श्रीमद्भागवतपुराणम्/स्कन्धः ९/अध्यायः २१

विकिस्रोतः तः
Jump to navigation Jump to search
← श्रीमद्भागवतपुराणम्/स्कन्धः ९/अध्यायः २० श्रीमद्भागवतपुराणम्
स्कन्धः ९/अध्यायः २१
[[लेखकः :|]]
श्रीमद्भागवतपुराणम्/स्कन्धः ९/अध्यायः २२ →



भरतवंशः - रन्तिदेव चरितम् -

श्रीशुक उवाच ।
 वितथस्य सुतान् मन्योः बृहत्क्षत्रो जयस्ततः ।
 महावीर्यो नरो गर्गः सङ्‌कृतिस्तु नरात्मजः ॥ १ ॥
 गुरुश्च रन्तिदेवश्च सङ्‌कृतेः पाण्डुनन्दन ।
 रन्तिदेवस्य महिमा इहामुत्र च गीयते ॥ २ ॥
 वियद्वित्तस्य ददतो लब्धं लब्धं बुभुक्षतः ।
 निष्किञ्चनस्य धीरस्य सकुटुम्बस्य सीदतः ॥ ३ ॥
 व्यतीयुः अष्टचत्वारिंशत् अहनि अपिबतः किल ।
 घृतपायससंयावं तोयं प्रातरुपस्थितम् ॥ ४ ॥
 कृच्छ्रप्राप्तकुटुम्बस्य क्षुत्तृड्भ्यां जातवेपथोः ।
 अतिथिर्ब्राह्मणः काले भोक्तुकामस्य चागमत् ॥ ५ ॥
 तस्मै संव्यभजत् सोऽन्नं आदृत्य श्रद्धयान्वितः ।
 हरिं सर्वत्र संपश्यन् स भुक्त्वा प्रययौ द्विजः ॥ ६ ॥
 अथान्यो भोक्ष्यमाणस्य विभक्तस्य महीपतेः ।
 विभक्तं व्यभजत् तस्मै वृषलाय हरिं स्मरन् ॥ ७ ॥
 याते शूद्रे तमन्योऽगाद् अतिथिः श्वभिरावृतः ।
 राजन्मे दीयतां अन्नं सगणाय बुभुक्षते ॥ ८ ॥
 स आदृत्यावशिष्टं यद् बहुमानपुरस्कृतम् ।
 तच्च दत्त्वा नमश्चक्रे श्वभ्यः श्वपतये विभुः ॥ ९ ॥
 पानीयमात्रमुच्छेषं तच्चैकपरितर्पणम् ।
 पास्यतः पुल्कसोऽभ्यागाद् अपो देह्यशुभस्य मे ॥ १० ॥
 तस्य तां करुणां वाचं निशम्य विपुलश्रमाम् ।
 कृपया भृशसन्तप्त इदमाहामृतं वचः ॥ ११ ॥
 न कामयेऽहं गतिमीश्वरात्परां
     अष्टर्द्धियुक्तामपुनर्भवं वा ।
 आर्तिं प्रपद्येऽखिलदेहभाजां
     अन्तःस्थितो येन भवन्त्यदुःखाः ॥ १२ ॥
 क्षुत्तृट्श्रमो गात्रपरिश्रमश्च
     दैन्यं क्लमः शोकविषादमोहाः ।
 सर्वे निवृत्ताः कृपणस्य जन्तोः
     जिजीविषोर्जीवजलार्पणान्मे ॥ १३ ॥
 इति प्रभाष्य पानीयं म्रियमाणः पिपासया ।
 पुल्कसायाददाद् धीरो निसर्गकरुणो नृपः ॥ १४ ॥
 तस्य त्रिभुवनाधीशाः फलदाः फलमिच्छताम् ।
 आत्मानं दर्शयां चक्रुः माया विष्णुविनिर्मिताः ॥ १५ ॥
 स वै तेभ्यो नमस्कृत्य निःसङ्‌गो विगतस्पृहः ।
 वासुदेवे भगवति भक्त्या चक्रे मनः परम् ॥ १६ ॥
 ईश्वरालम्बनं चित्तं कुर्वतोऽनन्यराधसः ।
 माया गुणमयी राजन् स्वप्नवत् प्रत्यलीयत ॥ १७ ॥
 तत्प्रसङ्‌गानुभावेन रन्तिदेवानुवर्तिनः ।
 अभवन् योगिनः सर्वे नारायणपरायणाः ॥ १८ ॥
 गर्गाच्छिनिस्ततो गार्ग्यः क्षत्राद् ब्रह्म ह्यवर्तत ।
 दुरितक्षयो महावीर्यात् तस्य त्रय्यारुणिः कविः ॥ १९ ॥
 पुष्करारुणिरित्यत्र ये ब्राह्मणगतिं गताः ।
 बृहत्क्षत्रस्य पुत्रोऽभूत् हस्ती यद् हस्तिनापुरम् ॥ २० ॥
 अजमीढो द्विमीढश्च पुरुमीढश्च हस्तिनः ।
 अजमीढस्य वंश्याः स्युः प्रियमेधादयो द्विजाः ॥ २१ ॥
 अजमीढाद् बृहदिषुः तस्य पुत्रो बृहद्धनुः ।
 बृहत्कायः ततस्तस्य पुत्र आसीत् जयद्रथः ॥ २२ ॥
 तत्सुतो विशदस्तस्य सेनजित् समजायत ।
 रुचिराश्वो दृढहनुः काश्यो वत्सश्च तत्सुताः ॥ २३ ॥
 रुचिराश्वसुतः पारः पृथुसेनः तदात्मजः ।
 पारस्य तनयो नीपः तस्य पुत्रशतं त्वभूत् ॥ २४ ॥
 स कृत्व्यां शुककन्यायां ब्रह्मदत्तमजीजनत् ।
 योगी स गवि भार्यायां विष्वक्सेनं अधात् सुतम् ॥ २५ ॥
 जैगीषव्योपदेशेन योगतंत्रं चकार ह ।
 उदक्सेनः ततस्तस्माद् भल्लाटो बार्हदीषवाः ॥ २६ ॥
 यवीनरो द्विमीढस्य कृतिमान् तत्सुतः स्मृतः ।
 नाम्ना सत्यधृतिस्तस्य दृढनेमिः सुपार्श्वकृत् ॥ २७ ॥
 सुपार्श्वात् सुमतिस्तस्य पुत्रः सन्नतिमान् ततः ।
 कृती हिरण्यनाभाद् यो योगं प्राप्य जगौ स्म षट् ॥ २८ ॥
 संहिताः प्राच्यसाम्नां वै नीपो ह्युग्रायुधस्ततः ।
 तस्य क्षेम्यः सुवीरोऽथ सुवीरस्य रिपुञ्जयः ॥ २९ ॥
 ततो बहुरथो नाम पुरुमीढोऽप्रजोऽभवत् ।
 नलिन्यां अजमीढस्य नीलः शान्तिः सुतस्ततः ॥ ३० ॥
 शान्तेः सुशान्तिस्तत्पुत्रः पुरुजोऽर्कस्ततोऽभवत् ।
 भर्म्याश्वः तनयस्तस्य पञ्चासन् मुद्‍गलादयः ॥ ३१ ॥
 यवीनरो बृहद्विश्वः काम्पिल्यः सञ्जयः सुताः ।
 भर्म्याश्वः प्राह पुत्रा मे पञ्चानां रक्षणाय हि ॥ ३२ ॥
 विषयाणामलमिमे इति पञ्चालसंज्ञिताः ।
 मुद्‍गलाद् ब्रह्मनिर्वृत्तं गोत्रं मौद्‍गल्यसंज्ञितम् ॥ ३३ ॥
 मिथुनं मुद्‍गलाद् भार्म्याद् दिवोदासः पुमानभूत् ।
 अहल्या कन्यका यस्यां शतानन्दस्तु गौतमात् ॥ ३४ ॥
 तस्य सत्यधृतिः पुत्रो धनुर्वेदविशारदः ।
 शरद्वान् तत्सुतो यस्माद् उर्वशीदर्शनात् किल ॥ ३५ ॥
 शरस्तम्बेऽपतद् रेतो मिथुनं तदभूच्छुभम् ।
 तद्दृष्ट्वा कृपयागृह्णात् शन्तनुर्मृगयां चरन् ।
 कृपः कुमारः कन्या च द्रोणपत्‍न्यभवत् कृपी ॥ ३६ ॥


इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां
संहितायां नवमस्कन्धे एकविंशोऽध्यायः ॥ २१ ॥
 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥