श्रीमद्भागवतपुराणम्/स्कन्धः १/अध्यायः १५

विकिस्रोतः तः
Jump to navigation Jump to search
← स्कन्धः १, अध्यायः १४ श्रीमद्भागवतपुराणम्
अध्यायः १५
वेदव्यासः
स्कन्धः १, अध्यायः १६ →
स्कन्धः १

अध्यायः १

अध्यायः २

अध्यायः ३

अध्यायः ४

अध्यायः ५

अध्यायः ६

अध्यायः ७

अध्यायः ८

अध्यायः ९

अध्यायः १०

अध्यायः ११

अध्यायः १२

अध्यायः १३

अध्यायः १४

अध्यायः १५

अध्यायः १६

अध्यायः १७

अध्यायः १८

अध्यायः १९

सूतउवाच
एवंकृष्णसखःकृष्णोभ्रात्राराज्ञाविकल्पितः
नानाशङ्कास्पदंरूपंकृष्णविश्लेषकर्शितः१
शोकेनशुष्यद्वदनहृत्सरोजोहतप्रभः
विभुंतमेवानुस्मरन्नाशक्नोत्प्रतिभाषितुम्२
कृच्छ्रेणसंस्तभ्यशुचःपाणिनामृज्यनेत्रयोः
परोक्षेणसमुन्नद्धप्रणयौत्कण्ठ्यकातरः३
सख्यंमैत्रींसौहृदंचसारथ्यादिषुसंस्मरन्
नृपमग्रजमित्याहबाष्पगद्गदयागिरा४
अर्जुनउवाच
वञ्चितोऽहंमहाराजहरिणाबन्धुरूपिणा
येनमेऽपहृतंतेजोदेवविस्मापनंमहत्५
यस्यक्षणवियोगेनलोकोह्यप्रियदर्शनः
उक्थेनरहितोह्येषमृतकःप्रोच्यतेयथा६
यत्संश्रयाद्द्रुपदगेहमुपागतानांराज्ञांस्वयंवरमुखेस्मरदुर्मदानाम्
तेजोहृतंखलुमयाभिहतश्चमत्स्यःसज्जीकृतेनधनुषाधिगताचकृष्णा७
यत्सन्निधावहमु खाण्डवमग्नयेऽदामिन्द्रं च सामरगणं तरसा विजित्य ।
लब्धा सभा मयकृताद्भुतशिल्पमाया
दिग्भ्योऽहरन्नृपतयोबलिमध्वरे ते८
यत्तेजसानृपशिरोऽङ्घ्रिमहन्मखार्थमार्योऽनुजस्तवगजायुतसत्त्व-वीर्यः
तेनाहृताःप्रमथनाथमखायभूपायन्मोचितास्तदनयन्बलिमध्वरेते९
पत्न्यास्तवाधिमखकॢप्तमहाभिषेकश्लाघिष्ठचारुकबरंकितवैःसभायाम्
स्पृष्टविकीर्यपदयोःपतिताश्रुमुख्यायस्तत्स्त्रियोऽकृतहतेशविमुक्तकेशाः१०
योनोजुगोपवनएत्यदुरन्तकृच्छ्राद्दुर्वाससोऽरिरचितादयुताग्रभुग्यः
शाकान्नशिष्टमुपयुज्ययतस्त्रिलोकींतृप्ताममंस्तसलिलेविनिमग्नसङ्घः११
यत्तेजसाथभगवान्युधिशूलपाणिर्विस्मापितःसगिरिजोऽस्त्रमदा-न्निजंमे
अन्येऽपिचाहममुनैवकलेवरेणप्राप्तोमहेन्द्रभवनेमहदासनार्धम्१२
तत्रैवमेविहरतोभुजदण्डयुग्मंगाण्डीवलक्षणमरातिवधायदेवाः
सेन्द्राः! श्रितायदनुभावितमाजमीढतेनाहमद्यमुषितःपुरुषेणभूम्ना१३
यद्बान्धवःकुरुबलाब्धिमनन्तपारमेकोरथेनततरेऽहमतीर्यसत्त्वम्
प्रत्याहृतंबहुधनंचमयापरेषांतेजास्पदंमणिमयंचहृतंशिरोभ्यः१४
योभीष्मकर्णगुरुशल्यचमूष्वदभ्रराजन्यवर्यरथमण्डलमण्डितासु
अग्रेचरोममविभोरथयूथपानामायुर्मनांसिचदृशासहओजआर्च्छत्१५
यद्दोःषुमाप्रणिहितंगुरुभीष्मकर्णनप्तृत्रिगर्तशल्यसैन्धवबाह्लिकाद्यैः
अस्त्राण्यमोघमहिमानिनिरूपितानिनोपस्पृशुर्नृहरिदासमिवासुराणि१६
सौत्येवृतःकुमतिनात्मदईश्वरोमेयत्पादपद्ममभवायभजन्तिभव्याः
मांश्रान्तवाहमरयोरथिनोभुविष्ठंनप्राहरन्यदनुभावनिरस्तचित्ताः१७
नर्माण्युदाररुचिरस्मितशोभितानिहेपार्थहेऽर्जुनसखेकुरुनन्दनेति
सञ्जल्पितानिनरदेवहृदिस्पृशानिस्मर्तुर्लुठन्तिहृदयंमममाधव-स्य१८
शय्यासनाटनविकत्थनभोजनादिष्वैक्याद्वयस्यऋतवानितिविप्र-लब्धः
सख्युःसखेवपितृवत्तनयस्यसर्वंसेहेमहान्महितयाकुमतेरघंमे१९
सोऽहंनृपेन्द्ररहितःपुरुषोत्तमेनसख्याप्रियेणसुहृदाहृदयेनशून्यः
अध्वन्युरुक्रमपरिग्रहमङ्गरक्षन्गोपैरसद्भिरबलेवविनिर्जितोऽस्मि२०
तद्वैधनुस्तइषवःसरथोहयास्तेसोऽहंरथीनृपतयोयतआनमन्ति
सर्वंक्षणेनतदभूदसदीशरिक्तंभस्मन्हुतंकुहकराद्धमिवोप्तमूष्याम्२१
राजंस्त्वयानुपृष्टानांसुहृदांनःसुहृत्पुरे
विप्रशापविमूढानांनिघ्नतांमुष्टिभिर्मिथः२२
वारुणींमदिरांपीत्वामदोन्मथितचेतसाम्
अजानतामिवान्योन्यंचतुःपञ्चावशेषिताः२३
प्रायेणैतद्भगवतईश्वरस्यविचेष्टितम्
मिथोनिघ्नन्तिभूतानिभावयन्तिचयन्मिथः२४
जलौकसांजलेयद्वन्महान्तोऽदन्त्यणीयसः
दुर्बलान्बलिनोराजन्महान्तोबलिनोमिथः२५
एवंबलिष्ठैर्यदुभिर्महद्भिरितरान्विभुः
यदून्यदुभिरन्योन्यंभूभारान्सञ्जहारह२६
देशकालार्थयुक्तानिहृत्तापोपशमानिच
हरन्तिस्मरतश्चित्तंगोविन्दाभिहितानिमे२७
सूतउवाच
एवंचिन्तयतोजिष्णोःकृष्णपादसरोरुहम्
सौहार्देनातिगाढेनशान्तासीद्विमलामतिः२८
वासुदेवाङ्घ्र्यनुध्यानपरिबृंहितरंहसा
भक्त्यानिर्मथिताशेषकषायधिषणोऽर्जुनः२९
गीतंभगवताज्ञानंयत्तत्सङ्ग्राममूर्धनि
कालकर्मतमोरुद्धंपुनरध्यगमत्प्रभुः३०
विशोकोब्रह्मसम्पत्त्यासञ्छिन्नद्वैतसंशयः
लीनप्रकृतिनैर्गुण्यादलिङ्गत्वादसम्भवः३१
निशम्यभगवन्मार्गंसंस्थांयदुकुलस्यच
स्वःपथायमतिंचक्रेनिभृतात्मायुधिष्ठिरः३२
पृथाप्यनुश्रुत्यधनञ्जयोदितंनाशंयदूनांभगवद्गतिंचताम्
एकान्तभक्त्याभगवत्यधोक्षजेनिवेशितात्मोपररामसंसृतेः३३
ययाहरद्भुवोभारंतांतनुंविजहावजः
कण्टकंकण्टकेनेवद्वयंचापीशितुःसमम्३४
यथामत्स्यादिरूपाणिधत्तेजह्याद्यथानटः
भूभारःक्षपितोयेनजहौतच्चकलेवरम्३५
यदामुकुन्दोभगवानिमांमहींजहौस्वतन्वाश्रवणीयसत्कथः
तदाहरेवाप्रतिबुद्धचेतसामभद्रहेतुःकलिरन्ववर्तत३६
युधिष्ठिरस्तत्परिसर्पणंबुधःपुरेचराष्ट्रेचगृहेतथात्मनि
विभाव्यलोभानृतजिह्महिंसनाद्यधर्मचक्रंगमनायपर्यधात्३७
स्वराट्पौत्रंविनयिनमात्मनःसुसमंगुणैः
तोयनीव्याःपतिंभूमेरभ्यषिञ्चद्गजाह्वये३८
मथुरायांतथावज्रंशूरसेनपतिंततः
प्राजापत्यांनिरूप्येष्टिमग्नीनपिबदीश्वरः३९
विसृज्यतत्रतत्सर्वंदुकूलवलयादिकम्
निर्ममोनिरहङ्कारःसञ्छिन्नाशेषबन्धनः४०
वाचंजुहावमनसितत्प्राणइतरेचतम्
मृत्यावपानंसोत्सर्गंतंपञ्चत्वेह्यजोहवीत्४१
त्रित्वेहुत्वाचपञ्चत्वंतच्चैकत्वेञ्जुहोन्मुनिः
सर्वमात्मन्यजुहवीद्ब्रह्मण्यात्मानमव्यये४२
चीरवासानिराहारोबद्धवाङ्मुक्तमूर्धजः
दर्शयन्नात्मनोरूपंजडोन्मत्तपिशाचवत्४३
अनवेक्षमाणोनिरगादशृण्वन्बधिरोयथा
उदीचींप्रविवेशाशांगतपूर्वांमहात्मभिः४४
हृदिब्रह्मपरंध्यायन्नावर्तेतयतोगतः
सर्वेतमनुनिर्जग्मुर्भ्रातरःकृतनिश्चयाः४५
कलिनाधर्ममित्रेणदृष्ट्वास्पृष्टाःप्रजाभुवि
तेसाधुकृतसर्वार्थाज्ञात्वात्यन्तिकमात्मनः४६
मनसाधारयामासुर्वैकुण्ठचरणाम्बुजम्
तद्ध्यानोद्रिक्तयाभक्त्याविशुद्धधिषणाःपरे४७
तस्मिन्नारायणपदेएकान्तमतयोगतिम्
अवापुर्दुरवापांतेअसद्भिर्विषयात्मभिः४८
विधूतकल्मषास्थानंविरजेनात्मनैवहि
विदुरोऽपिपरित्यज्यप्रभासेदेहमात्मनः४९
कृष्णावेशेनतच्चित्तःपितृभिःस्वक्षयंययौ
द्रौपदीचतदाज्ञायपतीनामनपेक्षताम्
वासुदेवेभगवतिह्येकान्तमतिरापतम्५०
यःश्रद्धयैतद्भगवत्प्रियाणांपाण्डोःसुतानामितिसम्प्रयाणम्
शृणोत्यलंस्वस्त्ययनंपवित्रंलब्ध्वाहरौभक्तिमुपैतिसिद्धिम्५१
इतिश्रीमद्भागवतेमहापुराणेपारमहंस्यांसंहितायांप्रथमस्कन्धेपाण्डवस्वर्गारोहणंनामपञ्चदशोऽध्यायः१५


सूत उवाच ।
एवं कृष्णसखः कृष्णो भ्रात्र राज्ञाऽऽविकल्पितः ।
नानाशंकास्पदं रूपं कृष्णविश्लेषकर्षितः ॥१॥

शोकेन शुष्यद्वदनहृत्सरोजो हतप्रभः ।
विभुं तमेवानुध्यायन्नाशक्रोत्प्रतिभाषितूम ॥२॥

कृच्छ्रेण संस्तभ्य शुचः पाणिनाऽऽमृज्य नेत्रयोः ।
परोक्षेण समुन्नद्धप्रणयौत्कण्ठ्यकातरः ॥३॥

सख्य मैत्रीं सौहृदं च सारथ्यादिषु संस्मरन ।
नृपमग्रजमित्याह बाष्पगद्गदया गिरा ॥४॥

अर्जुन उवाच ।
वञ्चितोऽहं महाराज हरिणा बन्धुरुपिणा ।
येन मेऽपहृतं तेजो देवविस्मापनं महत ॥५॥

यस्य क्षणवियोगेन लोको ह्यप्रियदर्शनः ।
उक्थेन रहितो ह्येष मृतकः प्रोच्यते यथा ॥६॥

यत्संश्रयाद् द्रुपदगेहमुपागतानां राज्ञा स्वयंवरमुखे स्मरदुर्मदानाम् ।
तेजो हृतं खलु मयाभिहतश्च मत्स्यः सज्जीकृतेन धनुष्याधिगता च कृष्णा ॥७॥

यत्संनिधावहमु खाण्डवमग्नयेऽदामिन्द्रं च सामरगणं तरसा विजित्य ।
लब्धा सभा मयकृताद्भुतशिल्पमाया दिग्भ्योऽहरन्नृपतयो बलिमध्वरे ते ॥८॥

यत्तेजसा नृपशिरोऽङ्घ्रिमहन्मखार्थे आर्योऽनुजस्तव गजायुतसत्ववीर्यः ।
तेनाहृताः प्रमथनाथमखाय भूपा यन्मोचितास्तदनयन् बलिमध्वरे ते ॥९॥

पत्‍न्यास्तवधिमखक्लृप्तमहाभिषेकश्‍लाघिष्ठन्चारुकाबरं कितवैः सभायाम ।
स्पृष्टं विकीर्य पदयोः पतिताश्रुमुख्या यस्तत्स्त्रियोऽकृत हतेशविमुक्तकेशाः ॥१०॥

यो नो जुगोप वनमेत्य दुरन्तकृच्छ्राद दुर्वाससोऽरिविहतादयुताग्रभुग यः ।
शाकान्नशिशःटमुपयुज्य यतास्त्रिलोकीं तृप्ताममंस्त सलिले विनिमंग्नसंघः ॥११॥

यत्तेजसाथ भगवान युधि शुलपाणि र्विस्मापितः सगिरिजोऽस्त्रमदान्निजं मे ।
अन्येऽपि चाहममुनैव कलेवरेण प्राप्तो महेन्द्रभवने महदासनार्धम ॥१२॥

तत्रैव मे विहरतो भुजदण्डयुग्मं गाण्डीवलक्षणमरातिवधाय देवाः ।
सेन्द्रा श्रिता यदनुभावितमाजमीढ तेनाहमद्य मुषितः पुरुषेण भूम्र ॥१३॥

यद्वान्धवः कुरुबलाब्धिमनन्तपार मेको रथेन ततरेऽहमतार्यसत्त्वम ।
प्रत्याहृतं बहु धनं च मयो परेषां तेजास्पदं मणीमयं च हृतं शिरोभ्यः ॥१४॥

यो भीष्मकर्णगुरुशल्यमूष्वदभ्र रजन्यवर्यरथमण्डलमन्डितासु ।
अग्रेचरो मम विभो रथयूथपाना मायुर्मनांसि च दृशा सह ओज आर्च्छत ॥१५॥

यद्दोष्षु मा प्राणीहितं गुरुभिष्मकर्ण नप्तृत्रिगर्तशलसैन्धवबाह्निकाद्येः ।
अस्त्राण्यमोघमाहिमानि निरुपिताने नो पस्पृशुर्नृहरिदासमिवासुराणि ॥१६॥

सौत्ये वृतः कुमतिनाऽऽत्मदं ईश्वरो मे यत्पादपद्ममभवाय भजन्ति भव्याः ।
मां श्रान्तवाहमरयो रथिनो भुविष्ठं न प्राहरन यदनुभावनिरस्तचिस्ताः । \१७॥

नर्माण्युदाररुचिरस्मितशोभितानि हे पार्थ हेऽर्जुन सखे कुरुनन्दनेति ।
संजल्पितानि नरदेव हृदिस्पृशानि स्मर्तूर्लुठन्ति हृदयं मम माधवस्य ॥१८॥

शय्यासनाटनविकथनभोजनादि ष्वैक्याद्वयस्य ऋतवानिति विप्रलब्धः ।
सख्युः सखेव पितृवत्तनयस्य सर्वं सेहे महान्महितया कुमतेरघं मे ॥१९॥

सोऽहं नृपेन्द्र रहितः पुरुषोत्तमेन सख्या प्रियेण सुहृदा हृदयने शुन्य ।
अध्वन्युरुक्रमपरिग्रहमंग रक्षन गोपैरसाद्भिबलेव विनिर्जितोऽस्मि ॥२०॥

तद्वै धनुस्त इषवः स रथो हयास्ते सोऽहं रथी नॄपतयो यत आनमन्ति ।
सर्व क्षणेन तदभुदसदीशरिक्तं भस्मन हुतं कुहकाराद्भमोवोत्पमुष्याम ॥२१॥

राजंस्त्वयाभिषुष्टांना सुहृदां न सुहृत्पुरेः ।
विप्रशपविमुढांना निघ्नतां मुष्टिभिर्मिथः ॥२२॥

वारुणीं मदिरां पीत्वा मदोन्मथितचेतसाम ।
अजानतामिव्यान्योन्य चतूः पंचावशेषिताः ॥२३॥

प्रायेणैतद भगवत ईश्वरस्य विचेष्टितम ।
मिथो निघ्नन्ति भूतानि भावयन्ति च यन्मिथः ॥२४॥

जलौकसां जले यद्वन्महान्तोऽदन्त्यणीयसः ।
दुर्बलान्बालिनो राजन्महान्तो बलिनो मिथः ॥२५॥

एवं बलिष्ठैर्यदुभिर्महद्भिरितरान विभुः ।
यदुन यदुभिरन्योन्यं भुभारान संजहार ह ॥२६॥

देशकालार्थयुक्तानि हृत्तापोपशमानि च ।
हरन्ति स्मरताश्चित्तं गोविन्दाभिहितानि मे ॥२७॥

सूत उवाच ।
एवं चिन्तयतो जिष्णोः कृष्णपादसरोरुहम ।
सौहार्देनातिगाढेन शान्ताऽऽसीद्विमला मतिः ॥२८॥

वासुदेवांगघ्यनुध्यानपरिबृंहितरंहसा ।
भक्त्या निर्मथिताशेषकषायाधिषणोऽर्जुनः ॥२९॥

गीतं भगवता ज्ञान यत तत संग्राममुर्धनि ।
कालकर्मतमोरुद्धं पुनरध्यगमद विभुः ॥३०॥

विशोको ब्रह्मासम्पत्या संछिन्नद्वैतसंशयः ।
लीनप्रकृतिनैर्गुण्यादलिंगत्वादसम्भवः ॥३१॥

निशम्य भगवन्मार्ग संस्थां यदुकुलस्य च ।
स्वःपथाय मतिं चक्रे निभॄतात्मा युधिष्ठिरः ॥३२॥

पृथाप्यनुश्रुत्य धनत्र्ज्ययोदितं नाश यदुनां भगवद्गतिं च ताम ।
एकान्तभक्त्या भगवत्यधोक्षजे निवेशितात्मोपराम संसृतेः ॥३३॥

ययाहरदृ भुवो भारं तां तनुं विजहावजः ।
कण्टकं कण्टकेनेव द्वयं चापीशितूः समम ॥३४॥

यथा मत्स्यादिरुपाणि धत्ते जाह्याद यथा नटः ।
भूभरः क्षपितो येन जहौ तच्च कलेवरम ॥३५॥

यदा मुकुन्दो भगवानिमां महीं जहौ स्ततन्वा श्रवणीयसत्कथः ।
तदाहरेवाप्रतिबुद्धचेतसा मधर्महेतूः कलिरन्ववर्तत ॥३६॥

युधिष्ठिरस्तत्पर्सर्पणं बुधः पुरे च राष्ट्रे च गृहे तथाऽऽत्मनि ।
विभग्य लोभानृतजिह्नाहिंसना द्यधर्मचक्रं गमनाय पर्यधात ॥३७॥

स्वराट पौत्रं विनयिनमात्मनः सुसमं गुणैः ।
तोयनीव्याः पतिं भूमेरभ्यषिचंद गजाहृये ॥३८॥

मथूरायां तथा वज्रं शुरसेनपतिं ततः ।
प्राजापत्यां निरुप्योष्टिमग्नीनपिबदीश्वरः ॥३९॥

विसृज्य तत्र तत सर्व दुकुनलवलयादिकम ।
निर्ममो निरहंकारः संछिन्नाशेषबन्धनः ॥४०॥

वाचं जुहाव मनसि तत्प्राण इतरे च तम ।
मृत्यावपानं सोत्सर्गं तं पंचत्वे ह्याजोहवीत ॥४१॥

त्रेत्वे हुत्वाथ पंचत्वं तच्चेकत्वेऽजुहोन्मुनिः ।
सर्वमात्मन्यजुहवीद ब्रह्मण्यात्मानमव्यये ॥४२॥

चीरवासा निराहारो बद्धवड मुक्तमूर्धजः ।
दर्शयन्नात्मनो रुपं जडोन्मत्तपिशाचवत ॥४३॥

अनपेक्षमाणो निरगादश्रृण्वन्बधिरो यथा ।
उदीचीं प्रविवेशांशं गतपुर्वा महात्मभिः ।
हृदि ब्रह्मा परं ध्यायान्नवर्तेत यतो गतः ॥४४॥

सर्व तमनु निर्जग्मुर्भ्रातरः कृतनिश्चयाः ।
कलिनाधर्ममित्रेण दृष्टा स्पृष्टाः प्रजा भुवि ॥४५॥

ते साधुकृतसर्वार्था ज्ञात्वऽऽत्यन्तिकमातमनः ।
मनसा धारयामासुर्वैकुठचरणाम्बुजम ॥४६॥

तद्धनोद्रिक्यया भक्त्या विशुद्धधिषणाः परे ।
तस्मिन नारायणपदे एकान्तमतयो गतिम ॥४७॥

अवापुर्दुरवापां ते असद्भिर्विषयात्मभिः ।
विहुतकल्मषास्थाने विरजेनात्मनैव हि ॥४८॥

विदुरोऽपि परित्यज्य प्रभासे देहमात्मवान ।
कृष्णावेशेन तच्चितः पितृभिः स्वक्षयं ययौ ॥४९॥

द्रौपदी च तदाऽऽज्ञाय पतीनामनपेक्षताम ।
वासुदेवे भगवति ह्योकान्तमतिराप तम ॥५०॥

यः श्रद्धयैतद भगवत्प्रियाणां पाण्डोः सुतानामिती सम्प्रयाणम ।
श्रुणोत्यलं स्वत्ययनं पवित्रं लब्ध्या हरौ भक्तिमुपैति सिद्धिम ॥५१॥

इति श्रीमद्भगवते महापुराणे पारमहंस्या संहितायं प्रथमस्कन्धे पाण्डवस्वर्गाहणं नाम पंचदशोऽध्यायः ॥१५॥