श्रीमद्भागवतपुराणम्/स्कन्दः ३/अध्यायः १८

विकिस्रोतः तः

अथाष्टादशॊऽध्यायः मैत्रॆय उवाच - तदॆवमाकर्ण्य जलॆशभाषितं महामनास्तद्विगणय्य दुर्मदः | हरॆर्विदित्वा गतिमड्ग नारदाद् रसातलं निर्विविशॆ त्वरान्वितः |१|

ददर्श तत्राभिजितं धराधरं प्रॊन्नीयमानावनिमग्नदंष्ट्र्या | मुष्णन्तमक्ष्णा स्वरुचॊऽरुणश्रिया जहास चाहॊ वनगॊचरॊ मृगः |२|