सामग्री पर जाएँ

श्रीमद्भागवतपुराणम्/स्कन्धः ५/अध्यायः २५

विकिस्रोतः तः

श्रीमद्‌भागवत महापुराण

पञ्चमः स्कन्धः - पञ्चविंशोऽध्यायः

भूविवरविध्युपवर्णनम् -

श्रीशुक उवाच 

तस्य मूलदेशे त्रिंशद्योजनसहस्रान्तरआस्ते या 

वै कला भगवतस्तामसी समाख्याताऽनन्त इति 

सात्वतीया द्रष्ट्टदृश्ययोःसङ्कर्षणमहमित्यभिमान- 

लक्षणं यं सङ्कर्षणमित्याचक्षते ॥ १ ॥ 

यस्येदं क्षितिमण्डले भगवतोऽनन्तमूर्तेः 

सहस्रशिरस एकस्मिन्नेव शीर्षणि ध्रियमाणं 

सिद्धार्थ इव लक्ष्यते ॥ २ ॥ 

यस्य ह वा इदं कालेनोपसंजिहीर्षतोऽमर्ष- 

विरचितरुचिरभ्रमद्‌भुवोरन्तरेण साङ्कर्षणो नाम रुद्र 

एकादशव्यूहस्त्र्यक्षस्त्रिशिखं शूलमुत्तम्भयन्नुदतिष्ठत् ॥ ३ ॥ 

यस्याङ्घ्रिकमलयुगलारुणविशदनखमणि- 

षण्डमण्डलेष्वहिपतयः सह सात्वतर्षभैरेकान्त- 

भक्तियोगेनावनमन्तः स्ववदनानि परिस्फुरत्- 

कुण्डलप्रभामण्डितगण्डस्थलान्यतिमनोहराणि 

प्रमुदितमनसः खलु विलोकयन्ति ॥ ४ ॥ 

यस्यैव हि नागराजकुमार्य आशिष 

आशासानाश्चार्वङ्गवलयविलसितविशदविपुल- 

धवलसुभगरुचिरभुजरजतस्तम्भेष्वगुरुचन्दन- 

कुङ्कुमपङ्कानुलेपेनावलिम्पमानास्तदभिमर्शनो- 

न्मथितहृदयमकरध्वजावेशरुचिरललितस्मिता- 

स्तदनुरागमदमुदितमदविघूर्णितारुणकरुणावलोक- 

नयनवदनारविन्दं सव्रीडं किलविलोकयन्ति ॥ ५ ॥ 

स एव भगवाननन्तोऽनन्तगुणार्णव आदिदेव 

उपसंहृतामर्षरोषवेगो लोकानां स्वस्तय आस्ते ॥ ६ ॥ 

ध्यायमानः सुरासुरोरगसिद्धगन्धर्वविद्याधर- 

मुनिगणैरनवरतमदमुदितविकृतविह्वललोचनः 

सुललितमुखरिकामृतेनाप्यायमानः स्वपार्षदविबुध- 

यूथपतीनपरिम्लानरागनवतुलसिकामोदमध्वासवेन 

माद्यन्मधुकरत्रातमधुरगीतश्रियं वैजयन्तीं स्वां 

वनमालां नीलवासा एककुण्डलो हलककुदि 

कृतसुभगसुन्दरभुजो भगवान्माहेन्द्रो वारणेन्द्र इव 

काञ्चनीं कक्षामुदारलीलो बिभर्ति ॥ ७ ॥ 

य एष एवमनुश्रुतो ध्यायमानो मुमुक्षूणामनादि- 

कालकर्मवासनाग्रथितमविद्यामयं हृदयग्नन्थिं 

सत्त्वरजस्तमोमयमन्तर्हृदयं गत आशु निर्भिनत्ति 

तस्यानुभावान् भगवान् स्वायम्भुवो नारदः सह 

तुम्बुरुणा सभायां ब्रह्मणः संश्लोकयामास ॥ ८ ॥ 

उत्पत्तिस्थितिलयहेतवोऽस्य कल्पाः 

     सत्त्वाद्याः प्रकृतिगुणायदीक्षयाऽऽसन् । 

यद्‌रूपं ध्रुवमकृतं यदेकमात्मन् 

     नानाधात्कथमु ह वेद तस्य वर्त्म ॥ ९ ॥ 

मूर्तिं नः पुरुकृपया बभार सत्त्वं 

     संशुद्धं सदसदिदं विभाति यत्र । 

यल्लीलां मृगपतिराददेऽनवद्या - 

     मादातुं स्वजनमनांस्युदारवीर्यः ॥ १० ॥ 

यन्नाम श्रुतमनुकीर्तयेदकस्मा - 

     दार्तो वा यदि पतितः प्रलम्भनाद्वा । 

हन्त्यंहः सपदि नृणामशेषमन्यं 

     कं शेषाद्‌भगवत आश्रयेन्मुमुक्षुः ॥ ११ ॥ 

मूर्धन्यर्पितमणुवत्सहस्रमूर्धो 

     भूगोलं सगिरिसरित्समुद्रसत्त्वम् । 

आनन्त्यादनिमितविक्रमस्य भूम्नः 

     को वीर्याण्यधिगणयेत्सहस्रजिह्वः ॥ १२ ॥ 

एवम्प्रभावो भगवाननन्तो 

     दुरन्तवीर्योरुगुणानुभावः । 

मूले रसायाः स्थित आत्मतन्त्रो 

     यो लीलया क्ष्मां स्थितये बिभर्ति ॥ १३ ॥ 

एता ह्येवेह नृभिरुपगन्तव्या गतयो 

यथाकर्मविनिर्मिता यथोपदेशमनुवर्णिताः 

कामान् कामयमानैः ॥ १४ ॥ 

एतावतीर्हि राजन् पुंसः प्रवृत्तिलक्षणस्य धर्मस्य 

विपाकगतय उच्चावचा विसदृशा यथाप्रन्नं 

व्याचख्ये किमन्यत्कथयाम इति ॥ १५ ॥ 

इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां 

पञ्चमस्कन्धे भूविवरविध्युपवर्णनं नाम पञ्चविंशोऽध्यायः ॥ २५ ॥ 

हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥