श्रीमद्भागवतपुराणम्/स्कन्धः ६/अध्यायः १९

विकिस्रोतः तः
Jump to navigation Jump to search

श्रीमद्‌भागवत महापुराण

षष्ठः स्कन्धः - एकोनविंशोऽध्यायः

पुंसवनव्रतविधिः -

श्रीराजोवाच - 

व्रतं पुंसवनं ब्रह्मन् भवता यदुदीरितम् । 

तस्य वेदितुमिच्छामि येन विष्णुः प्रसीदति ॥ १ ॥

श्रीशुक उवाच - 

शुक्ले मार्गशिरे पक्षे योषिद्‍भर्तुरनुज्ञया । 

आरभेत व्रतमिदं सार्वकामिकमादितः ॥ २ ॥

निशम्य मरुतां जन्म ब्राह्मणान् अनुमन्त्र्य च । 

स्नात्वा शुक्लदती शुक्ले वसीतालङ्‌कृताम्बरे । 

पूजयेत् प्रातराशात् प्राग् भगवन्तं श्रिया सह ॥ ३ ॥ 

अलं ते निरपेक्षाय पूर्णकाम नमोऽस्तु ते । 

महाविभूतिपतये नमः सकलसिद्धये ॥ ४ ॥

यथा त्वं कृपया भूत्या तेजसा महिमौजसा । 

जुष्ट ईश गुणैः सर्वैः ततोऽसि भगवान् प्रभुः ॥ ५ ॥

विष्णुपत्‍नि महामाये महापुरुषलक्षणे । 

प्रीयेथा मे महाभागे लोकमातर्नमोऽस्तु ते ॥ ६ ॥

ॐ नमो भगवते महापुरुषाय महानुभावाय 

महाविभूतिपतये सह महाविभूतिभिः 

बलिमुपहरामीति । अनेनाहरहर्मन्त्रेण 

विष्णोरावाहनार्घ्यपाद्योपस्पर्शनस्नान

वास‌उपवीतविभूषण गन्धपुष्पधूपदीपोपहारादि 

उपचारान् सुसमाहित उपाहरेत् ॥ ७ ॥ 

हविःशेषं च जुहुयादनले द्वादशाहुतीः । 

ॐ नमो भगवते महापुरुषाय महाविभूतिपतये स्वाहेति ॥ ८ ॥

श्रियं विष्णुं च वरदावाशिषां प्रभवावुभौ । 

भक्त्या सम्पूजयेन्नित्यं यदीच्छेत्सर्वसम्पदः ॥ ९ ॥

प्रणमेद् दण्डवद्‍भूमौ भक्तिप्रह्वेण चेतसा । 

दशवारं जपेन्मन्त्रं ततः स्तोत्रमुदीरयेत् ॥ १० ॥

युवां तु विश्वस्य विभू जगतः कारणं परम् । 

इयं हि प्रकृतिः सूक्ष्मा मायाशक्तिर्दुरत्यया ॥ ११ ॥

तस्या अधीश्वरः साक्षात् त्वमेव पुरुषः परः । 

त्वं सर्वयज्ञ इज्येयं क्रियेयं फलभुग्भवान् ॥ १२ ॥

गुणव्यक्तिरियं देवी व्यञ्जको गुणभुग्भवान् । 

त्वं हि सर्वशरीर्यात्मा श्रीः शरीरेन्द्रियाशयाः । 

नामरूपे भगवती प्रत्ययस्त्वं अपाश्रयः ॥ १३ ॥ 

यथा युवां त्रिलोकस्य वरदौ परमेष्ठिनौ । 

तथा म उत्तमश्लोक सन्तु सत्या महाशिषः ॥ १४ ॥

इत्यभिष्टूय वरदं श्रीनिवासं श्रिया सह । 

तन्निःसार्योपहरणं दत्त्वाऽऽचमनमर्चयेत् ॥ १५ ॥

ततः स्तुवीत स्तोत्रेण भक्तिप्रह्वेण चेतसा । 

यज्ञोच्छिष्टमवघ्राय पुनरभ्यर्चयेद् हरिम् ॥ १६ ॥

पतिं च परया भक्त्या महापुरुषचेतसा । 

प्रियैस्तैस्तैरुपनमेत् प्रेमशीलः स्वयं पतिः । 

बिभृयात् सर्वकर्माणि पत्‍न्या उच्चावचानि च ॥ १७ ॥ 

कृतमेकतरेणापि दम्पत्योरुभयोरपि । 

पत्‍न्यां कुर्यादनर्हायां पतिरेतत् समाहितः ॥ १८ ॥

विष्णोर्व्रतमिदं बिभ्रन् न विहन्यात् कथञ्चन । 

विप्रान् स्त्रियो वीरवतीः स्रग्गन्धबलिमण्डनैः । 

अर्चेदहरहर्भक्त्या देवं नियममास्थितः ॥ १९ ॥ 

उद्वास्य देवं स्वे धाम्नि तन्निवेदितमग्रतः । 

अद्यात् आत्मविशुद्ध्यर्थं सर्वकामर्द्धये तथा ॥ २० ॥

एतेन पूजाविधिना मासान् द्वादश हायनम् । 

नीत्वाथोपचरेत् साध्वी कार्तिके चरमेऽहनि ॥ २१ ॥

श्वोभूतेऽप उपस्पृश्य कृष्णमभ्यर्च्य पूर्ववत् । 

पयःश्रृतेन जुहुयात् चरुणा सह सर्पिषा । 

पाकयज्ञविधानेन द्वादशैवाहुतीः पतिः ॥ २२ ॥ 

आशिषः शिरसाऽऽदाय द्विजैः प्रीतैः समीरिताः । 

प्रणम्य शिरसा भक्त्या भुञ्जीत तदनुज्ञया ॥ २३ ॥

आचार्यमग्रतः कृत्वा वाग्यतः सह बन्धुभिः । 

दद्यात्पत्‍न्यै चरोः शेषं सुप्रजास्त्वं सुसौभगम् ॥ २४ ॥

एतच्चरित्वा विधिवद्व्रतं विभोः 

     अभीप्सितार्थं लभते पुमानिह । 

स्त्री त्वेतदास्थाय लभेत सौभगं 

     श्रियं प्रजां जीवपतिं यशो गृहम् ॥ २५ ॥

कन्या च विन्देत समग्रलक्षणं 

     वरं त्ववीरा हतकिल्बिषां गतिम् । 

मृतप्रजा जीवसुता धनेश्वरी 

     सुदुर्भगा सुभगा रूपमग्र्यम् ॥ २६ ॥

विन्देद् विरूपा विरुजा विमुच्यते 

     य आमयावीन्द्रियकल्यदेहम् । 

एतत्पठन्नभ्युदये च कर्मणि 

     अनन्ततृप्तिः पितृदेवतानाम् ॥ २७ ॥

तुष्टाः प्रयच्छन्ति समस्तकामान् 

     होमावसाने हुतभुक् श्रीः हरिश्च । 

राजन् महन्मरुतां जन्म पुण्यं 

     दितेर्व्रतं चाभिहितं महत्ते ॥ २८ ॥

इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां 

षष्ठस्कन्धे पुंसवनव्रतकथनं नाम एकोनविंशोऽध्यायः ॥ १९ ॥ 

हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥