श्रीमद्भागवत महापुराण/स्कंध ०८/अध्यायः १८

विकिस्रोतः तः
Jump to navigation Jump to search
← श्रीमद्भागवत महापुराण/स्कंध ०८/अध्यायः १७ श्रीमद्भागवत महापुराण/स्कंध ०८/अध्यायः १८
[[लेखकः :|]]
श्रीमद्भागवत महापुराण/स्कंध ०८/अध्यायः १९ →



भगवतो वामनस्य प्रादुर्भावः, मुनिभिर्देवैरुपनीतस्य
तस्य बलियज्ञाशालागमनम्, बलिकर्तृकं भगवतोऽभ्यर्हणं च -


श्रीशुक उवाच -
इत्थं विरिञ्चस्तुतकर्मवीर्यः
     प्रादुर्बभूवामृतभूरदित्याम् ।
 चतुर्भुजः शंखगदाब्जचक्रः
     पिशंगवासा नलिनायतेक्षणः ॥ १ ॥
 श्यामावदातो झषराजकुण्डल
     त्विषोल्लसच्छ्रीवदनाम्बुजः पुमान् ।
 श्रीवत्सवक्षा बलयाङ्‌गदोल्लसत्
     किरीटकाञ्चीगुणचारुनूपुरः ॥ २ ॥
 मधुव्रातव्रतविघुष्टया स्वया
     विराजितः श्रीवनमालया हरिः ।
 प्रजापतेर्वेश्मतमः स्वरोचिषा
     विनाशयन् कण्ठनिविष्टकौस्तुभः ॥ ३ ॥
 दिशः प्रसेदुः सलिलाशयास्तदा
     प्रजाः प्रहृष्टा ऋतवो गुणान्विताः ।
 द्यौरन्तरीक्षं क्षितिरग्निजिह्वा
     गावो द्विजाः संजहृषुर्नगाश्च ॥ ४ ॥
(अनुष्टुप्)
श्रोणायां श्रवणद्वादश्यां मुहूर्तेऽभिजिति प्रभुः ।
 सर्वे नक्षत्रताराद्याः चक्रुस्तत् जन्म दक्षिणम् ॥ ५ ॥
 द्वादश्यां सवितातिष्ठन् मध्यन्दिनगतो नृप ।
 विजयानाम सा प्रोक्ता यस्यां जन्म विदुर्हरेः ॥ ६ ॥
 शंखदुन्दुभयो नेदुः मृदंगपणवानकाः ।
 चित्रवादित्रतूर्याणां निर्घोषस्तुमुलोऽभवत् ॥ ७ ॥
 प्रीताश्चाप्सरसोऽनृत्यन् गन्धर्वप्रवरा जगुः ।
 तुष्टुवुर्मुनयो देवा मनवः पितरोऽग्नयः ॥ ८ ॥
 सिद्धविद्याधरगणाः सकिंपुरुषकिन्नराः ।
 चारणा यक्षरक्षांसि सुपर्णा भुजगोत्तमाः ॥ ९ ॥
 गायन्तोऽतिप्रशंसन्तो नृत्यन्तो विबुधानुगाः ।
 अदित्या आश्रमपदं कुसुमैः समवाकिरन् ॥ १० ॥
 दृष्ट्वादितिस्तं निजगर्भसम्भवं
     परं पुमांसं मुदमाप विस्मिता ।
 गृहीतदेहं निजयोगमायया
     प्रजापतिश्चाह जयेति विस्मितः ॥ ११ ॥
 यत् तद् वपुर्भाति विभूषणायुधैः
     अव्यक्तचिद्व्यक्तमधारयद् हरिः ।
 बभूव तेनैव स वामनो वटुः
     संपश्यतोर्दिव्यगतिर्यथा नटः ॥ १२ ॥
(अनुष्टुप्)
तं वटुं वामनं दृष्ट्वा मोदमाना महर्षयः ।
 कर्माणि कारयामासुः पुरस्कृत्य प्रजापतिम् ॥ १३ ॥
 तस्योपनीयमानस्य सावित्रीं सविताब्रवीत् ।
 बृहस्पतिर्ब्रह्मसूत्रं मेखलां कश्यपोऽददात् ॥ १४ ॥
 ददौ कृष्णाजिनं भूमिः दण्डं सोमो वनस्पतिः ।
 कौपीनाच्छादनं माता द्यौश्छत्रं जगतः पतेः ॥ १५ ॥
 कमण्डलुं वेदगर्भः कुशान् सप्तर्षयो ददुः ।
 अक्षमालां महाराज सरस्वति अव्ययात्मनः ॥ १६ ॥
 तस्मा इत्युपनीताय यक्षराट् पात्रिकामदात् ।
 भिक्षां भगवती साक्षात् उमा अदात् अम्बिका सती ॥ १७ ॥
 स ब्रह्मवर्चसेनैवं सभां संभावितो वटुः ।
 ब्रह्मर्षिगणसञ्जुष्टां अत्यरोचत मारिषः ॥ ॥
 समिद्धं आहितं वह्निं कृत्वा परिसमूहनम् ।
 परिस्तीर्य समभ्यर्च्य समिद्‌भिः अजुहोद् द्विजः ॥ १९ ॥
 श्रुत्वाश्वमेधैर्यजमानमूर्जितं
     बलिं भृगूणां उपकल्पितैस्ततः ।
 जगाम तत्राखिलसारसम्भृतो
     भारेण गां सन्नमयन्पदे पदे ॥ २० ॥
 तं नर्मदायास्तट उत्तरे बलेः
     य ऋत्विजस्ते भृगुकच्छसंज्ञके ।
 प्रवर्तयन्तो भृगवः क्रतूत्तमं
     व्यचक्षतारादुदितं यथा रविम् ॥ २१ ॥
 ते ऋत्विजो यजमानः सदस्या
     हतत्विषो वामनतेजसा नृप ।
 सूर्यः किलायात्युत वा विभावसुः
     सनत्कुमारोऽथ दिदृक्षया क्रतोः ॥ २२ ॥
 इत्थं सशिष्येषु भृगुष्वनेकधा
     वितर्क्यमाणो भगवान् स वामनः ।
 छत्रं सदण्डं सजलं कमण्डलुं
     विवेश बिभ्रद् हयमेधवाटम् ॥ २३ ॥
(अनुष्टुप्)
मौञ्ज्या मेखलया वीतं उपवीताजिनोत्तरम् ।
 जटिलं वामनं विप्रं मायामाणवकं हरिम् ॥ २४ ॥
 प्रविष्टं वीक्ष्य भृगवः सशिष्यास्ते सहाग्निभिः ।
 प्रत्यगृह्णन् समुत्थाय संक्षिप्तास्तस्य तेजसा ॥ २५ ॥
 यजमानः प्रमुदितो दर्शनीयं मनोरमम् ।
 रूपानुरूपावयवं तस्मा आसनमाहरत् ॥ २६ ॥
 स्वागतेनाभिनन्द्याथ पादौ भगवतो बलिः ।
 अवनिज्यार्चयामास मुक्तसंगमनोरमम् ॥ २७ ॥
 तत्पादशौचं जनकल्मषापहं
     स धर्मविन्मूर्ध्न्यदधात्सुमंगलम् ।
 यद् देवदेवो गिरिशश्चन्द्रमौलिः
     दधार मूर्ध्ना परया च भक्त्या ॥ २८ ॥
 बलिरुवाच -
(अनुष्टुप्)
स्वागतं ते नमस्तुभ्यं ब्रह्मन् किं करवाम ते ।
 ब्रह्मर्षीणां तपः साक्षात् मन्ये त्वाऽऽर्य वपुर्धरम् ॥ २९ ॥
 अद्य नः पितरस्तृप्ता अद्य नः पावितं कुलम् ।
 अद्य स्विष्टः क्रतुरयं यद्‍भवान् आगतो गृहान् ॥ ३० ॥
 अद्याग्नयो मे सुहुता यथाविधि
     द्विजात्मज त्वच्चरणावनेजनैः ।
 हतांहसो वार्भिरियं च भूरहो
     तथा पुनीता तनुभिः पदैस्तव ॥ ३१ ॥
 यद् यद् वटो वाञ्छसि तत्प्रतीच्छ मे
     त्वामर्थिनं विप्रसुतानुतर्कये ।
 गां काञ्चनं गुणवद् धाम मृष्टं
     तथान्नपेयमुत वा विप्र कन्याम् ।
 ग्रामान् समृद्धान् तुरगान् गजान् वा
     रथान् तथार्हत्तम सम्प्रतीच्छ ॥ ३२ ॥


इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां
अष्टमस्कन्धे बलिवामनसंवादे अष्टादशोऽध्यायः ॥ १८ ॥

 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥