श्रीमद्भागवत महापुराण/स्कंध ०२/अध्यायः ०३

विकिस्रोतः तः
Jump to navigation Jump to search
← श्रीमद्भागवत महापुराण/स्कंध ०२/अध्यायः ०२ श्रीमद्भागवत महापुराण/स्कंध ०२/अध्यायः ०३
[[लेखकः :|]]
श्रीमद्भागवत महापुराण/स्कंध ०२/अध्यायः ०४ →




नानाविधकामनासिद्धये नानादेवानां उपासनं,
शौनकप्रश्नः - तत्र भगवत्सेवापरायणेन्द्रियाणां प्रशंसनं च -

श्रीशुक उवाच ।
 एवमेतन्निगदितं पृष्टवान् यद् भवान् मम ।
 नृणां यन्म्रियमाणानां मनुष्येषु मनीषिणाम् ॥ १ ॥
 ब्रह्मवर्चसकामस्तु यजेत ब्रह्मणस्पतिम् ।
 इन्द्रं इन्द्रियकामस्तु प्रजाकामः प्रजापतीन् ॥ २ ॥
 देवीं मायां तु श्रीकामः तेजस्कामो विभावसुम् ।
 वसुकामो वसून् रुद्रान् वीर्यकामोऽथ वीर्यवान् ॥ ३ ॥
 अन्नाद्यकामस्तु अदितिं स्वर्गकामोऽदितेः सुतान् ।
 विश्वान् देवान् राज्यकामः साध्यान् संसाधको विशाम् ॥ ४ ॥
 आयुष्कामोऽश्विनौ देवौ पुष्टिकाम इलां यजेत् ।
 प्रतिष्ठाकामः पुरुषो रोदसी लोकमातरौ ॥ ५ ॥
 रूपाभिकामो गन्धर्वान् स्त्रीकामोऽप्सर उर्वशीम् ।
 आधिपत्यकामः सर्वेषां यजेत परमेष्ठिनम् ॥ ६ ॥
 यज्ञं यजेत् यशस्कामः कोशकामः प्रचेतसम् ।
 विद्याकामस्तु गिरिशं दाम्पत्यार्थ उमां सतीम् ॥ ७ ॥
 धर्मार्थ उत्तमश्लोकं तन्तुं तन्वन् पितॄन् यजेत् ।
 रक्षाकामः पुण्यजनान् ओजस्कामो मरुद्‍गणान् ॥ ८ ॥
 राज्यकामो मनून् देवान् निर्‌ऋतिं त्वभिचरन् यजेत् ।
 कामकामो यजेत्सोमं अकामः पुरुषं परम् ॥ ९ ॥
 अकामः सर्वकामो वा मोक्षकाम उदारधीः ।
 तीव्रेण भक्तियोगेन यजेत पुरुषं परम् ॥ १० ॥
 एतावानेव यजतां इह निःश्रेयसोदयः ।
 भगवत्यचलो भावो यद्‍भागवतसङ्गतः ॥ ११ ॥
    ज्ञानं यदाप्रतिनिवृत्तगुणोर्मिचक्रम् ।
 आत्मप्रसाद उत यत्र गुणेष्वसङ्गः ।
    कैवल्यसम्मतपथस्त्वथ भक्तियोगः ।
 को निर्वृतो हरिकथासु रतिं न कुर्यात् ॥ १२ ॥
 शौनक उवाच ।
 इत्यभिव्याहृतं राजा निशम्य भरतर्षभः ।
 किमन्यत् पृष्टवान् भूयो वैयासकिं ऋषिं कविम् ॥ १३ ॥
 एतद् शुश्रूषतां विद्वन् सूत नोऽर्हसि भाषितुम् ।
 कथा हरिकथोदर्काः सतां स्युः सदसि ध्रुवम् ॥ १४ ॥
 स वै भागवतो राजा पाण्डवेयो महारथः ।
 बालक्रीडनकैः क्रीडन् कृष्णक्रीडां य आददे ॥ १५ ॥
 वैयासकिश्च भगवान् वासुदेवपरायणः ।
 उरुगायगुणोदाराः सतां स्युर्हि समागमे ॥ १६ ॥
 आयुर्हरति वै पुंसां उद्यन्नस्तं च यन्नसौ ।
 तस्यर्ते यत्क्षणो नीत उत्तमश्लोकवार्तया ॥ १७ ॥
 तरवः किं न जीवन्ति भस्त्राः किं न श्वसन्त्युत ।
 न खादन्ति न मेहन्ति किं ग्रामपशवोऽपरे ॥ १८ ॥
 श्वविड्वराहोष्ट्रखरैः संस्तुतः पुरुषः पशुः ।
 न यत्कर्णपथोपेतो जातु नाम गदाग्रजः ॥ १९ ॥
 बिले बतोरुक्रमविक्रमान् ये
    न शृण्वतः कर्णपुटे नरस्य ।
 जिह्वासती दार्दुरिकेव सूत
    न चोपगायत्युरुगायगाथाः ॥ २० ॥
 भारः परं पट्टकिरीटजुष्टं
    अप्युत्तमाङ्गं न नमेन् मुकुंदम् ।
 शावौ करौ नो कुरुते सपर्यां
    हरेर्लसत्काञ्चनकङ्कणौ वा ॥ २१ ॥
 बर्हायिते ते नयने नराणां
    लिङ्गानि विष्णोर्न निरीक्षतो ये ।
 पादौ नृणां तौ द्रुमजन्मभाजौ
    क्षेत्राणि नानुव्रजतो हरेर्यौ ॥ २२ ॥
 जीवन् शवो भागवताङ्‌घ्रिरेणुं
    न जातु मर्त्योऽभिलभेत यस्तु ।
 श्रीविष्णुपद्या मनुजस्तुलस्याः
    श्वसन् शवो यस्तु न वेद गन्धम् ॥ २३ ॥
 तदश्मसारं हृदयं बतेदं
    यद्‍गृह्यमाणैर्हरिनामधेयैः ।
 न विक्रियेताथ यदा विकारो
    नेत्रे जलं गात्ररुहेषु हर्षः ॥ २४ ॥
 अथाभिधेह्यङ्ग मनोऽनुकूलं
    प्रभाषसे भागवतप्रधानः ।
 यदाह वैयासकिरात्मविद्या
    विशारदो नृपतिं साधु पृष्टः ॥ २५ ॥


इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां
द्वितीयस्कंधे तृतीयोऽध्यायः ॥ ३ ॥

 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥