श्रीमद्भागवतपुराणम्/स्कन्धः ७/अध्यायः ४

विकिस्रोतः तः
Jump to navigation Jump to search

श्रीमद्‌भागवत महापुराण

सप्तमः स्कंधः - चतुर्थोऽध्यायः

हिरण्यकशिपोः शासनम्, प्रह्रादस्य जन्म, तद्‌गुणानां च वर्णनम् -

नारद उवाच - 

(अनुष्टुप्) 

एवं वृतः शतधृतिः हिरण्यकशिपोरथ । 

प्रादात् तत् तपसा प्रीतो वरान् तस्य सुदुर्लभान् ॥ १ ॥ 

ब्रह्मोवाच - 

तातेमे दुर्लभाः पुंसां यान् वृणीषे वरान् मम । 

तथापि वितराम्यङ्‌ग वरान् यदपि दुर्लभान् ॥ २ ॥ 

ततो जगाम भगवान् अमोघानुग्रहो विभुः । 

पूजितोऽसुरवर्येण स्तूयमानः प्रजेश्वरैः ॥ ३ ॥ 

एवं लब्धवरो दैत्यो बिभ्रद् हेममयं वपुः । 

भगवत्यकरोद् द्वेषं भ्रातुर्वधमनुस्मरन् ॥ ४ ॥ 

स विजित्य दिशः सर्वा लोकांश्च त्रीन्महासुरः । 

देवासुरमनुष्येन्द्रान् गन्धर्वगरुडोरगान् ॥ ५ ॥ 

सिद्धचारणविद्याध्रान् ऋषीन् पितृपतीन् मनून् । 

यक्षरक्षःपिशाचेशान् प्रेतभूतपतीनथ ॥ ६ ॥ 

सर्वसत्त्वपतीन्जित्वा वशमानीय विश्वजित् । 

जहार लोकपालानां स्थानानि सह तेजसा ॥ ७ ॥ 

देवोद्यानश्रिया जुष्टं अध्यास्ते स्म त्रिपिष्टपम् । 

महेन्द्रभवनं साक्षात् निर्मितं विश्वकर्मणा । 

त्रैलोक्यलक्ष्म्यायतनं अध्युवासाखिलर्द्धिमत् ॥ ८३ । 

यत्र विद्रुमसोपाना महामारकता भुवः । 

यत्र स्फाटिककुड्यानि वैदूर्यस्तम्भपङ्‌क्तयः ॥ ९ ॥ 

यत्र चित्रवितानानि पद्मरागासनानि च । 

पयःफेननिभाः शय्या मुक्तादामपरिच्छदाः ॥ १० ॥ 

कूजद्‌भिर्नूपुरैर्देव्यः शब्दयन्त्य इतस्ततः । 

रत्‍नस्थलीषु पश्यन्ति सुदतीः सुन्दरं मुखम् ॥ ११ ॥ 

तस्मिन्महेन्द्रभवने महाबलो 

     महामना निर्जितलोक एकराट् । 

रेमेऽभिवन्द्याङ्‌घ्रियुगः सुरादिभिः 

     प्रतापितैरूर्जितचण्डशासनः ॥ १२ ॥ 

तमङ्‌ग मत्तं मधुनोरुगन्धिना 

     विवृत्तताम्राक्षमशेषधिष्ण्यपाः । 

उपासतोपायनपाणिभिर्विना 

     त्रिभिस्तपोयोगबलौजसां पदम् ॥ १३ ॥ 

जगुर्महेन्द्रासनमोजसा स्थितं 

     विश्वावसुस्तुम्बुरुरस्मदादयः । 

गन्धर्वसिद्धा ऋषयोऽस्तुवन्मुहुः 

     विद्याधरा अप्सरसश्च पाण्डव ॥ १४ ॥ 

स एव वर्णाश्रमिभिः क्रतुभिर्भूरिदक्षिणैः । 

इज्यमानो हविर्भागान् अग्रहीत् स्वेन तेजसा ॥ १५ ॥ 

अकृष्टपच्या तस्यासीत् सप्तद्वीपवती मही । 

तथा कामदुघा गावो नानाश्चर्यपदं नभः ॥ १६ ॥ 

रत्‍नाकराश्च रत्‍नौघान् तत्पत्‍न्यश्चोहुरूर्मिभिः । 

क्षारसीधुघृतक्षौद्र दधिक्षीरामृतोदकाः ॥ १७ ॥ 

शैला द्रोणीभिराक्रीडं सर्वर्तुषु गुणान् द्रुमाः । 

दधार लोकपालानां एक एव पृथग्गुणान् ॥ १८ ॥ 

स इत्थं निर्जितककुब् एकराड् वियान् प्रियान् । 

यथोपजोषं भुञ्जानो नातृप्यद् अजितेन्द्रियः ॥ १९ ॥ 

एवं ऐश्वर्यमत्तस्य दृप्तस्योच्छास्त्रवर्तिनः । 

कालो महान् व्यतीयाय ब्रह्मशापं उपेयुषः ॥ २० ॥ 

तस्योग्रदण्डसंविग्नाः सर्वे लोकाः सपालकाः । 

अन्यत्रालब्धशरणाः शरणं ययुरच्युतम् ॥ २१ ॥ 

तस्यै नमोऽस्तु काष्ठायै यत्रात्मा हरिरीश्वरः । 

यद्‍गत्वा न निवर्तन्ते शान्ताः संन्यासिनोऽमलाः ॥ २२ ॥ 

इति ते संयतात्मानः समाहितधियोऽमलाः । 

उपतस्थुर्हृषीकेशं विनिद्रा वायुभोजनाः ॥ २३ ॥ 

तेषां आविरभूद्वाणी अरूपा मेघनिःस्वना । 

सन्नादयन्ती ककुभः साधूनां अभयङ्‌करी ॥ २४ ॥ 

मा भैष्ट विबुधश्रेष्ठाः सर्वेषां भद्रमस्तु वः । 

मद्दर्शनं हि भूतानां सर्वश्रेयोपपत्तये ॥ २५ ॥ 

ज्ञातमेतस्य दौरात्म्यं दैतेयापसदस्य यत् । 

तस्य शान्तिं करिष्यामि कालं तावत्प्रतीक्षत ॥ २६ ॥ 

यदा देवेषु वेदेषु गोषु विप्रेषु साधुषु । 

धर्मे मयि च विद्वेषः स वा आशु विनश्यति ॥ २७ ॥ 

निर्वैराय प्रशान्ताय स्वसुताय महात्मने । 

प्रह्रादाय यदा द्रुह्येद् हनिष्येऽपि वरोर्जितम् ॥ २८ ॥ 

नारद उवाच - 

इत्युक्ता लोकगुरुणा तं प्रणम्य दिवौकसः । 

न्यवर्तन्त गतोद्वेगा मेनिरे चासुरं हतम् ॥ २९ ॥ 

तस्य दैत्यपतेः पुत्राश्चत्वारः परमाद्‍भुताः । 

प्रह्रादोऽभून् महांन् तेषां गुणैर्महदुपासकः ॥ ३० ॥ 

ब्रह्मण्यः शीलसम्पन्नः सत्यसन्धो जितेन्द्रियः । 

आत्मवत्सर्वभूतानां एकः प्रियसुहृत्तमः ॥ ३१ ॥ 

दासवत्सन्नतार्याङ्‌घ्रिः पितृवद् दीनवत्सलः । 

भ्रातृवत्सदृशे स्निग्धो गुरुषु ईश्वरभावनः ॥ ३२ ॥ 

विद्यार्थरूपजन्माढ्यो मानस्तम्भविवर्जितः ॥ ३२३ । 

नोद्विग्नचित्तो व्यसनेषु निःस्पृहः 

     श्रुतेषु दृष्टेषु गुणेष्ववस्तुदृक् । 

दान्तेन्द्रियप्राणशरीरधीः सदा 

     प्रशान्तकामो रहितासुरोऽसुरः ॥ ३३ ॥ 

यस्मिन्महद्‍गुणा राजन् गृह्यन्ते कविभिर्मुहुः । 

न तेऽधुना पिधीयन्ते यथा भगवतीश्वरे ॥ ३४ ॥ 

यं साधुगाथासदसि रिपवोऽपि सुरा नृप । 

प्रतिमानं प्रकुर्वन्ति किमुतान्ये भवादृशाः ॥ ३५ ॥ 

गुणैरलमसंख्येयै माहात्म्यं तस्य सूच्यते । 

वासुदेवे भगवति यस्य नैसर्गिकी रतिः ॥ ३६ ॥ 

न्यस्तक्रीडनको बालो जडवत् तन्मनस्तया । 

कृष्णग्रहगृहीतात्मा न वेद जगदीदृशम् ॥ ३७ ॥ 

आसीनः पर्यटन् अश्नन् शयानः प्रपिबन् ब्रुवन् । 

नानुसन्धत्त एतानि गोविन्दपरिरम्भितः ॥ ३८ ॥ 

क्वचिद् रुदति वैकुण्ठ चिन्ताशबलचेतनः । 

क्वचिद् हसति तच्चिन्ता ह्लाद उद्‍गायति क्वचित् ॥ ३९ ॥ 

नदति क्वचिद् उत्कण्ठो विलज्जो नृत्यति क्वचित् । 

क्वचित्तद्‍भावनायुक्तः तन्मयोऽनुचकार ह ॥ ४० ॥ 

क्वचिदुत्पुलकस्तूष्णीं आस्ते संस्पर्शनिर्वृतः । 

अस्पन्दप्रणयानन्द सलिलामीलितेक्षणः ॥ ४१ ॥ 

स उत्तमश्लोकपदारविन्दयोः 

     निषेवयाकिञ्चनसङ्‌गलब्धया । 

तन्वन् परां निर्वृतिमात्मनो मुहुः 

     दुसङ्‌गदीनस्य मनः शमं व्यधात् ॥ ४२ ॥ 

(अनुष्टुप्) 

तस्मिन् महाभागवते महाभागे महात्मनि । 

हिरण्यकशिपू राजन् अकरोद् अघमात्मजे ॥ ४३ ॥ 

युधिष्ठिर उवाच - 

देवर्ष एतदिच्छामो वेदितुं तव सुव्रत । 

यदात्मजाय शुद्धाय पितादात्साधवे ह्यघम् ॥ ४४ ॥ 

पुत्रान् विप्रतिकूलान् स्वान् पितरः पुत्रवत्सलाः । 

उपालभन्ते शिक्षार्थं नैवाघमपरो यथा ॥ ४५ ॥ 

किमुतानुवशान् साधून् तादृशान् गुरुदेवतान् । 

एतत्कौतूहलं ब्रह्मन् अस्माकं विधम प्रभो । 

पितुः पुत्राय यद्द्वेषो मरणाय प्रयोजितः ॥ ४६ ॥ 

इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां 

सप्तमस्कन्धे प्रह्रादचरिते चतुर्थोऽध्यायः ॥ ४ ॥ 

हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥