श्रीमद्भागवतपुराणम्/स्कन्धः १०/उत्तरार्धः/अध्यायः ९०

विकिस्रोतः तः
← अध्यायः ८९ श्रीमद्भागवतपुराणम्
स्कन्धः १०/उत्तरार्धः/अध्यायः ९०
[[लेखकः :|]]
अध्यायः १ →


श्रीकृष्णलीलानां संक्षेपतोऽवर्णनं, तन्महिषीणां तस्मिन्
अनुरागाधिक्यं यदुवंशीयानामसख्येयत्व प्रतिपादनं च -

श्रीशुक उवाच
( अनुष्टुप् )
सुखं स्वपुर्यां निवसन् द्वारकायां श्रियः पतिः ।
 सर्वसम्पत्समृद्धायां जुष्टायां वृष्णिपुङ्गवैः ॥ १ ॥
 स्त्रीभिश्चोत्तमवेषाभिः नवयौवनकान्तिभिः ।
 कन्दुकादिभिर्हर्म्येषु क्रीडन्तीभिस्तडिद्द्युभिः ॥ २ ॥
 नित्यं सङ्कुलमार्गायां मदच्युद्‌भिर्मतङ्गजैः ।
 स्वलङ्कृतैर्भटैरश्वै रथैश्च कनकोज्ज्वलैः ॥ ३ ॥
 उद्यानोपवनाढ्यायां पुष्पितद्रुमराजिषु ।
 निर्विशद्‌भृङ्गविहगैः नादितायां समन्ततः ॥ ४ ॥
 रेमे षोडशसाहस्र पत्‍नीनां एकवल्लभः ।
 तावद्विचित्ररूपोऽसौ तद्‌गेहेषु महर्द्धिषु ॥ ५ ॥
 प्रोत्फुल्लोत्पलकह्लार कुमुदाम्भोजरेणुभिः ।
 वासितामलतोयेषु कूजद्‌द्विजकुलेषु च ॥ ६ ॥
 विजहार विगाह्याम्भो ह्रदिनीषु महोदयः ।
 कुचकुङ्कुमलिप्ताङ्गः परिरब्धश्च योषिताम् ॥ ७ ॥
 उपगीयमानो गन्धर्वैः मृदङ्गपणवानकान् ।
 वादयद्‌भिर्मुदा वीणां सूतमागधवन्दिभिः ॥ ८ ॥
 सिच्यमानोऽच्युतस्ताभिः हसन्तीभिः स्म रेचकैः ।
 प्रतिषिञ्चन् विचिक्रीडे यक्षीभिर्यक्षराडिव ॥ ९ ॥
( वसंततिलका )
ताः क्लिन्नवस्त्रविवृतोरुकुचप्रदेशाः
     सिञ्चन्त्य उद्धृतबृहत्कवरप्रसूनाः ।
 कान्तं स्म रेचकजिहीर्षययोपगुह्य
     जातस्मरोत्स्मयलसद् वदना विरेजुः ॥ १० ॥
 कृष्णस्तु तत्स्तनविषत् जितकुङ्कुमस्रक्
     क्रीडाभिषङ्गधुतकुन्तलवृन्दबन्धः ।
 सिञ्चन् मुन्मुहुर्युवतिभिः प्रतिषिच्यमानो
     रेमे करेणुभिरिवेभपतिः परीतः ॥ ११ ॥
( अनुष्टुप् )
नटानां नर्तकीनां च गीतवाद्योपजीविनाम् ।
 क्रीडालङ्कारवासांसि कृष्णोऽदात्तस्य च स्त्रियः ॥ १२ ॥
 कृष्णस्यैवं विहरतो गत्यालापेक्षितस्मितैः ।
 नर्मक्ष्वेलिपरिष्वङ्गैः स्त्रीणां किल हृता धियः ॥ १३ ॥
 ऊचुर्मुकुन्दैकधियो गिर उन्मत्तवज्जडम् ।
 चिन्तयन्त्योऽरविन्दाक्षं तानि मे गदतः श्रृणु ॥ १४ ॥
 महिष्य ऊचुः -
( मालिनी )
कुररि विलपसि त्वं वीतनिद्रा न शेषे
     स्वपिति जगति रात्र्यामीश्वरो गुप्तबोधः ।
 वयमिव सखि कच्चिद्‌गाढनिर्विद्धचेता
     नलिननयनहासोदारलीलेक्षितेन ॥ १५ ॥
( वसंततिलका )
नेत्रे निमीलयसि नक्तमदृष्टबन्धुः
     त्वं रोरवीषि करुणं बत चक्रवाकि ।
 दास्यं गत वयमिवाच्युतपादजुष्टां
     किं वा स्रजं स्पृहयसे कबरेण वोढुम् ॥ १६ ॥
( मिश्र )
भो भोः सदा निष्टनसे उदन्वन्
     अलब्धनिद्रोऽधिगतप्रजागरः ।
 किं वा मुकुन्दापहृतात्मलाञ्छनः
     प्राप्तां दशां त्वं च गतो दुरत्ययाम् ॥ १७ ॥
( वसंततिलका )
त्वं यक्ष्मणा बलवतासि गृहीत इन्दो
     क्षीणस्तमो न निजदीधितिभिः क्षिणोषि ।
 कच्चिन् गकुन्दगदितानि यथा वयं त्वं
     विस्मृत्य भोः स्थगितगीरुपलक्ष्यसे नः ॥ १८ ॥
( अनुष्टुप् )
किं न्वाचरितमस्माभिः मलयानिल तेऽप्रियम् ।
 गोविन्दापाङ्गनिर्भिन्ने हृदीरयसि नः स्मरम् ॥ १९ ॥
( मंदाक्रान्ता )
मेघ श्रीमन् त्वमसि दयितो यादवेन्द्रस्य नूनं
     श्रीवत्साङ्कं वयमिव भवान् ध्यायति प्रेमबद्धः ।
 अत्युत्कण्ठः शबलहृदयोऽस्मद्विधो बाष्पधाराः
     स्मृत्वा स्मृत्वा विसृजसि मुहुर्दुःखदस्तत्प्रसङ्गः ॥ २० ॥
( वियोगिनि )
प्रियरावपदानि भाषसे मृत
     सञ्जीविकयानया गिरा
 करवाणि किमद्य ते प्रियं
     वद मे वल्गितकण्ठ कोकिल ॥ २१ ॥
( पुष्पिताग्रा )
न चलसि न वदस्युदारबुद्धे
     क्षितिधर चिन्तयसे महान्तमर्थम् ।
 अपि बत वसुदेवनन्दनाङ्‌घ्रिं
     वयमिव कामयसे स्तनैर्विधर्तुम् ॥ २२ ॥
( वसंततिलका )
शुष्यद्ध्रदाः करशिता बत सिन्धुपत्‍न्यः
     सम्प्रत्यपास्तकमलश्रिय इष्टभर्तुः ।
 यद्वद् वयं मधुपतेः प्रणयावलोकम्
     अप्राप्य मुष्टहृदयाः पुरुकर्शिताः स्म ॥ २३ ॥
( शार्दूलविक्रिडित )
हंस स्वागतमास्यतां पिब पयो ब्रूह्यङ्ग शौरेः कथां
     दूतं त्वां नु विदाम कच्चिदजितः स्वस्त्यास्त उक्तं पुरा ।
 किं वा नश्चलसौहृदः स्मरति तं कस्माद्‌भजामो वयं
     क्षौद्रालापय कामदं श्रियमृते सैवैकनिष्ठा स्त्रियाम् ॥ २४ ॥
 श्रीशुक उवाच -
( अनुष्टुप् )
इतीदृशेन भावेन कृष्णे योगेश्वरेश्वरे ।
 क्रियमाणेन माधव्यो लेभिरे परमां गतिम् ॥ २५ ॥
 श्रुतमात्रोऽपि यः स्त्रीणां प्रसह्याकर्षते मनः ।
 उरुगायोरुगीतो वा पश्यन्तीनां कुतः पुनः ॥ २६ ॥
 याः सम्पर्यचरन् प्रेम्णा पादसंवाहनादिभिः ।
 जगद्‌गुरुं भर्तृबुद्ध्या तासां किं वर्ण्यते तपः ॥ २७ ॥
 एवं वेदोदितं धर्मं अनुतिष्ठन् सतां गतिः ।
 गृहं धर्मार्थकामानां मुहुश्चादर्शयत् पदम् ॥ २८ ॥
 आस्थितस्य परं धर्मं कृष्णस्य गृहमेधिनाम् ।
 आसन् षोडशसाहस्रं महिष्यश्च शताधिकम् ॥ २९ ॥
 तासां स्त्रीरत्‍नभूतानां अष्टौ याः प्रागुदाहृताः ।
 रुक्मिणीप्रमुखा राजन् तत्पुत्राश्चानुपूर्वशः ॥ ३० ॥
 एकैकस्यां दश दश कृष्णोऽजीजनदात्मजान् ।
 यावत्य आत्मनो भार्या अमोघगतिरीश्वरः ॥ ३१ ॥
 तेषां उद्दामवीर्याणां अष्टादश महारथाः ।
 आसन्नुदारयशसः तेषां नामानि मे शृणु ॥ ३२ ॥
 प्रद्युम्नश्चानिरुद्धश्च दीप्तिमान् भानुरेव च ।
 साम्बो मधुर्बृहद्‌भानुः चित्रभानुर्वृकोऽरुणः ॥ ३३ ॥
 पुष्करो वेदबाहुश्च श्रुतदेवः सुनन्दनः ।
 चित्रबाहुर्विरूपश्च कविर्न्यग्रोध एव च ॥ ३४ ॥
 एतेषां अपि राजेन्द्र तनुजानां मधुद्विषः ।
 प्रद्युम्न आसीत् प्रथमः पितृवद् रुक्मिणीसुतः ॥ ३५ ॥
 स रुक्मिणो दुहितरं उपयेमे महारथः ।
 तस्यां ततोऽनिरुद्धोऽभूत् नागायतबलान्वितः ॥ ३६ ॥
 स चापि रुक्मिणः पौत्रीं दौहित्रो जगृहे ततः ।
 वज्रस्तस्याभवद् यस्तु मौषलादवशेषितः ॥ ३७ ॥
 प्रतिबाहुरभूत्तस्मात् सुबाहुस्तस्य चात्मजः ।
 सुबाहोः शान्तसेनोऽभूत् शतसेनस्तु तत्सुतः ॥ ३८ ॥
 न ह्येतस्मिन्कुले जाता अधना अबहुप्रजाः ।
 अल्पायुषोऽल्पवीर्याश्च अब्रह्मण्याश्च जज्ञिरे ॥ ३९ ॥
 यदुवंशप्रसूतानां पुंसां विख्यातकर्मणाम् ।
 सङ्ख्या न शक्यते कर्तुं अपि वर्षायुतैर्नृप ॥ ४० ॥
 तिस्रः कोट्यः सहस्राणां अष्टाशीतिशतानि च ।
 आसन्यदुकुलाचार्याः कुमाराणां इति श्रुतम् ॥ ४१ ॥
 सङ्ख्यानं यादवानां कः करिष्यति महात्मनाम् ।
 यत्रायुतानां अयुत लक्षेणास्ते स आहुकः ॥ ४२ ॥
 देवासुराहवहता दैतेया ये सुदारुणाः ।
 ते चोत्पन्ना मनुष्येषु प्रजा दृप्ता बबाधिरे ॥ ४३ ॥
 तन्निग्रहाय हरिणा प्रोक्ता देवा यदोः कुले ।
 अवतीर्णाः कुलशतं तेषां एकाधिकं नृप ॥ ४४ ॥
 तेषां प्रमाणं भगवान् प्रभुत्वेनाभवद्धरिः ।
 ये चानुवर्तिनस्तस्य ववृधुः सर्वयादवाः ॥ ४५ ॥
 शय्यासनाटनालाप क्रीडास्नानादिकर्मसु ।
 न विदुः सन्तमात्मानं वृष्णयः कृष्णचेतसः ॥ ४६ ॥
( स्रग्धरा )
तीर्थं चक्रे नृपोनं यदजनि यदुषु
     स्वःसरित्पादशौचं ।
 विद्विट्‌स्निग्धाः स्वरूपं ययुरजितपरा
     श्रीर्यदर्थेऽन्ययत्‍नः ।
 यन्नामामङ्गलघ्नं श्रुतमथ गदितं
     यत्कृतो गोत्रधर्मः
 कृष्णस्यैतन्न चित्रं क्षितिभरहरणं
     कालचक्रायुधस्य ॥ ४७ ॥
( मालिनी )
जयति जननिवासो देवकीजन्मवादो
     यदुवरपरिषत्स्वैर्दोर्भिरस्यन्नधर्मम् ।
 स्थिरचरवृजिनघ्नः सुस्मितश्रीमुखेन
     व्रजपुरवनितानां वर्धयन् कामदेवम् ॥ ४८ ॥
( वसंततिलका )
इत्थं परस्य निजवर्त्मरिरक्षयात्त
     लीलातनोस्तदनुरूपविडम्बनानि ।
 कर्माणि कर्मकषणानि यदूत्तमस्य
     श्रूयादमुष्य पदयोरनुवृत्तिमिच्छन् ॥ ४९ ॥
 मर्त्यस्तयानुसवमेधितया मुकुन्द
     श्रीमत्कथाश्रवणकीर्तनचिन्तयैति ।
 तद्धाम दुस्तरकृतान्तजवापवर्गं
     ग्रामाद्वनं क्षितिभुजोऽपि ययुर्यदर्थाः ॥ ५० ॥


इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां
संहितायां दशमस्कन्धे उत्तरार्धे
 श्रीकृष्णचरितानुवर्णनं नाम नवतितमोऽध्यायः ॥ ९० ॥
 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥