श्रीमद्भागवतपुराणम्/स्कन्धः ४/अध्यायः १०

विकिस्रोतः तः
Jump to navigation Jump to search
← स्कन्धः ४, अध्यायः ९ श्रीमद्भागवतपुराणम्
अध्यायः १०
वेदव्यासः
स्कन्धः ४, अध्यायः ११ →


मैत्रेय उवाच -
(अनुष्टुप्)
प्रजापतेर्दुहितरं शिशुमारस्य वै ध्रुवः ।
उपयेमे भ्रमिं नाम तत्सुतौ कल्पवत्सरौ ॥ १ ॥
इलायामपि भार्यायां वायोः पुत्र्यां महाबलः ।
पुत्रं उत्कलनामानं योषिद् रत्‍नमजीजनत् ॥ २ ॥
उत्तमस्त्वकृतोद्वाहो मृगयायां बलीयसा ।
हतः पुण्यजनेनाद्रौ तन्मातास्य गतिं गता ॥ ३ ॥
ध्रुवो भ्रातृवधं श्रुत्वा कोपामर्षशुचार्पितः ।
जैत्रं स्यन्दनमास्थाय गतः पुण्यजनालयम् ॥ ४ ॥
गत्वोदीचीं दिशं राजा रुद्रानुचरसेविताम् ।
ददर्श हिमवद्द्रोण्यां पुरीं गुह्यकसंकुलाम् ॥ ५ ॥
दध्मौ शङ्‌खं बृहद्‍बाहुः खं दिशश्चानुनादयन् ।
येनोद्विग्नदृशः क्षत्तः उपदेव्योऽत्रसन्भृशम् ॥ ॥ ६ ॥
ततो निष्क्रम्य बलिन उपदेवमहाभटाः ।
असहन्तः तन्निनादं अभिपेतुरुदायुधाः ॥ ७ ॥
स तान् आपततो वीर उग्रधन्वा महारथः ।
एकैकं युगपत्सर्वान् अहन् बाणैस्त्रिभिस्त्रिभिः ॥ ८ ॥
ते वै ललाटलग्नैस्तैः इषुभिः सर्व एव हि ।
मत्वा निरस्तमात्मानं आशंसन्कर्म तस्य तत् ॥ ९ ॥
तेऽपि चामुममृष्यन्तः पादस्पर्शमिवोरगाः ।
शरैरविध्यन् युगपद् द्विगुणं प्रचिकीर्षवः ॥ १० ॥
ततः परिघनिस्त्रिंशैः प्रासशूलपरश्वधैः ।
शक्त्यृष्टिभिर्भुशुण्डीभिः चित्रवाजैः शरैरपि ॥ ११ ॥
अभ्यवर्षन् प्रन्प्रकुपिताः सरथं सहसारथिम् ।
इच्छन्तः तत्प्रतीकर्तुं अयुतानां त्रयोदश ॥ १२ ॥
औत्तानपादिः स तदा शस्त्रवर्षेण भूरिणा ।
न एवादृश्यताच्छन्न आसारेण यथा गिरिः ॥ १३ ॥
हाहाकारस्तदैवासीत् सिद्धानां दिवि पश्यताम् ।
हतोऽयं मानवः सूर्यो मग्नः पुण्यजनार्णवे ॥ १४ ॥
नदत्सु यातुधानेषु जयकाशिष्वथो मृधे ।
उदतिष्ठद् रथस्तस्य नीहारादिव भास्करः ॥ १५ ॥
धनुर्विस्फूर्जयन्दिव्यं द्विषतां खेदमुद्वहन् ।
अस्त्रौघं व्यधमद्‍बाणैः घनानीकमिवानिलः ॥ १६ ॥
तस्य ते चापनिर्मुक्ता भित्त्वा वर्माणि रक्षसाम् ।
कायान् आविविशुस्तिग्मा गिरीन् अशनयो यथा ॥ १७ ॥
भल्लैः सञ्छिद्यमानानां शिरोभिश्चारुकुण्डलैः ।
ऊरुभिर्हेमतालाभैः दोर्भिर्वलयवल्गुभिः ॥ १८ ॥
हारकेयूरमुकुटैः उष्णीषैश्च महाधनैः ।
आस्तृतास्ता रणभुवो रेजुर्वीरमनोहराः ॥ १९ ॥
हतावशिष्टा इतरे रणाजिराद्
     रक्षोगणाः क्षत्रियवर्यसायकैः ।
प्रायो विवृक्णावयवा विदुद्रुवुः
     मृगेन्द्रविक्रीडितयूथपा इव ॥ २० ॥
अपश्यमानः स तदाततायिनं
     महामृधे कञ्चन मानवोत्तमः ।
पुरीं दिदृक्षन्नपि नाविशद् द्विषां
     न मायिनां वेद चिकीर्षितं जनः ॥ २१ ॥
इति ब्रुवंश्चित्ररथः स्वसारथिं
     यत्तः परेषां प्रतियोगशङ्‌कितः ।
शुश्राव शब्दं जलधेरिवेरितं
     नभस्वतो दिक्षु रजोऽन्वदृश्यत ॥ २२ ॥
(अनुष्टुप्)
क्षणेनाच्छादितं व्योम घनानीकेन सर्वतः ।
विस्फुरत्तडिता दिक्षु त्रासयत् स्तनयित्‍नुना ॥ २३ ॥
ववृषू रुधिरौघासृक् पूयविण्मूत्रमेदसः ।
निपेतुर्गगनादस्य कबन्धान्यग्रतोऽनघ ॥ २४ ॥
ततः खेऽदृश्यत गिरिः निपेतुः सर्वतोदिशम् ।
गदापरिघनिस्त्रिंश मुसलाः साश्मवर्षिणः ॥ २५ ॥
अहयोऽशनिनिःश्वासा वमन्तोऽग्निं रुषाक्षिभिः ।
अभ्यधावन् गजा मत्ताः सिंहव्याघ्राश्च यूथशः ॥ २६ ॥
समुद्र ऊर्मिभिर्भीमः प्लावयन् सर्वतो भुवम् ।
आससाद महाह्रादः कल्पान्त इव भीषणः ॥ २७ ॥
एवंविधान्यनेकानि त्रासनान्यमनस्विनाम् ।
ससृजुस्तिग्मगतय आसुर्या माययासुराः ॥ २८ ॥
ध्रुवे प्रयुक्तामसुरैः तां मायामतिदुस्तराम् ।
निशम्य तस्य मुनयः शमाशंसन् समागताः ॥ २९ ॥
मुनय ऊचुः -
औत्तानपाद भगवान् तव शार्ङ्‌गधन्वा
     देवः क्षिणोत्ववनतार्तिहरो विपक्षान् ।
यन्नामधेयमभिधाय निशम्य चाद्धा
     लोकोऽञ्जसा तरति दुस्तरमङ्‌ग मृत्युम् ॥ ३० ॥

इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां
चतुर्थस्कन्धे दशमोऽध्यायः ॥ १० ॥