श्रीमद्भागवतपुराणम्/स्कन्धः १०/उत्तरार्धः/अध्यायः ८२

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ८१ श्रीमद्भागवतपुराणम्
स्कन्धः १०/उत्तरार्धः/अध्यायः ८२
[[लेखकः :|]]
अध्यायः ८३ →



कुरुक्षेत्रे सूर्योपरागपर्वणि यदुभिः सह कुरूणां नन्दादिगोपानां च समागमः -

श्रीशुक उवाच -
( अनुष्टुप् )
अथैकदा द्वारवत्यां वसतो रामकृष्णयोः ।
 सूर्योपरागः सुमहानासीत्कल्पक्षये यथा ॥ १ ॥
 तं ज्ञात्वा मनुजा राजन्पुरस्तादेव सर्वतः ।
 समन्तपञ्चकं क्षेत्रं ययुः श्रेयोविधित्सया ॥ २ ॥
 निःक्षत्रियां महीं कुर्वन्रामः शस्त्रभृतां वरः ।
 नृपाणां रुधिरौघेण यत्र चक्रे महाह्रदान् ॥ ३ ॥
 ईजे च भगवान्रामो यत्रास्पृष्टोऽपि कर्मणा ।
 लोकं सङ्ग्राहयन्नीशो यथान्योऽघापनुत्तये ॥ ४ ॥
 महत्यां तीर्थयात्रायां तत्रागन्भारतीः प्रजाः ।
 वृष्णयश्च तथाक्रूर वसुदेवाहुकादयः ॥ ५ ॥
 ययुर्भारत तत्क्षेत्रं स्वमघं क्षपयिष्णवः ।
 गदप्रद्युम्नसाम्बाद्याः सुचन्द्रशुकसारणैः ॥ ६ ॥
 आस्तेऽनिरुद्धो रक्षायां कृतवर्मा च यूथपः ।
 ते रथैर्देवधिष्ण्याभैः हयैश्च तरलप्लवैः ॥ ७ ॥
 गजैर्नदद्‌भिरभ्राभैः नृभिर्विद्याधरद्युभिः ।
 व्यरोचन्त महातेजाः पथि काञ्चनमालिनः ॥ ८ ॥
 दिव्यस्रग्वस्त्रसन्नाहाः कलत्रैः खेचरा इव ।
 तत्र स्नात्वा महाभागा उपोष्य सुसमाहिताः ॥ ९ ॥
 ब्राह्मणेभ्यो ददुर्धेनूः वासःस्रग्‌रुक्ममालिनीः ।
 रामह्रदेषु विधिवत् पुनराप्लुत्य वृष्णयः ॥ १० ॥
 ददुः स्वन्नं द्विजाग्र्येभ्यः कृष्णे नो भक्तिरस्त्विति ।
 स्वयं च तदनुज्ञाता वृष्णयः कृष्णदेवताः ॥ ११ ॥
 भुक्त्वोपविविशुः कामं स्निग्धच्छायाङ्‌घ्रिपाङ्‌घ्रिषु ।
 तत्रागतांस्ते ददृशुः सुहृत्संबन्धिनो नृपान् ॥ १२ ॥
 मत्स्योशीनरकौशल्य विदर्भकुरुसृञ्जयान् ।
 काम्बोजकैकयान् मद्रान् कुन्तीनानर्तकेरलान् ॥ १३ ॥
 अन्यांश्चैवात्मपक्षीयान् परांश्च शतशो नृप ।
 नन्दादीन् सुहृदो गोपान् गोपीश्चोत्कण्ठिताश्चिरम् ॥ १४ ॥
( मिश्र )
अन्योन्यसन्दर्शनहर्षरंहसा
     प्रोत्फुल्लहृद्वक्त्रसरोरुहश्रियः ।
 आश्लिष्य गाढं नयनैः स्रवज्जला
     हृष्यत्त्वचो रुद्धगिरो ययुर्मुदम् ॥ १५ ॥
 स्त्रियश्च संवीक्ष्य मिथोऽतिसौहृद
     स्मितामलापाङ्गदृशोऽभिरेभिरे ।
 स्तनैः स्तनान् कुङ्कुमपङ्करूषितान्
     निहत्य दोर्भिः प्रणयाश्रुलोचनाः ॥ १६ ॥
( अनुष्टुप् )
ततोऽभिवाद्य ते वृद्धान् यविष्ठैरभिवादिताः ।
 स्वागतं कुशलं पृष्ट्वा चक्रुः कृष्णकथा मिथः ॥ १७ ॥
 पृथा भ्रातॄन् स्वसॄर्वीक्ष्य तत्पुत्रान् पितरावपि ।
 भ्रातृपत्‍नीर्मुकुन्दं च जहौ सङ्कथया शुचः ॥ १८ ॥
 कुन्त्युवाच -
आर्य भ्रातरहं मन्ये आत्मानमकृताशिषम् ।
 यद्वा आपत्सु मद्वार्तां नानुस्मरथ सत्तमाः ॥ १९ ॥
 सुहृदो ज्ञातयः पुत्रा भ्रातरः पितरावपि ।
 नानुस्मरन्ति स्वजनं यस्य दैवमदक्षिणम् ॥ २० ॥
 श्रीवसुदेव उवाच -
अम्ब मास्मानसूयेथा दैवक्रीडनकान् नरान् ।
 ईशस्य हि वशे लोकः कुरुते कार्यतेऽथ वा ॥ २१ ॥
 कंसप्रतापिताः सर्वे वयं याता दिशं दिशम् ।
 एतर्ह्येव पुनः स्थानं दैवेनासादिताः स्वसः ॥ २२ ॥
 श्रीशुक उवाच -
वसुदेवोग्रसेनाद्यैः यदुभिस्तेऽर्चिता नृपाः ।
 आसन् अच्युतसन्दर्श परमानन्दनिर्वृताः ॥ २३ ॥
 भीष्मो द्रोणोऽम्बिकापुत्रो गान्धारी ससुता तथा ।
 सदाराः पाण्डवाः कुन्ती सञ्जयो विदुरः कृपः ॥ २४ ॥
 कुन्तीभोजो विराटश्च भीष्मको नग्नजिन्महान् ।
 पुरुजिद् द्रुपदः शल्यो धृष्टकेतुः सकाशिराट् ॥ २५ ॥
 दमघोषो विशालाक्षो मैथिलो मद्रकेकयौ ।
 युधामन्युः सुशर्मा च ससुता बाह्लिकादयः ॥ २६ ॥
 राजानो ये च राजेन्द्र युधिष्ठिरमनुव्रताः ।
 श्रीनिकेतं वपुः शौरेः सस्त्रीकं वीक्ष्य विस्मिताः ॥ २७ ॥
 अथ ते रामकृष्णाभ्यां सम्यक् प्राप्तसमर्हणाः ।
 प्रशशंसुर्मुदा युक्ता वृष्णीन् कृष्णपरिग्रहान् ॥ २८ ॥
 अहो भोजपते यूयं जन्मभाजो नृणामिह ।
 यत् पश्यथासकृत् कृष्णं दुर्दर्शमपि योगिनाम् ॥ २९ ॥
( वसंततिलका )
यद्विश्रुतिः श्रुतिनुतेदमलं पुनाति
     पादावनेजनपयश्च वचश्च शास्त्रम् ।
 भूः कालभर्जितभगापि यदङ्‌घ्रिपद्म
     स्पर्शोत्थशक्तिरभिवर्षति नोऽखिलार्थान् ॥ ३० ॥
 तद्दर्शनस्पर्शनानुपथप्रजल्प
     शय्यासनाशनसयौनसपिण्डबन्धः ।
 येषां गृहे निरयवर्त्मनि वर्ततां वः
     स्वर्गापवर्गविरमः स्वयमास विष्णुः ॥ ३१ ॥
 श्रीशुक उवाच -
( अनुष्टुप् )
नन्दस्तत्र यदून् प्राप्तान् ज्ञात्वा कृष्णपुरोगमान् ।
 तत्रागमद्वृतो गोपैः अनः स्थार्थैः दिदृक्षया ॥ ३२ ॥
 तं दृष्ट्वा वृष्णयो हृष्टाः तन्वः प्राणमिवोत्थिताः ।
 परिषस्वजिरे गाढं चिरदर्शनकातराः ॥ ३३ ॥
 वसुदेवः परिष्वज्य सम्प्रीतः प्रेमविह्वलः ।
 स्मरन् कंसकृतान् क्लेशान् पुत्रन्यासं च गोकुले ॥ ३४ ॥
 कृष्णरामौ परिष्वज्य पितरावभिवाद्य च ।
 न किञ्चनोचतुः प्रेम्णा साश्रुकण्ठौ कुरूद्वह ॥ ३५ ॥
 तावात्मासनमारोप्य बाहुभ्यां परिरभ्य च ।
 यशोदा च महाभागा सुतौ विजहतुः शुचः ॥ ३६ ॥
 रोहिणी देवकी चाथ परिष्वज्य व्रजेश्वरीम् ।
 स्मरन्त्यौ तत्कृतां मैत्रीं बाष्पकण्ठ्यौ समूचतुः ॥ ३७ ॥
 का विस्मरेत वां मैत्रीं अनिवृत्तां व्रजेश्वरि ।
 अवाप्याप्यैन्द्रमैश्वर्यं यस्या नेह प्रतिक्रिया ॥ ३८ ॥
( वसंततिलका )
एतावदृष्टपितरौ युवयोः स्म पित्रोः
     सम्प्रीणनाभ्युदयपोषणपालनानि ।
 प्राप्योषतुर्भवति पक्ष्म ह यद्वदक्ष्णोः
     न्यस्तावकुत्र च भयौ न सतां परः स्वः ॥ ३९ ॥
 श्रीशुक उवाच -
गोप्यश्च कृष्णमुपलभ्य चिरादभीष्टं
     यत्प्रेक्षणे दृशिषु पक्ष्मकृतं शपन्ति ।
 दृग्भिर्हृदीकृतमलं परिरभ्य सर्वाः
     तद्‌भावमापुरपि नित्ययुजां दुरापम् ॥ ४० ॥
( अनुष्टुप् )
भगवांस्तास्तथाभूता विविक्त उपसङ्गतः ।
 आश्लिष्यानामयं पृष्ट्वा प्रहसन् इदमब्रवीत् ॥ ४१ ॥
 अपि स्मरथ नः सख्यः स्वानामर्थचिकीर्षया ।
 गतांश्चिरायिताञ्छत्रु पक्षक्षपणचेतसः ॥ ४२ ॥
 अप्यवध्यायथास्मान् स्विदकृतज्ञाविशङ्कया ।
 नूनं भूतानि भगवान् युनक्ति वियुनक्ति च ॥ ४३ ॥
 वायुर्यथा घनानीकं तृणं तूलं रजांसि च ।
 संयोज्याक्षिपते भूयः तथा भूतानि भूतकृत् ॥ ४४ ॥
 मयि भक्तिर्हि भूतानां अमृतत्वाय कल्पते ।
 दिष्ट्या यदासीत् मत्स्नेहो भवतीनां मदापनः ॥ ४५ ॥
 अहं हि सर्वभूतानां आदिरन्तोऽन्तरं बहिः ।
 भौतिकानां यथा खं वार्भूर्वायुर्ज्योतिरङ्गनाः ॥ ४६ ॥
 एवं ह्येतानि भूतानि भूतेष्वात्माऽऽत्मना ततः ।
 उभयं मय्यथ परे पश्यताभातमक्षरे ॥ ४७ ॥
 श्रीशुक उवाच -
अध्यात्मशिक्षया गोप्य एवं कृष्णेन शिक्षिताः ।
 तदनुस्मरणध्वस्त जीवकोशास्तमध्यगन् ॥ ४८ ॥
( वसंततिलका )
आहुश्च ते नलिननाभ पदारविन्दं
     योगेश्वरैर्हृदि विचिन्त्यमगाधबोधैः ।
 संसारकूपपतितोत्तरणावलम्बं
     गेहं जुषामपि मनस्युदियात् सदा नः ॥ ४९ ॥


इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां
संहितायां दशमस्कन्धे उत्तरार्धे
 वृष्णीगोपसंगमो नाम द्व्यशीतितमोऽध्यायः ॥ ८२ ॥
 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥