श्रीमद्भागवतपुराणम्/स्कन्धः ८/अध्यायः १४

विकिस्रोतः तः

श्रीमद्‌भागवत महापुराण

अष्टमः स्कन्धः - चतुर्दशोऽध्यायः

मन्वादीनां पृथक् पृथक् कर्मनिरूपणम् -

श्रीराजोवाच - 

(अनुष्टुप्) 

मन्वन्तरेषु भगवन् यथा मन्वादयस्त्विमे । 

यस्मिन्कर्मणि ये येन नियुक्ताः तद् वदस्व मे ॥ १ ॥ 

श्रीऋषिरुवाच - 

मनवो मनुपुत्राश्च मुनयश्च महीपते । 

इन्द्राः सुरगणाश्चैव सर्वे पुरुषशासनाः ॥ २ ॥ 

यज्ञादयो याः कथिताः पौरुष्यस्तनवो नृप । 

मन्वादयो जगद् यात्रां नयन्त्याभिः प्रचोदिताः ॥ ३ ॥ 

चतुर्युगान्ते कालेन ग्रस्तान् श्रुतिगणान्यथा । 

तपसा ऋषयोऽपश्यन् यतो धर्मः सनातनः ॥ ४ ॥ 

ततो धर्मं चतुष्पादं मनवो हरिणोदिताः । 

युक्ताः सञ्चारयन्ति अद्धा स्वे स्वे काले महीं नृप ॥ ५ ॥ 

पालयन्ति प्रजापाला यावदन्तं विभागशः । 

यज्ञभागभुजो देवा ये च तत्र अन्विताश्च तैः ॥ ६ ॥ 

इन्द्रो भगवता दत्तां त्रैलोक्यश्रियमूर्जिताम् । 

भुञ्जानः पाति लोकान् त्रीन् कामं लोके प्रवर्षति ॥ ७ ॥ 

ज्ञानं चानुयुगं ब्रूते हरिः सिद्धस्वरूपधृक् । 

ऋषिरूपधरः कर्म योगं योगेशरूपधृक् ॥ ८ ॥ 

सर्गं प्रजेशरूपेण दस्यून् हन्यात् स्वराड्वपुः । 

कालरूपेण सर्वेषां अभावाय पृथग्गुणः ॥ ९ ॥ 

स्तूयमानो जनैरेभिः मायया नामरूपया । 

विमोहितात्मभिर्नाना दर्शनैर्न च दृश्यते ॥ १० ॥ 

एतत्कल्पविकल्पस्य प्रमाणं परिकीर्तितम् । 

यत्र मन्वन्तराण्याहुः चतुर्दश पुराविदः ॥ ११ ॥ 

इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां 

अष्टमस्कन्धे चतुर्दशोऽध्यायः ॥ १४ ॥ 

हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥