥

 सर्व इति । परस्परप्रहारेण सामान्यात् सर्वदेवासुरा अमृता-निमानिनो यदा क्षयं गताः-क्षयप्रायं गताः, तदा अमृतस्य सुहरवात् सः-प्रसिद्धः विष्णुः मध्यस्थत्वबुद्धयुत्पादनाय मोहिनी-काममोह-जननीं मायां-मायातनुमास्थाय तूर्गममृतमहरत् ॥ २९ ॥

 ये गताऽभिमुखं विष्णुमक्षयं पुरुषोत्तमम् ।
 सम्पिष्टास्ते तदा युद्धे विष्णुना प्रभविष्णुना ॥ ३० ॥

 अथ ये गताभिमुखं, सवर्णदीर्घ आर्षः, ये सुरा असुरा वा मायामूर्त्या गृहीतामृतं विष्णुनभिमुखा अमृतजिघृक्षया गताः- प्राप्ताः,ते सर्वे तदा मूर्त्यन्तरास्थानेन प्रभविष्णुना विष्णुना युद्धे (सर्वे) सम्पिष्टाः । उभयेषां मध्ये ये जितास्तेभ्य इदं अमृतं [५४५]दास्यति, बलात्कारेणास्या-मृतादितॄनहं हन्मीत्युक्त्वा सामान्यतस्सर्वे सुरा निवारिता इत्यर्थः ॥


 अदितेरात्मजा वीरा दितेः पुत्रान्निजघ्निरे ।
 तस्मिन् युद्धे महाघोरे दैतेयादित्ययोर्भृशम् ॥ ३१ ॥

 ततश्चामृतजिघृक्षया जयाय दैतेयादित्ययोः-दितिशब्द औणादिककृतीकारान्तः । तस्मात् 'कृतिकारादक्तिनः' इति ङीषि 'स्त्रीभ्यो ढक्' इति ढकि दैतेयाः, 'दित्यदित्यादित्य' इत्यदितिशब्दात् ण्यः-आदित्याः; तयोरुभयोः भृशं प्रवृत्ते तस्मिन् युद्धे अदितेरात्मजाः दितेः पुत्रान्निजन्निरे । धार्मिकत्वतो भगवद्विष्ण्वनुग्रहवत्त्वादिति शेषः ॥

 निहत्य दितिपुत्रांश्च राज्यं प्राप्य पुरन्दरः ।
 शशास मुदितो लोकान् सर्षिसङ्घान् सचारणान् ॥ ३२ ॥

इत्यार्षे श्रीमद्रामायणे बालकाण्डे पञ्चचत्वारिंशः सर्गः

 दितिपुत्रांश्च राज्यमित्यत्र चकारेण राज्यममृतं च प्राप्येत्यर्थः । अत्र 'ममन्थुरमितौजसः' इत्यनन्तरं हालाहलोत्पत्त्यादिप्रतिपादकं पुराणान्तरस्थमत्र प्रक्षिप्य [५४६]अन्यस्तद्व्याचकार । नास्माभिः प्राचीनसुशुद्ध-पुस्तकेषु ते श्लोका दृश्यन्ते । ननु कथं तत्प्रसङ्गस्येहावर्णनं? अमृतप्रदानराहुशिरच्छेदप्रसङ्गस्य वा कुतो न वर्णनं ? सङ्क्षेपादिति चेत्-सा दृष्टिरत्रापि दीयताम् । खल (३२) मानः सर्गः ॥ ३२ ॥

इति श्रीमद्रामायणामृतकतकटीकायां बालकाण्डे पञ्चचत्वारिंशः सर्गः

अथ षट्चत्वारिंशः सर्गः
[दितिगर्भभेदनम्]

 हतेषु तेषु पुत्रेषु दितिः परमदुःखिता ।
 मारीचं काश्यपं राम ! भर्तारमिदमब्रवीत् ॥ १ ॥

किन्तत इत्यतो ब्रूते-हतेष्वित्यादि ॥ १ ॥


 हतपुत्राऽस्मि भगवन् ! तव पुत्रैर्महा[५४७]बलैः
 शक्रहन्तारमिच्छामि पुत्रं दीर्घतपोऽर्जितम् ॥ २ ॥

 दीर्घेण तपसा आर्जतो दर्घितपोऽर्जितः ॥ २ ॥

 [५४८]साऽहं तपश्चरिष्यामि गर्भं मे दातुमर्हसि ।
 ईश्वरं शक्रहन्तारं त्वमनुज्ञातुमर्हसि ॥ ३ ॥

 ईश्वरं-त्रैलोक्यनाथम् ॥ ३ ॥

 तस्यास्तद्वचनं श्रुत्वा मारीचः काश्यपस्तदा ।
 प्रत्युवाच महातेजा दितिं परमदुःखिताम् ॥ ४ ॥
 एवं भवतु, भद्रं ते, शुचिर्भव तपोधने !
 जनयिष्यसि पुत्रं त्वं शक्रहन्तारमाहवे ॥ ५ ॥

 शुचिर्भवेति । यावत्पुत्रोत्पत्तीति शेषः ॥ ५ ॥  पूर्णे वर्षसहस्त्रे तु शुचिर्यदि भविष्यसि ।  पुत्रं त्रैलोक्यभर्तारं मत्तस्त्वं जनयिष्यसि ॥ ६ ॥  शुचिर्यदि भविष्यसीति । संवत्सरसहस्रमपीति शेषः ॥ ६ ॥

 एवमुक्त्वा महातेजा पाणिना सम्ममार्ज ताम् ।
 समालभ्य ततः स्वस्तीत्युक्त्वा स तपसे ययौ ॥ ७ ॥

 पाणिना तां सम्ममार्जेति । दिव्यपुत्रप्रतिबन्धहेतुपापक्षयार्थमिति शेषः । अथ समालभ्य-उदरं स्पृष्ट्वा स्वस्ति-गर्भरूपं भद्रं तवास्त्वित्यनुगृह्य सः काश्यपः तपसे ययौ ॥ ७ ॥

 गते तस्मिन्नरश्रेष्ठ ! दितिः परमहर्षिता ।
 कुशप्लवनमासाद्य तपस्तेपे सुदारुणम् ॥ ८ ॥

 कुशप्लवनं-विशालानिर्मितेः पूर्वं तद्देशतपोवनम् ॥ ८ ॥


 तपस्तस्यां हि कुर्वन्त्यां परिचर्यां चकार ह ।
 सहस्राक्षो नरश्रेष्ठ ! परया गुणसम्पदा ॥ ९ ॥

 परया गुणसम्पदेति । शुश्रूषकसुपुत्रगुणगणसम्पदेत्यर्थः ॥ ९॥

 अग्निं कुशान् काष्ठमयः फलं मूलं तथैव च ।
 न्यवेदयत् सहस्राक्षो यच्चान्यदपि काङ्क्षितम् ॥ १० ॥
 गात्रसंवहनैश्चैव श्रमापनयनैस्तथा ।
 शक्रः सर्वेषु कालेषु दितिं परिचचार ह ॥ ११ ॥

 सैव गुणसम्पत् प्रकाश्यते-अग्निं कुशानित्यादि । पुत्रत्वाद्गात्रसंवाहनादिः । दितिं परिचचारेति कथनं एवं पितृवचनस्याशक्यान्यथातनत्वात् भविष्यदरातेः मातृप्रीत्या आराददितिवक्ष्यमाणरीत्या सौमनस्यसिद्धयेऽसत्याशुच्यवकाशे न्यायप्राप्तरातिविनाशाय । अथापि कथमेतत्परिचर्यामियेष दितिः ? दैवभाययैवेति केवलमिहोत्तरम् ॥ १०-११ ॥

 अथ वर्षसहस्रे तु दशोने रघुनन्दन !
 दितिः परमसम्प्रीता सहस्राक्षमथाब्रवीत् ॥ १२ ॥

 दशभिरूनं-दशोनम् ॥ १२ ॥

 याचितेन सुरश्रेष्ठ ! पित्रा तव महात्मना ।
 वरो वर्षसहस्रान्ते मम दत्तः सुतं प्रति ॥ १३ ॥

 सुतं प्रतीति । सुतप्राप्तिं प्रतीत्यर्थः ॥ १३ ॥

 तपश्चरन्त्या वर्षाणि दश वीर्यवतां वर !
 अवशिष्टानि, भद्रं ते, भ्रातरं द्रक्ष्यसे ततः ॥ १४ ॥

 तदर्थ-तपश्चरन्त्या इति षष्ठी ॥ १४ ॥

 तमहं त्वत्कृते पुत्रं समाधास्ये जयोत्सुकम् ।
 त्रैलोक्यविजयं पुत्रं सह भोक्ष्यसि विज्वरः ॥ १५ ॥

 हे पुत्र ! अहं तं-त्वद्भातरं त्वज्जयोत्सुकं त्वत्कृते-त्वत्सुखार्थं समाधास्ये-गतवैरं भ्रातृस्नेहवन्तमेव करिष्ये इत्यर्थः । त्रैलोक्यविजयमिति–त्वद्भ्रातृगतामिति शेषः ॥ १५ ॥

 एवमुक्त्वा दितिश्शक्रं प्राप्ते मध्यं दिवाकरे ।
 निद्रयाऽपहृता देवी पादौ कृत्वाऽथ शीर्षतः ॥ १६ ॥

 'प्राप्ते मध्यं दिवाकरे' इत्यनेन दिवास्वापरूपं पापं सूचितम् । पादौ कृत्वाऽथ शीर्षत इति । आद्यादित्वात् षष्ठ्यर्थे तसिः । शीर्षस्याधसस्थाने पादौ कृत्वा । कथमेवं भवति? शिरसस्तु निद्रावशात्- पादयोः प्रह्वता यदा भवति तदैव स्पष्टमुच्यते, पादयोर्निद्रावशतः शिरसः स्थापनेन मूर्धजानामपि पादयोः कृतत्वं भवति ॥ १६ ॥

 दृष्ट्वा तामशुचिं शक्रः पादतः कृतमूर्धजाम् ।
 शिरस्स्थाने कृतौ पादौ, जहास च मुमोद च ॥ १७ ॥

 उक्त एवार्थ उपपाद्यते-शिर इत्यादि । शिरसोऽधस्स्थाने पादौ सुस्पष्टौ कृतौ । एवं च ब्राह्मणस्य शुद्धस्पर्शेनेव शिरः पादस्पर्शतः अशुचिं-प्राप्ताशुचिं तां दृष्टा प्राप्तरन्ध्रत्वात् मुमोद । मोदवशात् जहास च-स्मितमपि प्राप्तवानित्यर्थः । [५४९] कश्चित्तु शय्यायां यत्र पादौ निधीय्येते तत्र पादयोः स्थाने कृतमूर्धजामित्याह । परिवृत्य शयनमपि किं पापं ? कुतश्च मध्याह्ने यथाप्राप्तशय्याप्रसक्तिः ? तपश्चरन्त्यास्तस्याः कदाऽपि शय्यामात्रस्य? वक्तत्रः वदतु यथेष्टमज्ञानात् ॥ १७ ॥


 तस्याः शरीरविवरं प्रविवेश पुरन्दरः ।
 गर्भं च सप्तधा, राम ! विभेद परमात्मवान् ॥ १८ ॥

 शरीरविवरं गर्भच्छेदाय प्रविवेश । प्रवेशोचितं योनिविवरमित्यर्थः॥

 भिद्यमानस्ततो गर्भो वज्रेण शतपर्वणा ।
 रुरोद सस्वरं, राम ! ततो दितिरबुध्यत ॥ १९ ॥

 शतपर्वणेति । 'शतकोटिः' इति प्रसिद्धं शतपर्वत्वं । तत इति । भिद्यमानगर्भस्य रोदनशब्देनेत्यर्थः ॥ १९ ॥

 मा रुदो मा रुदश्चेति गर्भं शक्रोऽभ्यभाषत ।
 बिभेद च महातेजा रुदन्तमपि वासवः ॥ २० ॥
 न हन्तव्यो न हन्तव्य इत्येवं दितिरब्रवीत् ।
 निष्पपात ततश्शक्रो मातुर्वचनगौरवात् ॥ २१ ॥

 न हन्तव्य इति । विभागेऽपि प्राणवियोजनं मा कुर्वित्यर्थः ॥

 प्राञ्जलिर्वज्रसहितो दितिं शक्रोऽभ्यभाषत ।
 [५५०]अशुचिर्देवि ! सुप्ताऽसि पादयोः कृतमूर्धजा ॥ २२ ॥
 तदन्तरमहं लब्ध्वा शक्रहन्तारमाहवे ।
 अभिदं सप्तधा, देवि ! तन्मे त्वं क्षन्तुमर्हसि ॥ २३ ॥

इत्यार्षे श्रीमद्रामायणे बालकाण्डे षट्चत्वारिंशः सर्गः


 आहवे शक्रस्य-मम हन्तारं अङ्कुरच्छेदन्यायेन अभिन्दं । तन्मे अपचारं त्वं क्षन्तुं अर्हसि । 'यो हिंसार्थमभिक्रान्तं हन्ति, मन्युरेव मन्युं स्पृशति, न तस्मिन् दोषः' इत्यादिधर्मशास्त्रात् स्ववधप्राप्तगवादेरपि हननमदोष इति मत्वैवेदं कृतं, अतस्त्वया क्षन्तव्यमेव ; न मयि

कोऽपि दोष इत्यर्थः । गर (२३) मानः सर्गः ॥ २३ ॥

इति श्रीमद्रामायणामृतकतकटीकायां बालकाण्डे षट्चत्वारिंशः सर्गः

अथ सप्तचत्वारिंशः सर्गः
[ विशालागमनम् ]

 सप्तधा तु कृते गर्भे दितिः परमदुःखिता।
 सहस्राक्षं दुराधर्षं वाक्यं सानुनयाऽब्रवीत् ॥ १ ॥

 अथ गर्भेभेदात्परं किं वृत्तं दितिशक्रयोरित्यतः-सप्तवेत्यादि । दुराधर्षमिति । न्याय्योपायजेतृत्वादित्याशयः ॥ १ ॥

 ममापराधाद्गर्भोऽयं सप्तधा विफलीकृतः ।
 नापराधोऽस्ति, देवेश ! तवात्र बलसूदन ! ॥ २ ॥

 स एवोच्यते-ममेत्यादि ॥ २ ॥

 प्रियं तु कर्तुमिच्छामि मम गर्भविपर्यये ।
 मरुतां सप्त सप्तानां स्थानपाला भवन्त्विमे ॥ ३ ॥
 वातस्कन्धा इमे सप्त चरन्तु दिवि पुत्रकाः ।
 मारुता इति विख्याता दिव्यरूपा ममात्मजाः ॥ ४ ॥

 गर्भस्य विपर्ययः–विपत्तिः, तन्निमित्तप्राप्तौ यत्त्वया कृतं सप्तधा विभागरूपं कर्म, तत् तव यथा प्रियं भवति तथा कर्तुं इच्छामि। कथमित्यतः-मरुतामित्यादि । इमे त्वत्तो विभक्ताः सप्त वातस्कन्धाः- वातसंस्थानविशेषाः सप्तानां मरुतां सप्तसङ्ख्याका स्थानपाला भवन्तु-लोकरक्षिणो भवन्तु । तदर्थमेव चेमे सप्त मे पुत्रका दिवि-खे चरन्तु । अपि च दिव्यरूपा ममात्मजाः मारुता इति विख्याताश्च भवन्तु ॥

 ब्रह्मलोकं चरत्वेक इन्द्रलोकं तथाऽपरः ।
 दिवि वायुरिति ख्यातस्तृतीयोऽपि महायशाः ॥ ५ ॥

 केषां सप्तमरुतां स्थानपाला इमे भवन्त्वित्यतः-ब्रह्मलोकमिति । ब्रह्मलोकं-ब्रह्मस्थानं पालयन् चरतु । तथा इन्द्रलोकमित्यादि । दिवि-अन्तरिक्षे, विष्णुलोक इत्यर्थः ॥ ५ ॥

 चत्वारस्तु, सुरश्रेष्ठ । दिशो वै तव शासनात् ।
 सञ्चरिष्यन्तु, भद्रं ते, देवभूता ममात्मजाः ॥ ६ ॥
 त्वत्कृतेनैव नाम्ना च मारुता इति विश्रुताः ।

 दिशः-पूर्वादिमहादिशः । त्वत्कृतेनेति । मारुदो मारुद इति वचनमूलेनेति शेषः ॥ ६॥

 तस्यास्तद्वचनं श्रुत्वा सहस्राक्षः पुरन्दरः ॥ ७ ॥
 उवाच प्राञ्जलिर्वाक्यं दितिं बलनिषूदनः ।
 सर्वमेतद्यथोक्तं ते भविष्यति न संशयः ॥ ८ ॥
 विचरिष्यन्ति, भद्रं ते, देवरूपास्तवात्मजाः ।

 यथोक्तमिति । ब्रह्मविष्णुरुद्रचतुर्दिक्पालस्थानपालकतादिरूपमित्यर्थः । अत्र ब्रह्मादिस्थानपालवायूनां नामानि तु– “गगनस्स्पर्शनो वायुरनिलश्च तथाऽपरः । प्राणः प्राणेश्वरो जीव इत्येते मारुताः स्मृताः" इति । तेषां कर्मनामानि तु-'आवहप्रवहसंवहोद्वहानुवहपरिवहविहवाः' इति । तत्र आसमन्ताद्वाही आवहो गगनमयब्रह्मलोकपालकत्वात् गगनाख्यो ज्येष्ठः । तथाऽन्येपि द्रष्टव्याः ॥ ८ ॥

 एवं तौ निश्चयं कृत्वा मातापुत्रौ तपोवने ॥ ९ ॥
 जग्मतुस्त्रिदिवं, राम ! कृतार्थाविति नः श्रुतम् ।

 मातापुत्राविति । 'आनङृतः' इत्यत्र ऋत इति पुत्र इत्यप्यनुवर्तनात् पुत्रेत्युत्तरपदे ऋकारान्तस्य आनङ् । नः श्रुतमिति । मतिबुद्धीत्यादिना वर्तमानोक्तेः ‘क्तस्य च वर्तमाने' इति कर्तरि षष्ठी । अस्माभिः श्रूयत इत्यर्थः ॥ ९ ॥

 एष देशस्स काकुत्स्थ ! महेन्द्राध्युषितः पुरा ॥ १० ॥
 दितिं यत्र तपस्सिद्धामेवं परिचचार सः ।

 एवं वर्णितेन्द्रचरितस्य प्रकृतशेषत्वं प्रदर्श्यते-एष इत्यादि । स एष इत्यन्वयः । एवमिति प्रागुक्तरीत्यनुवादः ॥ १० ॥

 इक्ष्वाकोस्तु, नरव्याघ्र ! पुत्रः परमधार्मिकः ॥ ११ ॥
 अलम्बुसायामुत्पन्नो विशाल इति विश्रुतः ।

 एवमुक्तप्राशस्त्ये देशे विशालोत्पत्तिकथनम्-इक्ष्वाकोस्त्वित्यादि ।

 तेन चासीदिह स्थाने विशालेति पुरी कृता ॥ १२ ॥
 विशालस्य सुतो राम ! हेमचन्द्रो महाबलः ।

 कृता आसीत् इत्यन्वयः। एवं विशालामुपवर्ण्य, 'कतरो राजवंशोऽद्य विशालायाम्' इत्युत्तरशेषतया वंशपरम्परा प्रतिपाद्यते-विशालस्येत्यादि ॥ १२ ॥

 सुचन्द्र इति विख्यातो हेमचन्द्रादनन्तरः ॥ १३ ॥
 सुचन्द्रतनयो राम ! धुम्राश्व इति विश्रुतः ।

 धूम्राश्वतनयश्चापि सृञ्जयः समपद्यत ॥ १४ ॥
 सृञ्जयस्य सुतः श्रीमान् सहदेवः प्रतापवान् ।
 कुशाश्वः सहदेवस्य पुत्रः परमधार्मिकः ॥ १५ ॥
 कुशाश्वस्य महातेजाः सोमदत्तः प्रतापवान् ।
 सोमदत्तस्य पुत्रस्तु काकुत्स्थ इति विश्रुतः ॥ १६ ॥
 तस्य पुत्रो महातेजाः सम्प्रत्येष पुरीमिमाम् ।
 आवसत्यमरप्रख्यः सुमतिर्नाम दुर्जयः ॥ १७ ॥

 पुरीमावसतीति । 'उपान्वध्वाङ्वसः' इत्याधारस्य कर्मत्वम् ॥

 इक्ष्वाकोस्तु प्रसादेन सर्वे वैशालिका नृपाः ।
 दीर्घायुषो महात्मानो वीर्यवन्तः सुधार्मिकाः ॥ १८ ॥

 विशाला निवासः येषां ते वैशालिकाः । कुमुदादित्वात् ठक् ॥

 इहाद्य रजनीं, राम ! सुखं वत्स्यामहे वयम् ।
 श्वः प्रभाते, नरश्रेष्ठ ! जनकं द्रष्टुमर्हसि ॥ १९ ॥
 सुमतिस्तु महातेजा विश्वामित्रमुपागतम् ।
 श्रुत्वा नरवरश्रेष्ठः प्रत्युद्गच्छन्महायशाः ॥ २० ॥

 प्रत्युद्गच्छदिति । अभ्युत्थानमकरोदित्यर्थः ॥ २० ॥

 पूजां च परमां कृत्वा सोपाध्यायः सबान्धवः ।
 प्राञ्जलिः कुशलं पृष्ट्वा विश्वामित्रमथाब्रवीत् ॥ २१ ॥
 धन्योऽस्म्यनुगृहीतोऽसि यस्य मे विषयं मुनिः ।
 संप्राप्तो दर्शनं चैव नास्ति धन्यतरो मया ॥ २२ ॥

इत्यार्षे श्रीमद्रामायणे बालकाण्डे सप्तचत्वारिंशः सर्गः

 मया सदृशोऽन्यो धन्यतरो नास्तीति योजना । [५५१]वर (२४) मानः सर्गः ? ॥ २२ ॥

इति श्रीमद्रामायणामृतकतकटीकायां बालकाण्डे सप्तचत्वारिंशः सर्गः


अथ अष्टचत्वारिंशः सर्गः
[अहल्याशापः]

 पृष्ट्वा तु कुशलं तत्र परस्परसमागमे ।
 कथाऽन्ते सुमतिर्वाक्यं व्याजहार महामुनिम् ॥ १ ॥

 अथाहल्याशापमोक्षणं, दिव्यरामचरितप्रतिपादनशेषतया अहल्याशापहेतूपदेशादिस्सर्गद्वयेन । पृष्ट्वा त्वित्यादि । कथाऽन्ते व्याजहारेति । अनेन प्रसङ्गान्तरे चिन्ताव्याक्षेपपरिहरेण रामस्वरूपादिविषयप्रश्नादरातिशयो द्योत्यते ॥ १ ॥

 इमौ कुमरौ, [५५२]भद्रं ते, देवतुल्यपराक्रमौ ।
 गजसिंहगती वीरौ शार्दूलवृषभोपमौ ॥ २ ॥

 गजसिंहगती शार्दूलवृषभोपमाविति च क्रमेण रामलक्ष्मणयोर्ग मनाकारविषयकोपमाने। 'गजगती रामः, प्रभुत्वात्; अन्यगतिर्लक्ष्मणः ; अत एव शार्दूलोपमो रामः, अन्यः अन्योपमः ॥ २ ॥

 पद्मपत्रविशालाक्षौ खड्गतूणीधनुर्धरौ ।
 अश्विनाविव रूपेण समुपस्थितयौवनौ ॥ ३ ॥

 समुपस्थितयौवनौ । अत एव रूपेण अश्विनाविव स्थितौ ॥


 यदृच्छयैव गां प्राप्तौ देवलोकादिवामरौ ।
 कथं पद्भ्यामिह प्राप्तौ ? किमर्थं ? कस्य वा ? मुने !॥ ४ ॥

 यदृच्छया-दैववशसम्पन्ननिमित्तविशेषेणेति यावत् । इदं तु वास्तवं किमर्थं-किं प्रयोजनमुद्दिश्य । कस्य वेति । सुताविति शेषः ॥

 भूषयन्ताविमं देशं चन्द्रसूर्याविवाम्बरम् ।
 परस्परस्य सदृशौ प्रमाणेङ्गितचेष्टितैः ॥ ५ ॥

 भूषयन्ताविति। निजतेजसेति शेषः । तादृशपुरुषान्तरस्याभावात्–परस्परस्येति । प्रमाणं-आकारप्रमाणम् । इङ्गितं-आन्तराशय बोधकस्मितादिः । चेष्टा-वचनगमनादि ॥ ५ ॥

 किमर्थं च नरश्रेष्ठौ संप्राप्तौ दुर्गमे पथि ।
 वरायुधधरौ वीरौ,श्रोतुमिच्छामि तत्त्वतः ॥ ६ ॥

 किमर्थं प्राप्ताविति । आदरातिशयात् पुनः प्रश्नः ॥ ६ ॥

 [५५३]तस्य तद्वचनं श्रुत्वा यथावृत्तं न्यवेदयत् ।
 सिद्धाश्रमनिवासं च राक्षसानां वधं तथा ॥ ७ ॥

 यथावृत्तं न्यवेदयदिति । दशरथकुमारावस्मद्यज्ञविघ्ननिवारणार्थं अस्मदा [५५४]करणात्-सिद्धाश्रममागताविति सिद्धाश्रमनिवासपर्यन्तवृत्तान्तः -राक्षसानामिति । तदूध रूपयज्ञविघ्ननिवृत्तिप्रयोजनम्, चकाराज्जनक-धनुर्दिदृक्षयैतद्देशगमनं च न्यवेदयदित्यर्थः ॥ ७ ॥

 विश्वामित्रवचःश्रुत्वा राजा [५५५]परमहर्षितः ।
 अतिथी परमौ प्राप्तौ पुत्रौ दशरथस्य तौ ॥ ८ ॥


 पूजयामास विधिवत् सत्कारार्हौ महाबलौ ।
 ततः परमसत्कारं सुमतेः प्राप्य राघवौ ॥ ९ ॥
 उष्य तत्र निशामेकां जग्मुतुर्मिथिलां ततः ।

 उष्य-उषित्वा ॥९॥

 [५५६][५५७]तां दृष्ट्वा मुनयस्सर्वे जनकस्य पुरीं शुभाम् ॥ १० ॥
 साधु साध्विति शंसन्तो मिथिलां समपूजयन् ।

 समपूजयन्निति पूजाप्रकार एव-साधु साध्विति शंसनम् ॥

 मिथिलोपवने तत्र आश्रमं दृश्य राघवः । ॥ ११ ॥
 पुराणं निर्जनं रम्यं पप्रच्छ मुनिपुङ्गवम् ।

 मिथिलाया उप-समीपे वर्तमानं वनं तथा । दृश्य-दृष्ट्वा । पुराणत्वादिविशेषणमाश्रमस्य ॥ ११ ॥

 श्रीमदाश्रमसङ्काशं किं न्विदं मुनिवर्जितम् ॥ १२ ॥
 श्रोतुमिच्छामि भगवन् ! कस्यायं पूर्व आश्रमः ।

 आश्रमसङ्काशं-आश्रमवदवभासमानं, नापि चाश्रमशक्यवादम्, इदानीं मुनिवर्जितत्वात्, अत इदं किन्नु अस्यैव विवरणम्-कस्यायं पूर्व आश्रम इति । पूर्वः– पूर्वकालस्वभूतः ॥ १२ ॥

 तच्छ्रुत्वा राघवेणोक्तं वाक्यं वाक्यविशारदः ॥ १३ ॥
 प्रत्युवाच महातेजा विश्वामित्रो महामुनिः ।
 हन्त ! ते कथयिष्यामि शृणु तत्वेन राघव ! ॥ १४ ॥
 यस्येदमाश्रमपदं शप्तं कोपान्महात्मना ।


 प्रश्नस्यास्य अहल्यानुग्रहहेतुकालस्मृतिजसन्तोषः-हन्तेति ।

महात्मना कोपात् शप्तं-प्राप्तशापं इदं आश्रमपदं यस्य भवति, तत्, कथयिष्यामि ; तत्त्वेन तत् श्रुण्विति योजना ॥ १४ ॥

 गौतमस्य नरश्रेष्ठ ! पूर्वमासीन्महात्मनः ॥ १५ ॥
 आश्रमो दिव्यसङ्काशः सुरैरपि सुपूजितः ।

 तदेव प्रतिपाद्यते-गौतमस्येत्यादि । दिव्यसङ्काशः-दिव्यत्वेन सङ्काशमानः ॥ १५ ॥

 स चेह तप आतिष्ठदहल्यासहितः पुरा ॥ १६ ॥
 वर्ष [५५८]पूगान्यनेकानि राजपुत्र महायशः !

 वर्षपूगानि–अनेकवर्षाणि ॥ १६ ॥

 तस्यान्तरं विदित्वा तु सहस्राक्षः शचीपतिः ॥ १७॥
 मुनिवेषधरोऽहल्यामिदं वचनमब्रवीत् ।

 अन्तरं-मुनिसन्निधानरहितकालं । मुनिवेषधर इति। गौतमवेषधर इत्यर्थः । 'मम रूपं समास्थाय' इति वक्ष्यमाणत्वादेवं व्याख्या ॥ १७ ॥

 ऋतुकालं प्रतीक्षन्ते नार्थिनः [५५९]सुसमाहिते !
 सङ्गमं त्वहमिच्छामि त्वया सह सुमध्यमे ! ॥ १९ ॥

 ऋतुकालं-शास्त्रीयस्त्रीसंसर्गकालं । अर्थिन इति । कामात् सम्भोगार्थिन इत्यर्थः । काले सुसमाहिते-सङ्गमोचितकाले सुसङ्घट्टिते सति ऋतुकालं न प्रतीक्षन्त इति योजना । हे सुमध्यमे ! इत्यनेन स्वेनाप्यभिलष्यदिव्यस्त्रीत्वं सूचितम् ॥ १९ ॥


 [५६०]मुनिवेषं सहस्राक्षं विज्ञाय रघनन्दन !
 [५६१]मतिं चकार दुर्मेधा देवराजकुतूहलात् ॥ २० ॥

 मुनिवेषं सहस्राक्षं विज्ञायेति । 'ऋतुकालं प्रतीक्षन्ते नार्थिनः' इति वचनात् गौतमव्यतिरिक्तस्याश्रमवर्तिसर्वप्राणिजातस्य नैश्शङ्क्याय गौतम वेषधरोऽयमिन्द्र इति विज्ञायेत्यर्थः । अथाऽपि कथमिन्द्रत्व-निश्चयः ? अन्येनैवं मयि प्रवृत्तेरशक्यार्थत्वादित्यनुमानात्, इन्द्रेणैव स्वतस्तत्त्वप्रकाशनाद्वा । देवराजो मामभिलषितवानिति कुतूहलं तथा, तेन हेतुना सम्भोगे मतिं चकार-कृतवती च ॥ २० ॥

 अथाब्रवीत् सुरश्रेष्ठं कृतार्थेनान्तरात्मना ।
 [५६२]कृतार्थाऽस्मि सुरश्रेष्ठ ! गच्छ शीघ्रमितः प्रभो ! ॥२१॥

 अथ-सम्भोगानन्तरम् ॥ २१ ॥

 आत्मानं मां च देवेश ! सर्वदा रक्ष मानद !
 इन्द्रस्तु [५६३]प्रहसन् वाक्यमहल्यामिदमब्रवीत् ॥ २२ ॥

 आत्मन् शब्दः इन्द्रार्थः ॥ २२ ॥

 सुश्रोणि ! परितुष्टोऽस्मि गमिष्यामि यथाऽऽगतम् ।
 एवं सङ्गम्य तु तथा निश्चक्रामोटजात् ततः ॥ २३ ॥
 स संभ्रमात् त्वरन् राम ! शङ्कितो गौतमं प्रति ।

 स इति पृथक्पदम् । सम्भ्रमः-मोहः; 'सम्भ्रमोऽत्यादरे भये' इति वैजयन्ती । गौतमं प्रति शङ्कितः-शङ्कावान् ॥ २३ ॥


 गौतमं तं ददर्शाथ प्रविशन्तं महामुनिम् ।
 देवदानवदुर्धर्षं तपोबलसमन्वितम् ॥ २४ ॥

 अथ-उटजनिष्क्रमणसमनन्तरमेव । तं ददर्शेति । यं प्रति शङ्कितवान् तं ददर्श ॥ २४ ॥

 तीर्थोदकपरिरक्लन्नं दीप्यमानमिवानलम् ।
 गृहीतसमिधं तत्र सकुशं मुनिपुङ्गवम् ॥ २५ ॥
 दृष्ट्वा सुरपतिस्त्रस्तो [५६४]विषण्णवदनोऽभवत् ।

 अत एव-विषण्णवदनः ॥ २५ ॥

 अथ दृष्ट्वा सहस्राक्षं मुनिवेषधरं मुनिः ॥ २६ ॥
 दुर्वृत्तं वृत्तसम्पन्नो रोषाद्वचनमब्रवीत् ।
 मम रूपं समास्थाय कृतवानसि दुर्मते ! ॥ २७ ॥
 अकर्तव्यमिदं, तस्मात् विफलस्त्वं भविष्यसि ।

 मम रूपं इति । अस्मच्छब्दो गौतमार्थः । यस्मादिदं अकर्तव्यं-कर्तुमनर्हं कृतवानसि; तस्मात् त्वं विफलः-विगतवृषणः भविष्यसि ।'लाभनिष्पत्तिभोगेषु बीजे फाले धने फलम्' ॥ २७ ॥

 गौतमेनैवमुक्तस्य सरोषेण महात्मना ॥ २८ ॥
 [५६५]पेततुर्वृषणौ भूमौ सहस्राक्षस्य तत्क्षणात् ।
 तथा शप्त्वा स वै शक्रमहल्यामपि शप्तवान् ॥ २९ ॥
 इह वर्षसहस्राणि बहूनि त्वं निवत्स्यसि ।
 [५६६]वायुभक्षा [५६७]निराहारा तप्यन्ती भस्मशायिनी ॥ ३० ॥


 [५६८]अदृश्या सर्वभूतानां आश्रमेऽस्मिन् वसिष्यसि ।

 इहेत्यादि । इह-आश्रमे बहूनि वर्षसहस्राणि त्वं निवत्स्यसि । कामेन पीडितवतीत्यतः-वाय्वित्यादि । इहाश्रम एव निराहारा-अन्नपानप्राप्तिरहिता, अत एव तप्यन्ती-परितप्यमाना भस्मशायिनी-नित्यभस्मावृता सर्वभूतानां अदृश्या-दृष्ट्यगोचरा केवलं वायुभक्षा सती वसिष्यसि ॥ ३० ॥

 एवमुक्त्वा महातेजा गौतमो दुष्टचारिणीम् ॥ ३१ ॥
 इममाश्रममुत्सृज्य सिद्धचारणसेविते ।
 हिमवच्छिखरे रम्ये तपस्तेपे महातपाः ॥ ३२ ॥

इत्यार्षे श्रीमद्रामायणे बालकाण्डे अष्टचत्वारिंशः सर्गः

 एवं शापं उक्त्वा इममाश्रममुत्सृज्य हिमवच्छिखरे तपस्तेपे ।
 ननु शिलारूपेणावस्थाने शापं तस्य च रामपादस्पर्शे मोक्षं चोक्तवान् गौतम इति वदन्ति । तत्कथं ? त्वमेव पश्य ; शिलारूपा भवेति शापग्रन्थिः, तथा शिलारूपं जहाविति तन्मोक्षप्रति पादको ग्रन्थोऽस्तीति सा प्रसिद्धिर्निर्मूला वा ? समूलैव । कथं ? किञ्चित्पुराणप्रसिद्धिमूला । तर्हि तद्वेदं वा प्रमाणं? [५६९]रामेण शरसेतु-


बन्धप्रसिद्धिवत्कल्पभेदे शिलाशापादिप्रसिद्धिरिति । वाल्मीक्यनुभवगोचररामावतारे शिलाहल्यामोक्षणं रामचरिते नास्तीत्येव । [५७०]कश्चित्तु पुराणश्लोकं 'एवमुक्त्वा महातेजास्संहारं तु तदाऽकरोत् । यदा चैतद्वनं घोरम्'

इत्यादि सार्धश्लोकद्वयं गौतमेन शापमोक्षप्रतिपादकं[५७१]प्राक्षिपत् । व्याकरोच्च शिलाकथामपि । व्याकरोतु । किं नः ? राग (३२) मानः ॥ ३२ ॥

इति श्रीमद्रामायणामृतकतकटीकायां बालकाण्डे अष्टचत्वारिंशः सर्गः


अथ एकोनपञ्चाशः सर्गः
[अहल्याशापनिवृत्तिः]

 विफलस्तु ततः शक्रो देवानग्निपुरो[५७२]गमान् ।
 अब्रवीत् [५७३]त्रस्तवदनः सर्षिसङ्घान् सचारणान् ॥ १ ॥

 अथ कथं शतक्रतोर्धर्मबन्धोः अधर्मप्रवृत्तिरिति शङ्कापरिहाराद्युपदेशपूर्वं प्रकृताश्रमप्रवेशादिव्यापारोपदेशः । विफलस्त्वित्यादि । त्रस्तवदन इति । त्रासेन तत्कार्यं दैन्यं लक्ष्यते । दीनवदन इति यावत् ॥१॥

 कुर्वता तपसो विघ्नं गौतमस्य महात्मनः ।
 क्रोधमुत्पाद्य हि मया सुरकार्यमिदं कृतम् ॥ २ ॥

 गौतमस्य तपसो विघ्नं कुर्वतेति ।अस्मदादिदेवपदापहारहेतुत्वात्तत्तपसः विघ्नस्य स्वात्मरक्षार्थमवश्य कर्तव्यत्वादिति शेषः । एवं च क्रोधमुत्पाद्य तपोनाशरूपं इदं सुरकार्यमेव कृतम् ॥ २ ॥


 विफलोऽस्मि कृतस्तेन क्रोधात्, सा च निराकृता ।
 शापमोक्षेण महता तपोऽस्यापहृतं मया ॥ ३ ॥

 क्रोधविनश्यत्तपसा तेन ऋषिणाऽहं विफलः कृतोऽस्मि । सा च अहल्या दुष्टचारिणीति निराकृता परित्यक्ता; प्रागुक्तरूपशापपूर्वं । एवं महता उभयत्र शापमोक्षेणास्य तपो मयाऽपहृतम् ॥ ३ ॥

 तस्मात् सुरवराः सर्वे सर्षिसङ्घाः सचारणाः !
 सुरसाह्यकरं सर्वे सफलं कर्तुमर्हथ ॥ ४ ॥

 यस्मात् एवं, तस्मात् सर्वे यूयं सुरसाह्यकरं मां सफलं कर्तुमर्हथ ॥

 शतक्रतोर्वचः श्रुत्वा देवाः साग्निपुरोगमा: ।
 [५७४]पितृदेवानुपत्याहुः सर्वे सह मरुद्गणैः ॥ ५ ॥

 पितृदेवाः-अग्निकव्यवाहनादयः, तानुपेत्य हव्यवाहनाग्निमुखेन आहुः, 'अग्नेस्तु वचनं श्रुत्वा' (श्लो. १०) इति वक्ष्यमाणात्वादिहायं विशेषः ॥ ५ ॥

 अयं मेषः सवृषणः शक्रो ह्यवृषणः कृतः ।
 मेषस्य वृषणौ गृह्य [५७५]शक्रस्याशु प्रयच्छत ॥ ६ ॥

 अयं मेष इति । योऽयं भवतां हविष्ट्वेन वाहनत्वेन च कल्पितः अयमित्यर्थः । गृह्य-गृहीत्वा । मेषस्य वृषणौ अपहृत्य शक्रस्याशु प्रयच्छत । शक्रस्य वृषणौ मेषस्य च प्रयच्छतेति शेषः । न हि मेषानवृषणान् पश्यामः ॥ ६॥


 [५७६]अफलस्तु कृतो मेषः परां [५७७]पुष्टिं प्रदास्यति ।
 भवतां हर्षणार्थे च ये च दास्यन्ति मानवाः ।
 [५७८]अक्षयं हि फलं तेषां यूयं दास्यथ पुष्कलम् ॥ ७॥

 कथं तर्हि अफलस्तु कृतो मेषः परां पुष्टिं प्रदास्यति ? युष्मभ्यं- युष्मत्प्रीत्यर्थं ये च मानवाः-अफलं मेषं हविष्ट्वेन दास्यन्ति तेषामक्षयं-स्वर्गादिफलं च दास्यथेति वचनमुच्यते । युष्मभ्यं यदा मेषो हविः सम्पद्यते तदा अफलः-फलांशव्यतिरिक्त एव कृतः-हविष्ट्वेन कृतो युष्मत्प्रीतयेऽस्तु, तदीयवृषणस्यैन्द्रत्वेन युष्मत्पशव्यत्वात् त्यक्तवृषणकमेव युष्मत्प्रीतयेऽस्तु ॥ ७ ॥

 अग्नेस्तु वचनं श्रुत्वा पितृदेवाः समागताः ।
 उत्पाट्य मेषवृषणौ सहस्राक्षे न्यवेशयन् ॥ ८ ॥

 अग्नेस्तु वचनं श्रुत्वेति । अग्निमुखेन कृतं देवनियोगमित्यर्थः । समागताः-पितृपितामहप्रपितामहन्निप्रकारस्वगणैस्सम्भूयागताः तथा, तथैव किल तेषामाराधनम् ॥ ८ ॥

 तदाप्रभृति काकुत्स्थ ! पितृदेवाः समागताः ।
 [५७९]अफलान् भुञ्जते मेषान्, फलैस्तेषामयोजयन् ॥ ९ ॥

 अफलान्-फलांशव्यतिरिक्तान् ॥ ९ ॥


 इन्द्रस्तु मेषवृषणस्तदाप्रभृति राघव !
 गौतमस्य प्रभावेन [५८०]तपसश्च महात्मनः ॥ १० ॥

 तपसः प्रभावेणावृषणः पितृदेवतानुप्रहेण सवृषणश्चेत्यर्थः ॥१०॥

 तदागच्छ महातेजः ! आश्रमं पुण्यकर्मणः ।
 तारयैनां महाभागामहल्यां देवरूपिणीम् ॥ ११ ॥

 हे महातेजः राम ! पुण्यकर्मणः-गौतमस्य तत्-आश्रमपदं आगच्छ । ननु भगवन् ! ताटकावत् शापात् घोररूपाहल्यया अवष्टब्धमाश्रमं कथं गच्छेयमित्य[५८१]त्रोक्तम्-अहल्यां देवरूपिणीमिति । शापस्य त्वेतदाश्रमावकाशगमनावधिकत्वतोऽद्य मुक्तशापत्वतो देवरूपिणीं–देवगणतुल्यरूपिणीं महाभागामेनां -स्वभर्तृप्रतिपत्तिफलकं तदीयमातिथ्यं गृहत्विा एनां तारय-भर्तृप्रापणेनानुगृहाण ॥ ११ ॥

 विश्वामित्रवचः श्रुत्वा राघवः सहलक्ष्मणः ।
 विश्वामित्रं पुरस्कृत्य तमाश्रममथाविशत् ॥ १२ ॥
 ददर्श च महाभागां तपसा द्योतितप्रभाम् ।
 लोकैरपि समागम्य दुर्निरीक्षां सुरासुरैः ॥ १३ ॥

 अथाश्रमं प्रविश्य यथा विश्वामित्रोक्तं तथैव तां पश्यति स्मेत्युच्यते-ददर्श चेत्यादि । मुक्तप्रतिबन्धेन तपसा सहजभूतेन द्योतिता-प्रकाशिता विद्युदादेरिव दुर्निरीक्षा प्रभा यस्यास्सा तथा । अत एव समागम्य–तस्यास्समीपमागत्य सुरासुरैरपि लोकैर्दुर्निरीक्षाम् ॥ १३ ॥

 प्रयत्नान्निर्मितां धात्रा दिव्यां मायामयीमिव ।
 [५८२]सतुषारावृतां साभ्रां पूर्णचन्द्रप्रभामिव ॥ १४ ॥
 मध्येंऽभसो दुराधर्षां दीप्तां सूर्यप्रभामिव ।


 प्रयत्नान्निर्मितामित्यादिना देवराजाभिलषीयदिव्यरूपत्वमुक्तम् ।

[५८३]सतुषारावृतसाभ्रपूर्णचन्द्रप्रभोपमानं, निबिडवृक्षाश्रममध्यवर्तिशान्ततेजोरूपत्वात् । मध्येऽभस इत्यादिना प्रतिमासूर्योपमानं । पृष्ठीकृतावरणोपाधिशुद्धसहजतजसि इदानीं शापान्त एवं स्वभावा एषा ॥ १४ ॥

 सा हि गौतमवाक्येन दुर्निरीक्ष्या बभूव ह ॥ १५ ॥
 त्रयाणामपि लोकानां यावत् रामस्य दर्शनम् ।
 शापस्थान्तमुपागम्य तेषां दर्शनमागता ॥ १६ ॥

 सा हि गौतमशापवाक्येन यावद्रामस्य दर्शनं दुर्निरीक्ष्या बभूव । सैषा शापस्यान्तमुपागम्य दिव्यरूपा सती तेषां दर्शनमागता ॥ १६ ॥

 राघवौ त्वतिथी तस्याः पादौ जगृहतुस्तदा ।
 स्मरन्ती गौतमवचः प्रतिजग्राह सा च तौ ॥ १७॥

 गौतमवचः स्मरन्ती-अस्मदाश्रमप्राप्तराघवपूजया पुनरस्मत्सम्बन्धोऽस्त्वित्येवंरूपं-स्वभर्तृवचनं स्मरन्ती । तत एव हेतोः तौ प्रतिजग्राह । [५८४]तयोः पूजनीयत्वबुद्धिमकरोदित्यर्थः ॥ १७ ॥

 पाद्यमर्ध्यं तथाऽऽतिथ्यं चकार सुसमाहिता ।
 प्रतिजग्राह [५८५]काकुत्स्थो विधिदृष्टेन कर्मणा ॥ १८ ॥
 पुष्पवृष्टिर्महत्यासीत् देवदुन्दुभिनिस्वनैः ।
 गन्धर्वाप्सरसां चापि महानासीत् समागमः ॥ १९ ॥

 पुष्पवृष्टिरासीदिति । रामस्येति शेषः ॥ १९ ॥


 साधु साध्विति देवास्तामहल्यां समपूजयन् ।
 तपोबलविशुद्धाङ्गीं गौतमस्य वशानुगाम् ॥ २० ॥

 भगवतो रामस्य ब्रह्मणः पूजया कृतार्थायाः सत्या अहल्यायाः पूजा ॥ २० ॥

 गौतमो हि महातेजा अहल्यासहितः सुखी ।
 रामं संपूज्य विधिवत् तपस्तेपे महातपाः ॥ २१ ॥

 अहल्यासहितस्सुखी रामं संपूज्येत्यनेन पुनस्तत्काल आश्रम- प्राप्तिरिति सूचितम् ॥ २१ ॥

 रामोऽपि परमां पूजां गौतमस्य महामुनेः ।
 सकाशाद्विधिवत्प्राप्य जगाम मिथिलां ततः ॥ २२ ॥

इत्यार्षे श्रीमद्रामायणे बालकाण्डे एकोनपञ्चाशः सर्गः

 खुर (२२) मानः सर्गः ॥ २२ ॥

इति श्रीमद्रामायणामृतकतकटीकायां बालकाण्डे एकोनपञ्चशः सर्गः

अथ पञ्चाशः सर्गः
[जनकसमागमः]

 ततः प्रागुत्तरां गत्वा रामः सौमित्रिणा सह ।
 विश्वामित्रं पुरस्कृत्य यज्ञवाटमुपागमत् ॥ १ ॥

 एवमहल्याऽनुग्रहरूपश्रीरामचरितवर्णनानन्तरं जनकधनुर्भङ्गादिदिव्यचरितवर्णनशेषतया जनकदर्शनं प्रतिपाद्यते-ततः प्रागुत्तरामित्यादि । ईशानदिशमित्यर्थः । तत इति । तस्माद्गौतमाश्रमादित्यर्थः ॥ १ ॥

 रामस्तु मुनिशार्दूलमुवाच सहलक्ष्मणः ।
 साध्वी यज्ञसमृद्धिर्हि जनकस्य महात्मनः ॥ २ ॥

 बहूनीह सहस्राणि नानादेशनिवासिनाम् ।
 ब्राह्मणानां महाभाग ! वेदाध्ययनशालिनाम् ॥ ३ ॥

 अध्ययनशालिनामिति । सङ्घो दृश्यत इति शेषः ॥ ३ ॥

 ऋषिवाटाश्च दृश्यन्ते शकटीशतसंङ्कुलाः ।
 देशो विधीयतां ब्रह्मन् ! यत्र वत्स्यामहे वयम् ॥ ४ ॥

 शकटीशतेति । अग्निसम्भारशकटीशतैः सङ्कुलाः ऋषिवाटाः-यज्ञार्थमागताग्निहोत्रिमहर्षिनिवासा इत्यर्थः । एवं नैबिड्यात् स्वावासदेश-प्रश्नः-देश इत्यादि ॥ ४ ॥

 रामस्य वचनं श्रुत्वा विश्वामित्रो महामुनिः ।
 [५८६]निवेशमकरोद्देशे विविक्ते सलिलान्विते ॥ ५ ॥

 विविक्ते सलिलान्वित इत्यनेन[५८७] योगानुष्ठानसौकर्यमुक्तम् ॥

 विश्वामित्रमनुप्राप्तं श्रुत्वा स नृपतिस्तदा ।
 शतानन्दं पुरस्कृत्य पुरोहित[५८८]मनिन्दितम् ॥ ६ ॥
 प्रत्युज्जगाम सहसा[५८९]विनयेन समन्वितः ।

 प्रत्युज्जगामेति । दीक्षितविमितप्रदेशसीमाकमनतिलङ्घयन्निति शेषः ॥ ६ ॥

 ऋत्विजोऽपि महात्मानस्त्वर्घ्यमादाय सत्वरम् ॥ ७ ॥
 विश्वामित्राय धर्मेण ददुर्मन्त्रपुरस्कृतम् ।
 प्रतिगृह्य तु तां पूजां जनकस्य महात्मनः ॥ ८ ॥
 पप्रच्छ कुशलं राज्ञो यज्ञस्य च निरामयम् ।

 निरामयं-निर्विघ्नम् ॥ ८ ॥


 स तांश्चापि मुनीन् पृष्ट्वा सोपाध्यायपुरोधसः ॥ ९ ॥
 यथान्यायं ततः सर्वैः समागच्छत् प्रहृष्टवत् ।

 स तांश्चेति । स्वस्यार्ध्यदातॄन् ऋत्विजश्च कुशलं पृष्ट्वेत्यर्थः । प्रहृष्टवदिति । भावे निष्ठान्तान्मतुप् । सन्तोषसहितं यथा तथा सर्वैः संगतो बभूवेत्यर्थः । कश्चित् 'तदर्हम्' इति वतिरित्याह- तदसत्-राजानमर्हति छत्रं राजवदिति अर्हक्रियावत् द्वितीया समर्थां का चन क्रियाऽपीह दृश्यते ? ॥ ९ ॥

 अथ राजा मुनिश्रेष्ठं कृताञ्जलिरभाषत ॥ १० ॥
 आसने भगवन्नास्तां सहैभिर्मुनिसत्तमैः ।
 जनकस्य वचः श्रुत्वा निषसाद महामुनिः ॥ ११ ॥
 पुरोधा ऋत्विजश्चैव राजा च सह मन्त्रिभिः ।

 निषसाद महामुनिरित्यादिना यथान्यायमासनोपवेशः ॥ ११ ॥

 आसनेषु यथान्यायमुपविष्टान् समन्ततः ॥ १२ ॥
 दृष्ट्वा स नृपतिस्तत्र विश्वामित्रमथाब्रवीत् ।
 अद्य यज्ञसमृद्धिर्मे सफला दैवतैः कृता ॥ १३ ॥
 अद्य यज्ञफलं प्राप्तं भगवद्दर्शनान्मया ।

 समृद्धिः–अङ्गवैकल्यराहित्येन सद्गुणसमग्राङ्गोपेता जाता । अत एव सफला कृता । इष्टिरिति शेषः ॥ १३ ॥

 धन्योऽस्म्यनुगृहीतोऽस्मि यस्य मे मुनिपुङ्गव ! ॥ १४ ॥
 यज्ञोपसदनं ब्रह्मन् ! प्राप्तोऽसि मुनिभिः सह ।
 द्वादशाहं तु ब्रह्मर्षे ! शेषमाहुर्मनीषिणः ॥ १५ ॥
 ततो भागार्थिनो देवान् द्रष्टुमर्हसि कौशिक !

 यज्ञोपसदनं-देवयजनम् । द्वादशाहमिति । द्वादश अहानि समाहृतानि,'राजाहः' इति टच्, 'न संख्यादेः ' इत्यह्नादेशाभावः, द्वादशदिनान्येवावशिष्टानि यज्ञस्येति मनीषिणो विद्वदृत्विज आहुः वदन्ति । बुवो लटि उसाहौ । देवान् द्रष्टुमर्हसीति । विश्वामित्रे तत्सामर्थ्याविस्मयात् ॥ २६ ॥

 इत्युक्त्वा मुनिशार्दूलं प्रहृष्टवदनस्तदा ॥ १६ ॥
 पुनस्तं परिपप्रच्छ प्राञ्जलिः प्रणतो नृपः ।
 इमौ कुमारौ, भद्रं ते, देवतुल्यपराक्रमौ ॥ १७ ॥
 गजसिंहगती वीरौ शार्दूलवृषभोपमौ ।
 पद्मपत्रविशालाक्षौ खड्गतूणीधनुर्धरौ ॥ १८ ॥
 अश्विनाविव रूपेण समुपस्थितयौवनौ ।
 [५९०]यदृच्छयैव गां प्राप्तौ देवलोकादिवामरौ ॥ १९ ॥
 कथं पद्भ्यामिह प्राप्तौ किमर्थं कस्य वा मुने ! ॥ २० ॥
 वरायुधधरौ वीरौ कस्य पुत्रौ महामुने !
 भूषयन्ताविमं देशं चन्द्रसूर्याविवाम्बरम् ॥ २१ ॥
 परस्परस्य सदृशौ प्रमाणेङ्गितचेष्टितैः ।
 काकपक्षधरौ वीरौ श्रोतुमिच्छामि तत्त्वतः ॥ २२ ॥

 इमौ कुमारावित्यादि गतार्थम् ॥ १७ ॥

 तस्य तद्वचनं श्रुत्वा जनकस्य महात्मनः ।
 न्यवेदयन्महात्मानौ पुत्रौ दशरथस्य तौ ॥ २३ ॥


 सिद्धाश्रमनिवासं च राक्षसानां वधं तथा ।
 तच्चागमनमव्यग्रं विशालायाश्च दर्शनम् ॥ २४ ॥
 अहल्यादर्शनं चैव गौतमेन समागमम् ।
 महाधनुषि जिज्ञासां कर्तुमागमनं तथा ॥ २५ ॥
 एतत्सर्वं महातेजा जनकाय महात्मने ।
 निवेद्य विररामाथ विश्वामित्रो महामुनिः ॥ २६ ॥

इत्यार्षे श्रीमद्रामायणे बालकाण्डे पञ्चाशः सर्गः

 महाधनुषि जिज्ञासां कर्तुं आगमनमिति । ज्ञानमिहापरोक्षं गृह्यते । महाधनुर्विषये रामस्य दिदृक्षां, तथा दृष्टस्य तस्य सज्जीकरणादिकं च कर्तुमिच्छया आगमनमित्येतत् सर्वं निवेद्य विरराम । चारु(२६) मानः सर्गः ॥ २६ ॥

इति श्रीमद्रामायणामृतकतकटीकायां बालकाण्डे पञ्चाशः सर्गः


अथ एकपञ्चाशः सर्गः
[विश्वामित्रचरितोपक्रमः]

 तस्य तद्वचनं श्रुत्वा विश्वामित्रस्य धीमतः ।
 हृष्टरोमा महातेजाः शतानन्दो महातपाः ॥ १ ॥

 अथ शतानन्देन निजमात्रनुग्रहाय रामनेतरि विश्वामित्रे परमप्रीत्या तद्वैभववर्णनमुत्तरैस्सर्गैः । तस्येत्यादि । हृष्टरोमा-स्वमातुः प्रत्यापतिश्रवणजसन्तोषेण सञ्जातरोमाञ्चः ॥ १ ॥

 गौतमस्य सुतो ज्येष्ठस्तपसा द्योतितप्रभः ।
 रामसन्दर्शनादेव परं विस्मयमागतः ॥ २ ॥

 स तौ निषण्णौ संप्रेक्ष्य सुखासीनौ नृपात्मजौ ।
 शातानन्दो मुनिश्रेष्ठं विश्वामित्रमथाब्रवीत् ॥ ३ ॥

 तौ निषण्णौ संप्रेक्ष्य, तत्रापि रामसंदर्शनादेव परं विस्मयमागतः । अहो महिमा रामस्य ! यन्मे माता कृतार्थीकृतेति विस्मयं प्राप्त इत्यर्थः ॥ ३ ॥

 अपि ते मुनिशार्दूल ! मम माता यशस्विनी ।
 दर्शिता राजपुत्राय तपो दीर्घमुपागता ॥ ४ ॥

 स एव विस्मयहेतुः प्रकाश्यते-अपि ते मुनिशार्दूलेत्यादिना ॥

 अपि रामे महातेजा मम माता यशस्विनी ।
 वन्यैरुपाहरत् पूजां पूजार्हे सर्वदेहिनाम् ॥ ५ ॥

 रामे । रामविषय इति यावत् ॥ ५ ॥

 अपि रामाय कथितं [५९१]यद्वृत्तं तत् पुरातनम् ।
 मम मातुर्महातेजः ! [५९२]देवेन [५९३]दुरनुष्ठितम् ॥ ६ ॥

 हे महातेजः विश्वामित्र ! मम मातुर्विषये देवेन-इन्द्रेण दुरनुष्ठितरूपं पुरातनं यद्वृत्त-चरितमस्ति तत् यथा-यथावत् कथितमपि-कथितं किं सर्वतः ? अपिः प्रश्ने ॥ ६ ॥

 अपि कौशिक ! भद्रं ते, गुरुणा मम सङ्गता ।
 माता मम, मुनिश्रेष्ठ ! [५९४]रामसन्दर्शनादितः ॥ ७ ॥

 गुरुणा-पित्रा । रामसन्दर्शनादित इति । गतशापेति शेषः ।


 अपि मे गुरुणा रामः पूजितः कुशिकात्मज !
 इहागतो महातेजाः पूजां [५९५]प्राप्य महात्मनः ॥ ८ ॥
 अपि [५९६]शान्तेन मनसा गुरुर्मे कुशिकात्मज !
 इहागतेन रामेण[५९७]प्रयत्नेनाभिवादितः ॥ ९ ॥

 इह अस्मदाश्रये समागतो महातेजा रामः पूजितोपि ? महात्मनो मम गुरोस्सकाशात् पूजां प्राप्य शान्तेन मनसा उपलक्षितेनेहागतेन रामेण मम गुरुः प्रयत्नेनाभिवादितः किम् ?॥ ८-९ ॥

 तच्छ्रुत्वा वचनं तस्य विश्वामित्रो महामुनिः ।
 प्रत्युवाच शतानन्दं वाक्यज्ञो वाक्यकोविदम् ॥ १० ॥
 नातिक्रान्तं, मुनिश्रेष्ठ ! यत्कर्तव्यं कृतं मया ।
 सङ्गता मुनिना पत्नी भार्गवेणेव रेणुका ॥ ११ ॥

 यत् कर्तव्यं तन्नातिक्रान्तं-नातिपतितं, अपि तु मया कृतमेव । किं कृतमित्यतः-संगतेत्यादि । मुनिना-गौतमेन । भार्गवेणेति । भार्गव-कोपहता रेणुका परशुराममाता यथा पुनर्भार्गवेण-जमदग्निना संगता तद्वदित्यर्थः ॥ ११ ॥

 तच्छ्रुत्वा वचनं तस्य विश्वामित्रस्य धीमतः ।
 शतानन्दो महातेजा रामं वचनमब्रवीत् ॥ १२ ॥
 स्वागतं ते नरश्रेष्ठ ! दिष्ट्या प्राप्तोऽसि राघव !
 विश्वामित्रं पुरस्कृत्य महर्षिमपराजितम् ॥ १३ ॥

 दिष्ट्या-दैवयोगेन । विश्वामित्रपुरस्कारेणेह प्राप्तिर्दैवयोग- लभ्येति विश्वामित्रस्यैव स्तुतिः । तथैवाग्रे प्रतिपाद्यते । अपराजितं-अप्रतिहतशक्तिम् ॥ १३ ॥


 अचिन्त्यकर्मा तपसा ब्रह्मर्षिरतुलप्रभः ।
 विश्वामित्रो महातेजाः [५९८][५९९]वेद्मयेनं परमां गतिम् ॥१४॥

 अचिन्त्यकर्मेति । मनसाऽप्यन्येनाशक्यचिन्तनप्रतिसृष्ट्यादि कर्तारमेनं तव परां गतिं-परमहितप्रदं वेद्मि ॥ १४ ॥

 नास्ति धन्यतरो राम ! त्वत्तोऽन्यो भुवि कश्चन ।
 गोप्ता कुशिकपुत्रस्ते येन तप्तं महत्तपः ॥ १५ ॥

 तदेव प्रतिपाद्यते-नास्ति धन्येत्यादि ॥ १५ ॥

 श्रूयतामभिधास्यामि कौशिकस्य महात्मनः ।
 यथा बलं यथा वृत्तं तन्मे निगदतः शृणु ॥ १६॥

 बलं-तपोबलं यथा-यादृशं, वृत्तं-चरितश्च यथा, तथा तत्सर्वं निगदतो मत्तः शृणु ॥ १६ ॥

 राजाऽभूदेष धर्मात्मा दीर्घकालमरिन्दमः ।
 [६००]धर्मज्ञः कृतविद्यश्च प्रजानां च हिते रतः ॥ १७ ॥
 प्रजापतिसुतस्त्वासीत् कुशो नाम महीपतिः ।
 कुशस्य पुत्रो बलवान् कुशनाभः सुधार्मिकः ॥ १८ ॥

 राजाऽभूदित्युक्ते कस्य राज्ञः पुत्र इत्यपेक्षायामुच्यते-प्रजापति- सुत इत्यादि गतार्थम् ॥ १८ ॥

 कुशनाभसुतस्त्वासीत् गाधिरित्येव विश्रुतः ।
 गाधेः पुत्रो महातेजाः विश्वामित्रो महामुनिः ॥ १९ ॥
 विश्वामित्रो महातेजाः पालयामास मोदनीम् ।
 बहुवर्षसहस्राणि राजा राज्यमकारयत् ॥ २० ॥


 कदाचित्तु महातेजाः योजयित्वा वरूथिनीम् ।
 अक्षौहिणीपरिवृतः परिचक्राम मेदिनीम् ॥ २१ ॥

 वरूथिनीं-चतुरङ्गबलं योजयित्वा-समुपस्थाप्य । अथ अक्षौहिणीसङ्ख्यसेनापरिवृतो भूत्वा ॥ २१ ॥

 नगराणि च राष्ट्राणि सरितश्च तथा गिरीन् ।
 आश्रमान् क्रमशो राम ! विचरन्नाजगाम ह ॥ २२ ॥
 वसिष्टस्याश्रमपदं नानावृक्षसमाकुलम् ।
 नानामृगगणाकर्णं सिद्धचारणसेवितम् ॥ २३ ॥
 देवदानवगन्धर्वैः किन्नरैरुपशोभितम् ।
 प्रशान्तहरिणाकीर्णं द्विजसङ्घनिषेवितम् ॥ २४ ॥
 ब्रह्मर्षिगणसङ्कीर्णं देवर्षिगणसेवितम् ।
 तपश्चरणसंसिद्धैः अग्निकल्पैर्महात्मभिः ॥ २५ ॥
 सततं संकुलं श्रीमद् ब्रह्मकल्पैर्महात्मभिः ।

 विद्यामात्राधिकृताः देवाः । लोकसञ्चारिणो नारदाद्या देवर्षयः । विद्याकर्मोभयाधिकृता [६०१]भूप्रतिष्ठा वसिष्ठाद्या ब्रह्मर्षयः । श्रीमान् यश्चतुर्मुखो भगवान् ब्रह्मा, तत्तुल्यवैभवैरित्यर्थः ॥ २५ ॥

 अब्भक्षैर्वायुभक्षैश्च शीर्णपर्णाशनैस्तथा ।
 फलमूलाशनैर्दान्तैः जितरोपैर्जितेन्द्रियैः ॥ २६ ॥
 ऋषिभिर्वालखिल्यैश्च जपहोमपरायणैः ।
 अन्यैर्वैखानसैश्चैव समन्तादुपशोभितम् ॥ २७ ॥

 सहजतपोवैभवकर्ता स एव भगवान् ब्रह्मा, तद्रोमनखजवालखिल्याः वैखानसाश्च नित्यतपस्विनो भगवानिव; तज्जत्वं तु 'ये नखाः । ते वैखानसाः । ये वालाः । ते वालखिल्याः' इति श्रुतेः ॥


 वसिष्ठस्याश्रमपदं ब्रह्मलोकमिवापरम् ।
 ददर्श जयतां श्रष्ठो विश्वामित्रो महाबलः ॥ २८ ॥

इत्यार्षे श्रीमद्रामायणे बालकाण्डे एकपञ्चाशः सर्गः

 सर्वात्मना परमकल्याणस्वभावत्वेन ब्रह्मलोकदृष्टान्तः । उदार(२८ १/२) मानः सर्गः ॥ २८ ॥

इति श्रीमद्रामायणामृतकतकटीकायां बालकाण्डे एकपञ्चाशः सर्गः

अथ द्विपञ्चाशः सर्गः
[वसिष्ठातिथ्यम् ]

 स दृष्ट्वा परमप्रीतो विश्वामित्रो महाबलः ।
 प्रणतो विनयाद्वीरो वसिष्ठं जपतां वरम् ॥ १ ॥
 स्वागतं तव चेत्युक्तो वसिष्ठेन महात्मना ।
 आसनं चास्य भगवान् वसिष्ठो व्यादिदेश ह ॥ २ ॥

 अथ वसिष्ठेनाश्रमगतराजर्षिसत्कारः-स दृष्ट्वेत्यादि । आश्रममिति शेषः । वसिष्ठं प्रणतः, वसिष्ठेन तव स्वागतमित्युक्तश्चेति योजना । व्यादिदेश-दापयति स्म ॥ २ ॥

 उपविष्टाय च तदा विश्वामित्राय धीमते ।
 यथान्यायं मुनिवरः फलमूलमुपाहरत् ॥ ३ ॥

 फलमूलमिति । 'जातिरप्राणिनाम्' इत्येकत्वम् ॥ ३ ॥

 प्रतिगृह्य च तां पूजां वसिष्ठाद्राजसत्तमः ।
 तपोऽग्निहोत्रशिष्येषु कुशलं पर्यपृच्छत ॥ ४ ॥
 विश्वामित्रो महातेजा वनस्पतिगणे तदा ।
 सर्वत्र कुशलं प्राह वसिष्ठो राजसत्तमम् ॥ ५ ॥

 विपुष्पफलवन्तो वनस्पतयः । इदं उपलक्षणं वानस्पत्यानां पुष्पपूर्वफलवतामाम्रादीनाम् । तद्विषयेऽपि कुशलं पर्यपृच्छत् । सर्व-

त्रेति । विश्वामित्रपृष्टसर्वविषय इत्यर्थः ॥ ५ ॥

 सुखोपविष्टं राजानं विश्वामित्रं महातपाः ।
 पप्रच्छ जपतां श्रेष्ठो वसिष्ठो ब्रह्मणः सुतः ॥ ६॥
 कच्चित्ते कुशलं राजन् ! कच्चिद्धर्मेण रञ्जयन् ।
 प्रजाः पालयसे वीर ! राजवृत्तेन धार्मिक ॥ ७ ॥

 राजवृत्तेनेति । "न्यायेनार्जनमर्थस्य वर्धनं पालनं तथा । सत्पात्रे प्रतिपत्तिश्च राजवृत्तं चतुर्विधम् ॥" इति स्मृतेनोपलक्षितस्सन् ॥

 कच्चित्ते [६०२]सम्भृता भृत्याः कच्चित्तिष्ठन्ति शासने ।
 कच्चित्ते विजिताः सर्वे रिपवो रिपुसूदन ! ॥ ८ ॥
 कच्चिद्धर्मेषु कोशेषु मित्रेषु च परंतप !
 कुशलं ते नरव्याघ्र ! पुत्रपौत्रे तवानघ ॥ ९ ॥

 कोशः–नानाविधधनधान्यार्थनिचयः । पुत्रपौत्र इति । गवाश्व- प्रभृतित्वादेकत्वम् ॥ ९ ॥

 सर्वत्र कुशलं राजा वसिष्ठं प्रत्युदाहरत् ।
 विश्वामित्रो महातेजा वसिष्ठं[६०३]विनयान्वितः ॥ १० ॥
 कृत्वोभौ सुचिरं कालं धर्मिष्ठौ ताः कथाः शुभाः ।
 मुदा परमया युक्तौ प्रीयेतां तौ परस्परम् ॥ ११ ॥

 तौ उक्तविशेषणकौ विश्वामित्रवसिष्ठौ उभौ प्रीयेतामिति । अडभाव आर्षः ॥ ११ ॥


 ततो वसिष्ठो भगवान् कथाऽन्ते रघुनन्दन !
 विश्वामित्रमिदं वाक्यं उवाच [६०४]प्रहसन्निव ॥ १२ ॥

 प्रहसऽन्निवेति ! प्रसन्नमुख इति शेषः ॥ १२ ॥

 आतिथ्यं कर्तुमिच्छामि बलस्यास्य महाबल !
 तव चैवाप्रमेयस्य यथार्हं संप्रतीच्छ मे ॥ १३ ॥
 सत्कियां हि भवानेतां प्रतीच्छतु मयोद्यताम् ।
 राजा त्वमतिथिश्रेष्ठः पूजनीयः प्रयत्नतः ॥ १४ ॥

 प्रतीच्छतु–अङ्गीकरोतु ॥ १४ ॥

 एवमुक्तो वसिष्ठेन विश्वामित्रो [६०५]महामतिः ।
 कृतमित्यब्रवीद्राजा[६०६]पूजावाक्येन मे त्वया ॥ १५ ॥

 पूजावाक्येनेति । आतिथ्यं करिष्यामीत्येवं पूजाबाक्येनैव मम पूजनं कृतमिति राजाऽब्रवीत् ॥ १५ ॥

 फलमूलेन भगवन् ! विद्यते यत्तवाश्रमे ।
 पाद्येनाचमनीयेन भगवद्दर्शनेन च ॥ १६ ॥
 सर्वथा च महाप्राज्ञ ! पूजार्हेण सुपूजितः ।
 गमिष्यामि, नमस्तेऽस्तु, मैत्रेणेक्षस्व चक्षुषा ॥ १७ ॥

 पूजार्हेण-त्वयेति शेषः । मैत्रेण-मत्वर्थीयोऽजन्तः ॥ १७ ॥

 एवं ब्रुवन्तं राजानं वसिष्ठः पुनरेव हि ।
 न्यमन्त्रयत धर्मात्मा पुनःपुनरुदारधीः ॥ १८ ॥

 निमन्त्रणं—भोजनाय प्रार्थनम् ॥ १८ ॥


 बाढमित्येव गाधेयो वसिष्ठं प्रत्युवाच ह ।
 यथा प्रियं भगवतस्तथाऽस्तु मुनिसत्तम ! ॥ १९ ॥

 बाढमित्यस्यैव विवरणम्-यथा प्रियमित्यादि ॥ १९ ॥

 एवमुक्तो महातेजा वसिष्ठो जपतां वरः ।
 आजुहाव ततः प्रीतः कल्मापीं धूतकल्मषाम् ॥ २० ॥

 एवमुक्त इत्यादि । विश्वामित्रेणेति शेषः । कल्माषीं-विचित्र- वर्णां, शबलामिति शेषः, 'वर्णादनुदात्तात्तोपधात्तो नः' इत्यतो ङीष् ॥

 एह्येहि शबले ! क्षिप्रं शृणु चापि वचो मम ।
 सबलस्यास्य राजर्षेः कर्तुं व्यवसितोऽस्म्यहम् ॥
 भोजनेन महार्हेण सत्कारं, संविधत्स्व मे ॥ २१ ॥

 शबलेति संज्ञात्वतो वर्णार्थित्वाभावान्नं ङीष् । महार्हेण भोजनेन सत्कारं कर्तुं व्यवसित इति योजना । तदर्थं संविधत्स्व-स्वतस्त- दुपयोगिवस्तुजातं संपादय ॥ २१ ॥

 यस्य यस्य यथाकामं षड्रमेष्वभिपूजितम् ।
 तत्सर्वं कामधुक् ! क्षिप्रमभिवर्ष कृते मम ॥ २२ ॥

 मधुरादिषड्रसेषु यस्य यस्य यदभिपूजितं-अभीष्टं तत्सर्वं यथाकामं–तत्तत्प्रीत्यनतिक्रमेण मम कृते-मत्प्रयोजनार्थमिति मदर्थकृते इति च तादर्थ्ये निपातद्वयमीरितं, अभिवर्ष ॥ २२ ॥

 रसेनान्नेन पानेन लेह्यचोष्येण संयुतम् ।
 अन्नानां निचयं सर्वं सृजस्व शबले ! त्वर ॥ २३ ॥

इत्यार्षे श्रीमद्रामारणे बालकाण्डे द्विपञ्चाशः सर्गः

 रसेन–रसायनभेदेन । लेह्यं-जिह्वाग्राह्यक्षौद्रादि ।

चोष्यं-अधरपुटग्राह्यमरीचिरसादिः । लेह्यचोष्यमिति । 'सर्वो द्वन्द्वो विभाषा' इत्येकत्वम् । एवमुक्तरूपाणां निचयं-राशि कृत्स्नं सृजस्व । अगार-(२३ १/२) मानः सर्गः ॥ २३ ॥

इति श्रीमद्रामायणामृतकतकटीकायां बालकाण्डे द्विपञ्चाशः सर्गः

अथ त्रिपञ्चाशः सर्गः
[ कामधेनुप्राप्त्युद्यमः ]

 एवमुक्ता वसिष्ठेन शबला, शत्रुसूदन !
 विदधे कामधुक् कामान् यस्य यस्य यथेप्सितम् ॥ १ ॥

 अथ यथानियोगानुष्ठानोपदेशः-एवमित्यादि । यस्य यस्य यथा यथा ईप्सितं तथा तथा तस्य तस्य सर्वान् कामान् विदधे ॥ १ ॥

 इक्षून् मधूंस्तथा लाजान् मैरेयांश्च वरासवान् ।
 पानानि च महार्हाणि भक्ष्यांश्चोच्चावचांस्तथा ॥ २ ॥

 अस्यैव प्रपञ्चः-इक्षूनित्यादि । इक्षून्-तद्विकारान्, मधून्- 'मकरन्दस्य मद्यस्य माक्षिकस्य च वाचकः' ; अर्धर्चादिषु दृष्टत्वात् पुंनपुंसकयोः मधुः-क्षौद्रमैरेयाख्यानासवविशेषान् । 'मैरेयमासवोधात्रीघातकीगुडवारिभिः' । कृतमिति शेषः । भक्ष्यान्-अपूप-विशेषान् ॥ २ ॥

 उष्णाढ्यस्यौदनस्यात्र राशयः पर्वतोपमाः ।
 मृष्टान्नानि च सूपाश्च दधिकुल्यास्तथैव च ॥ ३ ॥

 पर्वतोपमा इति। आसन्निति शेषः । मृष्टान्नानि-पायसभेदाः ॥

 नानास्वादुरसानां च [६०७][६०८]षाडवानां तथैव च ।
 [६०९]भोजनानि सुपूर्णानि गौडानि च सहस्रशः ॥ ४ ॥

 षाडवानामिति । षण्णां रसानां विकाराः, शैषिकोडण्, गुण- प्रधानस्फुरत्षड्रसको भक्ष्यविशेषः । औत्तरीत्याऽऽहुः । भोजनानि-भोजन-पात्राणि । गौडानि-राजतानि, 'प्राणिरजतादिभ्योऽञ्' 'रजतं गुडः' ॥

 सर्वमासीत् सुसन्तुष्टं हृष्टपुष्टजनायुतम् ।
 विश्वामित्रबलं राम ! वसिष्ठेनातितर्पितम् ॥ ५ ॥

 हृष्टपुष्टजनैरासमन्ताद्युतं-आयुतम् ॥ ५ ॥

 विश्वामित्रोऽपि राजर्षिः हृष्टः पुष्टस्तदाऽभवत् ।
 सान्तःपुरवरो राजा सब्रह्माणपुरोहितः ॥ ६ ॥

 हर्षः-अन्तश्चित्तसन्तोषः । पुष्टिः-देहपुष्टिः ॥ ६ ॥

 सामात्यो मन्त्रिसहितः सभृत्यः पूजितस्तदा ।
 युक्तः परमहर्षेण वसिष्ठमिदमब्रवीत् ॥ ७ ॥

 अमात्यः-कर्मसचिवः । मन्त्री-मन्त्रसचिवः ॥ ७ ॥

 पूजितोऽहं त्वया ब्रह्मन् ! पूजार्हेण सुसत्कृतः ।
 श्रूयतामभिधास्यामि वाक्यं वाक्यविशारद ! ॥ ८ ॥

 पूजार्हेण-अस्मदादिभिरिति शेषः ॥ ८ ॥

 गवां शतसहस्रेण दीयतां शबला मम ॥ ९ ॥
 रत्नं हि भगवन्नेतत् रत्नहारी च पार्थिवः ।
 तस्मान्मे शबलां देहि ममैषा धर्मतो द्विज ! ॥ १० ॥


 शतसहस्रेणेति । निष्क्रयभूतेनेति शेषः । धर्मतो ममैषा;

योग्येति शेषः ॥ १० ॥

 एवमुक्तस्तु भगवान् वसिष्ठो मुनिसत्तमः ।
 विश्वामित्रेण धर्मात्मा, प्रत्युवाच महीपतिम् ॥ ११ ॥
 नाहं शतसहस्रेण नापि कोटिशतैर्गवाम् ।
 राजन् ! दास्यामि शबलां राशिभी रजतस्य वा ॥ १२ ॥
 [६१०]न परित्यागमर्हेयं मत्सकाशमंरिदम !
 शाश्वती शबला मह्यं कीर्तिरात्मवतो यथा ॥ १३ ॥

 कुतः परित्यागानर्हेत्यतः-शाश्वातीत्यादि । आत्मवतः-राज-योगवतो यथा विद्यादिजा कीर्तिः शाश्वती-नित्या, एवं मह्यं ब्रह्मदत्ता शबला शाश्वती-मन्त्रिनित्यसम्बद्धा ॥ १३ ॥

 अस्यां हव्यं च कव्यं च प्राणयात्रा तथैव च ।
 आयत्तमग्निहोत्रं च बलिर्होमस्तथैव च ॥ १४ ॥

 कथमस्यामेवं अत्यादर इत्यतः-अस्यां हव्यमित्यादि । प्राण- यात्रा-जीवनं आयत्तं-अधीनम् ।[६११]अस्य सर्वत्रानुकर्षः । बलिः-बलिहरणं । होमः-वैश्वदेवादिः ॥ १४ ॥

 स्वाहाकारवपद्कारौ विद्याश्च विविधास्तथा ।
 आयत्तमत्र, राजर्षे ! सर्वमेतन्न संशयः ॥ १५ ॥

 विविधा विद्याश्चास्यामायत्ताः । एतत्पयआदिप्रदानेन चित्त- शुद्धेः, प्राणतृप्तेर्देहबलादेव साध्यत्वात्तदेकमूलशब्दविद्विद्यासिद्धि श्चास्यामायत्तैव ॥ १५ ॥


 सर्वस्वमेतत् सत्येन मम तुष्टिकरी सदा ।
 कारणैर्बहुभी राजन् ! न दास्ये शबलां तव ॥ १६ ॥

 मम सर्वस्वमेतदेव-शबलास्वरूपमेव । कारणान्युक्तरूपाणि ॥

 वसिष्ठेनैवमुक्तस्तु विश्वामित्रोऽब्रवीत्ततः ।
 संरब्धतरमत्यर्थं वाक्यं वाक्यविशारदः ॥ १७ ॥

 संरब्धतरं-अत्यन्ताग्रहयुक्तम् ॥ १७ ॥

 हैरण्यकक्ष्याग्रैवेयान् सुवर्णाङ्कुशभूषितान् ।
 ददामि कुञ्जराणां ते सहस्राणि चतुर्दश ॥ १८ ॥

 हैरण्यानि-हिरण्यविकाराणि कक्ष्याग्रैवेयाणि येषां ते तथा । कक्ष्या–घण्टोपेतमध्यबन्धनशृङ्खलाविशेषः । ग्रैवेयं-ग्रीवाभूषणभूतस्वर्ण-शृङ्खलादिः, "ग्रीवाभ्योऽण् च" इति चात् ढञ् ॥ १८ ॥

 हैरण्यानां रथानां ते [६१२]श्वेताश्वानां चतुर्युजाम् ।
 ददामि ते शतान्यष्टौ किङ्किणीकविभूषितान् ॥ १९ ॥

 चतुर्भिर्युक्ताः चतुर्युजः । गमकत्वात् समासः । किङ्किणीकै- विभूषितांस्तथा ॥ १९ ॥

 हयानां देशजातानां कुलजानां महौजसाम् ।
 सहस्रमेकं दश च ददामि तव सुव्रत ! ॥ २० ॥

 देशः-बाह्लीकादिः । कुलं-उच्चैश्रवआदेः ॥ २० ॥

 नानावर्णविभक्तानां वयस्स्थानां तथैव च ।
 ददाम्येकां गवां कोटिं शबला दीयतां मम ॥ २१ ॥

 वयस्स्थाः-तरुण्यः–"वयस्स्थस्तरुणो युवा" ॥ २१ ॥


 यावदिच्छसि रत्नं वा हिरण्यं वा द्विजोत्तम !
 तावद्ददामि तत्सर्वं, शबला दीयतां मम ॥ २२ ॥
 एवमुक्तस्तु भगवान् विश्वामित्रेण धीमता ।
 न दास्यामीति शबलां प्राह,[६१३]राजन् ! कथञ्चन ॥ २३ ॥
 एतदेव हि मे रत्नमेतदेव हि मे धनम् ।
 एतदेव हि सर्वस्वमेतदेव हि जीवितम् ॥ २४ ॥
 दर्शश्च पूर्णमासश्च यज्ञाश्चैवाप्तदक्षिणाः ।
 एतदेव हि मे राजन् ! विविधाश्व क्रियास्तथा ॥ २५ ॥
 [६१४]अदोमूलाः क्रियाः सर्वा मम राजन् ! न संशयः ।
 बहुना किं प्रलापेन न दास्ये कामदोहिनीम् ॥ २६ ॥

इत्यार्षे श्रीमद्रामायणे बालकाण्डे त्रिपञ्चाशः सर्गः

 अदोमूला इति । एतन्मूला इत्यर्थः । कामान् दोग्धुं शीलमस्या इति-कामदोहिनी-"सुप्यजातौ" इति णिनिः । तरु (२६) मानः सर्गः ॥ २६ ॥

इति श्रीमद्रामायणामृतकतकटीकायां बालकाण्डे त्रिपञ्चाशः सर्गः

अथ चतुष्पञ्चाशः सर्गः
[विश्वामित्रबलविमर्दनम्]

 कामधेनुं वसिष्ठोऽपि यदा न त्यजते मुनिः ।
 तदाऽस्य शबलां राम ! विश्वामित्रोऽन्वकर्षत ॥ १ ॥


 एवं सामदानाभ्यां शबलाया अप्राप्तौ दण्डोपाये प्रवृत्तिर्विश्वामित्रस्य –कामधेनुमित्यादि । यदा न त्यजते-तङार्षः, न त्यजति स्म, तदा अन्वकर्षत । बलात्कारणेति शेषः ॥ १ ॥

 नीयमाना तु शबला राम ! राज्ञा महात्मना ।
 दुःखिता चिन्तयामास रुदन्ती शोककर्शिता ॥ २ ॥
 परित्यक्ता वसिष्ठेन किमहं सुमहात्मना ।
 याऽहं[६१५]राजभृतैर्दीना[६१६]हियेय भृशदुःखिता ॥ ३ ॥

 राज्ञो भृताः-भ्रियन्त इति भृताः-भृतकास्सेवका इति यावत् । ह्वियेय-कर्मणि संप्रश्ने लिङ्–कथमपह्नियेयेत्यर्थः । भृशदुःखिता-भृशं दुःखिता-वृत्तिविषये मकारलोपो भृशमादिमान्ताव्ययस्येष्यते ॥

 किं मयाऽपकृतं तस्य महर्षेर्भावितात्मनः ।
 [६१७]यन्मामनागसं भक्तामिष्टां त्यजति धार्मिकः ॥ ४ ॥

 किमपकृतं-किपराद्धम् ॥ ४ ॥

 निर्धूय तांस्तदा भृत्यान् शतशः शत्रुसूदन !
 जगामानिलवेगेन पादमूलं महात्मनः ॥ ५ ॥
 शबला सा रुदन्ती च क्रोशन्ती चेदमब्रवीत् ।
 वसिष्ठस्याग्रतः स्थित्वा मेघदुन्दुभिराविणी ॥ ६ ॥

 शतशो भृत्यानिति । आवारकानिति शेषः । पादमूलं–पादसमीपम् ॥ ६ ॥

 भगवन् ! किं परित्यक्ता त्वयाऽहं ब्रह्मणः सुत !
 यस्माद्राजभृता मां हि नयन्ते त्वत्सकाशतः ॥ ७॥


 त्वत्सकाशतः-त्वत्समीपात् ॥ ७ ॥

 एवमुक्तस्तु ब्रह्मर्षिरिदं वचनमब्रवीत् ।
 शोकसन्तप्तहृदयां स्वसारमिव दुःखिताम् ॥ ८ ॥

 स्वसा-भगिनी ॥ ८ ॥

 न त्वां त्यजामि शबले ! नापि मेऽपकृतं त्वया ।
 एष त्वां नयते राजा[६१८]बलोन्मत्तो महाबलः ॥ ९ ॥
 [६१९]न हि तुल्यं बलं मह्यं राजा त्वद्य विशेषतः ।
 बली राजा क्षत्रियश्च पृथिव्याः पतिरेव च ॥ १० ॥

 बलोन्मत्तेन ह्रियत इति ; किं भवतो बलं नास्ति ? नेत्याह-न हीत्यादि ॥ १० ॥

 इयमक्षौहिणी पूर्णा सवाजिरथसङ्कुला ।
 हस्तिध्वजसमाकीर्णा तेनासौ बलवत्तरः ॥ ११ ॥
 एवमुक्ता वसिष्ठेन प्रत्युवाच विनीतवत् ।
 वचनं वचनज्ञा सा ब्रह्मर्षिमतुलप्रभम् ॥ १२ ॥

 विनीतवत्-विनयोपेतं यथा तथा उवाच ॥ १२ ॥

 न बलं क्षत्रियस्याहुः ब्राह्मणो बलवत्तरः ।
 ब्रह्मन् ! ब्रह्मबलं दिव्यं क्षत्रात्तु बलवत्तरम् ॥ १३ ॥

 बलवत्तर इति । क्षत्रियादिति शेषः । यदेवमतः-ब्रह्मन्नित्यादि ।


 [६२०][६२१]अप्रमेयं बलं तुभ्यं, न [६२२]त्वया बलवत्तरः ।
 विश्वामित्रो महावीर्यः, तेजस्तव दुरासदम् ॥ १४ ॥

 त्वया बलवत्तर इति न, त्वया सदृशोऽपि त्वत्तो बलवत्तर इति दूरे इत्यर्थः ॥ १४ ॥

 [६२३]नियुङ्क्ष्व मां महातेजः ! त्वद्ब्रह्मबलसम्भृताम् ।
 तस्य दर्पबलं यत्तन्नाशयामि दुरात्मनः ॥ १५ ॥

 त्वदाश्रिततया ममापि अयं न पर्याप्त इत्याह–नियुङ्क्ष्वेत्यादि ।

 इत्युक्तस्तु तया राम ! वसिष्ठस्तु महायशाः ।
 सृजस्वेति तदोवाच बलं ।[६२४][६२५]परबलारुजम् ॥ १६ ॥
 तस्य तद्वचनं श्रुत्वा सुरभिः साऽसृजत्तदा ॥ १७ ॥
 तस्या[६२६]हुम्भारवोत्सृष्टाः[६२७]पप्लवाः शतशो नृप !
 नाशयन्ति बलं सर्वं विश्वामित्रस्य पश्यतः ॥ १८ ॥

 पप्लवशकयवनकाम्भोजद्वैप्यजना अवान्तरजातिविशेषाः । पश्यत इति अनादरे षष्ठी ॥ १८ ॥

 बलं भग्नं ततो दृष्ट्वा रथेनाक्रम्य कौशिकः ।
 स राजा परमक्रुद्धः क्रोधविष्फारितेक्षणः ।
 पप्लवान्नाशयामास शस्त्रैरुच्चावचैरपि ॥ १९ ॥

 विष्फारितं–विवृतं, स्फुरेः ण्यन्तात् निष्ठायां, 'स्फुरतिस्फुलत्योर्धञि' इत्यात्वे, 'स्फुरतिस्फुलत्योर्निर्निविभ्यः' इति षत्वम् ॥ १९ ॥


 विश्वामित्रार्दितान् दृष्ट्वा पप्लवान् शतशस्तदा ।
 भूय एवासृजत् कोपात् शकान् यवनमिश्रितान् ॥ २० ॥

 अर्दिताः-पीडिताः ॥ २० ॥

 तैरासीत् संवृता भूमिः शकैर्यवनमिश्रितैः ।
 प्रभावद्भिर्महावीर्यैः हेमाकञ्जलकसन्निभैः ॥ २१ ॥

 प्रभा-दुर्निरीक्षतेजः । हेम्नः किञ्जल्कस्य सन्निभास्तथा ॥ २१ ॥

 दीर्घासिपट्टसधरैः हेमवर्णाम्बरावृतैः ।
 निर्दग्धं तद्वलं सर्वं प्रदीप्तैरिव पावकैः ॥ २२ ॥

 हेमवर्णाम्बरेति । पीताम्बरेति यावत् ॥ २२ ॥

 ततोऽस्त्राणि महातेजाः विश्वामित्रो मुमोच ह ।
 तैस्तैर्यवनकाम्भोजाः पप्लवाश्चाकुलीकृताः ॥ २३ ॥

इत्यार्षे श्रीमद्रामायणे बालकाण्डे चतुष्पञ्चशः सर्गः

 गर (२३) मानः सर्गः ॥ २३ ॥

इति श्रीमद्रामायणामृतकतकटीकायां बालकाण्डे चतुष्पञ्चशः सर्गः


अथ पञ्चपञ्चाशः सर्गः
[विश्वामित्रधनुर्वेदाधिगमः]

 ततस्तानाकुलान् दृष्ट्वा विश्वामित्रास्त्रमोहितान् ।
 वसिष्ठश्चोदयामास कामधुक् ! सृज [६२८]योगतः ॥ १ ॥


 अथ विश्वामित्रास्त्राकुलीकृतस्वबलस्य च पुनः सर्गत उपोद्वलनेन

वैश्वामित्रसर्वबलनाशः-ततस्तानित्यादि । कामधुगिति सम्बुद्धिः ॥

 [६२९]तस्या[६३०]हुंभारवाञ्जाताः काम्भोजा रविसन्निभाः ।
 ऊधसस्त्वथ सञ्जाताः[६३१]पप्लवाः शस्त्रपाणयः ॥ २ ॥
 योनिदेशाच्च यवनाः शकुद्देशाच्छकाः तथा ।
 रोमकूपेषु च म्लेच्छाः[६३२]हारीतास्सकिरातकाः ॥ ३ ॥

 म्लेच्छकिरातयवनाः जातिविशेषाः ॥ ३ ॥

 तैस्तैर्निषूदितं सर्वं विश्वामित्रस्य तत्क्षणात् ।
 सपदातिगजं साश्वं सरथं रघुनन्दन ! ॥ ४ ॥
 दृष्ट्वा निषूदितं सैन्यं वसिष्ठेन महात्मना ।
 विश्वामित्रसुतानां तु शतं नानाविधायुधम् ॥ ५ ॥
 अभ्यधावत् सुसंक्रुद्धं वसिष्ठं जपतां वरम् ।
 हुंकारेणैव तान् सर्वान् ददाह भगवान् ऋषिः ॥ ६ ॥

 विश्वामित्रसुतानां शतं वसिष्ठमभ्यधावदिति । अयमेव किल धेनोर्बलम्, अतोऽयमेव संहर्तव्य इत्याशयेनेति शेषः । हुंकारेण निर्ददाहेत्यस्य बीजं-जपतां वरमिति । सघोरबीजदेवीजप एव तद्वलमिति सूचितम् ॥ ६ ॥

 ते साश्वरथपादाता वसिष्ठेन महात्मना ।
 भस्मीकृता मुहूर्तेन विश्वामित्रसुतास्तदा ॥ ७ ॥

 मुहूर्तेन विश्वामित्रसुता भस्मीकृता इति । मासेनानुवाकोऽधीत इतिवदपवर्गे तृतीया ॥ ७ ॥


 दृष्ट्वा विनाशितान् पुत्रान् बलं च सुमहायशाः ।
 सव्रीडश्चिन्तयाऽऽविष्टो विश्वामित्रोऽभवत् तदा ॥ ८ ॥
 [६३३]समुद्र इव निर्वेगो भग्नदंष्ट्र इवोरगः ।
 उपरक्त इवादित्यः सद्यो निष्प्रभतां गतः ॥ ९ ॥

 निर्वेग इति । युद्धप्रवृत्तिरहित इत्यर्थः । निर्वेगत्वे समुद्रदृष्टान्तः, [६३४]भग्नदंष्ट्रोरगदृष्टान्तः । निष्प्रभत्वे उपरक्तादित्यदृष्टान्तः । उपरक्तः-राहुग्रस्तः ॥ ९ ॥

 हतपुत्रबलो दीनो लूनपक्ष इव द्विजः ।
 हतदर्पो हतोत्साहो निर्वेदं समपद्यत ॥ १० ॥

 निर्वेदः-वृथाप्रयासत्वबुद्धिजः चित्तखेदः ॥ १० ॥

 स पुत्रमेकं राज्याय पालयेति नियुज्य च ।
 पृथिवीं क्षात्रधर्मेण, वनमेवान्वपद्यत ॥ ११ ॥

 एकमिति । अवशिष्टमिति शेषः ॥ ११ ॥

 स गत्वा हिमवत्पार्श्वं किन्नरोरगसेवितम् ।
 महादेवप्रसादार्थं तपस्तेपे महातपाः ॥ १२ ॥
 केनचित्त्वथ कालेन देवेशो वृषभध्वजः ।
 दर्शयामास वरदो विश्वामित्रं महाबलम् ॥ १३ ॥

 दर्शयामासेति । विश्वामित्रं प्रति स्वात्मानमिति शेषः ॥ १३ ॥

 किमर्थं तप्यसे राजन् ! ब्रूहि यत् ते विवक्षितम् ।
 वरदोऽस्मि वरो यस्ते काङ्क्षितस्सोऽभिधीयताम् ॥ १४ ॥


 एवमुक्तस्तु देवेन विश्वामित्रो महातपाः ।
 प्रणिपत्य महादेवमिदं वचनमब्रवीत् ॥ १५ ॥
 यदि तुष्टो महादेव ! धनुर्वेदो ममानघ !
 [६३५]साङ्गोपाङ्गोपनिषदः सरहस्यः प्रदीयताम् ॥ १६ ॥

 साक्षादारादुपकारकत्वलक्षणान्यङ्गोपाङ्गानि प्रधानस्य, तत्साधकरहस्यमन्त्र उपनिषदः । तत्राङ्गोपाङ्गमन्त्रसहितस्साङ्गोपाङ्गोपनिषदः । सदेः पचाद्यचि 'सदिरप्रतेः' इति षत्वम् । रहस्यं-शास्त्राशक्य-निबन्धनमाचार्यमुखैकगम्यं विद्याजातम् ॥ १६ ॥

 यानि देवेषु चास्त्राणि दानवेषु महर्षिषु ।
 गन्धर्वयक्षरक्षस्सु प्रतिभान्तु ममानघ ॥ १७ ॥
 तव प्रसादाद्भवतु देवदेव ! ममेप्सितम् ।

 तव प्रसादादिति । न तु प्रातिखिकत्वदुपदेशमपेक्ष्येत्यर्थः ॥ १७ ॥

 एवमस्त्विति देवेशो वाक्यमुक्त्वा गतस्तदा ॥ १८ ॥
 प्राप्य चास्त्राणि राजर्षिर्विश्वामित्रो महाबलः ।
 दर्पेण महता युक्तो दर्पपूर्णोऽभवत् तदा ॥ १९ ॥

 क्षत्त्रियत्वादेव दर्पः सहजः, तस्य पूर्तिर्दिव्यास्त्रलाभात् ॥ १९ ॥

 विवर्धमानो वीर्येण समुद्र इव पर्वणि ।
 हतमेव तदा मेने वसिष्ठमृषिसत्तमम् ॥ २० ॥
 ततो गत्वाऽऽश्रमपदं मुमोचास्त्राणि पार्थिवः ।
 यैस्तत्तपोवनं सर्वं निर्दग्धं चास्त्रतेजसा ॥ २१ ॥

 यैर्निर्दग्धं तादृशास्त्राणीति योजना ॥ २१ ॥


 उदीर्यमाणमस्त्रं तत् विश्वामित्रस्य धीमतः ।
 दृष्ट्वा विप्रद्रुता भीता मुनयः शतशो दिशः ॥ २२ ॥

 उदीर्यमाणं-विसृज्यमानमिति यावत् । विश्वामित्रेणेति शेषः ॥ २२ ॥

 वसिष्ठस्य च ये शिष्यास्तथैव मृगपक्षिणः ।
 विद्रवन्ति भयाद्भीता[६३६]नानादिग्भ्यः सहस्रशः ॥ २३ ॥

 भयादिति । भयहेतोरस्त्रजालादित्यर्थः ॥ २३ ॥

 वसिष्ठस्याश्रमपदं शून्यमासीन्महान्मनः ।
 मुहूर्तमिव निश्शब्दमासीदिरिणसन्निभम् ॥ २४ ॥

 सर्वप्राणिपलायनात् शून्यं वसिष्ठस्याश्रमपदं, अत एव निश्शब्दं, अत एव मुहूर्तमिरिणसन्निभं-निर्वृक्षवृथागुल्मनिर्मानुष्क- कान्तारसन्निभमासीत् ॥ २४ ॥

 [६३७]वदतो वै वसिष्ठस्य मा भैरिति मुहुर्मुहुः ।
 नाशयाम्यद्य गाधेयं नीहारमिव भास्करः ॥ २५ ॥

 ननु कथं वसिष्ठे विद्यमाने विद्रवणमाश्रमवासिनामित्यत्रोक्तम्- वदत इत्यादि । गाधेय-'द्व्यचः' इति ढक्, गाधेयं नाशयामि, मा भैः हे प्रजाः ! इति वदतो वसिष्ठस्य अभिवादनमनादृत्य व्रिद्रुवुरित्यन्वयः ॥ २५ ॥

 एवमुक्त्वा महातेजा वसिष्ठो जपतां वरः ।
 विश्वामित्रं तदा वाक्यं सरोषमिदमब्रवीत् ॥ २६ ॥


 अथ वसिष्ठः पलायमानप्राणिजातं एवमुक्त्वा, विश्वामित्रमिदं

वक्ष्यमाणं वाक्यं अब्रवीत् ॥ २६ ॥ ॥

 आश्रमं चिरसंवृद्धं यद्विनाशितवानसि ।
 दुराचारोऽसि तन्मूढ ! तस्मात्त्वं न भविष्यसि ॥ २७ ॥

 न भविष्यसीति-नशिष्यसीति यावत् ॥ २७ ॥

 इत्युक्त्वा परमक्रुद्धो दण्डमुद्यम्य सत्वरः ।
 [६३८]विधूम इव कालाग्निः यमदण्डमिवापरम् ॥ २८ ॥

इत्यार्षे श्रीमद्रामायणे बालकाण्डे पञ्चपञ्चाशस्सर्गः

 विधूमः कालाग्निरिव परमक्रुद्धः वसिष्ठोऽपरं यमदण्डमिव स्थितं ब्रह्मदण्डं उद्यम्य-उद्धृत्य गृहीत्वा तस्थाविति शेषः राज (२८) मानः सर्गः ॥ २८ ॥

इति श्रीमद्रामायणामृतकतकटीयायां बालकाण्डे पञ्चपञ्चाशः सर्गः

अथ षट्पञ्चाशः सर्गः

[विश्वामित्रनिग्रहः]

 एवमुक्तो वसिष्ठेन विश्वामित्रो महाबलः ।
 [६३९]आग्नेयमस्त्रमुत्क्षिप्य तिष्ठ तिष्ठेति चाब्रवीत् ॥ १ ॥

 अथ वरप्राप्तसर्वास्त्रबलस्य च नाशनं-एवमित्यादि । एवमुक्त इति । न भविष्यसीत्युक्त इति यावत् ॥ १ ॥

 ब्रह्मदण्डं समुत्क्षिप्य कालदण्डमिवापरम् ।
 वसिष्ठो भगवान् क्रोधादिदं वचनमब्रवीत् ॥ २ ॥


 क्षत्रबन्धो ! स्थितोऽस्म्येषः, यद्बलं तद्विदर्शय ।
 [६४०]नाशयाम्यद्य ते दर्पं शस्त्रस्य तव गाधिज ॥ ३ ॥

 तिष्ठ तिष्ठेति भीषयन्तं विश्वामित्रं प्रति स्वभीप्रसङ्गाभावः प्रकाश्यते—स्थितोऽस्म्येष इत्यादि । शस्त्रस्य दर्पं-शस्त्राप्तिहेतोरुत्पन्नमित्यर्थः ॥ ३ ॥

 क्व च ते क्षत्रियबलं क्व च ब्रह्मबलं महत् ।
 पश्य ब्रह्मबलं दिव्यं मम [६४१]क्षत्रियपांसन ! ॥ ४ ॥
 तस्यास्त्रं गाधिपुत्रस्य घोरमाग्नेयमुद्यतम् ।
 ब्रह्मदण्डेन तच्छान्तं अग्नेर्वेग इवाम्भसा ॥ ५ ॥

 क्षत्रियपांसन ! इत्युक्त्वा स्थितस्य वसिष्ठस्य ब्रह्मदण्डेन तस्य गाधिपुत्रस्य आग्नेयमुद्यतं तत् अस्त्रं शान्तमभवत् ॥ ५ ॥

 वारुणं चैव रौद्रं च ऐन्द्रं पाशुपतं तथा ।
 ऐषीकं चापि चिक्षेप कुपितो गाधिनन्दनः ॥ ६॥
 मानवं मोहनं चैव गान्धर्वं स्वापनं तथा ।
 जृम्भणं मादनं चैव संतापनविलापने ॥ ७ ॥
 शोषणं दारणं चैव वज्रमस्त्रं सुदुर्जयम् ।
 ब्रह्मपाशं कालपाशं वारुणं पाशमेव च ॥ ८ ॥
 पैनाकास्त्रं च दयितं शुष्कार्द्रे अशनी उभे ।
 दण्डास्त्रमथ पैशाचं क्रौञ्चमस्त्रं तथैव च ॥ ९ ॥


 वायव्यं मथनं चैव अस्त्रं हयशिरस्तथा ॥ १० ॥
 [धर्मचक्रं कालचक्रं विष्णुचक्रं तथैव च ।]
 शक्तिद्वयं च चिक्षेप कङ्कालं मुसलं तथा ।
 वैद्याधरं महास्त्रं च कालास्त्रमथ दारुणम् ॥ ११ ॥
 त्रिशूलमस्त्रं घोरं च कापालमथ कङ्कणम् ।
 एतान्यस्त्राणि चिक्षेप सर्वाणि रघुनन्दन ! ॥ १२ ॥
 [६४२]वसिष्ठे[६४३] जपतां श्रेष्ठे, तदद्भुतमिवाभवत् ।
 तानि सर्वाणि दण्डेन ग्रसते ब्रह्मणः सुतः ॥ १३ ॥
 तेषु शान्तेषु ब्रह्मास्त्रं क्षिप्तवान् गाधिनन्दनः ।

 एतानि उक्तरूपाणि अस्त्राणि वसिष्ठे चिक्षेप । तानि दण्डेन ग्रसते स्मेति यत् तदिन्द्रजालमहेन्द्रजालाद्यद्भुतमिव सर्वाश्चर्यकरमभव- दित्यर्थः ॥ १३ ॥

 तदस्त्रमुद्यतं दृष्ट्वा देवाः[६४४]साग्निपुरोगमाः ॥ १४ ॥
 देवर्षयश्च संभ्रान्ता गन्धर्वाः समहोरगाः ।
 त्रैलोक्यमासीत् सन्त्रस्तं ब्रह्मास्त्रे समुदीरिते ॥ १५ ॥

 ब्रह्मास्त्रे समुदीरिते त्रैलोक्यं सन्त्रस्तमिति । तस्याप्रतिक्रियामोघत्वात्, प्रतिब्रह्मास्त्रस्यैव वसिष्ठेनापि प्रयोगे उभाभ्यां सर्वलोकनाशप्रसङ्ग इति त्रासः ॥ १५ ॥


 तदप्यस्त्रं महाघोरं ब्राह्मं ब्राह्मेण तेजसा ।
 वसिष्ठो ग्रसते सर्वं [६४५]ब्रह्मदण्डेन राघव ! ॥ १६ ॥

 ब्राह्मेण तेजसेति । ब्रह्मविद्यानुष्ठानवैभवजनिताधिकब्रह्मवर्चसेनेति यावत् । ब्रह्मदण्डेन । मूर्तब्रह्मविद्यामयेन करधृतेन चेत्यर्थः ॥

 ब्रह्मास्त्रं ग्रसमानस्य वसिष्ठस्य महात्मनः ।
 त्रैलोक्यमोहनं रौद्रं रूपमासीत् सुदारुणम् ॥ १७ ॥

 ग्रसमानस्य-एवमुभयबलेन ब्रह्मास्त्रं ग्रसमानस्येति । अयमर्थः-मूलब्रह्मविद्यायास्तत्तदक्षरतत्त्वमात्राक्रियावस्थादिद्वाविंशतिविभूत्यनुसन्धानपूर्वं बहिर्भाव्यमाना मूलविद्या बहिः करगतो ब्रह्मदण्डो भवति । तथा ध्यानोपेतं स्वात्मनि यथास्थलं न्यस्यमाना स्वमूर्त्यात्मना नित्य आन्तरो ब्रह्मदण्डो भवति । ब्रह्मास्त्रं तूक्तब्रह्मविद्यामार्गबीजभेदविलासात्मा । तच्च कालप्रधानं रोचिःप्रधानं चेति द्वेधा । तत्र रोचिःप्रधानस्य बहिर्ब्रह्मदण्डे हृदा ग्रस्य क्रमान्मोक्ष इत्युपनिषदुपदिश्यमानमार्गेण ग्रसनं-ग्रासः, परस्यान्तरब्रह्मदण्डे ग्रास इति । एवं ग्रसमानस्य वसिष्ठस्य रूपं ब्रह्मविद्यामूर्तिमयं त्रैलोक्यमोहनं-भयात् त्रिलोकीचित्तमूर्च्छाकरमासीत । तत्र हेतुः-- रौद्रमतिदारुणमिति । रौद्रं-भयानकं स्मरणेन च; दारुणं-दुर्दशं, नृसिंहवीरभद्राद्यावेशमूर्तिवदित्यर्थः ॥ १७ ॥

 रोमकूपेषु सर्वेषु वसिष्ठस्य महात्मनः ।
 मरीच्य इव निष्पेतु[६४६]रग्नेर्धूमाकुलार्चिषः ॥ १८ ॥


 तावेव रौद्रदारुणार्थौ उभयोः प्रकाश्येते-रोमेत्यादि । अग्नेरिव मरीच्यः-विस्फुलिङ्गाः निष्पेतुरिति योजनार्थः ॥ १८ ॥

 प्राज्वलद्ब्रह्मदण्डश्च वसिष्ठस्य करोद्यतः ।
 [६४७]विधूम इव कालाग्निर्यमदण्ड इवापरः ॥ १९ ॥

 विधूमः कालाग्निरिव ब्रह्मदण्डश्च प्राज्वलत् ॥ १९ ॥

 ततोऽस्तुवन् मुनिगणा वसिष्ठं[६४८]जपतां वरम् ।
 अमोघं ते बलं ब्रह्मन् ! तेजो धारय[६४९]तेजसा ॥ २० ॥

 एवं रूपं वसिष्ठमुपश्लोकयन्तो देवाः पारक्यब्रह्मास्त्रतेजोग्रसनमेव निरवशेषतः कार्यमित्याहुः । ततोऽस्तुवन्-साधुसाध्वित्युपश्लोकितवन्तो मुनिगणाः हे ब्रह्मन् ते बलं-ब्रह्मबलं अमोघं अस्तु । अरातौ अविसर्जनेन अक्षीणमस्तु । किमुक्तं भवति ? प्रतिब्रह्मास्त्रं मा प्रयुङ्क्ष्वेति, पारक्यं तेजः स्वतेजसा सहजेन धारय, विलाप्यैकीकुरु ॥

 निगृहीतस्त्वया ब्रह्मन् ! विश्वामित्रो महातपाः ।
 प्रसीद जपतां श्रेष्ठ ! लोकाः सन्तु गतव्यथाः ॥ २१ ॥

 ननु कथमरातौ स्थिते अप्रतिप्रयोग इत्यत्राहुः-निगृहीत इत्यादि । ब्रह्मास्त्रस्य च ग्रासे सति नष्टसर्वसामर्थ्यः स्वयमेव मृतप्रायो जात इत्यर्थः ॥ २१ ॥

 एवमुक्तो महातेजाः शमं चक्रे महातपाः ।
 [६५०]विश्वामित्रो विनिकृतो विनिश्वस्येदमब्रवीत् ॥ २२ ॥

 शमं चक्रे इति । प्रतिप्रयोगतोऽरातिनाशनादुपरतोऽभूदित्यर्थः । विनिकृतः-तिरस्कृतसर्वशक्तिरित्यर्थः ॥ २२ ॥


 धिग्बलं क्षत्रियबलं ब्रह्मतेजो बलं बलम् ।
 एकेन ब्रह्मदण्डेन सर्वास्त्राणि हतानि मे ॥ २३ ॥

 धिग्बलमिति । 'धिगुपर्यादिषु' इति द्वितीया ॥ २३ ॥ तदेतत्समवेक्ष्याहं प्रसन्नेन्द्रियमानसः । तपो महत्समास्थास्ये यद्वै ब्रह्मत्वकारणम् ॥ २४ ॥

इत्यार्षे श्रीमद्रामायणे बालकाण्डे षट्पञ्चाशः सर्गः

 तदेतदिति । ब्रह्मतेजोबलमित्यर्थः । प्रसन्नेन्द्रियमानस इति । परित्यक्तक्षत्रस्वभाव इति यावत् । भार. (२४) मानः सर्गः ॥ २४ ॥

इति श्रीमद्रामायणामृतकतकटीकायां बालकाण्डे षट्पञ्चाशः सर्गः

अथ सप्तपञ्चाशः सर्गः
[त्रिशङ्कोः स्वर्गजिगमिषा]

 [६५१]ततः सन्तप्तहृदयः स्मरन्निग्रहमात्मनः ।
 विनिश्वस्य विनिश्वस्य, कृतवैरो महात्मना ॥ १ ॥
 स दक्षिणां दिशं गत्वा महिष्या सह राघव !
 [६५२]तताप परमं घोरं विश्वामित्रो महत्तपः ॥ २ ॥

 अथ चतुर्व्यूहानामेकैकप्राधान्येन दक्षिणादिदिक्षु विश्वामित्रतपः- प्रवृत्तिर्ब्रह्मत्वायोत्तरसर्गैः-तत इत्यादि । महात्मना-वसिष्ठेन कृतवैर इति । इदमेव वक्ष्यमाणतत्तपोनाशबीजम् ॥ २॥


 अथास्य जज्ञिरे पुत्राः सत्यधर्मपरायणाः ।
 हविष्यन्दो मधुष्यन्दो दृढनेत्रो महारथः ॥ ३ ॥
 पूर्णे वर्षसहस्रे तु ब्रह्मा लोकपितामहः ।
 अब्रवीन्मधुरं वाक्यं विश्वामित्रं तपोधनम् ॥ ४ ॥
 जिता राजर्षिलोकास्ते तपसा कुशिकात्मज !
 अनेन तपसा त्वां तु राजर्षिरिति विद्महे ॥ ५ ॥

 पूर्णे वर्षसहस्रे तु ब्रह्माऽब्रवीदिति । ब्रह्मर्षित्वाय ब्रह्मविद्यया तदधिदैवतब्रह्मविद्योपासकत्वात् स एव भगवांस्तदुचितफलदानाय सन्निधत्ते ।[६५३]विद्महे इति । 'विदो लटो वा' इति मसो मादेशः ॥ ५ ॥

 एवमुक्त्वा महातेजा जगाम सह दैवतैः ।
 [६५४]त्रिविष्टपं, ब्रह्मलोकं लोकानां परमेश्वरः ॥ ६ ॥

 लोकानां-भूरादीनां तद्वर्तिलोकानां सर्वस्रोतसां च असङ्कोचोपचारेण परमेश्वरः-भगवान्-ब्रह्मा ब्रह्मलोकं जगाम । देवास्त्रिविष्टपं जग्मुरिति विपरिणामः ॥ ६ ॥

 विश्वामित्रोऽपि तच्छ्रुत्वा हिया किञ्चिदवाङ्मुखः ।
 दुःखेन महताऽऽविष्टः[६५५]समन्युरिदमब्रवीत् ॥ ७ ॥
 समन्युरिदमब्रवीदति । स्वं प्रत्येवेदं वचनम् ॥ ७ ॥
 तपश्च सुमहत्तप्तं राजर्षिरिति मां विदुः ।
 देवाः सर्षिगणाः सर्वे नास्ति मन्ये[६५६]तपःफलम् ॥ ८ ॥


 सुमहत्तपस्तप्तम् । एवमपि मां राजर्षिरित्येव विदुः-अवगच्छन्त इति बत ! लटि विदेरुस् । इदं तपःफलं-अस्मदिष्टं नास्ति-न भवतीति मन्ये ॥ ८ ॥

 [६५७]एवं निश्चित्य मनसा भूय एव महातपाः ।
 तपश्चकार काकुत्स्थ ! परमं परमात्मवान् ॥ ९ ॥

 परमात्मवान्–ब्रह्मविद्यादैवतश्रीमदादिगुरुपरमात्मब्रह्मध्यानवान् परमधृतिमांश्च । "आत्मा जीवे धृतौ देहे स्वभावे परमात्मनि" ॥ ९ ॥

 एतस्मिन्नेव काले तु सत्यवादी जितेन्द्रियः ।
 त्रिशङ्कुरिति विख्यातः इक्ष्वाकुकुलवर्धनः ॥ १० ॥
 तस्य बुद्धिः समुत्पन्ना यजेयमिति राघव !
 गच्छेयं[६५८]सशरीरेण देवानां परमां गतिम् ॥ ११ ॥

 गच्छेयमिति । यज्ञबलेनेति शेषः । सशरीरेणेति । स्वात्मनेति शेषः ॥ ११ ॥

 स वसिष्ठं समाहूय कथयामास चिन्तितम् ।
 [६५९]अशक्यमिति चाप्युक्तो वसिष्ठेन महात्मना ॥ १२ ॥
 प्रत्याख्यातो वसिष्ठेन स ययौ दक्षिणां दिशम् ।
 ततस्तत्कर्मसिद्ध्यर्थं[६६०]पुत्रांस्तस्य गतो नृपः ॥ १३ ॥

 तत्कर्मसिद्ध्यर्थमिति । सशरीरस्वर्गप्रापकयज्ञसिद्ध्यर्थमित्यर्थः ॥


 वासिष्ठा दीर्घतपसस्तपो यत्र हि तेपिरे ।
 त्रिशङ्कुः सुमहातेजाः शतं परमभास्वरम् ॥ १४ ॥
 वासिष्ठान् संददर्शाथ तप्यमानान्[६६१]यशस्विनः ।

 यत्र तेपिर इति । गत्वेति शेषः । शतं वासिष्ठानिति । बह्वर्थे शतमित्येकत्वनिपातात् सामानाधिकरण्यम् ॥ १४ ॥

 सोऽभिगम्य[६६२]महात्मानः सर्वानेव गुरोः सुतान् ॥ १५ ॥
 अभिवाद्यानुपूर्व्येण हिया किञ्चिदवाङ्मुखः ।
 अब्रवीत्[६६३]सुमहात्मानः सर्वानेव कृताञ्जलिः ॥ १६ ॥

 ह्रियेति । वसिष्ठप्रत्याख्यानजयेति शेषः । सुमहात्मानस्सर्वानिति । छान्दसो जस् ॥ १६ ॥

 शरणं वः प्रपद्येऽहं शरण्यान्[६६४]शरणागतः ।
 प्रत्याख्यातोऽस्मि, भद्रं वः, वसिष्ठेन महात्मना ॥ १७ ॥

 शरणागतः-शरणं रक्षितारं रक्षित्रपेक्षया आगतः अहं शरण्यान्-रक्षणसमर्थान् वः-युष्मानेव शरणं प्रपद्ये ॥ १७ ॥

 यष्टुकामो महायज्ञं तदनुज्ञातुमर्हथ ।
 गुरुपुत्रानहं सर्वान् नमस्कृत्य प्रसादये ॥ १८ ॥
 शिरसा प्रणतो याचे ब्राह्मणान् तपसि स्थितान् ।
 ते मां भवन्तः सिद्ध्यर्थं याजयन्तु समाहिताः ॥ १९ ॥
 सशरीरो यथाऽहं हि देवलोकमवाप्नुयाम् ।

 ब्राह्मणान्-अन्वर्थब्राह्मणान् । अत एव-तपसि स्थितान् ॥


 प्रत्याख्यातो वसिष्ठेन गतिमन्यां तपोधनाः ॥ २० ॥
 गुरुपुत्रानृते सर्वान् नाहं पश्यामि कां चन ।
 [६६५]इक्ष्वाकूणां हि सर्वेषां पुरोधाः परमा गतिः ॥
 तस्मादनन्तरं सर्वे भवन्तो दैवतं मम ॥ २१ ॥

इत्यार्षे श्रीमद्रामायणे बालकाण्डे सप्तपञ्चाशः सर्गः

 तस्मात्-स्वकुलनृपतारकस्वकुलपुरोधसो वसिष्ठादनन्तरमित्यर्थः ।

कर (२१) मानः सर्गः ॥ २१॥

इति श्रीमद्रामायणामृतकतकटीकायां बालकाण्डे सप्तपञ्चाशः सर्गः

अथ अष्टपञ्चाशः सर्गः

[त्रिशङ्कोचण्डालत्वप्राप्तिः]

 ततस्त्रिशङ्कोर्वचनं श्रुत्वा क्रोधसमन्वितम् ।
 ऋषिपुत्रशतं राम ! राजानमिदमब्रवीत् ॥ १ ॥

 एवमनुचिताचारतोऽनर्थाप्तिप्रतिपादनम्-ततस्त्रिशङ्कोरित्यादि ॥ १ ॥

 प्रत्याख्यातो हि दुर्बुद्धे ! गुरुणा सत्यवादिना ।
 तं कथं समतिक्रम्य शाखान्तरमुपेयिवान् ॥ २ ॥

 तं कथमिति । स्वकुलगुरुमित्यर्थः । शाखान्तरं-याजकादिना रक्षकान्तरम् ॥२॥

 इक्ष्वाकूणां हि सर्वेषां पुरोधाः परमो गुरुः ।
 न चातिक्रमितुं शक्यं वचनं सत्यवादिनः ॥ ३ ॥

 न चातिक्रमितुं शक्यमिति । इक्ष्वाकुभिरिति शेषः ॥ ३ ॥


 अशक्यमिति चोवाच वसिष्ठो भगवानृषिः ।
 तं वयं वै समाहर्तुं क्रतुं शक्ताः कथं तव ॥ ४ ॥

 तं वयमिति । यमशक्यमित्युवाच, तं यज्ञमित्यर्थः ॥ ४ ॥

 बालिशस्त्वं नरश्रेष्ठ ! गम्यतां स्वपुरं पुनः ।
 याजने भगवान् शक्तः[६६६]त्रैलोक्यस्यापि पार्थिव ! ॥ ५ ॥

 बालिशः । अज्ञ इत्यर्थः । त्रैलोक्यस्यापीति । सिद्ध्यर्थे याजन इति योजना ॥ ५ ॥

 अवमानं [६६७]च तत्कर्तुं तस्य शक्ष्यामहे[६६८]कथम् ।

 अवमानमिति । तदसाध्यार्थसाधनरूपमित्यर्थः ॥

 तेषां तद्वचनं श्रुत्वा क्रोधपर्याकुलाक्षरम् ॥ ६ ॥
 स राजा पुनरेवैतान् इदं वचनमब्रवीत् ।

 एतानिति । वासिष्ठानित्यर्थः ॥ ६ ॥

 प्रत्याख्यातोऽस्मि गुरुणा गुरुपुत्रै[६६९]स्तथैव च ॥ ८ ॥
 अन्यां गतिं गमिष्यामि, स्वस्ति वोऽस्तु तपोधनाः ।

 अन्यां गतिमिति । याजकान्तरमित्यर्थः ॥ ८ ॥

 ऋषिपुत्रास्तु तच्छ्रुत्वा वाक्यं घोराभिसंहितम् ॥ ८ ॥
 शेपुः परमसंक्रुद्धाः चण्डालत्वं गमिष्यसि ।

 घोराभिसंहितमिति । साक्षात्कुलगुरुं ब्रह्मपुत्रं वसिष्ठं व्यतिक्रम्य पुरोधान्तराश्रयणाभिसन्धानस्य इच्छायाः कुलनाशहेतुत्वेनातिघोरत्वम् । गमिष्यसीति शेपुरिति योजना ॥ ९ ॥


 [६७०]एवमुक्त्वा महात्मानो विविशुस्ते स्वमाश्रमम् ॥ ९ ॥
 अथ रात्र्यां व्यतीतायां राजा [६७१]चण्डालतां गतः ।
 नीलवस्त्रधरो नीलः परुषो ध्वस्तमूर्धजः ॥ १० ॥
 चित्यमाल्यानुलेपश्च आयसाभरणोऽभवत् ।

 चित्येति । चिता-श्मशानं तत्र भवं माल्यं, अनुलेपः-चिताभस्म यस्य स तथा । अयोविकारः-आयसम् ॥ १२ ॥

 तं दृष्ट्वा मन्त्रिणः सर्वे त्यज्य चण्डालरूपिणम् ।
 प्राद्रवन् सहिता राम ! पौरा येऽस्यानुगामिनः ॥ ११ ॥
 एको हि राजा काकुत्स्थ ! जगाम परमात्मवान् ।
 दह्यमानो दिवारात्रं विश्वामित्रं तपोधनम् ॥ १२ ॥

 एको हीति । हि यस्मात् मन्त्रिपौरपरित्यक्तः तस्मादेकाकी अटन् दिवारात्रं दुःखेन दह्यमानोऽपि परमात्मवान्-परमधृतिमान् भूत्वा वसिष्ठवैरिणं विश्वामित्रं जगाम ॥ १४ ॥

 विश्वामित्रस्तु तं दृष्ट्वा राजानं विफलीकृतम् ।
 चण्डालरूपिणं राम ! मुनिः कारुण्यमागतः ॥ १३ ॥

 विफलीकृतं-वासिष्ठैर्विनाशितैहिकामुष्मिकार्थतया सम्पादितं ॥


 कारुण्यात्स महातेजा वाक्यं परमधार्मिकः ।
 इदं जंगाद, भद्रं ते, राजानं घोररूपिणम् ॥ १४ ॥
 किमागमनकार्यं ते राजपुत्र महाबल !
 अयोध्याधिपते वीर ! [६७२]शापाच्चण्डालतां गतः ॥ १५ ॥

 यस्त्वं शापाच्चण्डालतां गतः, तस्य ते इह आगमनकार्यं किमिति योजना ॥ १५ ॥

 [६७३]अथ तद्वाक्य[६७४]माज्ञात्वा राजा चण्डालतां गतः ।
 अब्रवीत् प्राञ्जलिवाक्यं वाक्यज्ञो वाक्यकोविदम् ॥ १६॥

 आज्ञात्वेति । श्रुत्वेति यावत् ॥ १६ ॥

 प्रत्याख्यातोऽस्मि गुरुणा गुरुपुत्रैस्तथैव च ।
 अनवाप्यैव[६७५]तं कामं मया प्राप्तो विपर्ययः ॥ १७॥

 तं काममिति । यं काममुद्दिश्य गुर्वादीनुपसन्नोऽस्मि, तमप्राप्य । न तावता समाप्तम्, अपि तु विपर्ययः विपरीतप्रयोजनं चैवंवेषरूपं प्राप्तमित्यर्थः ॥ १७ ॥

 [६७६]सशरीरो दिवं यायामिति मे[६७७]सौम्य ! दर्शनम् ।
 मया चेष्टं क्रतुशतं, तच्च नावाप्यते फलम् ॥ १८ ॥

 कस्ते कामस्तादृश इत्यतः-सशरीर इत्यादि । दर्शनं-बुद्धिः । तच्चेति । तथापि तत्फलं-सशरीरस्वर्गप्राप्तिरूपमित्यर्थः ॥ १८ ॥


 [६७८]अनृतं नोक्तपूर्वं मे न च वक्ष्ये कदाचन ।
 कृच्छ्रेष्वपि गतः, सौम्य ! क्षत्रधर्मेण[६७९]ते शेपे ॥ १९ ॥

 क्षत्रधर्मेणेति । तत्साक्षितयेत्यर्थः ॥ १९ ॥

 [६८०]यज्ञैर्बहुविधैरिष्टं प्रजा धर्मेण पालिताः ।
 गुरवश्च महात्मानः शीलवृत्तेन तोषिताः ॥ २० ॥

 शीलोपेतं वृत्तं शीलवृत्तं । शीलं-सद्गुणः । वृत्तं-आचारः ॥

 धर्मे[६८१]प्रयतमानस्य यज्ञं चाहुर्तुमिच्छतः ।
 परितोषं न गच्छन्ति गुरवो मुनिपुङ्गव ! ॥ २१ ॥

 न गच्छन्ति-न गच्छन्ति स्म ॥ २१ ॥

 दैवमेव परं मन्ये पौरुषं तु निरर्थकम् ।
 दैवेनाक्रम्यते सर्वं दैवं हि परमा गतिः ॥ २२ ॥

 यदेवमतः–दैवमेवेति । प्रारब्धफलादृष्टमित्यर्थः । परं-श्रेष्ठं । पुरुषहिताहितप्रापकमित्यर्थः । पौरुषं-इदानींतनधर्माद्यनुष्ठानं निरर्थकं-फलोन्मुखप्रारब्धोद्यदर्थानर्थतिरस्कारे दुर्बलमित्यर्थः । दैवेनेत्यादौ दैवशब्द उक्तार्थः । आक्रम्यते-अभिभूयते । हि यस्मादेवं तस्मात् दैवं परमा गतिः । साक्षादितरतिरस्कारेणैहिकसुखदुःखादिप्रद इत्यर्थः ॥ २२ ॥


 तस्य मे परमार्तस्य प्रसादमभिकाङ्क्षतः ।
 कर्तुमर्हसि, भद्रं ते, दैवोपहतकर्मणः ॥ २३ ॥

 प्रसादं–दैवानुकूल्यं । दैवेनोपहतफलं इहानुष्ठीयमानं कर्म यस्य स तथा ॥ २३ ॥

 नान्यां गतिं[६८२]गमिष्यामि नान्यः शरणमस्ति मे ।
 दैवं पुरुषकारेण निवर्तयितुमर्हसि ॥ २४ ॥

इत्यार्षे श्रीमद्रामायणे बालकाण्डे अष्टपञ्चाशः सर्गः

 वर (२४) मानः सर्गः ॥ २४ ॥

इति श्रीमद्रामायणामृतकतकटीकायां बालकाण्डे अष्टपञ्चाशः सर्गः


अथ एकोनषष्टितमः सर्गः

[वासिष्ठादीनां शपावाप्तिः]

 [६८३]उक्तवाक्यं तु राजानं कृपया कुशिकात्मजः ।
 अब्रवीन्मधुरं वाक्यं[६८४]साक्षाच्चण्डालरूपिणम् ॥ १ ॥


अथ [६८५]वसिष्ठवैरवशादन्योन्यनिजतपोनाशकरी प्रवृत्तिः-उक्तेत्यादि ॥ १ ॥


 ब्राह्मणा वा महात्मानो[६८६]भुक्त्वा चाण्डालभोजनम् ।
 कथं स्वर्गं गमिष्यन्ति विश्वामित्रेण पालिताः ॥ १४ ॥

 पालिता इति व्यङ्ग्योक्तिः ॥ १४ ॥

 एतद्वचननैष्टुर्यमूचुः संरक्तलोचनाः ।
 वासिष्ठा मुनिशार्दूल ! सर्वे ते समहोदयाः ॥ १५ ॥

 महोदयसहिताः समहोदयाः ॥ १५ ॥

 तेषां तद्वचनं श्रुत्वा सर्वेषां मुनिपुङ्गवः ।
 क्रोधसंरक्तनयनः[६८७]सरोषमिदमब्रवीत् ॥ १६ ॥
 [६८८]य दूषयन्त्यदुष्टं मां तप उग्रं समास्थितम् ।
 भस्मीभूता दुरात्मानो भविष्यन्ति न संशयः ॥ १७ ॥

 अदुष्टं मामित्यत्र हेतुः-तप उग्रं समास्थितमिति । तेषां तेजोविशेषेण प्रत्यवायो न विद्यते' इति न्यायेन चण्डालयाजनमपि मम जीर्यतीत्यविज्ञाय दूषयन्ति यतः तस्मात् भस्मीभूता इत्यादि ।

 अद्य ते कालपाशेन नीता वैवस्वत[६८९]क्षयम् ।
 सप्तजातिशतान्येव[६९०] मृतपाः सन्तु सर्वशः ॥ १८ ॥

 सप्तजातिशतानीति । सप्तशतजन्मानीत्यर्थः । मृतपाः-शवभक्षकाः ॥ १८ ॥

 श्वमांसनियताहारा मुष्टिका नाम निर्घृणाः ।
 विकृताश्च विरूपाश्च लोकाननुचरन्त्विमान् ॥ १९ ॥

 मुष्टिका नाम । मुष्टिकाख्यगणरूपाः । विकृताः-विकृतवचन-गमनादिमन्तः। विरूपाः-विकटवेषाः ॥ १९ ॥


 महोदयश्च दुर्बुद्धिर्भामदूष्यं ह्यदूषयत् ।
 दूषितः सर्वलोकेषु निषादत्वं गमिष्यति ॥ २० ॥

 मामदूष्यं हीति प्राग्वदभिमानात् ॥ २० ॥

 प्राणातिपातनिरतो निरनुक्रोशतां गतः ।
 दीर्घकालं मम क्रोधात् दुर्गतिं वर्तयिष्यति ॥ २१ ॥

 प्राणातिपातः-प्राणनाशनम् । ननूग्रतपस्वित्वेऽपि ब्रह्मणा इदानीमपि राजर्षित्वानुग्रहतः क्षत्रियत्वानपायात् क्षत्रियचण्डालयाजनस्य सर्वलोकविगर्हितस्य सर्वथैवान्याय्यत्वात् 'प्रत्यगेनमभिचारस्तृणुते' इति न्यायेनान्याय्यकारिणोऽस्यैव तच्छापकृत्यया नाशने न्याय्ये कथं वासिष्ठेषु यथावादिषु शापकृत्यप्रवृत्तिः ? उच्यते-अस्य वसिष्ठवैरनिर्यातनका- मनोपेततपस्वित्वात् भगवताऽपि तत्फलस्यैव प्रदातव्यत्वाद्वासिष्ठानां च तन्निमित्ततः किञ्चित्प्रारब्धस्य च भोक्तव्यत्वात् तच्छापत एव तत्तपोविनाशस्य चावश्यं भाव्यत्वात् भगवदुपासनायाश्च अमोघफलत्वात् भगवदाज्ञयैव वासिष्ठेषु शापप्रवृत्तिः । एतेन वक्ष्यमाणसृष्टिसामर्थ्यं च भगवदाज्ञयैवेति व्याकृतम् । अत एव देवैरेव तत्सर्गो निवार्यते । भगवतस्तद्ब्रह्मविद्याघोरांशमूलक्षुद्रसर्गस्य चेष्टत्वात् 'अस्माभिर्यदनुष्ठेयं गन्धर्वैस्तदनुष्ठितम्' इति न्यायेन भगवदनुमतैव तत्सृष्टिः ॥ २१ ॥ एतावदुक्त्वा वचनं विश्वामित्रो महातपाः । विरराम महातेजा ऋषिमध्ये महामुनिः ॥ २२ ॥

इत्यार्षे श्रीमद्रामायणे बालकाण्डे एकोनषष्टितमः सर्गः

 [६९१]गर (२३) मानः सर्गः ॥ २२ ॥

इति श्रीमद्रामायणामृतकतकटीकायां बालकाण्डे एकोनषष्टिमः सर्गः


अथ षष्टितमः सर्गः

[त्रिशङ्कोः स्वर्गारोहणम्]

 तपोबलहतान्[६९२]कृत्वा वासिष्ठान् समहोदयान् ।
 ऋषिमध्ये महातेजा विश्वामित्रोऽभ्यभाषत ॥१॥

 अथानपेतक्षत्रधर्मत्वादुग्रतपस्त्वाभिमानादन्याय्ययाजनप्रवृत्तिःतपोबलेत्यादि ॥ १॥

 अयमिक्ष्वाकुदायादः त्रिशङ्कुरिति विश्रुतः ।
 धर्मिष्ठश्च वदान्यश्च मां चैव शरणं गतः ॥२॥
 [६९३]तेनानेन शरीरेण देवलोकजिगीषया।

 इक्ष्वाकुदायादः । दायमत्तीति दायादः । पचाद्यच् । पुत्रपौत्रादीक्ष्वाकुवंश्य इति यावत् । एवमादिगुणवर्णनं याज्यत्वप्रकाशनाय । वसिष्ठवासिष्ठतिरस्कृतस्य रक्षणे मद्व्यतिरिक्तस्समर्थो नास्तीति निश्चित्य मामेवानेन शरीरेण देवलोकजिगीषया शरणं गत इत्यर्थः ॥

 यथाऽयं स्वशरीरेण[६९४]स्वर्गलोकं गमिष्यति ॥३॥
 तथा प्रवर्त्यतां यज्ञो भवद्भिश्च मया सह ।

 यदेवमतः—यथेत्यादि ॥३॥

 विश्वामित्रवचः श्रुत्वा सर्व एव महर्षयः ॥४॥
 ऊचुः समेत्य सहिता धर्मज्ञा धर्मसंहितम् ।

 समेत्योचुरिति । अन्योन्यमिति शेषः ॥ ४ ॥

 अयं कुशिकदायादो मुनिः परमकोपनः ॥५॥
 यदाह वचनं सम्यगेतत्कार्यं न संशयः ।


 अग्निकल्पो हि भगवान् शापं दास्यति रोषितः ॥ ६ ॥

 किमूचुरित्यतः-यदित्यादि ॥ ५ ॥

 तस्मात्प्रवर्त्यतां यज्ञः सशरीरो यथा दिवम् ।
 गच्छेदिक्ष्वाकुदायादो विश्वामित्रस्य तेजसा ॥ ७ ॥
 ततः प्रवर्त्यतां यज्ञः सर्वे समधितिष्ठत ।

 यस्मादनपेतक्षत्रत्वेन अजितकामक्रोधत्वेन शापं दास्यति तस्मादित्यर्थः यदेवमनुष्ठेयांशो निश्चितस्ततः यज्ञः प्रवर्त्यताम् । प्रवर्तिते च यज्ञे सर्वे स्वस्वार्त्विज्यादिकृत्यं समधितिष्ठत-परिगृह्य प्रवर्तयध्वमित्यर्थः ॥

 एवमुक्त्वा महर्षयः चक्रुस्तास्ताः क्रियास्तदा ॥ ८ ॥
 याजकश्च महातेजा विश्वामित्रोऽभवत् क्रतौ ।

 तास्ताः क्रिया इति । स्वस्वार्त्विज्यकर्माणीत्यर्थः । याजकः-प्रधानार्त्विज्यकर्ता-अध्वर्युरिति यावत् । अत एवाग्रे उच्यते-'स्रुवमुद्यम्य' इति ॥ ८ ॥  ऋत्विजश्चानुपूर्व्येण मन्त्रवन्मन्त्रकोविदाः ॥ ९ ॥  चक्रुः सर्वाणि कर्माणि यथाकल्पं यथाविधि ।  यथाकल्पं-कल्पसूत्रमनतिक्रम्य । यथाविधि - यथासम्प्रदायानुष्ठानमनतिक्रम्य । कल्पसूत्रे नानात्वपक्षोपन्यासस्थले अनुष्ठेयांशे सम्प्रदाय एव शरणम् ॥ ९ ॥

 ततः कालेन महता विश्वामित्रो महातपाः ॥ १० ॥
 चकारावाहनं तत्र भागार्थं[६९५]सर्वदेवताः ।


 नाभ्यागमंस्तदाहूता भागार्थं सर्वदेवताः ॥ ११ ॥

 महता कालेनेति । द्विस्त्रिर्मन्त्रावृत्याऽधिककालेनाधिककालसाध्ययत्नेन च आवाहनं चकार, अथापि नाभ्यागमन् देवताः, अनधिकारिणा अन्याय्येन च कृतं अकृतमेवेति शास्त्रात् ॥ ११ ॥

 ततः क्रोधसमाविष्टो विश्वामित्रो महामुनिः ।
 स्रुवमुद्यम्य सक्रोधस्त्रिशङ्कुमिदमब्रवीत् ॥ १२ ॥

 क्रोधविकारजं स्रुवोद्यमनं अन्यत् किञ्चित् ॥ १२ ॥

 पश्य मे तपसो वीर्यं स्वार्जितस्य नरेश्वर !
 एष त्वां स्वशरीरेण नयामि स्वर्गमोजसा ॥ १३ ॥
 दुष्प्रापं स्वशरीरेण दिवं गच्छ नराधिप !

 तपसो वीर्यं पश्येति । यज्ञरूपं त्वन्मनीषितसाधनमास्तामिति शेषः ॥ १३ ॥

 [६९६]स्वार्जितं किंचिदप्यस्ति मया हि तपसः फलम् ॥ १४ ॥
 राजन् ! त्वं तेजसा तस्य सशरीरो दिवं व्रज ।

 तस्य सशरीरस्वर्गाय निजतपोव्ययः-स्वार्जितं किञ्चिदित्यादि । तपसः फलं अस्ति यदि तदा हे राजन् ! त्वं तस्य तेजसा-वैभवेनेति योजनार्थः ॥ १४ ॥

 उक्तवाक्ये मुनौ तस्मिन् सशरीरो नरेश्वरः ॥ १५ ॥
 दिवं जगाम काकुत्स्थ ! मुनीनां पश्यतां तदा ।

 पश्यतामिति भावलक्षणे षष्ठी–पश्यत्स्विति यावत् ॥ १५ ॥

 देवलोकगतं दृष्ट्वा त्रिशङ्कुं पाकशासनः ॥ १६ ॥
 सह सर्वैस्सुरगणैः इदं वचनमब्रवीत् ।


 त्रिशङ्को ! गच्छ [६९७]भूयस्त्वं नासि स्वर्गकृतालयः ॥ १७॥
 गुरुशापहतो मूढ ! पत भूमिमवाक्छिराः ।

 स्वर्गे निजपुण्यकर्मणा कृतः आलयो यस्य स तथा । स्वर्गावासानर्ह एवासीत्यर्थः । कुत इत्यतः-गुरुशापेत्यादि ॥ १७ ॥

 एवमुक्तो महेन्द्रेण त्रिशङ्कुरपत[६९८]त्पुनः ॥ १८ ॥
 विक्रोशमानस्त्राहीति विश्वामित्रं तपोधनम् ।
 तच्छ्रुत्वा वचनं तस्य क्रोशमानस्य कौशिकः ॥ १९ ॥
 रोषमाहारयत्तीव्रं तिष्ठ तिष्ठेति चाब्रवीत् ।

 आहारयत्-अकरोदिति यावत् ॥ १९ ॥

 ऋषिमध्ये स तेजस्वी प्रजापतिरिवापरः ॥ २० ॥
 सृजन् दक्षिणमार्गस्थान् सप्तर्षीनपरान् पुनः ।

 सृजन्-हेतौ शतृप्रत्ययः, सृष्टिं कुर्वन्, तद्धेतोः दक्षिणमार्गस्थान् अपरान् सप्तर्षीन् असृजत् । यथोत्तरतो ध्रुव अचलस्तिष्ठति, एवं त्रिशङ्कुस्तिष्ठतु । तं परितो यथा सप्तर्षिमण्डलं तद्वदत्रापि भवत्वित्याशयः । तथाऽग्रेऽपि द्रष्टव्यम् ॥ २० ॥

 नक्षत्रमालामपरामसृजत् क्रोधमूर्च्छितः ॥ २१ ॥
 दक्षिणां दिशमास्थाय मुनिमध्ये[६९९]महायशाः ।

 नक्षत्रमाला-सप्तविंशतिनक्षत्रमाला । दक्षिणामास्थायेति । विराजो ब्रह्मणश्शिरोभाग उत्तरा दिक् । तत्र च सप्तसर्गाधिष्ठानो मेरुः । तदुपरि ध्रुवः । येन चण्डालः स्वर्गार्हो भगवदनुमन्यमानः, तेन दक्षिणदिशि सप्तर्ष्याद्याभासः तद्वद्वस्त्वन्तरकल्पनञ्च ॥ २१ ॥


 [७००]सृष्ट्वा नक्षत्रवंशं च क्रोधेन कलुषीकृतः ॥ २२ ॥
 [७०१]अन्यमिन्द्रं करिष्यामि लोको वा स्यादनिन्द्रकः ।
 दैवतान्यपि स क्रोधात् स्रष्टुं समुपचक्रमे ॥ २३ ॥

 नक्षत्रवंशः-क्षुद्रनक्षत्रगणः । अन्यमिन्द्रं । मया सृज्यमानस्वर्गो[७०२]ऽनिन्द्रोऽस्तु । तत्र त्रिशङ्कुरेवेन्द्रो भवतु; किमन्तर्गडुनाऽन्येनेत्याशयः । एवमिन्द्रस्थाने त्रिशंकुमेव प्रतिष्ठाप्य तस्यापीन्द्रवत्परिवारदैवतान्यपि स्रष्टुमुपचक्रमे ॥ २३ ॥

 ततः परमसम्भ्रान्ताः सर्षिसङ्घाः[७०३] सुरासुराः ।
 सकिन्नरमहायक्षाः सहसिद्धाः सचारणाः ॥ २४ ॥
 विश्वामित्रं महात्मानमूचुः सानुनयं वचः ।


 परमसंभ्रान्ता इति । [७०४]ज्येष्ठायाः कनिष्ठायामितिवन्मनोदुःख

हेतुत्वेन स्वप्रतिसर्गाभासप्रसङ्गे पर्याकुलचित्ता इत्यर्थः ॥ २४ ॥

 अयं राजा महाभाग ! गुरुशापपरिक्षतः ॥ २५ ॥
 सशरीरो[७०५]दिवं यातुं नार्हत्येव तपोधन !

 सानुनयमित्यनुनयस्यैव प्रकारः–अयं राजेत्यादि । गुरुशापहतश्चण्डालभूतोऽयं पुण्यैककृत्रैवर्णिकैकलभ्यानाद्यनन्तब्रह्मसृष्टस्वर्गंनार्हति । कर्मणोऽवश्यनाश्यत्वात् पुण्यक्षयेऽवश्यं त्वत्सृष्टिजातं तु नश्यत्येव । अतः क्षात्रस्वभावमास्थाय दुराग्रहं मा कुरु । अतोऽयं दक्षिणामेव दिशमास्थाय अवाक्छिराः-अस्माभिस्सर्वैरेव कृतमवाक्छिरस्त्वममुञ्चन्नेव तिष्ठत्विति न्यायानुनयोपेतमूचुः ॥ २५ ॥

 तेषां तद्वचनं श्रुत्वा देवानां मुनिपुङ्गवः ॥ २६ ॥
 अब्रवीत् सुमहद्वाक्यं कौशिकः सर्वदेवताः ।

 एवं तेषां तद्वचनं श्रुत्वा सुमहत्-[७०६]स्वकमहापुरुषार्थ प्रयोजनकं वाक्यं अब्रवीत् ॥ २६ ॥

 सशरीरस्य, भद्रं वः, त्रिशङ्करस्य भूपतेः ॥ २७ ॥
 आरोहणं प्रतिज्ञाय नानृतं कर्तुमुत्सहे ।

 किमब्रवीदित्यतः-सशरीरस्येत्यादि । 'भद्रं वः' इत्यनेनानुनयः क्रियते ॥ २७॥

 स्वर्गोऽस्तु सशरीरस्य त्रिशङ्करस्य शाश्वतः ॥ २८ ॥
 नक्षत्राणि च सर्वाणि मामकानि ध्रुवाण्यथ ।


 स्वर्गोऽस्त्विति । एवंमदृश्यान्यथनावाक्शिरोऽवस्थानस्यैवात्रैव

दक्षिणस्यां दिशि स्वर्गोऽस्तु-सुखानुभवोऽस्तु । ‘यन्न दुःखेन सम्भिन्नम्' इत्यादिना सुखविशेष एव स्वर्गशब्दार्थ:; उपचारात्त- त्साधनलोकादिश्च ॥ २८ ॥

 यावल्लोका धरिष्यन्ति तिष्ठन्त्वेतानि सर्वशः ॥ २९ ॥
 मत्कृतानि सुराः सर्वे तदनुज्ञातुमर्हथ ।

 यावल्लोका धरिष्यन्तीति । भूरादिलोका यथास्थानं सनातन- ध्रुवादिज्योतिश्चक्रं यावद्धारयन्ति तावदेतान्यपि नक्षत्राणि भगवद्विग्रहे घृतानि सन्ति मत्कृतानि तिष्ठन्त्विति तदेतन्मे प्रार्थनं अनुज्ञातुमर्हथ ॥

 एवमुक्ताः सुरास्सर्वे प्रत्यूचुर्मुनिपुङ्गवम् ॥ ३० ॥

 अथ तत्प्रार्थनानुमतिः-एवमुक्ता इत्यादि ॥ ३० ॥

 एवं भवतु, भद्रं ते, तिष्ठन्त्वेतानि सर्वशः ।
 गगने[७०७]तान्यनेकानि वैश्वानरपथाद्वहिः ॥ ३१ ॥
 नक्षत्राणि, मुनिश्रेष्ठ ! तेषु ज्योतिष्षु जाज्वलन् ।
 अवाक्छिरास्त्रिशङ्कुश्च तिष्ठत्वमरसन्निभः ॥ ३२ ॥

 सर्वशः-सर्वाणि अनेकानि तानि नक्षत्राणि वैश्वानरपथात्वैश्वानरज्योतिःप्रसिद्धाऽनादिज्योतिश्चक्रमार्गात् बहिः तदुचितप्रदेशे तिष्ठन्तु । तेषु त्वदीयेषु ज्योतिष्षु जाज्वलन्-भृशं ज्वलन अवाक्छिरा एव अमरसन्निभः-[७०८]अमरतुल्यः तिष्ठतु ॥ ३२॥


 अनुयास्यन्ति चैतानि ज्योतींषि नृपसत्तमम् ।
 कृतार्थं कीर्तिमन्तं च[७०९]स्वर्गलोकगतं [७१०]यथा ॥ ३३ ॥

 एतानि त्वदीयानि यथा तथा अनुयास्यन्तीति योजना ॥ ३३॥

 विश्वामित्रस्तु धर्मात्मा सर्वदेवैरभिष्टुतः ।
 [७११]ऋषिभिश्च महातेजा बाढमित्याह [७१२]देवताः ॥ ३४ ॥

 बाढमित्याहेति । देवतानां वाक्यानुवर्तनमेवास्माकं हितं, न दुराग्रहोऽनर्थहेतुरिति ज्ञात्वा देवतानां वचनं अन्ववर्ततेत्यर्थः ।

 ततो देवा महात्मानो मुनयश्च तपोधनाः ।
 जग्मुर्यथाऽऽगतं सर्वे[७१३]यज्ञस्यान्ते नरोत्तम ! ॥ ३५ ॥

इत्यार्षे श्रीमद्रामायणे बालकाण्डे षष्टितमः सर्गः

 मल्ल (३५) मानः सर्गः ॥ ३५ ॥

इति श्रीमद्रामायणामृतकतकटीकायां बालकाण्डे षष्टितमः सर्गः


अथ एकषष्टितमः सर्गः

[शुनश्शेफोपाख्यानोपक्रमः]

 विश्वामित्रो महात्माऽथ प्रस्थितान् प्रेक्ष्य तानृषीन् ।
 अब्रवीन्नर[७१४]शार्दूल ! सर्वांस्तान् वनवासिनः ॥ १ ॥


 ‘वसिष्ठतत्पुत्रयाज्यैः निमित्तैर्घोरशक्तितः । विश्वामित्रः क्षीणतपाः पश्चिमे तप्यते तपः' । विश्वामित्रो महात्मेत्यादि । वनवासिन इति । स्वतपोवनवासिन इत्यर्थः ॥ १ ॥

 [७१५]महान् विघ्नः [७१६]प्रवृत्तो मे दक्षिणामास्थितो दिशम् ।
 दिशमन्यां प्रवत्स्यामः तत्र तप्स्यामहे तपः ॥ २ ॥

 आस्थितः योऽहं, तस्य मे महान् विघ्नः प्रवृत्त इति योजना ।

 पश्चिमायां विशालायां पुष्करेषु महात्मनः !
 सुखं तपश्चरिष्यामो वरं तद्धि तपोवनम् ॥ ३ ॥

 विशालायां-विशालतपोवनवत्यां पश्चिमायां वर्तमानेषु पुष्करेषु- सोमसूर्याग्नितीर्थेषु-तत्तीरदेशतपोवनेष्वित्यर्थः ॥ ३ ॥

 एवमुक्त्वा महातेजाः पुष्करेषु महामुनिः ।
 तप उग्रं दुराधर्षं तेपे मूलफलाशनः ॥ ४ ॥
 एतस्मिन्नेव काले तु अयोध्याधिपतिर्नृपः ।
 अम्बरीष इति ख्यातो यष्टुं समुपचक्रमे ॥ ५ ॥
 तस्य वै यजमानस्य पशुमिन्द्रो जहार ह ।
 प्रणष्टे तु पशौ विप्रो राजानमिदमब्रवीत् ॥ ६ ॥

 विप्र इति। याजकः पुरोहित इत्यर्थः ॥ ६ ॥

 [७१७]पशुरद्या[७१८]ऽऽहृतो राजन् ! प्रणष्टस्तव दुर्नयात् ।
 अरक्षितारं राजानं घ्नन्ति दोषा नरेश्वर ! ॥ ७ ॥


 अद्याऽऽहृत इति । इदानीमस्माभिरिति शेषः । दुर्नयात्-तन्मूलपापवशात् तावकरक्षिणां प्रमादाच्च ॥ ७ ॥

 [७१९]प्रायश्चित्तं महद्ध्येतत्, नरं वा पुरुषर्षभ !
 आनयस्व पशुं शीघ्रं यावत्कर्म प्रवर्तते ॥ ८ ॥

 नरं वा आनयस्वेति । पशुप्रतिनिधित्वेनेति शेषः । इदं महत्प्रायश्चित्तं पशुनाश इति शेषः । अश्वमेधकर्मणः, पशुविसर्जनानन्तरं कालान्तरभावित्वात् यावत्कर्मकालः प्रवर्तेत, ततः पूर्वं नरं पशुं आनयस्वेत्यर्थः ॥ ८ ॥

 उपाध्यायवचः श्रुत्वा स राजा पुरुषर्षभ !
 अन्वियेष महाबुद्धिः पशुं गोभिः सहस्रशः ॥ ९ ॥

 सहस्रशो गोभिः-अनेकाभिः निष्क्रयभूताभिरिति शेषः ॥ ९ ॥

 देशान् जनपदांस्तांस्तान् नगराणि वनानि च ।
 आश्रमाणि च पुण्यानि मार्गमाणो महीपतिः ॥ १० ॥
 स पुत्रसहितं[७२०]नाम सभार्यं रघुनन्दन !
 [७२१]भृगु[७२२]तुन्दे समासीनमृचीकं संददर्श ह ॥ ११ ॥

 'सपुत्रेत्यत्र' स इति पदं । नामशब्दः प्रसिद्धौ । 'प्रपातस्तु तटो भृगुः' । तुन्दं-अभ्यन्तरप्रदेशः । किञ्चित्पर्वतप्रपाताभ्यन्तरप्रदेश इत्यर्थः ॥ ११ ॥


 तमुवाच महातेजाः प्रणम्याभिप्रसाद्य च ।
 ब्रह्मर्षिं तपसा दीप्तं राजर्षिरमितप्रभः ।
 पृष्ट्वा सर्वत्र कुशलमृचीकं [७२३]तमिदं वचः ॥ १२ ॥
 गवां शतसहस्रेण विक्रीणीषे सुतं यदि ।
 पशोरर्थे महाभाग ! कृतकृत्योऽस्मि भार्गव ! ॥ १३ ॥

 पशोरर्थे-प्रयोजनाय सुतं विक्रीणीषे यदि, तदा कृतकृत्योऽस्मि । भार्गवेति गोत्रनाम ॥ १३ ॥

 सर्वे परिसृता देशा[७२४]याज्ञीयं न लभे पशुम् ।
 दातुमर्हसि मूल्येन सुतमेकमितो मम ॥ १४ ॥

 याज्ञीयं-यज्ञाय हितं । 'तस्मै हितम्' इति [७२५]छः, वृद्धिरार्षी । इतः-सार्वविभक्तिकस्तसिः, एतेष्वित्यर्थः ॥ १४ ॥

 एवमुक्तो महातेजा ऋचीकस्त्वब्रवीद्वचः ।
 नाहं ज्येष्ठं नरश्रेष्ठ ! विक्रीणीयां कथञ्चन ॥ १५ ॥
 ऋचीकस्य वचः श्रुत्वा तेषां माता महात्मनाम् ।
 उवाच नरशार्दूलमम्बरीषं तपस्विनी ॥ १६ ॥
 अविक्रेयं सुतं ज्येष्ठं भगवानाह भार्गवः ।
 ममापि दयितं विद्धि कनिष्ठं शुनकं नृप !
 तस्मात्[७२६]कनीयसं पुत्रं न दास्ये तव पार्थिव ! ॥ १७ ॥

 शुनक इति कनिष्ठपुत्रनाम ॥ १७ ॥


 प्रायेण हि नरश्रेष्ठ ! ज्येष्ठाः पितृषु वल्लभाः ।
 मातॄणां च कनीयांसस्तस्माद्रक्ष्ये कनीयसं ॥ १८ ॥

 तस्मात् रक्ष्य इति । स्वसमीपवर्तिनमेवेति शेषः ॥ १८ ॥

 उक्तवाक्ये मुनौ तस्मिन् मुनिपत्न्यां तथैव च ।
 शुनश्शेफः स्वयं राम ! मध्यमो वाक्यमब्रवीत् ॥ १९ ॥

 रामेति सम्बुद्धिः । मध्यमः-मध्यमपुत्रः ॥ १९ ॥

 पिता ज्येष्ठमविक्रेयं, माता चाह कनीयसम् ।
 विक्रीतं मध्यमं मन्ये राजन् ! पुत्रं ; नयस्व माम् ॥ २० ॥

 विक्रीतं मध्यमं पुत्रं मन्ये । अर्थादिति शेषः । यदेवमतः हे राजन् ! मां नयस्व । ननु 'दानं क्रयधर्मश्च अपत्यस्य न विद्यते' इति धर्मशास्त्रे स्थितं; कथमृषिणा अपत्याविक्रयः? उच्यते-यथा कुलावसादे धर्माय अपत्यदानं प्रसिद्धं, एवं यज्ञाय अपत्यविक्रयो नातिविगर्हितः ॥

 अथ राजा महाबाहो ! वाक्यान्ते ब्रह्मवादिनः ।
 हिरण्यस्य सुवर्णस्य कोटिभी रत्नराशिभिः ॥ २१ ॥
 गवां शतसहस्रेण शुनश्शेफं नरेश्वरः ।
 गृहीत्वा परमप्रीतो जगाम रघुनन्दन ! ॥ २२ ॥
 अम्बरीषस्तु राजर्षी रथमारोप्य सत्वरः ।
 शुनश्शेफं महातेजाः जगामाशु महायशाः ॥ २३ ॥

इत्यार्षे श्रीमद्रामायणे बालकाण्डे एकषष्टितमः सर्गः

 गिरि (२३) मानः सर्गः ॥ २३ ॥

इति श्रीमद्रामायणामृतकतकटीकायां बालकाण्डे एकषष्टितमः सर्गः


द्विषष्टितमः सर्गः

[शुनश्शेफोपाख्यानम्]

 [७२७]शुनश्शेफं नरश्रेष्ठ ! गृहीत्वा तु महायशाः |
 व्यश्राम्यत् पुष्करे राजा मध्याह्ने रघुनन्दन ! ॥ १ ॥

 अथ पश्चिमायामपि तपोविघ्नः उपदिष्टयज्ञद्वारा-शुनश्शेफमित्यादि । व्यश्राम्यदिति । शमादित्वात् श्यनि दीर्घः । अह्नो मध्यं-मध्याह्नः, एकदेशिसमासः, 'राजाऽहः' इति टचि 'अह्नोऽह्नः' इत्यहादेशः, तस्मिन् मध्याह्ने ॥ १ ॥

 [७२८]तस्य विश्रममाणस्य शुनश्शेफो महायशाः ।
 पुष्करक्षेत्र[७२९]मागम्य विश्वामित्रं ददर्श ह ॥ २ ॥
 तप्यन्तमृषिभिः सार्धं मातुलं परमातुरः ।

 विश्रममाणस्येति । विश्राम्यत इति यावत् छान्दसस्तङादिः, भावलक्षणे षष्ठी, तस्मिन् विश्राम्यति सति । आगम्येति । 'वा ल्यपि' इत्यनुनासिकलोपाभावः । मातुलमिति । ऋचीकाय कौशिकी प्रतिपादिता इत्युक्तत्वात्[७३०]

 विवर्णवदनो दीनस्तृष्णया च श्रमेण च ॥ ३ ॥
 पपाताङ्के मुनेराशु वाक्यं चेदमुवाच ह ।

 तृष्णा-पिपासा । श्रमः-अध्वश्रमः । पपाताङ्क इति । मातुलत्वादेवोत्सङ्गोपसर्पणम् ॥ ३ ॥


 [७३१]न मेऽस्ति माता न पिता, ज्ञातयो बान्धवाः कुतः ॥
 त्रातुमर्हसि मां सौम्य ! धर्मेण मुनिपुङ्गव !
 त्राता त्वं हि मुनिश्रेष्ठ ! सर्वेषां त्वं हि भावनः ॥ ५ ॥

 बान्धवाः कुत इति । दूरादेवेत्यर्थः । धर्मेण-धर्मप्रयोजनोद्देशेनेत्यर्थः । सर्वेषामिति । शरणागतानामिति शेषः । भावयतीति भावनः-सर्वसाधक इत्यर्थः ॥ ४-५ ॥

 राजा च कृतकार्यः स्यादहं दीर्घायुरव्ययः ।
 स्वर्गलोकमुपाश्नीयां तपस्तप्त्वा ह्यनुत्तमम् ॥ ६ ॥

 यथा चेत् राजा कृतकार्यस्स्यात्, अहन्त्वव्ययः-अविनाशी दीर्घायुरनुत्तमं तपस्तप्त्वा स्वर्गलोकं-तत्रत्यभोगं उपाश्नीयां भुञ्जे, तथा[७३२]कुरुष्वेति शेषः ॥ ६॥

 त्वं मे नाथो ह्यनाथस्य भव भव्येन चेतसा ।
 पितेव पुत्रं धर्मात्मंस्त्रातुमर्हसि[७३३]किल्बिषात् ॥ ७ ॥

 भव्यं-कल्यं । किल्बिषात्-तन्मूलविपत्तेरित्यर्थः ॥ ७ ॥

 तस्य तद्वचनं श्रुत्वा विश्वामित्रो महातपाः ।
 [७३४]सान्त्वयित्वा बहुविधं[७३५]पुत्रानिदमुवाच ह ॥ ८ ॥
 [७३६]यत्कृते पितरः पुत्रान् जनयन्ति शुभार्थिनः ।
 परलोकहितार्थाय तस्य कालोऽयमागतः ॥ ९ ॥


 यदित्यादि । शुभार्थिनः पितरो यत्कृते यत्प्रयोजनाय पुत्रान् जनयन्ति, तस्य तत्प्रयोजनसंपादनस्य कालः वः समागतः । किं प्रयोजनाय जनयन्ति ? परलोकहितार्थायैव ॥ ९ ॥

 अयं मुनिसुतो बालो मत्तश्शरणमिच्छति ।
 अस्य जीवितमात्रेण प्रियं कुरुत पुत्रकाः ! ॥ १० ॥

 किं तादृशं प्रयोजनमिदानीमुपस्थितमित्यतः-अयमित्यादि । शरणं-रक्षणं । अस्य जीवितमात्रेण-प्राणप्रदानमात्रेण मम प्रियं युष्माकं सर्वार्थसाधनभूतं कुरुत ॥ १० ॥

 सर्वे[७३७]सुकृतकर्माणः सर्वे धर्मपरायणाः ।
 पशुभूता नरेन्दस्य तृप्तिमग्नेः प्रयच्छत ॥ ११ ॥

 स्वनियोगसिद्ध्यर्थमुपश्लोकः-सर्वे सुकृतेत्यादि । नन्वेतज्जी वनाय किमस्माभिः कर्तव्यमित्यतः-पश्वित्यादि । अयं पशुत्वेन राज्ञा गृहीतः । अतस्तत्प्रतिनिधित्वेन पशुभूता[७३८]नरेन्द्रस्याग्नेस्तृप्तिं प्रयच्छत ॥। ११ ॥

 नाथवांश्च शुनश्शेफो यज्ञश्वाविघ्नितो भवेत् ।
 देवतास्तर्पिताश्च स्युर्मम चापि कृतं वचः ॥ १२ ॥

 नाथवान्-मया रक्षकवान् । मम चापि-युष्मत्पितुः वचनं युष्माभिरवश्यं कर्तव्यं कृतं भवति ॥ १२ ॥

 मुनेस्तु वचनं श्रुत्वा[७३९]मधुष्यन्दादयः सुताः ।
 साभिमानं नरश्रेष्ठ ! सलीलमिदमब्रुवन् ॥ १३ ॥

 साभिमानं-साहङ्कारं । सलीलं सपरिहासं ॥ १३ ॥


 कथमात्मसुतान्[७४०]हित्वा त्रायसेऽन्यसुतं विभो !
 अकार्यमिव पश्यामः[७४१]श्वमांसमिव भोजने ॥ १४ ॥

 लोकतश्शास्त्रतश्चानुचितानुष्ठानत्वे दृष्टान्तः-श्वमांसमिवेत्यादि ।

 तेषां तद्वचनं श्रुत्वा त्राणां मुनिपुङ्गवः ।
 क्रोधसंरक्तनयनो व्याहर्तुमुपचक्रमे ॥ १५ ॥
 निस्साध्वसमिदं प्रोक्तं धर्मादपि विगर्हितम् ।
 अतिक्रम्य तु मद्वाक्यं दारुणं रोमहर्षणम् ॥ १६ ॥
 श्रमांसभोजिनः सर्वे वासिष्ठा इव जातिषु ।
 पूर्णं वर्षसहस्रं तु पृथिव्यामनुवत्स्यथ ॥ १७ ॥

 साध्वसं-भयं, पितृत्वप्रयुक्तप्रतिवचनमीतिरहितं यथा तथा, जीवतोर्वाक्यकरणादिधर्मादपि विगर्हितं-भ्रष्टं यथा तथा, एवं मद्वाक्यमध्यतिक्रम्य यतो दारुणं-निर्मुक्तपितृस्नेहतया परुषं, अत एव कोपावहत्वतो रोमहर्षणं-रोमाञ्चविकारकं वच उक्तम् तस्मात्-श्वमांसेत्यादि । जातिषु-पापजातिविशेषोत्पत्तिविषयेषु ॥ १७ ॥

 कृत्वा शापसमायुक्तान् पुत्रान् मुनिवरस्तथा ।
 शुनश्शेफमुवाचार्तं कृत्वा रक्षां[७४२]निरामयम् ॥ १८ ॥
 [इदमाह मुनिश्रेष्ठो विश्वामित्रो महातपाः]

 निरामयं । अनपायो यथा भवति तथा रक्षां-प्रसिद्धां भस्मसाधनां शुनश्शेफस्य कृत्वा तं शुनश्शेफमुवाच ॥ १८ ॥

 पवित्रपाशै[७४३]रासक्तो रक्तमाल्यानुलेपनः ।
 वैष्णवं यूपमासाद्य वाग्भिरग्निमुदाहर ॥ १९ ॥


 पवित्रपाशैः-दर्भरशनाभिः आसक्तः-बद्धः वैष्णवं-विष्णु-देवताकं यूपं 'वैष्णवो वै देवतया यूपः' इति श्रुतेस्तथात्वम् वाग्भिः-आग्नेयमन्त्रैः अग्निमुदाहर-स्तुहि ॥ १९ ॥

 [ इन्द्राविष्णू सुरश्रेष्ठौ स्तुहि त्वं मुनिपुत्रक !]
 इमे तु गाथे द्वे दिव्ये गायेथा मुनिपुत्रक !
 अम्बरीषस्य यज्ञेऽस्मिन् ततः सिद्धिमवाप्स्यसि ॥ २० ॥

 अनन्तरं-इमे त्वित्यादि । इमे इत्यपरोक्षानुभव (वचन) सिद्धत्वात् । सिद्धिं-जीवितसिद्धिम् ॥ २० ॥

 शुनश्शेफो गृहीत्वा ते द्वे गाथे सुसमाहितः ।
 त्वरया राजसिंहं तमम्बरीषमुवाच ह ॥ २१ ॥
 [७४४]राजसिंह महासत्व ! शीघ्रं गच्छावहे सदः ।
 निर्वर्तयस्व राजेन्द्र ! दीक्षां च समुपाविश ॥ २२ ॥

 गच्छावहे । तङार्षः । निर्वर्तयस्व । यज्ञमिति शेष ॥ २२ ॥

 तद्वाक्यमृषिपुत्रस्य श्रुत्वा हर्षसमुत्सुकः ।
 जगाम नृपतिः शीघ्रं यज्ञवाटमतन्द्रितः ॥ २३ ॥
 [७४५][७४६]सदस्यानुमते राजा [७४७]पवित्रकृतलक्षणम् ।
 पशुं रक्ताम्बरं कृत्वा यूपे तं समबन्धयत् ॥ २४ ॥

 पवित्रकृतलक्षणं-दर्भरशनासम्बन्धकृतपशुत्वज्ञापनं अत एव तं रक्ताम्बरत्वसंस्कारवन्तं तं पशुं कृत्वा-यज्ञपशुत्वेन सम्पाद्य यूपेऽबन्धयत् । राजेति शेषः ॥ २४ ॥


 स बद्धो वाग्भिरग्रयाभिरभितुष्टाव वै सुरौ ।
 इन्द्रमिन्द्रानुजं चैव यथावन्मुनिपुत्रकः ॥ २५ ॥

 इन्द्रानुजो विष्णुर्यूपदेवः । इन्द्रः पशुभोक्ता ॥ २५ ॥

 ततः प्रीतः सहस्राक्षो रहस्यस्तुतितर्पितः ।
 दीर्घमायुस्तदा प्रादात् शुनश्शेफाय राघव ! ॥ २६ ॥

 रहस्यस्तुतिः वैश्वामित्री ॥ २६ ॥

 स च राजा नरश्रेष्ठ ! [७४८]यज्ञस्य च समाप्तवान् ।
 फलं बहुगुणं राम ! सहस्राक्षप्रसादजम् ॥ २७ ॥

 सम्यक् आप्तवान्-समाप्तवान् । 'हरिश्चन्द्रो ह वैधस ऐक्ष्वाको राजाऽपुत्र आस' इत्यादि [७४९]बह्वृचब्राह्मणे, हरिश्चन्द्रनरमेधे शुनःशेफस्याजीगर्तसुतस्य पशुत्वं, 'कस्य नूनं कतमस्य' इत्यादिना मन्त्रेण प्रजापत्याद्यनेकदेवतास्तुत्यादिकं च प्रतिप्राद्यते । कथमिदमुच्यते-अम्बरीषयागे ऋचीकपुत्रः शुनश्शेफ इन्द्राविष्णू स्तुत्वा मुक्त इति ? सत्यम्-अम्बरीष एवैक्ष्वाकः । स एव हरिरिव चन्द्र इव च इति हरिश्चन्द्रः । ऋचीकः, स एवाजीर्गतः । तत्र प्रजापतिस्तुतिरिति यदुक्तं सैवेहोच्यमानविष्णुस्तुतिः । विश्वामित्रसम्बन्धः तेनैतत्पुत्रशापादिः श्रुतावप्यविशिष्टः[७५०] ॥ २७ ॥


 विश्वामित्रोऽपि धर्मात्मा भूयस्तेषे महातपाः ।
 पुष्करेषु नरश्रेष्ठ ! दशवर्षशतानि च ॥ २८ ॥

इत्यार्षे श्रीमद्रामायणे बालकाण्डे द्विषष्टितमः सर्गः

 जरा (२८) मानः सर्गः ॥ २८ ॥

इति श्रीमद्रामायणामृतकतकटीकायां बालकाण्डे द्विषष्टितमः सर्गः


अथ त्रिषष्टितमः सर्गः

[मेनकया विश्वामित्रतपोभङ्गः]

 पूर्णे वर्षसहस्रे तु[७५१]व्रतस्नातं महामुनिम् ।
 अभ्यागच्छन् सुराः सर्वे तपःफल[७५२]चिकीर्षवः ॥ १ ॥

 अथ द्वितीयव्यूहदिशि पश्चिमायां काममोहेन तपोनाशनप्रति-पादनम्-पूर्ण इत्यादि । अम्बायास्सहस्ररश्मित्वाद्वर्षसहस्रप्रमाणेनैव विश्वामित्रस्याम्बापुरश्चरणोपक्रमसमाप्तिः सर्वदिक्षु । अत एव सहस्रावृत्तिरम्बायाश्श्रोत्रियब्राह्मणानामस्माकं । व्रतस्नातमिति । समाप्तपुरश्चरणमिति यावत् ॥ १ ॥

 अब्रवीत् सुमहातेजा ब्रह्मा[७५३]सुरुचिरं वचः ।
 ऋषिस्त्वमसि, भद्रं ते, स्वार्जितैः कर्मभिः शुभैः ॥ २ ॥

 सुमहातेजा ब्रह्मेति । ब्रह्मविद्याधिदैवत्वतः तन्यैव तत्फलदातृत्वात् तदर्थं सुरुचिरं वचः भगवान् अब्रवीत । ऋषिस्त्वमसीति । एतेन राजशब्दानुपादानेन क्षत्रत्वजातिविश्लेषः कियान्वाऽभूदिति भगवताऽनुगृहीतं वेदितव्यम् ॥ २॥


 तमेवमुक्त्वा देवेशास्त्रिदिवं पुनरभ्यगात् ।
 विश्वामित्रो महातेजा भूयस्तेपे महत्तपः ॥ ३ ॥
 ततः कालेन महता मेनका परमाऽप्सराः ।
 पुष्करेषु नरश्रेष्ठ ! स्नातुं समुपचक्रमे ॥ ४ ॥

 परमा-रूपादितः सर्वोत्तमा ।[७५४]अप्सरश्शब्द एकवचनान्तोऽप्यस्ति ॥ ४ ॥

 तां ददर्श महातेजा मेनकां कुशिकात्मजः ।
 रूपेणाप्रतिमां तत्र विद्युतं जलदे यथा ॥ ५ ॥
 दृष्ट्वा कन्दर्पवशगो मुनिस्तामिदमब्रवीत् ।
 अप्सरः ! स्वागतं तेऽस्तु वस चेह ममाश्रमे ॥ ६ ॥
 अनुगृह्णीष्व, भद्रं ते, मदनेन सुमोहितम् ।

 अनुगृह्णीष्वेति । काममोहखिन्नस्य मे अनुकूला मत्तापं शमयेति यावत् ॥ ६ ॥

 इत्युक्ता सा वरारोहा तत्र वासमथाकरोत् ।
 तपसो हि महाविघ्नो विश्वामित्रमुपागतः ॥ ७ ॥
 तस्यां वसन्त्यां वर्षाणि पञ्च पञ्च च राघव !
 विश्वामित्राश्रमे राम ! सुखेन व्यतिचक्रमुः ॥ ८ ॥

 वरारोहा-उत्तमस्त्री । उपागत इति । तयेति शेषः । पञ्च पञ्च चेति । दशवर्षाणीति यावत् । 'षड्भ्यो लुक्' इति जसो लुक् ॥


 अथ काले गते तस्मिन् विश्वामित्रो महामुनिः ।
 सव्रीड इव संवृत्तः चिन्ताशोकपरायणः ॥ ९ ॥
 बुद्धिर्मुनेः समुत्पन्ना[७५५]सामर्षा रघुनन्दन !
 [७५६]सर्वं सुराणां कर्मैतत् तपोऽपहरणं महत् ॥ १० ॥

 सामर्षेति । अस्मत्तपः पुनः[७५७]देवता विघ्नन्तीत्यमर्षसहिता ॥

 [७५८]अहोरात्रापदेशेन गताः संवत्सरा दश ।
 काममोहाभिभूतस्य विघ्नोऽयं प्रत्युपस्थितः ॥ ११ ॥

 अहोरात्रापदेशेन–एकाहोरात्रतुल्यतया ॥ ११ ॥३॥

 विनिश्वसन् मुनिवरः पश्चात्तापेन दुःखितः ।
 भीतामप्सरसं दृष्ट्वा वेपन्तीं प्राञ्जलिं स्थिताम् ॥ १२ ॥
 मेनकां मधुरैर्वाक्यैर्विसृज्य कुशिकात्मजः ।
 उत्तरं पर्वतं राम ! विश्वामित्रो जगाम ह ॥ १३ ॥

 मेनकां मधुरैर्वाक्यैर्विसृज्येति । मया कामतप्तेन प्रार्थितत्वात् योषितस्ते न कश्चनापचारः । अतस्त्वं यथासुखं गच्छेत्येवमादिरूपैर्वचनैरित्यर्थः ॥ १३ ॥

 स कृत्वा [७५९]नैष्ठिकीं बुद्धिं, जेतुकामो महायशाः ।
 कौशिकीतीरमासाद्य तपस्तेपे सुदारुणम् ॥ १४ ॥


 नैष्ठिकीं । निष्ठा-बिन्दुधारणरूपा मुख्या ब्रह्मचर्यनिष्ठा, तद्विषयिणीं बुद्धिं-दृढनिश्चयम् । कौशिकी- विश्वामित्रभगिनी नदी ॥

 [७६०]तस्य वर्षसहस्रं तु घोरं तप उपासतः ।
 उत्तरे पर्वते, राम ! देवतानामभूत् भयम् ॥ १५ ॥
 आमन्त्रयन् समागम्य सर्वे सर्षिगणाः सुराः ।
 महर्षिशब्दं लभतां साध्वयं कुशिकात्मजः ॥ १६ ॥

 [७६१]समागम्येति । भगवता ब्रह्मणेति शेषः । महर्षिशब्दं लभतामिति । [७६२]भगवान्निति शेषः ॥ १६ ॥

 देवतानां वचः श्रुत्वा सर्वलोकपितामहः ।
 अब्रवीन्मधुरं वाक्यं विश्वामित्रं तपोधनम् ॥ १७ ॥
 महर्षे ! स्वागतं वत्स ! तपसोग्रेण तोषितः ।
 महत्त्वमृषिमुख्यत्वं ददामि तव कौशिक ! ॥ १८ ॥

 एवं देवतानां प्रार्थनया महर्षिशब्देनैव विश्वामित्रं सम्बोधयति-महर्षे इत्यादि । महत्वमित्यस्यैव विवरणं-ऋषिमुख्यत्वमिति । पूर्वं दत्तर्षिशब्दस्य ते इदानीं महत्वविशिष्टर्षिशब्दवाच्यत्वं ददामीत्यर्थः ॥

 [७६३]ब्रह्मणस्स वचश्श्रुत्वा [७६४]विश्वामित्रस्तपोधनः ।

 एवं प्राप्तमहर्षित्वो विश्वामित्रोऽकृतार्थ[७६५]इत्याह-ब्रह्मण इत्यादि ।

 प्राञ्जलिः प्रणतो भूत्वा[७६६]प्रत्युवाच पितामहम् ॥ १९ ॥


 [७६७]ब्रह्मर्षिशब्दमतुलं स्वार्जितैः कर्मभिः शुभैः ।
 [७६८]यदि मे [७६९]भगवान्नाह ततोऽहं विजितेन्द्रियः ॥ २० ॥

 यदि शब्दो हेतौ । अतुलं-सर्वोत्तमं । ब्रह्मर्षिशब्दं-ब्रह्मसमा त्रिपदा ब्रह्मविद्या, तत्सिद्धः ऋषिः ब्रह्मर्षिः, तादृशं ब्रह्मर्षिशब्दं मदभीष्टं मां प्रति मे स्वार्जितैः शुभैः कर्मभिः सिद्धं यस्मात् नाह–नानुगृह्णीषे,ततः-तस्मात् अहं ब्रह्मर्षिशब्दसिद्धये विजितेन्द्रियः अतः परमत्यन्त भविष्यामीति शेषः ॥ २० ॥

 तमुवाच ततो ब्रह्मा[७७०] न तावत् त्वं जितेन्द्रियः ।
 [७७१]जयस्व मुनिशार्दूल ! इत्युक्त्वा त्रिदिवं गतः ॥ २१ ॥

 तथाऽनुतिष्ठेति भगवाननुगृह्णाति–तमित्यादि । ततः तस्य विश्वामित्रस्य 'सर्वथा विजितेन्द्रियो भविष्यामि' इत्युक्त्यनन्तरं विजितेन्द्रियत्वसिद्धिकालमनुगृह्णाति-न तावदिति । यावदहं त्वां ब्रह्मर्षिर्न ब्रवीमि, तावत् त्वं न विजितेन्द्रियः-विजितेन्द्रियत्वं ब्रह्मर्षिशब्दार्हं तव नास्ति, अतस्त्वं जयस्वेन्द्रियाणि इत्युक्त्वा परं त्रिदिवं—बह्मलोकं गतः इत्यर्थः ॥ २१ ॥

 [७७२]विप्रस्थितेषु देवेषु विश्वामित्रो महामुनिः ।
 ऊर्ध्वबाहुर्निरालम्बो वायुभक्षस्तपश्चरन् ॥ २२ ॥


 घर्मे पञ्चतपा भृत्वा वर्षास्वाकाशसंश्रयः ।
 शिशिरे [७७३]सलिलस्थायी रात्र्यहानि तपोधनः ॥ २३ ॥

 घर्मः-ग्रीष्मकालः । आकाशसंश्रयः-वर्षवारणरहितदेशस्थः । रात्रयश्चाहानि च रात्र्यहानि, कृत्स्नमपि दिनमित्यर्थः ॥ २३ ॥

 एवं वर्षसहस्रं हि तपो घोरमुपागमत् ।
 तस्मिन् सन्तप्यमाने तु विश्वामित्रे महामुनौ ॥ २४ ॥
 संभ्रमः सुमहानासीत् सुराणां वासवस्य च ।
 रम्भामप्सरसं शक्रः सह सर्वैर्मरुद्गणैः ।
 उवाचात्महितं वाक्यमहितं कौशिकस्य च ॥ २५ ॥

 आत्महितामिति । आत्मन्शब्द इन्द्रार्थः । [७७४]एवमादावस्थले सर्गोच्छेदादृष्युपदिष्टसर्गसङ्ख्यातोऽप्याधिकदर्शनं ॥ २५ ॥

 सुरकार्यमिदं रंभे कर्तव्यं सुमहत् त्वया ।
 लोभनं कौशिकस्येह काममोहसमन्वितम् ॥ २६ ॥

इत्यार्षे श्रीमद्रामायणे बालकाण्डे त्रिषष्टितमः सर्गः

 किमुवाचेत्यतः–सुरकार्यमित्यादि । तिष्ठतु वा सर्गोच्छेदः, न तेन काचन हानिरर्थसिद्धौ[७७५] ॥ २६ ॥

इति श्रीमद्रामायणामृतकतकटीकायां बालकाण्डे त्रिषष्टितमः सर्गः



फलकम्:Page break

  1. बाल. 1-99 श्लोकव्याख्यानानि, 4-7 श्लोकव्याख्यानानि च द्रष्टव्यानि ।
  2. बाल, 4-7.
  3. महाभारतरामायणभागवतान्यत्र विवक्षितानि. ।
  4. श्रीगुणरत्नकोशे श्लो 14
  5. श्रीगुणरत्नकोशे-श्लो 9.
  6. बाल 4-30.
  7. बाल 4-31.
  8. 'बाल. 4-31 श्लोकटिप्पण्यपि द्रष्टव्या.
  9. बाल. 2-32.
  10. एतत्संपुट एव 87 पुटे द्रष्टव्यम् ।
  11. अयो- 101 सर्गारंभे अत्र महेश्वरतीर्थेन–'इत्यादिवाक्यं द्रष्टव्यम् ।
  12. 'प्रणमम्य नारायणतीर्थदेशिकान्-'इत्यादिश्लोको द्रष्टव्यः ।
  13. See page 414 of Silver Jubilee Vol. of Bhandarkar Oriental Research Institute, Poona.
  14. नारायणतीर्थविरचितायाः काश्यां सरस्वतीभवनात् प्रकाशितायाः भक्तिचन्द्रिकायाः भूमिकां पश्यत ।
  15. काश्यां सरस्वतीभवनात् प्रकाशितायाः मधुसूदनसरस्वतीविरचितवेदान्तकल्पलतिकाया भूमिकां पश्यत । महामहोपाध्याया अनन्तकृष्ण-शास्त्रिमहोदया अपि स्वसंपादिते 'न्यायामृताद्वैतसिद्धी' ग्रन्थारंभे षोडशशत-कान्तिमभाग एव मधुसूदनसरस्वतीनां काल इति वदन्ति ।
  16. गोविन्दराजाश्च सप्तदशशतकोत्तरभागेस्युः गोविन्दराजानां कालविषये श्री. K. V. रङ्गस्वामैय्यङ्गार्याः, श्री. P. P. S. शास्त्रिणश्च अन्यथान्यथैवाभिप्रायमाविष्कुर्वन्ति (See page 30 & 414 in Silver Jubilee Volume of Bhandarkar Oriental Research Institute, Poona.) तत्सर्वस्यात्राप्रस्तुतत्वान्नाधिकं लिखामः ।
  17. बा. 4-4 श्लो, 4-7 श्लो, 4. 34. श्लोकानां शिरोमणिव्याख्याद्रष्टव्या ।
  18. इदमत्रालोचनीयम्–भट्टनागेशेत्यादिश्लोके कर्तृवाचकं पदं किम् ? भट्टनागेशपूज्यपदं वा ? श्रीरामवर्मपदं वा ? नानयोर्विशेषणविशेष्यभावेनान्वयो युक्तः । तदानीं 'पूज्येन' इति पदमनन्वितम् । ब्राह्मणस्य नागेशस्य 'वर्म' उपददकत्वं च न संभवति । 'शर्म' पदस्थाने 'वर्म' पदं प्रामादिकं स्याद्वा ? इत्यपि न युक्तम् । तदा हि एकस्यैव 'गृहस्थाश्रमे नागेशभट्ट इति, सन्यासाश्रमे च 'रामशर्म' इति नामेति निर्वाह्यम् । सन्यासिनोऽपि शर्मोप- पदक्रत्वमयुक्तमेव । 'श्रीरामयोगिना' इत्येव लिखेत्तदा ।  अतो वयमेवं भावयामः-भट्टनागेशः शब्देन्दुशेखरारम्भे एवं लिखति-

    'याचकानां कल्पतरोररिकक्षहुताशनात् ।
    शृङ्गवेरपुराधीशात् रामतो लब्धजीविकः ॥'

    इति । अत्र शृङ्गवेरपुराधीशत्वेन निर्दिष्टो राम एव पूर्वश्लोके 'रामवर्म' पदेन निर्दिष्टः, क्षत्रियाणां 'वर्मो 'पपदकत्वात् । तादृशरामालब्धजीवि-कत्वात् नागेशभट्टस्य तस्मिन् कार्तज्ञयमूलकः पूज्यभावः असीत् । अतः 'भट्टनागेशपूज्येन' इति विशेषणं दत्तम् । अथवा भट्टनागेशः पूज्यः यस्येति बहुव्रीहिर्वा ।

     परन्तु तिलककर्ता राम एव स्यात्, न तु नागेशभट्ट इति भावयामः । अत एव उत्तरकाण्डान्ते-'रामो रामायणाम्भोधौ सेतुं कृत्वा सुविस्तरम् ।' इति श्लोके नागेशभट्टनाम न निर्दिष्टमिति ।

    फलकम्:Gapएवं विमर्शत्स्वस्मासु अस्मत्पक्षमेव सिद्धान्तयत् स्पष्टं प्रमाणान्तरमप्यु-

  19. फलकम्:Gap'युधिष्ठिरमीमांसककृते हिन्दीभाषात्मके संस्कृतव्याकरणेतिहासग्रन्थे द्वादशाध्यायं पश्यत ।
  20. फलकम्:GapP.P.S. शास्त्रिमहाशयास्तु सप्तदशशतकमध्यकालः कतककृत इत्यभिप्रयन्ति । (See page 414 of Silver Jubilee Volurne of Bhandarkar Oriental Research Institute, Poona.)
  21. फलकम्:Gapबाल 37-50 श्लोकव्याख्या द्रष्टव्या ।
  22. यथा-223फुटे-'झिल्लिका- xxxx' इत्यादि । तथा 288 पुटे 'सारसः- xxxxxx इत्यादि । अयोध्याकाण्डादावप्येतादृशानि पदानि बहूनि दृश्यन्ते ।
  23. बाल 37 सर्गे 30 श्लोकव्याख्या द्रष्टव्या ।
  24. 67-28 श्लोकव्याख्यां, 68-5 श्लोकव्याख्यां च पश्यत ।
  25. फलकम्:Gapतैत्तरीयोपनिषद्व्याख्यायां 'तत्सत्यमित्याचक्षते' इत्यस्य व्याख्यानावसरे विर्वर्तवादिसम्मतं जगन्मिथ्यात्वं विस्तरशः खण्डयित्वा जगत्सत्यत्वं स्थापितम् ।
  26. फलकम्:Gapमद्रास् नगरीय प्राच्यकोशागारीयानुक्रमणिकायां (Alphabetical Index of Sanskrit Manuscripts) तथा निर्दिष्टम् । फलकम्:Gapउपनिषन्मङ्गलाभरणे, अत्रैव रामायणव्याख्यायां च ब्रह्मण एव जीवभावावबोधनात् नेमे विशिष्टाद्वैतिनः । प्रथमसर्गीय. 12-17 श्लोकव्याख्यां च पश्यत ।
  27. अस्मिन्नेव संपुटे 48 पृष्ठे 'अस्मदन्तेवास्यनुग्रहाय यद्वक्तव्यं तत् आकरे प्रपञ्चितम्' इति दृश्यते । उपनिषन्मङ्गलाभरणेऽपि महानारायणीय-विवरणे 'आकरे सिद्धान्तद्वितीयसूत्रे यावच्छक्यं तत्रैव द्रष्टव्यम्' इत्युक्तम् ।
  28. पूर्वं 'चतुर्विंशत्सहस्त्राणि' इत्यादिश्लोकस्य प्रक्षिप्तत्वं वदन्त एवैतेऽत्र तस्य श्लोकस्यार्षत्वमपि वदन्तीत्येतदवधेयम् ।
  29. 7, 11, 12, प्रभृतिषु ।
  30. 24, 38, 63, 65 प्रभृति सर्गेषु ।
  31. वन्दे- क.
  32. देहात्म-क.
  33. स्थितांस्तान् - क.
  34. निरयात्तितीर्षुः-ग.
  35. भवान् रामा-ग.
  36. भक्ति-ग.
  37. द्भक्षण- क
  38. गन्धाक्षतादि-ग.
  39. पूजितात्-ग.
  40. विमोकादी-ग.
  41. कर एव ?-ग
  42. इत्यादिभिः-क.
  43. त्वस्या-ग.
  44. त्वस्य-ग.
  45. जानन्त्येव-ग.
  46. स्वप्रमा-ग.
  47. अम्बावा-क.
  48. न्धानातू ब्रह्म-ग.
  49. यज्ञपुरुष-ग.
  50. 'रौद्रिं रोहिणीमालभेताभिचरन्' इत्येतस्मिन् अभिचारकर्मणि विनियुक्तोऽयं मन्त्रः । अभिनो वीर इति संहितापाठस्थाने त्वं नो वीर इति पाठमेव शंसनकाले ब्रूयात् । अभि न इति पाठे, एष देवः रुद्रः प्रजा अभिलक्ष्य ताः श्रयिष्यामीति मन्वीत । तेन चानेनाभिचारेण स्वप्रजाक्षय एव स्यात्। त्वं न इति पाठे तु रुद्रः अनभिमानुको भवतीत्यर्थः । कलिकतामुद्रितपुस्तकरीत्या तु,अनभिमानुक इति स्थाने-अनभिमारुक इति पाठः, अभिमारुकः-नाशकः, त्वं इति पाठे एव रुद्रो नाशको न स्यादिति भावः ।
  51. शोधनाद्वायो व्यादेदिति?-ग.
  52. बन्ध्यादि-ग.
  53. कृतम्-ग.
  54. वासादि-ग.
  55. कृतम्-ग.
  56. रादितृती-ग.
  57. कृतम्-ग.
  58. काव्यत्वतोऽनु-ग.
  59. अस्तादेरौणा-ग.
  60. प्रत्ययात्-क.
  61. सहितेन इति स्यात्.
  62. सप्रयोजनमपि -ग.
  63. प्रवृत्तयङ्गोपेतं-क.
  64. प्रतिष्ठितं भवति-ग
  65. अप्रायत्यं-आलस्यं अनादरो वा.
  66. गोविन्दराजस्येदं व्याख्यानम्.
  67. अन्वयमुखेन-ग.
  68. कश्च श्रौत - ग.
  69. रहस्यशः - क.
  70. यथादृष्टश्रुततस्वार्थ-ग.
  71. यद्यपि-वयः शब्दस्य प्रज्ञादिगणपाठान्तर्भावो दृश्यते न तु चरित्रशब्दस्येति न चरित्रशब्दादण्प्रसक्तिः ? न च प्रशादिराकृतिगणः । तथाऽपाठात् तथापि–आकृतिगणत्वमभिमन्य तथोक्तं बहुप्रयोगानुसारात । वस्तुतस्तु—'चरेर्वृत्ते' [६२२] इत्यौणादिकणित्रन् प्रत्ययान्तोऽयं स्वरस इति ॥
  72. मकार्षीत्-क.
  73. गोविन्दराजः-महेश-तीर्थों वा ।
  74. निष्काम-ग.
  75. जातरोषस्य कस्य संयुगे देवाश्च बिभ्यति इत्यन्वयः । यद्वा-संयुगे जातरोषस्य कस्य बिभ्यतीत्येवान्वयः । शेषे षष्टी । 'संशापूर्वको विधिरनित्यः' इत्यपादानसंशापूर्वक.
    पक्षम्यभावः-गो.
  76. वाम्लीकिशब्दस्य साधु-वमात्रे प्रमाणं-हादिपाठादिति, न त्वपत्यार्थत्वेऽपि । अत एवोत्तरत्र दूषणमपि संगच्छते ।
  77. उक्तरीत्याशु - ग.
  78. गोविन्दराजः.
  79. त्वाच्च-ग.
  80. एतावत्- ग.
  81. पुत्रादिभ्यो दीयत इति दायः, तमादत्त इति दायादः । तस्य भावो दायाद्यं दायस्वीकारः । सिलं-क्षेत्रादिषु पतितं धान्यं, तस्योञ्छनं-आदानम्.
  82. स्वबन्धु-ग.
  83. वेदनो-ग.
  84. मतिमान्-ग.
  85. यस्येत्य-ग.
  86. मुग्ध-ग.
  87. महेशतीर्थ:
  88. अयं महाभारते उल्लिख्यमानः कामन्दः स्यात्
  89. महेशतीर्भः
  90. तीर्थादिभिः स्थलान्तरे एवं समर्थ्यते । रामावतारविषये द्वयी गतिः- फलकम्:Gapपरिपूर्णब्रह्मावतारो रामः इत्येका; मिश्रावतार एवेत्यपरा । आद्यः पक्षः बहुसम्मतः । एतत्पक्षे निर्दोषस्य रामस्य परब्रह्मणः सीतावियोगजशोकप्रलापादिरभिनय एवेति बलादङ्गीकरणीयम् । अन्यथा- 'पूर्वे मया नूनमभीप्सितानि पापानि कर्माण्यसकृत्कृतानि '(अर. ६३-४)'ईदृशीयं ममालक्ष्मीर्निदेहेदपि पावकम्' (आर. ६७-२४)'नास्त्यभाग्यतरो लोके मत्तोऽस्मिन् सचराचरे' (आर. ६७-२६) इत्यादि परश्शतरामवाक्यैः रामस्य अस्मादृशबद्धजीवापेक्षयाऽपि निकृष्टत्वमेवाङ्गीकार्य स्यात् । सौलभ्यसौशील्यादिगुणास्तु संकल्पमात्राधीनसर्वसिद्धिकस्य परब्रह्मणः अनपेक्षितैतादृशक्लिष्टाभिनयाभ्युपगममात्रेणैव लब्धपोषणा इति तु तस्वपरिस्थितिरित्यन्यत्र विस्तरः । द्वितीयपक्षे रामस्य शोकायङ्गीकारे न हानिः । व्याख्याकारोऽयं ब्रह्मण एवोपाधिसम्बम्धवशाद्दोषमङ्गीकरोतीति स्पष्टमवगम्यते । अतोऽनेन रामावतारस्य ब्रह्मावतारत्वाङ्गीकारेऽपि शोकादिकं वास्तवमेवानीकर्तुं शक्यत इति भाव्यम् ॥
  91. विष्णोरर्धत्वेन रामस्य षिष्णुसादृश्यं सुवचमेव.......तदंशस्यापि तत्सदृशत्वं युक्तमेव-गो.
    फलकम्:Gapविष्णुना-स्वेनैव वीर्ये सदृशः-उपमानान्तरराहित्यमनेनोक्तम्-ती. विष्णुना सदृश इत्यनन्वयालङ्कारः-ति.
  92. त्यागे सत्यपि धनदेन समः, अनेन अक्षीणकोशत्वं महोदारत्वं चोक्तम्-ती.
    फलकम्:Gapकुबेरस्य त्यागित्वं ' त्यागे च धनदो यथा' इत्यादिवक्ष्यमाणवचनशतसिद्धम् । न च तस्य लुब्धत्वं कुतश्चित्सिद्धम् । त्यागे सत्यपि धनदवदाढ्यः इति व्याख्यानं तु प्रक्रमविरुद्धम् । न ह्याढ्यत्वं कश्चिद्गुणः । तथा सति लुब्धत्वमे॒वास्य सिद्धं स्यात्-गो. वस्तुतस्तु–तत्तत्पुण्यपापानुगुणभगवदाशामूलकत्वेन धनदातृत्वमेव साम्यप्रयोजकं युक्तं, न हि स्वैरं धनव्यय औदार्य किन्तु सत्पात्रेषु यथायोग्यं दानमेव, तदंशे भवति दृष्टान्तः कुबेर इति युक्तम् ॥
  93. अत्र च नारदेन वाल्मीकिं प्रति विस्तरशः रामायणमुपदिष्टमित्यत्र न किञ्चित्प्र माणमुपलभ्यते । 'रहस्यं च प्रकाशं च ' इत्यादिब्रह्मवरमहिना सर्व साक्षात्कृत्य रामायणं चितवानित्येवावगतेः । अतः सर्वार्थानां अस्मिन् सर्गे अन्तर्भावसमर्थनं चमत्कारविशेषार्थमिति ॥
  94. प्रकृतीनां-प्रजानां-गो.
  95. फलकम्:Gapननु अञ् प्रत्यये 'केकयमित्रयु ' इतीयादेशः किं न स्यात्-उच्यते 'जरायाअरस् अन्यतरस्याम् इत्यतः अन्यतरस्थामित्यनुवृत्तेः तस्य वैकल्पिकत्वात् । न च (यादेशाभाव आर्ष इति वाच्यम्--'कैकेयी कैकयी' इति शब्दभेदप्रकाशिकायामुक्तेः । प्राक् कैकयीतो भरतस्ततोऽभूत्' इति भट्टिप्रयोगाच्च-गो.
  96. पितुः वचनमेव निर्देश:- आशा - गो.
  97. महेशतीर्थः
  98. यद्वा तेवृदेवन इति धातौ भावे ल्युट् । तेवनेन देवनेन लीलया अनायासेनेत्यर्थः-गो ॥
  99. याचेर्द्विकर्मकत्वात्-ग.
  100. दैवालब्धं -ग.
  101. स्वीकरोति स्मेति-ग.
  102. मूले-प्रतिनिवृत्तिं याचमानं-इत्यध्याहार्यमित्याशयः । गोविन्दराजीये तु-पुनः-पुनर्भरतं तस्माद्देशात्- निवर्तयामास । पुनः पुनरित्यनेन भरतस्य रामविरहासहिष्णुत्वं द्योत्यते-इत्युक्तम्
  103. गोविन्दराजः ।
  104. तत्संभव-ग.
  105. अयं च वृत्तान्तः उत्तरकाण्डे ८७ तमे सर्गे द्रष्टव्यः
  106. हेति विषादे-गो.
  107. 'दत्तो मम महेन्द्रेण' (अर. १३) इति कथितत्वात् । परशुरामागृहीत्व वरुणे न्यस्तं वैष्णवं धनुः-वरुणायाप्रमेयाय ददौ हस्ते महायशाः (वा. ७७-१) इति स्थितेः । तदेव धनुः वरुण इन्द्राय प्रादात् । इन्द्रश्चागस्यायेत्यवगम्यते ।
  108. फलकम्:Gapसः रामः राक्षसानां वने राक्षसावासभूते वने तेषां ऋषीणां तथा प्रार्थनावचनं प्रतिशुश्राव अंगीचकार-ती॥
  109. प्रतिशुश्रावेत्युक्तप्रतिज्ञाप्रकारमेव विशदयति सहेतुकं-प्रतिश्चातश्चेत्यादि ॥ अतो न पौनरुक्त्यम् ॥
  110. अनेन विरूपणहेतुपरो वृत्तान्तः सूच्यते।
  111. उत्तरकाण्डे 'तपस्विनः स्थित ह्यत्र जनस्थानमतोऽभवत्' (७२-२०) इति दृश्यते
  112. कामरूपिणीत्येतत् व्याकरोति- काम इति.
  113. यद्यपि सीताहरणानन्तरमेव जटायुर्वधः-अथापि-सीताया लंकानयनपर्यंतव्याधारस्येव हरणपदार्थत्वात् मध्य एव च जटायुर्वधात् नानुपपत्तिः ॥
    फलकम्:Gapमुखं व्यादाय स्वपितीतिवत् क्वा-इति तु गोविन्दराजः ॥
  114. 'आघृषाद्वा' (ग-सू-२०२) इति णिचः विकल्पः ॥
  115. 'श्रमणां'-च.
  116. दिकम-गा.
  117. रामस्य तत्सर्वं श्रुत्वेत्यन्वयः
  118. वस्तुतस्त्वत्र रसातलपदं 'अधोभुवनपातालबलिसद्मरसातलम्' इति कोशानुसारेणाधोभुवनसामान्यवाचकं, स्वारस्थातिशयात् ॥
  119. वस्तुतस्त्वत्र रसातलपदं 'अधोभुवनपातालबलिसद्मरसातलम्' इति कोशानुसारेणाधोभुवनसामान्यवाचकं, स्वारस्थातिशयात् ॥
  120. यदृच्छया प्रयत्नं विना अस्त्रेणोन्मुक्तमात्मानं-गो.
  121. प्रार्थन-ग.
  122. प्रदक्षिणेनास्योपचारं-ग.
  123. प्रार्थनो-ग.
  124. इदं क्रियाविशेषणम्.
  125. तिलके-'कर्मणा तेन' इत्युत्तरश्लोकः 'ततोग्निवचनात्' इत्यर्धानन्तरं निवेश्य एवं व्याख्यातः । सीतां अङ्गीचकारेति शेषः । तेन कर्मणा सदेवषिंगणं त्रैलोक्यं तुष्टं-तुतोष । तेन प्रहृष्टो रामो सर्वदैवतैश्च पूजितो बभौ-इति ब्याख्यायि ॥
  126. यद्यपि सीतासमागमात्पूर्वे विभीषणलङ्काभिषेकः-तथाप्यत्र क्रमो न विवक्षित इति शेयम्-गो-॥ हेति विस्मये प्रसिद्धौ वा-कीदृशं रामस्य सत्यप्रतिज्ञत्वमिति-गो ॥
  127. सीतामनुप्राप्य-समीपेप्राप्य 'रामं रत्नमये पीठे सहसीतं न्यवेशयत्' इत्याद्युयुक्तरीत्या दिव्यसिह्मासने सीतयाऽभिषेकं प्राप्येत्यर्थः-गो । सीतामनुप्राप्य मुनिवेषत्यागेन सीतानुरूपं रूपं प्राप्य-ति ॥
  128. प्रहृष्ट इति हर्षबाह्यचिह्वमुच्यते । रोमाञ्चितार्थकत्वात् । मुदित इति आन्तरमनतिरुच्यते ॥
  129. पतिमरणानन्तरं नावर्तन्तेत्यर्थः । यद्वा विविधाः धवाः यासां ताः विभवाः-व्यभिचारिण्यः-अव्यभिचारिण्यः ॥ कौसल्यादयस्तु पुत्रवत्तया वृद्धतया वा न विधवा इति भावः-गो। वस्तुतस्तु-कौसल्यादीनां वैषव्यं न रामराज्ये प्राप्तं-रामे प्रशासति भविषवा भविष्यन्तीति खलूच्यत इति युक्तम् ॥
  130. फलकम्:Gapयत्तु कतककृता-अश्वमेधायनुष्ठानस्य मानुषोपाधिप्रयुक्तावर्ज्याघशमनद्वारा ब्रह्मलोकप्राप्तौ हेतुत्वमित्युक्तं-तन्न-भगवदवताराणां पुण्यपापसंबन्धस्य सर्वतन्त्रविरुद्धत्वात् । अश्वमेधाद्यनुष्ठानं तु लीलामात्रं लोकोपदेशाय-ति. फलकम्:Gapदशवर्षसहस्राणि अश्वमेधानुष्ठानकाल इत्युक्त्या सीतां विना क्रत्वनुष्ठानस्य वक्ष्यमाणत्वाच्च अभिषेकात् परं स्वल्प एव वर्षसहस्रकाले सीतावियोग इत्यवसीयते । अश्वमेधारम्भश्च रावणवधरूपपापनिबर्हणार्थतया प्रसक्त इत्यविलम्बितः । ततः पूर्वमेव सीतावियोगः, प्रथमाश्वमेधे सीताप्रतिरूपकरणात्-गो.
  131. फलकम्:Gapमातृकायामेवं चिह्नितं । अर्धस्तु यथाश्रुतोऽपि पूर्ण इव ॥
  132. फलकम्:Gapविद्वद्भ्यो विधिपूर्वकं-ङ ॥
  133. स्याद्वित्यव्ययं यद्यर्थे- गो. सि.
  134. गोविन्दराजः.
  135. मुनिम्- ङ.
  136. आपृष्ट्वैव-घ.
  137. आपृष्ट्वैव-ग.
  138. तीरन्तु-ग.
  139. इदं व्याख्यानं गोविन्दराजतीर्थयोरपि सम्मतम् ।
  140. वस्कलं- ङ. च.
  141. अतः-इति-ग.
  142. सिद्धा-ग.
  143. इयं व्याख्या तिलेके अनूद्य विस्तरशो दूषिता ॥
  144. ततः स्वरूप-ग.
  145. कृत्वैव-ग.
  146. भवतु-ङ.
  147. तत्वज्ञान-ग.
  148. पूर्वोक्त-ग.
  149. अनुजगामेत्यनेनैव पृष्ठतो गमनस्य सिद्धत्वादेव व्याख्यातम् । पृष्ठत इत्युक्तिः अव्यवधानसूचनार्था वा ।
  150. इदं तिलकेऽनूद्य दूषितम् । ध्यानं-अवशोत्पन्नशोक-विषयचिन्ताम्–इति तु. युक्तं ।
  151. निरीक्षितया-ग.
  152. प्रवृत्तध्यानत्वा-ग.
  153. सद्ध्यान-ग.
  154. गो.
  155. नन्वर्धत्रयकरणं विरुद्ध्यते-मैवं-लेखकदोषेणार्थान्तरपतनसम्भवात्-गो.
  156. अत्रापि २२तम श्लोकवदेव ध्यानं विवक्षितुं युक्तं, उत्तरलोकानुगुणं च तत् ।
  157. उपजगौ इत्यन्वयः-गो.
  158. मानिषादेत्याद्युक्तं-इति युक्तम्.
  159. गुणवतो-ङ.
  160. कर्तव्यम्-क.
  161. वाक्य-क.
  162. बद्धम्-ङ. च.
  163. बद्धः-क.
  164. बद्धः-क.
  165. बद्धः-क.
  166. पूर्वसर्गे 'चकार' (श्लोक ४२) इत्युक्तमेवार्थमस्मिन् सर्गे विशदयति ।
  167. समग्रं-ङ.च.
  168. लक्ष्मणो द्वितीयः, सीता तृतीयेति यावत् ।
  169. सन्ध्या स्वप्नः.
  170. रामानुजः.
  171. 'जन्मनः सुमहत्वं दशरथमहातपोबललभ्यत्वं, विष्णोरवतारत्वं च । वीर्यं ताटकाताटकेयादिहननक्षमं बलम्-गो.
  172. शोकं विलापं-ङ.
  173. प्रकृतेस्सामवादं च-ङ.
  174. विवेशं-ङ.
  175. पादुकाग्रथाभिषेकं रामकर्तृकमिति भावेनैवं व्याख्यातं । एवं सति नन्दिग्रामनिवासनमित्यत्रापि रामकर्तृको भरतस्य नन्दिग्रामनिवासादेशो विवक्षित इति व्याख्येयं अवैरूप्याय ॥ परंतु 'तवागमनमाकाङ्क्षन् वसन्वै नगराद्वहिः' (अयो. 112-24) इति भरतप्रार्थनां खलु रामोऽनुमेने ॥ वस्तुतस्तु पादुकाप्रथयोः-पादुका श्रेष्ठयोः भरतकृतमभिषेकं-इत्यर्थः स्वरसः ॥
  176. यद्यपि-इदं विराधवधात्पूर्वमेव अथापि नात्र कमो विवक्षितः ।
  177. सहास्या-ङ
  178. दर्शनं चाप्यगस्त्यस्य धनुषो ग्रहणं तथा । अनन्तरं पञ्चवट्याश्च गमनं शूर्पणख्याश्च दर्शनम् ॥ इदमर्धं कुत्रचिदधिकं दृश्यते ॥-ङ.
  179. हनुमद्दर्शनं-ड.
  180. राघवस्य महात्मनः-ङ.
  181. वर्षरात्र-ङ.
  182. कोपः सुग्रीवविषयकः.
  183. राक्षसीतर्जनं चैव-ङ. च.
  184. सुरसापरीक्षणानन्तरं देवैः कृतोऽनुग्रहो वा । क्रमस्तु न विवक्षितः ।
  185. अरे: पुर इयेत्तत् विभीषणाभिषेकं च इत्यत्राप्यन्वेति ।
  186. उत्तरे काव्ये-उत्तरकाण्डे-गो.
  187. तच्चकारोत्तरे-ङ. च.
  188. कतककृतस्तु प्रक्षिप्तोऽयं श्लोको न त्वार्ष इत्याहुः-ति.
  189. रक्तं-ङ. च.
  190. भावं सुष्ठ प्रविश्य–अवगाह्य-गो.
  191. एतदनन्तरं-अन्यः कृष्णाजिनमदात् यशसूत्रं तथाऽपरः । कश्चित्कमण्डलु प्रादात् मौजीमन्यो महामुनिः ॥ बृसीमन्यस्तदा प्रादात् कौपीनमपरो मुनिः । ताभ्यां ददौ तदा हृष्टः कुठारमपरो मुनिः ॥ काषायमपरो वस्त्रं चीरमन्यो ददौ मुनिः । जटाबन्धनमन्यस्तु काष्ठरज्जुं मुदान्वितः ॥ यज्ञभाण्डमृषिः कश्चित् काष्ठभारं तथापरः । औदुम्बरीं बृसीमन्यः खरित केचित्तदाऽवदन् । आयुष्यमपरे प्राहुः मुदा तत्र महर्षयः ॥ ददुश्चैवं वरान् सर्वे पुनवरसत्यवादिनः ॥ इत्यधिकं-ङ.
  192. गायकौ-ङ.
  193. व्यक्तं स्वञ्चिता-ङ. रक्तं स्वचित्ता-च.
  194. स्वञ्चितः सुतरां पूजितः आयतः दीर्घः निस्स्वनः-आलापो यस्मिन्- गो.
    स्वचित्तायतनिस्स्वनं, स्वस्य श्रोतृचित्तस्य चानुरूप: आयतः - तारः निस्स्वनः-नादः यत्र स तथा- ति.
  195. रामस्य स्वावेषयकप्रबन्धश्रवणं महानुभावत्वोक्तिश्च न घटते, रामस्य विकत्थनत्व-प्रसङ्गात्-अतः रामायणस्य सीताचरितत्वात् महानुभावत्वं चरितस्योच्यते-पूर्वे च 'सीतायाश्चरितं महत्' इति खलूक्तम् -इति गोविन्दराज । परन्तु 'काव्यं रामायणं कृत्स्नं सीतायाश्चरितं महत्' इतिपर्यन्तं उद्देश्यवाचकं द्वितीयान्तं, 'पौलस्त्यवधमित्येव' इति च विधेयसमर्पकमिति स्पष्टम् । एवञ्चास्य काव्यस्य सीताचरित्रमात्रं न प्रधानविषय इति युक्तम् । लोकप्रवर्तनाय रामायणस्य प्रशंसनीयत्वात् भरतादिविवक्षया च 'महानुभावं इत्युक्तं स्यात् । अनन्तरश्लोकव्याख्यायां शनैरिति पदव्याख्यानं द्रष्टव्यम् । अन्ततस्तु स्तवप्रियः इति सहस्रनामान्तर्गतनामनिर्वहणं प्रकृते स्मर्तव्यमिति । महानुभावमित्यस्य चरितशब्दार्थकाव्य विशेषणत्वे तु न कस्यापि कोलाहलस्यावकाशः ॥
  196. बुभुषया-अनुबुभूषया-श्रोत्रसुखानुभवेच्छ्येत्यर्थः-गो.
  197. ननु आत्मप्रशंसापरमिदं सर्गत्रयं (२-४) कथमृषिः स्वयमेव वक्तुमर्हतीति चेन्न । अन्यापरिज्ञातस्यैतस्य वृत्तान्तस्य प्रेक्षावत्प्रवृत्त्यर्थमादाववश्यं वक्तव्यत्वात् । यद्वा सर्गत्रयमिदं केनचिद्वाल्मीकिशिष्येण रामायणनिर्वृत्त्यनन्तरं निर्माय वैभवप्रकटनाय सङ्गमितम्-गो.
  198. सर्वाऽपूर्वे-सर्वेषामितरेषां राज्ञां अपूर्वे-दुर्लभं यथा भवति तथा आसीत्-गो.
  199. जयशालि-ङ. च.
  200. जयेन शालन्ते-भासन्त इति जयशालिनः-गो.
  201. षष्टिपुत्र
  202. वर्तयिष्यावः-च.
  203. कुशलवाभ्यां रामायणगानकाले दशरथस्याभावादेवमुक्तम्
  204. दिवं-ङ.
  205. मुषितां-च.
  206. प्रबन्धः-ग.
  207. शतं पुरुषा हन्यन्ते अनयेति-घ.
  208. यन्त्रविशेषः-गो
  209. दुर्गेण-घ.
  210. सर्वतश्चोप-ङ.
  211. नरनारी-ङ.
  212. गणायुताम्-ङ.
  213. 'अष्टापदं शारिफलं' इत्यमरः । तदाकारां तत्सदृशसंस्थानामित्यर्थः । मध्ये राजगृहं, चतुर्दिक्षु राजवीथयः । तन्मध्येष्ववकाशाश्चेत्येवंविधसंस्थानामित्यर्थः-गो.
  214. निघण्टुः-ग.
  215. मपरापराम्-ङ.
  216. सर्वेषामपरिमितचतुरङ्गबलराष्ट्रदुर्गादीनां सङ्ग्राहकः-ति.
  217. इक्ष्वाकूणामिति निर्धारणे षष्ठी। इक्ष्वाकूणां मध्ये अतिरथः
  218. धर्मपरो-ङ.
  219. सङ्गुहैश्चा-ङ.
  220. यथा मनुः लोकस्य परिरक्षिता तथेत्यन्वयः.
  221. सतां उत्कृष्टवस्तूनां निचयः सन्निचयः । अल्पः सन्निचयो यस्य-ति. शक्यमिति निपातः 'शक्यमरविन्दसुरभिः' इति कालिदासेनापि प्रयुक्तः-गो.
  222. मुदिताः-ङ.
  223. नानलिप्ताङ्गः-ड.
  224. नासुगन्धिश्च-ङ
  225. 'नामृष्टभोजी' इत्यनुपदमेवोक्तत्वादेवं व्याख्यातम्.
  226. न चावृत्तो न सङ्करः-च. (आवृत्तः=सदाचाररहितः).
  227. परिग्रहे ङ.
  228. पूर्वे 'सत्यवादिनः' (५) 'न च नास्तिकः (८) इति जनसामान्याभिप्रायेणोक्तम् । इदानीं तु ब्राह्मणाः' (१३) इति कथनात् विशिष्योच्यत इति न पौनरुक्त्यम्.
  229. दानाध्ययनेत्यत्र विद्यादानमुक्तं, अत्र हिरण्यादिदानं-गो.
  230. निन्दितः-ङ.
  231. आश्रीमान् कान्तिरहितः । अरूपवान्-सौन्दर्यरहितः-गो.
  232. ब्राह्मणेष्वध्ययनशूरत्वम् । ब्राह्मणानां पराक्रमो वादकथासु-गो.
  233. कर्म- ङ
  234. ननुयायिनः-ङ.
  235. 'पूरणगुण' इत्यादिना षष्ठी । योधैः संपूर्णा-गो.
  236. नां सुवर्चसाम्, नां मनीषिणाम् ङ.
  237. बाह्लीकैश्च-ङ. च.
  238. वनायुः-देशविशेषः । नदीजैः-सिन्धुदेशजैः.
  239. अञ्जनो वरुणदिग्गजः । महापद्मः अग्निदिग्गजः । वामनो दक्षिणदिग्मजः ॥
  240. निष्क्रान्तैः-च.
  241. भद्राः मन्द्राः मृगाश्चेति गजजातित्रयम् । भद्रमन्द्रो भद्रमृगो मृगमन्द्रश्चेति द्वि-प्रकृतिकाः सङ्कीर्णजातयस्तिस्रः । भद्रमन्द्रमृगाः त्रिप्रकृतिकाः सङ्कीर्णगजाः- गो.
  242. एतदनन्तरं, 'यस्यां दशरथो राजा वसञ्जगदपालयत् ॥' इदमर्धे कुत्रचिदधिकं दृश्यते-ङ.
  243. सुराष्ट्रो राष्ट्रवर्धनः । अकोपो धर्मपालश्च सुमन्त्रश्चाष्टमोऽर्थवित् ॥ इत्यधिकं-ङ.
  244. एतदनन्तरं । सुयज्ञोऽष्यथ जाबालिः काश्यपोऽप्यथ गौतमः ॥ मार्कण्डेयस्तु दीर्घायुस्तथा कात्यायनो द्विजः । एतैर्बह्मर्षिमिर्नित्यमृत्विजस्तस्य पौर्वकाः । इत्यधिकं-ङ.
  245. क्रियमाणं कृतं चिकीर्षितं करिष्यमाणं वा स्वराष्ट्रे वा तेषां चारद्वारेणाविदित किञ्चिदपि नास्तीत्यर्थः । हृदयशुद्धिविषये राज्ञा बहुधा परीक्षिता इत्यर्थः । तदेवोच्यते उत्तरार्धेन.
  246. विहिंस्युरदू-ङ.
  247. बलाबलं-अपराधतारतम्यं शक्तितारतम्यं वा-गो.
  248. गोविन्दराजीयम् .
  249. आचार्येषु गृहीतगुणाः । गुणमात्रग्राहिणो दोषमपश्यन्त इत्यर्थः-गो. गुरोः--सम्बन्धसामान्ये षष्ठी गुरुणा आचार्येण राज्ञा च गुणवत्तया गृहीताः-ति.
  250. गुरोर्गुणगृहीताश्च गुणागुणगृ-ङ.
  251. एतत्पूर्वे अमितो गुणवन्तश्च नचासन्गुणवर्जिताः ॥ इदमधिकं-ङ, शक्ताः- ङ.
  252. दिवं-ङ,
  253. अत्र तातप्यमानस्येत्यपि पाठः (तिलके) च.
  254. मुखाच्च्युतम्-ङ.
  255. एतदनन्तरं, सरय्याश्चोत्तरे तीरे यज्ञभूमिर्विधीयताम् ॥ इदमधिकं-ङ.
  256. प्राप्तुं शक्य इति काकुः-ति. अस्मिन् क्रतुसत्तमे अपराधो यथा न भवेत् तथा प्राप्तुं शक्यः किमित्यन्वयो वा.
  257. विद्वांसो ब्रह्मेव, राक्षसा छिद्रं मृगयन्ति-इति
  258. उप, सं, दिष्ट इति पदत्रयं, तत्र सं इत्यस्य आप्यतामित्यत्रान्वयः । तथा च उपदिष्टः, समाप्यतामिति निष्पन्नमिति भावः ।
  259. एतदनन्तरं-श्रूयतां तत्पुरावृत्तं पुराणे च मया श्रुतम् । इदम कुत्रचिदधिकं-ङ.
  260. एतदनन्तरं-श्रूयतां तत्पुरावृत्तं पुराणे च मया श्रुतम् । इदम कुत्रचिदधिकं-ङ.
  261. उभयधर्मा-सूतो मन्त्रिश्च,
  262. विभाण्डकः-ङ.
  263. चरैः-ङ.
  264. एतदनन्तरं, इत्युक्तास्ते ततो राज्ञा सर्वे ब्राह्मणसत्तमाः ॥ इदमर्धमधिकं-ङ.
  265. ऋश्यशृङ्गस्य ब्रह्मचर्यवैफल्यरूपदोषश्च न भविष्यति । यथा गणिकासंपर्को न भवेत्तथाऽऽनेष्याम इत्यर्थः-गो. वञ्चनयाऽऽनयन्मपि न दोषाय, लोकक्षेमार्थत्वादिति वाऽर्थः
  266. यद्यपि सनत्कुमारोक्त्यनुरोधेन भविष्यनिर्देश उचित: ; तथापि राज्ञः सन्तोषाधिक्याय स्वप्रोच्यमानकाले वृत्तमेतदिति बोधयितुं भूतनिर्देशः ये त्वानयनादिसर्वं भविष्यत्त्वेनैव व्याचक्षते तेषां 'कथं आनीतः ?' इति राजप्रश्नानुपपत्तिः-ति.
  267. शान्ता दशरथस्यौरसी पुत्री रोमपादस्य दत्ता । अत उभयोजोमाता कश्यशृङ्ग इति-गो.
  268. एतदनन्तरं-तन्मे निगदितं सर्वं विस्तरेण श्रृणुष्व ह । इदमधिकं-ङ.
  269. गोविन्दराजादयः ॥
  270. अस्य निवेद्यत्यत्नान्वयः ॥
  271. एतदनन्तरं-विभण्डकसुतश्श्रीमान् मनसा चिन्तयन्मुहुः ॥ इदमर्धं कुत्रचिदधिकम्-ङ
  272. हर्षेणै-ङ.
  273. प्रतिपादनपरम्-ग.
  274. रामानुजीयेप्येवमनुवादो दृश्यते. गोविन्दराजीयेऽपि पूर्व ९-१८ श्लोकव्याख्याभावसरे एवमुक्तम् ।
  275. एतदनन्तरं, सुमन्त्रस्य वचश्श्रुत्वा हृष्टो दशरथोऽभवत् ॥ इदमधिकं-ङ.
  276. एतदनन्तर, वसिष्ठेनाभ्यनुज्ञातो राजा सम्पूर्णमानसः ॥ इदमधिकं ङ.
  277. प्रथमसर्गे ६९ तमश्लोकव्याख्यायां 'अनुमान्य' इतिशब्दस्य प्रक्रिया उक्तेत्यर्थः । वक्तप्रक्रिय इति बहुव्रीहिः । शब्द इति विशेष्यमध्याहार्यम् ॥
  278. एतदनन्तरं, यथा दिवि सुरेन्द्रेण सहस्राक्षेण काश्यपम् ॥ इत्यधिकम्-ङ
  279. भ्युत्सवादिना-ग.
  280. सहर्त्विजा-ङ.
  281. एतदनन्तरं-सरय्वाश्चोत्तरे तीरे यज्ञभूमिर्विधीयताम् इदमधिकं-ङ.
  282. वाक्यं सुमन्त्रं मन्त्रिसत्तमम्-ङ.
  283. एतदनन्तरं 'सरय्वाश्चोत्तरे तीरे यज्ञभूमिर्विधीयताम्' इति ङ,
  284. इदमधिकम्-ङ, गतेष्वथ द्विजाग्येषु-ङ.
  285. एतदनन्तरं-आगतानां सुदूराच पार्थिवानां पृथक्पृथक् । वाजिवारणशालाश्च तथा शय्यागृहाणि च । भटानां महदावासा वैदेशिकनिवासिनाम् ॥ इदमधिकम्-ङ.
  286. पूर्वसम्बन्धिनं चिरन्तनसुहृदम् । ततः-पूर्वोक्तेभ्यो नृपतिभ्यः-गो. भाविनं सम्बन्धिन त योगबलेन ज्ञात्वा पूर्वे तदानयनं ब्रवीमीत्यर्थः-ति.
  287. न तु दूतमुखेनेत्यर्थः । अस्य अनयेत्यत्रान्वयः
  288. सुसत्कृतम्-ङ.
  289. एतदनन्तरं तथा कोसलराजानं मानुमन्तं सुसत्कृतम् । मगधाधिपति शूरं सर्वशास्त्रविशारदम् ॥ प्राप्तिशं परमोदारं सत्कृतं पुरुषर्षभम् । राज्ञश्शासनमादाय चोदयस्व नृपर्षभान् ॥
  290. एतदनन्तरं एतान् दूतैर्महाभागैरानयस्व नृपाज्ञया । इदमदिकं-ङ.
  291. निमित्ते सप्तमी-ग
  292. एतदनन्तरं भवद्भिर्न तथा यज्ञे परिहास्येत कश्चन ॥ इदमधिकम्-ङ.
  293. वसिष्ठेत्यविभक्तिको निर्देशः । वसिष्ठस्य ऋष्यशृङ्गस्य चोभयोरित्यर्थः-गो.
  294. यागादि-ग.
  295. मेध्यतुरङ्गे-ग.
  296. तच्चानतिक्रम्या-ग.
  297. एतदनन्तरं-आह्वयाञ्चक्रिरे तत्र शक्रादीविबुधोत्तमान् । ऋश्यशृङ्गादयो मन्त्रैः शिक्षाक्षरसमन्वितैः ॥ गीतिभिर्मधुरैः स्निग्धैर्मन्त्राहा नैयथार्हतः । होतारो ददुरावाह्यहविर्भोगान्दिवौकसाम् ॥ इदमधिकं-ङ.
  298. मार्गक्षिताः-ख.
  299. मित्रादि-ग.
  300. सिद्धस्येति विशेषणान्वयसौकर्याय आह–अन्नेति लुप्तषष्ठीकिमिति । तथा च सिध्दस्यान्नस्य कूटा इत्यन्वयः । न तत एकदेशान्वयदोष इति भावः ।
  301. इति निघण्टुः-ग.
  302. विभत्रेकत्वं-जत्येकत्वमित्यर्थः
  303. आहिताग्न्यादित्वात्पूर्वनिपात इत्यर्थः
  304. सामर्थ्यजेन-ख.
  305. समन्त्राः-उ.
  306. अग्निष्टोम-इ.
  307. रात्रं च निर्मितम्-ङ
  308. मप्तोर्यामो.
  309. महाक्रतुरिति जातावेकवचनम् ।
  310. एतदनन्तरं-एवं दत्वा प्रहृष्टोऽभूच्छ्रीमानिक्ष्वाकुनन्दनः ॥ इदमधिकं-ङ.
  311. चतुर्गुणम्-ङ.
  312. एतदनन्तरं–काञ्चनानां शतोपेतं नवरत्नैः समाहितम् ॥ इदमधिकं-ङ.
  313. दुष्करं-ङ.
  314. एतदनन्तरं-स तस्य वाक्यं मधुरं निशम्य प्रणम्य तस्मै प्रणतो जगाम हर्ष परपं महात्मा तमृश्यशृङ्गं पुनरप्युवाच ॥ इदमधिकं-ङ.
  315. आहरन्तं-क. ग.
  316. सर्वश-ग.
  317. सवित्र्यर्थं-ख.
  318. वर्गमानः-ख.
  319. लोकपूर्वजः-ङ.
  320. सर्गसंसार-ग.
  321. श्लोकपञ्चकमेकान्वयम्-गो.
  322. एतदनन्तरं–सिंहस्कन्धं महाबाहुमङ्गदद्वयशोभितम् ॥ ताराविकृतकल्पेन हारेणोरसिराजितम् । ताराधिपतिकल्यैश्च दन्तैः परमशोभितम् । ज्वलन्निव च तंजोभिदीपयन्निव च श्रिया तप्तजाम्बूनदमयैर्भूषणैर्भूषितं च यत्-इदमधिकं ङ.
  323. 'दित्यदित्यादित्यपत्युत्तरपदाण्ण्यः इति प्राग्दीव्यतीयो ण्यप्रत्यः-गो.अयमेव पाठः साधुरिति भाति.
  324. मित्यादि-ग.
  325. विश्वात्मना-क.
  326. हिरण्यकवि-क.
  327. तदुद्भूतः-ग.
  328. तत्पायसस्य-ग.
  329. प्राप्य-ङ. च.
  330. संमानं-ङ. च.
  331. हर्षोत्पत्तौ इति-ग-पुस्तके नास्ति,
  332. स्वस्व इति-ग पुस्तके नास्ति,
  333. रावणं कृतपरहासं शशाप-क. परन्तु पूर्वमपि रावणं इति पदं वर्तते । अर्ताश्चन्त्यं.
  334. स्वस्वतुल्य-ग.
  335. पराक्रममेव वालि-ग.
  336. तच्चीत्कारमात्रेण-ग.
  337. छन्दसि-क.
  338. एतदनन्तरं-चारणाश्च सुतान् वीरान् ससृजुर्वनचारिणः ॥ इदमधिकं-ङ.
  339. अत्र,175 पुटे विद्यमानार्धेन सह इदमर्थं गणनीयम् ।
  340. साधारणकारणानि-क. ख.
  341. अवयवदेवताः–वानराद्याः, प्रधानदेवता-श्रीरामः
  342. मुनिपुङ्गवं वसिष्ठं ऋष्यशृङ्गं च-ति.
  343. मुनिपुङ्गवम्-वसिष्ठम्-ग.
  344. स्वगृहाणि-ङ.
  345. द्विजोत्तमम् ङ.
  346. अन्त्रीयमानो-ङ.
  347. ऋतूनामिति प्रथमाथें षष्ठी-ति.
  348. एतदनन्तरम्-लोहिताक्षं महाबाहुं रक्तोष्ठं दुन्दुभिस्वनम्-इदमधिकं-ङ. इति-ख.
  349. स्थाने–क, ख,
  350. सर्वार्थकुशलौ-ङ.
  351. सर्पे आश्लेषे-ग.
  352. एकन्वेऽपि पृथग्वर्तमानः । एकस्य चतुर्भावस्थाने दृष्टान्तमाह-प्रोष्ठेति ॥ गो.
  353. गायकैः-ङ. एतदनन्तरं-विरेजुर्विपुलास्तत्र सर्वरत्नसमन्विताः-अधिकं-ङ.
  354. लक्ष्मणजन्मदिनापेक्षया एकादशाहत्वं । रामजन्मदिनापेक्षया तु द्वादशदिनं तत् ! प्रथमसूतकेनैवेतरेषामपि निवृत्तेस्तथा कथनमिति गोविन्दराजः ॥
  355. नृपायैवाकचे-ङ.
  356. ब्रह्माणं-चतुर्मुखम्-गो.
  357. यथाऽर्हतः-यथान्यायं, प्रथमार्थे तसिः-गो.
  358. अप्रजस्य-अपुत्रस्य यथा पुत्रजन्मेत्यन्वयः
  359. एतदनन्तरं-यस्माद्विप्रेन्द्रमद्राक्षं सुप्रभाता निशा मम-इदमधिकं-ङ.
  360. कर्तुं-ख-ग.
  361. रलोकसामान्य-ग.
  362. अत्र व्याख्यारीत्या ५७ १/२ श्लोकात्मकोऽयं सर्ग इति प्रतीयते । 'अद्य मे सफलं' इति वा अन्यद्वा अर्धमधिकं स्यादिति प्रतिभाति ॥
  363. नान्यथा-ड.
  364. कर्तव्यत्वस्य नि-क.
  365. सिध्यर्थ-घ.
  366. एतदनन्तरम्-दशरात्रस्तु यशश्च तस्मिन् रामेण राक्षसौ । हन्तव्यौ विघ्नकर्तारौ मम पुत्रकृतस्नेहं-ङ. रामं-ङ.
  367. यज्ञस्य वैरिणौ इत्यधिकम-ङ.
  368. यद्यपीत्यत्र विद्यमानः 'अपिः' 'तत' इत्यनेन योज्य इत्याह-ततोऽपीति,
  369. आमूच्छित-क. ख.
  370. प्रजनकं-ग.
  371. गोविन्दराजः
  372. यतोऽहं सकलसेनापरिवृत आगच्छामि अत एवेत्यर्थः
  373. न रामनयनं युक्तं-ग.
  374. ते कस्य वाक्यं प्रमाणयन्तीत्यर्थः । कस्य निदेशे वर्तन्त इति यावत्.
  375. एतदनन्तरं तौ हि यक्षस्य कन्यायां सुतौ सुन्दोपसुन्दयोः ।
    मारीचश्च सुबाहुश्च वीर्यवन्तौ सुशिक्षितौ-अधिकं-ङ.
  376. एतदनन्तरं-अन्यथा त्वनुनेष्यामि भवन्तं सहबान्धवः-अधिकं. ङ.
  377. रोषपरीतस्येत्यादौ सप्तम्यर्थे षष्टी । तस्मिन् रोषपिरीते सतीर्थः-गो.
  378. धर्मात्मा इतीत्यत्र वाक्ये संहिताऽनित्या-गो ॥
  379. विद्याधिको-ङ.
  380. न देवाऋषयः केचित् ङ. च.
  381. प्रजापतिः दक्षः, तस्य सुतयोः कन्ययोः सुताः,
  382. एतत्पूर्वे-तेनास्य मुनिमुख्यस्य सर्वशस्य महात्मनः । न किञ्चिदप्यविदितं भूतं भव्यं च राघव–अधिकं ङ.
  383. एतदनन्तरं-धनुर्भृतोऽस्य शक्रस्तु बिभीयात् समरे विभो-हृदमधिकं-ङ.
  384. एतदनन्तरं ततो भूयो बसिष्ठेन मङ्गलैरभिमन्त्रितम् आदाय हृष्टो विप्रोऽभूषिदशा विज्वराऽभवन् ॥ इदमधिकम्-ङ.
  385. कालविपर्ययः-ङ.
  386. इयं व्याख्या तिलकेऽनूदिता ॥
  387. एतदनन्तरं-बलामतिबलां चैव पठतस्तव राघव । इदमधिकं-ङ.
  388. 'सौभाग्येन' इत्यादिरीत्या तृतीयान्तत्वभ्रमनिरासायेदमुच्यते ।
  389. एतदनन्तरं-बलामतिबलां चैव पठतः पथि राघव । गृहाण सर्वलोकस्य गुप्तये रघुनन्दन ॥ इदमधिकम्-ङ. नृपतेस्त्वय्यधीयाने यशश्चाप्यतुलं भुवि' इत्यपूर्वः पाठो व्याख्यातुसम्मत इव भाति ॥
  390. अत एतत्-ग.
  391. तत्र-सरयूसङ्गमप्रदेशे आश्रमपदं ददृशाते इति पूर्वश्लोकेनान्ययः । पूर्वश्लोकस्थ 'तत्र' पदस्थ तत्र त्रिपथगां नदीं ददृशाते इति पृथगन्वयः ॥
  392. एतदनन्तरं 'कौतूहलात् तौ धर्मशो वीर्यवन्तं तपोधनम्' इदमधिकम्-ङ.
  393. कृतोद्वाहं-कृतपार्वतीपरिणयं, क्रियाविशेषणमिदम् । गच्छन्तं पार्वतीं प्राप्नुवन्तं-गो. कृतोद्वाहं करिष्यमाणोद्वाहं, यद्वा कृतोद्वाहं गच्छन्तं-उद्वाहं कृत्वा गमिष्यन्तं, वर्तमानसामीप्ये भविष्यति लट्-ती.
  394. अवदग्धस्य रौद्रेण-ङ
  395. तस्य गात्रं हृतं तत्र-ङ.
  396. तस्मिन्-तादृश इत्यर्थः ।
  397. सह रामः कनीयसा-ङ.
  398. अविप्रहतं-अक्षुण्णं-ति. गो.
  399. जनसञ्चाराभावादित्यर्थः गमागमे-गमनागमने
  400. वसत्यध्यर्ध-ङ.
  401. एतद्रीत्या तु ३३ श्लोकात्मकोऽयं सर्ग इति ज्ञायते । परन्तु ३२ श्लोका एवं व्याख्यायिषत। पञ्चमश्लोकानन्तरं ङ-प्रभृतिपुस्तके 'शातुकामो महातेजाः सहरामः कनीयसा ' इत्यधिकार्धस्य दर्शनेऽपि अर्थान्तरं तु नोपलभ्यते ।
  402. एतदनन्तरं-इत्युक्तं वचनं श्रुत्वा राघवस्यामितौजसः । हर्षयन् श्लक्ष्णया वाचा सलक्ष्मणमरिन्दमम्-इत्यधिकम्-ङ.
  403. स्वाभिप्रायम्-क
  404. जम्भपुत्राय-ङ.
  405. प्रादुर्भावे इति यावत् ।
  406. सता-सतां-ङ.
  407. अनिन्द्रं-उ.
  408. एतत्पूर्वे–तस्य संरंभमालोक्य सभ्रातुर्मुनिपुङ्गवः । प्रहर्षमतुलं लेभे राम साध्विति चाब्रवीत् इत्यधिकं-ङ.
  409. वृद्धां-ङ.च.
  410. एतदनन्तरं-एनां पश्य दुराधर्षां निर्भिन्नहृदयां क्षितौ । शयानां शयने वीर धूतपापां भयावहाम् ॥ इदमधिकं-ङ,
  411. संहरौरकिञ्चित्-ग.
  412. सिद्धान्तितत्वात्-ग,
  413. प्रादुर्भवनेन-ग.
  414. मायास्त्रमास्थाय-ङ.
  415. अतिवार्योप-ङ.
  416. स्वमायया-ङ.
  417. एतदनन्तरं-ज्यास्वनं चक्रतुवीरौ वज्राशनिसमं तदा । मोहिता तेन शब्देन, लब्धसंज्ञा चिरात् तदा ॥ इदमधिकं-ङ,
  418. दृष्ट्वासुरपतिः सुराश्च समपूजयन्-इत्यन्वयः ।
  419. भृशाश्वस्य-ज.
  420. पूजयन्त:-ज. पूजयित्वा-ङ.
  421. एतदनन्तरं-चम्पकाशो. कपुन्नागमल्लिकाद्यैस्सुशोभितम् । चूतैश्च पनसैः पूगैर्नारिकेलैश्च शोभितम् । वापीकूपतटाकैश्च दीर्घिकाभिरलङ्कृतम् । मल्लिकाहेमकूटैश्च मण्टपैरुपशोभितम्-इदमधिकम्-ङ.
  422. प्रशस्य-ङ.
  423. विलास:-ग.
  424. एतदनन्तरं-विष्णुचक्रं तथाऽत्युग्रं ऐन्द्रमस्त्रं तथैव च-अधिकं ङ.
  425. वरश्रेष्ठ-ज्ञ.
  426. शूलवतम्-ङ. ज
  427. प्रथनं, मथनं-ङ.
  428. किङ्किणीम्-ङ.
  429. वधार्थे रक्षसां-ज.
  430. मोहनं नाम, मानवास्त्रं च ङ.
  431. दर्पणं-ङ.
  432. मदनं-ङ.
  433. सौरं-ज.
  434. इयं व्याख्या तिलकेऽनूद्य दूषिता ।
  435. अयं श्लोकः कुत्रचित् प्रक्षिप्तः ङ.
  436. भूप्राप्ताविति धातुः-गो.
  437. सत्यवदादीन्युपसंहाराणां नामानि । सत्यवन्तमित्यादि सप्तश्लोक्येकान्वया ॥ -गो.
  438. एतदनन्तरं 'शुचिर्बाहुर्महाबाहुनिष्कलिर्विरुचिस्तथा' इत्यधिकं कचित्-ङ.
  439. एतदनन्तरं 'तत्सर्वमग्रहीद्रामो विश्वामित्रान्महामुनेः' इत्यधिकं-ङ.
  440. यथेष्टं गम्यतामित्यन्वयः ।
  441. एतदनन्तरं- 'प्रणम्य शिरसा रामं सर्वे सम्मतबिक्रमाः । ततस्तु रामः काकुत्स्थः शासनात् ब्रह्मवादिनः । लक्ष्मणाय च तान् सर्वान् वरास्त्रान् रघुनन्दनः ॥ संहारान् स च संहृष्टः श्रीमांस्तस्मै न्यवेदयत्।' इत्यधिकं क्वचित्-ङ.
  442. तथाऽऽख्या-ग.
  443. एतदनन्तरम्–'यज्ञं चकार मतिमानसुरेन्द्रो महाबलि:' इत्यधिकं-ङ.
  444. स्थिरैव-ग.
  445. एतदनन्तरं-किमिच्छसि वरं श्रेष्ठं वरदोऽसि महाद्युते । इत्यधिकं क्वचित्-ङ.
  446. एतदनन्तरं एवमधिकपाठः कुत्रचित्-ङ.
    छत्री भिक्षुकरूपेण कमण्डलुशिखोज्वलः । तं दृष्ट्वाऽसुरराजेन्द्रो वामनत्वाच्च विस्मितः । माधवोऽयमिति ज्ञात्वा पूजयामास धर्मतः । पूजितस्तेन धर्मात्मा सर्वलोकहिताय वै ॥ आसाद्य यजमानं तमुवाच भगवान् हरिः । स्वस्ति तेऽस्तु महाराज यशश्चातीवशोभनः ॥ वयं दानार्थिनो राजन् ! श्रुत्वा यज्ञमनुत्तमम् । त्वां दृष्ट्वा तव यागेषु किंचिल्लब्धुमिहागताः ॥ वामनेनैवमुक्तस्तु मुद्रा राजा तदाऽब्रवीत् । अद्य मे सफलो यज्ञः कृतार्थोऽस्म्यद्य वामन ॥ त्वदर्थे कल्पितं चैव मम सर्वस्वमेव च । धनौघं रत्नराशि वा भूषणं धान्यसञ्चयम् ॥ ग्रामं वा नगरं वापि राष्ट्रं वा यानमेव वा । हस्त्यश्वरथपत्तीर्वा त्वं लभस्वान्यमेव वा ॥ किमिच्छसि महाबाहो तद्ददामि तवानघ ॥ एवमुक्तस्तदा राज्ञा भगवान् पुरुषोत्तमः । उवाचेषत्स्मितं कृत्वा यजमानं महाबलिम्-ङ ॥
  447. मेदिनीम्-ज.
    [इदं पाठान्तरं पूर्वपुटगतपाठान्तरशेषभूतम्]
    एतैः किं मम राजेन्द्र तैस्तु नास्ति प्रयोजनम् । अस्मत्पादत्रयाक्रान्तां देहि भूमिं विभो तदा ॥ श्रुत्वा तद्बामनेनोक्तं स्मितं कृत्वाऽसुरोत्तमः । येनेष्टं पूर्यते ब्रह्मस्तत्कुर्मेति ततोऽब्रवीत् ॥ वामनाय महीं दातुं निश्चितेऽसुरसत्तमे । तं निवार्य महाराजं प्राह शुको द्विजोत्तमः ॥ विरिञ्चभवशक्राद्या योगिनश्च सुरासुराः । यं न जानन्ति वेदाश्च स एषो विष्णुरव्ययः ॥ दानारक्ते ततश्शुक्रे शुक्रं राज रोहितम् । गृहीत्वा ताडयामास वैनतेयो महाबलः ॥ पत्न्या सह विनिश्चित्य यजमानो महाबलि: । मायारूपेण देवेशो मम यज्ञं गतो यदि ॥ तदैतद्यज्ञसाफल्यमेवम स्त्विति चाब्रवीत् । इति मत्वोदकं दत्तं वामनाय महात्मने ॥ तव पादत्रयाकान्तां गृहाणाद्य महीं प्रभो । उदके स्पृष्टमात्रे तु विश्वरुपधरो हरिः ॥ तत्रस्थ एव ववृधे येन पूर्णं जगत्त्रयम् । सायुधैर्वाहुभिः पूर्ण दिग्विदिक्सर्वमेव हि ॥
  448. मानं द्यति-खण्डयतीति मानद; निरभिमानो भिक्षित्वेत्यर्थ.-गो.
  449. एतदनन्तरं-इत्युक्त्वा परमप्रीतो गृह्य रामं सलक्ष्मणम् । इत्यधिकं कचित्-ङ.
  450. एवमेव सर्वत्र दृश्यते । परन्तु-व्याख्यानुसारेण-'जज्वाल सर्त्विजा वेदिः विश्वामित्रेण मण्डिता' इति स्यात् ॥
  451. एतदनन्तरं 'एवं प्रवर्तिते यज्ञे विश्वामित्रस्य धीमतः ' इत्यधिकं-ङ.
  452. एतदनन्तरं-दृष्ट्वा वेदिं तथाभूतां सानुजः क्रोधसंयुतः । इदमधिकं-ङ.
  453. एतदनन्तरं-असम्भ्रान्तस्त्वरन् किञ्चित् सज्यं कृत्वा महद्धनुः । इत्याधिकं-ङ.
  454. एतदनन्तरं-करिष्यामि न सन्देहो नोत्सहे हन्तुमीदृशान् । इत्युक्त्वा वचनं रामश्चापे सन्धाय वीर्यवान् ॥ एवं वदन्तं तं दृष्ट्वा धनुःप्रवरपाणिनम् । बालोऽयमिति विशाय तमनादृत्य दुर्मती ॥
    विश्वामित्रस्य तां वेदिं सत्वरावभ्यधावताम् ॥ तानुदीक्ष्य त्वरन् रामः चापमायम्य वीर्यवान् । इत्यधिकं कुत्रचित्-ङ. एतच्छ्लोकत्रयस्थाने कुत्रचित् एव दृश्यते एवं ब्रुवाणं मारीचो बालकं हेममालिनम् । तस्यानुजं च हेमाभं शूरं तूच्छ्रितधन्विनम् ॥ राघवौ श्यामहेमाभौ तावपश्यत्तदा दिवि । दृष्ट्वा तेजस्विनौ तौ च अवधूतश्च तेजसा ॥ अवज्ञाय स तौ विप्रान् प्रधर्षयितुमारभत् । तमापतन्तं रामस्तु प्रहसन् लीलया युतः-ङ.
  455. अयं श्लोकः कचित् न दृश्यते-ङ.
  456. अर्धमिदं क्वचिन्नास्ति-ङ.
  457. एतदनन्तरं 'स हि रामं प्रशस्यैवं ताभ्यां सन्ध्यामुपागमत्' इत्यधिकं-ङ.
  458. उत्सवे प्राधान्येनाचितं धनुः आयाग इत्युच्यते-गो,
  459. पूर्वं विश्वामित्रं पुरस्कृत्येत्यभिधानात् । विश्वामित्रस्यापि वचनेऽन्वयो वर्तत इत्यभिप्रायेणैवमुक्तम् ॥
  460. एतदनन्तरं-इत्युक्त्वा मुनिशार्दूल: कौशिकस्स तपोधनः-इदमधिकं-ङ.
  461. सारिणाम्-च.
  462. कस्य-ङ.
  463. धर्मज्ञ-ज. ङ.
  464. जायायां-ङ.
  465. सुमहाबलान्-ज.
  466. आधूर्तरजसं-अमूर्तरजसं-ज. ङ.आवर्तरजसं-ङ.
  467. यत्र काले पितरमवमन्य-अपमानविषय कृत्वा स्वधर्मेण कामेन स्वयं वरमुपास्महे,आत्मना स्वातन्त्रयेण वयं वरमंगीकुर्मः स कालः कदाचिदपि माभूत्-ति.
  468. एतदनंतरं-अरत्रिमात्राकृतयो भग्नदर्पा भयार्दिताः । इदमधिकम् -ङ.
  469. एतदनन्तरं-श्रोतुमिच्छामि तं पुत्र्यो यस्येदं कर्म गर्हितम् ॥ इदमधिकम् -ङ.
  470. समाधिं संदधे-इति सर्वत्र पाठः,
  471. क्षमैव दुष्करा, ततस्त्रिदशेषु दुष्करा, ततोपि फलकम्:Gapसर्वासामविशेषेण क्षमा दुष्करैवेत्यर्थः- गो.
  472. पुरीमध्यवसत्-ज.ङ.
  473. कपुस्तके सर्वत्र 'कांबि' इति पाठः ।
  474. युक्तं परमया लक्ष्म्या बभौ कन्याशतं तदा' इति-ङ.
  475. कन्याश्शतम्' इति भाव्यमित्यर्थः ।
  476. दृष्ट्वा स्पृष्ट्वा-ङ.
  477. हितकामार्थे-घ.
  478. गाधः स्वल्पजलः । अत एव पुलिनमण्डितः सैकतालंकृतः । तथा च नावं विना गन्तुं शक्यते-गो. कतरेणेश्युक्त्या तत्र मार्गद्वयेन भनु यसन्तरणमिति ध्वनिनम् । एतेन
    आगाध इति पदच्छेदो न रमणीय इति बोध्यम्-ति
    अनन्तरश्लोकोपीममर्थद्रढयति ।
  479. मायाबालस्य-घ.
  480. एतदनन्तरं एवमुक्ता महर्षयो विश्वामित्रेण धीमता । पश्यन्तस्ते प्रयाता वै वनानि विविधानि च ॥ इति श्लोकः अधिकः कुत्रचित्-ङ.
  481. तस्यास्तीरे तदा सर्वे चक्रुर्वासपरिग्रहम्-ज.
  482. एतदनन्तरं-विष्ठिताश्च यथान्यायं
    राघवौ च यथार्हतः । इत्यधिकम्-ङ.
  483. एतदनन्तर 'एवं मन्मथयुद्धे तु तयोर्नासीत्पराजयः' इति चाधिकमन्यत्र-ङ.
  484. एतदनन्तरं-धीमतो देवराजस्य रुद्रस्यापि महात्मनः । इत्यधिकं-ङ.
  485. समुद्विग्नाः-ङ.
  486. वशप्राप्तमुमुक्षा-घ.
  487. पुनश्चेदमुवा च-ङ
  488. एतदनन्तरं-अप्रियस्य कृतस्याद्य फलं प्राप्स्यथ मे सुराः । इत्युक्त्वा सलिलं गृह्य पार्वती भास्वरप्रभा । इत्यधिकं क्वचित्-ङ
  489. एतदनन्तरं 'पत्न्यो न जनयिष्यन्ति यद्यप्रभृति चात्मजान्' इत्यधिकम्-ङ.
  490. व्रीडितान्-ड.
  491. शेषिप्रकृत-घ,
  492. एतदनन्तरं-स न जातोऽद्य भगवन्नस्मद्वैरिनिबर्हणः । तत्पिता भगवान् शर्वो हिमवच्छिखरेऽद्य वै ॥ इत्यधिकं कचित्-ङ.
  493. न प्रजाः सन्तु पत्निषु-ङ.
  494. महेश्वरतीर्थः.
  495. व्यवस्थितात् अत-ग
  496. प्रवृत्ति-घ.
  497. इमं घ.
  498. ततः-घ.
  499. पृष्टोत्तरं-ग.
  500. चाप्रजाः-झ.
  501. सर्वेषु कोशेषु सार्धचतुर्विंशतिश्लोका एव दृश्यन्ते । परन्तु पञ्चत्रिंशसर्गे एकमर्धमधिकं दृश्यते । तदत्र परिगणितं स्याद्वा ॥
  502. कथानन्तरम्-ग.
  503. एतदनन्तरं-तस्य तद्वचनं श्रुत्वा कौतूहलसमन्वितः-ङ.
  504. यज्ञोपसर्जन-ग.
  505. मिथ्यादिहत-ग.
  506. एतदनन्तरं-ऐकैकं योजनं पुत्रा विस्तारमभिगच्छत ।
    इत्यधिकम्-ङ.
  507. यदि न लब्धं-घ.
  508. बालकत्वात् -ग.
  509. एतदनन्तरं-गत्वा तु पृथिवीं सर्वा,अदृष्ट्वा तं महाबलाः । इत्यधिकम्-ङ
  510. एतदनन्तरं-महिषी माधवस्यैषा स एष भगवान् प्रभुः । इत्यधिकम्-ङ
  511. इष्ट एव-घ.
  512. अदीर्घजीविनाम्-ज. झ.
  513. हयहरं ज्ञात्वा, यशज्ञरं ज्ञात्वा-ङ.
  514. एतदन्तरं-गङ्गामानय, भद्रं ते, देवलोकात् महीतलम् । क्रियतां यदि शक्तोऽसि गङ्गायास्त्ववतारणम् ॥इत्यधिकम्-ङ.
  515. गङ्गया इति स्यात् .
  516. रतमानः - क.
  517. वत्से राजानं-इति-ग. पुस्तके नास्ति
  518. रममानः-क.
  519. एतदनन्तरम्-'उमापतेर्वचश्श्रुत्वा गङ्गा क्रोधसमन्विता' इत्यधिकं-ङ. झ.
  520. बभ्रमत्-ङ.
  521. एतदनन्तरं – 'तथैव चालिकानाम विश्रुता लोकपावनी ।' इत्यधिकं क्वचित्-ङ.
  522. र्नगराकारैः-ङ.
  523. घारिप्लवं संभ्रमं गतैरिति विमानादिविशेषणम्-गो.
  524. गतैः- ङ.
  525. मज्ञेश्वरतीर्थः
  526. क्वचिदुद्भूतम्-ङ.
  527. गाङ्ग सलीलमित्यार्षः-ग.
  528. धूतशापाः-ज.
  529. सुभास्वता-ङ. ज.
  530. रथानुगाम्-घ.
  531. परमाद्भुतमिति क्रियाविशेषणम्-गो.
  532. तस्यावलेपनं ज्ञात्वा-ग.
  533. सन्धिरार्ष इति भावः.
  534. चापि नयन्ति-ङ.
  535. एतदनन्तरं-ततस्तु गङ्गां प्रतिलभ्य राजा दिलीपसूनुर्गगनाच्च शङ्करात् । हृष्टोवतार्याशु नृपाच्च जह्नोः सम्भावयामास पितामहान्सः ॥ ४६ ॥ इत्यधिकं-ङ. झ.
  536. न शङ्किता-न विचारिता-गो.
  537. महेश्वरतीर्थः गोविन्दराजो वा
  538. समतिक्रान्ता-ङ.
  539. बहुव्रीहिर्वा-ति.
  540. सर्षिसङ्घस्य कौशिकः-ङ.
  541. कौशिक इति शेषः
  542. एतदनन्तरं-

    अथ वर्षसहस्रेण योक्त्रसर्पशिरांसि च । वमन्त्यतिविषं तत्र ददंशुः दशनैरिशलाः ॥
    उत्पपाताग्निसङ्काशं हालाहलमहाविषम् । तेन दग्धं जगत्सर्व सदेवासुरमानुषम् ॥
    अथ देवा महादेवं शङ्कर शरणार्थिनः । जग्मुः पशुपतिं रुद्रं त्राहि त्राहिति तुष्टुवुः ॥
    एवमुक्तस्ततो देवैर्देवदेवेश्वरः प्रभुः । प्रादुरासीत्ततोत्रैव शङ्खचक्रधरो हरिः ॥
    उवाचैनं स्मितं कृत्वा रुद्रं शूलभृतं हरिः । दैवतैर्मथ्यमाने तु यत्पूर्वे समुपस्थितम् ॥
    तत्त्वदीयं सुरश्रेष्ठ सुराणामग्रजोसि यत् । अग्रपूजामिमां मत्वा गृहाणेदं विषं प्रभो ॥
    इत्युक्त्वा च सुरश्रेष्ठस्तत्रैवान्तरधीयत । देवतानां भयं दृष्ट्वा श्रुत्वा वाक्यं तु शार्ङ्गिणः ॥
    हालाहलविषं घोरं स जग्राहामृतोपमम् । देवान्निमृज्य देवेशो जगाम भगवान् हरः ॥
    ततो देवासुराः सर्वे ममन्थू रघुनन्दन । प्रविवेशाथ पातालं मन्थानः पर्वतोनघ ॥
    ततो देवाः सगन्धर्वास्तुष्टुवुर्मधुसूदनम् । त्वं गतिः सर्वभूतानां विशेषेण दिवौकसाम् ॥
    पालयास्मान् महाबाहो गिरिमुद्धतुमर्हसि । इति श्रुत्वा हृषीकेशः कामठं रूपमास्थितः ॥
    पर्वतं पृष्ठतः कृत्वा शिश्ये तन्त्रोदधौ हरिः । पर्वताग्रं तु लोकात्मा हस्तेनाक्रम्य केशवः ॥
    देवानां मध्यतः स्थित्वा ममन्थ पुरुषोत्तमः । उदतिष्ठत्स धर्मात्मा आयुर्वेदमयः पुमान् ॥
    इत्यधिकम्-ड. एतच्च श्लोकस्थाने कुत्रचिदेवं पाठः- ङ.

    फलकम्:Gapअथ दीर्घेण कालेन कालाग्निसदृशं विषम् । उदतिष्ठन्नर श्रेष्ठ हालहलमिति श्रुतम् ॥
    सुरासुराश्च वित्रस्ताः दग्धास्तेन विषाग्निना । शरण्यं शरणं जग्मुर्भगवन्तं महेश्वरम् ॥
    कृत्वाऽल्पपिण्डं पाणिस्थ तद्विषं भगवान् हरः । सर्वलोकहितार्थाय भगवान् परमेश्वरः ॥
    कण्ठस्थमकरोत् प्राश्य लीलया लोकपूजित । प्रणम्य विज्वरा जग्मुः देवदेवं वृषभ्वम् ॥
    मन्दरं पूर्ववत् कृत्वा ममन्थुरमितौजसः । ततः पर्वतमूलं तु पातालं तु प्रवेशितम् ॥
    सुरासुराश्च निश्चेष्टाः बभूवुः केशविक्कुवाः । देवदुःख निवृत्त्यर्थं आगतः पुरुषोत्तमः ॥
    भयं त्यजत भद्रं वः उद्धरिष्याम्यहं गिरिम् । इत्युक्त्वा कूर्मरूपेण विशेश क्षीरवारिधौ ॥
    मन्दरं पृष्ठतः कृत्वा ववृधे कूर्मरूपधृत् । सुरासुरैरनाक्रान्तमुद्गतोऽथ नरोत्तम ॥
    नगाग्रं पीडयामास वामहस्तेन माधवः । ममन्थ देवतानां च मध्ये नारायणो हरिः ॥
    अथ वर्षसहस्रेण ज्यष्टा नाम वराङ्गना उत्पपात वरारोहा सागरेरेव कल्पिता ॥
    अभवत् पारिजाताख्यः वृक्षः इन्द्राय कल्पितः ॥
  543. एतदनन्तरं -
    उदतिष्टन्नरश्रेष्ठ सोमदेवस्तथैव च । तुरगं देवराजाय कौस्तुभं केशवाय च ॥ धन्वन्तरिर्महातेजा लोकरक्षणतत्परः । आयुर्वेदमयो राम तथा साधारणः स्मृतः ॥ सुरासुराश्चगन्धर्वः क्षोभयामासुरम्बुधिम् । ततो दीर्घेण कालेन चोत्पन्ना कमलालया ॥ अतीव रूपसम्पन्ना प्रथमे वयसि स्थिता । सर्वाभरणपूर्णाङ्गी सर्वलक्षणलक्षिता ॥ मकुटाङ्गदचित्राङ्गी नीलकुचितमूर्धजा । तप्तहाटकसङ्काशा मुक्ताभरणभूषिता ॥ चतुभुजा महादेवी पद्महस्ता वरानना । सा च देवी तथोत्पन्ना पद्मा श्रीर्लोकपूजिता ॥ सा पद्मा पद्मनाभस्य ययौ वक्षःस्थलं हरेः । इत्यधिकं क्वचित्-ङ.
  544. क्षयं गतं सर्वम्-ङ.
  545. दास्यामि, इति स्यात् ।
  546. महेश्वरतीर्थः.
  547. त्मभिः-ङ.
  548. एतदनन्तरं 'बलवन्तं महेष्वासं स्थितिशं समदर्शनम् इत्यधिकं-ङ.
  549. महेश्वरतीर्थः । गोविन्दरजीयेऽप्येवं दृश्यते ॥
  550. पादयोः कृतमूर्धजा, अत एव अशुचिस्सती त्वं सुप्ताऽसि इत्यन्वयः ।
  551. खरमान इति स्याद्वा। खकार-वकारयोः ग्रन्थलिप्यामक्षरसाम्यात् ।
  552. दृष्टिदोषो मामूदित्याह-भद्रं त इति-गो॥ एकवचनं तु जात्या वा एतादृश-कुमारानयितृमुन्यभिप्रायेण वा स्यात् ।
  553. एतदनन्तरं-अयोध्याधिपतेः पुत्रो राशो दशरथस्य हि । मम यज्ञसमाप्त्यर्थमागतौ रामलक्ष्मणौ ॥ सिद्धाश्रममनुप्राप्य राक्षसानभिहत्य च । इमं देशमनुप्राप्तौ वीरौ
    दशरथात्मजौ ॥-इत्यधिकं ङ.
  554. आकरणं-आह्वानम् ।
  555. परमविस्मितः-ङ.
  556. तान्-पुरीं प्रति प्रस्थितान् रामादीन्-गो.
  557. तान् दृष्ट्वा-ते दृष्ट्वा-ङ.
  558. पूगान्-गो. एतदनन्तरं-'कदाचिद्दिवसे राम ततो दूरं गते मुनौ'-इत्यधिकं-ङ.
  559. सुसमाहिते-सम्यक् ब्रह्मणा निर्मिते ! हे अतिसुन्दरीत्यर्थः-गो.
  560. सहस्राक्षं विज्ञाय-कदाचिदपि मुनिना एवमर्थनाभावात्, अन्यस्यात्र प्रवेष्टुमशक्तेः, इन्द्रस्यैवात्मनि बहुकालमभिलाषश्रवणाच्चेति भावः- गो. 'मम रूपं समास्थाय
    (श्लो. २९) इत्युक्तेरत्र मुनिवेषः गौतमवेषः ।
  561. रतिं चकार-ङ.
  562. कृतार्थोऽसि-ङ
  563. विशिष्टस्त्रीचरितेन प्रहासः, रक्षणस्य दुर्लभस्वाद्वा-ति.
  564. विवर्णवदनः-ङ
  565. एतदनन्तरं 'व्यथितस्सहसा चासीद्धतौजा विफलीकृतः ।घर्षितस्तपसोग्रेण कश्मलं चैवमाविशत् ॥ इत्यधिकं-ङ.
  566. अत्र बुद्धिपूर्वकव्यभिचारस्य विधीयमानं प्रायश्चित्तं शापापदेशेनोच्यते । एवं व्यक्ततया वाल्मीकिवचने स्थिते शैलीभवेति शापः, रामपादस्पर्शात् शिलात्वमुक्तिरिति
    पुराणकथा कल्पान्तरवृत्तमनुसत्येति बोध्यम्-गो.
  567. शिला भूत्वा-ङ.
  568. एतदनन्तरं-यदा चैतद्वनं घोरं रामो दशरथात्मजः । आगमिष्यति दुर्धर्षस्तदा पूता भविष्यसि ॥ तस्यातिथ्येन दुर्वृत्ते ! लोभमोहविवर्जिता । मत्सकाशे मुदा युक्ता स्वं वपुर्धारयिष्यसि ॥ इदमधिकम् ङ.
  569. पुराणादिप्रसिद्धशिलारूपप्राप्तिशापस्तु कल्पान्तरीण इति न विरोधः । अत्र शिलारूपत्वे तात्पर्यकल्पने वातभक्षेत्यनेन विरोधः स्पष्ट एवेति केचित् । वस्तुतस्तु अदृश्येत्यस्य स्वरूपेणादृश्या, शिलाप्रतिमारूपेण सर्वदृश्येत्यर्थः । न च तावता चैतन्यहानिरिति, क्षुधादिपीडा स्यादेवेत्यतः-वातभक्षा-इति न कश्चिद्विरोध-तदुक्तं पाद्मे-'शापदग्धा पुरा भर्त्रा राम ! शक्रापराधतः । अहल्याख्या शिला जशे शतलिङ्गः कृतः स्वराट् ' इति-ति ॥
  570. महेश्वरतीर्थः । तथा हि-'घोरमित्यनेन' इदं वनं मुनिवर्ज भवत्विति गौतमेन शप्तमित्यवगभ्यते-'स्वं वपुर्धारयिष्यति' इत्यनेन पद्मपुराणोक्तपाषाणावस्था सूच्यते-तथा च पाद्मे-'सा ततस्तस्य रामस्य पादस्पर्शान्महात्मनः । अभूत् सुरूपा वनिता समाक्रान्ता महाशिला' इति ॥
  571. अयं भागः तिलकेऽनूदितः ॥
  572. धसः-ङ.
  573. आर्तवदनः-ङ.
  574. एतदनन्तरं-पुराऽविचार्य मोहेन ऋषिपत्नीं शतक्रतुः । धर्षयित्वा मुनेश्शापात्तत्रैव विफलः कृतः । इदानीं कुप्यते देवान् देवराजः पुरन्दरः ॥ इत्यधिकं-ङ.
  575. शक्रायाशु-ङ.
  576. नन्विदमयुक्तभ्, न हि मेषा अवृषणा दृश्यन्त इति चेन्न-अफलः-वृषणभिन्नो यो मेषावयवः भवद्धविष्ठ्वेन कल्पितः सः भवतां परां तुष्टिं दास्यतीत्यन्वयात्-ति ॥
  577. तुष्टिं-ङ.
  578. इदमर्धं कुत्रचिन्नास्ति-ङ.
  579. अपलान् मेषान् भुञ्जते । अथापि तेषां-सवृषणानां फलैः-सवृषमेषदानफलैरयोजयन् । दातृनिति शेषः-गो. शि. अफलान्-षण्ढान् तदंशरहितान् वा । यतः तेषां फलैः-फलाभ्यामिन्द्रमयोजयन्-ति.
  580. तपसा च-ङ.
  581. श्रोत्तरमुक्तं-ग.
  582. एतदनन्तरं 'धूमेनापि परीताङ्गी दीप्तामग्निशिखामिव' इत्यधिकम्-ङ.
  583. सतुषारावरणसाभ्र-घ.
  584. तौ पादौ प्रतिजग्राह । यत्तु--पूज्यत्वबुद्धिमकरोदिति-तन्न–अग्रे काकुत्स्थ इति एकवचनात्-ति.
  585. काकुत्स्थः–लक्ष्मणसहितः रामः-शि.
  586. निवास-ङ.
  587. यागानुष्ठान-ग.
  588. मनिन्दितः-ङ.
  589. विस्मयेन-ङ.
  590. एतदनन्तरं-पुण्डरीकविशालाक्षौ वरायुधधरावुभौ ॥
    बद्धगोधाङ्गुलित्राणौ खड्गवन्तौ महाद्युती। काकपक्षधरौ वीरौ कुमाराविव पावकी। रूपौदार्यगुणैः पुंसां दृष्टिचित्तापहारिणौ ॥ प्राकाश्यं कुलमस्माक मामुद्धर्तुमिहागतौ । इत्यधिकं कचित् ॥ ङ.
  591. यथावृत्तं पुरातनम्-ङ.
  592. दैवेन-घ. ङ.
  593. यदनुष्ठि-ङ.
  594. रामसन्दर्शनादित इति । तृतीयार्थे तसिः-गो. इतः अस्मात् रामसन्दर्शनात् मम माता मम गुरुणा-पित्रा सह संगता अपि ? -रा.
  595. प्राप्तः-ङ.
  596. शान्तेन मनसा उपलक्षितो गुरुः-गो. ति.
  597. पूजितेना-ङ. ज.
  598. वेत्स्येनं-घ.
  599. वेत्सीत्यत्र काकुः-गो.
  600. सर्वज्ञः-ङ.
  601. भूप्रतिष्ठा प्रधाना वसिष्ठा-घ.
  602. सुभृताः-ङ.
  603. विनयान्वितम्-ङ- ज.
  604. प्रहसन्निवोत्तमातिथिलाभजहर्षेण-ति, इव शब्द एवार्थे, प्रहसन् सन्नेव-शि.
  605. महामुनिः-ङ.
  606. प्रियवाक्येन-ङ.
  607. षाडवाः भक्ष्यविशेषाः–तेषां पूर्णानि-तैः पूर्णानीत्यर्थः ; 'पूरणगुण' इत्यादिना तृतीयार्थे षष्ठी। गौडानि–गुडविकाराः । अत्रापि आसन्निति शेषः-गो.
  608. षड्रसानां, खाण्डवानां-ङ. ज.
  609. भागजनानि-ङ.
  610. परित्यगं प्रत्यर्हा, यद्वा परित्यागं प्राप्तुमर्हा न इत्यर्थः ।
  611. अस्य-आयत्तपदस्य
  612. श्वेताश्वानां चतुर्भिः युजः ।
  613. हे राजन् ! कथञ्जन शबलां न दास्यामीति भगवान् प्राह-इति योजना ।
  614. अतोमूलाः-च. ज.
  615. राजभटैः-ङ.
  616. डियेयं-ड.ज.
  617. एतदनन्तरं-इति सा चिन्तयित्वा तु
    विनिश्वस्य पुनःपुनः । जगाम वेगेन तदा वसिष्ठं परमौजसम् ॥– इत्यधिकं-ङ.
  618. बलान्मत्तो-ज.
  619. मह्यं-मम बलं न हि तद्वलेन तुल्यमित्यर्थः । तपोबलेन तर्हि दण्ड्यता-मित्यत्राह-राजा त्विति । राजत्वात् तपोबलेन न दण्ड्य इति भावः । तद्वक्ष्यति किष्किन्धायां-'राजानो वानरश्रेष्ठ....तान्न हिंस्यात्.... ' इति । अद्य-कृतातिथ्यके दिने, अतिथित्वात् विशेषतोऽवध्यः-ति ॥
  620. तुभ्यं तव बलं अप्रमेयम् । महावीर्योऽपि विश्वामित्रः त्वया-त्वत्तः न बलवत्तरः ॥
  621. अप्रमेयबलं-ङ.
  622. त्वत्तो, त्वस्य-ङ.
  623. कामधेनुत्वान्नियोगापेक्षा; परकाम्यार्थसृष्टावेव तस्याः सामर्थ्यात्-ति.
  624. आरुजति-हिनस्तीति-आरुजं-गो.
  625. परबलार्दनम्-ङ.
  626. हुङ्कार-ङ.
  627. पह्लवाः-ङ.पह्लवा-ज.पल्लवा-झ. [एवमुत्तरत्रापि]
  628. योगतः-योगमहिम्ना । तिरश्चोऽपि ब्रह्मप्रसादात् योगशक्तिरस्तीति ज्ञेयम्-गो.
  629. अत्र 'तस्या इत्यादि चत्वारः' 'दृष्ट्वेत्यादि षट्' इति गोविन्दराजीये दृश्यते.दृश्यते तु सर्वत्र तस्या इत्यादि श्लोकत्रयमेव ।
  630. हुंकारवा ङ.ज.
  631. बर्बराः-ङ. ज.
  632. हारीकाः-ज.
  633. भग्नदंष्ट्र उरग इव; निश्शक्तिरिति शेषः-गो.निर्वेगत्वे समुद्रोपमा,निष्प्रभत्वे इतरे उपमे-ति. निर्वेगः समुद्र इव भग्नदंष्ट्र उरग इव उपरक्तः-आदित्य इव सद्यो निष्प्रभतां गतः-शि.
  634. निष्प्रभत्वे भग्नदंष्ट्रोरगदृष्टान्तः-ग.
  635. उपनिषद इति । 'द्वन्द्वात् चुदषहान्तात् समाहारे' इति टच् । अदन्तो वा-शि.
  636. नानादिग्भ्य इति द्वितीयार्थे चतुर्थी-गो.-ति. 'गत्यर्थानां द्वितीयाचतुर्थ्यौ' इत्यनुशासनविहिता चतुर्थी-शि.
  637. वदतो वसिष्ठस्येत्यत्र अनादरे षष्ठी
  638. विधूममिव कालाग्निं-उ.
  639. एतदनन्तरं 'प्राहिणोत्तद्वसिष्ठाय विश्वामित्रो महाबलः 'इत्यधिकम् ङ.
  640. ते दर्पं तव शस्त्रस्य च दर्पं नाशयामि-गो. यत् ते बलं तत् विदर्शय तव शस्त्रस्य दर्पं-गर्वं अद्यैवाहं नाशयामि-शि.
  641. क्षत्रियपांसनेत्यनन्तरं वसिष्ठोऽब्रवीदित्यनुक्कृष्यते-गो.
  642. जपतां श्रेष्ठे इत्यनेन जपवैभवमिदं ग्रसनमिति द्योतितम् । तत्–अस्त्रक्षेपणं अद्भुतमिवाभवत्, कार्यलेशस्याप्यदर्शनादिति भावः-गो.
  643. जयतां श्रेष्ठे-ङ.
  644. अग्निपुरोगमः-वायुः,
    तत्सहिताः; अग्निसहितो वायुः पुरोगमः येषां ते इति वा ति.
  645. अत्र ग्रासक्रियायां न दण्डस्यान्वयः पुत्रैर्गर्दभी भारं वहतीतिवत् । अतो न वक्ष्यमाणेन विरोधः-गो.
  646. ऋषेः विश्वामित्रब्रह्मास्त्राकुलत्वात् धूमाकुलार्चिष्ट्वमग्नेर्विशेषणम्-ति.
  647. सधूम इव-ङ.
  648. जयतां वरं-ङ.
  649. तेजसि-ङ.
  650. विश्वामित्रोऽपि निकृतः-ङ.
  651. श्लोकद्वयमेकवाक्यम्.
  652. एतदनन्तरं-फलमूलाशनो दान्तः चकार परमं तपः ॥ इत्यधिकं-ङ.
  653. आर्षमात्मनेपदम्-गो.
  654. अत्र 'त्रिविष्टपं जगाम' इत्युक्त्या तत्र इन्द्रं
    संस्थापयामासेति ध्वनितम् । तेन इन्द्रस्य विश्वामित्रतपोभीतत्वं व्यञ्जितम्-शि.
  655. समन्युः-सदैन्यः-'मन्युदैन्ये क्रतौ ऋषि' इत्यमरः-गो. ति.
  656. एतन्मात्रं मत्तपः फलं न भवति, ब्राह्मण्यस्यैव मदभिमतत्वादिति भावः-गो.
  657. एतदनन्तरं 'कोपेन महताविष्टस्त्रैलोक्यं व्यथयन्निव' इत्यधिकम्-ङ
  658. स्वशरीरेण-ङ.
  659. अशक्यत्वं च--न ऋषेरसामर्थ्यात्, नापि तादृशकर्मविधानाभावात्,'सशरीर एव स्वर्गं लोकमेति' इति श्रुतेः । किन्तु, त्रिशङ्कोस्तादृश स्वर्गप्राप्तिर्नास्तीति पूर्वकल्पवृत्तज्ञानादिति मन्तव्यम्- गो.
  660. तस्य-वसिष्ठस्य पुत्रान् नृपः-त्रिशङ्कुः गतः-प्राप्तः ।
  661. मनस्विनः-ङ.
  662. महातेजाः-ङ.
  663. सुमहाभागान्; सुमहातेजाः-ङ.
  664. शरणं गतः-ङ. ज.
  665. एतदनन्तरं-पुरोधसस्तु विद्वांसस्तारयन्ति सदा नृपान्-इत्यधिकम्-ङ.
  666. त्रैलोकस्यापि याजने शक्तः-शि.
  667. कथंकर्तुं-ङ.
  668. वयम्-ङ.
  669. विशेषतः-ङ.
  670. एतदनन्तरम्-तच्छ्रुत्वा घोरसंकाशं ऋषिपुत्रैश्च भाषितम् । प्राविशत् स्वपुरं राजा चिन्तयामास दुःखितः-इत्यधिकम्-ङ.
  671. अत्र चण्डालत्वं न तत्सादृश्यमात्रं, किन्तु क्षत्रियत्वप्रहाणेन चण्डालत्वजातिप्राप्तिः । ब्राह्मणत्वादिजातेः कर्ममूलत्वेन तदपाये तदपायात्-गो ।
    परन्तु अनन्तरसर्गे प्रथम-चतुर्थश्लोक व्याख्यानावसरे गोविन्दराजैरेव त्रिशङ्कुयाजनोपपादनाय त्रिशङ्कोः जातिचण्डालत्वाभाव उक्त । चण्डालत्वजातिरेव द्विविधा कर्ममूला,वंशमूला चेति इत्युक्तिरपि शब्दभेदमात्रे पर्यवस्येत् । षष्टितम सर्गान्तगतं एतद्व्याख्यानं च द्रष्टव्यम् ।
    चण्डालतां-चाण्डालरूपम्-शि.
  672. चण्डालतां गतः केन हेतुनेति शेषः-गो. एतेन त्रिशङ्कुशापः पूर्वमेव विश्वामित्रेण श्रुत इति ध्वनितम्-शि.
  673. चण्डालतां गतो राजा तद्वाक्यमाज्ञाय अब्रवीदिति योजना.
  674. माकर्ण्य-ज.
  675. तत्कर्म-ङ.
  676. हे सौम्पदर्शन ! सशरीरोऽहं दिवं यायामिति हेतोः ऋतुशतं मे इष्टं-मदिच्छाविषयीभूतं; तत्-क्रतुशतं मया नावाप्यते--अत एव फलं-सशरीरस्वर्गगमनं च नावाप्यते-शि.
  677. सौम्यदर्शन-ङ.ज.
  678. क्रतुशतं न कृतं त्वयेति चेत्-तत्राह-अनृतमिति । ति गुरोः गुरुपुत्राणां वा अपराधान्तरं मया न कृतमिति बोधयितुमाह-अनृतमिति । मे-मया ।- शि. वसिष्ठ-प्रत्याख्यानमूलं पापं मयि नास्तीत्याशयेनाह-अनृतमिति । यद्वा-'यज्ञोऽनृतेन क्षरति' इति वचनात् ऋतुनाशकत्वेनावगतं अनृतमपि मयि नास्तीत्याह-मे-मया-गो.
  679. ते तुभ्यम् ।
  680. पूर्वं सशरीरत्वसाधनक्रतुशतमुक्तम् अत्र नित्यकर्मेति भिदा । यद्वा,पूर्वे क्रतुशतं इष्टं-यष्टुमुपक्रान्तं; तच्च तादृशक्रत्वनुष्ठानमनोरथः नावाप्यत इत्यर्थः-गो.
  681. प्रयतमानस्येति सप्तम्यर्थे षष्ठी ममेति शेषः-गो.
  682. प्रपश्यामि-ङ.
  683. जातिचण्डालस्य कदाचित् तद्भावनिवृत्तिरस्ति, न तु कर्मचण्डालस्येत्याह-उक्तवाक्यमित्यादि । साक्षाच्चण्डालरूपिणं, चण्डालचिह्नधारित्वात् न शास्त्रगम्यचण्डालभाव इत्यर्थः-गो. 'साक्षादब्रवीदित्यनेन' चण्डालः साक्षादभिभाषणानर्ह इति निषेधस्य अनर्हः स इति ध्वनितम् । तेन कर्मणा जात्या च स न चण्डाल इति व्यञ्जितम् । अत एव चाण्डालरूपिणमिति विशेषणम्-शि
  684. शापाच्चण्डालरूपिणम्-ङ.
  685. वासिष्ठ इति स्यात् ।
  686. भक्त्वा चाण्डाल-ङ.
  687. इदं वचनम-ङ.
  688. यद्दूष-ङ
  689. क्षयं गृहम् ।
  690. मृतपाः श्वपाकाः-शि । मुष्टिकाः-हीनजातिविशेषाः-गो । मृतपाः-शववस्त्रादिहारिणः मुष्टिकाः-तन्नामानः, ति.
  691. अस्मिन् सर्गे षष्ठश्लोकानन्तरगताधिकार्धेन साकं गतसर्गगतमधिकमधेमत्र परिगणितं स्यात् ॥
  692. ज्ञात्वा-ङ.ज.
  693. स्वेनानेन-ङ.ज.
  694. देवलोकं-ङ.
  695. सर्वदेवताः प्रतीति शेषः-गो.भागार्थ सर्वदेवताः आवाहनं चकार-सर्वदेवता इति षष्ठ्येकवचनम् । आगमशास्त्रस्य अनित्यत्वात् याडभावः-शि.
  696. मया स्वार्जितमित्यन्वयः । स्वस्मै आजित-शि. सुष्टु आर्जितं-गो.
  697. भूयः गच्छेत्यन्वयः ।
  698. द्भुवि-ङ.
  699. महातपाः-ङ.
  700. कृत्वा-ङ.
  701. अन्यमिन्द्रं अहं करिष्यामि-रचयिष्यामि वा, सति प्रबलप्रतिबन्धे लोकः-मद्रचितः स्वर्गः अनिन्द्रक-इन्द्ररहित एव स्यात्-शि.
    फलकम्:Gapअन्यमिन्द्रं करिष्यामि-विद्यमानलोकस्यान्यमिन्द्रं करिष्यामि; अनिन्द्रको लोको वा स्यात्–इन्द्ररहितं लोकान्तरं वा करिष्यामीत्यर्थः । अत एवाहुराचार्याः–'अन्येन्द्रकं भुवनमन्यदनिन्द्रकं वा कर्तुं क्षमे कविरभूदयमन्ववाये' इति । अस्मिन्नर्थे इन्द्रं नाशयिष्यामीत्यर्थः, सोऽनुचितः । सृष्ट्यन्तरोपक्रमविरोधात् । 'दैवतान्यपि स क्रोषात स्रष्टुं
    समुपचक्रमे' इत्यनन्तरविरोधाच्च-गो. तिलके गोविन्दराजीये च कतकरीत्यैव श्लोकोऽयं व्याख्यातः । एतदर्धान्ते इतिकरणं द्रष्टव्यम् ॥
    फलकम्:Gapइदमत्र बोध्यम्-कुपितस्य विश्वामित्रस्य स्वेष्टविरोधिविद्यमानेन्द्रनाशप्रतिज्ञैव युज्यते । न च तावता सृष्ट्यन्तरोपक्रम विरोधः । शिरोमणिरीत्या व्याख्याने विरोधाभावात् । अतः एवं व्याख्यानेऽपि नाचार्योक्तिविरोधः । वस्तुतस्तु विद्यमानेन्द्रनाशनं न विश्वामित्राभिमतम्, 'प्रजापतिरिवापरः सृजन् दक्षिणभार्गस्थान्' इति वचनेन प्रतिस्पर्धिस्वर्गान्तरसृष्ट्युपक्रमकथनात्। अतः स्वसृज्यमानं भुवनं अन्येन्द्रकं-स्वेष्टानुसारीन्द्रविशिष्टं, अथवा किं अतिरिक्तेन्द्रसर्गेण ? तत्र त्रिशङ्कुरेवेन्द्रस्थानापन्नो भवत्वित्यर्थ एव स्वरसः । आचार्यसूक्तावपि- ‘अन्यद्भुवनं-अन्येन्द्रकं अनिन्द्रकं वा कर्तुम्' इत्यन्वयः ।
    अतो न कश्चन विरोध इति ॥
  702. निरिन्द्रः-ग.
  703. सचारणाः-ङ.
  704. ज्येष्ठपत्न्याः कनिष्ठपत्न्यामिवेत्यर्थः
  705. दिवं-ब्रह्मसृष्ट, स्वत्सृष्टं वा स्वर्गम्-ति.
  706. स्वमहा-ग.
  707. तानि सर्वाणि-ङ.
  708. अमरकृत्यः -क.
  709. ब्रह्मलोक-ङ.
  710. तथा-ङ च
  711. ऋषिमध्ये-ङ.
  712. देवता इति द्वितीयाबहुवचनान्तम् ।
  713. यज्ञस्यान्त इत्यनेन विश्वामित्रेण यजमान-प्रतिनिधिं कृत्वा यज्ञः समापितः, देवैः भागश्च गृहीत इति गम्यते-गो. यज्ञस्य-विश्वामित्रसमापितयज्ञस्य अन्ते जग्मुः-शि.
  714. शार्दूलः-ङ
  715. दक्षिणां दिशमासमन्तात् व्याप्य स्थितः अयं महाविघ्नः प्रवृत्तः-ति.प्रवृत्तः–प्रकृष्टं वृत्तं-वृत्तान्तो यस्मिन्, सोऽयं महान् विघ्नः दक्षिणां दिशं आस्थितः-प्राप्तः-शि.
  716. प्रवृत्तोऽयं-ङ. ज.
  717. पशुः अद्य हृतः, केनचिदिति शेषः । अत एव प्रणष्टः-अदृश्यतां प्राप्तः-शि.
  718. रव हृतः-ङ.
  719. एतत्-पशुनाशरूपं महत् प्रायश्चित्तं-महतः प्रायश्चित्तस्य कारणम् । प्रक्रान्तं कर्म यावत् प्रवर्तते-प्रवर्तिष्यते तावत्-ततः प्रागेव नष्टं पशुमन्विष्यानय;तत्प्रतिनिधित्वेन क्रीत्वा नरं वा पशुमानयेत्यर्थः-नि. । 'वा' कारेण पशुं वाऽन्विष्यानयस्वेति लभ्यते-गो.
  720. तात-ङ.च.
  721. मृगुतुङ्गं-पर्वतशृङ्गविशेषः-ति.
  722. पुत्रं, तुङ्गे-ङ,
  723. तमिदं वच उवाचेति पूर्वेणान्वयः ।
  724. यज्ञियं-ङ.ज.
  725. छे-ग.
  726. कनीयसमित्यार्षं-एवमुत्तरत्रापि ॥
  727. 'शुनश्शेपः' इत्यप्यस्य नाम,
  728. अनादरे षष्ठी
  729. मागत्य-ङ. च.
  730. अयं वृत्तान्तः गते ३४ तमे सर्गे द्रष्टव्यः. ॥ २ ॥
  731. स्वारक्षकत्वेन मात्रादीनां असत्प्रायत्वादेवमुक्तिः
  732. कुरु इति-ग.
  733. किल्बिषात्-जीवविपत्ति-रूपात्-ति.
  734. शान्तयित्वा-ड.
  735. पुत्रान् स्वपुत्रान्
  736. यस्य प्रयोजनस्य कृते पुत्रान् जनयन्ति,मम युष्माकं च परलोकहितार्थाय धर्माय तस्य वाक्यकरणस्य अयं काल आगतः, जीवतोर्वाक्यकरणात्' इति स्मृतेः-गो. हे परलोकहितार्थाः ! परलोकहितं-परलोकप्राप्तिः अर्थः-प्रयोजनं येषां ते-हे परलोकप्रापकपुत्राः !- शि.
  737. च कृत-ड.
  738. नरेन्द्रस्य पशुभूताः-शि. नरेन्द्रसम्बन्धियज्ञीयाग्नेरित्यर्थः ॥
  739. मधुस्यन्दा, मधुच्छन्दा-ङ.
  740. हत्वा-ङ.
  741. भोजने भोज्ये प्राप्ते तत्परित्यागेन श्वमांसभक्षणमिवाकार्यमित्यर्थः-गो.
  742. निरामयाम्-ङ.
  743. राबद्बो-ङ.
  744. अम्बरीष महाभाग-ङ.
  745. स तस्या-ङ.
  746. सदस्यानुमते स्थित इति शेषः-गो.
  747. पवित्रीकृत-ङ.
  748. यज्ञस्य फलं सम्यक् आप्तवान् इत्यन्वयः ।
  749. एतरेयब्राह्मणे त्रयस्त्रिंशाध्याये इयमाख्यायिका पठ्यते.
  750. गोविन्दाराजैरप्येवमेव विरोधः परिहरणीय इत्युक्तम् । तिलके तु, उपाख्यानद्वयं भिन्नमेव । रामायणगतशुनःशेफोपाख्यानस्य मूलभूता श्रुतिश्चान्वेष्येति बहव इत्युक्त्वा, कतकव्याख्याप्यनूदिता ॥
  751. विश्वामित्रं-ङ.
  752. चिकीर्षया-ङ.
  753. सानुनयं-ङ.
  754. अप्सरा इत्यार्षं-ति. 'स्त्रियां बहुष्वप्सरसः' इति कोशात् अप्सश्शब्दस्य नित्यबहुवचनान्तत्वमाशङ्क्याह-अप्सरश्शब्द इति ।
  755. सामर्षा-देवेषु ; विघ्नस्य तत्कृतत्वज्ञानात्-ति.
  756. सत्यं सुराणां-ङ.
  757. देवा-ग.
  758. अहोरात्रव्याजेन दश संवत्सरा गता इति वाऽर्थः । पश्यत एव एकैकदिनशः दश संवत्सरा गता इति तात्पर्यम् । प्रत्युपस्थित इत्यनन्तरं 'इति' इत्यध्याहार्यं; इति बुद्धिस्समुत्पन्नेति पूर्वेणान्वयः ।
  759. नैष्ठिकीं-कामस्याप्यकरणं सङ्कल्प्य अत्युत्कृष्टब्रह्मचर्यविषयाम्-ति. जेतुकामः-काममिति शेषः ।
  760. तस्य वर्षसहस्राणि, तस्य वर्षसहस्रेण- ङ. ज.
  761. समागम्य-समुपसृत्येत्यर्थः ।
  762. भगवन्निति ब्रह्माणं प्रति देवानां सम्बोधनम् ।
  763. एतदनन्तरं 'न विषण्णो न सन्तुष्टो विश्वामित्रस्तपोधनः'
    इत्यधिकं-ङ.झ.
  764. सर्वलोकेश्वरस्य ह-ङ.झ.
  765. आह-ग.
  766. सर्वलोकपितामहम्-ङ. झ.एतदनन्तरं 'प्रत्युवाच ततो वाचं विश्वामित्रो महामुनिः 'इत्यधिकम्- ङ. झ.
  767. महर्षिशब्द-ङ. ज. च.
  768. यदि महर्षित्वं भवता दत्तं, ततोऽहं विजितेन्द्रियश्चास्मीत्यर्थः- गो. ब्रह्मर्षि शब्दं मदभीष्टं स्वार्जितैः शुभैः कर्मभिः प्राप्यं यदि-यतः भगवान्नाह-न वदति, ततो मन्येऽहं विजितेन्द्रियः; अत्र काकुः, न विजितेन्द्रिय इत्यर्थः-ति. महर्षिशब्दं मे-मह्यं यदि भगवानाह, ततः-तस्माद्धेतोः अहं विजितेन्द्रियोऽस्मीत्यर्थः । तेन तस्येन्द्रियजयजनितो गर्वो ध्वनितः- शि.
  769. भगवानाह-ङ.च.
  770. विकारहेतुसन्निधानेऽपि यावन्न विकरोपि तावन्तं कालं त्वं न जितेन्द्रिय इत्यर्थः-गो.
  771. यतस्व-ङ.
  772. संप्रस्थितेषु-ङ.
  773. सलिले शायी-ङ. ज.
  774. एवं कथयतोऽप्यस्य व्याख्यातुः अत्र सर्गविच्छेदः सम्मत एव । यत उत्तरत्र तथैवर्गान् गणयति । पूर्वं चाह-'काण्डे किलाद्ये संस्थानं (७७) इति । सर्वेषु कोशेष्वप्येवमेव दृश्यते । अनन्तरश्लोके च 'तिष्ठतु वा सर्गोच्छेदः' इत्याह ।
  775. मातृकासु एतत्स्थले सर्गविच्छेदो लिखितः । 'सुरकार्यमिदं' इत्यादेर्व्याख्यानं तु अनन्तरसर्गे लिखितम् ।