श्रीमद्भागवतपुराणम्/स्कन्धः १०/पूर्वार्धः/अध्यायः ४

विकिस्रोतः तः
← अध्यायः ३ श्रीमद्भागवतपुराणम्/स्कन्धः १०/पूर्वार्धः/अध्यायः ४
[[लेखकः :|]]
अध्यायः ५ →


जिघांसोः कंसस्य हस्तात् उन्मुक्ताया देव्या भगवद्
 अवतार सूचनं कंसानुतापः,तदीय दुर्मंत्रिणां दुर्मंत्रणं च -

श्रीशुक उवाच ।
( अनुष्टुप् )
बहिरन्तःपुरद्वारः सर्वाः पूर्ववदावृताः ।
 ततो बालध्वनिं श्रुत्वा गृहपालाः समुत्थिताः ॥ १ ॥
 ते तु तूर्णं उपव्रज्य देवक्या गर्भजन्म तत् ।
 आचख्युः भोजराजाय यदुद्विग्नः प्रतीक्षते ॥ २ ॥
 स तल्पात् तूर्णमुत्थाय कालोऽयमिति विह्वलः ।
 सूतीगृहं अगात् तूर्णं प्रस्खलन् मुक्तमूर्धजः ॥ ३ ॥
 तं आह भ्रातरं देवी कृपणा करुणं सती ।
 स्नुषेयं तव कल्याण स्त्रियं मा हन्तुमर्हसि ॥ ४ ॥
 बहवो हिंसिता भ्रातः शिशवः पावकोपमाः ।
 त्वया दैवनिसृष्टेन पुत्रिकैका प्रदीयताम् ॥ ५ ॥
 नन्वहं ते ह्यवरजा दीना हतसुता प्रभो ।
 दातुमर्हसि मन्दाया अङ्‌गेमां चरमां प्रजाम् ॥ ६ ॥
 श्रीशुक उवाच ।
 उपगुह्य आत्मजां एवं रुदत्या दीन अदीनवत् ।
 याचितस्तां विनिर्भर्त्स्य हस्ताद् आचिच्छिदे खलः ॥ ७ ॥
 तां गृहीत्वा चरणयोः जातमात्रां स्वसुः सुताम् ।
 अपोथयत् शिलापृष्ठे स्वार्थोन्मूलितसौहृदः ॥ ८ ॥
 सा तद्‌हस्तात् समुत्पत्य सद्यो देव्यंबरं गता ।
 अदृश्यतानुजा विष्णोः सायुधाष्टमहाभुजा ॥ ९ ॥
 दिव्यस्रग् अंबरालेप रत्‍नाभरणभूषिता ।
 धनुःशूलेषुचर्मासि शंखचक्रगदाधरा ॥ १० ॥
 सिद्धचारणगन्धर्वैः अप्सरःकिन्नरोरगैः ।
 उपाहृतोरुबलिभिः स्तूयमानेदमब्रवीत् ॥ ११ ॥
 किं मया हतया मन्द जातः खलु तवान्तकृत् ।
 यत्र क्वं वा पूर्वशत्रुः मा हिंसीः कृपणान्वृथा ॥ १२ ॥
 इति प्रभाष्य तं देवी माया भगवती भुवि ।
 बहुनामनिकेतेषु बहुनामा बभूव ह ॥ १३ ॥
 तया अभिहितं आकर्ण्य कंसः परमविस्मितः ।
 देवकीं वसुदेवं च विमुच्य प्रश्रितोऽब्रवीत् ॥ १४ ॥
 अहो भगिन्यहो भाम मया वां बत पाप्मना ।
 पुरुषाद इवापत्यं बहवो हिंसिताः सुताः ॥ १५ ॥
 स त्वहं त्यक्तकारुण्यः त्यक्तज्ञातिसुहृत् खलः ।
 कान् लोकान् वै गमिष्यामि ब्रह्महेव मृतः श्वसन् ॥ १६ ॥
 दैवं अपि अनृतं वक्ति न मर्त्या एव केवलम् ।
 यद् विश्रंभाद् अहं पापः स्वसुर्निहतवान् शिशून् ॥ १७ ॥
 मा शोचतं महाभागौ आत्मजान् स्वकृतंभुजः ।
 जन्तवो न सदैकत्र दैवाधीनास्तदाऽऽसते ॥ १८ ॥
 भुवि भौमानि भूतानि यथा यान्ति अपयान्ति च ।
 नायमात्मा तथैतेषु विपर्येति यथैव भूः ॥ १९ ॥
 यथानेवंविदो भेदो यत आत्मविपर्ययः ।
 देहयोगवियोगौ च संसृतिर्न निवर्तते ॥ २० ॥
 तस्माद्‍भद्रे स्वतनयान् मया व्यापादितानपि ।
 मानुशोच यतः सर्वः स्वकृतं विन्दतेऽवशः ॥ २१ ॥
 यावद्धतोऽस्मि हन्तास्मीति आत्मानं मन्यतेऽस्वदृक् ।
 तावत् तद् अभिमान्यज्ञो बाध्यबाधकतामियात् ॥ २२ ॥
 क्षमध्वं मम दौरात्म्यं साधवो दीनवत्सलाः ।
 इत्युक्त्वाश्रुमुखः पादौ श्यालः स्वस्रोः अथाग्रहीत् ॥ २३ ॥
 मोचयामास निगडात् विश्रब्धः कन्यकागिरा ।
 देवकीं वसुदेवं च दर्शयन् आत्मसौहृदम् ॥ २४ ॥
 भ्रातुः समनुतप्तस्य क्षान्त्वा रोषं च देवकी ।
 व्यसृजत् वसुदेवश्च प्रहस्य तमुवाच ह ॥ २५ ॥
 एवमेतन्महाभाग यथा वदसि देहिनाम् ।
 अज्ञानप्रभवाहंधीः स्वपरेति भिदा यतः ॥ २६ ॥
 शोकहर्षभयद्वेष लोभमोहमदान्विताः ।
 मिथो घ्नन्तं न पश्यन्ति भावैर्भावं पृथग्दृशः ॥ २७ ॥
 श्रीशुक उवाच ।
 कंस एवं प्रसन्नाभ्यां विशुद्धं प्रतिभाषितः ।
 देवकी वसुदेवाभ्यां अनुज्ञातो आविशत् गृहम् ॥ २८ ॥
 तस्यां रात्र्यां व्यतीतायां कंस आहूय मंत्रिणः ।
 तेभ्य आचष्ट तत् सर्वं यदुक्तं योगनिद्रया ॥ २९ ॥
 आकर्ण्य भर्तुर्गदितं तं ऊचुः देवशत्रवः ।
 देवान् प्रति कृतामर्षा दैतेया नातिकोविदाः ॥ ३० ॥
 एवं चेत्तर्हि भोजेन्द्र पुरग्राम व्रजादिषु ।
 अनिर्दशान् निर्दशांश्च हनिष्यामोऽद्य वै शिशून् ॥ ३१ ॥
 किं उद्यमैः करिष्यन्ति देवाः समरभीरवः ।
 नित्यं उद्विग्नमनसो ज्याघोषैर्धनुषस्तव ॥ ३२ ॥
 अस्यतस्ते शरव्रातैः हन्यमानाः समन्ततः ।
 जिजीविषव उत्सृज्य पलायनपरा ययुः ॥ ३३ ॥
 केचित् प्राञ्जलयो दीना न्यस्तशस्त्रा दिवौकसः ।
 मुक्तकच्छशिखाः केचिद् भीताः स्म इति वादिनः ॥ ३४ ॥
 न त्वं विस्मृतशस्त्रास्त्रान् विरथान् भयसंवृतान् ।
 हंस्यन्यासक्तविमुखान् भग्नचापानयुध्यतः ॥ ३५ ॥
 किं क्षेमशूरैर्विबुधैः असंयुगविकत्थनैः ।
 रहोजुषा किं हरिणा शंभुना वा वनौकसा ।
 किं इंद्रेणाल्पवीर्येण ब्रह्मणा वा तपस्यता ॥ ३६ ॥
 तथापि देवाः सापत्‍न्यान् नोपेक्ष्या इति मन्महे ।
 ततः तन्मूलखनने नियुंक्ष्वास्मान् अनुव्रतान् ॥ ३७ ॥
( वंशस्थ )
यथामयोंऽगे समुपेक्षितो नृभिः
     न शक्यते रूढपदश्चिकित्सितुम् ।
 यथेन्द्रियग्राम उपेक्षितस्तथा
     रिपुर्महान् बद्धबलो न चाल्यते ॥ ३८ ॥
( अनुष्टुप् )
मूलं हि विष्णुः देवानां यत्र धर्मः सनातनः ।
 तस्य च ब्रह्मगोविप्राः तपो यज्ञाः सदक्षिणाः ॥ ३९ ॥
 तस्मात्सर्वात्मना राजन् ब्राह्मणान् ब्रह्मवादिनः ।
 तपस्विनो यज्ञशीलान् गाश्च हन्मो हविर्दुघाः ॥ ४० ॥
 विप्रा गावश्च वेदाश्च तपः सत्यं दमः शमः ।
 श्रद्धा दया तितिक्षा च क्रतवश्च हरेस्तनूः ॥ ४१ ॥
 स हि सर्वसुराध्यक्षो ह्यसुरद्‌विड् गुहाशयः ।
 तन्मूला देवताः सर्वाः सेश्वराः सचतुर्मुखाः ।
 अयं वै तद्‌वधोपायो यद्‌ऋषीणां विहिंसनम् ॥ ४२ ॥
 श्रीशुक उवाच ।
 एवं दुर्मंत्रिभिः कंसः सह सम्मन्त्र्य दुर्मतिः ।
 ब्रह्महिंसां हितं मेने कालपाशावृतोऽसुरः ॥ ४३ ॥
 सन्दिश्य साधुलोकस्य कदने कदनप्रियान् ।
 कामरूपधरान् दिक्षु दानवान् गृहमाविशत् ॥ ४४ ॥
 ते वै रजःप्रकृतयः तमसा मूढचेतसः ।
 सतां विद्वेषमाचेरुः आरात् आगतमृत्यवः ॥ ४५ ॥
 आयुः श्रियं यशो धर्मं लोकानाशिष एव च ।
 हन्ति श्रेयांसि सर्वाणि पुंसो महदतिक्रमः ॥ ४६ ॥


इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां
 संहितायां दशमस्कन्धे पूर्वार्धे चतुर्थोऽध्यायः ॥ ४ ॥
 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥