श्रीमद्भागवतपुराणम्/स्कन्धः ७/अध्यायः १४

विकिस्रोतः तः
Jump to navigation Jump to search

श्रीमद्‌भागवत महापुराण

सप्तमः स्कंधः - चतुर्दशोऽध्यायः

देशाकालादि विशेषेण गृहस्थधर्मनिरूपणम् -

युधिष्ठिर उवाच - 

गृहस्थ एतां पदवीं विधिना येन चाञ्जसा । 

याति देवऋषे ब्रूहि मादृशो गृहमूढधीः ॥ १ ॥ 

श्रीनारद उवाच - 

गृहेष्ववस्थितो राजन् क्रियाः कुर्वन्यथोचिताः । 

वासुदेवार्पणं साक्षाद् उपासीत महामुनीन् ॥ २ ॥ 

श्रृण्वन्भगवतोऽभीक्ष्णं अवतारकथामृतम् । 

श्रद्दधानो यथाकालं उपशान्तजनावृतः ॥ ३ ॥ 

सत्सङ्‌गाच्छनकैः सङ्‌गं आत्मजायात्मजादिषु । 

विमुञ्चेन् मुच्यमानेषु स्वयं स्वप्नवदुत्थितः ॥ ४ ॥ 

यावद् अर्थमुपासीनो देहे गेहे च पण्डितः । 

विरक्तो रक्तवत् तत्र नृलोके नरतां न्यसेत् ॥ ५ ॥ 

ज्ञातयः पितरौ पुत्रा भ्रातरः सुहृदोऽपरे । 

यद् वदन्ति यदिच्छन्ति चानुमोदेत निर्ममः ॥ ६ ॥ 

दिव्यं भौमं चान्तरीक्षं वित्तं अच्युतनिर्मितम् । 

तत्सर्वं उपयुञ्जान एतत्कुर्यात् स्वतो बुधः ॥ ७ ॥ 

यावद् भ्रियेत जठरं तावत् स्वत्वं हि देहिनाम् । 

अधिकं योऽभिमन्येत स स्तेनो दण्डमर्हति ॥ ८ ॥ 

मृगोष्ट्रखरमर्काखु सरीसृप्खगमक्षिकाः । 

आत्मनः पुत्रवत्पश्येत् तैरेषामन्तरं कियत् ॥ ९ ॥ 

त्रिवर्गं नातिकृच्छ्रेण भजेत गृहमेध्यपि । 

यथादेशं यथाकालं यावद् दैवोपपादितम् ॥ १० ॥ 

आश्वाघान्तेऽवसायिभ्यः कामान् सविभजेद् यथा । 

अप्येकामात्मनो दारां नृणां स्वत्वग्रहो यतः ॥ ११ ॥ 

जह्याद्यदर्थे स्वप्राणान् हन्याद्वा पितरं गुरुम् । 

तस्यां स्वत्वं स्त्रियां जह्याद् यस्तेन ह्यजितो जितः ॥ १२ ॥ 

कृमिविड्भस्मनिष्ठान्तं क्वेदं तुच्छं कलेवरम् । 

क्व तदीयरतिर्भार्या क्वायमात्मा नभश्छदिः ॥ १३ ॥ 

सिद्धैर्यज्ञावशिष्टार्थैः कल्पयेद् वृत्तिमात्मनः । 

शेषे स्वत्वं त्यजन् प्राज्ञः पदवीं महतामियात् ॥ १४ ॥ 

देवानृषीन् नृभूतानि पितॄनात्मानमन्वहम् । 

स्ववृत्त्यागतवित्तेन यजेत पुरुषं पृथक् ॥ १५ ॥ 

यर्ह्यात्मनोऽधिकाराद्याः सर्वाः स्युर्यज्ञसम्पदः । 

वैतानिकेन विधिना अग्निहोत्रादिना यजेत् ॥ १६ ॥ 

न ह्यग्निमुखतोऽयं वै भगवान् सर्वयज्ञभुक् । 

इज्येत हविषा राजन् यथा विप्रमुखे हुतैः ॥ १७ ॥ 

तस्माद् ब्राह्मणदेवेषु मर्त्यादिषु यथार्हतः । 

तैस्तैः कामैर्यजस्वैनं क्षेत्रज्ञं ब्राह्मणाननु ॥ १८ ॥ 

कुर्याद् आपरपक्षीयं मासि प्रौष्ठपदे द्विजः । 

श्राद्धं पित्रोर्यथावित्तं तद्‍बन्धूनां च वित्तवान् ॥ १९ ॥ 

अयने विषुवे कुर्याद् व्यतीपाते दिनक्षये । 

चन्द्रादित्योपरागे च द्वादश्यां श्रवणेषु च ॥ २० ॥ 

तृतीयायां शुक्लपक्षे नवम्यामथ कार्तिके । 

चतसृष्वप्यष्टकासु हेमन्ते शिशिरे तथा ॥ २१ ॥ 

माघे च सितसप्तम्यां मघाराकासमागमे । 

राकया चानुमत्या च मासर्क्षाणि युतान्यपि ॥ २२ ॥ 

द्वादश्यां अनुराधा स्यात् श्रवणस्तिस्र उत्तराः । 

तिसृष्वेकादशी वाऽऽसु जन्मर्क्षश्रोणयोगयुक् ॥ २३ ॥ 

त एते श्रेयसः काला नॄणां श्रेयोविवर्धनाः । 

कुर्यात् सर्वात्मनैतेषु श्रेयोऽमोघं तदायुषः ॥ २४ ॥ 

एषु स्नानं जपो होमो व्रतं देवद्विजार्चनम् । 

पितृदेवनृभूतेभ्यो यद् दत्तं तद्ध्यनश्वरम् ॥ २५ ॥ 

संस्कारकालो जायाया अपत्यस्यात्मनस्तथा । 

प्रेतसंस्था मृताहश्च कर्मण्यभ्युदये नृप ॥ २६ ॥ 

अथ देशान् प्रवक्ष्यामि धर्मादिश्रेय आवहान् । 

स वै पुण्यतमो देशः सत्पात्रं यत्र लभ्यते ॥ २७ ॥ 

बिम्बं भगवतो यत्र सर्वमेतच्चराचरम् । 

यत्र ह ब्राह्मणकुलं तपोविद्यादयान्वितम् ॥ २८ ॥ 

यत्र यत्र हरेरर्चा स देशः श्रेयसां पदम् । 

यत्र गंगादयो नद्यः पुराणेषु च विश्रुताः ॥ २९ ॥ 

सरांसि पुष्करादीनि क्षेत्राण्यर्हाश्रितान्युत । 

कुरुक्षेत्रं गयशिरः प्रयागः पुलहाश्रमः ॥ ३० ॥ 

नैमिषं फाल्गुनं सेतुः प्रभासोऽथ कुशस्थली । 

वाराणसी मधुपुरी पम्पा बिन्दुसरस्तथा ॥ ३१ ॥ 

नारायणाश्रमो नन्दा सीतारामाश्रमादयः । 

सर्वे कुलाचला राजन् महेन्द्रमलयादयः ॥ ३२ ॥ 

एते पुण्यतमा देशा हरेरर्चाश्रिताश्च ये । 

एतान्देशान् निषेवेत श्रेयस्कामो ह्यभीक्ष्णशः । 

धर्मो ह्यत्रेहितः पुंसां सहस्राधिफलोदयः ॥ ३३ ॥ 

पात्रं त्वत्र निरुक्तं वै कविभिः पात्रवित्तमैः । 

हरिरेवैक उर्वीश यन्मयं वै चराचरम् ॥ ३४ ॥ 

देवर्ष्यर्हत्सु वै सत्सु तत्र ब्रह्मात्मजादिषु । 

राजन् यद् अग्रपूजायां मतः पात्रतयाच्युतः ॥ ३५ ॥ 

जीवराशिभिराकीर्ण अण्डकोशाङ्‌घ्रिपो महान् । 

तन्मूलत्वाद् अच्युतेज्या सर्वजीवात्मतर्पणम् ॥ ३६ ॥ 

पुराण्यनेन सृष्टानि नृ तिर्यग् ऋषिदेवताः । 

शेते जीवेन रूपेण पुरेषु पुरुषो ह्यसौ ॥ ३७ ॥ 

तेष्वेव भगवान् राजन् तारतम्येन वर्तते । 

तस्मात् पात्रं हि पुरुषो यावानात्मा यथेयते ॥ ३८ ॥ 

दृष्ट्वा तेषां मिथो नृणां अवज्ञानात्मतां नृप । 

त्रेतादिषु हरेरर्चा क्रियायै कविभिः कृता ॥ ३९ ॥ 

ततोऽर्चायां हरिं केचित् संश्रद्धाय सपर्यया । 

उपासत उपास्तापि नार्थदा पुरुषद्विषाम् ॥ ४० ॥ 

पुरुषेष्वपि राजेन्द्र सुपात्रं ब्राह्मणं विदुः । 

तपसा विद्यया तुष्ट्या धत्ते वेदं हरेस्तनुम् ॥ ४१ ॥ 

नन्वस्य ब्राह्मणा राजन् कृष्णस्य जगदात्मनः । 

पुनन्तः पादरजसा त्रिलोकीं दैवतं महत् ॥ ४२ ॥ 

इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां 

सप्तमस्कन्धे सदाचारनिर्णयो नाम चतुर्दशोऽध्यायः ॥ १४ ॥ 

हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥