श्रीमद्भागवतपुराणम्/स्कन्धः ८/अध्यायः ७

विकिस्रोतः तः
Jump to navigation Jump to search


अथ सप्तमोऽध्यायः 8.7
श्रीशुक उवाच
ते नागराजमामन्त्र्य फलभागेन वासुकिम्
परिवीय गिरौ तस्मिन्नेत्रमब्धिं मुदान्विताः १
आरेभिरे सुरा यत्ता अमृतार्थे कुरूद्वह
हरिः पुरस्ताज्जगृहे पूर्वं देवास्ततोऽभवन् २
तन्नैच्छन्दैत्यपतयो महापुरुषचेष्टितम्
न गृह्णीमो वयं पुच्छमहेरङ्गममङ्गलम् ३
स्वाध्यायश्रुतसम्पन्नाः प्रख्याता जन्मकर्मभिः
इति तूष्णीं स्थितान्दैत्यान्विलोक्य पुरुषोत्तमः
स्मयमानो विसृज्याग्रं पुच्छं जग्राह सामरः ४
कृतस्थानविभागास्त एवं कश्यपनन्दनाः
ममन्थुः परमं यत्ता अमृतार्थं पयोनिधिम् ६
मथ्यमानेऽर्णवे सोऽद्रि रनाधारो ह्यपोऽविशत्
ध्रियमाणोऽपि बलिभिर्गौरवात्पाण्डुनन्दन ७
ते सुनिर्विण्णमनसः परिम्लानमुखश्रियः
आसन्स्वपौरुषे नष्टे दैवेनातिबलीयसा ८
विलोक्य विघ्नेशविधिं तदेश्वरो दुरन्तवीर्योऽवितथाभिसन्धिः
कृत्वा वपुः कच्छपमद्भुतं महत्प्रविश्य तोयं गिरिमुज्जहार ९
तमुत्थितं वीक्ष्य कुलाचलं पुनः समुद्यता निर्मथितुं सुरासुराः
दधार पृष्ठेन स लक्षयोजन प्रस्तारिणा द्वीप इवापरो महान् १०
सुरासुरेन्द्रैर्भुजवीर्यवेपितं परिभ्रमन्तं गिरिमङ्ग पृष्ठतः
बिभ्रत्तदावर्तनमादिकच्छपो मेनेऽङ्गकण्डूयनमप्रमेयः ११
तथासुरानाविशदासुरेण रूपेण तेषां बलवीर्यमीरयन्
उद्दीपयन्देवगणांश्च विष्णुर्दैवेन नागेन्द्रमबोधरूपः १२
उपर्यगेन्द्रं गिरिराडिवान्य आक्रम्य हस्तेन सहस्रबाहुः
तस्थौ दिवि ब्रह्मभवेन्द्र मुख्यैरभिष्टुवद्भिः सुमनोऽभिवृष्टः १३
उपर्यधश्चात्मनि गोत्रनेत्रयोः परेण ते प्राविशता समेधिताः
ममन्थुरब्धिं तरसा मदोत्कटा महाद्रिणा क्षोभितनक्रचक्रम् १४
अहीन्द्र साहस्रकठोरदृङ्मुख श्वासाग्निधूमाहतवर्चसोऽसुराः
पौलोमकालेयबलील्वलादयो दवाग्निदग्धाः सरला इवाभवन् १५
देवांश्च तच्छ्वासशिखाहतप्रभान्धूम्राम्बरस्रग्वरकञ्चुकाननान्
समभ्यवर्षन्भगवद्वशा घना ववुः समुद्रोर्म्युपगूढवायवः १६
मथ्यमानात्ता सिन्धोर्देवासुरवरूथपैः
यदा सुधा न जायेत निर्ममन्थाजितः स्वयम् १७
मेघश्यामः कनकपरिधिः कर्णविद्योतविद्युन्
मूर्ध्नि भ्राजद्विलुलितकचः स्रग्धरो रक्तनेत्रः
जैत्रैर्दोर्भिर्जगदभयदैर्दन्दशूकं गृहीत्वा
मथ्नन्मथ्ना प्रतिगिरिरिवाशोभताथोद्धृताद्रिः १८
निर्मथ्यमानादुदधेरभूद्विषं महोल्बणं हालहलाह्वमग्रतः
सम्भ्रान्तमीनोन्मकराहिकच्छपात्तिमिद्विपग्राहतिमिङ्गिलाकुलात् १९
तदुग्रवेगं दिशि दिश्युपर्यधो विसर्पदुत्सर्पदसह्यमप्रति
भीताः प्रजा दुद्रुवुरङ्ग सेश्वरा अरक्ष्यमाणाः शरणं सदाशिवम् २०
विलोक्य तं देववरं त्रिलोक्या भवाय देव्याभिमतं मुनीनाम्
आसीनमद्रा वपवर्गहेतोस्तपो जुषाणं स्तुतिभिः प्रणेमुः २१
श्रीप्रजापतय ऊचुः
देवदेव महादेव भूतात्मन्भूतभावन
त्राहि नः शरणापन्नांस्त्रैलोक्यदहनाद्विषात् २२
त्वमेकः सर्वजगत ईश्वरो बन्धमोक्षयोः
तं त्वामर्चन्ति कुशलाः प्रपन्नार्तिहरं गुरुम् २३
गुणमय्या स्वशक्त्यास्य सर्गस्थित्यप्ययान्विभो
धत्से यदा स्वदृग्भूमन्ब्रह्मविष्णुशिवाभिधाम् २४
त्वं ब्रह्म परमं गुह्यं सदसद्भावभावनम्
नानाशक्तिभिराभातस्त्वमात्मा जगदीश्वरः २५
त्वं शब्दयोनिर्जगदादिरात्मा प्राणेन्द्रि यद्र व्यगुणः स्वभावः
कालः क्रतुः सत्यमृतं च धर्मस्त्वय्यक्षरं यत्त्रिवृदामनन्ति २६
अग्निर्मुखं तेऽखिलदेवतात्मा क्षितिं विदुर्लोकभवाङ्घ्रिपङ्कजम्
कालं गतिं तेऽखिलदेवतात्मनो दिशश्च कर्णौ रसनं जलेशम् २७
नाभिर्नभस्ते श्वसनं नभस्वान्सूर्यश्च चक्षूंषि जलं स्म रेतः
परावरात्माश्रयणं तवात्मा सोमो मनो द्यौर्भगवन्शिरस्ते २८
कुक्षिः समुद्रा गिरयोऽस्थिसङ्घा रोमाणि सर्वौषधिवीरुधस्ते
छन्दांसि साक्षात्तव सप्त धातवस्त्रयीमयात्मन्हृदयं सर्वधर्मः २९
मुखानि पञ्चोपनिषदस्तवेश यैस्त्रिंशदष्टोत्तरमन्त्रवर्गः
यत्तच्छिवाख्यं परमात्मतत्त्वं देव स्वयंज्योतिरवस्थितिस्ते ३०
छाया त्वधर्मोर्मिषु यैर्विसर्गो नेत्रत्रयं सत्त्वरजस्तमांसि
साङ्ख्यात्मनः शास्त्रकृतस्तवेक्षा छन्दोमयो देव ऋषिः पुराणः ३१
न ते गिरित्राखिललोकपाल विरिञ्चवैकुण्ठसुरेन्द्र गम्यम्
ज्योतिः परं यत्र रजस्तमश्च सत्त्वं न यद्ब्रह्म निरस्तभेदम् ३२
कामाध्वरत्रिपुरकालगराद्यनेक
भूतद्रुहः क्षपयतः स्तुतये न तत्ते
यस्त्वन्तकाल इदमात्मकृतं स्वनेत्र
वह्निस्फुलिङ्गशिखया भसितं न वेद ३३
ये त्वात्मरामगुरुभिर्हृदि चिन्तिताङ्घ्रि
द्वन्द्वं चरन्तमुमया तपसाभितप्तम्
कत्थन्त उग्रपरुषं निरतं श्मशाने
ते नूनमूतिमविदंस्तव हातलज्जाः ३४
तत्तस्य ते सदसतोः परतः परस्य
नाञ्जः स्वरूपगमने प्रभवन्ति भूम्नः
ब्रह्मादयः किमुत संस्तवने वयं तु
तत्सर्गसर्गविषया अपि शक्तिमात्रम् ३५
एतत्परं प्रपश्यामो न परं ते महेश्वर
मृडनाय हि लोकस्य व्यक्तिस्तेऽव्यक्तकर्मणः ३६
श्रीशुक उवाच
तद्वीक्ष्य व्यसनं तासां कृपया भृशपीडितः
सर्वभूतसुहृद्देव इदमाह सतीं प्रियाम् ३७
श्रीशिव उवाच
अहो बत भवान्येतत्प्रजानां पश्य वैशसम्
क्षीरोदमथनोद्भूतात्कालकूटादुपस्थितम् ३८
आसां प्राणपरीप्सूनां विधेयमभयं हि मे
एतावान्हि प्रभोरर्थो यद्दीनपरिपालनम् ३९
प्राणैः स्वैः प्राणिनः पान्ति साधवः क्षणभङ्गुरैः
बद्धवैरेषु भूतेषु मोहितेष्वात्ममायया ४०
पुंसः कृपयतो भद्रे सर्वात्मा प्रीयते हरिः
प्रीते हरौ भगवति प्रीयेऽहं सचराचरः
तस्मादिदं गरं भुञ्जे प्रजानां स्वस्तिरस्तु मे ४१
श्रीशुक उवाच
एवमामन्त्र्य भगवान्भवानीं विश्वभावनः
तद्विषं जग्धुमारेभे प्रभावज्ञान्वमोदत ४२
ततः करतलीकृत्य व्यापि हालाहलं विषम्
अभक्षयन्महादेवः कृपया भूतभावनः ४३
तस्यापि दर्शयामास स्ववीर्यं जलकल्मषः
यच्चकार गले नीलं तच्च साधोर्विभूषणम् ४४
तप्यन्ते लोकतापेन साधवः प्रायशो जनाः
परमाराधनं तद्धि पुरुषस्याखिलात्मनः ४५
निशम्य कर्म तच्छम्भोर्देवदेवस्य मीढुषः
प्रजा दाक्षायणी ब्रह्मा वैकुण्ठश्च शशंसिरे ४६
प्रस्कन्नं पिबतः पाणेर्यत्किञ्चिज्जगृहुः स्म तत्
वृश्चिकाहिविषौषध्यो दन्दशूकाश्च येऽपरे ४७
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायामष्टमस्कन्धेऽमृतमथने सप्तमोऽध्यायः