श्रीमद्भागवतपुराणम्/स्कन्धः १२/अध्यायः १०
← श्रीमद्भागवतपुराणम्/स्कन्धः १२/अध्यायः ९ | श्रीमद्भागवतपुराणम्/स्कन्धः १२/अध्यायः १० [[लेखकः :|]] |
श्रीमद्भागवतपुराणम्/स्कन्धः १२/अध्यायः ११ → |
सूत उवाच -
(अनुष्टुप्)
स एवं अनुभूयेदं नारायणविनिर्मितम् ।
वैभवं योगमायायाः तमेव शरणं ययौ ॥ १ ॥
श्रीमार्कण्डेय उवाच -
प्रपन्नोऽस्म्यङ्घ्रिमूलं ते प्रपन्नाभयदं हरे ।
यन्माययापि विबुधा मुह्यन्ति ज्ञानकाशया ॥ २ ॥
सूत उवाच -
तमेवं निभृतात्मानं वृषेण दिवि पर्यटन् ।
रुद्राण्या भगवान् रुद्रो ददर्श स्वगणैर्वृतः ॥ ३ ॥
अथोमा तं ऋषिं वीक्ष्य गिरिशं समभाषत ।
पश्येमं भगवन् विप्रं निभृतात्मेन्द्रियाशयम् ॥ ४ ॥
निभृतोदझषव्रातं वातापाये यथार्णवः ।
कुर्वस्य तपसः साक्षात् संसिद्धिं सिद्धिदो भवान् ॥ ५ ॥
श्रीभगवानुवाच -
नैवेच्छत्याशिषः क्वापि ब्रह्मर्षिर्मोक्षमप्युत ।
भक्तिं परां भगवति लब्धवान् पुरुषेऽव्यये ॥ ६ ॥
अथापि संवदिष्यामो भवान्येतेन साधुना ।
अयं हि परमो लाभो नृणां साधुसमागमः ॥ ७ ॥
सूत उवाच -
इत्युक्त्वा तमुपेयाय भगवान् स सतां गतिः ।
ईशानः सर्वविद्यानां ईश्वरः सर्वदेहिनाम् ॥ ८ ॥
तयोरागमनं साक्षाद् ईशयोर्जगदात्मनोः ।
न वेद रुद्धधीवृत्तिः आत्मानं विश्वमेव च ॥ ९ ॥
भगवान् तदभिज्ञाय गिरिशो योगमायया ।
आविशत्तद्गुहाकाशं वायुश्छिद्रमिवेश्वरः ॥ १० ॥
आत्मन्यपि शिवं प्राप्तं तडित्पिङ्गजटाधरम् ।
त्र्यक्षं दशभुजं प्रांशुं उद्यन्तं इव भास्करम् ॥ ११ ॥
व्याघ्रचर्माम्बरं शूल खट्वाङ्गचर्मभिः ।
अक्षमालाडमरुक कपालासिधनुः सह ॥ १२ ॥
बिभ्राणं सहसा भातं विचक्ष्य हृदि विस्मितः ।
किमिदं कुत एवेति समाधेर्विरतो मुनिः ॥ १३ ॥
नेत्रे उन्मील्य ददृशे सगणं सोमयाऽऽगतम् ।
रुद्रं त्रिलोकैकगुरुं ननाम शिरसा मुनिः ॥ १४ ॥
तस्मै सपर्यां व्यदधात् सगणाय सहोमया ।
स्वागतासनपाद्यार्घ्य गन्धस्रग् धूपदीपकैः ॥ १५ ॥
आह चात्मानुभावेन पूर्णकामस्य ते विभो ।
करवाम किमीशान येनेदं निर्वृतं जगत् ॥ १६ ॥
नमः शिवाय शान्ताय सत्त्वाय प्रमृडाय च ।
रजोजुषेऽप्य घोराय नमस्तुभ्यं तमोजुषे ॥ १७ ॥
सूत उवाच -
एवं स्तुतः स भगवान् आदिदेवः सतां गतिः ।
परितुष्टः प्रसन्नात्मा प्रहसन् तं अभाषत ॥ १८ ॥
श्रीभगवानुवाच -
वरं वृणीष्व नः कामं वरदेशा वयं त्रयः ।
अमोघं दर्शनं येषां मर्त्यो यद् विन्दतेऽमृतम् ॥ १९ ॥
ब्राह्मणाः साधवः शान्ता निःसङ्गा भूतवत्सलाः ।
एकान्तभक्ता अस्मासु निर्वैराः समदर्शिनः ॥ २० ॥
सलोका लोकपालास्तान् वन्दन्त्यर्चन्त्युपासते ।
अहं च भगवान् ब्रह्मा स्वयं च हरिरीश्वरः ॥ २१ ॥
न ते मय्यच्युतेऽजे च भिदामण्वपि चक्षते ।
नात्मनश्च जनस्यापि तद् युष्मान् वयमीमहि ॥ २२ ॥
न ह्यम्मयानि तीर्थानि न देवाश्चेतनोज्झिताः ।
ते पुनन्ति उरुकालेन यूयं दर्शनमात्रतः ॥ २३ ॥
ब्राह्मणेभ्यो नमस्यामो येऽस्मद् रूपं त्रयीमयम् ।
बिभ्रत्यात्मसमाधान तपःस्वाध्यायसंयमैः ॥ २४ ॥
श्रवणाद् दर्शनाद् वापि महापातकिनोऽपि वः ।
शुध्येरन् अन्त्यजाश्चापि किमु संभाषणादिभिः ॥ २५ ॥
सूत उवाच -
इति चन्द्रललामस्य धर्मगुह्योपबृंहितम् ।
वचोऽमृतायनं ऋषिः नातृप्यत् कर्णयोः पिबन् ॥ २६ ॥
स चिरं मायया विष्णोः भ्रामितः कर्शितो भृशम् ।
शिववागमृतध्वस्त क्लेशपुञ्जस्तमब्रवीत् ॥ २७ ॥
श्रीमार्कण्डेय उवाच -
अहो ईश्वरलीलेयं दुर्विभाव्या शरीरिणाम् ।
यन्नमन्तीशितव्यानि स्तुवन्ति जगदीश्वराः ॥ २८ ॥
धर्मं ग्राहयितुं प्रायः प्रवक्तारश्च देहिनाम् ।
आचरन्ति अनुमोदन्ते क्रियमाणं स्तुवन्ति च ॥ २९ ॥
नैतावता भगवतः स्वमायामयवृत्तिभिः ।
न दुष्येतानुभावस्तैः मायिनः कुहकं यथा ॥ ३० ॥
सृष्ट्वेदं मनसा विश्वं आत्मनानुप्रविश्य यः ।
गुणैः कुर्वद्भिराभाति कर्तेव स्वप्नदृग् यथा ॥ ३१ ॥
तस्मै नमो भगवते त्रिगुणाय गुणात्मने ।
केवलायाद्वितीयाय गुरवे ब्रह्ममूर्तये ॥ ३२ ॥
कं वृणे नु परं भूमन् वरं त्वद् वरदर्शनात् ।
यद्दर्शनात्पूर्णकामः सत्यकामः पुमान् भवेत् ॥ ३३ ॥
वरमेकं वृणेऽथापि पूर्णात् कामाभिवर्षणात् ।
भगवति अच्युतां भक्तिं तत्परेषु तथा त्वयि ॥ ३४ ॥
सूत उवाच -
इत्यर्चितोऽभिष्टुतश्च मुनिना सूक्तया गिरा ।
तं आह भगवान् शर्वः शर्वया चाभिनन्दितः ॥ ३५ ॥
कामो महर्षे सर्वोऽयं भक्तिमान् त्वं अमधोक्षजे ।
आकल्पान्ताद् यशः पुण्यं अमजरामरता तथा ॥ ३६ ॥
ज्ञानं त्रैकालिकं ब्रह्मन् विज्ञानं च विरक्तिमत् ।
ब्रह्मवर्चस्विनो भूयात् पुराणाचार्यतास्तु ते ॥ ३७ ॥
सूत उवाच -
एवं वरान् स मुनये दत्त्वागात् त्र्यक्ष ईश्वरः ।
देव्यै तत्कर्म कथयन् अनुभूतं पुरामुना ॥ ३८ ॥
सोऽप्यवाप्तमहायोग महिमा भार्गवोत्तमः ।
विचरति अधुनाप्यद्धा हरावेकान्ततां गतः ॥ ३९ ॥
अनुवर्णितमेतत्ते मार्कण्डेयस्य धीमतः ।
अनुभूतं भगवतो मायावैभवमद्भुतम् ॥ ४० ॥
एतत् केचिद् अविद्वांसो मायासंसृतिरात्मनः ।
अनाद्यावर्तितं नॄणां कादाचित्कं प्रचक्षते ॥ ४१ ॥
(वंशस्था)
य एवमेतद्भृगुवर्य वर्णितं
रथाङ्गपाणेः अनुभावभावितम् ।
संश्रावयेत् संश्रृणुयादु तावुभौ
तयोर्न कर्माशयसंसृतिर्भवेत् ॥ ४२ ॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां
संहितायां द्वादशस्कन्धे दशमोऽध्यायः ॥ १० ॥
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥