श्रीमद्भागवतपुराणम्/स्कन्धः १०/उत्तरार्धः/अध्यायः ७३

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ७२ श्रीमद्भागवतपुराणम्
स्कन्धः १०/उत्तरार्धः/अध्यायः ७३
[[लेखकः :|]]
अध्यायः ७४ →



जरासन्धरुद्धानां राज्ञां कारागृहान् मोचनम् -

श्रीशुक उवाच -
( अनुष्टुप् )
अयुते द्वे शतान्यष्टौ निरुद्धा युधि निर्जिताः ।
 ते निर्गता गिरिद्रोण्यां मलिना मलवाससः ॥ १ ॥
 क्षुत्क्षामाः शुष्कवदनाः संरोधपरिकर्शिताः ।
 ददृशुस्ते घनश्यामं पीतकौशेयवाससम् ॥ २ ॥
 श्रीवत्साङ्कं चतुर्बाहुं पद्मगर्भारुणेक्षणम् ।
 चारुप्रसन्नवदनं स्फुरन्मकरकुण्डलम् ॥ ३ ॥
 पद्महस्तं गदाशङ्ख रथाङ्‌गैरुपलक्षितम् ।
 किरीटहारकटक कटिसूत्राङ्‌गदाञ्चितम् ॥ ४ ॥
 भ्राजद्वरमणिग्रीवं निवीतं वनमालया ।
 पिबन्त इव चक्षुर्भ्यां लिहन्त इव जिह्वया ॥ ५ ॥
 जिघ्रन्त इव नासाभ्यां रम्भन्त इव बाहुभिः ।
 प्रणेमुर्हतपाप्मानो मूर्धभिः पादयोर्हरेः ॥ ६ ॥
 कृष्णसन्दर्शनाह्लाद ध्वस्तसंरोधनक्लमाः ।
 प्रशशंसुर्हृषीकेशं गीर्भिः प्राञ्जलयो नृपाः ॥ ७ ॥
 राजान ऊचुः -
नमस्ते देवदेवेश प्रपन्नार्तिहराव्यय ।
 प्रपन्ना पाहि नः कृष्ण निर्विण्णान् घोरसंसृतेः ॥ ८ ॥
 नैनं नाथानुसूयामो मागधं मधुसूदन ।
 अनुग्रहो यद्‌ भवतो राज्ञां राज्यच्युतिर्विभो ॥ ९ ॥
 राज्यैश्वर्यमदोन्नद्धो न श्रेयो विन्दते नृपः ।
 त्वन्मायामोहितोऽनित्या मन्यते सम्पदोऽचलाः ॥ १० ॥
 मृगतृष्णां यथा बाला मन्यन्त उदकाशयम् ।
 एवं वैकारिकीं मायां अयुक्ता वस्तु चक्षते ॥ ११ ॥
( मिश्र )
वयं पुरा श्रीमदनष्टदृष्टयो
     जिगीषयास्या इतरेतरस्पृधः ।
 घ्नन्तः प्रजाः स्वा अतिनिर्घृणाः प्रभो
     मृत्युं पुरस्त्वाविगणय्य दुर्मदाः ॥ १२ ॥
 त एव कृष्णाद्य गभीररंहसा
     दुरन्तवीर्येण विचालिताः श्रियः ।
 कालेन तन्वा भवतोऽनुकम्पया
     विनष्टदर्पाश्चरणौ स्मराम ते ॥ १३ ॥
 अथो न राज्यम्मृगतृष्णिरूपितं
     देहेन शश्वत् पतता रुजां भुवा ।
 उपासितव्यं स्पृहयामहे विभो
     क्रियाफलं प्रेत्य च कर्णरोचनम् ॥ १४ ॥
( अनुष्टुप् )
तं नः समादिशोपायं येन ते चरणाब्जयोः ।
 स्मृतिर्यथा न विरमेद् अपि संसरतामिह ॥ १५ ॥
 कृष्णाय वासुदेवाय हरये परमात्मने ।
 प्रणतक्लेशनाशाय गोविन्दाय नमो नमः ॥ १६ ॥
 श्रीशुक उवाच -
संस्तूयमानो भगवान् राजभिर्मुक्तबन्धनैः ।
 तानाह करुणस्तात शरण्यः श्लक्ष्णया गिरा ॥ १७ ॥
 श्रीभगवानुवाच -
अद्य प्रभृति वो भूपा मय्यात्मन्यखिलेश्वरे ।
 सुदृढा जायते भक्तिः बाढमाशंसितं तथा ॥ १८ ॥
 दिष्ट्या व्यवसितं भूपा भवन्त ऋतभाषिणः ।
 श्रीयैश्वर्यमदोन्नाहं पश्य उन्मादकं नृणाम् ॥ १९ ॥
 हैहयो नहुषो वेनो रावणो नरकोऽपरे ।
 श्रीमदाद्‌ भ्रंशिताः स्थानाद् देवदैत्यनरेश्वराः ॥ २० ॥
 भवन्त एतद्‌ विज्ञाय देहाद्युत्पाद्यमन्तवत् ।
 मां यजन्तोऽध्वरैर्युक्ताः प्रजा धर्मेण रक्षथ ॥ २१ ॥
 संतन्वन्तः प्रजातन्तून् सुखं दुःखं भवाभवौ ।
 प्राप्तं प्राप्तं च सेवन्तो मच्चित्ता विचरिष्यथ ॥ २२ ॥
 उदासीनाश्च देहादौ आत्मारामा धृतव्रताः ।
 मय्यावेश्य मनः सम्यङ्‌ मां अन्ते ब्रह्म यास्यथ ॥ २३ ॥
 श्रीशुक उवाच -
इत्यादिश्य नृपान् कृष्णो भगवान् भुवनेश्वरः ।
 तेषां न्ययुङ्क्त पुरुषान् स्त्रियो मज्जनकर्मणि ॥ २४ ॥
 सपर्यां कारयामास सहदेवेन भारत ।
 नरदेवोचितैर्वस्त्रैः भूषणैः स्रग्विलेपनैः ॥ २५ ॥
 भोजयित्वा वरान्नेन सुस्नातान् समलङ्कृतान् ।
 भोगैश्च विविधैर्युक्तान् तांबूलाद्यैर्नृपोचितैः ॥ २६ ॥
 ते पूजिता मुकुन्देन राजानो मृष्टकुण्डलाः ।
 विरेजुर्मोचिताः क्लेशात् प्रावृडन्ते यथा ग्रहाः ॥ २७ ॥
 रथान् सदश्वान् आरोप्य मणिकाञ्चनभूषितान् ।
 प्रीणय्य सुनृतैर्वाक्यैः स्वदेशान् प्रत्ययापयत् ॥ २८ ॥
 त एवं मोचिताः कृच्छ्रात् कृष्णेन सुमहात्मना ।
 ययुस्तमेव ध्यायन्तः कृतानि च जगत्पतेः ॥ २९ ॥
 जगदुः प्रकृतिभ्यस्ते महापुरुषचेष्टितम् ।
 यथान्वशासद्‌ भगवान् तथा चक्रुरतन्द्रिताः ॥ ३० ॥
 जरासन्धं घातयित्वा भीमसेनेन केशवः ।
 पार्थाभ्यां संयुतः प्रायात् सहदेवेन पूजितः ॥ ३१ ॥
 गत्वा ते खाण्डवप्रस्थं शङ्खान् दध्मुर्जितारयः ।
 हर्षयन्तः स्वसुहृदो दुर्हृदां चासुखावहाः ॥ ३२ ॥
 तच्छ्रुत्वा प्रीतमनस इन्द्रप्रस्थनिवासिनः ।
 मेनिरे मागधं शान्तं राजा चाप्तमनोरथः ॥ ३३ ॥
 अभिवन्द्याथ राजानं भीमार्जुनजनार्दनाः ।
 सर्वमाश्रावयां चक्रुः आत्मना यदनुष्ठितम् ॥ ३४ ॥
 निशम्य धर्मराजस्तत् केशवेनानुकम्पितम् ।
 आनन्दाश्रुकलां मुञ्चन् प्रेम्णा नोवाच किञ्चन ॥ ३५ ॥


इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां
संहितायां दशमस्कन्धे उत्तरार्धे
 कृष्णाद्यागमने नाम त्रिसप्ततितमोऽध्यायः ॥ ७३ ॥
 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥