श्रीमद्भागवतपुराणम्/स्कन्धः ८/अध्यायः १६

विकिस्रोतः तः
Jump to navigation Jump to search

श्रीमद्‌भागवत महापुराण

अष्टमः स्कन्धः - षोडशोऽध्यायः

कश्यपस्य देवमात्रेऽदित्यै पयोव्रतोपदेशः -

श्रीशुक उवाच - 

(अनुष्टुप्) 

एवं पुत्रेषु नष्टेषु देवमातादितिस्तदा । 

हृते त्रिविष्टपे दैत्यैः पर्यतप्यद् अनाथवत् ॥ १ ॥ 

एकदा कश्यपस्तस्या आश्रमं भगवान् अगात् । 

निरुत्सवं निरानन्दं समाधेर्विरतश्चिरात् ॥ २ ॥ 

स पत्‍नीं दीनवदनां कृतासनपरिग्रहः । 

सभाजितो यथान्यायं इदमाह कुरूद्वह ॥ ३ ॥ 

अप्यभद्रं न विप्राणां भद्रे लोकेऽधुनाऽऽगतम् । 

न धर्मस्य न लोकस्य मृत्योश्छन्दानुवर्तिनः ॥ ४ ॥ 

अपि वाकुशलं किञ्चिद्‍गृहेषु गृहमेधिनि । 

धर्मस्यार्थस्य कामस्य यत्र योगो ह्ययोगिनाम् ॥ ५ ॥ 

अपि वा अतिथयोऽभ्येत्य कुटुंबासक्तया त्वया । 

गृहादपूजिता याताः प्रत्युत्थानेन वा क्वचित् ॥ ६ ॥ 

गृहेषु येष्वतिथयो नार्चिताः सलिलैरपि । 

यदि निर्यान्ति ते नूनं फेरुराजगृहोपमाः ॥ ७ ॥ 

अप्यग्नयस्तु वेलायां न हुता हविषा सति । 

त्वयोद्विग्नधिया भद्रे प्रोषिते मयि कर्हिचित् ॥ ८ ॥ 

यत्पूजया कामदुघान् याति लोकान् गृहान्वितः । 

ब्राह्मणोऽग्निश्च वै विष्णोः सर्वदेवात्मनो मुखम् ॥ ९ ॥ 

अपि सर्वे कुशलिनः तव पुत्रा मनस्विनि । 

लक्षयेऽस्वस्थमात्मानं भवत्या लक्षणैरहम् ॥ १० ॥ 

अदितिरुवाच - 

भद्रं द्विजगवां ब्रह्मन् धर्मस्यास्य जनस्य च । 

त्रिवर्गस्य परं क्षेत्रं गृहमेधिन् गृहा इमे ॥ ११ ॥ 

अग्नयोऽतिथयो भृत्या भिक्षवो ये च लिप्सवः । 

सर्वं भगवतो ब्रह्मन् अनुध्यानान्न रिष्यति ॥ १२ ॥ 

को नु मे भगवन् कामो न सम्पद्येत मानसः । 

यस्या भवान् प्रजाध्यक्ष एवं धर्मान् प्रभाषते ॥ १३ ॥ 

तवैव मारीच मनःशरीरजाः 

     प्रजा इमाः सत्त्वरजस्तमोजुषः । 

समो भवान् तास्वसुरादिषु प्रभो 

     तथापि भक्तं भजते महेश्वरः ॥ १४ ॥ 

(अनुष्टुप्) 

तस्मादीश भजन्त्या मे श्रेयश्चिन्तय सुव्रत । 

हृतश्रियो हृतस्थानान् सपत्‍नैः पाहि नः प्रभो ॥ १५ ॥ 

परैर्विवासिता साहं मग्ना व्यसनसागरे । 

ऐश्वर्यं श्रीर्यशः स्थानं हृतानि प्रबलैर्मम ॥ १६ ॥ 

यथा तानि पुनः साधो प्रपद्येरन् ममात्मजाः । 

तथा विधेहि कल्याणं धिया कल्याणकृत्तम ॥ १७ ॥ 

श्रीशुक उवाच - 

एवं अभ्यर्थितोऽदित्या कस्तामाह स्मयन्निव । 

अहो मायाबलं विष्णोः स्नेहबद्धं इदं जगत् ॥ १८ ॥ 

क्व देहो भौतिकोऽनात्मा क्व चात्मा प्रकृतेः परः । 

कस्य के पतिपुत्राद्या मोह एव हि कारणम् ॥ १९ ॥ 

उपतिष्ठस्व पुरुषं भगवन्तं जनार्दनम् । 

सर्वभूतगुहावासं वासुदेवं जगद्‍गुरुम् ॥ २० ॥ 

स विधास्यति ते कामान् हरिर्दीनानुकंपनः । 

अमोघा भगवद्‍भक्तिः न इतरेति मतिर्मम ॥ २१ ॥ 

अदितिरुवाच - 

केनाहं विधिना ब्रह्मन् उपस्थास्ये जगत्पतिम् । 

यथा मे सत्यसंकल्पो विदध्यात् स मनोरथम् ॥ २२ ॥ 

आदिश त्वं द्विजश्रेष्ठ विधिं तदुपधावनम् । 

आशु तुष्यति मे देवः सीदन्त्याः सह पुत्रकैः । 

कश्यप उवाच -

एतन्मे भगवान् पृष्टः प्रजाकामस्य पद्मजः । 

यदाह ते प्रवक्ष्यामि व्रतं केशवतोषणम् ॥ २४ ॥ 

फाल्गुनस्यामले पक्षे द्वादशाहं पयोव्रतम् । 

अर्चयेत् अरविन्दाक्षं भक्त्या परमयान्वितः ॥ २५ ॥ 

सिनीवाल्यां मृदालिप्य स्नायात् क्रोडविदीर्णया । 

यदि लभ्येत वै स्रोतसि एतं मंत्रं उदीरयेत् ॥ २६ ॥ 

त्वं देव्यादिवराहेण रसायाः स्थानमिच्छता । 

उद्‌धृतासि नमस्तुभ्यं पाप्मानं मे प्रणाशय ॥ २७ ॥ 

निर्वर्तितात्मनियमो देवं अर्चेत् समाहितः । 

अर्चायां स्थण्डिले सूर्ये जले वह्नौ गुरौ अपि ॥ २८ ॥ 

नमस्तुभ्यं भगवते पुरुषाय महीयसे । 

सर्वभूतनिवासाय वासुदेवाय साक्षिणे ॥ २९ ॥ 

नमोऽव्यक्ताय सूक्ष्माय प्रधानपुरुषाय च । 

चतुर्विंशद्‍गुणज्ञाय गुणसंख्यानहेतवे ॥ ३० ॥ 

नमो द्विशीर्ष्णे त्रिपदे चतुःश्रृंगाय तन्तवे । 

सप्तहस्ताय यज्ञाय त्रयीविद्यात्मने नमः ॥ ३१ ॥ 

नमः शिवाय रुद्राय नमः शक्तिधराय च । 

सर्वविद्याधिपतये भूतानां पतये नमः ॥ ३२ ॥ 

नमो हिरण्यगर्भाय प्राणाय जगदात्मने । 

योगैश्वर्यशरीराय नमस्ते योगहेतवे ॥ ३३ ॥ 

नमस्ते आदिदेवाय साक्षिभूताय ते नमः । 

नारायणाय ऋषये नराय हरये नमः ॥ ३४ ॥ 

नमो मरकतश्याम वपुषेऽधिगतश्रिये । 

केशवाय नमस्तुभ्यं नमस्ते पीतवाससे ॥ ३५ ॥ 

त्वं सर्ववरदः पुंसां वरेण्य वरदर्षभ । 

अतस्ते श्रेयसे धीराः पादरेणुं उपासते ॥ ३६ ॥ 

अन्ववर्तन्त यं देवाः श्रीश्च तत्पादपद्मयोः । 

स्पृहयन्त इवामोदं भगवान् मे प्रसीदताम् ॥ ३७ ॥ 

एतैः मंत्रैः हृर्हृषीकेशं आवाहनपुरस्कृतम् । 

अर्चयेत् श्रद्धया युक्तः पाद्योपस्पर्शनादिभिः ॥ ३८ ॥ 

अर्चित्वा गन्धमाल्याद्यैः पयसा स्नपयेद् विभुम् । 

वस्त्रोपवीताभरण पाद्योपस्पर्शनैस्ततः ॥ ३९ ॥ 

गन्धधूपादिभिश्चार्चेद् द्वादशाक्षरविद्यया ॥ ३९५ । 

श्रृतं पयसि नैवेद्यं शाल्यन्नं विभवे सति । 

ससर्पिः सगुडं दत्त्वा जुहुयान् मूलविद्यया ॥ ४० ॥ 

निवेदितं तद्‍भक्ताय दद्याद्‍भुञ्जीत वा स्वयम् । 

दत्त्वाऽऽचमनमर्चित्वा तांबूलं च निवेदयेत् ॥ ४१ ॥ 

जपेत् अष्टोत्तरशतं स्तुवीत स्तुतिभिः प्रभुम् । 

कृत्वा प्रदक्षिणं भूमौ प्रणमेद् दण्डवन्मुदा ॥ ४२ ॥ 

कृत्वा शिरसि तच्छेषां देवं उद्वासयेत् ततः । 

द्व्यवरान् भोजयेद् विप्रान् पायसेन यथोचितम् ॥ ४३ ॥ 

भुञ्जीत तैरनुज्ञातः सेष्टः शेषं सभाजितैः । 

ब्रह्मचार्यथ तद् रात्र्यां श्वो भूते प्रथमेऽहनि ॥ ४४ ॥ 

स्नातः शुचिर्यथोक्तेन विधिना सुसमाहितः । 

पयसा स्नापयित्वार्चेद् यावद् व्रतसमापनम् ॥ ४५ ॥ 

पयोभक्षो व्रतमिदं चरेत् विष्णु अर्चनादृतः । 

पूर्ववत् जुहुयादग्निं ब्राह्मणांश्चापि भोजयेत् ॥ ४६ ॥ 

एवं तु अहः अहः कुर्याद् द्वादशाहं पयोव्रतम् । 

हरेः आराधनं होमं अर्हणं द्विजतर्पणम् ॥ ४७ ॥ 

प्रतिपत्-दिनं आरभ्य यावत् शुक्लत्रयोदशीम् । 

ब्रह्मचर्यमधःस्वप्नं स्नानं त्रिषवणं चरेत् ॥ ४८ ॥ 

वर्जयेत् असद् आलापं भोगान् उच्चावचान् तथा । 

अहिंस्रः सर्वभूतानां वासुदेवपरायणः ॥ ४९ ॥ 

त्रयोदश्यां अथो विष्णोः स्नपनं पञ्चकैर्विभोः । 

कारयेत् शास्त्रदृष्टेन विधिना विधिकोविदैः ॥ ५० ॥ 

पूजां च महतीं कुर्यात् वित्त शाठ्य विवर्जितः । 

चरुं निरूप्य पयसि शिपिविष्टाय विष्णवे ॥ ५१ ॥ 

श्रृतेन तेन पुरुषं यजेत सुसमाहितः । 

नैवेद्यं चातिगुणवद् दद्यात् पुरुषतुष्टिदम् ॥ ५२ ॥ 

आचार्यं ज्ञानसम्पन्नं वस्त्राभरणधेनुभिः । 

तोषयेत् ऋत्विजश्चैव तद् विद्धि आराधनं हरेः ॥ ५३ ॥ 

भोजयेत् तान्गुणवता सदन्नेन शुचिस्मिते । 

अन्यांश्च ब्राह्मणान् शक्त्या ये च तत्र समागताः ॥ ५४ ॥ 

दक्षिणां गुरवे दद्याद् ऋत्विग्भ्यश्च यथार्हतः । 

अन्नाद्येन अश्वपाकांश्च प्रीणयेत् समुपागतान् ॥ ५५ ॥ 

भुक्तवत्सु च सर्वेषु दीनान्ध कृपणादिषु । 

विष्णोस्तत् प्रीणनं विद्वान् भुञ्जीत सह बन्धुभिः ॥ ५६ ॥ 

नृत्यवादित्रगीतैश्च स्तुतिभिः स्वस्तिवाचकैः । 

कारयेत् तत्कथाभिश्च पूजां भगवतोऽन्वहम् ॥ ५७ ॥ 

एतत् पयोव्रतं नाम पुरुषाराधनं परम् । 

पितामहेनाभिहितं मया ते समुदाहृतम् ॥ ५८ ॥ 

त्वं चानेन महाभागे सम्यक् चीर्णेन केशवम् । 

आत्मना शुद्धभावेन नियतात्मा भजाव्ययम् ॥ ५९ ॥ 

अयं वै सर्वयज्ञाख्यः सर्वव्रतमिति स्मृतम् । 

तपःसारं इदं भद्रे दानं च ईश्वरतर्पणम् ॥ ६० ॥ 

ते एव नियमाः साक्षात् ते एव च यमोत्तमाः । 

तपो दानं व्रतं यज्ञो येन तुष्यति अधोक्षजः ॥ ६१ ॥ 

तस्मात् एतद्व्रतं भद्रे प्रयता श्रद्धयाचर । 

भगवान् परितुष्टस्ते वरानाशु विधास्यति ॥ ६२ ॥ 

इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां 

अष्टमस्कन्धे अदिति पयोव्रतकथनं नाम षोडशोऽध्यायः ॥ १६ ॥ 

हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥