श्रीमद्भागवतपुराणम्/स्कन्धः ५/अध्यायः २६
श्रीमद्भागवत महापुराण
पञ्चमः स्कन्धः - षड्विंशोऽध्यायः
नरकानुवर्णनम् -
राजोवाच
महर्ष एतद्वैचित्र्यं लोकस्य कथमिति ॥ १ ॥
ऋषिरुवाच
त्रिगुणत्वात्कर्तुः श्रद्धया कर्मगतयः पृथग्विधाः
सर्वा एव सर्वस्य तारतम्येन भवन्ति ॥ २ ॥
अथेदानीं प्रतिषिद्धलक्षणस्याधर्मस्य तथैव
कर्तुः श्रद्धाया वैसादृश्यात्कर्मफलं विसदृशं भवति
या ह्यनाद्यविद्यया कृतकामानां तत्परिणामलक्षणाः
सृतयः सहस्रशः प्रवृत्तास्तासां
प्राचुर्येणानुवर्णयिष्यामः ॥ ३ ॥
राजोवाच
नरका नाम भगवन् किं देशविशेषा अथवा
बहिस्त्रिलोक्या आहोस्विदन्तरालइति ॥ ४ ॥
ऋषिरुवाच
अन्तराल एव त्रिजगत्यास्तु दिशि
दक्षिणस्यामधस्ताद्धमेरुपरिष्टाच्च जलाद्यस्याम्
अग्निष्वात्तादयः पितृगणा दिशि स्वानां गोत्राणां
परमेण समाधिना सत्या एवाशिष आशासाना
निवसन्ति ॥ ५ ॥
यत्र ह वाव भगवान् पितृराजो वैवस्वतः
स्वविषयं प्रापितेषु स्वपुरुषैर्जन्तुषु सम्परेतेषु
यथाकर्मावद्यं दोषमेवानुल्लङ्घितभगवच्छासनः
सगणो दमं धारयति ॥ ६ ॥
तत्र हैके नरकानेकविंशतिं गणयन्ति अथ
तांस्ते राजन्नामरूपलक्षणतोऽनुक्रमिष्याम-
स्तामिस्रोऽन्धतामिस्रो रौरवो महारौरवः कुम्भीपाकः
कालसूत्रमसिपत्रवनं सूकरमुखयधकूपः कृमि-
भोजनः सन्दंशस्तप्तसूर्मिर्वज्रकण्टकशाल्मली
वैतरणी पूयोदः प्राणरोधो विशसनं लालाभक्षः
सारमेयादनमवीचिरयःपानमिति । किञ्च क्षारकर्दमो
रक्षोगणभोजनः शूलप्रोतो दन्दशूकोऽवटनिरोधनः
पर्यावर्तनः सूचीमुखमित्यष्टाविंशतिर्नरका
विविधयातनाभूमयः ॥ ७ ॥
तत्र यस्तु परवित्तापत्यकलत्राण्यपहरति स हि
कालपाशबद्धो यमपुरुषैरतिभयानकैस्तामिस्रे नरके
बलान्निपात्यते अनशनानुदपानदण्डताडन-
संतर्जनादिभिर्यातनाभिर्यात्यमानो जन्तुर्यत्र
कश्मलमासादित एकदैव मूर्च्छामुपयाति
तामिस्रप्राये ॥ ८ ॥
एवमेवमन्धतामिस्रे यस्तु वञ्चयित्वा पुरुषं
दारादीनुपयुङ्क्ते यत्र शरीरी निपात्यमानो
यातनास्थो वेदनया नष्टमतिर्नष्टदृष्टिश्च भवति
यथा वनस्पतिर्वृश्च्यमानमूलस्तस्मादन्धतामिस्रं
तमुपदिशन्ति ॥ ९ ॥
यस्त्विह वा एतदहमिति ममेदमिति भूतद्रोहेण
केवलं स्वकुटुम्बमेवानुदिनं प्रपुष्णाति स तदिह
विहाय स्वयमेव तदशुभेन रौरवे निपतति ॥ १० ॥
ये त्विह यथैवामुना विहिंसिता जन्तवः परत्र
यमयातनामुपगतं त एव रुरवो भूत्वा तथा तमेव
विहिंसन्ति तस्माद्रौरवमित्याहू रुरुरिति
सर्पादतिक्रूरसत्त्वस्यापदेशः ॥ ११ ॥
एवमेव महारौरवो यत्र निपतितं पुरुषं क्रव्यादा नाम
रुरवस्तं क्रव्येण घातयन्ति यः केवलं देहम्भरः ॥ १२ ॥
यस्त्विह वा उग्रः पशून् पक्षिणो वा प्राणत
उपरन्धयति तमपकरुणं पुरुषादैरपि विगर्हितममुत्र
यमानुचराः कुम्भीपाकेतप्ततैले उपरन्धयन्ति ॥ १३ ॥
यस्त्विह पितृविप्रब्रह्मध्रुक् स कालसूत्रसंज्ञके
नरके अयुतयोजनपरिमण्डले ताम्रमये तप्तखले
उपर्यधस्तादग्न्यर्काभ्यामतितप्यमानेऽभिनिवेशितः
क्षुत्पिपासाभ्यां च दह्यमानान्तर्बहिः शरीर आस्ते
शेते चेष्टते ऽवतिष्ठति परि धावति च यावन्ति
पशुरोमाणि तावद्वर्षसहस्राणि ॥ १४ ॥
यस्त्विह वै निजवेदपथादनापद्यपगतः
पाखण्डं चोपगतस्तमसिपत्रवनं प्रवेश्य कशया
प्रहरन्ति तत्र हासावितस्ततो धावमान उभयतोधारै-
स्तालवनासिपत्रैश्छिद्यमानसर्वाङ्गो हा हतोऽस्मीति
परमया वेदनया मूर्च्छितः पदे पदे निपतति स्वधर्महा
पाखण्डानुगतं फलं भुङ्क्ते ॥ १५ ॥
यस्त्विह वै राजा राजपुरुषोवा अदण्ड्ये दण्डं
प्रणयति ब्राह्मणे वाशरीरदण्डं स पापीयान्नरकेऽमुत्र
सूकरमुखे निपतति तत्रातिबलैर्विनिष्पिष्यमाणा -
वयवो यथै वे हे क्षुखण्ड आर्तस्वरेण स्वनयन्
क्वचिन्मूर्च्छितः कश्मलमुपगतो यथैवेहादृष्टदोषा
उपरुद्धाः ॥ १६ ॥
यस्त्विह वै भूतानामीश्वरोपकल्पितवृत्तीना -
मविविक्तपरव्यथानां स्वयं पुरुषोपकल्पितवृत्ति-
र्विविक्तपरव्यथो व्यथामाचरति स परत्रान्धकूपे
तदभिद्रोहेणनिपतति हासौ तैर्जन्तुभिःपशुमृग-
पक्षिसरीसृपैर्मशकयूकामत्कुणमक्षिकादिभिर्ये के
चाभिद्रुग्धास्तैः सर्वतोऽभिद्रुह्यमाणस्तमसि
विहतनिद्रानिर्वृतिरब्धावस्थानः परिक्रामति
यथा कुशरीरे जीवः ॥ १७ ॥
यस्त्विह वा असंविभज्याश्नाति यत्किञ्चनो-
पनतमनिर्मितपश्चयज्ञो वायससंस्तुतः स परत्र
कृमिभोजने नरकाधमे निपतति तत्र शतसहस्रयोजने
कृमिकुण्डे कृमिभूतः स्वयं कृमिभिरेव भक्ष्यमाणः
कृमिभोजनो यावत्तदप्रत्ताप्रहुतादोऽनिर्वेशमात्मानं
यातयते ॥ १८ ॥
यस्त्विह वै स्तेयेन बलाद्वा हिरण्यरत्नादीनि
ब्राह्मणस्य वापहरत्यन्यस्य वानापदि पुरुषस्तममुत्र
राजन् यमपुरुषा अयस्मयैरग्निपिण्डैः सन्दंशैस्त्वचि
निष्कृषन्ति ॥ १९ ॥
यस्त्विह वा अगम्यां स्त्रियमगम्यं वा पुरुषं
योषिदभिगच्छति तावमुत्र कशया ताडयन्त-
स्तिग्मया सूर्म्या लोहमय्या पुरुषमालिङ्गयन्ति स्त्रियं
च पुरुषरूपया सूर्म्या ॥ २० ॥
यस्त्विह वै सर्वाभिगमस्तममुत्र निरये वर्तमानं
वज्रकण्टकशाल्मलीमारोप्य निष्कर्षन्ति ॥ २१ ॥
ये त्विह वै राजन्या राजपुरुषा वा अपाखण्डा
धर्मसेतून् भिन्दन्ति ते सम्परेत्य वैतरण्यां निपतन्ति
भिन्नमर्यादास्तस्यां निरयपरिखाभूतायां नद्यां
यादोगणैरितस्ततो भक्ष्यमाणा आत्मना न
वियुज्यमानाश्चासुभिरुह्यमानाः स्वाघेन
कर्मपाकमनुस्मरन्तो विण्मूत्रपूयशोणितकेश-
नखास्थिमेदोमांसवसावाहिन्यामुपतप्यन्ते ॥ २२ ॥
ये त्विह वै वृषलीपतयो नष्टशौचाचारनियमा-
स्त्यक्तलज्जाः पशुचर्यां चरन्ति ते चापि प्रेत्य
पूयविण्मूत्रश्लेष्ममलापूर्णार्णवे निपतन्तित देवाति-
बीभत्सितमश्नन्ति ॥ २३ ॥
ये त्विह वै श्वगर्दभपतयो ब्राह्मणादयो मृगया-
विहारा अतीर्थे च मृगान्निघ्नन्ति तानपि सम्परेताँ-
ल्लक्ष्यभूतान् यमपुरुषा इषुभिर्विध्यन्ति ॥ २४ ॥
ये त्विह वै दाम्भिका दम्भयज्ञेषु पशून्
विशसन्ति तानमुष्मिँल्लोके वैशसे नरके
पतितान्निरयपतयो यातयित्वा विशसन्ति ॥ २५ ॥
य स्त्विह वै सवर्णां भार्यां द्विजो रेतः पाययति
काममोहितस्तं पापकृतममुत्र रेतःकुल्यायां
पातयित्वा रेतः सम्पाययन्ति ॥ २६ ॥
ये त्विह वै दस्यवोऽग्निदा गरदा ग्रामान् सार्थान्
वा विलुम्पन्ति राजानो राजभटा वा तांश्चापि हि
परेत्य यमदूता वज्रदंष्ट्राः श्वानः सप्तशतानि
विंशतिश्च सरभसं खादन्ति ॥ २७ ॥
यस्त्विह वाअनृतं वदति साक्ष्ये द्रव्यविनिमये
दाने वा कथञ्चित्स वै प्रेत्य नरकेऽवीचिमत्यधःशिरा
निरवकाशे योजनशतोच्छ्रायाद् गिरिमूर्ध्रः
सम्पात्यते यत्र जलमिव स्थलमश्मपृष्ठमवभासते
तदवीचिमत्तिलशो विशीर्यमाणशरीरो न
म्रियमाणः पुनरारोपितो निपतति ॥ २८ ॥
यस्त्विह वै विप्रो राजन्यो वैश्यो वा सोमपीथ-
स्तत्कलत्र वा सुरां व्रतस्थोऽपि वा पिबति प्रमाद-
तस्तेषां निरयं नीतानामुरसि पदाऽऽक्रम्यास्ये वह्निना
द्रवमाणं कार्ष्णायसं निषिश्चन्ति ॥ २९ ॥
अथ च यस्त्विह वा आत्मसम्भावनेन
स्वयमधमो जन्मतपोविद्याचारवर्णाश्रमवतो
वरीयसो न बहु मन्येत स मृतक एव मृत्वा क्षारकर्दमे
निरयेऽवाक् शिरा निपातितो दुरन्ता यातना
ह्यश्रुते ॥ ३० ॥
ये त्विह वै पुरुषाः पुरुषमेधेन यजन्ते याश्च
स्त्रियो नृपशन् खादन्ति तांश्च ते पशव इव निहता
यमसदने यातयन्तो रक्षोगणाः सौनिका इव
स्वधितिनाऽवदायासृक् पिबन्ति नृत्यन्ति च
गायन्ति च हृष्यमाणा यथेह पुरुषादाः ॥ ३१ ॥
ये त्विह वा अनागसोऽरण्ये ग्रामे वा
वैश्रम्भकैरुपसृतानुपविश्रम्भय्य जिजीविषून्
शूलसूत्रादिषूपप्रोतान् क्रीडनकतया यातयन्ति
तेऽपि च प्रेत्य यमयातनासु शूलादिषु प्रोतात्मानः
क्षुतृड्भ्यां चाभिहताः कङ्कवटादिभिश्चेतस्तत-
स्तिग्मतुण्डैराहन्यमाना आत्मशमलं स्मरन्ति ॥ ३२ ॥
ये त्विह वै भूतान्युद्वेजयन्ति नरा उल्बणस्वभावा
यथा दन्दशूकास्तेऽपि प्रेत्य नरके दन्दशूकाख्ये
निपतन्ति यत्र नृप दन्दशूकाः पञ्चमुखाः
सप्तमुखा उपसृत्य ग्रसन्ति यथा बिलेशयान् ॥ ३३ ॥
ये त्विह वा अन्धावटकुसूलगुहादिषु भूतानि
निरुन्धन्ति तथामुत्र तेष्वेवोपवेश्य सगरेण वह्निना
धूमेन निरुध्यधन्ति ॥ ३४ ॥
यस्त्विह वा अतिथीनभ्यागतान् वा
गृहपतिरसकृदुपगतमन्युर्दिधक्षुरिव पापेन चक्षुषा
निरीक्षते तस्य चापि निरये पापदृष्टेरक्षिणी वज्रतुण्डा
गृध्राः कङ्ककाकवटादयः प्रसह्योरुबलादुत्पाटयन्ति
॥ ३५ ॥
यस्त्विह वा आढ्याभिमतिरहङ्कृतिस्तिर्यक्-
प्रेक्षणः सर्वतोऽभिविशङ्की अर्थव्ययनाशचिन्तया
परिशुष्यमाणहृदयवदनो निर्वृतिमनवगतो ग्रह
इवार्थमभिरक्षति स चापि प्रेत्य तदुत्पादनोत्कर्षण-
संरक्षणशमलग्रहः सूचीमुखे नरके निपतति यत्र ह
वित्तग्रहं पापपुरुषं धर्मराजपुरुषा वायका इव
सर्वतोऽङ्गेषु सूत्रैः परिवयन्ति ॥ ३६ ॥
एवंविधा नरका यमालये सन्ति शतशः
सहस्रशस्तेषु सर्वेषु च सर्व एवाधर्मवर्तिनो ये
केचिदिहोदिता अनुदिताश्चावनिपते पर्यायेण
विशन्ति तथैव धर्मानुवर्तिन इतरत्र इह तु पुनर्भवे
त उभयशेषाभ्यां निविशन्ति ॥ ३७ ॥
निवृत्तिलक्षणमार्ग आदावेव व्याख्यातः ।
एतावानेवाण्डकोशो यश्चतुर्दशधा पुराणेषु
विकल्पित उपगीयते यत्तद्भगवतो नारायणस्य
साक्षान्महापुरुषस्य स्थविष्ठं रूपमात्ममाया-
गुणमयमनुवर्णितमादृतः पठति शृणोति श्रावयति
स उपगेयं भगवतः परमात्मनोऽग्राह्यमपि
श्रद्धाभक्तिविशुद्धबुद्धिर्वेद ॥ ३८ ॥
श्रुत्वा स्थूलं तथा सूक्ष्मं रूपं भगवतो यतिः ।
स्थूले निर्जितमात्मानं शनैःसूक्ष्मं धिया नयेदिति ॥ ३९
भूद्वीपवर्षसरिदद्रिनभःसमुद्र-
पातालदिङ्नरकभागणलोकसंस्था ।
गीता मया तव नृपाद्भुतमीश्वरस्य
स्थूलं वपुः सकलजीवनिकायधाम ॥ ४० ॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां
पञ्चमस्कन्धे नरकानुवर्णनं नाम षड्विशोऽध्यायः ॥ २६ ॥
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥