श्रीमद्भागवतपुराणम्/स्कन्धः ९/अध्यायः १

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः २४ श्रीमद्भागवतपुराणम्
स्कन्धः ९/अध्यायः १
[[लेखकः :|]]
अध्यायः २ →



सूर्यवंशवर्णनं, वैवस्वतमनोः पुत्रस्य स्त्रीभावापत्तिश्च -


श्रीराजोवाच ।
 मन्वन्तराणि सर्वाणि त्वयोक्तानि श्रुतानि मे ।
 वीर्याणि अनन्तवीर्यस्य हरेस्तत्र कृतानि च ॥ १ ॥
 योऽसौ सत्यव्रतो नाम राजर्षिः द्रविडेश्वरः ।
 ज्ञानं योऽतीतकल्पान्ते लेभे पुरुषसेवया ॥ २ ॥
 स वै विवस्वतः पुत्रो मनुः आसीद् इति श्रुतम् ।
 त्वत्तस्तस्य सुताः प्रोक्ता इक्ष्वाकुप्रमुखा नृपाः ॥ ३ ॥
 तेषां वंशं पृथग्ब्रह्मन् वंशानुचरितानि च ।
 कीर्तयस्व महाभाग नित्यं शुश्रूषतां हि नः ॥ ४ ॥
 ये भूता ये भविष्याश्च भवन्ति अद्यतनाश्च ये ।
 तेषां नः पुण्यकीर्तीनां सर्वेषां वद विक्रमान् ॥ ५ ॥
 श्रीसूत उवाच ।
 एवं परीक्षिता राज्ञा सदसि ब्रह्मवादिनाम् ।
 पृष्टः प्रोवाच भगवान् शुकः परमधर्मवित् ॥ ६ ॥
 श्रीशुक उवाच ।
 श्रूयतां मानवो वंशः प्राचुर्येण परंतप ।
 न शक्यते विस्तरतो वक्तुं वर्षशतैरपि ॥ ७ ॥
 परावरेषां भूतानां आत्मा यः पुरुषः परः ।
 स एवासीद् इदं विश्वं कल्पान्ते अन्यत् न किञ्चन ॥ ८ ॥
 तस्य नाभेः समभवत् पद्मकोषो हिरण्मयः ।
 तस्मिन् जज्ञे महाराज स्वयंभूः चतुराननः ॥ ९ ॥
 मरीचिः मनसस्तस्य जज्ञे तस्यापि कश्यपः ।
 दाक्षायण्यां ततोऽदित्यां विवस्वान् अभवत् सुतः ॥ १० ॥
 ततो मनुः श्राद्धदेवः संज्ञायामास भारत ।
 श्रद्धायां जनयामास दश पुत्रान् स आत्मवान् ॥ ११ ॥
 इक्ष्वाकुनृगशर्याति दिष्टधृष्ट करूषकान् ।
 नरिष्यन्तं पृषध्रं च नभगं च कविं विभुः ॥ १२ ॥
 अप्रजस्य मनोः पूर्वं वसिष्ठो भगवान् किल ।
 मित्रावरुणयोः इष्टिं प्रजार्थं अकरोद् विभुः ॥ १३ ॥
 तत्र श्रद्धा मनोः पत्‍नी होतारं समयाचत ।
 दुहित्रर्थं उपागम्य प्रणिपत्य पयोव्रता ॥ १४ ॥
 प्रेषितोऽध्वर्युणा होता ध्यायन् तत् सुसमाहितः ।
 हविषि व्यचरत् तेन वषट्कारं गृणन् द्विजः ॥ १५ ॥
 होतुस्तद् व्यभिचारेण कन्येला नाम साभवत् ।
 तां विलोक्य मनुः प्राह नाति हृष्टमना गुरुम् ॥ १६ ॥
 भगवन् किमिदं जातं कर्म वो ब्रह्मवादिनाम् ।
 विपर्ययं अहो कष्टं मैवं स्याद् ब्रह्मविक्रिया ॥ १७ ॥
 यूयं मंत्रविदो युक्ताः तपसा दग्धकिल्बिषाः ।
 कुतः संकल्पवैषम्यं अनृतं विबुधेष्विव ॥ १८ ॥
 निशम्य तद्वचः तस्य भगवान् प्रपितामहः ।
 होतुर्व्यतिक्रमं ज्ञात्वा बभाषे रविनन्दनम् ॥ १९ ॥
 एतत् संकल्पवैषम्यं होतुस्ते व्यभिचारतः ।
 तथापि साधयिष्ये ते सुप्रजास्त्वं स्वतेजसा ॥ २० ॥
 एवं व्यवसितो राजन् भगवान् स महायशाः ।
 अस्तौषीद् आदिपुरुषं इलायाः पुंस्त्वकाम्यया ॥ २१ ॥
 तस्मै कामवरं तुष्टो भगवान् हरिरीश्वरः ।
 ददौ इविलाभवत् तेन सुद्युम्नः पुरुषर्षभः ॥ २२ ॥
 स एकदा महाराज विचरन् मृगयां वने ।
 वृतः कतिपयामात्यैः अश्वं आरुह्य सैन्धवम् ॥ २३ ॥
 प्रगृह्य रुचिरं चापं शरांश्च परमाद्‍भुतान् ।
 दंशितोऽनुमृगं वीरो जगाम दिशमुत्तराम् ॥ २४ ॥
 सु कुमातो वनं मेरोः अधस्तात् प्रविवेश ह ।
 यत्रास्ते भगवान् शर्वो रममाणः सहोमया ॥ २५ ॥
 तस्मिन् प्रविष्ट एवासौ सुद्युम्नः परवीरहा ।
 अपश्यत् स्त्रियमात्मानं अश्वं च वडवां नृप ॥ २६ ॥
 तथा तदनुगाः सर्वे आत्मलिङ्‌ग विपर्ययम् ।
 दृष्ट्वा विमनसोऽभूवन् विक्षमाणाः परस्परम् ॥ २७ ॥
 श्रीराजोवाच ।
 कथं एवं गुणो देशः केन वा भगवन् कृतः ।
 प्रश्नमेनं समाचक्ष्व परं कौतूहलं हि नः ॥ २८ ॥
 श्रीशुक उवाच ।
 एकदा गिरिशं द्रष्टुं ऋषयस्तत्र सुव्रताः ।
 दिशो वितिमिराभासाः कुर्वन्तः समुपागमन् ॥ २९ ॥
 तान् विलोक्य अंबिका देवी विवासा व्रीडिता भृशम् ।
 भर्तुरङ्‌गात समुत्थाय नीवीमाश्वथ पर्यधात् ॥ ३० ॥
 ऋषयोऽपि तयोर्वीक्ष्य प्रसङ्‌गं रममाणयोः ।
 निवृत्ताः प्रययुस्तस्मात् नरनारायणाश्रमम् ॥ ३१ ॥
 तदिदं भगवान् आह प्रियायाः प्रियकाम्यया ।
 स्थानं यः प्रविशेदेतत् स वै योषिद् भवेदिति ॥ ३२ ॥
 तत ऊर्ध्वं वनं तद्वै पुरुषा वर्जयन्ति हि ।
 सा चानुचरसंयुक्ता विचचार वनाद् वनम् ॥ ३३ ॥
 अथ तां आश्रमाभ्याशे चरन्तीं प्रमदोत्तमाम् ।
 स्त्रीभिः परिवृतां वीक्ष्य चकमे भगवान् बुधः ॥ ३४ ॥
 सापि तं चकमे सुभ्रूः सोमराजसुतं पतिम् ।
 स तस्यां जनयामास पुरूरवसमात्मजम् ॥ ३५ ॥
 एवं स्त्रीत्वं अनुप्राप्तः सुद्युम्नो मानवो नृपः ।
 सस्मार स कुलाचार्यं वसिष्ठमिति शुश्रुम ॥ ३६ ॥
 स तस्य तां दशां दृष्ट्वा कृपया भृशपीडितः ।
 सुद्युम्नस्याशयन् पुंस्त्वं उपाधावत शंकरम् ॥ ३७ ॥
 तुष्टस्तस्मै स भगवान् ऋषये प्रियमावहन् ।
 स्वां च वाचं ऋतां कुर्वन् इदमाह विशाम्पते ॥ ३८ ॥
 मासं पुमान् स भविता मासं स्त्री तव गोत्रजः ।
 इत्थं व्यवस्थया कामं सुद्युम्नोऽवतु मेदिनीम् ॥ ३९ ॥
 आचार्यानुग्रहात् कामं लब्ध्वा पुंस्त्वं व्यवस्थया ।
 पालयामास जगतीं नाभ्यनन्दन् स्म तं प्रजाः ॥ ४० ॥
 तस्योत्कलो गयो राजन् विमलश्च सुतास्त्रयः ।
 दक्षिणापथराजानो बभूवुः धर्मवत्सलाः ॥ ४१ ॥
 ततः परिणते काले प्रतिष्ठानपतिः प्रभुः ।
 पुरूरवस उत्सृज्य गां पुत्राय गतो वनम् ॥ ४२ ॥


इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां
संहितायां नवमस्कन्धे प्रथमोध्याऽयः ॥ १ ॥
 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥