श्रीमद्भागवत महापुराण/स्कंध ०७/अध्यायः १०

विकिस्रोतः तः
Jump to navigation Jump to search
← श्रीमद्भागवत महापुराण/स्कंध ०७/अध्यायः ०९ श्रीमद्भागवत महापुराण/स्कंध ०७/अध्यायः १०
[[लेखकः :|]]
श्रीमद्भागवत महापुराण/स्कंध ०७/अध्यायः ११ →




प्रह्रादनृसिंहसंवादः, प्रह्रादाय वरप्रदानं तस्य
राज्येऽभिषेकः, भगवतोऽन्तर्धानं त्रिपुरदहनाख्यानं च -



नारद उवाच -
(अनुष्टुप्)
भक्तियोगस्य तत् सर्वं अन्तरायतयार्भकः ।
 मन्यमानो हृषीकेशं स्मयमान उवाच ह ॥ १ ॥
 प्रह्राद उवाच -
मा मां प्रलोभयोत्पत्त्या ऽऽसक्तंकामेषु तैर्वरैः ।
 तत्सङ्‌गभीतो निर्विण्णो मुमुक्षुस्त्वामुपाश्रितः ॥ २ ॥
 भृत्यलक्षणजिज्ञासुः भक्तं कामेष्वचोदयत् ।
 भवान् संसारबीजेषु हृदयग्रन्थिषु प्रभो ॥ ३ ॥
 नान्यथा तेऽखिलगुरो घटेत करुणात्मनः ।
 यस्त आशिष आशास्ते न स भृत्यः स वै वणिक् ॥ ४ ॥
 आशासानो न वै भृत्यः स्वामिन्याशिष आत्मनः ।
 न स्वामी भृत्यतः स्वाम्यं इच्छन् यो राति चाशिषः ॥ ५ ॥
 अहं तु अकामः त्वद्‍भक्तः त्वं च स्वाम्यनपाश्रयः ।
 नान्यथेहावयोरर्थो राजसेवकयोरिव ॥ ६ ॥
 यदि रासीश मे कामान् वरांस्त्वं वरदर्षभ ।
 कामानां हृद्यसंरोहं भवतस्तु वृणे वरम् ॥ ७ ॥
 इन्द्रियाणि मनः प्राण आत्मा धर्मो धृतिर्मतिः ।
 ह्रीः श्रीस्तेजः स्मृतिः सत्यं यस्य नश्यन्ति जन्मना ॥ ८ ॥
 विमुञ्चति यदा कामान् मानवो मनसि स्थितान् ।
 तर्ह्येव पुण्डरीकाक्ष भगवत्त्वाय कल्पते ॥ ९ ॥
 ओं नमो भगवते तुभ्यं पुरुषाय महात्मने ।
 हरयेऽद्‍भुतसिंहाय ब्रह्मणे परमात्मने ॥ ॥
 नृसिंह उवाच -
नैकान्तिनो मे मयि जात्विहाशिष
     आशासतेऽमुत्र च ये भवद्विधाः ।
 तथापि मन्वन्तरमेतदत्र
     दैत्येश्वराणामनुभुङ्‌क्ष्व भोगान् ॥ ११ ॥
 कथा मदीया जुषमाणः प्रियास्त्वं
     आवेश्य मामात्मनि सन्तमेकम् ।
 सर्वेषु भूतेष्वधियज्ञमीशं
     यजस्व योगेन च कर्म हिन्वन् ॥ १२ ॥
 भोगेन पुण्यं कुशलेन पापं
     कलेवरं कालजवेन हित्वा ।
 कीर्तिं विशुद्धां सुरलोकगीतां
     विताय मामेष्यसि मुक्तबन्धः ॥ १३ ॥
(अनुष्टुप्)
य एतत् कीर्तयेन्मह्यं त्वया गीतमिदं नरः ।
 त्वां च मां च स्मरन्काले कर्मबन्धात् प्रमुच्यते ॥ १४ ॥
 प्रह्राद उवाच -
वरं वरय एतत् ते वरदेशान् महेश्वर ।
 यद् अनिन्दत् पिता मे त्वां अविद्वांस्तेज ऐश्वरम् ॥ १५ ॥
 विद्धामर्षाशयः साक्षात् सर्वलोकगुरुं प्रभुम् ।
 भ्रातृहेति मृषादृष्टिः त्वद्‍भक्ते मयि चाघवान् ॥ १६ ॥
 तस्मात् पिता मे पूयेत दुरन्ताद् दुस्तरादघात् ।
 पूतस्तेऽपाङ्‌गसंदृष्टः तदा कृपणवत्सल ॥ १७ ॥
 श्रीभगवानुवाच -
त्रिःसप्तभिः पिता पूतः पितृभिः सह तेऽनघ ।
 यत्साधोऽस्य गृहे जातो भवान् वै कुलपावनः ॥ १८ ॥
 यत्र यत्र च मद्‍भक्ताः प्रशान्ताः समदर्शिनः ।
 साधवः समुदाचाराः ते पूयन्तेऽपि कीकटाः ॥ १९ ॥
 सर्वात्मना न हिंसन्ति भूतग्रामेषु किञ्चन ।
 उच्चावचेषु दैत्येन्द्र मद्‍भावविगतस्पृहाः ॥ २० ॥
 भवन्ति पुरुषा लोके मद्‍भक्तास्त्वां अनुव्रताः ।
 भवान्मे खलु भक्तानां सर्वेषां प्रतिरूपधृक् ॥ २१ ॥
 कुरु त्वं प्रेतकार्याणि पितुः पूतस्य सर्वशः ।
 मदङ्‌गस्पर्शनेनाङ्‌ग लोकान्यास्यति सुप्रजाः ॥ २२ ॥
 पित्र्यं च स्थानमातिष्ठ यथोक्तं ब्रह्मवादिभिः ।
 मय्यावेश्य मनस्तात कुरु कर्माणि मत्परः ॥ २३ ॥
 नारद उवाच -
प्रह्रादोऽपि तथा चक्रे पितुर्यत्साम्परायिकम् ।
 यथाह भगवान् राजन् अभिषिक्तो द्विजोत्तमैः ॥ २४ ॥
 प्रसादसुमुखं दृष्ट्वा ब्रह्मा नरहरिं हरिम् ।
 स्तुत्वा वाग्भिः पवित्राभिः प्राह देवादिभिर्वृतः ॥ २५ ॥
 ब्रह्मोवाच -
देवदेवाखिलाध्यक्ष भूतभावन पूर्वज ।
 दिष्ट्या ते निहतः पापो लोकसन्तापनोऽसुरः ॥ २६ ॥
 योऽसौ लब्धवरो मत्तो न वध्यो मम सृष्टिभिः ।
 तपोयोगबलोन्नद्धः समस्तनिगमानहन् ॥ २७ ॥
 दिष्ट्यास्य तनयः साधुः महाभागवतोऽर्भकः ।
 त्वया विमोचितो मृत्योः दिष्ट्या त्वां समितोऽधुना ॥ २८ ॥
 एतद् वपुस्ते भगवन् ध्यायतः प्रयतात्मनः ।
 सर्वतो गोप्तृ सन्त्रासान् मृत्योरपि जिघांसतः ॥ २९ ॥
 नृसिंह उवाच -
मैवं विभोऽसुराणां ते प्रदेयः पद्मसम्भव ।
 वरः क्रूरनिसर्गाणां अहीनां अमृतं यथा ॥ ३० ॥
 नारद उवाच -
इत्युक्त्वा भगवान् राजन् ततश्चान्तर्दधे हरिः ।
 अदृश्यः सर्वभूतानां पूजितः परमेष्ठिना ॥ ३१ ॥
 ततः सम्पूज्य शिरसा ववन्दे परमेष्ठिनम् ।
 भवं प्रजापतीन् देवान् प्रह्रादो भगवत्कलाः ॥ ३२ ॥
 ततः काव्यादिभिः सार्धं मुनिभिः कमलासनः ।
 दैत्यानां दानवानां च प्रह्रादं अकरोत् पतिम् ॥ ३३ ॥
 प्रतिनन्द्य ततो देवाः प्रयुज्य परमाशिषः ।
 स्वधामानि ययू राजन् ब्रह्माद्याः प्रतिपूजिताः ॥ ३४ ॥
 एवं च पार्षदौ विष्णोः पुत्रत्वं प्रापितौ दितेः ।
 हृदि स्थितेन हरिणा वैरभावेन तौ हतौ ॥ ३५ ॥
 पुनश्च विप्रशापेन राक्षसौ तौ बभूवतुः ।
 कुम्भकर्णदशग्रीवौ हतौ तौ रामविक्रमैः ॥ ३६ ॥
 शयानौ युधि निर्भिन्न हृदयौ रामसायकैः ।
 तच्चित्तौ जहतुर्देहं यथा प्राक्तनजन्मनि ॥ ३७ ॥
 तौ इहाथ पुनर्जातौ शिशुपालकरूषजौ ।
 हरौ वैरानुबन्धेन पश्यतस्ते समीयतुः ॥ ३८ ॥
 एनः पूर्वकृतं यत् तद् राजानः कृष्णवैरिणः ।
 जहुस्त्वन्ते तदात्मानः कीटः पेशस्कृतो यथा ॥ ३९ ॥
 यथा यथा भगवतो भक्त्या परमयाभिदा ।
 नृपाश्चैद्यादयः सात्म्यं हरेस्तच्चिन्तया ययुः ॥ ४० ॥
 आख्यातं सर्वमेतत् ते यन्मां त्वं परिपृष्टवान् ।
 दमघोषसुतादीनां हरेः सात्म्यमपि द्विषाम् ॥ ४१ ॥
 एषा ब्रह्मण्यदेवस्य कृष्णस्य च महात्मनः ।
 अवतारकथा पुण्या वधो यत्रादिदैत्ययोः ॥ ४२ ॥
 प्रह्रादस्यानुचरितं महाभागवतस्य च ।
 भक्तिर्ज्ञानं विरक्तिश्च याथात्म्यं चास्य वै हरेः ॥ ४३ ॥
 सर्गस्थित्यप्ययेशस्य गुणकर्मानुवर्णनम् ।
 परावरेषां स्थानानां कालेन व्यत्ययो महान् ॥ ४४ ॥
 धर्मो भागवतानां च भगवान्येन गम्यते ।
 आख्यानेऽस्मिन् समाम्नातं आध्यात्मिकं अशेषतः ॥ ४५ ॥
 य एतत् पुण्यमाख्यानं विष्णोर्वीर्योपबृंहितम् ।
 कीर्तयेत् श्रद्धया श्रुत्वा कर्मपाशैर्विमुच्यते ॥ ४६ ॥

 एतद्य आदिपुरुषस्य मृगेन्द्रलीलां
     दैत्येन्द्रयूथपवधं प्रयतः पठेत ।
 दैत्यात्मजस्य च सतां प्रवरस्य पुण्यं
     श्रुत्वानुभावमकुतोभयमेति लोकम् ॥ ४७ ॥
 यूयं नृलोके बत भूरिभागा
     लोकं पुनाना मुनयोऽभियन्ति ।
 येषां गृहानावसतीति साक्षाद्
     गूढं परं ब्रह्म मनुष्यलिङ्‌गम् ॥ ४८ ॥
 स वा अयं ब्रह्म महद्विमृग्य
     कैवल्यनिर्वाणसुखानुभूतिः ।
 प्रियः सुहृद् वः खलु मातुलेय
     आत्मार्हणीयो विधिकृद् गुरुश्च ॥ ४९ ॥
 न यस्य साक्षाद्‍भवपद्मजादिभी
     रूपं धिया वस्तुतयोपवर्णितम् ।
 मौनेन भक्त्योपशमेन पूजितः
     प्रसीदतामेष स सात्वतां पतिः ॥ ५० ॥
(अनुष्टुप्)
स एष भगवान् राजन् व्यतनोद् विहतं यशः ।
 पुरा रुद्रस्य देवस्य मयेनानन्तमायिना ॥ ५१ ॥
 राजोवाच -
कस्मिन् कर्मणि देवस्य मयोऽहन् जगदीशितुः ।
 यथा चोपचिता कीर्तिः कृष्णेनानेन कथ्यताम् ॥ ५२ ॥
 नारद उवाच -
निर्जिता असुरा देवैः युध्यनेनोपबृंहितैः ।
 मायिनां परमाचार्यं मयं शरणमाययुः ॥ ५३ ॥
 स निर्माय पुरस्तिस्रो हैमीरौप्यायसीर्विभुः ।
 दुर्लक्ष्यापायसंयोगा दुर्वितर्क्यपरिच्छदाः ॥ ५४ ॥
 ताभिस्तेऽसुरसेनान्यो लोकान् त्रीन् सेश्वरान् नृप ।
 स्मरन्तो नाशयां चक्रुः पूर्ववैरमलक्षिताः ॥ ५५ ॥
 ततस्ते सेश्वरा लोका उपासाद्येश्वरं विभो ।
 त्राहि नस्तावकान्देव विनष्टान् त्रिपुरालयैः ॥ ५६ ॥
 अथानुगृह्य भगवान् मा भैष्टेति सुरान्विभुः ।
 शरं धनुषि सन्धाय पुरेष्वस्त्रं व्यमुञ्चत ॥ ५७ ॥
 ततोऽग्निवर्णा इषव उत्पेतुः सूर्यमण्डलात् ।
 यथा मयूखसन्दोहा नादृश्यन्त पुरो यतः ॥ ५८ ॥
 तैः स्पृष्टा व्यसवः सर्वे निपेतुः स्म पुरौकसः ।
 तान् आनीय महायोगी मयः कूपरसेऽक्षिपत् ॥ ५९ ॥
 सिद्धामृतरसस्पृष्टा वज्रसारा महौजसः ।
 उत्तस्थुर्मेघदलना वैद्युता इव वह्नयः ॥ ६० ॥
 विलोक्य भग्नसङ्‌कल्पं विमनस्कं वृषध्वजम् ।
 तदायं भगवान् विष्णुः तत्रोपायमकल्पयत् ॥ ६१ ॥
 वत्स आसीत् तदा ब्रह्मा स्वयं विष्णुरयं हि गौः ।
 प्रविश्य त्रिपुरं काले रसकूपामृतं पपौ ॥ ६२ ॥
 तेऽसुरा ह्यपि पश्यन्तो न न्यषेधन्विमोहिताः ।
 तद्विज्ञाय महायोगी रसपालानिदं जगौ ॥ ६३ ॥
 स्वयं विशोकः शोकार्तान् स्मरन् दैवगतिं च ताम् ।
 देवोऽसुरो नरोऽन्यो वा नेश्वरोऽस्तीह कश्चन ॥ ६४ ॥
 आत्मनोऽन्यस्य वा दिष्टं दैवेनापोहितुं द्वयोः ।
 अथासौ शक्तिभिः स्वाभिः शम्भोः प्राधानिकं व्यधात् ॥ ६५ ॥
 धर्मज्ञानविरक्ति ऋद्धि तपोविद्याक्रियादिभिः ।
 रथं सूतं ध्वजं वाहान् धन्धनुर्वर्मशरादि यत् ॥ ६६ ॥
 सन्नद्धो रथमास्थाय शरं धनुरुपाददे ।
 शरं धनुषि सन्धाय मुहूर्तेऽभिजितीश्वरः ॥ ६७ ॥
 ददाह तेन दुर्भेद्या हरोऽथ त्रिपुरो नृप ।
 दिवि दुन्दुभयो नेदुः विमानशतसङ्‌कुलाः ॥ ६८ ॥
 देवर्षिपितृसिद्धेशा जयेति कुसुमोत्करैः ।
 अवाकिरन् जगुर्हृष्टा ननृतुश्चाप्सरोगणाः ॥ ६९ ॥
 एवं दग्ध्वा पुरस्तिस्रो भगवान् पुरहा नृप ।
 ब्रह्मादिभिः स्तूयमानः स्वं धाम प्रत्यपद्यत ॥ ७० ॥
 एवं विधान्यस्य हरेः स्वमायया
     विडम्बमानस्य नृलोकमात्मनः ।
 वीर्याणि गीतानि ऋषिभिर्जगद्‍गुरोः
     लोकं पुनानान्यपरं वदामि किम् ॥ ७१ ॥


इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां
सप्तमस्कन्धे युधिष्ठिरनारदसंवादे त्रिपुरविजयो नाम दशमोऽध्यायः ॥ १० ॥

 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥