श्रीमद्भागवतपुराणम्/स्कन्धः १०/पूर्वार्धः/अध्यायः १९

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः १८ श्रीमद्भागवतपुराणम्/स्कन्धः १०/पूर्वार्धः/अध्यायः १९
[[लेखकः :|]]
अध्यायः २० →


मुञ्जाटव्यां गवां गोपानां च दावानलाद् रक्षणम् -

श्रीशुक उवाच ।
( अनुष्टुप् )
क्रीडासक्तेषु गोपेषु तद्‍गावो दूरचारिणीः ।
 स्वैरं चरन्त्यो विविशुः तृणलोभेन गह्वरम् ॥ १ ॥
 अजा गावो महिष्यश्च निर्विशन्त्यो वनाद् वनम् ।
 ईषीकाटवीं निर्विविशुः क्रन्दन्त्यो दावतर्षिताः ॥ २ ॥
 तेऽपश्यन्तः पशून् गोपाः कृष्णरामादयस्तदा ।
 जातानुतापा न विदुः विचिन्वन्तो गवां गतिम् ॥ ३ ॥
 तृणैस्तत्खुरदच्छिन्नैः गोष्पदैः अंकितैर्गवाम् ।
 मार्गं अन्वगमन् सर्वे नष्टाजीव्या विचेतसः ॥ ४ ॥
 मुञ्जाटव्यां भ्रष्टमार्गं क्रन्दमानं स्वगोधनम् ।
 सम्प्राप्य तृषिताः श्रान्ताः ततस्ते संन्यवर्तयन् ॥ ५ ॥
 ता आहूता भगवता मेघगम्भीरया गिरा ।
 स्वनाम्नां निनदं श्रुत्वा प्रतिनेदुः प्रहर्षिताः ॥ ६ ॥
( मिश्र )
ततः समन्ताद् वनधूमकेतुः
     यदृच्छयाभूत् क्षयकृत् वनौकसाम् ।
 समीरितः सारथिनोल्बणोल्मुकैः
     विलेलिहानः स्थिरजङ्‌गमान् महान् ॥ ७ ॥
 तं आपतन्तं परितो दवाग्निं
     गोपाश्च गावः प्रसमीक्ष्य भीताः ।
 ऊचुश्च कृष्णं सबलं प्रपन्ना
     यथा हरिं मृत्युभयार्दिता जनाः ॥ ८ ॥
( अनुष्टुप् )
कृष्ण कृष्ण महावीर हे रामामित विक्रम ।
 दावाग्निना दह्यमानान् प्रपन्नान् त्रातुमर्हथः ॥ ९ ॥
 नूनं त्वद्‍बान्धवाः कृष्ण न चार्हन्त्यवसीदितुम् ।
 वयं हि सर्वधर्मज्ञ त्वन्नाथाः त्वत्परायणाः ॥ १० ॥
 श्रीशुक उवाच ।
 वचो निशम्य कृपणं बन्धूनां भगवान् हरिः ।
 निमीलयत मा भैष्ट लोचनानीत्यभाषत ॥ ११ ॥
 तथेति मीलिताक्षेषु भगवान् अग्निमुल्बणम् ।
 पीत्वा मुखेन तान्कृच्छ्राद् योगाधीशो व्यमोचयत् ॥ १२ ॥
 ततश्च तेऽक्षीण्युन्मील्य पुनर्भाण्डीरमापिताः ।
 निशाम्य विस्मिता आसन् आत्मानं गाश्च मोचिताः ॥ १३ ॥
 कृष्णस्य योगवीर्यं तद् योगमायानुभावितम् ।
 दावाग्नेरात्मनः क्षेमं वीक्ष्य ते मेनिरेऽमरम् ॥ १४ ॥
 गाः सन्निवर्त्य सायाह्ने सहरामो जनार्दनः ।
 वेणुं विरणयन् गोष्ठं अगाद् गोपैरभिष्टुतः ॥ १५ ॥
 गोपीनां परमानन्द आसीद् गोविन्ददर्शने ।
 क्षणं युगशतमिव यासां येन विनाभवत् ॥ १६ ॥


इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां
संहितायां दशमस्कन्धे पूर्वार्धे एकोनविंशोऽध्यायः ॥ १९ ॥
 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥