श्रीमद्भागवतपुराणम्/स्कन्धः ११/अध्यायः ५

विकिस्रोतः तः
Jump to navigation Jump to search
← श्रीमद्भागवतपुराणम्/स्कन्धः ११/अध्यायः ४ श्रीमद्भागवतपुराणम्/स्कन्धः ११/अध्यायः ५
[[लेखकः :|]]
श्रीमद्भागवतपुराणम्/स्कन्धः ११/अध्यायः ६ →


भक्तिहीनपुरुषाणां निष्ठायाः प्रतियुगं पूजाविधानस्य च भेदवर्णनम् -

श्रीराजोवाच -
भगवन्तं हरिं प्रायो न भजन्त्यात्मवित्तमाः ।
 तेषामशान्तकामानां का निष्ठाविजितात्मनाम् ॥ १ ॥
 श्रीचमस उवाच -
( अनुष्टुप् )
मुखबाहूरुपादेभ्यः पुरुषस्याश्रमैः सह ।
 चत्वारो जज्ञिरे वर्णा गुणैर्विप्रादयः पृथक् ॥ २ ॥
 य एषां पुरुषं साक्षात् आत्मप्रभवमीश्वरम् ।
 न भजन्त्यवजानन्ति स्थानाद्‍भ्रष्टाः पतन्त्यधः ॥ ३ ॥
 दूरे हरिकथाः केचिद् दूरे चाच्युतकीर्तनाः ।
 स्त्रियः शूद्रादयश्चैव तेऽनुकम्प्या भवादृशाम् ॥ ४ ॥
 विप्रो राजन्यवैश्यौ वा हरेः प्राप्ताः पदान्तिकम् ।
 श्रौतेन जन्मनाथापि मुह्यन्त्याम्नायवादिनः ॥ ५ ॥
 कर्मण्यकोविदाः स्तब्धा मूर्खाः पण्डितमानिनः ।
 वदन्ति चाटुकान् मूढा यया माध्व्या गिरोत्सुकाः ॥ ६ ॥
 रजसा घोरसङ्कल्पाः कामुका अहिमन्यवः ।
 दाम्भिका मानिनः पापा विहसन्त्यच्युतप्रियान् ॥ ७ ॥
( मिश्र )
वदन्ति तेऽन्योन्यमुपासितस्त्रियो
     गृहेषु मैथुन्यपरेषु चाशिषः ।
 यजन्त्यसृष्टानविधानदक्षिणं
     वृत्त्यै परं घ्नन्ति पशून् अतद्विदः ॥ ८ ॥
 श्रिया विभूत्याभिजनेन विद्यया
     त्यागेन रूपेण बलेन कर्मणा ।
 जातस्मयेनान्धधियः सहेश्वरान्
     सतोऽवमन्यन्ति हरिप्रियान्खलाः ॥ ९ ॥
 सर्वेषु शश्वत् तनुभृत्स्ववस्थितं
     यथा खमात्मानमभीष्टमीश्वरम् ।
 वेदोपगीतं च न श्रृण्वतेऽबुधा
     मनोरथानां प्रवदन्ति वार्तया ॥ १० ॥
 लोके व्यवायामिषमद्यसेवा
     नित्यास्तु जन्तोर्न हि तत्र चोदना ।
 व्यवस्थितिस्तेषु विवाहयज्ञ-
     सुराग्रहैरासु निवृत्तिरिष्टा ॥ ११ ॥
 धनं च धर्मैकफलं यतो वै
     ज्ञानं सविज्ञानमनुप्रशान्ति ।
 गृहेषु युञ्जन्ति कलेवरस्य
     मृत्युं न पश्यन्ति दुरन्तवीर्यम् ॥ १२ ॥
 यद् घ्राणभक्षो विहितः सुरायाः
     तथा पशोरालभनं न हिंसा ।
 एवं व्यवायः प्रजया न रत्या
     इमं विशुद्धं न विदुः स्वधर्मम् ॥ १३ ॥
( अनुष्टुप् )
ये तु अनेवंविदोऽसन्तः स्तब्धाः सदभिमानिनः ।
 पशून् द्रुह्यन्ति विश्रब्धाः प्रेत्य खादन्ति ते च तान् ॥ १४ ॥
 द्विषन्तः परकायेषु स्वात्मानं हरिमीश्वरम् ।
 मृतके सानुबन्धेऽस्मिन् बद्धस्नेहाः पतन्त्यधः ॥ १५ ॥
 ये कैवल्यं असम्प्राप्ता ये चातीताश्च मूढताम् ।
 त्रैवर्गिका ह्यक्षणिका आत्मानं घातयन्ति ते ॥ १६ ॥
 एत आत्महनोऽशान्ता अज्ञाने ज्ञानमानिनः ।
 सीदन्त्यकृतकृत्या वै कालध्वस्तमनोरथाः ॥ १७ ॥
 हित्वा अत्यायारचिता गृहापत्यसुहृत् स्त्रियः ।
 तमो विशन्त्यनिच्छन्तो वासुदेवपराङ्‌मुखाः ॥ १८ ॥
 श्री राजोवाच -
कस्मिन् काले स भगवान् किं वर्णः कीदृशो नृभिः ।
 नाम्ना वा केन विधिना पूज्यते तदिहोच्यताम् ॥ १९ ॥
 श्रीकरभाजन उवाच -
कृतं त्रेता द्वापरं च कलिरित्येषु केशवः ।
 नानावर्णाभिधाकारो नानैव विधिनेज्यते ॥ २० ॥
 कृते शुक्लश्चतुर्बाहुः जटिलो वल्कलाम्बरः ।
 कृष्णाजिनोपवीताक्षान् बिभ्रद् दण्डकमण्डलू ॥ २१ ॥
 मनुष्यास्तु तदा शान्ता निर्वैराः सुहृदः समाः ।
 यजन्ति तपसा देवं शमेन च दमेन च ॥ २२ ॥
 हंसः सुपर्णो वैकुण्ठो धर्मो योगेश्वरोऽमलः ।
 ईश्वरः पुरुषोऽव्यक्तः परमात्मेति गीयते ॥ २३ ॥
 त्रेतायां रक्तवर्णोऽसौ चतुर्बाहुस्त्रिमेखलः ।
 हिरण्यकेशः त्रय्यात्मा स्रुक् स्रुवाद्युपलक्षणः ॥ २४ ॥
 तं तदा मनुजा देवं सर्वदेवमयं हरिम् ।
 यजन्ति विद्यया त्रय्या धर्मिष्ठा ब्रह्मवादिनः ॥ २५ ॥
 विष्णुर्यज्ञः पृश्निगर्भः सर्वदेव उरुक्रमः ।
 वृषाकपिर्जयन्तश्च उरुगाय इतीर्यते ॥ २६ ॥
 द्वापरे भगवान् श्यामः पीतवासा निजायुधः ।
 श्रीवत्सादिभिरङ्कैश्च लक्षणैरुपलक्षितः ॥ २७ ॥
 तं तदा पुरुषं मर्त्या महाराजोपलक्षणम् ।
 यजन्ति वेदतन्त्राभ्यां परं जिज्ञासवो नृप ॥ २८ ॥
 नमस्ते वासुदेवाय नमः सङ्कर्षणाय च ।
 प्रद्युम्नायानिरुद्धाय तुभ्यं भगवते नमः ॥ २९ ॥
 नारायणाय ऋषये पुरुषाय महात्मने ।
 विश्वेश्वराय विश्वाय सर्वभूतात्मने नमः ॥ ३० ॥
 इति द्वापर उर्वीश स्तुवन्ति जगदीश्वरम् ।
 नानातन्त्रविधानेन कलावपि तथा श्रृणु ॥ ३१ ॥
 कृष्णवर्णं त्विषाकृष्णं साङ्गोपाङ्गास्त्र पार्षदम् ।
 यज्ञैः सङ्कीर्तनप्रायैः यजन्ति हि सुमेधसः ॥ ३२ ॥
( वसंततिलका )
ध्येयं सदा परिभवघ्नमभीष्टदोहं
     तीर्थास्पदं शिवविरिञ्चिनुतं शरण्यम् ।
 भृत्यार्तिहं प्रणतपाल भवाब्धिपोतं
     वन्दे महापुरुष ते चरणारविन्दम् ॥ ३३ ॥
 त्यक्त्वा सुदुस्त्यजसुरेप्सित राज्यलक्ष्मीं
     धर्मिष्ठ आर्यवचसा यदगात् अरण्यम् ।
 मायामृगं दयितयेप्सितमन्वधावद्
     वन्दे महापुरुष ते चरणारविन्दम् ॥ ३४ ॥
( अनुष्टुप् )
एवं युगानुरूपाभ्यां भगवान् युगवर्तिभिः ।
 मनुजैरिज्यते राजन् श्रेयसा्मीश्वरो हरिः ॥ ३५ ॥
 कलिं सभाजयन्त्यार्या गुणज्ञाः सारभागिनः ।
 यत्र सङ्कीर्तनेनैव सर्वस्वार्थोऽभिलभ्यते ॥ ३६ ॥
 न ह्यतः परमो लाभो देहिनां भ्राम्यतामिह ।
 यतो विन्देत परमां शान्तिं नश्यति संसृतिः ॥ ३७ ॥
 कृतादिषु प्रजा राजन् कलाविच्छन्ति सम्भवम् ।
 कलौ खलु भविष्यन्ति नारायणपरायणाः ॥ ३८ ॥
 क्वचित् क्वचिन्महाराज द्रविडेषु च भूरिशः ।
 ताम्रपर्णी नदी यत्र कृतमाला पयस्विनी ॥ ३९ ॥
 कावेरी च महापुण्या प्रतीची च महानदी ।
 ये पिबन्ति जलं तासां मनुजा मनुजेश्वर ।
 प्रायो भक्ता भगवति वासुदेवेऽमलाशयाः ॥ ४० ॥
( मिश्र )
देवर्षिभूताप्तनृणां पितॄणां
     न किङ्करो नायमृणी च राजन् ।
 सर्वात्मना यः शरणं शरण्यं
     गतो मुकुन्दं परिहृत्य कर्तम् ॥ ४१ ॥
 स्वपादमूलं भजतः प्रियस्य
     त्यक्तान्यभावस्य हरिः परेशः ।
 विकर्म यच्चोत्पतितं कथञ्चित्
     धुनोति सर्वं हृदि सन्निविष्टः ॥ ४२ ॥
 श्रीनारद उवाच -
( अनुष्टुप् )
धर्मान् भागवतानित्थं श्रुत्वाथ मिथिलेश्वरः ।
 जायन्तेयान् मुनीन् प्रीतः सोपाध्यायो ह्यपूजयत् ॥ ४३ ॥
 ततोऽन्तर्दधिरे सिद्धाः सर्वलोकस्य पश्यतः ।
 राजा धर्मानुपातिष्ठन् अवाप परमां गतिम् ॥ ४४ ॥
 त्वमप्येतान् महाभाग धर्मान् भागवतान् श्रुतान् ।
 आस्थितः श्रद्धया युक्तो निःसङ्गो यास्यसे परम् ॥ ४५ ॥
 युवयोः खलु दम्पत्योः यशसा पूरितं जगत् ।
 पुत्रतामगमद् यद् वां भगवानीश्वरो हरिः ॥ ४६ ॥
 दर्शनालिङ्गनालापैः शयनासनभोजनैः ।
 आत्मा वां पावितः कृष्णे पुत्रस्नेहं प्रकुर्वतोः ॥ ४७ ॥
( वसंततिलका )
वैरेण यं नृपतयः शिशुपालपौण्ड्र-
     शाल्वादयो गतिविलास-विलोकनाद्यैः ।
 ध्यायन्त आकृतधियः शयनासनादौ
     तत्साम्यमापुरनुरक्तधियां पुनः किम् ॥ ४८ ॥
( अनुष्टुप् )
मापत्यबुद्धिमकृथाः कृष्णे सर्वात्मनीश्वरे ।
 मायामनुष्यभावेन गूढैश्वर्ये परेऽव्यये ॥ ४९ ॥
 भूभारासुरराजन्य हन्तवे गुप्तये सताम् ।
 अवतीर्णस्य निर्वृत्यै यशो लोके वितन्यते ॥ ५० ॥
 श्रीशुक उवाच -
एतत् श्रृत्वा महाभागो वसुदेवोऽतिविस्मितः ।
 देवकी च महाभागा जहतुः मोहमात्मनः ॥ ५१ ॥
 इतिहासमिमं पुण्यं धारयेद् यः समाहितः ।
 स विधूयेह शमलं ब्रह्मभूयाय कल्पते ॥ ५२ ॥


इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां
संहितायां एकादशस्कन्धे पञ्चमोऽध्यायः ॥ ५ ॥
 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥