श्रीमद्भागवतपुराणम्/स्कन्धः १०/उत्तरार्धः/अध्यायः ८४

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ८३ श्रीमद्भागवतपुराणम्
स्कन्धः १०/उत्तरार्धः/अध्यायः ८४
[[लेखकः :|]]
अध्यायः ८५ →


ऋषिगणकृता भगवत्स्तुतिः; वसुदेवयज्ञोत्सवः; बन्धूनां प्रस्थापनादिकं च -

श्रीशुक उवाच -
( वसंततिलका )
श्रुत्वा पृथा सुबलपुत्र्यथ याज्ञसेनी
     माधव्यथ क्षितिपपत्‍न्य उत स्वगोप्यः ।
 कृष्णेऽखिलात्मनि हरौ प्रणयानुबन्धं
     सर्वा विसिस्म्युरलमश्रुकलाकुलाक्ष्यः ॥ १ ॥
( अनुष्टुप् )
इति सम्भाषमाणासु स्त्रीभिः स्त्रीषु नृभिर्नृषु ।
 आययुर्मुनयस्तत्र कृष्णरामदिदृक्षया ॥ २ ॥
 द्वैपायनो नारदश्च च्यवनो देवलोऽसितः ।
 विश्वामित्रः शतानन्दो भरद्वाजोऽथ गौतमः ॥ ३ ॥
 रामः सशिष्यो भगवान् वसिष्ठो गालवो भृगुः ।
 पुलस्त्यः कश्यपोऽत्रिश्च मार्कण्डेयो बृहस्पतिः ॥ ४ ॥
 द्वितस्त्रितश्चैकतश्च ब्रह्मपुत्रास्तथाङ्‌गिराः ।
 अगस्त्यो याज्ञवल्क्यश्च वामदेवादयोऽपरे ॥ ५ ॥
 तान्दृष्ट्वा सहसोत्थाय प्रागासीना नृपादयः ।
 पाण्डवाः कृष्णरामौ च प्रणेमुर्विश्ववन्दितान् ॥ ६ ॥
 तान् आनर्चुर्यथा सर्वे सहरामोऽच्युतोऽर्चयत् ।
 स्वागतासनपाद्यार्घ्य माल्यधूपानुलेपनैः ॥ ७ ॥
 उवाच सुखमासीनान् भगवान् धर्मगुप्तनुः ।
 सदसस्तस्य महतो यतवाचोऽनुश्रृण्वतः ॥ ८ ॥
 श्रीभगवानुवाच -
अहो वयं जन्मभृतो लब्धं कार्त्स्न्येन तत्फलम् ।
 देवानामपि दुष्प्रापं यद् योगेश्वरदर्शनम् ॥ ९ ॥
 किं स्वल्पतपसां नॄणां अर्चायां देवचक्षुषाम् ।
 दर्शनस्पर्शनप्रश्न प्रह्वपादार्चनादिकम् ॥ १० ॥
 न ह्यम्मयानि तीर्थानि न देवा मृच्छिलामयाः ।
 ते पुनन्त्युरुकालेन दर्शनादेव साधवः ॥ ११ ॥
( मिश्र )
नाग्निर्न सूर्यो न च चन्द्रतारका
     न भूर्जलं खं श्वसनोऽथ वाङ्‌मनः ।
 उपासिता भेदकृतो हरन्त्यघं
     विपश्चितो घ्नन्ति मुहूर्तसेवया ॥ १२ ॥
 यस्यात्मबुद्धिः कुणपे त्रिधातुके
     स्वधीः कलत्रादिषु भौम इज्यधीः ।
 यत्तीर्थबुद्धिः सलिले न कर्हिचित्
     जनेष्वभिज्ञेषु स एव गोखरः ॥ १३ ॥
 श्रीशुक उवाच -
( अनुष्टुप् )
निशम्येत्थं भगवतः कृष्णस्याकुण्थमेधसः ।
 वचो दुरन्वयं विप्राः तूष्णीमासन् भ्रमद्धियः ॥ १४ ॥
 चिरं विमृश्य मुनय ईश्वरस्येशितव्यताम् ।
 जनसङ्ग्रह इत्यूचुः स्मयन्तस्तं जगद्‌गुरुम् ॥ १५ ॥
 श्रीमुनय ऊचुः -
( मिश्र )
यन्मायया तत्त्वविदुत्तमा वयं
     विमोहिता विश्वसृजामधीश्वराः ।
 यदीशितव्यायति गूढ ईहया
     अहो विचित्रं भगवद् विचेष्टितम् ॥ १६ ॥
 अनीह एतद्‌ बहुधैक आत्मना
     सृजत्यवत्यत्ति न बध्यते यथा ।
 भौमैर्हि भूमिर्बहुनामरूपिणी
     अहो विभूम्नश्चरितं विडम्बनम् ॥ १७ ॥
 अथापि काले स्वजनाभिगुप्तये
     बिभर्षि सत्त्वं खलनिग्रहाय च ।
 स्वलीलया वेदपथं सनातनं
 वर्णाश्रमात्मा पुरुषः परो भवान् ॥ १८ ॥
( अनुष्टुप् )
ब्रह्म ते हृदयं शुक्लं तपःस्वाध्यायसंयमैः ।
 यत्रोपलब्धं सद्व्यक्तं अव्यक्तं च ततः परम् ॥ १९ ॥
 तस्माद्‌ ब्रह्मकुलं ब्रह्मन् शास्त्रयोनेस्त्वमात्मनः ।
 सभाजयसि सद्धाम तद्‌ ब्रह्मण्याग्रणीर्भवान् ॥ २० ॥
 अद्य नो जन्मसाफल्यं विद्यायास्तपसो दृशः ।
 त्वया सङ्गम्य सद्‌गत्या यदन्तः श्रेयसां परः ॥ २१ ॥
 नमस्तस्मै भगवते कृष्णायाकुण्ठमेधसे ।
 स्वयोगमाययाच्छन्न महिम्ने परमात्मने ॥ २२ ॥
 न यं विदन्त्यमी भूपा एकारामाश्च वृष्णयः ।
 मायाजवनिकाच्छन्नं आत्मानं कालमीश्वरम् ॥ २३ ॥
 यथा शयानः पुरुष आत्मानं गुणतत्त्वदृक् ।
 नाममात्रेन्द्रियाभातं न वेद रहितं परम् ॥ २४ ॥
 एवं त्वा नाममात्रेषु विषयेष्विन्द्रियेहया ।
 मायया विभ्रमच्चित्तो न वेद स्मृत्युपप्लवात् ॥ २५ ॥
( वसंततिलका )
तस्याद्य ते ददृशिमाङ्‌घ्रिमघौघमर्ष
     तीर्थास्पदं हृदि कृतं सुविपक्वयोगैः ।
 उत्सिक्तभक्त्युपहताशय जीवकोशा
     आपुर्भवद्‌गतिमथानुगृहान भक्तान् ॥ २६ ॥
 श्रीशुक उवाच -
( अनुष्टुप् )
इत्यनुज्ञाप्य दाशार्हं धृतराष्ट्रं युधिष्ठिरम् ।
 राजर्षे स्वाश्रमान् गन्तुं मुनयो दधिरे मनः ॥ २७ ॥
 तद् वीक्ष्य तानुपव्रज्य वसुदेवो महायशाः ।
 प्रणम्य चोपसङ्गृह्य बभाषेदं सुयन्त्रितः ॥ २८ ॥
 श्रीवसुदेव उवाच -
नमो वः सर्वदेवेभ्य ऋषयः श्रोतुमर्हथ ।
 कर्मणा कर्मनिर्हारो यथा स्यान्नस्तदुच्यताम् ॥ २९ ॥
 श्रीनारद उवाच -
नातिचित्रमिदं विप्रा वसुदेवो बुभुत्सया ।
 कृष्णं मत्वार्भकं यन्नः पृच्छति श्रेय आत्मनः ॥ ३० ॥
 सन्निकर्षोऽत्र मर्त्यानां अनादरणकारणम् ।
 गाङ्गं हित्वा यथान्याम्भः तत्रत्यो याति शुद्धये ॥ ३१ ॥
 यस्यानुभूतिः कालेन लयोत्पत्त्यादिनास्य वै ।
 स्वतोऽन्यस्माच्च गुणतो न कुतश्चन रिष्यति ॥ ३२ ॥
( वसंततिलका )
तं क्लेशकर्मपरिपाकगुणप्रवाहैः
     अव्याहतानुभवमीश्वरमद्वितीयम् ।
 प्राणादिभिः स्वविभवैरुपगूढमन्यो
     मन्येत सूर्यमिव मेघहिमोपरागैः ॥ ३३ ॥
( अनुष्टुप् )
अथोचुर्मुनयो राजन् आभाष्यानकदुंदुभिम् ।
 सर्वेषां श्रृणतां राज्ञां तथैवाच्युतरामयोः ॥ ३४ ॥
 कर्मणा कर्मनिर्हार एष साधुनिरूपितः ।
 यच्छ्रद्धया यजेद् विष्णुं सर्वयज्ञेश्वरं मखैः ॥ ३५ ॥
 चित्तस्योपशमोऽयं वै कविभिः शास्त्रचक्षुषा ।
 दर्शितः सुगमो योगो धर्मश्चात्ममुदावहः ॥ ३६ ॥
 अयं स्वस्त्ययनः पन्था द्विजातेर्गृहमेधिनः ।
 यच्छ्रद्धयाऽऽप्तवित्तेन शुक्लेनेज्येत पूरुषः ॥ ३७ ॥
 वित्तैषणां यज्ञदानैः गृहैर्दारसुतैषणाम् ।
 आत्मलोकैषणां देव कालेन विसृजेद्‌बुधः ।
 ग्रामे त्यक्तैषणाः सर्वे ययुर्धीरास्तपोवनम् ॥ ३८ ॥
 ऋणैस्त्रिभिर्द्विजो जातो देवर्षिपितॄणां प्रभो ।
 यज्ञाध्ययनपुत्रैस्तानि अनिस्तीर्य त्यजन्पतेत् ॥ ३९ ॥
 त्वं त्वद्य मुक्तो द्वाभ्यां वै ऋषिपित्रोर्महामते ।
 यज्ञैर्देवर्णमुन्मुच्य निरृणोऽशरणो भव ॥ ४० ॥
 वसुदेव भवान्नूनं भक्त्या परमया हरिम् ।
 जगतामीश्वरं प्रार्चः स यद्वां पुत्रतां गतः ॥ ४१ ॥
 श्रीशुक उवाच -
इति तद्वचनं श्रुत्वा वसुदेवो महामनाः ।
 तान् ऋषीन् ऋत्विजो वव्रे मूर्ध्नाऽऽनम्य प्रसाद्य च ॥ ४२ ॥
 त एनमृषयो राजन् वृता धर्मेण धार्मिकम् ।
 तस्मिन् अयाजयन् क्षेत्रे मखैरुत्तमकल्पकैः ॥ ४३ ॥
 तद्दीक्षायां प्रवृत्तायां वृष्णयः पुष्करस्रजः ।
 स्नाताः सुवाससो राजन् राजानः सुष्ठ्वलङ्कृताः ॥ ४४ ॥
 तन्महिष्यश्च मुदिता निष्ककण्ठ्यः सुवाससः ।
 दीक्षाशालामुपाजग्मुः आलिप्ता वस्तुपाणयः ॥ ४५ ॥
 नेदुर्मृदङ्गपटह शङ्खभेर्यानकादयः ।
 ननृतुर्नटनर्तक्यः तुष्टुवुः सूतमागधाः ।
 जगुः सुकण्ठ्यो गन्धर्व्यः संगीतं सहभर्तृकाः ॥ ४६ ॥
 तमभ्यषिञ्चन् विधिवद् अक्तं अभ्यक्तमृत्विजः ।
 पत्‍नीभिरष्टादशभिः सोमराजमिवोडुभिः ॥ ४७ ॥
 ताभिर्दुकूलवलयैः हारनूपुरकुण्डलैः ।
 स्वलङ्कृताभिर्विबभौ दीक्षितोऽजिनसंवृतः ॥ ४८ ॥
 तस्यर्त्विजो महाराज रत्‍नकौशेयवाससः ।
 ससदस्या विरेजुस्ते यथा वृत्रहणोऽध्वरे ॥ ४९ ॥
 तदा रामश्च कृष्णश्च स्वैः स्वैः बन्धुभिरन्वितौ ।
 रेजतुः स्वसुतैर्दारैः जीवेशौ स्वविभूतिभिः ॥ ५० ॥
 ईजेऽनुयज्ञं विधिना अग्निहोत्रादिलक्षणैः ।
 प्राकृतैर्वैकृतैर्यज्ञैः द्रव्यज्ञानक्रियेश्वरम् ॥ ५१ ॥
 अथर्त्विग्भ्योऽददात्काले यथाम्नातं स दक्षिणाः ।
 स्वलङ्कृतेभ्योऽलङ्कृत्य गोभूकन्या महाधनाः ॥ ५२ ॥
 पत्‍नीसंयाजावभृथ्यैः चरित्वा ते महर्षयः ।
 सस्नू रामह्रदे विप्रा यजमानपुरःसराः ॥ ५३ ॥
 स्नातोऽलङ्कारवासांसि वन्दिभ्योऽदात्तथा स्त्रियः ।
 ततः स्वलङ्कृतो वर्णान् आश्वभ्योऽन्नेन पूजयत् ॥ ५४ ॥
 बन्धून् सदारान् ससुतान् पारिबर्हेण भूयसा ।
 विदर्भकोशलकुरून् काशिकेकय सृञ्जयान् ॥ ५५ ॥
 सदस्यर्त्विक्सुरगणान् नृभूतपितृचारणान् ।
 श्रीनिकेतमनुज्ञाप्य शंसन्तः प्रययुः क्रतुम् ॥ ५६ ॥
 धृतराष्ट्रोऽनुजः पार्था भीष्मो द्रोणः पृथा यमौ ।
 नारदो भगवान् व्यासः सुहृत्संबंधिबांधवाः ॥ ५७ ॥
 बन्धून्परिष्वज्य यदून् सौहृदाक्लिन्नचेतसः ।
 ययुर्विरहकृच्छ्रेण स्वदेशांश्चापरे जनाः ॥ ५८ ॥
 नन्दस्तु सह गोपालैः बृहत्या पूजयार्चितः ।
 कृष्णरामोग्रसेनाद्यैः न्यवात्सीद्‌बन्धुवत्सलः ॥ ५९ ॥
 वसुदेवोऽञ्जसोत्तीर्य मनोरथमहार्णवम् ।
 सुहृद्‌वृतः प्रीतमना नन्दमाह करे स्पृशन् ॥ ६० ॥
 श्रीवसुदेव उवाच -
भ्रातरीशकृतः पाशो नृनां यः स्नेहसंज्ञितः ।
 तं दुस्त्यजमहं मन्ये शूराणामपि योगिनाम् ॥ ६१ ॥
 अस्मास्वप्रतिकल्पेयं यत्कृताज्ञेषु सत्तमैः ।
 मैत्र्यर्पिताफला चापि न निवर्तेत कर्हिचित् ॥ ६२ ॥
 प्रागकल्पाच्च कुशलं भ्रातर्वो नाचराम हि ।
 अधुना श्रीमदान्धाक्षा न पश्यामः पुरः सतः ॥ ६३ ॥
 मा राज्यश्रीरभूत्पुंसः श्रेयस्कामस्य मानद ।
 स्वजनानुत बन्धून् वा न पश्यति ययान्धदृक् ॥ ६४ ॥
 श्रीशुक उवाच -
एवं सौहृदशैथिल्य चित्त आनकदुन्दुभिः ।
 रुरोद तत्कृतां मैत्रीं स्मरन् अश्रुविलोचनः ॥ ६५ ॥
 नन्दस्तु सख्युः प्रियकृत् प्रेम्णा गोविन्दरामयोः ।
 अद्य श्व इति मासांस्त्रीन् यदुभिर्मानितोऽवसत् ॥ ६६ ॥
 ततः कामैः पूर्यमाणः सव्रजः सहबान्धवः ।
 परार्ध्याभरणक्षौम नानानर्घ्यपरिच्छदैः ॥ ६७ ॥
 वसुदेवोग्रसेनाभ्यां कृष्णोद्धवबलादिभिः ।
 दत्तमादाय पारिबर्हं यापितो यदुभिर्ययौ ॥ ६८ ॥
 नन्दो गोपाश्च गोप्यश्च गोविन्दचरणाम्बुजे ।
 मनः क्षिप्तं पुनर्हर्तुं अनीशा मथुरां ययुः ॥ ६९ ॥
 बन्धुषु प्रतियातेषु वृष्णयः कृष्णदेवताः ।
 वीक्ष्य प्रावृषमासन्नाद् ययुर्द्वारवतीं पुनः ॥ ७० ॥
 जनेभ्यः कथयां चक्रुः यदुदेवमहोत्सवम् ।
 यदासीत् तीर्थयात्रायां सुहृत् संदर्शनादिकम् ॥ ७१ ॥


इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां
संहितायां दशमस्कन्धे उत्तरार्धे
 तीर्थयात्रानुवर्णनं नाम चतुरशीतितमोऽध्यायः ॥ ८४ ॥
 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥