श्रीमद्भागवतपुराणम्/स्कन्धः १०/उत्तरार्धः/अध्यायः ६३

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ६२ श्रीमद्भागवतपुराणम्
[[लेखकः :|]]
अध्यायः ६४ →



श्रीकृष्णबाणासुरसंग्रामः; तत्र माहेश्वरज्वरेण
माहेश्वरेण च कृता भगवत् स्तुतिः -

श्रीशुक उवाच -
( अनुष्टुप् )
अपश्यतां चानिरुद्धं तद्‌बन्धूनां च भारत ।
 चत्वारो वार्षिका मासा व्यतीयुरनुशोचताम् ॥ १ ॥
 नारदात् तदुपाकर्ण्य वार्तां बद्धस्य कर्म च ।
 प्रययुः शोणितपुरं वृष्णयः कृष्णदैवताः ॥ २ ॥
 प्रद्युम्नो युयुधानश्च गदः साम्बोऽथ सारणः ।
 नन्दोपनन्दभद्राद्या रामकृष्णानुवर्तिनः ॥ ३ ॥
 अक्षौहिणीभिर्द्वादशभिः समेताः सर्वतो दिशम् ।
 रुरुधुर्बाणनगरं समन्तात् सात्वतर्षभाः ॥ ४ ॥
 भज्यमानपुरोद्यान प्राकाराट्टालगोपुरम् ।
 प्रेक्षमाणो रुषाविष्टः तुल्यसैन्योऽभिनिर्ययौ ॥ ५ ॥
 बाणार्थे भगवान् रुद्रः ससुतः प्रमथैर्वृतः ।
 आरुह्य नन्दिवृषभं युयुधे रामकृष्णयोः ॥ ६ ॥
 आसीत् सुतुमुलं युद्धं अद्‌भुतं रोमहर्षणम् ।
 कृष्णशङ्करयो राजन् प्रद्युम्नगुहयोरपि ॥ ७ ॥
 कुम्भाण्डकूपकर्णाभ्यां बलेन सह संयुगः ।
 साम्बस्य बाणपुत्रेण बाणेन सह सात्यकेः ॥ ८ ॥
 ब्रह्मादयः सुराधीशा मुनयः सिद्धचारणाः ।
 गन्धर्वाप्सरसो यक्षा विमानैर्द्रष्टुमागमन् ॥ ९ ॥
 शङ्करानुचरान् शौरिः भूतप्रमथगुह्यकान् ।
 डाकिनीर्यातुधानांश्च वेतालान् सविनायकान् ॥ १० ॥
 प्रेतमातृपिशाचांश्च कुष्माण्डान् ब्रह्मराक्षसान् ।
 द्रावयामास तीक्ष्णाग्रैः शरैः शार्ङ्गधनुश्च्युतैः ॥ ११ ॥
 पृथग्विधानि प्रायुङ्क्त पिणाक्यस्त्राणि शाङ्‌र्गिणे ।
 प्रत्यस्त्रैः शमयामास शार्ङ्गपाणिरविस्मितः ॥ १२ ॥
 ब्रह्मास्त्रस्य च ब्रह्मास्त्रं वायव्यस्य च पार्वतम् ।
 आग्नेयस्य च पार्जन्यं नैजं पाशुपतस्य च ॥ १३ ॥
 मोहयित्वा तु गिरिशं जृम्भणास्त्रेण जृम्भितम् ।
 बाणस्य पृतनां शौरिः जघानासिगदेषुभिः ॥ १४ ॥
 स्कन्दः प्रद्युम्नबाणौघैः अर्द्यमानः समन्ततः ।
 असृग् विमुञ्चन् गात्रेभ्यः शिखिनापक्रमद् रणात् ॥ १५ ॥
 कुम्भाण्डः कूपकर्णश्च पेततुर्मुषलार्दितौ ।
 दुद्रुवुस्तदनीकनि हतनाथानि सर्वतः ॥ १६ ॥
 विशीर्यमाणं स्वबलं दृष्ट्वा बाणोऽत्यमर्षणः ।
 कृष्णं अभ्यद्रवत् संख्ये रथी हित्वैव सात्यकिम् ॥ १७ ॥
 धनूंष्याकृष्य युगपद् बाणः पञ्चशतानि वै ।
 एकैकस्मिन् शरौ द्वौ द्वौ सन्दधे रणदुर्मदः ॥ १८ ॥
 तानि चिच्छेद भगवान् धनूंसि युगपद्धरिः ।
 सारथिं रथमश्वांश्च हत्वा शङ्खमपूरयत् ॥ १९ ॥
 तन्माता कोटरा नाम नग्ना मक्तशिरोरुहा ।
 पुरोऽवतस्थे कृष्णस्य पुत्रप्राणरिरक्षया ॥ २० ॥
 ततस्तिर्यङ्‌मुखो नग्नां अनिरीक्षन् गदाग्रजः ।
 बाणश्च तावद् विरथः छिन्नधन्वाविशत् पुरम् ॥ २१ ॥
 विद्राविते भूतगणे ज्वरस्तु त्रीशिरास्त्रिपात् ।
 अभ्यधावत दाशार्हं दहन्निव दिशो दश ॥ २२ ॥
 अथ नारायणः देवः तं दृष्ट्वा व्यसृजज्ज्वरम् ।
 माहेश्वरो वैष्णवश्च युयुधाते ज्वरावुभौ ॥ २३ ॥
 माहेश्वरः समाक्रन्दन् वैष्णवेन बलार्दितः ।
 अलब्ध्वाभयमन्यत्र भीतो माहेश्वरो ज्वरः ।
 शरणार्थी हृषीकेशं तुष्टाव प्रयताञ्जलिः ॥ २४ ॥
 ज्वर उवाच -
( मिश्र )
नमामि त्वानन्तशक्तिं परेशं
     सर्वात्मानं केवलं ज्ञप्तिमात्रम् ।
 विश्वोत्पत्तिस्थानसंरोधहेतुं
     यत्तद् ब्रह्म ब्रह्मलिङ्गं प्रशान्तम् ॥ २५ ॥
 कालो दैवं कर्म जीवः स्वभावो
     द्रव्यं क्षेत्रं प्राण आत्मा विकारः ।
 तत्सङ्घातो बीजरोहप्रवाहः
     त्वन्मायैषा तन्निषेधं प्रपद्ये ॥ २६ ॥
 नानाभावैर्लीलयैवोपपन्नैः
     देवान् साधून् लोकसेतून्बिभर्षि ।
 हंस्युन्मार्गान् हिंसया वर्तमानान्
     जन्मैतत्ते भारहाराय भूमेः ॥ २७ ॥
 तप्तोऽहं ते तेजसा दुःसहेन
     शान्तोग्रेणात्युल्बणेन ज्वरेण ।
 तावत्तापो देहिनां तेऽङ्‌घ्रिमूलं
     नो सेवेरन् यावदाशानुबद्धाः ॥ २८ ॥
 श्रीभगवानुवाच -
( अनुष्टुप् )
त्रिशिरस्ते प्रसन्नोऽस्मि व्येतु ते मज्ज्वराद्‌भयम् ।
 यो नौ स्मरति संवादं तस्य त्वन्न भवेद्‌भयम् ॥ २९ ॥
 इत्युक्तोऽच्युतमानम्य गतो माहेश्वरो ज्वरः ।
 बाणस्तु रथमारूढः प्रागाद्योत्स्यञ्जनार्दनम् ॥ ३० ॥
 ततो बाहुसहस्रेण नानायुधधरोऽसुरः ।
 मुमोच परमक्रुद्धो बाणांश्चक्रायुधे नृप ॥ ३१ ॥
 तस्यास्यतोऽस्त्राण्यसकृत् चक्रेण क्षुरनेमिना ।
 चिच्छेद भगवान्बाहून् शाखा इव वनस्पतेः ॥ ३२ ॥
 बाहुषु छिद्यमानेषु बाणस्य भगवान् भवः ।
 भक्तानकम्प्युपव्रज्य चक्रायुधमभाषत ॥ ३३ ॥
 श्रीरुद्र उवाच -
त्वं हि ब्रह्म परं ज्योतिः गूढं ब्रह्मणि वाङ्‌मये ।
 यं पश्यन्त्यमलात्मान आकाशमिव केवलम् ॥ ३४ ॥
( मिश्र )
नाभिर्नभोऽग्निर्मुखमम्बु रेतो
     द्यौः शीर्षमाशाः श्रुतिरङ्‌घ्रिरुर्वी ।
 चन्द्रो मनो यस्य दृगर्क आत्मा
     अहं समुद्रो जठरं भुजेन्द्रः ॥ ३५ ॥
 रोमाणि यस्यौषधयोऽम्बुवाहाः
     केशा विरिञ्चो धिषणा विसर्गः ।
 प्रजापतिर्हृदयं यस्य धर्मः
     स वै भवान् पुरुषो लोककल्पः ॥ ३६ ॥
 तवावतारोऽयमकुण्ठधामन्
     धर्मस्य गुप्त्यै जगतो हिताय ।
 वयं च सर्वे भवतानुभाविता
     विभावयामो भुवनानि सप्त ॥ ३७ ॥
 त्वमेक आद्यः पुरुषोऽद्वितीयः
     तुर्यः स्वदृग् हेतुरहेतुरीशः ।
 प्रतीयसेऽथापि यथाविकारं
     स्वमायया सर्वगुणप्रसिद्ध्यै ॥ ३८ ॥
 यथैव सूर्यः पिहितश्छायया स्वया
     छायां च रूपाणि च सञ्चकास्ति ।
 एवं गुणेनापिहितो गुणांस्त्वम्
     आत्मप्रदीपो गुणिनश्च भूमन् ॥ ३९ ॥
( अनुष्टुप् )
यन्मायामोहितधियः पुत्रदारगृहादिषु ।
 उन्मज्जन्ति निमज्जन्ति प्रसक्ता वृजिनार्णवे ॥ ४० ॥
 देवदत्तमिमं लब्ध्वा नृलोकमजितेन्द्रियः ।
 यो नाद्रियेत त्वत्पादौ स शोच्यो ह्यात्मवञ्चकः ॥ ४१ ॥
 यस्त्वां विसृजते मर्त्य आत्मानं प्रियमीश्वरम् ।
 विपर्ययेन्द्रियार्थार्थं विषमत्त्यमृतं त्यजन् ॥ ४२ ॥
 अहं ब्रह्माथ विबुधा मुनयश्चामलाशयाः ।
 सर्वात्मना प्रपन्नास्त्वां आत्मानं प्रेष्ठमीश्वरम् ॥ ४३ ॥
( मिश्र )
तं त्वा जगत्स्थित्युदयान्तहेतुं
     समं प्रशान्तं सुहृदात्मदैवम् ।
 अनन्यमेकं जगदात्मकेतं
     भवापवर्गाय भजाम देवम् ॥ ४४ ॥
 अयं ममेष्टो दयितोऽनुवर्ती
     मयाभयं दत्तममुष्य देव ।
 संपाद्यतां तद्‌भवतः प्रसादो
     यथा हि ते दैत्यपतौ प्रसादः ॥ ४५ ॥
 श्रीभगवानुवाच -
( अनुष्टुप् )
यदात्थ भगवन् त्वं नः करवाम प्रियं तव ।
 भवतो यद्व्यवसितं तन्मे साध्वनुमोदितम् ॥ ४६ ॥
 अवध्योऽयं ममाप्येष वैरोचनिसुतोऽसुरः ।
 प्रह्रादाय वरो दत्तो न वध्यो मे तवान्वयः ॥ ४७ ॥
 दर्पोपशमनायास्य प्रवृक्णा बाहवो मया ।
 सूदितं च बलं भूरि यच्च भारायितं भुवः ॥ ४८ ॥
 चत्वारोऽस्य भुजाः शिष्टा भविष्यत्यजरामरः ।
 पार्षदमुख्यो भवतो न कुतश्चिद्‌भयोऽसुरः ॥ ४९ ॥
 इति लब्ध्वाभयं कृष्णं प्रणम्य शिरसासुरः ।
 प्राद्युम्निं रथमारोप्य सवध्वा समुपानयत् ॥ ५० ॥
 अक्षौहिण्या परिवृतं सुवासःसमलङ्कृतम् ।
 सपत्‍नीकं पुरस्कृत्य ययौ रुद्रानुमोदितः ॥ ५१ ॥
( वंशस्था )
स्वराजधानीं समलङ्कृतां ध्वजैः
     सतोरणैरुक्षितमार्गचत्वराम् ।
 विवेश शङ्खानकदुन्दुभिस्वनैः
     अभ्युद्यतः पौरसुहृद्‌द्विजातिभिः ॥ ५२ ॥
( अनुष्टुप् )
य एवं कृष्णविजयं शङ्करेण च संयुगम् ।
 संस्मरेत् प्रातरुत्थाय न तस्य स्यात् पराजयः ॥ ५३ ॥


इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां
संहितायां दशमस्कन्धे उत्तरार्धे
 अनिरुद्धानयनं नाम त्रिषष्टितमोऽध्यायः ॥ ६३ ॥
 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥