श्रीमद्भागवतपुराणम्/स्कन्धः ३/अध्यायः ५

विकिस्रोतः तः
Jump to navigation Jump to search
← स्कन्धः ३, अध्यायः ४ श्रीमद्भागवतपुराणम्
अध्यायः ५
वेदव्यासः
स्कन्धः ३, अध्यायः ६ →


श्रीशुक उवाच -
द्वारि द्युनद्या ऋषभः कुरूणां
     मैत्रेयमासीनमगाधबोधम् ।
क्षत्तोपसृत्याच्युतभावसिद्धः
     पप्रच्छ सौशील्यगुणाभितृप्तः ॥ १ ॥
विदुर उवाच -
सुखाय कर्माणि करोति लोको
     न तैः सुखं वान्यदुपारमं वा ।
विन्देत भूयस्तत एव दुःखं
     यदत्र युक्तं भगवान् वदेन्नः ॥ २ ॥
जनस्य कृष्णाद् विमुखस्य दैवाद्
     अधर्मशीलस्य सुदुःखितस्य ।
अनुग्रहायेह चरन्ति नूनं
     भूतानि भव्यानि जनार्दनस्य ॥ ३ ॥
तत्साधुवर्यादिश वर्त्म शं नः
     संराधितो भगवान् येन पुंसाम् ।
हृदि स्थितो यच्छति भक्तिपूते
     ज्ञानं सतत्त्वाधिगमं पुराणम् ॥ ४ ॥
करोति कर्माणि कृतावतारो
     यान्यात्मतंत्रो भगवान् त्र्यधीशः ।
यथा ससर्जाग्र इदं निरीहः
     संस्थाप्य वृत्तिं जगतो विधत्ते ॥ ५ ॥
यथा पुनः स्वे ख इदं निवेश्य
     शेते गुहायां स निवृत्तवृत्तिः ।
योगेश्वराधीश्वर एक एतद्
     अनुप्रविष्टो बहुधा यथाऽऽसीत् ॥ ६ ॥
क्रीडन् विधत्ते द्विजगोसुराणां
     क्षेमाय कर्माण्यवतारभेदैः ।
मनो न तृप्यत्यपि शृण्वतां नः
     सुश्लोकमौलेश्चरितामृतानि ॥ ७ ॥
यैस्तत्त्वभेदैः अधिलोकनाथो
     लोकानलोकान् सह लोकपालान् ।
अचीकॢपद्यत्र हि सर्वसत्त्व
     निकायभेदोऽधिकृतः प्रतीतः ॥ ८ ॥
येन प्रजानामुत आत्मकर्म
     रूपाभिधानां च भिदां व्यधत्त ।
नारायणो विश्वसृगात्मयोनिः
     एतच्च नो वर्णय विप्रवर्य ॥ ९ ॥
परावरेषां भगवन् व्रतानि
     श्रुतानि मे व्यासमुखादभीक्ष्णम् ।
अतृप्नुम क्षुल्लसुखावहानां
     तेषामृते कृष्णकथामृतौघात् ॥ १० ॥
कस्तृप्नुयात्तीर्थपदोऽभिधानात्
     सत्रेषु वः सूरिभिरीड्यमानात् ।
यः कर्णनाडीं पुरुषस्य यातो
     भवप्रदां गेहरतिं छिनत्ति ॥ ११ ॥
मुनिर्विवक्षुर्भगवद्‍गुणानां
     सखापि ते भारतमाह कृष्णः ।
यस्मिन् नृणां ग्राम्यसुखानुवादैः
     मतिर्गृहीता नु हरेः कथायाम् ॥ १२ ॥
सा श्रद्दधानस्य विवर्धमाना
     विरक्तिमन्यत्र करोति पुंसः ।
हरेः पदानुस्मृतिनिर्वृतस्य
     समस्तदुःखाप्ययमाशु धत्ते ॥ १३ ॥
तान् शोच्यशोच्यान् अविदोऽनुशोचे
     हरेः कथायां विमुखानघेन ।
क्षिणोति देवोऽनिमिषस्तु येषां
     आयुर्वृथावादगतिस्मृतीनाम् ॥ १४ ॥
तदस्य कौषारव शर्मदातुः
     हरेः कथामेव कथासु सारम् ।
उद्धृत्य पुष्पेभ्य इवार्तबन्धो
     शिवाय नः कीर्तय तीर्थकीर्तेः ॥ १५ ॥
स विश्वजन्मस्थितिसंयमार्थे
     कृतावतारः प्रगृहीतशक्तिः ।
चकार कर्माण्यतिपूरुषाणि
     यानीश्वरः कीर्तय तानि मह्यम् ॥ १६ ॥
श्रीशुक उवाच -
(अनुष्टुप्)
स एवं भगवान् पृष्टः क्षत्त्रा कौषारविर्मुनिः ।
पुंसां निःश्रेयसार्थेन तमाह बहु मानयन् ॥ १७ ॥
मैत्रेय उवाच -
साधु पृष्टं त्वया साधो लोकान् साधु अनुगृह्णता ।
कीर्तिं वितन्वता लोके आत्मनोऽधोक्षजात्मनः ॥ १८ ॥
नैतच्चित्रं त्वयि क्षत्तः बादरायणवीर्यजे ।
गृहीतोऽनन्यभावेन यत्त्वया हरिरीश्वरः ॥ १९ ॥
माण्डव्यशापाद् भगवान् प्रजासंयमनो यमः ।
भ्रातुः क्षेत्रे भुजिष्यायां जातः सत्यवतीसुतात् ॥ २० ॥
भवान् भगवतो नित्यं सम्मतः सानुगस्य ह ।
यस्य ज्ञानोपदेशाय माऽऽदिशद्‍भगवान् व्रजन् ॥ २१ ॥
अथ ते भगवल्लीला योगमायोरुबृंहिताः ।
विश्वस्थिति उद्‌भवान्तार्था वर्णयामि अनुपूर्वशः ॥ २२ ॥
भगवान् एक आसेदं अग्र आत्माऽऽत्मनां विभुः ।
आत्मेच्छानुगतावात्मा नानामत्युपलक्षणः ॥ २३ ॥
स वा एष तदा द्रष्टा नापश्यद् दृश्यमेकराट् ।
मेनेऽसन्तमिवात्मानं सुप्तशक्तिः असुप्तदृक् ॥ २४ ॥
सा वा एतस्य संद्रष्टुः शक्तिः सद् असदात्मिका ।
माया नाम महाभाग ययेदं निर्ममे विभुः ॥ २५ ॥
कालवृत्त्या तु मायायां गुणमय्यामधोक्षजः ।
पुरुषेणात्मभूतेन वीर्यमाधत्त वीर्यवान् ॥ २६ ॥
ततोऽभवन् महत्तत्त्वं अव्यक्तात् कालचोदितात् ।
विज्ञानात्माऽऽत्मदेहस्थं विश्वं व्यञ्जन् तमोनुदः ॥ २७ ॥
सोऽप्यंशगुणकालात्मा भगवद् दृष्टिगोचरः ।
आत्मानं व्यकरोद् आत्मा विश्वस्यास्य सिसृक्षया ॥ २८ ॥
महत्तत्त्वाद् विकुर्वाणाद् अहंतत्त्वं व्यजायत ।
कार्यकारणकर्त्रात्मा भूतेन्द्रियमनोमयः ॥ २९ ॥
वैकारिकस्तैजसश्च तामसश्चेत्यहं त्रिधा ।
अहंतत्त्वाद् विकुर्वाणात् मनो वैकारिकात् अभूत् ।
वैकारिकाश्च ये देवा अर्थाभिव्यञ्जनं यतः ॥ ३० ॥
तैजसानि इन्द्रियाण्येव ज्ञानकर्ममयानि च ।
तामसो भूतसूक्ष्मादिः यतः खं लिङ्गमात्मनः ॥ ३१ ॥
कालमायांशयोगेन भगवद् वीक्षितं नभः ।
नभसोऽनुसृतं स्पर्शं विकुर्वन् निर्ममेऽनिलम् ॥ ३२ ॥
अनिलोऽपि विकुर्वाणो नभसोरुबलान्वितः ।
ससर्ज रूपतन्मात्रं ज्योतिर्लोकस्य लोचनम् ॥ ३३ ॥
अनिलेन अन्वितं ज्योतिः विकुर्वत् परवीक्षितम् ।
आधत्ताम्भो रसमयं कालमायांशयोगतः ॥ ३४ ॥
ज्योतिषाम्भोऽनुसंसृष्टं विकुर्वद् ब्रह्मवीक्षितम् ।
महीं गन्धगुणां आधात् कालमायांशयोगतः ॥ ३५ ॥
भूतानां नभआदीनां यद् यद् यद् भव्यावरावरम् ।
तेषां परानुसंसर्गाद् यथा सङ्ख्यं गुणान् विदुः ॥ ३६ ॥
एते देवाः कला विष्णोः कालमायांशलिङ्‌गिनः ।
नानात्वात् स्वक्रियानीशाः प्रोचुः प्राञ्जलयो विभुम् ॥ ३७ ॥
देवा ऊचुः -
नमाम ते देव पदारविन्दं
     प्रपन्नतापोपशमातपत्रम् ।
यन्मूलकेता यतयोऽञ्जसोरु
     संसारदुःखं बहिरुत्क्षिपन्ति ॥ ३८ ॥
धातर्यदस्मिन् भव ईश जीवाः
     तापत्रयेणाभिहता न शर्म ।
आत्मन्लभन्ते भगवंस्तवाङ्‌घ्रि
     च्छायां सविद्यामत आश्रयेम ॥ ३९ ॥
मार्गन्ति यत्ते मुखपद्मनीडै-
     श्छन्दःसुपर्णैः ऋषयो विविक्ते ।
यस्याघमर्षोदसरिद्वरायाः
     पदं पदं तीर्थपदः प्रपन्नाः ॥ ४० ॥
यत् श्रद्धया श्रुतवत्या च भक्त्या
     सम्मृज्यमाने हृदयेऽवधाय ।
ज्ञानेन वैराग्यबलेन धीरा
     व्रजेम तत्तेऽङ्‌घ्रिसरोजपीठम् ॥ ४१ ॥
विश्वस्य जन्मस्थितिसंयमार्थे
     कृतावतारस्य पदाम्बुजं ते ।
व्रजेम सर्वे शरणं यदीश
     स्मृतं प्रयच्छत्यभयं स्वपुंसाम् ॥ ४२ ॥
यत्सानुबन्धेऽसति देहगेहे
     ममाहं इति ऊढ दुराग्रहाणाम् ।
पुंसां सुदूरं वसतोऽपि पुर्यां
     भजेम तत्ते भगवन् पदाब्जम् ॥ ४३ ॥
तान् वै ह्यसद्‌वृत्तिभिरक्षिभिर्ये
     पराहृतान्तर्मनसः परेश ।
अथो न पश्यन्ति उरुगाय नूनं
     ये ते पदन्यासविलासलक्ष्याः ॥ ४४ ॥
पानेन ते देव कथासुधायाः
     प्रवृद्धभक्त्या विशदाशया ये ।
वैराग्यसारं प्रतिलभ्य बोधं
     यथाञ्जसान् वीयुरकुण्ठधिष्ण्यम् ॥ ४५ ॥
तथापरे चात्मसमाधियोग
     बलेन जित्वा प्रकृतिं बलिष्ठाम् ।
त्वामेव धीराः पुरुषं विशन्ति
     तेषां श्रमः स्यान्न तु सेवया ते ॥ ४६ ॥
तत्ते वयं लोकसिसृक्षयाद्य
     त्वयानुसृष्टास्त्रिभिरात्मभिः स्म ।
सर्वे वियुक्ताः स्वविहारतन्त्रं
     न शक्नुमस्तत् प्रतिहर्तवे ते ॥ ४७ ॥
यावद्‍बलिं तेऽज हराम काले
     यथा वयं चान्नमदाम यत्र ।
यथोभयेषां त इमे हि लोका
     बलिं हरन्तोऽन्नमदन्त्यनूहाः ॥ ४८ ॥
त्वं नः सुराणामसि सान्वयानां
     कूटस्थ आद्यः पुरुषः पुराणः ।
त्वं देव शक्त्यां गुणकर्मयोनौ
     रेतस्त्वजायां कविमादधेऽजः ॥ ४९ ॥
ततो वयं मत्प्रमुखा यदर्थे
     बभूविमात्मन् करवाम किं ते ।
त्वं नः स्वचक्षुः परिदेहि शक्त्या
     देव क्रियार्थे यद् अनुग्रहाणाम् ॥ ५० ॥

इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां
तृतीयस्कन्धे विदुरोद्धवसंवादे पञ्चमोऽध्यायः ॥ ५ ॥