श्रीमद्भागवतपुराणम्/स्कन्धः ११/अध्यायः १३

विकिस्रोतः तः
← श्रीमद्भागवतपुराणम्/स्कन्धः ११/अध्यायः १२ श्रीमद्भागवतपुराणम्/स्कन्धः ११/अध्यायः १३
[[लेखकः :|]]
श्रीमद्भागवतपुराणम्/स्कन्धः ११/अध्यायः १४ →


भगवता हंसरूपेण ब्रह्मणे ज्ञानोपदेशः -

श्रीभगवानुवाच -
( अनुष्टुप् )
सत्त्वं रजस्तम इति गुणा बुद्धेर्न च आत्मनः ।
 सत्त्वेनान्यतमौ हन्यात् सत्त्वं सत्त्वेन चैव हि ॥ १ ॥
 सत्त्वात् धर्मो भवेद्‍ वृद्धात् पुंसो मद्‍भक्तिलक्षणः ।
 सात्त्विकोपासया सत्त्वं ततो धर्मः प्रवर्तते ॥ २ ॥
 धर्मो रजस्तमो हन्यात् सत्त्ववृद्धिः अनुत्तमः ।
 आशु नश्यति तन्मूलो ह्यधर्म उभये हते ॥ ३ ॥
 आगमोपः प्रजा देशः कालः कर्म च जन्म च ।
 ध्यानं मंत्रोऽथ संस्कारो दशैते गुणहेतवः ॥ ४ ॥
 तत् तत् सात्त्विकमेवैषां यद् यद् वृद्धाः प्रचक्षते ।
 निन्दन्ति तामसं तत्तद् राजसं तद् उपेक्षितम् ॥ ५ ॥
 सात्त्विकान्येव सेवेत पुमान् सत्त्वविवृद्धये ।
 ततो धर्मस्ततो ज्ञानं यावत् स्मृतिरपोहनम् ॥ ६ ॥
 वेणुसङ्घर्षजो वह्निः दग्ध्वा शाम्यति तद्‌वनम् ।
 एवं गुणव्यत्ययजो, देहः शाम्यति तत्क्रियः ॥ ७ ॥
 श्रीउद्धव उवाच -
विदन्ति मर्त्याः प्रायेण विषयान् पदमापदाम् ।
 तथापि भुञ्जते कृष्ण तत्कथं श्वखराजवत् ॥ ८ ॥
 श्रीभगवानुवाच -
अहमित्यन्यथा बुद्धिः प्रमत्तस्य यथा हृदि ।
 उत्सर्पति रजो घोरं ततो वैकारिकं मनः ॥ ९ ॥
 रजोयुक्तस्य मनसः सङ्कल्पः सविकल्पकः ।
 ततः कामो गुणध्यानाद् दुःसहः स्याद् हि दुर्मतेः ॥ १० ॥
 करोति कामवशगः कर्माण्यविजितेन्द्रियः ।
 दुःखोदर्काणि संपश्यन् रजोवेग विमोहितः ॥ ११ ॥
 रजस्तमोभ्यां यदपि विद्वान् विक्षिप्तधीः पुनः ।
 अतंद्रितो मनो युञ्जन् दोषदृष्टिर्न सज्जते ॥ १२ ॥
 अप्रमत्तोऽनुयुञ्जीत मनो मय्यर्पयन् शनैः ।
 अनिर्विण्णो यथाकालं जितश्वासो जितासनः ॥ १३ ॥
 एतावान् योग आदिष्टो मच्छिष्यैः सनकादिभिः ।
 सर्वतो मन आकृष्य मय्यद्धाऽऽवेश्यते यथा ॥ १४ ॥
 श्रीउद्धव उवाच -
यदा त्वं सनकादिभ्यो येन रूपेण केशव ।
 योगमादिष्टवानेतद् रूपमिच्छामि वेदितुम् ॥ १५ ॥
 श्रीभगवानुवाच -
पुत्रा हिरण्यगर्भस्य मानसाः सनकादयः ।
 पप्रच्छुः पितरं सूक्ष्मां योगस्यैकान्तिकीं गतिम् ॥ १६ ॥
 सनकादय ऊचुः -
गुणेष्वाविशते चेतो गुणाश्चेतसि च प्रभो ।
 कथमन्योन्य संत्यागो मुमुक्षोः अतितितीर्षोः ॥ १७ ॥
 श्रीभगवानुवाच -
एवं पृष्टो महादेवः स्वयंभूः भूतभावनः ।
 ध्यायमानः प्रश्नबीजं नाभ्यपद्यत कर्मधीः ॥ १८ ॥
 स मामचिन्तयद् देवः प्रश्नपारतितीर्षया ।
 तस्याहं हंसरूपेण सकाशमगमं तदा ॥ १९ ॥
 दृष्ट्वा मां त उपव्रज्य कृत्वा पादाभिवन्दनम् ।
 ब्रह्मामग्रतः कृत्वा पप्रच्छुः को भवान् इति ॥ २० ॥
 इत्यहं मुनिभिः पृष्टः तत्त्वजिज्ञासुभिस्तदा ।
 यदवोचमहं तेभ्यः तद् उद्धव निबोध मे ॥ २१ ॥
 वस्तुनो यद्यनानात्वमात्मनः प्रश्न ईदृशः ।
 कथं घटेत वो विप्रा वक्तुर्वा मे क आश्रयः ॥ २२ ॥
 पञ्चात्मकेषु भूतेषु समानेषु च वस्तुतः ।
 को भवानिति वः प्रश्नो वाचारम्भो ह्यनर्थकः ॥ २३ ॥
 मनसा वचसा दृष्ट्या गृह्यतेऽन्यैः अपीन्द्रियैः ।
 अहमेव न मत्तोऽन्यत् इति बुध्यध्वमञ्जसा ॥ २४ ॥
 गुणेषु आविशते चेतो गुणाश्चेतसि च प्रजाः ।
 जीवस्य देह उभयं गुणाश्चेतो मदात्मनः ॥ २५ ॥
 गुणेषु च आविशत् चित्तमभीक्ष्णं गुणसेवया ।
 गुणाश्च चित्तप्रभवा मद्‌रूप उभयं त्यजेत् ॥ २६ ॥
 जाग्रत् स्वप्नः सुषुप्तं च, गुणतो बुद्धिवृत्तयः ।
 तासां विलक्षणो जीवः साक्षित्वेन विनिश्चितः ॥ २७ ॥
 यर्हि संसृतिबन्धोऽयं आत्मनो गुणवृत्तिदः ।
 मयि तुर्ये स्थितो जह्यात् त्यागः तद् गुणचेतसाम् ॥ २८ ॥
 अहङ्कारकृतं बन्धं आत्मनोऽर्थविपर्ययम् ।
 विद्वान् निर्विद्य संसारचिन्तां तुर्ये स्थितः त्यजेत् ॥ २९ ॥
 यावत् नानार्थधीः पुंसो, न निवर्तेत युक्तिभिः ।
 जागर्ति अपि स्वपन् अज्ञः स्वप्ने जागरणं यथा ॥ ३० ॥
 असत्त्वाद् आत्मनोऽन्येषां भावानां तत्कृता भिदा ।
 गतयो हेतवश्चास्य मृषा स्वप्नदृशो यथा ॥ ३१ ॥
( वसंततिलका )
यो जागरे बहिरनुक्षणधर्मिणोऽर्थान्
     भुङ्क्ते समस्तकरणैहृदि तत्सदृक्षान् ।
 स्वप्ने सुषुप्त उपसंहरते स एकः
     स्मृत्यन्वयात् त्रिगुणवृत्तिदृगिन्द्रियेशः ॥ ३२ ॥
 एवं विमृश्य गुणतो मनसः त्र्यवस्था ।
     मन्मायया मयि कृता इति निश्चितार्थाः ।
 संछिद्य हार्दमनुमानसदुक्तितीक्ष्ण ।
     ज्ञानासिना भजत माखिलसंशयाधिम् ॥ ३३ ॥
 ईक्षेत विभ्रममिदं मनसो विलासं ।
     दृष्टं विनष्टमतिलोलमलातचक्रम् ।
 विज्ञानमेकं उरुधेव विभाति माया ।
     स्वप्नः त्रिधा गुणविसर्गकृतो विकल्पः ॥ ३४ ॥
 दृष्टिं ततः प्रतिनिवर्त्य निवृत्ततृष्णः ।
     तूष्णीं भवेत् निजसुखानुभवो निरीहः ।
 संदृश्यते क्व च यदीदमवस्तुबुद्ध्या ।
     त्यक्तं भ्रमाय न भवेत् स्मृतिरानिपातात् ॥ ३५ ॥
 देहं च नश्वरमवस्थितमुत्थितं वा ।
     सिद्धो न पश्यति यतोऽध्यगमत् स्वरूपम् ।
 दैवाद्-अपेतमथ दैववशाद् उपेतं ।
     वासो यथा परिकृतं मदिरा-मदान्धः ॥ ३६ ॥
 देहोऽपि दैववशगः खलु कर्म यावत् ।
     स्वारंभकं प्रतिसमीक्षत एव सासुः ।
 तं सप्रपञ्चमधिरूढसमाधियोगः ।
     स्वाप्नं पुनर्न भजते प्रतिबुद्धवस्तुः ॥ ३७ ॥
( अनुष्टुप् )
मयैतदुक्तं वो विप्रा गुह्यं यत् साङ्ख्ययोगयोः ।
 जानीत माऽऽगतं यज्ञं युष्मद्-धर्मविवक्षया ॥ ३८ ॥
 अहं योगस्य साङ्ख्यस्य सत्यस्यर्तस्य तेजसः ।
 परायणं द्विजश्रेष्ठाः श्रियः कीर्तेः दमस्य च ॥ ३९ ॥
 मां भजन्ति गुणाः सर्वे निर्गुणं निरपेक्षकम् ।
 सुहृदं प्रियमात्मानं साम्यासङ्गादयोगुणाः ॥ ४० ॥
 इति मे छिन्नसन्देहा मुनयः सनकादयः ।
 सभाजयित्वा परया भक्त्यागृणत संस्तवैः ॥ ४१ ॥
 तैरहं पूजितः सम्यक् संस्तुतः परमर्षिभिः ।
 प्रत्येयाय स्वकं धाम पश्यतः परमेष्ठिनः ॥ ४२ ॥


इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां
संहितायां एकादशस्कन्धे त्रयोदशोऽध्यायः ॥ १३ ॥
 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥