श्रीमद्भागवतपुराणम्/स्कन्धः ६/अध्यायः १७

विकिस्रोतः तः

श्रीमद्‌भागवत महापुराण

षष्ठः स्कन्धः - शप्तदशोऽध्यायः

कैलासे पार्वतीसहितस्य शिवस्योपहासकरणात् 

पार्वतीशापेन चित्रकेतोर्वृत्रजन्म प्राप्तिश्च -

श्रीशुक उवाच - 

यतश्चान्तर्हितोऽनन्तः तस्यै कृत्वा दिशे नमः । 

विद्याधरश्चित्रकेतुः चचार गगने चरः ॥ १ ॥

स लक्षं वर्षलक्षाणां अव्याहतबलेन्द्रियः । 

स्तूयमानो महायोगी मुनिभिः सिद्धचारणैः ॥ २ ॥

कुलाचलेन्द्रद्रोणीषु नानासङ्‌कल्पसिद्धिषु । 

रेमे विद्याधरस्त्रीभिः गापयन् हरिमीश्वरम् ॥ ३ ॥

एकदा स विमानेन विष्णुदत्तेन भास्वता । 

गिरिशं ददृशे गच्छन् परीतं सिद्धचारणैः ॥ ४ ॥

आलिङ्‌ग्याङ्‌कीकृतां देवीं बाहुना मुनिसंसदि । 

उवाच देव्याः श्रृण्वन्त्या जहासोच्चैस्तदन्तिके ॥ ५ ॥

चित्रकेतुरुवाच - 

एष लोकगुरुः साक्षात् धर्मं वक्ता शरीरिणाम् । 

आस्ते मुख्यः सभायां वै मिथुनीभूय भार्यया ॥ ६ ॥

जटाधरस्तीव्रतपा ब्रह्मवादिसभापतिः । 

अङ्‌कीकृत्य स्त्रियं चास्ते गतह्रीः प्राकृतो यथा ॥ ७ ॥

प्रायशः प्राकृताश्चापि स्त्रियं रहसि बिभ्रति । 

अयं महाव्रतधरो बिभर्ति सदसि स्त्रियम् ॥ ८ ॥

श्रीशुक उवाच - 

भगवानपि तच्छ्रुत्वा प्रहस्यागाधधीर्नृप । 

तूष्णीं बभूव सदसि सभ्याश्च तदनुव्रताः ॥ ९ ॥

इत्यतद्वीर्यविदुषि ब्रुवाणे बह्वशोभनम् । 

रुषाऽऽह देवी धृष्टाय निर्जितात्माभिमानिने ॥ १० ॥

श्रीपार्वति उवाच - 

अयं किमधुना लोके शास्ता दण्डधरः प्रभुः । 

अस्मद्विधानां दुष्टानां निर्लज्जानां च विप्रकृत् ॥ ११ ॥

न वेद धर्मं किल पद्मयोनिः 

     न ब्रह्मपुत्रा भृगुनारदाद्याः । 

न वै कुमारः कपिलो मनुश्च 

     ये नो निषेधन्त्यतिवर्तिनं हरम् ॥ १२ ॥

एषामनुध्येयपदाब्जयुग्मं 

     जगद्‍गुरुं मङ्‌गलमङ्‌गलं स्वयम् । 

यः क्षत्रबन्धुः परिभूय सूरीन् 

     प्रशास्ति धृष्टस्तदयं हि दण्ड्यः ॥ १३ ॥

नायमर्हति वैकुण्ठ पादमूलोपसर्पणम् । 

सम्भावितमतिः स्तब्धः साधुभिः पर्युपासितम् ॥ १४ ॥

अतः पापीयसीं योनिं आसुरीं याहि दुर्मते । 

यथेह भूयो महतां न कर्ता पुत्र किल्बिषम् ॥ १५ ॥

श्रीशुक उवाच - 

एवं शप्तश्चित्रकेतुः विमानाद् अवरुह्य सः । 

प्रसादयामास सतीं मूर्ध्ना नम्रेण भारत ॥ १६ ॥

चित्रकेतुरुवाच - 

प्रतिगृह्णामि ते शापं आत्मनोऽञ्जलिनाम्बिके । 

देवैर्मर्त्याय यत्प्रोक्तं पूर्वदिष्टं हि तस्य तत् ॥ १७ ॥

संसारचक्र एतस्मिन् जन्तुरज्ञानमोहितः । 

भ्राम्यन् सुखं च दुःखं च भुङ्‌क्ते सर्वत्र सर्वदा ॥ १८ ॥

नैवात्मा न परश्चापि कर्ता स्यात् सुखदुःखयोः । 

कर्तारं मन्यतेऽप्राज्ञ आत्मानं परमेव च ॥ १९ ॥

गुणप्रवाह एतस्मिन्कः शापः को न्वनुग्रहः । 

कः स्वर्गो नरकः को वा किं सुखं दुःखमेव वा ॥ २० ॥

एकः सृजति भूतानि भगवान् आत्ममायया । 

एषां बन्धं च मोक्षं च सुखं दुःखं च निष्कलः ॥ २१ ॥

न तस्य कश्चिद् दयितः प्रतीपो 

     न ज्ञातिबन्धुर्न परो न च स्वः । 

समस्य सर्वत्र निरञ्जनस्य 

     सुखे न रागः कुत एव रोषः ॥ २२ ॥

तथापि तच्छक्तिविसर्ग एषां 

     सुखाय दुःखाय हिताहिताय । 

बन्धाय मोक्षाय च मृत्युजन्मनोः 

     शरीरिणां संसृतयेऽवकल्पते ॥ २३ ॥

अथ प्रसादये न त्वां शापमोक्षाय भामिनि । 

यन्मन्यसे ह्यसाधूक्तं मम तत्क्षम्यतां सति ॥ २४ ॥

श्रीशुक उवाच - 

इति प्रसाद्य गिरिशौ चित्रकेतुररिन्दम । 

जगाम स्वविमानेन पश्यतोः स्मयतोस्तयोः ॥ २५ ॥

ततस्तु भगवान्रुद्रो रुद्राणीं इदमब्रवीत् । 

देवर्षिदैत्यसिद्धानां पार्षदानां च श्रृण्वताम् ॥ २६ ॥

श्रीरुद्र उवाच - 

दृष्टवत्यसि सुश्रोणि हरेरद्‍भुतकर्मणः । 

माहात्म्यं भृत्यभृत्यानां निःस्पृहाणां महात्मनाम् ॥ २७ ॥

नारायणपराः सर्वे न कुतश्चन बिभ्यति । 

स्वर्गापवर्गनरकेषु अपि तुल्यार्थदर्शिनः ॥ २८ ॥

देहिनां देहसंयोगाद् द्वन्द्वान् ईश्वरलीलया । 

सुखं दुःखं मृतिर्जन्म शापोऽनुग्रह एव च ॥ २९ ॥

अविवेककृतः पुंसो ह्यर्थभेद इवात्मनि । 

गुणदोषविकल्पश्च भिदेव स्रजिवत्कृतः ॥ ३० ॥

वासुदेवे भगवति भक्तिं उद्वहतां नृणाम् । 

ज्ञानवैराग्यवीर्याणां न हि कश्चिद्व्यपाश्रयः ॥ ३१ ॥

नाहं विरिञ्चो न कुमारनारदौ 

     न ब्रह्मपुत्रा मुनयः सुरेशाः । 

विदाम यस्येहितमंशकांशका 

     न तत्स्वरूपं पृथगीशमानिनः ॥ ३२ ॥

न ह्यस्यास्ति प्रियः कश्चित् नाप्रियः स्वः परोऽपि वा । 

आत्मत्वात् सर्वभूतानां सर्वभूतप्रियो हरिः ॥ ३३ ॥

तस्य चायं महाभागः चित्रकेतुः प्रियोऽनुगः । 

सर्वत्र समदृक् शान्तो ह्यहं चैवाच्युतप्रियः ॥ ३४ ॥

तस्मान्न विस्मयः कार्यः पुरुषेषु महात्मसु । 

महापुरुषभक्तेषु शान्तेषु समदर्शिषु ॥ ३५ ॥

श्रीशुक उवाच - 

इति श्रुत्वा भगवतः शिवस्योमाभिभाषितम् । 

बभूव शान्तधी राजन् देवी विगतविस्मया ॥ ३६ ॥

इति भागवतो देव्याः प्रतिशप्तुमलन्तमः । 

मूर्ध्ना स जगृहे शापं एतावत् साधुलक्षणम् ॥ ३७ ॥

जज्ञे त्वष्टुर्दक्षिणाग्नौ दानवीं योनिमाश्रितः । 

वृत्र इत्यभिविख्यातो ज्ञानविज्ञानसंयुतः ॥ ३८ ॥

एतत्ते सर्वमाख्यातं यन्मां त्वं परिपृच्छसि । 

वृत्रस्यासुरजातेश्च कारणं भगवन्मतेः ॥ ३९ ॥

इतिहासं इमं पुण्यं चित्रकेतोर्महात्मनः । 

माहात्म्यं विष्णुभक्तानां श्रुत्वा बन्धाद् विमुच्यते ॥ ४० ॥

य एतत् प्रातरुत्थाय श्रद्धया वाग्यतः पठेत् । 

इतिहासं हरिं स्मृत्वा स याति परमां गतिम् ॥ ४१ ॥

इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां 

षष्ठस्कन्धे चित्रकेतुशापो नाम सप्तदशोऽध्या‍यः ॥ १७ ॥ 

हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥