श्रीमद्भागवत महापुराण/स्कन्धः १२/अध्यायः ३

विकिस्रोतः तः
Jump to navigation Jump to search
← श्रीमद्भागवतपुराणम्/स्कन्धः १२/अध्यायः २ श्रीमद्भागवत महापुराण/स्कन्धः १२/अध्यायः ३
[[लेखकः :|]]
श्रीमद्भागवतपुराणम्/स्कन्धः १२/अध्यायः ४ →


श्रीशुक उवाच –
(अनुष्टुप्)
दृष्ट्वाऽऽत्मनि जये व्यग्रान् नृपान् हसति भूरियम् ।
 अहो मा विजिगीषन्ति मृत्योः क्रीडनका नृपाः ॥ १ ॥
 काम एष नरेन्द्राणां मोघः स्याद् विदुषामपि ।
 येन फेनोपमे पिण्डे येऽतिविश्रम्भिता नृपाः ॥ २ ॥
 पूर्वं निर्जित्य षड्वर्गं जेष्यामो राजमंत्रिणः ।
 ततः सचिवपौराप्त करीन्द्रानस्य कण्टकान् ॥ ३ ॥
 एवं क्रमेण जेष्यामः पृथ्वीं सागरमेखलाम् ।
 इति आशाबद्ध हृदया न पश्यन्ति अन्तिकेऽन्तकम् ॥ ४ ॥
 समुद्रावरणां जित्वा मां विशन्त्यब्धिमोजसा ।
 कियदात्मजयस्यैतन् मुक्तिरात्मजये फलम् ॥ ५ ॥
 यां विसृज्यैव मनवः तत्सुताश्च कुरूद्वह ।
 गता यथागतं युद्धे तां मां जेष्यन्त्यबुद्धयः ॥ ६ ॥
 मत्कृते पितृपुत्राणां भ्रातृणां चापि विग्रहः ।
 जायते ह्यसतां राज्ये ममता-बद्धचेतसाम् ॥ ७ ॥
 ममैवेयं मही कृत्स्ना न ते मूढेति वादिनः ।
 स्पर्धमाना मिथो घ्नन्ति म्रियन्ते मत्कृते नृपाः ॥ ८ ॥
 पृथुः पुरूरवा गाधिः नहुषो भरतोऽर्जुनः ।
 मान्धाता सगरो रामः खट्वाङ्‌गो धुन्धुहा रघुः ॥ ९ ॥
 तृणबिन्दुर्ययातिश्च शर्यातिः शन्तनुर्गयः ।
 भगीरथः कुवलयाश्वः ककुत्स्थो नैषधो नृगः ॥ १० ॥
 हिरण्यकशिपुर्वृत्रो रावणो लोकरावणः ।
 नमुचिः शंबरो भौमो हिरण्याक्षोऽथ तारकः ॥ ११ ॥
 अन्ये च बहवो दैत्या राजानो ये महेश्वराः ।
 सर्वे सर्वविदः शूराः सर्वे सर्वजितोऽजिताः ॥ १२ ॥
 ममतां मय्यवर्तन्त कृत्वोच्चैर्मर्त्यधर्मिणः ।
 कथावशेषाः कालेन ह्यकृतार्थाः कृता विभो ॥ १३ ॥
(मिश्र-१२)
कथा इमास्ते कथिता महीयसां
     विताय लोकेषु यशः परेयुषाम् ।
 विज्ञानवैराग्यविवक्षया विभो
     वचोविभूतीर्न तु पारमार्थ्यम् ॥ १४ ॥
(इंद्रवज्रा)
यस्तु उत्तमश्लोकगुणानुवादः
     संगीगीयतेऽभीक्ष्णममंगगलघ्नः ।
 तमेव नित्यं श्रृणुयादभीक्ष्णं
     कृष्णेऽमलां भक्तिमभीप्समानः ॥ १५ ॥
 श्रीराजोवाच -
(अनुष्टुप्)
केनोपायेन भगवन् कलेर्दोषान् कलौ जनाः ।
 विधमिष्यन्ति उपचितान् तन्मे ब्रूहि यथा मुने ॥ १६ ॥
 युगानि युगधर्मांश्च मानं प्रलयकल्पयोः ।
 कालस्येश्वररूपस्य गतिं विष्णोर्महात्मनः ॥ १७ ॥
 श्रीशुक उवाच -
कृते प्रवर्तते धर्मः चतुष्पात् तज्जनैर्धृतः ।
 सत्यं दया तपो दानं इति पादा विभोर्नृप ॥ १८ ॥
 सन्तुष्टाः करुणा मैत्राः शान्ता दान्ताः तितिक्षवः ।
 आत्मारामाः समदृशः प्रायशः श्रमणा जनाः ॥ १९ ॥
 त्रेतायां धर्मपादानां तुर्यांशो हीयते शनैः ।
 अधर्मपादैः अनृत हिंसासंतोषविग्रहैः ॥ २० ॥
 तदा क्रियातपोनिष्ठा नातिहिंस्रा न लंपटाः ।
 त्रैवर्गिकास्त्रयीवृद्धा वर्णा ब्रह्मोत्तरा नृप ॥ २१ ॥
 तपःसत्यदयादानेषु अर्धं ह्रस्वति द्वापरे ।
 हिंसातुष्ट्यनृतद्वेषैः धर्मस्य-अधर्मलक्षणैः ॥ २२ ॥
 यशस्विनो महाशीलाः स्वाध्यायाध्ययने रताः ।
 आढ्याः कुटुम्बिनो हृष्टा वर्णाः क्षत्रद्विजोत्तराः ॥ २ ॥
 कलौ तु धर्महेतूनां तुर्यांशोऽधर्महेतुभिः ।
 एधमानैः क्षीयमाणो ह्यन्ते सोऽपि विनङ्‌क्ष्यति ॥ २४ ॥
 तस्मिन् लुब्धा दुराचारा निर्दयाः शुष्कवैरिणः ।
 दुर्भगा भूरितर्षाश्च शूद्रदासोत्तराः प्रजाः ॥ २५ ॥
 सत्त्वं रजस्तम इति दृश्यन्ते पुरुषे गुणाः ।
 कालसञ्चोदितास्ते वै परिवर्तन्त आत्मनि ॥ २६ ॥
 प्रभवन्ति यदा सत्त्वे मनोबुद्धीन्द्रियाणि च ।
 तदा कृतयुगं विद्यात् ज्ञाने तपसि यद् रुचिः ॥ २७ ॥
 यदा धर्मार्थ कामेषु भक्तिर्यशसि देहिनाम् ।
 तदा त्रेता रजोवृत्तिः इति जानीहि बुद्धिमन् ॥ २८ ॥
 यदा लोभस्तु असन्तोषो मानो दम्भोऽथ मत्सरः ।
 कर्मणां चापि काम्यानां द्वापरं तद् रजस्तमः ॥ २९ ॥
 यदा मायानृतं तन्द्रा निद्रा हिंसा विषादनम् ।
 शोकमोहौ भयं दैन्यं स कलिस्तामसः स्मृतः ॥ ३० ॥
 यस्मात् क्षुद्रदृशो मर्त्याः क्षुद्रभाग्या महाशनाः ।
 कामिनो वित्तहीनाश्च स्वैरिण्यश्च स्त्रियोऽसतीः ॥ ३१ ॥
 दस्यूत्कृष्टा जनपदा वेदाः पाषण्डदूषिताः ।
 राजानश्च प्रजाभक्षाः शिश्नोदरपरा द्विजाः ॥ ३२ ॥
 अव्रता वटवोऽशौचा भिक्षवश्च कुटुम्बिनः ।
 तपस्विनो ग्रामवासा न्यासिनोऽत्यर्थलोलुपाः ॥ ३३ ॥
 ह्रस्वकाया महाहारा भूर्यपत्या गतह्रियः ।
 शश्वत्कटुकभाषिण्यः चौर्यमायोरुसाहसाः ॥ ३४ ॥
 पणयिष्यन्ति वै क्षुद्राः किराटाः कूटकारिणः ।
 अनापद्यपि मंस्यन्ते वार्तां साधु जुगुप्सिताम् ॥ ३५ ॥
 पतिं त्यक्ष्यन्ति निर्द्रव्यं भृत्या अप्यखिलोत्तमम् ।
 भृत्यं विपन्नं पतयः कौलं गाश्चापयस्विनीः ॥ ३६ ॥
 पितृभ्रातृसुहृत् ज्ञातीन् हित्वा सौरतसौहृदाः ।
 ननान्दृश्यालसंवादा दीनाः स्त्रैणाः कलौ नराः ॥ ३७ ॥
 शूद्राः प्रतिग्रहीष्यन्ति तपोवेषोपजीविनः ।
 धर्मं वक्ष्यन्ति अधर्मज्ञा अधिरुह्योत्तमासनम् ॥ ३८ ॥
 नित्यं उद्विग्नमनसो दुर्भिक्षकरकर्शिताः ।
 निरन्ने भूतले राजन् अनावृष्टिभयातुराः ॥ ३९ ॥
 वासोऽन्नपानशयन व्यवायस्नानभूषणैः ।
 हीनाः पिशाचसन्दर्शा भविष्यन्ति कलौ प्रजाः ॥ ४० ॥
 कलौ काकिणिकेऽप्यर्थे विगृह्य त्यक्तसौहृदाः ।
 त्यक्ष्यन्ति च प्रियान्प्राणान् हनिष्यन्ति स्वकानपि ॥ ४१ ॥
 न रक्षिष्यन्ति मनुजाः स्थविरौ पितरौ अपि ।
 पुत्रान् सर्वार्थ कुशलान् क्षुद्राः शिश्नोदरंभराः ॥ ४२ ॥
(मिश्र-१२)
कलौ न राजन् जगतां परं गुरुं
     त्रिलोकनाथानतपादपङ्‌कजम् ।
 प्रायेण मर्त्या भगवन्तमच्युतं
     यक्ष्यन्ति पाषण्डविभिन्नचेतसः ॥ ४३ ॥
 यन्नामधेयं म्रियमाण आतुरः
     पतन् स्खलन् वा विवशो गृणन् पुमान् ।
 विमुक्तकर्मार्गल उत्तमां गतिं
     प्राप्नोति यक्ष्यन्ति न तं कलौ जनाः ॥ ४४ ॥
(अनुष्टुप्)
पुंसां कलिकृतान् दोषान् द्रव्यदेशात्मसंभवान् ।
 सर्वान् हरति चित्तस्थो भगवान् पुरुषोत्तमः ॥ ४५ ॥
 श्रुतः सङ्‌कीर्तितो ध्यातः पूजितश्चादृतोऽपि वा ।
 नृणां धुनोति भगवान् हृत्स्थो जन्मायुताशुभम् ॥ ४६ ॥
 यथा हेम्नि स्थितो वह्निः दुर्वर्णं हन्ति धातुजम् ।
 एवं आत्मगतो विष्णुः योगिनां अशुभाशयम् ॥ ४७ ॥
(इंद्रवज्रा)
विद्यातपःप्राणनिरोधमैत्री
     तीर्थाभिषेक व्रतदानजप्यैः ।
 नात्यन्तशुद्धिं लभतेऽन्तरात्मा
     यथा हृदिस्थे भगवत्यनन्ते ॥ ४८ ॥
(अनुष्टुप्)
तस्मात् सर्वात्मना राजन् हृदिस्थं कुरु केशवम् ।
 म्रियमाणो हि अवहितः ततो यासि परां गतिम् ॥ ४९ ॥
 म्रियमाणैरभिध्येयो भगवान् परमेश्वरः ।
 आत्मभावं नयत्यङ्‌ग सर्वात्मा सर्वसंश्रयः ॥ ५० ॥
 कलेर्दोषनिधे राजन् अस्ति ह्येको महान् गुणः ।
 कीर्तनात् एव कृष्णस्य मुक्तसङ्‌गः परं व्रजेत् ॥ ५१ ॥
 कृते यद् ध्यायतो विष्णुं त्रेतायां यजतो मखैः ।
 द्वापरे परिचर्यायां कलौ तद् हरिकीर्तनात् ॥ ५२ ॥


इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां
संहितायां द्वादशस्कन्धे तृतीयोऽध्यायः ॥ २ ॥
 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥