श्रीमद्भागवतपुराणम्/स्कन्धः १०/पूर्वार्धः/अध्यायः १६

विकिस्रोतः तः
← अध्यायः १५ श्रीमद्भागवतपुराणम्/स्कन्धः १०/पूर्वार्धः/अध्यायः १६
[[लेखकः :|]]
अध्यायः १७ →


कालियदमनम्-नागपत्‍नीकृतं नागकर्तृकं च
भगवतः स्तवनं नागद्वारा ह्रदपरित्यागश्च -

( अनुष्टुप् )
श्रीशुक उवाच ।
 विलोक्य दूषितां कृष्णां कृष्णः कृष्णाहिना विभुः ।
 तस्या विशुद्धिमन्विच्छन्सर्पं तमुदवासयत् ॥ १ ॥
 श्रीराजोवाच ।
 कथमन्तर्जलेऽगाधे न्यगृह्णाद् भगवानहिम् ।
 स वै बहुयुगावासं यथाऽऽसीद् विप्र कथ्यताम् ॥ २ ॥
 ब्रह्मन्भगवतस्तस्य भूम्नः स्वच्छन्दवर्तिनः ।
 गोपालोदारचरितं कस्तृप्येतामृतं जुषन् ॥ ३ ॥
 श्रीशुक उवाच ।
 कालिन्द्यां कालियस्यासीद् ह्रदः कश्चिद् विषाग्निना ।
 श्रप्यमाणपया यस्मिन् पतन्त्युपरिगाः खगाः ॥ ४ ॥
 विप्रुष्मता विषदोर्मि मारुतेनाभिमर्शिताः ।
 म्रियन्ते तीरगा यस्य प्राणिनः स्थिरजङ्‌गमाः ॥ ५ ॥
( वसंततिलका )
तं चण्डवेगविषवीर्यमवेक्ष्य तेन
     दुष्टां नदीं च खलसंयमनावतारः ।
 कृष्णः कदम्बमधिरुह्य ततोऽतितुङ्‌गम्
     आस्फोट्य गाढरशनो न्यपतद् विषोदे ॥ ६ ॥
 सर्पह्रदः पुरुषसारनिपातवेग
     संक्षोभितोरगविषोच्छ्वसिताम्बुराशिः ।
 पर्यक्‌प्लुतो विषकषायबिभीषणोर्मिः
     धावन् धनुःशतमनन्तबलस्य किं तत् ॥ ७ ॥
 तस्य ह्रदे विहरतो भुजदण्डघूर्ण
     वार्घोषमङ्‌ग वरवारणविक्रमस्य ।
 आश्रुत्य तत् स्वसदनाभिभवं निरीक्ष्य
     चक्षुःश्रवाः समसरत् तदमृष्यमाणः ॥ ८ ॥
 तं प्रेक्षणीयसुकुमारघनावदातं
     श्रीवत्सपीतवसनं स्मितसुन्दरास्यम् ।
 क्रीडन्तमप्रतिभयं कमलोदराङ्‌घ्रिं
     सन्दश्य मर्मसु रुषा भुजया चछाद ॥ ९ ॥
 तं नागभोगपरिवीतमदृष्टचेष्टम्
     आलोक्य तत्प्रियसखाः पशुपा भृशार्ताः ।
 कृष्णेऽर्पितात्मसुहृदर्थकलत्रकामा
     दुःखानुशोकभयमूढधियो निपेतुः ॥ १० ॥
( अनुष्टुप् )
गावो वृषा वत्सतर्यः क्रन्दमानाः सुदुःखिताः ।
 कृष्णे न्यस्तेक्षणा भीता रुदत्य इव तस्थिरे ॥ ११ ॥
 अथ व्रजे महोत्पाताः त्रिविधा ह्यतिदारुणाः ।
 उत्पेतुर्भुवि दिव्यात्मन् यासन्नभयशंसिनः ॥ १२ ॥
 तानालक्ष्य भयोद्विग्ना गोपा नन्दपुरोगमाः ।
 विना रामेण गाः कृष्णं ज्ञात्वा चारयितुं गतम् ॥ १३ ॥
 तैर्दुर्निमित्तैर्निधनं मत्वा प्राप्तमतद् विदः ।
 तत् प्राणास्तन्मनस्कास्ते दुःखशोकभयातुराः ॥ १४ ॥
 आबालवृद्धवनिताः सर्वेऽङ्‌ग पशुवृत्तयः ।
 निर्जग्मुर्गोकुलाद् दीनाः कृष्णदर्शनलालसाः ॥ १५ ॥
 तांस्तथा कातरान् वीक्ष्य भगवान् माधवो बलः ।
 प्रहस्य किञ्चिन्नोवाच प्रभावज्ञोऽनुजस्य सः ॥ ॥
 तेऽन्वेषमाणा दयितं कृष्णं सूचितया पदैः ।
 भगवत् लक्षणैर्जग्मुः पदव्या यमुनातटम् ॥ १७ ॥
( इंद्रवंशा )
ते तत्र तत्राब्जयवाङ्‌कुशाशनि
     ध्वजोपपन्नानि पदानि विश्पतेः ।
 मार्गे गवामन्यपदान्तरान्तरे
     निरीक्षमाणा ययुरङ्‌ग सत्वराः ॥ १८ ॥
( वसंततिलका )
अन्तर्ह्रदे भुजगभोगपरीतमारात् ।
     कृष्णं निरीहमुपलभ्य जलाशयान्ते ।
 गोपांश्च मूढधिषणान् परितः पशूंश्च
     संक्रन्दतः परमकश्मलमापुरार्ताः ॥ १९ ॥
 गोप्योऽनुरक्तमनसो भगवत्यनन्ते ।
     तत्सौहृदस्मितविलोकगिरः स्मरन्त्यः ।
 ग्रस्तेऽहिना प्रियतमे भृशदुःखतप्ताः
     शून्यं प्रियव्यतिहृतं ददृशुस्त्रिलोकम् ॥ २० ॥
 ताः कृष्णमातरमपत्यमनुप्रविष्टां
     तुल्यव्यथाः समनुगृह्य शुचः स्रवन्त्यः ।
 तास्ता व्रजप्रियकथाः कथयन्त्य आसन्
     कृष्णाननेऽर्पितदृशो मृतकप्रतीकाः ॥ २१ ॥
( अनुष्टुप् )
कृष्णप्राणान् निर्विशतो नन्दादीन् वीक्ष्य तं ह्रदम् ।
 प्रत्यषेधत् स भगवान् रामः कृष्णानुभाववित् ॥ २२ ॥
( वसंततिलका )
इत्थं स्वगोकुलमनन्यगतिं निरीक्ष्य
     सस्त्रीकुमारमतिदुःखितमात्महेतोः ।
 आज्ञाय मर्त्यपदवीमनुवर्तमानः
     स्थित्वा मुहूर्तमुदतिष्ठदुरङ्‌गबन्धात् ॥ २३ ॥
 तत्प्रथ्यमानवपुषा व्यथितात्मभोगः
     त्यक्त्वोन्नमय्य कुपितः स्वफणान्भुजङ्‌गः ।
 तस्थौ श्वसन् श्वसनरन्ध्रविषाम्बरीष
     स्तब्धेक्षणोल्मुकमुखो हरिमीक्षमाणः ॥ २४ ॥
 तं जिह्वया द्विशिखया परिलेलिहानं
     द्वे सृक्किणी ह्यतिकरालविषाग्निदृष्टिम् ।
 क्रीडन्नमुं परिससार यथा खगेन्द्रो
     बभ्राम सोऽप्यवसरं प्रसमीक्षमाणः ॥ २५ ॥
 एवं परिभ्रमहतौजसमुन्नतांसम्
     आनम्य तत्पृथुशिरःस्वधिरूढ आद्यः ।
 तन्मूर्धरत्‍ननिकरस्पर्शातिताम्र
     पादाम्बुजोऽखिलकलादिगुरुर्ननर्त ॥ २६ ॥
 तं नर्तुमुद्यतमवेक्ष्य तदा तदीय
     गन्धर्वसिद्धमुनिचारणदेववध्वः ।
 प्रीत्या मृदङ्‌गपणवानकवाद्यगीत
     पुष्पोपहारनुतिभिः सहसोपसेदुः ॥ २७ ॥
 यद् यद् शिरो न नमतेऽङ्‌ग शतैकशीर्ष्णः
     तत्तन्ममर्द खरदण्डधरोऽङ्‌घ्रिपातैः ।
 क्षीणायुषो भ्रमत उल्बणमास्यतोऽसृङ्‌
     नस्तो वमन् परमकश्मलमाप नागः ॥ २८ ॥
 तस्याक्षिभिर्गरलमुद्वमतः शिरःसु
     यद् यत् समुन्नमति निःश्वसतो रुषोच्चैः ।
 नृत्यन् पदानुनमयन् दमयां बभूव
     पुष्पैः प्रपूजित इवेह पुमान्पुराणः ॥ २९ ॥
 तच्चित्रताण्डवविरुग्णफणातपत्रो
     रक्तं मुखैरुरु वमन् नृप भग्नगात्रः ।
 स्मृत्वा चराचरगुरुं पुरुषं पुराणं
     नारायणं तमरणं मनसा जगाम ॥ ३० ॥
 कृष्णस्य गर्भजगतोऽतिभरावसन्नं
     पार्ष्णिप्रहारपरिरुग्णफणातपत्रम् ।
 दृष्ट्वाहिमाद्यमुपसेदुरमुष्य पत्‍न्य
     आर्ताः श्लथद्वसन भूषणकेशबन्धाः ॥ ३१ ॥
 तास्तं सुविग्नमनसोऽथ पुरस्कृतार्भाः
     कायं निधाय भुवि भूतपतिं प्रणेमुः ।
 साध्व्यः कृताञ्जलिपुटाः शमलस्य भर्तुः
     मोक्षेप्सवः शरणदं शरणं प्रपन्नाः ॥ ३२ ॥
 नागपत्‍न्य ऊचुः ।
( इंद्रवज्रा )
न्याय्यो हि दण्डः कृतकिल्बिषेऽस्मिन्
     तवावतारः खलनिग्रहाय ।
 रिपोः सुतानामपि तुल्यदृष्टेः
     धत्से दमं फलमेवानुशंसन् ॥ ३३ ॥
( वंशस्था )
अनुग्रहोऽयं भवतः कृतो हि नो
     दण्डोऽसतां ते खलु कल्मषापहः ।
 यद् दन्दशूकत्वममुष्य देहिनः
     क्रोधोऽपि तेऽनुग्रह एव सम्मतः ॥ ३४ ॥
( उपेंद्रवज्रा )
तपः सुतप्तं किमनेन पूर्वं
     निरस्तमानेन च मानदेन ।
 धर्मोऽथ वा सर्वजनानुकम्पया
     यतो भवांस्तुष्यति सर्वजीवः ॥ ३५ ॥
( मिश्र )
कस्यानुभावोऽस्य न देव विद्महे
     तवाङ्‌घ्रिरेणु स्पर्शाधिकारः ।
 यद्वाञ्छया श्रीर्ललनाचरत्तपो
     विहाय कामान् सुचिरं धृतव्रता ॥ ३६ ॥
 न नाकपृष्ठं न च सार्वभौमं
     न पारमेष्ठ्यं न रसाधिपत्यम् ।
 न योगसिद्धीरपुनर्भवं वा
     वाञ्छन्ति यत्पादरजःप्रपन्नाः ॥ ३७ ॥
 तदेष नाथाप दुरापमन्यैः
     तमोजनिः क्रोधवशोऽप्यहीशः ।
 संसारचक्रे भ्रमतः शरीरिणो
     यदिच्छतः स्याद् विभवः समक्षः ॥ ३८ ॥
( अनुष्टुप् )
नमस्तुभ्यं भगवते पुरुषाय महात्मने ।
 भूतावासाय भूताय पराय परमात्मने ॥ ३९ ॥
 ज्ञानविज्ञाननिधये ब्रह्मणेऽनन्तशक्तये ।
 अगुणायाविकाराय नमस्तेऽप्राकृताय च ॥ ४० ॥
 कालाय कालनाभाय कालावयवसाक्षिणे ।
 विश्वाय तदुपद्रष्ट्रे तत्कर्त्रे विश्वहेतवे ॥ ४१ ॥
 भूतमात्रेन्द्रियप्राण मनोबुद्ध्याशयात्मने ।
 त्रिगुणेनाभिमानेन गूढस्वात्मानुभूतये ॥ ४२ ॥
 नमोऽनन्ताय सूक्ष्माय कूटस्थाय विपश्चिते ।
 नानावादानुरोधाय वाच्यवाचक शक्तये ॥ ४३ ॥
 नमः प्रमाणमूलाय कवये शास्त्रयोनये ।
 प्रवृत्ताय निवृत्ताय निगमाय नमो नमः ॥ ४४ ॥
 नमः कृष्णाय रामाय वसुदेवसुताय च ।
 प्रद्युम्नायानिरुद्धाय सात्वतां पतये नमः ॥ ४५ ॥
 नमो गुणप्रदीपाय गुणात्मच्छादनाय च ।
 गुणवृत्त्युपलक्ष्याय गुणद्रष्टे स्वसंविदे ॥ ४६ ॥
 अव्याकृतविहाराय सर्वव्याकृतसिद्धये ।
 हृषीकेश नमस्तेऽस्तु मुनये मौनशीलिने ॥ ४७ ॥
 परावरगतिज्ञाय सर्वाध्यक्षाय ते नमः ।
 अविश्वाय च विश्वाय तद्द्रष्टेऽस्य च हेतवे ॥ ४८ ॥
( मिश्र )
त्वं ह्यस्य जन्मस्थितिसंयमान् प्रभो
     गुणैरनीहोऽकृत कालशक्तिधृक् ।
 तत्तत् स्वभावान् प्रतिबोधयन् सतः
     समीक्षयामोघविहार ईहसे ॥ ४९ ॥
( इंद्रवंशा )
तस्यैव तेऽमूस्तनवस्त्रिलोक्यां
     शान्ता अशान्ता उत मूढयोनयः ।
 शान्ताः प्रियास्ते ह्यधुनावितुं सतां
     स्थातुश्च ते धर्मपरीप्सयेहतः ॥ ५० ॥
( अनुष्टुप् )
अपराधः सकृद् भर्त्रा सोढव्यः स्वप्रजाकृतः ।
 क्षन्तुमर्हसि शान्तात्मम् मूढस्य त्वामजानतः ॥ ५१ ॥
 अनुगृह्णीष्व भगवन् प्राणांस्त्यजति पन्नगः ।
 स्त्रीणां नः साधुशोच्यानां पतिः प्राणः प्रदीयताम् ॥ ५२ ॥
 विधेहि ते किङ्‌करीणां अनुष्ठेयं तवाज्ञया ।
 यच्छ्रद्धयानुतिष्ठन् वै मुच्यते सर्वतो भयात् ॥ ५३ ॥
 श्रीशुक उवाच ।
 इत्थं स नागपत्‍नीभिः भगवान् समभिष्टुतः ।
 मूर्च्छितं भग्नशिरसं विससर्जाङ्‌घ्रिकुट्टनैः ॥ ५४ ॥
 प्रतिलब्धेन्द्रियप्राणः कालियः शनकैर्हरिम् ।
 कृच्छ्रात् समुच्छ्वसन् दीनः कृष्णं प्राह कृताञ्जलिः ॥ ५५ ॥
 कालिय उवाच ।
 वयं खलाः सहोत्पत्त्या तमसा दीर्घमन्यवः ।
 स्वभावो दुस्त्यजो नाथ लोकानां यदसद्‍ग्रहः ॥ ५६ ॥
 त्वया सृष्टमिदं विश्वं धातर्गुणविसर्जनम् ।
 नानास्वभाववीर्यौजो योनिबीजाशयाकृति ॥ ५७ ॥
 वयं च तत्र भगवन् सर्पा जात्युरुमन्यवः ।
 कथं त्यजामस्त्वन्मायां दुस्त्यजां मोहिताः स्वयम् ॥ ५८ ॥
 भवान् हि कारणं तत्र सर्वज्ञो जगदीश्वरः ।
 अनुग्रहं निग्रहं वा मन्यसे तद् विधेहि नः ॥ ५९ ॥
 श्रीशुक उवाच ।
 इत्याकर्ण्य वचः प्राह भगवान् कार्यमानुषः ।
 नात्र स्थेयं त्वया सर्प समुद्रं याहि मा चिरम् ।
 स्वज्ञात्यपत्यदाराढ्यो गोनृभिर्भुज्यतां नदी ॥ ६० ॥
 य एतत् संस्मरेन् मर्त्यः तुभ्यं मदनुशासनम् ।
 कीर्तयन् उभयोः सन्ध्योः न युष्मद् भयमाप्नुयात् ॥ ६१ ॥
 योऽस्मिन् स्नात्वा मदाक्रीडे देवादीन् तर्पयेज्जलैः ।
 उपोष्य मां स्मरन्नर्चेत् सर्वपापैः प्रमुच्यते ॥ ६२ ॥
 द्वीपं रमणकं हित्वा ह्रदमेतमुपाश्रितः ।
 यद् भयात्स सुपर्णस्त्वां नाद्यान्मत्पाद लाञ्छितम् ॥ ६३ ॥
 श्रीऋषिरुवाच ।
 एवमुक्तो भगवता कृष्णेनाद्‌भुतकर्मणा ।
 तं पूजयामास मुदा नागपत्‍न्यश्च सादरम् ॥ ६४ ॥
 दिव्याम्बरस्रङ्‌ मणिभिः परार्ध्यैरपि भूषणैः ।
 दिव्यगन्धानुलेपैश्च महत्योत्पलमालया ॥ ६५ ॥
 पूजयित्वा जगन्नाथं प्रसाद्य गरुडध्वजम् ।
 ततः प्रीतोऽभ्यनुज्ञातः परिक्रम्याभिवन्द्य तम् ॥ ६६ ॥
 सकलत्रसुहृत्पुत्रो द्वीपमब्धेर्जगाम ह ।
 तदैव सामृतजला यमुना निर्विषाभवत् ।
 अनुग्रहाद् भगवतः क्रीडामानुषरूपिणः ॥ ६७ ॥


इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां
संहितायां दशमस्कन्धे पूर्वार्धे षोडशोऽध्यायः ॥ १६ ॥
 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥