श्रीमद्भागवतपुराणम्/माहात्म्य (पाद्मे)/अध्यायः ०६

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ०५ श्रीमद्भागवतपुराणम्
माहात्म्य (पाद्मे)/अध्यायः ०६
[[लेखकः :|]]
अध्यायः १ →



 श्रीमद्‌भागवतमाहात्म्यम् - षष्ठोऽध्यायः

श्रीमद्‌भागवत सप्ताहपारायणविधिः

कुमारा ऊचुः -
(अनुष्टुप्)
अथ ते संप्रवक्ष्यामः सप्ताहश्रवणे विधिम् ।
सहायैर्वसुभिश्चैव प्रायः साध्यो विधिः स्मृतः ॥ १ ॥
दैवज्ञं तु समाहूय मुहूर्तं पृच्छ्य यत्‍नतः ।
विवाहे यादृशं वित्तं तादृशं परिकल्पयेत् ॥ २ ॥
नभस्य आश्विनोर्जौ च मार्गशीर्षः शुचिर्नभाः ।
एते मासाः कथारम्भे श्रोतॄणां मोक्षसूचकाः ॥ ३ ॥
मासानां विप्र हेयानि तानि त्याज्यानि सर्वथा ।
सहायाश्चेतरे तत्र कर्तव्याः सोद्यमाश्च ये ॥ ४ ॥
देशे देशे तथा सेयं वार्ता प्रेष्या प्रयत्‍नतः ।
भविष्यति कथा चात्र आगन्तव्यं कुटुम्बिभिः ॥ ५ ॥
दूरे हरिकथाः केचित् दूरे चाच्युतकीर्तनाः ।
स्त्रियः शूद्रादयो ये च तेषां बोधो यतो भवेत् ॥ ६ ॥
देशे देशे विरक्ता ये वैष्णवाः कीर्तनोत्सुकाः ।
तेष्वेव पत्रं प्रेष्यं च तल्लेखनं इतीरितम् ॥ ७ ॥
सतां समाजो भविता सप्तरात्रं सुदुर्लभः ।
अपूर्वरसरूपैव कथा चात्र भविष्यति ॥ ८ ॥
श्रीमद्‌भागवत पीयुष पानाय रसलम्पटाः ।
भवन्तश्च तथा शीघ्रं आयात प्रेमतत्पराः ॥ ९ ॥
नावकाशः कदाचित् चेत् दिनमात्रं तथापि तु ।
सर्वथाऽऽगमनं कार्यं क्षणोऽत्रैव सुदुर्लभः ॥ १० ॥
एवमाकारणं तेषां कर्तव्यं विनयेन च ।
आगन्तुकानां सर्वेषां वासस्थानानि कल्पयेत् ॥११ ॥
तीर्थे वापि वने वापि गृहे वा श्रवणं मतम् ।
विशाला वसुधा यत्र कर्तव्यं तत्कथास्थलम् ॥ १२ ॥
शोधनं मार्जनं भूमेः लेपनं धातुमण्डनम् ।
गृहोपस्करमुद्ध्रुत्य गृहकोणे निवेशयेत् ॥ १३ ॥
अर्वाक् पंचाहतो यत्‍नात् आस्तीर्णानि प्रमेलयेत् ।
कर्तव्यो मण्डपः प्रोच्चैः कदलीखण्डमण्डितः ॥ १४ ॥
फलपुष्पदलैर्विष्वक् वितानेन विराजितः ।
चतुर्दिक्षु ध्वजारोपो बहुसम्पद्विराजितः ॥ १५ ॥
ऊर्ध्वं सप्तैव लोकाश्च कल्पनीयाः सविस्तरम् ।
तेषु विप्रा विरक्ताश्च स्थापनीयाः प्रबोध्य च ॥ १६ ॥
पूर्वं तेषां आसनानि कर्तव्यानि यथोत्तरम् ।
वक्तुश्चापि तदा दिव्यं आसनं परिकल्पयेत् ॥ १७ ॥
उदङ्‌मुखो भवेद्‌वक्ता श्रोता वै प्राङ्‌मुखस्तदा ।
प्राङ्‌मुखश्चेत् भवेद्‌वक्ता श्रोता च उदङ्‌मुखस्तदा ॥ १८ ॥
अथवा पूर्वदिग्ज्ञेया पूज्यपूजकमध्यतः ।
श्रोतॄणां आगमे प्रोक्ता देशकालादिकोविदैः ॥ १९ ॥
विरक्तो वैष्णवो विप्रो वेदशास्त्रविशुद्धिकृत् ।
दृष्टान्तकुशलो धीरो वक्ता कार्योऽति निःस्पृह ॥ २० ॥
अनेकधर्मनिभ्रान्ताः स्त्रैणाः पाखण्डवादिनः ।
शुकशास्त्रकथोच्चारे त्याज्यास्ते यदि पण्डिताः ॥ २१ ॥
वक्तुः पार्श्वे सहायार्थं अन्यः स्थाप्यस्तथाविधः ।
पण्डितः संशयच्छेत्ता लोकबोधनतत्परः ॥ २२ ॥
वक्त्रा क्षौरं प्रकर्तव्यं दिनाद् अर्वाक् व्रताप्तये ।
अरुणोदयेऽसौ निर्वर्त्य शौचं स्नानं समाचरेत् ॥ २३ ॥
नित्यं संक्षेपतः कृत्वा संध्याद्यं स्वं प्रयत्‍नतः ।
कथाविघ्नविघाताय गणनाथं प्रपूजयेत् ॥ २४ ॥
पितॄन् संतर्प्य शुद्ध्यर्थं प्रायश्चित्तं समाचरेत् ।
मण्डलं च प्रकर्तव्यं तत्र स्थाप्यो हरिस्तथा ॥ २५ ॥
कृष्णमुद्दिश्य मंत्रेण चरेत् पूजाविधिं क्रमात् ।
प्रदक्षिण नमस्कारान् पूजान्ते स्तुतिमाचरेत् ॥ २६ ॥
संसारसागरे मग्नं दीनं मां करुणानिधे ।
कर्ममोहगृहीताङ्‌गं मामुद्धर भवार्णवात् ॥ २७ ॥
श्रीमद्‌भागवतस्यापि ततः पूजा प्रयत्‍नतः ।
कर्तव्या विधिना प्रीत्या धूपदीपसमन्विता ॥ २८ ॥
ततस्तु श्रीफलं धृत्वा नमस्कारं समाचरेत् ।
स्तुतिः प्रसन्नचित्तेन कर्तव्या केवलं तदा ॥ २९ ॥
श्रीमद्‌भागवताख्योऽयं प्रत्यक्षः कृष्ण एव हि ।
स्वीकृतोऽसि मया नाथ मुक्त्यर्थं भवसागरे ॥ ३० ॥
मनोरथो मदीयोऽयं सफलः सर्वथा त्वया ।
निर्विघ्नेनैव कर्तव्य दासोऽहं तव केशव ॥ ३१ ॥
एवं दीनवचः प्रोच्य वक्तारं चाथ पूजयेत् ।
सम्भूष्य वस्त्रभूषाभिः पूजान्ते तं च संस्तवेत् ॥ ३२ ॥
शुकरूप प्रबोधज्ञ सर्वशास्त्रविशारद ।
एतत्कथाप्रकाशेन मदज्ञानं विनाशय ॥ ३३ ॥
तदग्रे नियमः पश्चात् कर्तव्यः श्रेयसे मुदा ।
सप्तरात्रं यथाशक्त्या धारणीयः स एव हि ॥ ३४ ॥
वरणं पंचविप्राणां कथाभङ्‌गनिवृत्तये ।
कर्तव्यं तैः हरेर्जाप्यं द्वादशाक्षरविद्यया ॥ ३५ ॥
ब्राह्मणान् वैष्णवान् चान्यान् तथा कीर्तनकारिणः ।
नत्वा संपूज्य दत्ताज्ञः स्वयं आसनमाविशेत् ॥ ३६ ॥
लोकवित्तधनागार पुत्रचिन्तां व्युदस्य च ।
कथाचित्तः शुद्धमतिः स लभेत्फलमुत्तमम् ॥ ३७ ॥
आसूर्योदयमारभ्य सार्धत्रिप्रहरान्तकम् ।
वाचनीया कथा सम्यक् धीरकण्ठं सुधीमता ॥ ३८ ॥
कथाविरामः कर्तव्यो मध्याह्ने घटिकाद्वयं ।
तत्कथामनु कार्यं वै कीर्तनं वैष्णवैस्तदा ॥ ३९ ॥
मलमूत्रजयार्थं हि लघ्वाहारः सुखावहः ।
हविष्यान्नेन कर्तव्यो हि, एकवारं कथार्थिना ॥ ४० ॥
उपोष्य सप्तरात्रं वै शक्तिश्चेत् श्रुणुयात् तदा ।
घृतपानं पयःपानं कृत्वा वै श्रृणुयात् सुखम् ॥ ४१ ॥
फलाहारेण वा भाव्यं एकभुक्तेन वा पुनः ।
सुखसाध्यं भवेद् यत्तु कर्तव्यं श्रवणाय तत् ॥ ४२ ॥
भोजनं तु वरं मन्ये कथाश्रवणकारकम् ।
नोपवासो वरः प्रोक्तः कथाविघ्नकरो यदि ॥ ४३ ॥
सप्ताहव्रतिनां पुंसां नियमान् श्रुणु नारद ।
विष्णुदीक्षाविहीनानां नाधिकारः कथाश्रवे ॥ ४४ ॥
ब्रह्मचर्यमधः सुप्तिः पत्रावल्यां च भोजनम् ।
कथासमाप्तौ भुक्तिं च कुर्यात् नित्यं कथाव्रती ॥ ४५ ॥
द्विदलं मधु तैलं च गरिष्ठान्नं तथैव च ।
भावदुष्टं पर्युषितं जह्यात् नित्यं कथाव्रती ॥ ४६ ॥
कामं क्रोधं मदं मानं मत्सरं लोभमेव च ।
दम्भ मोहं तथा द्वेषं दूरयेच्च कथाव्रती ॥ ४७ ॥
वेदवैष्णवविप्राणां गुरुगोव्रतिनां तथा ।
स्त्रीराजमहतां निन्दां वर्जयेत् यः कथाव्रती ॥ ४८ ॥
रजस्वला अन्त्यज म्लेच्छ पतित व्रात्यकैस्तथा ।
द्विजद्विड् वेदबाह्यैश्च न वदेत् यः कथाव्रती ॥ ४९ ॥
सत्यं शौचं दयां मौनं आर्जवं विनयं तथा ।
उदारमानसं तद्वत् एवं कुर्यात् कथाव्रती ॥ ५० ॥
दरिद्रश्च क्षयी रोगी निर्भाग्यः पापकर्मवान् ।
अनपत्यो मोक्षकामः श्रुणुयाच्च कथामिमाम् ॥ ५१ ॥
अपुष्पा काकवन्ध्या च वन्ध्या या च मृतार्भका ।
स्रवत् गर्भा च या नारी तया श्राव्या प्रयत्‍नतः ॥ ५२ ॥
एतेषु विधिना श्रावे तदक्षयतरं भवेत् ।
अत्युत्तमा कथा दिव्या कोटियज्ञफलप्रदा ॥ ५३ ॥
एवं कृत्वा व्रतविधिं उद्यापनं अथाचरेत् ।
जन्माष्टमी व्रतमिव कर्तव्यं फलकांक्षिभिः ॥ ५४ ॥
अकिंचनेषु भक्तेषु प्रायो नोद्यापनाग्रहः ।
श्रवणेनैव पूतास्ते निष्कामा वैष्णवा यतः ॥ ५५ ॥
एवं नगाहयज्ञेऽस्मिन् समाप्ते श्रोतृभिस्तदा ।
पुस्तकस्य च वक्तुश्च पूजा कार्यातिभक्तितः ॥ ५६ ॥
प्रसादतुलसीमाला श्रोतृभ्यश्चाथ दीयताम् ।
मृदंगतालललितं कर्तव्यं कीर्तनं ततः ॥ ५७ ॥
जयशब्दं नमःशब्दं शंखशब्दं च कारयेत् ।
विप्रेभ्यो याचकेभ्यश्च वित्तं अन्नं च दीयताम् ॥ ५८ ॥
विरक्तश्चेत् भवेत् श्रोता गीता वाद्या परेऽहनि ।
गृहस्थश्चेत् तदा होमः कर्तव्यः कर्मशान्तये ॥ ५९ ॥
प्रतिश्लोकं तु जुहुयात् विधिना दशमस्य च ।
पायसं मधु सर्पिश्च तिलान् आदिकसंयुतम् ॥ ६० ॥
अथवा हवनं कुर्याद् गायत्र्या सुसमाहितः ।
तन्मयत्वात् पुराणस्य परमस्य च तत्त्वतः ॥ ६१ ॥
होमाशक्तौ बुधो हौम्यं दद्यात् तत्फल सिद्धये ।
नानाच्छिद्रनिरोधार्थं न्यूनताधिकतानयोः ॥ ६२ ॥
दोषयोः प्रशमार्थं च पठेत् नामसहस्रकम् ।
तेन स्यात् सफलं सर्वं नास्त्यस्मादधिकं यतः ॥ ६३ ॥
द्वादश ब्राह्मणान् पश्चात् भोजयेत् मधुपायसैः ।
दद्यात् सुवर्णं धेनुं च व्रतपूर्णत्वहेतवे ॥ ६४ ॥
शक्तौ पलत्रयमितं स्वर्णसिंहं विधाय च ।
तत्रास्य पुस्तकं स्थाप्यं लिखितं ललिताक्षरम् ॥ ६५ ॥
संपूज्य आवाहनाद्यैः तद् उपचारैः सदक्षिणम् ।
वस्त्रभूषण गन्धाद्यैः पूजिताय यतात्मने ॥ ६६ ॥
आचार्याय सुधीर्दत्त्वा मुक्तः स्याद् भवबंधनैः ।
एवं कृते विधाने च सर्वपापनिवारणे ॥ ६७ ॥
फलदं स्यात् पुराणं तु श्रीमद्‌भागवतं शुभम् ।
धर्मकामार्थमोक्षाणां साधनं स्यात् न संशयः ॥ ६८ ॥
कुमारा ऊचुः -
इति ते कथितं सर्वं किं भूयः श्रोतुमिच्छसि ।
श्रीमद्‌भागवतेनैव भुक्तिमुक्ति करे स्थिते ॥ ६९ ॥
सूत उवाच -
इत्युक्त्वा ते महात्मानः प्रोचुर्भागवतीं कथाम् ।
सर्वपापहरां पुण्यां भुक्तिमुक्तिप्रदायिनीम् ॥ ७० ॥
श्रृण्वतां सर्वभूतानां सप्ताहं नियतात्मनाम् ।
यथाविधि ततो देवं तुष्टुवुः पुरुषोत्तमम् ॥ ७१ ॥
तदन्ते ज्ञानवैराग्य-भक्तीनां पुष्टता परा ।
तारुण्यं परमं चाभूत् सर्वभूतमनोहरम् ॥ ७२ ॥
नारदश्च कृतार्थोऽभूत् सिद्धे स्वीये मनोरथे ।
पुलकीकृतसर्वाङ्‌ग परमानन्दसम्भृतः ॥ ७३ ॥
एवं कथां समाकर्ण्य नारदो भगवत्प्रियः ।
प्रेमगद्‌गदया वाचा तानुवाच कृताञलिः ॥ ७४ ॥
नारद उवाच -
धन्योस्मि अनुगृहितोऽस्मि भवद्‌भिः करुणापरैः ।
अद्य मे भगवान् लब्धः सर्वपापहरो हरिः ॥ ७५ ॥
श्रवणं सर्वधर्मेभ्यो वरं मन्ये तपोधनाः ।
वैकुण्ठस्थो यतः कृष्णः श्रवणाद् यस्य लभ्यते ॥ ७६ ॥
सूत उवाच -
एवं ब्रुवति वै तत्र नारदे वैष्णवोत्तमे ।
परिभ्रमन् समायातः शुको योगेश्वरास्तदा ॥ ७७ ॥
(वंशस्थ)
तत्राययौ षोडशवार्षिकस्तदा
     व्यासात्मजो ज्ञानमहाब्धिचन्द्रमाः ।
कथावसाने निजलाभपूर्णः
     प्रेम्णा पठन् भागवतं शनैः शनैः ॥ ७८ ॥
(इंद्रवंशा)
दृष्ट्वा सदस्याः परमोरुतेजसं
     सद्यः समुत्थाय ददुर्महासनम् ।
प्रीत्या सुरर्षिस्तमपूजयत् सुखं
     स्थितोऽवदत् संश्रृणुतामलां गिरम् ॥ ७९ ॥
श्रीशुक उवाच -
(द्रुतविलंबित)
निगमकल्पतरोर्गलितं फलं
     शुकमुखात् अमृतद्रवसंयुतम् ।
पिबत भागवतं रसमालयं
     मुहुरको रसिका भुवि भावुकाः ॥ ८० ॥
(शार्दूलविक्रीडित)
धर्मप्रोज्झितकैतवोऽत्र परमो निर्मत्सराणां सतां
     वेद्यं वास्तवमत्र वस्तु शिवदं तापत्रयोन्मूलनम् ।
श्रीमद्‌भागवते महामुनिकृते किं वा परैरीश्वरः
     सद्यो हृद्यवरुध्यतेऽत्र कृतिभिः शुश्रूषुभिस्तत्क्षणात् ॥ ८१ ॥
श्रीमद्‌भागवतं पुराणतिलकं यद्‌वैष्णवानां धनं
     यस्मिन् पारमहंस्यमेवममलं ज्ञानं परं गीयते ।
यत्र ज्ञानविरागभक्तिसहितं नैष्कर्म्यमाविष्कृतं
     तत् श्रुण्वन् प्रपठन् विचारणपरो भक्त्या विमुच्येन्नरः ॥ ८२ ॥
(अनुष्टुप्)
स्वर्गे सत्ये च कैलासे वैकुण्ठे नास्त्ययं रसः ।
अतः पिबन्तु सद्‌भाग्या मा मा मुञ्चत कर्हिचित् ॥ ८३ ॥
सूत उवाच -
(इंद्रवंशा)
एवं ब्रुवाणे सति बादरायणौ
     मध्ये सभायां हरिराविरासीत् ।
प्रह्रादबल्युद्धवफाल्गुनादिभिः
     वृत्तं सुरर्षिस्तमपूजयच्च तान् ॥ ८४ ॥
दृष्ट्वा प्रसन्नं महदासने हरिं
     ते चक्रिरे कीर्तनमग्रतस्तदा ।
भवो भवान्या कमलासनस्तु
     तत्रागमत् कीर्तनदर्शनाय ॥ ८५ ॥
(स्रग्धरा)
प्रह्रादस्तालधारी तरलगतितया चोद्धवः कांस्यधारी
     वीणाधारी सुरर्षि स्वरकुशलतया रागकर्तार्जुनोऽभूत् ।
इन्द्रोऽवादीन्मृदङ्‌गं जय जय सुकराः कीर्तने ते कुमारा
     यत्राग्रे भववक्ता सरसरचनया व्यासपुत्रो बभूव ॥ ८६ ॥
(उपेंद्रवज्रा)
ननर्त मध्ये त्रिकमेव तत्र
     भक्त्यादिकानां नटवत्सुतेजसाम् ।
अलौलिकं कीर्तनमेतदीक्ष्य
     हरिः प्रसन्नोऽपि वचोऽब्रवीत् तत् ॥ ८७ ॥
(इंद्रवज्रा)
मत्तो वरं भाववृताद्‌वृणुध्वं
     प्रीतः कथाकीर्तनतोऽस्मि साम्प्रतम् ।
श्रुत्वेति तद्वाक्यमतिप्रसन्नाः
     प्रेमार्द्रचित्ता हरिमूचिरे ते ॥ ८८ ॥
(उपेंद्रवज्रा)
नगाहगाथासु च सर्वभक्तैः
     एभिस्त्वया भाव्यमिति प्रयत्‍नात् ।
मनोरथोऽयं परिपूरनीयः
     तथेति चोक्त्वान्तरधीयताच्युतः ॥ ८९ ॥
(वंशस्थ)
ततोऽनमत्तत् चरणेषु नारदः
     तथा शुकादीनपि तापसांश्च ।
अथ प्रहृष्टाः परिनष्टमोहाः
     सर्व ययुः पीतकथामृतास्ते ॥ ९० ॥
(इंद्रवज्रा)
भक्तिः सुताभ्यां सह रक्षिता सा
     शास्त्रे स्वकीयेऽपि तदा शुकेन ।
अतो हरिर्भागवतस्य सेवनात्
     चित्तं समायाति हि वैष्णवानाम् ॥ ९१ ॥
दारिद्र्यदुःखज्वरदाहितानां
     मायापिशाचीपरिमर्दितानाम्
संसारसिन्धौ परिपातितानां
     क्षेमाय वै भागवतं प्रगर्जति ॥ ९२ ॥
शौनक उवाच -
(अनुष्टुप्)
शुकेनोक्तं कदा राज्ञे गोकर्णेन कदा पुनः ।
सुरर्षये कदा ब्राह्मैः छिन्धि मे संशयं त्विमम् ॥ ९३ ॥
सूत उवाच -
आकृष्णनिर्गमात् त्रिंशत् वर्षाधिकगते कलौ ।
नवमीतो नभस्ये च कथारंभं शुकोऽकरोत् ॥ ९४ ॥
परीक्षित् श्रवणान्ते च कलौ वर्षशतद्वये ।
शुद्धे शुचौ नवम्यां च धेनुजोऽकथयत्कथाम् ॥ ९५ ॥
तस्मादपि कलौ प्राप्ते त्रिंशत् वर्षगते सति ।
ऊचुरूर्जे सिते पक्षे नवम्यां ब्रह्मणः सुताः ॥ ९६ ॥
इत्येत्तते समाख्यातं यत्पृष्टोऽहं त्वयानघ ।
कलौ भागवती वार्ता भवरोगविनाशिनी ॥ ९७ ॥
(वसंततिलका)
कृष्णप्रियं सकलकल्मषनाशनं च
     मुक्त्येकहेतुमिह भक्तिविलासकारि
सन्तः कथानकमिदं पिबतादरेण
     लोके हि तीर्थपरिशीलनसेवया किम् ॥ ९८ ॥
(अपरवक्त्र)
स्वपुरुषमपि वीक्ष्य पाशहस्तं
     वदति यमः किल तस्य कर्णमूले ।
परिहर भगवत्कथासु मत्तान्
     प्रभुरहमन्युनृणां न वैष्णवानाम् ॥ ९९ ॥
(शिखरिणी)
असारे संसारे विषयविषसङ्‌गाकुलधियः
     क्षणार्धं क्षेमार्थं पिबत शुकगाथातुलसुधाम् ।
किमर्थं व्यर्थं भो व्रजथ कुपथे कुत्सितकथे
     परीक्षित्साक्षी यत् श्रवणगतमुक्त्युक्तिकथने ॥ १०० ॥
(अनुष्टुप्)
रसप्रवाहसंस्थेन श्रीशुकेनेरिता कथा ।
कण्ठे संबध्यते येन स वैकुण्ठप्रभुर्भवेत् ॥ १०१ ॥
(मालिनी)
इति च परमगुह्यं सर्वसिद्धान्तसिद्धं
     सपदि निगदितं ते शास्त्रपुञ्जं विलोक्य ।
जगति शुककथातो निर्मलं नास्ति किञ्चित्
     पिब परसुखहेतोर्द्वादशस्कन्धसारम् ॥ १०२ ॥
(प्रहर्षिणी)
एतां यो नियततया श्रृणोति भक्त्या
     यश्चैनां कथयति शुद्धवैष्णवाग्रे ।
तौ सम्यक् विधिकरणात्फलं लभेते
     याथार्थ्यान्न हि भुवने किमप्यसाध्यम् ॥ १०३ ॥

इति श्रीपद्मपुराणे उत्तरखण्डे श्रीमद्‌भागवतमाहात्म्ये
श्रवणविधिकथनं नाम षष्टोऽध्यायः ॥ ६ ॥
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥