श्रीमद्भागवतपुराणम्/स्कन्धः ११/अध्यायः २०

विकिस्रोतः तः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्
← अध्यायः १९ श्रीमद्भागवतपुराणम्/स्कन्धः ११/अध्यायः २०
[[लेखकः :|]]
अध्यायः २१ →


ज्ञानकर्मभक्तियोगानां वर्णनम् -

श्रीउद्धव उवाच -
( अनुष्टुप् )
विधिश्च प्रतिषेधश्च निगमो हीश्वरस्य ते ।
 अवेक्षतेऽरविन्दाक्ष गुणं दोषं च कर्मणाम् ॥ १ ॥
 वर्णाश्रमविकल्पं च प्रतिलोमानुलोमजम् ।
 द्रव्यदेशवयः कालान् स्वर्गं नरकमेव च ॥ २ ॥
 गुणदोषभिदादृष्टिमन्तरेण वचस्तव ।
 निःश्रेयसं कथं नॄणां निषेधविधिलक्षणम् ॥ ३ ॥
 पितृदेवमनुष्यानां वेदश्चक्षुस्तवेश्वर ।
 श्रेयस्त्वनुपलब्धेऽर्थे साध्यसाधनयोरपि ॥ ४ ॥
 गुणदोषभिदादृष्टिः निगमात्ते न हि स्वतः ।
 निगमेनापवादश्च भिदाया इति ह भ्रमः ॥ ५ ॥
 श्रीभगवानुवाच -
योगास्त्रयो मया प्रोक्ता नृणां श्रेयोविधित्सया ।
 ज्ञानं कर्म च भक्तिश्च नोपायोऽन्योऽस्ति कुत्रचित् ॥ ६ ॥
 निर्विण्णानां ज्ञानयोगो न्यासिनामिह कर्मसु ।
 तेषु अनिर्विण्णचित्तानां कर्मयोगस्तु कामिनाम् ॥ ७ ॥
 यदृच्छया मत्कथादौ जातश्रद्धस्तु यः पुमान् ।
 न निर्विण्णो नातिसक्तो भक्तियोगोऽस्य सिद्धिदः ॥ ८ ॥
 तावत् कर्माणि कुर्वीत न निर्विद्येत यावता ।
 मत्कथाश्रवणादौ वा श्रद्धा यावन्न जायते ॥ ९ ॥
 स्वधर्मस्थो यजन् यज्ञैः अनाशीःकाम उद्धव ।
 न याति स्वर्गनरकौ यद्यन्यन्न समाचरेत् ॥ १० ॥
 अस्मिंल्लोके वर्तमानः स्वधर्मस्थोऽनघः शुचिः ।
 ज्ञानं विशुद्धमाप्नोति मद्‍भक्तिं वा यदृच्छया ॥ ११ ॥
 स्वर्गिणोऽप्येतमिच्छन्ति लोकं निरयिणस्तथा ।
 साधकं ज्ञानभक्तिभ्यां उभयं तदसाधकम् ॥ १२ ॥
 न नरः स्वर्गतिं काङ्क्षेत् नारकीं वा विचक्षणः ।
 नेमं लोकं च काङ्क्षेत देहावेशात् प्रमाद्यति ॥ १३ ॥
 एतद् विद्वान् पुरा मृत्योः अभवाय घटेत सः ।
 अप्रमत्त इदं ज्ञात्वा मर्त्यमप्यर्थसिद्धिदम् ॥ १४ ॥
 छिद्यमानं यमैः एतैः कृतनीडं वनस्पतिम् ।
 खगः स्वकेतमुत्सृज्य क्षेमं याति ह्यलम्पटः ॥ १५ ॥
 अहोरात्रैः छिद्यमानं बुद्ध्वाऽऽयुर्भयवेपथुः ।
 मुक्तसङ्गः परं बुद्ध्वा निरीह उपशाम्यति ॥ १६ ॥
( मिश्र )
नृदेहमाद्यं सुलभं सुदुर्लभं
     प्लवं सुकल्पं गुरुकर्णधारम् ।
 मयानुकूलेन नभस्वतेरितं
     पुमान् भवाब्धिं न तरेत् स आत्महा ॥ १७ ॥
( अनुष्टुप् )
यदाऽऽरम्भेषु निर्विण्णो विरक्तः संयतन्द्रियः ।
 अभ्यासेनात्मनो योगी धारयेद् अचलं मनः ॥ १८ ॥
 धार्यमाणं मनो यर्हि भ्राम्यत् आश्वनवस्थितम् ।
 अतन्द्रितोऽनुरोधेन मार्गेणात्मवशं नयेत् ॥ १९ ॥
 मनोगतिं न विसृजेत् जितप्राणो जितेन्द्रियः ।
 सत्त्वसंपन्नया बुद्ध्या मन आत्मवशं नयेत् ॥ २० ॥
 एष वै परमो योगो मनसः सङ्ग्रहः स्मृतः ।
 हृदयज्ञत्वमन्विच्छन् दम्यस्येवार्वतो मुहुः ॥ २१ ॥
 साङ्ख्येन सर्वभावानां प्रतिलोमानुलोमतः ।
 भवाप्ययावनुध्यायेन् मनो यावत्प्रसीदति ॥ २२ ॥
 निर्विण्णस्य विरक्तस्य पुरुषस्योक्तवेदिनः ।
 मनस्त्यजति दौरात्म्यं चिन्तितस्यानुचिन्तया ॥ २३ ॥
 यमादिभिः योगपथैः आन्वीक्षिक्या च विद्यया ।
 ममार्चोपासनाभिर्वा नान्यैर्योग्यं स्मरेन्मनः ॥ २४ ॥
 यदि कुर्यात्प्रमादेन योगी कर्म विगर्हितम् ।
 योगेनैव दहेदंहो नान्यत्तत्र कदाचन ॥ २५ ॥
 स्वे स्वेऽधिकारे या निष्ठा स गुणः परिकीर्तितः ।
 कर्मणां जात्यशुद्धानाम् अनेन नियमः कृतः ।
 गुणदोषविधानेन सङ्गानां त्याजनेच्छया ॥ २६ ॥
 जातश्रद्धो मत्कथासु निर्विण्णः सर्वकर्मसु ।
 वेद दुःखात्मकान् कामान् परित्यागेऽप्यनीश्वरः ॥ २७ ॥
 ततो भजेत मां प्रीतः श्रद्धालुर्दृढनिश्चयः ।
 जुषमाणश्च तान्कामान् दुःखोदर्कांश्च गर्हयन् ॥ २८ ॥
 प्रोक्तेन भक्तियोगेन भजतो मासकृन्मुनेः ।
 कामा हृदय्या नश्यन्ति सर्वे मयि हृदि स्थिते ॥ २९ ॥
 भिद्यते हृदयग्रन्थिः छिद्यन्ते सर्वसंशयाः ।
 क्षीयन्ते चास्य कर्माणि मयि दृष्टेऽखिलात्मनि ॥ ३० ॥
 तस्मान्मद्‍भक्तियुक्तस्य योगिनो वै मदात्मनः ।
 न ज्ञानं न च वैराग्यं प्रायः श्रेयो भवेदिह ॥ ३१ ॥
 यत्कर्मभिर्यत्तपसा ज्ञानवैराग्यतश्च यत् ।
 योगेन दानधर्मेण श्रेयोभिः इतरैरपि ॥ ३२ ॥
 सर्वं मद्‍भक्तियोगेन मद्‍भक्तो लभतेऽञ्जसा ।
 स्वर्गापवर्गं मद्धाम कथञ्चिद् यदि वाञ्छति ॥ ३३ ॥
 न किञ्चित् साधवो धीरा भक्ता ह्येकान्तिनो मम ।
 वाञ्छन्त्यपि मया दत्तं कैवल्यं अपुनर्भवम् ॥ ३४ ॥
 नैरपेक्ष्यं परं प्राहुः निःश्रेयसमनल्पकम् ।
 तस्मान्निराशिषो भक्तिः निरपेक्षस्य मे भवेत् ॥ ३५ ॥
 न मय्येकान्तभक्तानां गुणदोषोद्‍भवा गुणाः ।
 साधूनां समचित्तानां बुद्धेः परमुपेयुषाम् ॥ ३६ ॥
 एवमेतान्मया दिष्टान् अनुतिष्ठन्ति मे पथः ।
 क्षेमं विन्दन्ति मत्स्थानं यद्‍ ब्रह्म परमं विदुः ॥ ३७ ॥


इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां
संहितायां एकादशस्कन्धे विंशोऽध्यायः ॥ २० ॥
 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥