श्रीमद्भागवत महापुराण/स्कंध ०४/अध्यायः २०

विकिस्रोतः तः
Jump to navigation Jump to search
← श्रीमद्भागवत महापुराण/स्कंध ०४/अध्यायः १९ श्रीमद्भागवत महापुराण/स्कंध ०४/अध्यायः २०
[[लेखकः :|]]
श्रीमद्भागवत महापुराण/स्कंध ०४/अध्यायः २१ →



मैत्रेय उवाच -
(अनुष्टुप्)
भगवानपि वैकुण्ठः साकं मघवता विभुः ।
 यज्ञैर्यज्ञपतिस्तुष्टो यज्ञभुक् तमभाषत ॥ १ ॥
 श्रीभगवानुवाच -
एष तेऽकार्षीद्‍भङ्‌गं हयमेधशतस्य ह ।
 क्षमापयत आत्मानं अमुष्य क्षन्तुमर्हसि ॥ २ ॥
 सुधियः साधवो लोके नरदेव नरोत्तमाः ।
 नाभिद्रुह्यन्ति भूतेभ्यो यर्हि नात्मा कलेवरम् ॥ ३ ॥
 पुरुषा यदि मुह्यन्ति त्वादृशा देवमायया ।
 श्रम एव परं जातो दीर्घया वृद्धसेवया ॥ ४ ॥
 अतः कायमिमं विद्वान् अविद्याकामकर्मभिः ।
 आरब्ध इति नैवास्मिन् प्रतिबुद्धोऽनुषज्जते ॥ ५ ॥
 असंसक्तः शरीरेऽस्मिन् अमुनोत्पादिते गृहे ।
 अपत्ये द्रविणे वापि कः कुर्यान्ममतां बुधः ॥ ६ ॥
 एकः शुद्धः स्वयंज्योतिः निर्गुणोऽसौ गुणाश्रयः ।
 सर्वगोऽनावृतः साक्षी निरात्माऽऽत्माऽऽत्मनः परः ॥ ७ ॥
 य एवं सन्तमात्मानं आत्मस्थं वेद पूरुषः ।
 नाज्यते प्रकृतिस्थोऽपि तद्‍गुणैः स मयि स्थितः ॥ ८ ॥
 यः स्वधर्मेण मां नित्यं निराशीः श्रद्धयान्वितः ।
 भजते शनकैस्तस्य मनो राजन् प्रसीदति ॥ ९ ॥
 परित्यक्तगुणः सम्यग् दर्शनो विशदाशयः ।
 शान्तिं मे समवस्थानं ब्रह्म कैवल्यमश्नुते ॥ १० ॥
 उदासीनमिवाध्यक्षं द्रव्यज्ञानक्रियात्मनाम् ।
 कूटस्थं इममात्मानं यो वेदाप्नोति शोभनम् ॥ ११ ॥
 भिन्नस्य लिङ्‌गस्य गुणप्रवाहो
     द्रव्यक्रियाकारकचेतनात्मनः ।
 दृष्टासु सम्पत्सु विपत्सु सूरयो
     न विक्रियन्ते मयि बद्धसौहृदाः ॥ १२ ॥
 समः समानोत्तममध्यमाधमः
     सुखे च दुःखे च जितेन्द्रियाशयः ।
 मयोपकॢप्ताखिललोकसंयुतो
     विधत्स्व वीराखिललोकरक्षणम् ॥ १३ ॥
 श्रेयः प्रजापालनमेव राज्ञो
     यत्साम्पराये सुकृतात् षष्ठमंशम् ।
 हर्तान्यथा हृतपुण्यः प्रजानां
     अरक्षिता करहारोऽघमत्ति ॥ १४ ॥
 एवं द्विजाग्र्यानुमतानुवृत्त
     धर्मप्रधानोऽन्यतमोऽवितास्याः ।
 ह्रस्वेन कालेन गृहोपयातान्
     द्रष्टासि सिद्धाननुरक्तलोकः ॥ १५ ॥
 वरं च मत् कञ्चन मानवेन्द्र
     वृणीष्व तेऽहं गुणशीलयन्त्रितः ।
 नाहं मखैर्वै सुलभस्तपोभिः
     योगेन वा यत्समचित्तवर्ती ॥ १६ ॥
 मैत्रेय उवाच -
(अनुष्टुप्)
स इत्थं लोकगुरुणा विष्वक्सेनेन विश्वजित् ।
 अनुशासित आदेशं शिरसा जगृहे हरेः ॥ १७ ॥
 स्पृशन्तं पादयोः प्रेम्णा व्रीडितं स्वेन कर्मणा ।
 शतक्रतुं परिष्वज्य विद्वेषं विससर्ज ह ॥ १८ ॥
 भगवानथ विश्वात्मा पृथुनोपहृतार्हणः ।
 समुज्जिहानया भक्त्या गृहीतचरणाम्बुजः ॥ १९ ॥
 प्रस्थानाभिमुखोऽप्येनं अनुग्रहविलम्बितः ।
 पश्यन् पद्मपलाशाक्षो न प्रतस्थे सुहृत्सताम् ॥ २० ॥
 स आदिराजो रचिताञ्जलिर्हरिं
     विलोकितुं नाशकदश्रुलोचनः ।
 न किञ्चनोवाच स बाष्पविक्लवो
     हृदोपगुह्यामुमधादवस्थितः ॥ २१ ॥
 अथावमृज्याश्रुकला विलोकयन्
     अतृप्तदृग्गोचरमाह पूरुषम् ।
 पदा स्पृशन्तं क्षितिमंस उन्नते
     विन्यस्तहस्ताग्रमुरङ्‌गविद्विषः ॥ २२ ॥
 पृथुरुवाच -
वरान् विभो त्वद्वरदेश्वराद्‍बुधः
     कथं वृणीते गुणविक्रियात्मनाम् ।
 ये नारकाणामपि सन्ति देहिनां
     तानीश कैवल्यपते वृणे न च ॥ २३ ॥
 न कामये नाथ तदप्यहं क्वचित्
     न यत्र युष्मत् चरणाम्बुजासवः ।
 महत्तमान्तर्हृदयान्मुखच्युतो
     विधत्स्व कर्णायुतमेष मे वरः ॥ २४ ॥
 स उत्तमश्लोक महन्मुखच्युतो
     भवत्पदाम्भोजसुधा कणानिलः ।
 स्मृतिं पुनर्विस्मृततत्त्ववर्त्मनां
     कुयोगिनां नो वितरत्यलं वरैः ॥ २५ ॥
 यशः शिवं सुश्रव आर्यसङ्‌गमे
     यदृच्छया चोपशृणोति ते सकृत् ।
 कथं गुणज्ञो विरमेद्विना पशुं
     श्रीर्यत्प्रवव्रे गुणसङ्‌ग्रहेच्छया ॥ २६ ॥
 अथाभजे त्वाखिलपूरुषोत्तमं
     गुणालयं पद्मकरेव लालसः ।
 अप्यावयोरेकपतिस्पृधोः कलिः
     न स्यात्कृतत्वच्चरणैकतानयोः ॥ २७ ॥
 जगज्जनन्यां जगदीश वैशसं
     स्यादेव यत्कर्मणि नः समीहितम् ।
 करोषि फल्ग्वप्युरु दीनवत्सलः
     स्व एव धिष्ण्येऽभिरतस्य किं तया ॥ २८ ॥
 भजन्त्यथ त्वामत एव साधवो
     व्युदस्तमायागुणविभ्रमोदयम् ।
 भवत्पदानुस्मरणादृते सतां
     निमित्तमन्यद्‍भगवन्न विद्महे ॥ २९ ॥
 मन्ये गिरं ते जगतां विमोहिनीं वरं
     वृणीष्वेति भजन्तमात्थ यत् ।
 वाचा नु तन्त्या यदि ते जनोऽसितः
     कथं पुनः कर्म करोति मोहितः ॥ ३० ॥
 त्वन्माययाद्धा जन ईश खण्डितो
     यदन्यदाशास्त ऋतात्मनोऽबुधः ।
 यथा चरेद्‍बालहितं पिता स्वयं
     तथा त्वमेवार्हसि नः समीहितुम् ॥ ३१ ॥
 मैत्रेय उवाच -
इत्यादिराजेन नुतः स विश्वदृक्
     तमाह राजन् मयि भक्तिरस्तु ते ।
 दिष्ट्येदृशी धीर्मयि ते कृता यया
     मायां मदीयां तरति स्म दुस्त्यजाम् ॥ ३२ ॥
(अनुष्टुप्)
तत्त्वं कुरु मयादिष्टं अप्रमत्तः प्रजापते ।
 मदादेशकरो लोकः सर्वत्राप्नोति शोभनम् ॥ ३३ ॥
 मैत्रेय उवाच -
इति वैन्यस्य राजर्षेः प्रतिनन्द्यार्थवद्वचः ।
 पूजितोऽनुगृहीत्वैनं गन्तुं चक्रेऽच्युतो मतिम् ॥ ३४ ॥
 देवर्षिपितृगन्धर्व सिद्धचारणपन्नगाः ।
 किन्नराप्सरसो मर्त्याः खगा भूतान्यनेकशः ॥ ३५ ॥
 यज्ञेश्वरधिया राज्ञा वाग्वित्ताञ्जलिभक्तितः ।
 सभाजिता ययुः सर्वे वैकुण्ठानुगतास्ततः ॥ ३६ ॥
 भगवानपि राजर्षेः सोपाध्यायस्य चाच्युतः ।
 हरन्निव मनोऽमुष्य स्वधाम प्रत्यपद्यत ॥ ३७ ॥
 अदृष्टाय नमस्कृत्य नृपः सन्दर्शितात्मने ।
 अव्यक्ताय च देवानां देवाय स्वपुरं ययौ ॥ ३८ ॥


इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां
चतुर्थस्कन्धे पृथुचरिते विंशोऽध्यायः ॥ २० ॥

 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥