श्रीमद्भागवतपुराणम्/स्कन्धः ११/अध्यायः ८

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ७ श्रीमद्भागवतपुराणम्/स्कन्धः ११/अध्यायः ८
[[लेखकः :|]]
अध्यायः ९ →


अवधूतस्य अजगरादि नवगुरूणां वर्णनम् -

श्रीब्राह्मण उवाच -
( अनुष्टुप् )
सुखम् ऐन्द्रियकं राजन् स्वर्गे नरक एव च ।
 देहिनां यद् यथा दुःखं तस्मान् नेच्छेत तद्‍बुधः ॥ १ ॥
 ग्रासं सुमृष्टं विरसं महान्तं स्तोकमेव वा ।
 यदृच्छयैवापतितं ग्रसेत् आजगरोऽक्रियः ॥ २ ॥
 शयीताहानि भूरीणि निराहारोऽनुपक्रमः ।
 यदि नोपनमेद् ग्रासो महाहिरिव दिष्टभुक् ॥ ३ ॥
 ओजःसहोबलयुतं बिभ्रद् देहमकर्मकम् ।
 शयानो वीतनिद्रश्च नेहेतेन्द्रियवानपि ॥ ४ ॥
 मुनिः प्रसन्नगम्भीरो दुर्विगाह्यो दुरत्ययः ।
 अनन्तपारो ह्यक्षोभ्यः स्तिमितोद इवार्णवः ॥ ५ ॥
 समृद्धकामो हीनो वा नारायणपरो मुनिः ।
 नोत्सर्पेत न शुष्येत सरिद्‌भिरिव सागरः ॥ ६ ॥
 दृष्ट्वा स्त्रियं देवमायां तद्‌भावैरजितेन्द्रियः ।
 प्रलोभितः पतत्यन्धे तमस्यग्नौ पतङ्गवत् ॥ ७ ॥
( मिश्र )
योषिद्धिरण्याभरणाम्बरादि
     द्रव्येषु मायारचितेषु मूढः ।
 प्रलोभितात्मा ह्युपभोगबुद्ध्या
     पतङ्गवत् नश्यति नष्टदृष्टिः ॥ ८ ॥
( अनुष्टुप् )
स्तोकं स्तोकं ग्रसेद् ग्रासं देहो वर्तेत यावता ।
 गृहान् अहिंसन् आतिष्ठेद् वृत्तिं माधुकरीं मुनिः ॥ ९ ॥
 अणुभ्यश्च महद्‍भ्यश्च शास्त्रेभ्यः कुशलो नरः ।
 सर्वतः सारमादद्यात् पुष्पेभ्य इव षट्पदः ॥ १० ॥
 सायन्तनं श्वस्तनं वा न सङ्गृह्णीत भिक्षितम् ।
 पाणिपात्रोदरामत्रो मक्षिकेव न सङ्ग्रही ॥ ११ ॥
 सायन्तनं श्वस्तनं वा न सङ्गृह्णीत भिक्षुकः ।
 मक्षिका इव सङ्गृह्णन् सह तेन विनश्यति ॥ १२ ॥
 पदापि युवतीं भिक्षुः न स्पृशेद् दारवीमपि ।
 स्पृशन् करीव बध्येत करिण्या अङ्गसङ्गतः ॥ १३ ॥
 नाधिगच्छेत् स्त्रियं प्राज्ञः कर्हिचित् मृत्युमात्मनः ।
 बलाधिकैः स हन्येत गजैरन्यैर्गजो यथा ॥ १४ ॥
 न देयं नोपभोग्यं च लुब्धैर्यद् दुःखसञ्चितम् ।
 भुङ्क्ते तदपि तच्चान्यो मधुहेवार्थविन्मधु ॥ १५ ॥
 सुदुःखोपार्जितैः वित्तैः आशासानां गृहाशिषः ।
 मधुहेवाग्रतो भुङ्क्ते यतिर्वै गृहमेधिनाम् ॥ १६ ॥
 ग्राम्यगीतं न श्रृणुयाद् यतिर्वनचरः क्वचित् ।
 शिक्षेत हरिणाद् बद्धान् मृगयोर्गीतमोहितात् ॥ १७ ॥
 नृत्यवादित्रगीतानि जुषन् ग्राम्याणि योषिताम् ।
 आसां क्रीडनको वश्य ऋष्यश्रृङ्गो मृगीसुतः ॥ १८ ॥
 जिह्वयातिप्रमाथिन्या जनो रसविमोहितः ।
 मृत्युम् ऋच्छत्यसद्‍बुधिः मीनस्तु बडिशैर्यथा ॥ १९ ॥
 इन्द्रियाणि जयन्त्याशु निराहारा मनीषिणः ।
 वर्जयित्वा तु रसनं तन्निरन्नस्य वर्धते ॥ २० ॥
 तावत् जितेन्द्रियो न स्याद् विजितान्येन्द्रियः पुमान् ।
 न जयेद् रसनं यावत् जितं सर्वं जिते रसे ॥ २१ ॥
 पिङ्गला नाम वेश्याऽऽसीद् विदेहनगरे पुरा ।
 तस्या मे शिक्षितं किञ्चित् निबोध नृपनन्दन ॥ २२ ॥
 सा स्वैरिण्येकदा कान्तं सङ्केत उपनेष्यती ।
 अभूत्काले बहिर्द्वारि बिभ्रती रूपमुत्तमम् ॥ २३ ॥
 मार्ग आगच्छतो वीक्ष्य पुरुषान् पुरुषर्षभ ।
 तान् शुल्कदान् वित्तवतः कान्तान् मेनेऽर्थकामुका ॥ २४ ॥
 आगतेष्वपयातेषु सा सङ्केतोपजीविनी ।
 अप्यन्यो वित्तवान् कोऽपि मामुपैष्यति भूरिदः ॥ २५ ॥
 एवं दुराशया ध्वस्तनिद्रा द्वार्यवलम्बती ।
 निर्गच्छन्ती प्रविशती निशीथं समपद्यत ॥ २६ ॥
 तस्या वित्ताशया शुष्यद्वक्त्राया दीनचेतसः ।
 निर्वेदः परमो जज्ञे चिन्ताहेतुः सुखावहः ॥ २७ ॥
 तस्या निर्विण्णचित्ताया गीतं श्रृणु यथा मम ।
 निर्वेद आशापाशानां पुरुषस्य यथा ह्यसिः ॥ २८ ॥
 न ह्यङ्गाज्जातनिर्वेदो देहबन्धं जिहासति ।
 यथा विज्ञानरहितो मनुजो ममतां नृप ॥ २९ ॥
 पिङ्गलोवाच -
अहो मे मोहविततिं पश्यताविजितात्मनः ।
 या कान्ताद् असतः कामं कामये येन बालिशा ॥ ३० ॥
( मिश्र )
सन्तं समीपे रमणं रतिप्रदं
     वित्तप्रदं नित्यमिमं विहाय ।
 अकामदं दुःखभयाधिशोक-
     मोहप्रदं तुच्छमहं भजेऽज्ञा ॥ ३१ ॥
 अहो मयाऽऽत्मा परितापितो वृथा
     साङ्केत्यवृत्त्यातिविगर्ह्यवार्तया ।
 स्त्रैणान्नराद् यार्थतृषोऽनुशोच्यात्
     क्रीतेन वित्तं रतिमात्मनेच्छती ॥ ३२ ॥
 यदस्थिभिर्निर्मित-वंशवंश्य-
     स्थूणं त्वचा रोमनखैः पिनद्धम् ।
 क्षरन्नवद्वारमगारमेतद् ।
     विण्मूत्रपूर्णं मदुपैति कान्या ॥ ३३ ॥
( अनुष्टुप् )
विदेहानां पुरे ह्यस्मिन् अहमेकैव मूढधीः ।
 यान्यमिच्छन्त्यसत्यस्माद् आत्मदात् काममच्युतात् ॥ ३४ ॥
 सुहृत्प्रेष्ठतमो नाथ आत्मा चायं शरीरिणाम् ।
 तं विक्रीयात्मनैवाहं रमेऽनेन यथा रमा ॥ ३५ ॥
 कियत् प्रियं ते व्यभजन् कामा ये कामदा नराः ।
 आद्यन्तवन्तो भार्याया देवा वा कालविद्रुताः ॥ ३६ ॥
 नूनं मे भगवान् प्रीतो विष्णुः केनापि कर्मणा ।
 निर्वेदोऽयं दुराशाया यन्मे जातः सुखावहः ॥ ३७ ॥
 मैवं स्युः मन्दभाग्यायाः क्लेशा निर्वेदहेतवः ।
 येनानुबन्धं निर्हृत्य पुरुषः शममृच्छति ॥ ३८ ॥
 तेनोपकृतमादाय शिरसा ग्राम्यसङ्गताः ।
 त्यक्त्वा दुराशाः शरणं व्रजामि तमधीश्वरम् ॥ ३९ ॥
 सन्तुष्टा श्रद्दधत्येतद् यथालाभेन जीवती ।
 विहरामिमुनैवाहमात्मना रमणेन वै ॥ ४० ॥
 संसारकूपे पतितं विषयैर्मुषितेक्षणम् ।
 ग्रस्तं कालाहिनात्मानं कोऽन्यस्त्रातुमधीश्वरः ॥ ४१ ॥
 आत्मैव ह्यात्मनो गोप्ता निर्विद्येत यदाखिलात् ।
 अप्रमत्त इदं पश्येद् ग्रस्तं कालाहिना जगत् ॥ ४२ ॥
 श्रीब्राह्मण उवाच -
एवं व्यवसितमतिः दुराशां कान्ततर्षजाम् ।
 छित्त्वोपशममास्थाय शय्यामुपविवेश सा ॥ ४३ ॥
 आशा हि परमं दुःखं नैराश्यं परमं सुखम् ।
 यथा सञ्छिद्य कान्ताशां सुखं सुष्वाप पिङ्गला ॥ ४४ ॥


इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां
संहितायां एकादशस्कन्धे अष्टमोऽध्यायः ॥ ८ ॥
 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥