श्रीमद्भागवतपुराणम्/स्कन्धः ११/अध्यायः ३१

विकिस्रोतः तः
Jump to navigation Jump to search
← श्रीमद्भागवतपुराणम्/स्कन्धः ११/अध्यायः ३० श्रीमद्भागवतपुराणम्/स्कन्धः ११/अध्यायः ३१
[[लेखकः :|]]
श्रीमद्भागवतपुराणम्/स्कन्धः १२/अध्यायः १ →


भगवतः परमधामगमनम् -

श्रीशुक उवाच -
( अनुष्टुप् )
अथ तत्रागमद् ब्रह्मा भवान्या च समं भवः ।
 महेंद्रप्रमुखा देवा मुनयः सप्रजेश्वराः ॥ १ ॥
 पितरः सिद्धगंधर्वा विद्याधरमहोरगाः ।
 चारणा यक्षरक्षांसि किन्नराप्सरसो द्विजाः ॥ २ ॥
 द्रष्टुकामा भगवतो निर्याणं परमोत्सुकाः ।
 गायंतश्च गृणंतश्च शौरेः कर्माणि जन्म च ॥ ३ ॥
 ववृषुः पुष्पवर्षाणि विमानावलिभिर्नभः ।
 कुर्वंतः सङ्‌कुलं राजन् भक्त्या परमया युताः ॥ ४ ॥
 भगवान् पितामहं वीक्ष्य विभूतीरात्मनो विभुः ।
 संयोज्यात्मनि चात्मानं पद्मनेत्रे न्यमीलयत् ॥ ५ ॥
 लोकाभिरामां स्वतनुं धारणा ध्यान मङ्गलम् ।
 योगधारणयाऽऽग्नेय्या दग्ध्वा धामाविशत्स्वकम् ॥ ६ ॥
 दिवि दुंदुभयो नेदुः पेतुः सुमनसश्च खात् ।
 सत्यं धर्मो धृतिर्भूमेः कीर्तिः श्रीश्चानु तं ययुः ॥ ७ ॥
 देवादयो ब्रह्ममुख्या न विशंतं स्वधामनि ।
 अविज्ञातगतिं कृष्णं ददृशुश्चातिविस्मिताः ॥ ८ ॥
 सौदामन्या यथाऽऽकाशे यांत्या हित्वाभ्रमण्डलम् ।
 गतिर्न लक्ष्यते मर्त्यैः तथा कृष्णस्य दैवतैः ॥ ९ ॥
 ब्रह्मरुद्रादयस्ते तु दृष्ट्वा योगगतिं हरेः ।
 विस्मितास्तां प्रशंसंतः स्वं स्वं लोकं ययुस्तदा ॥ १० ॥
( वसंततिलका )
राजन् परस्य तनुभृज्जननाप्ययेहा
     मायाविडम्बनमवेहि यथा नटस्य ।
 सृष्ट्वात्मनेदमनुविश्य विहृत्य चांते
     संहृत्य चात्ममहिनोपरतः स आस्ते ॥ ११ ॥
 मर्त्येन यो गुरुसुतं यमलोकनीतं
     त्वां चानयच्छरणदः परमास्त्रदग्धम् ।
 जिग्येंऽतकांतकमपीशमसावनीशः
     किं स्वावने स्वरनयन् मृगयुं सदेहम् ॥ १२ ॥
( मिश्र )
तथाप्यशेषस्थितिसम्भवाप्ययेषु
     अनन्यहेतुर्यदशेषशक्तिधृक् ।
 नैच्छत् प्रणेतुं वपुरत्र शेषितं
     मर्त्येन किं स्वस्थगतिं प्रदर्शयन् ॥ १३ ॥
( अनुष्टुप् )
य एतां प्रातरुत्थाय कृष्णस्य पदवीं पराम् ।
 प्रयतः कीर्तयेद् भक्त्या तामेवाप्नोत्यनुत्तमाम् ॥ १४ ॥
 दारुको द्वारकामेत्य वसुदेवोग्रसेनयोः ।
 पतित्वा चरणावस्रैः न्यषिञ्चत् कृष्णविच्युतः ॥ १५ ॥
 कथयामास निधनं वृष्णीनां कृत्स्नशो नृप ।
 तच्छ्रुत्वोद्विग्नहृदया जनाः शोकविर्मूर्च्छिताः ॥ १६ ॥
 तत्र स्म त्वरिता जग्मुः कृष्णविश्लेषविह्वलाः ।
 व्यसवः शेरते यत्र ज्ञातयो घ्नंत आननम् ॥ १७ ॥
 देवकी रोहिणी चैव वसुदेवस्तथा सुतौ ।
 कृष्णरामावपश्यंतः शोकार्ता विजहुः स्मृतिम् ॥ १८ ॥
 प्राणांश्च विजहुस्तत्र भगवद् विरहातुराः ।
 उपगुह्य पतींस्तात चितां आरुरुहुः स्त्रियः ॥ १९ ॥
 रामपत्न्यश्च तद्देहं उपगुह्याग्निमाविशन् ।
 वसुदेवपत्‍न्यस्तद्‍गात्रं प्रद्युम्नादीन् हरेः स्नुषाः ।
 कृष्णपत्न्योऽविशन्नग्निं रुक्मिण्याद्याः तदात्मिकाः ॥ २० ॥
 अर्जुनः प्रेयसः सख्युः कृष्णस्य विरहातुरः ।
 आत्मानं सांत्वयामास कृष्णगीतैः सदुक्तिभिः ॥ २१ ॥
 बंधूनां नष्टगोत्राणां अर्जुनः सांपरायिकम् ।
 हतानां कारयामास यथावद् अनुपूर्वशः ॥ २२ ॥
 द्वारकां हरिणा त्यक्तां समुद्रोऽप्लावयत् क्षणात् ।
 वर्जयित्वा महाराज श्रीमद् भगवदालयम् ॥ २३ ॥
 नित्यं सन्निहितस्तत्र भगवान् मधुसूदनः ।
 स्मृत्याशेषाशुभहरं सर्वमङ्गलमङ्गलम् ॥ २४ ॥
 स्त्रीबालवृद्धानादाय हतशेषान् धनञ्जयः ।
 इंद्रप्रस्थं समावेश्य वज्रं तत्राभ्यषेचयत् ॥ २५ ॥
 श्रुत्वा सुहृद् वधं राजन् अर्जुनात्ते पितामहाः ।
 त्वां तु वंशधरं कृत्वा जग्मुः सर्वे महापथम् ॥ २६ ॥
 य एतद् देवदेवस्य विष्णोः कर्माणि जन्म च ।
 कीर्तयेत् श्रद्धया मर्त्यः सर्वपापैः प्रमुच्यते ॥ २७ ॥
( वसंततिलका )
इत्थं हरेर्भगवतो रुचिरावतार
     वीर्याणि बालचरितानि च शंतमानि ।
 अन्यत्र चेह च श्रुतानि गृणन् मनुष्यो
     भक्तिं परां परमहंसगतौ लभेत ॥ २८ ॥


इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां
संहितायां एकादशस्कन्धे एकत्रिंशोऽध्यायः ॥ ३१ ॥
 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥