सामग्री पर जाएँ

श्रीभागवतसन्दर्भः/चतुर्थः सन्दर्भः

विकिस्रोतः तः
← तृतीयः सन्दर्भः श्रीभागवतसन्दर्भः
चतुर्थः सन्दर्भः
[[लेखकः :|]]
पञ्चमः सन्दर्भः →

श्रीकृष्णसन्दर्भ

तौ सन्तोषयता सन्तौ श्रीलरूपसनातनौ ।
दाक्षिणात्येन भट्टेन पुनरेतद्विविच्यते ॥ो॥
तस्याद्यं ग्रन्थनालेखं क्रान्तमुत्क्रान्तखण्डितम् ।
पर्यालोच्याथ पर्यायं कृत्वा लिखति जीवकः ॥ो॥
[१]

अथ पूर्वसन्दर्भत्रयेण यस्य सर्वपरत्वं साधितं तस्य श्री
भगवतो निर्धारणाय सन्दर्भोऽयमारभ्यते । तत्र प्रथमस्य द्वितीये
वदन्ति [भागवतम् १.२.११] इत्यादिना [Vऋ. अद्द्स्: नानाविर्भावत्वात्तानि वचनानि
तत्त्वनिर्धारणार्थमुद्ध्रियन्ते । एन्द्Vऋ.] तदेकमेव तत्त्वं
ब्रह्मादितया शब्द्यत इत्युक्तम् । तदेव ब्रह्मादित्रयं तृतीयं विविच्यते ।
ब्रह्म त्विह

यत्रेमे सद्असद्रूपे प्रतिषिद्धे स्वसंविदा ।
अविद्ययात्मनि कृते इति तद्ब्रह्मदर्शनम् ॥ [भागवतम् १.३.३३]

इत्यादिना तत्र विविक्तमपि । एकाकाराविर्भावतया संशयाभावान्
नोपयुक्तमिति तद्वचनं नोदाहरणीयम् । श्रीभगवत्परमात्मनोस्तु
उदाह्रियते । तत्र ईश्वरो नाम निराकारो नास्तीति पूर्वं निर्णीतं,
परमात्मशब्देन च सर्वान्तर्यामिपुरुषः प्रतिपादितः तेष्वेव
सन्दर्भेषु । तथा च सति तस्मिंस्तृतीयाध्यायारभ्य एवमाभास्यम् ।

ननु पूर्वं ब्रह्मादितया त्रिधैव तत्त्वमेकमुक्तम् । तत्र ब्रह्मणः
किं लक्षणं भगवत्परमात्मनोर्वा तत्र विशेषः कश्चिद्वा किमस्तीति
श्रीमद्ईश्वराकारादिषु बहुषु च सत्सु श्रीभगवन्नाम कतमाकारः
परमात्मा वा तयोश्च किं स्वरूपादिकमिति श्रीशौनकादिप्रश्नम्
आशङ्क्य प्रथमं श्रीभगवत्परमात्मनौ निर्धारयन् श्रीसूत उवाच


जगृहे पौरुषं रूपं भगवान्महद्आदिभिः ।
सम्भूतं षोडशकलमादौ लोकसिसृक्षया ॥ [भागवतम् १.३.१]

[पगे २]
आदौ जीवाविर्भावमहद्आदिसृष्टितः पूर्वं पौरुषं रूपं जगृहे
प्रकटितवान् । केन हेतुना ? लोकसिसृक्षया । लोकानां समष्टिव्यष्टि
जीवानां तद्अधिष्ठानानां च प्रादुर्भावार्थमित्यर्थः । तस्मिन् हि तानि
लीनान्यासन्निति ।

अतस्तत्प्रादुर्भावस्तृतीये तद्द्वारैव उक्तः । भगवानेक आसेदम् [भागवतम्
३.५.२३] इत्य्आदिप्रकरणे

कालवृत्त्या तु मायायां गुणमय्यामधोक्षजः ।
पुरुषेणात्मभूतेन वीर्यमाधत्त वीर्यवान् ॥ [भागवतम् ३.५.२६] इति ।

तत्र तेषां सद्भावं विवृणोति महद्आदिभिः सम्भूतं मिलितम् ।
अन्तर्भूतमहद्आदितत्त्वमित्यर्थः । सोऽन्तःशरीरेऽर्पितभूतसूक्ष्मा
[भागवतम् ३.८.११] इति तृतीयादेव । सम्पूर्वो भवतिः सङ्गमार्थे प्रसिद्ध एव,
सम्भूयाम्भोधिमभ्येति महानद्या नगापागेति [शिश्V २.१००] इत्यादौ ।

तदेवं विष्णोस्तु त्रीणि रूपाणि इत्यादौ महत्स्रष्टृत्वेन प्रथमं
पुरुषाख्यं रूपं यच्छ्रूयते यच्च ब्रह्मसंहितादौ कारणार्णव
शायिसङ्कर्षणत्वेन श्रूयते । तदेव जगृहे इति प्रतिपादितं तस्य जगत्
सृष्ट्य्आदिकर्तृत्वेन । ततोऽपि परत्रैश्वर्यसम्भावनार्थमाह षोडश
कलं सम्पूर्णसर्वशक्तियुक्तमित्यर्थः । पूर्णत्वं चात्रापेक्षिकं
स्वरूपशक्तिनिधिरपि स्वसान्निध्येन मायावृत्तिभिर्जगत्सृष्ट्य्आदिकर्ता
भगवद्अंशी स्वरूपशक्त्य्एकविलासवानित्यभिहितम् ।

[२]

तदेवं सामान्यतो भगवत्परमात्मानौ निरूप्य परमात्मानं तावद्
अनेकैः स्थानकर्मस्वरूपाकारविशेषैर्निर्धारयति त्रिभिः

यस्याम्भसि शयानस्य योगनिद्रां वितन्वतः ।
नाभिह्रदाम्बुजादासीद्ब्रह्मा विश्वसृजां पतिः ॥ [भागवतम् १.३.२]

यस्य पौरुषरूपस्याम्भसि प्रलयकालीनगर्भोदके शयानस्य सतः ।

[ठे Vऋ. एदितिओन् दिffएर्स्बेत्wएएनादौ अन्द्शयानस्य सतः: यः श्रीभगवान्
पूर्णषड्ऐश्वर्यत्वेन पूर्वं निर्दिष्टः । स एव पौरुषं रूपं
पुरुषत्वेनाम्न्यायते । यद्रूपं तदेवादौ सर्गारम्भे जगृहे । प्राकृत
प्रलयेष्वस्मिन् लीनं सत्प्रकटतया स्वीकृतवान् । किमर्थम् ? तत्राह
लोकसिसृक्षया । तस्मिन्नेव लीनानां लोकानां समष्टिव्यष्टिजीवानां
सिसृक्षया प्रादुर्भावनार्थमित्यर्थः ।

कीदृशं सत्? तद्रूपं लीनमासीत्तत्राह महद्आदिभिः सम्भूतं
मिलितमन्तर्भूतमहद्आदितत्त्वमित्यर्थः । सम्भूयाम्भोधिम्
अभ्येति महानद्या नगापागेति [शिश्V २.१००] इति सम्भवतिर्मिलनार्थः ।
तत्र हि महद्आदीनि लीनान्यासन्निति ।

तदेवं विष्णोस्तु त्रीणि रूपाणि इत्यादौ महत्स्रष्टृत्वेन प्रथमं
पुरुषाख्यं रूपं यच्छ्रूयते यच्च ब्रह्मसंहितादौ कारणार्णव
शायिसङ्कर्षणत्वेन श्रूयते । तदेव जगृहे इति प्रतिपादितम् । पुनः
कीदृशं तद्रूपम् ? तत्राह षोडशकलं तत्सृष्ट्य्उपयोगिपूर्णशक्तीत्य्
अर्थः । तदेवं यस्तद्रूपं जगृहे स भगवान् । यत्तु तेन गृहीतं तत्तु
स्वसृज्यानामाश्रयत्वात्परमात्मेति पर्यवसितम् । तस्य पुरुषरूपस्य
विसर्गनिदानत्वमपि प्रतिपादयितुमाह सार्धेन

यस्याम्भसि शयानस्य योगनिद्रां वितन्वतः ।
नाभिह्रदाम्बुजादासीद्ब्रह्मा विश्वसृजां पतिः ।
यस्यावयवसंस्थानैः कल्पितो लोकविस्तरः ॥ [भागवतम् १.३.३]

यस्य पौरुषरूपस्य द्वितीयेन व्यूहेन ब्रह्माण्डं प्रविश्य अम्भसि
गर्भोदके शयानस्येत्यादि योज्यम् । यस्य च तादृशत्वेन तत्र शयानस्य
अवयवसंस्थानैः साक्षाच्छ्रीचरणादिसन्निवेशे लोकस्य विस्तारो विराड्
आकारः प्रपञ्चः कल्पितः । यथा तद्अवयवसन्निवेशास्तथैव पातालम्
एतस्य हि पादमूलम् [भागवतम् २.१.२६] इत्यादिना नवीनोपासकान् प्रति मनः
स्थैर्याय प्रख्यापितः । न तु वस्तुतस्तदेव यस्य रूपमित्यर्थः । यद्
वा चन्द्रमा मनसो जातः इत्यारभ्य पद्भ्यां भूमिर्दिशः श्रोत्रात्तथा
लोकानकल्पयतिति श्रुतेस्[ऋक्१०.९०.१३१४] तैर्हेतुभूतैर्लोकविस्तारो रचित
इत्यर्थः । [एन्द्Vऋ. रेअदिन्ग्.]

तथा च भारते मोक्षधर्मनारायणीये

अस्मन्मूर्तिश्चतुर्थी या सासृजच्छेषमव्ययम् ।
स हि संकर्षणः प्रोक्तः प्रद्युम्नं सोऽप्यजीजनत् ॥
प्रद्युम्नादनिरुद्धोऽहं सर्गो मम पुनः पुनः ।
अनिरुद्धात्तथा ब्रह्मा तत्रादि कमलोद्भवः ॥
ब्रह्मणः सर्वभूतानि चराणि स्थावराणि च ॥ [ंभ्१२.३२६.६८७०]

तत्रैव व्यासः
परमात्मेति यं प्राहुः सांख्ययोगविदो जनाः ।
महापुरुष संज्ञां स लभते स्वेन कर्मणा ॥
तस्मात्प्रसूतमव्यक्तं प्रधानं तद्विदुर्बुधाः ।
अव्यक्ताद्व्यक्तमुत्पन्नं लोकसृष्ट्यर्थमीश्वरात् ॥
अनिरुद्धो हि लोकेषु महानात्मेति कथ्यते ।
योऽसौ व्यक्तत्वमापन्नो निर्ममे च पितामहम् ॥ [ंभ्१२.३२७.२४२६] इति ।

[Vऋ. अद्द्स्हेरे:] तदेवं सङ्कर्षणस्य वैभवमुक्त्वानिरुद्धस्याप्याह
अनिरुद्धो हीति । लोकेषु प्रत्येकं ब्रह्माण्डेषु महानात्मा परमात्मा ।
व्यक्तत्वं प्राकट्यं प्रद्युम्नादिति शेषः । सुतेन त्वभेदविवक्षया
प्रद्युम्नः पृथङ्नोक्तः विष्णोस्तु त्रीणि रूपाणि इतिवत् । सेयं प्रक्रिया
द्वितीयस्य सष्ठे दृश्यते यथा स एष आद्यः पुरुषः [भागवतम् २.९.३९] इत्यादि
पद्ये टीका स एष आद्यो भगवान् यः पुरुषावतारः सन् सृष्ट्य्आदिकं
करोति इत्येषा । एवमाद्योऽवतारः पुरुषः परस्य [भागवतम् २.६.४२] इत्यत्र टीका
परस्य भूम्नः पुरुषः प्रकृतिप्रवर्तको यस्य सहस्रशीर्षा [ऋक्१०.९०.१]
इत्याद्य्उक्तो लीलाविग्रहः स आद्योऽवतारः इत्येषा । तथा तृतीयस्य विंशे
देवेन [भागवतम् ३.२०.१२] इत्यादिकं सोऽनु इत्यन्तं सटीकमेव प्रकरणम्
अत्रानुसन्धेयम् । तस्माद्विराट्त्वेन तद्रूपं न व्याख्यातम् । तस्माच्च
वासुदेवस्थानीयो भगवान् पुरुषादन्य एवेत्यायातम् ।

अथ यस्य रूपद्वयस्य सामान्यत ऐकविध्येन स्वरूपमाह तद्वै
भगवतो रूपं विशुद्धं सत्त्वमूर्जितम् [भागवतम् १.३.३] इति । तत्श्रीभगवतः
पौरुषं रूपं वै प्रसिद्धौ विशुद्धोऽर्जितसत्त्वाभिव्यक्तत्वाच्छक्ति
स्वरूपयोरभेदाच्च तद्रूपमेवेत्यर्थः । उक्तं च द्वितीयं पुरुष
व्यूहमधिकृत्य स्वरूपत्वं तद्रूपस्य नातः परं परम यद्भवतः
स्वरूपम् [भागवतम् ३.९.३] इत्यत्र । विशुद्धं जाड्यांशेनापि रहितम्, स्वरूप
शक्तिवृत्तित्वात् । ऊर्जितं सर्वतो बलवत्परमानन्दरूपत्वात् को ह्येवान्यात्
कः प्राण्यात्यदेष आकाश आनन्दो न स्यात्[टैत्तू २.७.१] इति श्रुतेः । तस्माच्
छाक्षाद्भगवद्रूपे तु कैमुत्यमेवायातम् । तदेवं पुरुषस्य द्विधा
स्थानकर्मणी उक्त्वा स्वरूपवदाकारं त्वेकप्रकारमाह पश्यन्त्यदो
[षेए पर. ४] [Eन्दोf Vऋ. अद्दितिओन्.]

ततोऽत्रावान्तरभेदेऽप्यभेदस्वीकारेण द्विव्यूहोक्तिरित्येव विशेष इति
वासुदेवस्थानीयो भगवांस्तस्मादन्य एवेत्यायातम् । एवमेकादशे च
 [पगे ४]

भूतैर्यदा पञ्चभिरात्मसृष्टैः
पुरं विराजं विरचय्य तस्मिन् ।
स्वांशेन विष्टः पुरुषाभिधानम्
अवाप नारायण आदिदेवः ॥ [भागवतम् ११.४.३]

इत्यत्र तैरेव व्याख्यातम् । आदौ पुरुषावतारमाह भूतैरिति । यदा
स्वसृष्टैः भूतैः विराजं ब्रह्माण्डं पुरं निर्माय तस्मिन् लीलया
प्रविष्टः, न तु भोक्तृत्वेन । प्रभूतपुण्यस्य जीवस्य तत्र भोक्तृत्वादित्य्
एवमस्योत्तरत्र श्लोकद्वयेऽप्येवमेवार्थो दृश्यते । तथा द्वितीयस्य
षष्ठे स एष आद्यः पुरुषः [भागवतम् २.६.३९] इत्यादिपद्ये च टीका स एष आद्यो
भगवान् यः पुरुषावतारः सन् सृष्ट्य्आदिकं करोति इत्येषा । एवम्
आद्योऽवतारः पुरुषः परस्य [भागवतम् २.६.४२] इत्यस्य टीका च दर्शितैव । तथा
तृतीयस्य विंशे दैवेन [भागवतम् ३.२०.१२] इत्यादिकं सोऽनु [भागवतम् ३.२०.१७] इत्यन्तम्
सटीकमेव प्रकरणमत्रानुसन्धेयम् । तस्माद्विराट्त्वेन तद्रूपं
न व्याख्यातम् । अत्र महत्स्रष्टृब्रह्माण्डप्रविष्टपुरुषयोर्
अभेदेनैवोक्तिः ।

[३]

अथ तटस्थस्वरूपलक्षणाभ्यां तदेव विशिनष्टि

यस्यावयवसंस्थानैः कल्पितो लोकविस्तरः ।
तद्वै भगवतो रूपं विशुद्धं सत्त्वमूर्जितम् ॥ [भागवतम् १.३.३]

अवयवसंस्थानैः साक्षाच्छ्रीचरणादिसन्निवेशैर्लोकविस्तरो विराड्
आकारः प्रपञ्चः कल्पितः । यथा तद्अवयवसन्निवेशास्तथैव पातालम्
एतस्य हि पादमूलम् [भागवतम् २.१.२६] इत्यादिना नवीनोपासकान् प्रति मनः
स्थैर्याय प्रख्यापितः । न तु वस्तुतस्तदेव तस्याङ्गमित्यर्थः । तच्
छ्रीभगवतः पौरुषं रूपम् । वै प्रसिद्धौ । विशुद्धोर्ज्जित
सत्त्वाभिव्यक्तत्वाच्छक्तिस्वरूपयोरभेदाच्च तद्रूपमेवेत्यर्थः ।
उक्तं च स्वरूपत्वं तद्रूपस्य नातः परं परम यद्भवतः स्वरूपम्
[भागवतम् ३.९.३] इत्यत्र । विशुद्धं जाड्यांशेनापि रहितं स्वरूपशक्तिवृत्तित्वात् ।
ऊर्जितं सर्वतो बलवत्परमानन्दरूपत्वात् । को ह्येवान्यात्कः प्राण्यात्
यदेष आकाश आनन्दो न स्याद्[टैत्तू २.७.१] इति श्रुतेः ।

[४]

तदेवं स्थानकर्मस्वरूपाण्यभिधाय आकारमप्याह

पश्यन्त्यदो रूपमदभ्रचक्षुषा
सहस्रपादोरुभुजाननाद्भुतम् ।
सहस्रमूर्धश्रवणाक्षिनासिकं
सहस्रमौल्य्अम्बरकुण्डलोल्लसत् ॥ [भागवतम् १.३.४]
(पगे ५)
अदः पौरुषरूपमदभ्रचक्षुषा भक्त्य्आख्येन । पुरुषः स परः
पार्थ भक्त्या लभ्यस्त्वनन्यया [गीता ८.२२] इत्युक्तेः । अस्य सहस्र
पादादित्वं च व्यञ्जितं तृतीयस्याष्टमे श्रीमैत्रेयेण वेणु
भुजाङ्घ्रिपाङ्घेः [भागवतम् ३.८.२४] इति, दोर्दण्डसहस्रशाखम् [भागवतम् ३.८.२९]
इति, किरीटसाहस्रहिरण्यशृङ्गम् [भागवतम् ३.८.३०] इति च । तथा नवमस्य
चतुर्दशे श्रीशुकेन

सहस्रशिरसः पुंसो नाभिह्रदसरोरुहात् ।
जातस्यासीत्सुतो धातुरत्रिः पितृसमो गुणैः ॥ [भागवतम् ९.१४.२] इति ।

[५]

तस्य पूर्णत्वमेव विवृणोति

[B. रेअद्स्हेरे: तत्र श्रीभगवन्तं सुष्ठु स्पष्टीकर्तुं गर्भोदक
स्थस्य द्वितीयस्य पुरुषस्य व्यूहस्य नानावतारित्वं विवृणोति [एन्द्Vऋ.
रेअदिन्ग्.]

एतन्नानावताराणां निधानं बीजमव्ययम् ।
यस्यांशांशेन सृज्यन्ते देवतिर्यङ्नरादयः ॥ [भागवतम् १.३.५]

एतदिति ब्रह्माण्डस्थम् । निधानं सरोवराणां समुद्र इव स्वराश्मीन्
सूर्य इव सदैवाश्रयः । अतएवाव्ययमनपक्षयम् । बीजमुद्गम
स्थानम् । न केवलमवताराणां बीजं जगतोऽपीत्याह यस्येति ।

[६]

अथ प्राचुर्येण तद्अवतारान् कथयंस्तद्ऐक्यविवक्षया तद्अंशांशिनोर्
अप्यविर्भावमात्रं गणयति विंशत्या

स एव प्रथमं देवः कौमारं सर्गमाश्रितः ।
चचार दुश्चरं ब्रह्मा ब्रह्मचर्यमखण्डितम् ॥ [भागवतम् १.३.६]

योऽम्भसि शयानो यश्च सहस्रपादादिरूपः स एव पुरुषाख्यो देवः । एते
चांशकलाः पुंसः [भागवतम् १.३.२८] इत्युपसंहारस्यापि संवादात् । कौमारं
चतुःसनरूपम् । ब्रह्मा ब्रह्मणो भूत्वा ।
[७]

द्वितीयं तु भवायास्य रसातलगतां महीम् ।
उद्धरिष्यन्नुपादत्त यज्ञेशः सौकरं वपुः ॥ [भागवतम् १.३.७]

अस्य विश्वस्य उद्भवाय ।

[८]

तृतीयमृषिसर्गं वै देवर्षित्वमुपेत्य सः ।
तन्त्रं सात्वतमाचष्ट नैष्कर्म्यं कर्मणां यतः ॥ [भागवतम् १.३.८]

ऋषिसर्गमुपेत्य तत्रापि देवर्षित्वं नारदत्वमुपेत्य । सात्वतं
वैष्णवम् । तन्त्रं पञ्चरात्रागमम् । कर्मणा कर्माकारेणापि सतां श्री
भगवद्धर्माणां यतस्तन्त्रान्नैष्कर्म्यं कर्मबन्धमोचकत्वेन
कर्मभ्यो निर्गतत्वं तेभ्यो भिन्नत्वं प्रतीयते इति शेषः ।

[९]

तुर्ये धर्मकलासर्गे नरनारायणावृषी ।
भूत्वात्मोपशमोपेतमकरोद्दुश्चरं तपः ॥ [भागवतम् १.३.९]

स्पष्टम् ।

[१०]

पञ्चमः कपिलो नाम सिद्धेशः कालविप्लुतम् ।
प्रोवाचासुरये साङ्ख्यं तत्त्वग्रामविनिर्णयम् ॥ [भागवतम् १.३.१०]

आसुरिनाम्ने विप्राय ।

[११]

षष्ठमत्रेरपत्यत्वं वृतः प्राप्तोऽनसूयया ।
आन्वीक्षिकीमलर्काय प्रह्लादादिभ्य ऊचिवान् ॥ [भागवतम् १.३.११]

अत्रिणा तत्सदृशपुत्रोत्पत्तिमात्रं प्रकटं याचितमिति चतुर्थाद्य्
अभिप्रायः । एतद्वाक्येनानसूयया तु कदाचित्साक्षादेव श्रीमद्
ईश्वरस्यैव पुत्रभावो वृतोऽस्तीति लभ्यते । उक्तं च ब्रह्माण्डपुराणे
पतिव्रतोपाख्याने

अनसूयाब्रवीन्नत्वा देवान् ब्रह्मेशकेशवान् । (पगे ६)
यूयं यदि प्रसन्ना मे वरार्हा यदि वाप्यहम् ।
प्रसादाभिमुखो भूत्वा मम पुत्रत्वमेष्यथ ॥ इति ।

आन्वीक्षिकीमात्मविद्याम् । श्रीविष्णोरेवावतारोऽयम् ।

[१२]
ततः सप्तम आकूत्यां रुचेर्यज्ञोऽभ्यजायत ।
स यामाद्यैः सुरगणैरपात्स्वायम्भुवान्तरम् ॥ [भागवतम् १.३.१२]

स यज्ञस्तदा स्वयमिन्द्रोऽभूदित्यर्थः ।

[१३]

अष्टमे मेरुदेव्यां तु नाभेर्जात उरुक्रमः ।
दर्शयन् वर्त्म धीराणां सर्वाश्रमनमस्कृतम् ॥ [भागवतम् १.३.१३]

उरुक्रम ऋषभो जातः ।

[१४]

ऋषिभिर्याचितो भेजे नवमं पार्थिवं वपुः ।
दुग्धेमामोषधीर्विप्रास्तेनायं स उशत्तमः ॥ [भागवतम् १.३.१४]

पार्थिवं राजदेहं पृथुरूपम् । उशत्तमः कमनीयतमः ॥

[१५]

रूपं स जगृहे मात्स्यं चाक्षुषोदधिसम्प्लवे ।
नाव्यारोप्य महीमय्यामपाद्वैवस्वतं मनुम् ॥ [भागवतम् १.३.१५]

चाक्षुषमन्वन्तरे य उदधिसम्प्लवस्तस्मिन् । वैवस्वतमिति भाविनी
संज्ञा सत्यव्रतस्य । प्रतिमन्वन्तरावसानेऽपि प्रलयः श्रूयते । श्रीविष्णु
धर्मोत्तरे प्रथमकाण्डे मन्वन्तरे परिक्षीणे कीदृशी द्विज जायते
[१.७५.१] इति श्रीवज्रप्रश्नस्य मन्वन्तरे परिक्षीणे इत्यादि मार्कण्डेय
दत्तोत्तरे

ऊर्मिमाली महावेगः सर्वमावृत्य तिष्ठति ।
भूर्लोकमाश्रितं सर्वं तदा नश्यति यादव ॥
न विनश्यन्ति राजेन्द्र विश्रुताः कुलपर्वताः ।
नौर्भूत्वा तु महादेवी इत्यादि च । [१.७५.५६, ९]

एवमेव मन्वन्तरेषु संहार इत्यादि प्रकरणं श्रीहरिवंशे तदीय
टीकासु च स्पष्टमेव । अतश्चाक्षुषे वैवस्वतमित्युपलक्षणम् ।

[१६]

सुरासुराणामुदधिं मथ्नतां मन्दराचलम् ।
दध्रे कमठरूपेण पृष्ठ एकादशे विभुः ॥ [भागवतम् १.३.१६]

स्पष्टम् ।

[१७]

धान्वन्तरं द्वादशमं त्रयोदशममेव च ।
अपाययत्सुरानन्यान्मोहिन्या मोहयन् स्त्रिया ॥ [भागवतम् १.३.१७]

बिभ्रदित्युत्तरेणान्वयः । द्वादशमं धान्वन्तरं रूपं बिभ्रत् ।
त्रयोदशं मोहिनीरूपं बिभ्रत् । सुरानपाययत्सुधामिति शेषः । केन
रूपेण ? मोहिन्या स्त्रिया तद्रूपेणेत्यर्थः । किं कुर्वन् ? अन्यान् सुरान्
मोहयन्, धन्वन्तरिरूपेण सुधां चोपहरन्निति शेषः । अजितस्यावतारा
एते त्रयः ।

[१८]

चतुर्दशं नारसिंहं बिभ्रद्दैत्येन्द्रमूर्जितम् ।
ददार करजैरूरावेरकां कटकृद्यथा ॥ [भागवतम् १.३.१८]

नारसिंहं रूपं बिभ्रत् ।

[१९]

पञ्चदशं वामनकं कृत्वागादध्वरं बलेः ।
पदत्रयं याचमानः प्रत्यादित्सुस्त्रिपिष्टपम् ॥ [भागवतम् १.३.१९]

कृत्वा प्रकटय्य ।

[२०]

अवतारे षोडशमे पश्यन् ब्रह्मद्रुहो नृपान् ।
त्रिःसप्तकृत्वः कुपितो निःक्षत्रामकरोन्महीम् ॥ [भागवतम् १.३.२०]

अवतारे श्रीपरशुरामाभिधे । स्पष्टम् ।

[२१]

ततः सप्तदशे जातः सत्यवत्यां पराशरात् ।
चक्रे वेदतरोः शाखा दृष्ट्वा पुंसोऽल्पमेधसः ॥ [भागवतम् १.३.२१]

[२२]

नरदेवत्वमापन्नः सुरकार्यचिकीर्षया ।
समुद्रनिग्रहादीनि चक्रे वीर्याण्यतः परम् ॥ [भागवतम् १.३.२२]

नरदेवत्वं श्रीराघवरूपेण । अतः परमष्टादशे । अयं साक्षात्
पुरुष एव । स्कान्दे श्रीरामगीतायां विश्वरूपं दर्शयतस्तस्य ब्रह्म
विष्णुरुद्रकृतस्तुतेः श्रवणात् । (पगे ७)

[२३]

एकोनविंशे विंशतिमे वृष्णिषु प्राप्य जन्मनी ।
रामकृष्णाविति भुवो भगवानहरद्भरम् ॥ [भागवतम् १.३.२३]

भगवानिति साक्षाद्भगवत एवाविर्भावोऽयं न तु पुरुष
संज्ञस्यानिरुद्धस्येति विशेषप्रतिपत्त्य्अर्थम् । तत्र तस्य साक्षाद्रूपत्वात्
श्रीकृष्णरूपेण निजांशरूपत्वाद्रामरूपेणापि भारहारित्वं भगवत
एवेत्युभयत्रापि भगवानहरद्भरमिति श्लिष्टमेव । अतो रामस्याप्य्
अनिरुद्धावतारत्वं स्वयं प्रत्याख्यातम् । श्रीकृष्णस्य वासुदेवत्वाच्
छ्रीरामस्य च सङ्कर्षणत्वाद्युक्तमेव च तदिति ।

[२४]

ततः कलौ सम्प्रवृत्ते सम्मोहाय सुरद्विषाम् ।
बुद्धो नाम्नाञ्जनसुतः कीकटेषु भविष्यति ॥ [भागवतम् १.३.२४]

कीकटेषु गयाप्रदेशेषु ।

[२५]

अथासौ युगसन्ध्यायां दस्युप्रायेषु राजसु ।
जनिता विष्णुयशसो नाम्ना कल्किर्जगत्पतिः ॥ [भागवतम् १.३.२५]

युगसन्ध्यायां कलेरन्ते ।

[२६]

अथ श्रीहयग्रीवहरिहंसपृश्निगर्भविभुसत्यसेनवैकुण्ठाजित
सार्वभौमविश्वक्सेनधर्मसेतुसुधामयोगेश्वरबृहद्भान्व्
आदीनां शुक्लादीनां चानुक्तानां सङ्ग्रहार्थमाह

अवतारा ह्यसङ्ख्येया हरेः सत्त्वनिधेर्द्विजाः ।
यथाविदासिनः कुल्याः सरसः स्युः सहस्रशः ॥ [भागवतम् १.३.२६]

असङ्ख्येयत्वे हेतुः सत्त्वनिधेः सत्त्वस्य तत्प्रादुर्भावशक्तेः सेवधि
रूपस्य । तत्रैव दृष्टान्तः यथेति । अविदासिन उपक्षयशून्यात्सरसः
सकाशात् । [Vऋ. अद्द्स्: कुल्यास्तत्स्वभावकृता निर्झरा अविदासिन्यः सहस्रशः
सम्भवन्तीति । Vऋ. अद्दितिओनेन्द्स्.] अत्र येऽंशावतारास्तेषु चैष विशेषो
ज्ञेयः । श्रीकुमारनारदादिष्वाधिकारिकेषु ज्ञानभक्ति
शक्त्यांशावेशः । श्रीपृथ्व्आदिषु क्रियाशक्त्य्अंशावेशः । क्वचित्स्वयम्
आवेशस्तेषां भगवानेवाहमिति वचनात् । अथ श्रीमत्स्यदेवादिषु
साक्षाद्अंशत्वमेव । तत्र चांशत्वं नाम साक्षाद्भगवत्त्वेऽप्य्
अव्यभिचारितादृशतद्इच्छावशात्सर्वदैकदेशतयैवाभिव्यक्तशक्त्य्
आदिकत्वमिति ज्ञेयम् । तह्तैवोदाहरिष्यते रामादिमूर्तिषु कलानियमेन
तिष्ठन् [Bरह्मष्५.५०] इति ।

[२७]

अथ विभूतीराह

ऋषयो मनवो देवा मनुपुत्रा महौजसः ।
कलाः सर्वे हरेरेव सप्रजापतयः स्मृताः ॥ [भागवतम् १.३.२७]
कला विभूतयः । अल्पशक्तेः प्रकाशाद्विभूतित्वं महाशक्तेस्त्व्
आवेशत्वमिति भेदः ।

[२८]

तदेवं परमात्मानं साङ्गमेव निर्धार्यं प्रोक्तानुवादपूर्वकं
श्रीभगवन्तमप्याकारेण निर्धारयति

एते चांशकलाः पुंसः कृष्णस्तु भगवान् स्वयम् । इति [भागवतम् १.३.२८]
(पगे ८)
एते पूर्वोक्ताः । चशब्दादनुक्ताश्च प्रथममुद्दिष्टस्य पुंसः
पुरुषस्यांशकलाः । केचिदंशाः स्वयमेवांशाः साक्षाद्
अंशत्वेनांशांशत्वेन च द्विविधाः । केचिदंशाविष्टत्वादंशाः, केचित्तु
कलाविभूतयः । इह यो विंशतितमावतारत्वेन कथितः स कृष्णस्तु
भगवान् । पुरुषस्याप्यवतारी यो भगवान् स एष एवेत्यर्थः । अत्र
अनुवादमनुक्त्वैव न विधेयमुदीरयेदिति वचनात्कृष्णस्यैव
भगवत्त्वलक्षणधर्मित्वे सिद्धे मूलावतारित्वमेव सिध्यति न तु ततः
प्रादुर्भूतत्वम् । एतदेव व्यनक्ति स्वयमिति । तत्र च स्वयमेव
भगवान्, न तु भगवतः प्रादुर्भूततया न तु वा भगवत्त्वाध्यासेनेत्य्
अर्थः । न चावतारप्रकरणेऽपि पठित इति संशयः । पौर्वापर्ये पूर्व
दौर्बल्यं प्रकृतिवदिति न्यायात् । यथाग्निष्टोमे यद्युद्गाता विच्छिद्याद्
अदक्षिणेन यजेत यदि प्रतिहर्ता सर्वस्वदक्षिणेनेति श्रुतेः । तयोश्च
कदाचिद्द्वयोरपि विच्छेदे प्राप्ते विरुद्धयोः प्रायश्चित्तयोः
समुच्चयासम्भवे च परमेव प्रायश्चित्तं सिद्धान्तितं तद्वदिहापि इति ।

अथवा कृष्णस्त्विति श्रुत्या प्रकरणस्य बाधात् । यथा शङ्करशारीरिके
भाष्ये श्रुत्य्आदिबलीयस्त्वाच्च न बाधः [Vस्३.३.५०] इति सूत्रे, ते हैते
विद्याचित एव इति श्रुतिर्मनश्चिद्आदीनामग्नीनां प्रकरणप्राप्तं
क्रियानुप्रवेशप्रकरणेऽप्यन्यत्र क्वचिदपि भगवच्छब्दमकृत्वा
तत्रैव भगवानहरद्भरम् [भागवतम् १.३.२३] इत्यनेन कृतवान् ।

ततश्चास्यावतारेषु गणनात्तु स्वयं भगवानप्यसौ स्वरूपस्थ एव
निजपरिजनवृन्दानामानन्दविशेषचमत्काराय किमपि माधुर्यं
निजजन्मादिलीलया पुष्णन् कदाचित्सकललोकदृश्यो भवतीत्य्
अपेक्षयैवेत्यायातम् । यथोक्तं ब्रह्मसंहितायाम्

रामादिमूर्तिषु कलानियमेन तिष्ठन्
नानावतारमकरोद्भुवनेषु किन्तु ।
कृष्णः स्वयं समभवत्परमः पुमान् यो
गोविन्दमादिपुरुषं तमहं भजामि ॥ [Bष्५.३९]

अवताराश्च प्राकृतवैभवेऽवतरणमिति । श्रीकृष्णसाहचर्येण श्री
रामस्यापि पुरुषांशत्वात्ययो ज्ञेयः । अत्र तुशब्दोऽंशकलाभ्यः पुंसश्
च सकाशाद्भगवतो वैलक्षण्यं बोधयति । यद्वानेन तुशब्देन
सावधारणा श्रुतिरियं प्रतीयते । ततः सावधारणा श्रुतिर्बलवतीति
न्यायेन श्रुत्यैव श्रुतमप्यन्येषां महानारायणादीनां स्वयं
भगवत्त्वं गुणीभूतमापद्यते ।

एवं पुंस इति भगवानिति च प्रथममुपक्रमोद्दिष्टस्य शब्दद्वयस्य
तत्सहोदरेण तेनैव शब्देन च प्रतिनिर्देशात्तावेव खल्वेताविति
स्मारयति । उद्देशप्रतिनिर्देशयोः प्रतीति(पगे ९)स्थगिततानिरसनाय
विद्वद्भिरेक एव शब्दः प्रयुज्यते तत्समवर्णो वा । यथा
ज्योतिष्टोमाधिकरणे वसन्ते वसन्ते च ज्योतिषा यजेत इत्यत्र ज्योतिःशब्दो
ज्योतिष्ठोमविषयो भवतीति ।

अत्र तत्त्ववादगुरवस्तु चशब्दस्थाने स्वशब्दं पठित्वैवमाचक्षते
 एते प्रोक्ता अवताराः । मूलरूपी स्वयमेव । किंस्वरूपा ? स्वांशकला न
तु जीववद्भिन्नांशाः । यथा वाराहे

स्वांशश्चाथ विभिन्नांश इति द्वेधांश इष्यते ।
अंशिनो यत्तु सामर्थ्यं यत्स्वरूपं यथा स्थितिः ॥
तदेव नाणुमात्रोऽपि भेदः स्वांशांशिनोः क्वचित् ।
विभिन्नांशोऽल्पशक्तिः स्यात्किञ्चित्सामर्थ्यमात्रयुक् ॥ इति ।

अत्रोच्यते अंशानामंशिसामर्थ्यादिकं तद्ऐक्येनैव मन्तव्यम् । तत्र
यथाविदासिन इत्यादौ तस्याक्षयत्वेन तासामक्षयत्वं यथा तद्वत्
अंशांशित्वानुपपत्तेरेव । तथा च श्रीवासुदेवानिरुद्धयोः सर्वथा
साम्ये प्रसक्ते कदाचिदनिरुद्धेनापि श्रीवासुदेवस्याविर्भावना
प्रसज्यते । तच्च श्रुतिविपरीतमित्यसदेव । तस्मादस्त्येवावतार्य्
अवतारयोस्तारतम्यम् । अतएव तृतीयाष्टमे

आसीनमुर्व्यां भगवन्तमाद्यं
सङ्कर्षणं देवमकुण्ठसत्त्वम् ।
विवित्सवस्तत्त्वमतः परस्य
कुमारमुख्या मुनयोऽन्वपृच्छन् ॥

स्वमेव धिष्ण्यं बहु मानयन्तम् ।
यद्वासुदेवाभिधमामनन्ति । [भागवतम् ३.८.३४]

इत्यादौ वासुदेवस्य सङ्कर्षणादपि परत्वं श्रूयते । यत्तु तेषां तथा
व्याख्यानमत्र कृष्णस्त्वित्यनर्थकं स्यात् । भगवान् स्वयमित्य्
अनेनैवाभिप्रेतसिद्धेः । किं च तैः स्वयमेव प्रकाशादिवन्नैव परः
[Vस्२.३.४५] इति सूत्रे स्फुटमंशांशिभेदो दर्शितः । अंशत्वेऽपि न मत्स्यादि
रूपी पर एवंविधो जीवसदृशः । यथा तेजोऽंशस्यैव सूर्यस्य खद्योतस्य
च नैकप्रकारतेत्यादिना । तस्मात्स्थिते भेदे साध्वेव व्याख्यातं
कृष्णस्तु भगवान् स्वयमिति ।

इन्द्रारीति पद्यार्धं तत्र नान्वेति । तुशब्देन वाक्यस्य भेदनात् । तच्च
तावतैवाकाङ्क्षापरिपूर्तेः । एकवाक्यत्वे तु चशब्द एवाकरिष्यत् । ततश्
चेन्द्रारीत्यत्रार्थात्त एव पूर्वोक्ता एव मृडयन्तीत्यायाति ।

॥ १.३ ॥ श्रीसूतः ॥ २२८ ॥

[२९]

तदेवं श्रीकृष्णो भगवान् पुरुषस्तु सर्वान्तर्यामित्वात्परमात्मेति
निर्धारितम् । तत्राशङ्क्यते नन्विदमेकमंशित्वप्रतिपादकं वाक्यम्
अंशत्वप्रतिपादकबहुवाक्यविरोधे गुणवादः स्यात् । अत्रोच्यते तानि किं
श्रीभागवतीयानि परकीयाणि वा । आद्ये जन्मगुह्याध्यायो ह्ययं सर्व
भगवद्अवतारवाक्यानां सूत्रं सूचकत्वात्प्राथमिकपाठात्तैर्
उत्तरत्र तस्यैव विवरणाच्च । तत्र चैते चांशकलाः पुंस इति परिभाषेति ।
अवतारवाक्येषु अन्यान् पुरुषांशत्वेन जानीयात् । कृष्णस्तु स्वयं
भगवत्त्वेनेति प्रतिज्ञाकारेण ग्रन्थार्थनिर्णायकत्वात् । तदुक्तं
अनियमे नियमकारिणी परिभाषा इति ।

अथ परिभाषा च सकृदेव पठ्यते शास्त्रे न त्वभ्यासेन । [Vऋ. अद्द्स्:
यथा प्रतिषेधे परं कार्यमिति ।] ततश्च वाक्यानां कोटिरप्य्
एकेनैवामुना शासनीया भवेदिति नास्य गुणवादत्वं प्रत्युतैतद्
विरुद्धायमानानामेतदनुगुणार्थमेव वैदुषी । न च
परिभाषिकत्वात्तच्छास्त्र एव स व्यवहारो ज्ञेयः । न सर्वत्रेति गौणत्वम्
आशङ्क्यम् । परमार्थवस्तुपरत्वाच्छ्रीभागवतस्य (पगे १०) तत्राप्य्
आर्थिकत्वाच्च तस्याः परिभाषायाः ।

किं च प्रतिज्ञावाक्यमात्रस्य च दृश्यते परत्रापि नाना
वाक्यान्तरोपमर्दकत्वम् । यथाकाशस्यानुत्पत्तिश्रुतिः प्राणानां च तच्
छ्रुतिः स्वविरोधिनी नान्या श्रुतिश्च आत्मनि विज्ञाते सर्वमिदं विज्ञातं
भवति [Bआऊ ४.५.६] इदं सर्वं यदयमात्मा [Bआऊ २.४.६] इत्य्
आदिनोपमर्द्यते । अतएव स्वामिप्रभृतिभिरप्येतदेव वाक्यं तत्तद्
विरोधनिरासाय भूयो भूय एव दर्शितम् ।

तदेवं श्रीभागवतमते सिद्धे च तस्य वाक्यस्य बलवत्तमत्वे श्री
भागवतस्य सर्वशास्त्रोपमर्दकत्वेन प्रथमे सन्दर्भे प्रतिपन्नत्वात्
अस्मिन्नेव प्रतिपत्स्यमानत्वाच्च परकीयाणामप्येतदानुगुण्यमेव
विद्वज्जनदृष्टम् । यथा राज्ञः शासनं तथैव हि तद्अनुचराणामपीति ।
तत्र श्रीभागवतीयानि वाक्यानि तद्अनुगतार्थतया दर्श्यन्ते ।
तत्रांशेनावतीर्णस्य [भागवतम् १०.१.२] इत्यंशेन बलदेवेन सह इत्यर्थः ।
कलाभ्यां नितरां हरेः [भागवतम् १०.२०.४८] इति हरेः कला पृथ्वी, आभ्यां राम
कृष्णाभ्यामिति ।

दिष्ट्याम्ब ते कुक्षिगतः परः पुमान्
अंशेन साक्षाद्भगवान् भवाय नः ॥ [भागवतम् १०.२.४१]

इत्यत्र यो मत्स्यादिरूपेणांशेनैव पूर्वं नोऽस्माकं भवायाभूथे अम्ब
स तु साक्षात्स्वयमेव तव कुक्षिगतोऽस्तीति । ततो जगन्मङ्गलम्
अच्युतांशम् [भागवतम् १०.२.१८] इति तु सप्तम्य्अन्यपदार्थो बहुव्रीहिः । तस्मिन्न्
अंशिन्यवतरति तेषामंशानामप्यत्र प्रवेशस्य व्याख्यास्यमानत्वात् ।
पूर्णत्वेनैव तत्र सर्वात्मकमात्मभूतमित्युक्तम् । तथा च
नातिविद्वज्जनवाक्ये

एतौ भगवतः साक्षाद्धरेर्नारायणस्य हि ।
अवतीर्णाविहांशेन वसुदेवस्य वेश्मनि ॥ [भागवतम् १०.४३.२३]

इत्यत्रापि सरस्वतीप्रेरिततया अंशेन सर्वांशेन सहैवेत्यर्थः । एवमेव


ताविमौ वै भगवतो हरेरंशाविहागतौ ।
भारव्ययाय च भुवः कृष्णौ यदुकुरूद्वहौ ॥ [भागवतम् ४.१.५९]

इत्यत्र आगताविति कर्तरि निष्ठा । कृष्णाविति कर्मणि द्वितीया । ततश्च
भगवतो नानावतारबीजस्य हरेः पुरुषस्य ताविमौ नरनारायणाख्यौ
अंशौ कर्तृभूतौ कृष्णौ कृष्णार्जुनौ कर्मभूतावागतवन्तौ तयोः
प्रविष्टवन्तावित्यर्थः । कीदृशौ कृष्णौ ? भुवो भारव्ययाय । च
काराद्भक्तसुखदनानालीलान्तराय च । यदुकुरूद्वहौ यदुकुरु
वंशयोरवतीर्णावित्यर्थः । अर्जुने तु नरावेशः कृष्णो नारायणः स्वयम्
इत्यागमवाक्यं श्रीमद्अर्जुने नरप्रवेशापेक्षया । यस्तु स्वयम्
अनन्यसिद्धो नारायणो नारायणस्त्वं न हि सर्वदेहिनाम् [भागवतम् १०.१४.१४]
इत्यादिना दर्शितः । स पुनः कृष्ण इत्यर्थान्तरापेक्षया मन्तव्यम् । ययोर्
एव समं वीपर्यम् [भागवतम् १०.६०.१५] इत्यादि न्यायात् । तथा विष्णुधर्मे

यस्त्वां वेत्ति स मां वेत्ति यस्त्वामनु स मामनु ।
अभेदेनात्मनो वेद्मि त्वामहं पाण्डुनन्दन ॥ इति ।

तं प्रति श्रीभगवद्वाक्याच्चार्जुनस्यापि श्रीकृष्णसखत्वेन नारायण
सखान्नरात्पूर्णत्वात्तत्र प्रवेशः समुचित एव । कुत्रचिच्चांशादिशब्द
प्रयोगः नाहं प्रकाशः सर्वस्य योगमायासमावृतः [गीता ७.१५] इति श्री
गीतोपनिषद्दिशा पूर्णस्यापि साधारणजने खण्डांशप्रकाशात्(ড়गे ११)
तत्प्रतीतावेवांश इवांश इति ज्ञेयम् । नारायणसमो गुणैः [भागवतम् १०.८.१९]
इत्यत्रापि नारायणः परव्योमाधिप एव गुणैः समो यस्येत्येव
गर्गाभिप्रायः । तदेवं महाकालपुराख्यानेऽपि प्रतिज्ञावाक्यमिदम्
अधिकुर्यात् । किं च शास्त्रं हि शासनात्मकम् । शासनं चोपदेशः । स च
द्विधा साक्षादर्थान्तरद्वारा च । साक्षाद्उपदेशस्तु श्रुतिरिति
परिभाष्यते । साक्षात्त्वं चात्र निरपेक्षत्वमुच्यते । तदुक्तं निरपेक्ष
रवा श्रुतिरिति । तथा च सति श्रुतिलिङ्गवाक्यप्रकरणस्थान
समाख्यानां समवाये पारदौर्बल्यमर्थविप्रकर्षात्[ञैमिनीसूत्र
३.३.१४] इत्युक्तानुसारेण चरमस्य पूर्वापेक्षया दूरप्रतीत्य्अर्थत्वे कृष्णस्
तु भगवान् स्वयमिति श्रीशौनकं प्रति श्रीसूतस्य साक्षाद्उपदेशेन
इतिहासद्वारोपदेशो बाध्यते । न च मे कलावतीर्णौ [भागवतम् १०.८९.५८] इति च
महाकालपुराधिप एव श्रीकृष्णं साक्षादेवोपदिष्टवानिति वाच्यम् । श्री
कृष्णस्य सार्वज्ञ्याव्यभिचारेण वक्तृश्रोतृभावपूर्वक
सङ्गमाप्रस्तावेन द्विजात्मजा मे युवयोर्दिदृक्षुणा [भागवतम् १०.८९.५८] इति
कार्यान्तरतात्पर्यदर्शनेन च । तस्यैतन्महापुराणस्य च
तत्त्वोपदेष्टृसूतादिवत्तद्उपदेशे तात्पर्याभावाद्वक्ष्यमाणार्थान्तर
एव नैकट्येन पदसम्बन्धाच्च ।

किं च भवतु वा तुष्यतु न्यायेन श्रीकृष्णस्य तमपेक्ष्यापूर्णत्वम्,
तथापि सर्वेषामप्यवताराणां नित्यमेव स्वस्थत्वेन
दर्शयिष्यमाणत्वात्केषांचिन्मते तु स्वयं पुरुषत्वेऽपि स्वतन्त्र
स्थितित्वात् । युवां नरनारायणावृषी [भागवतम् १०.८९.५९] इति, त्वरयेतामन्ति मे
[भागवतम् १०.८९.५९] इति च तत्तद्अर्थत्वे विरुध्येत । अस्तु तावदस्माकमन्या
वार्ता, न च कुत्रापि महाकालोऽयमंशेन तत्तद्रूपेणावतीर्ण इत्य्
उपख्यायते वा । ततश्चाप्रसिद्धकल्पना प्रसज्जते । तत्रैव च त्वरयेतम्
अन्ति मे इति युवां नरनारायणावृषी धर्ममाचरतामित्यादेशद्वयस्य
पारस्परिकविरोधः स्फुट एव ।

किं च, यदि तस्य तावंशावभविष्यतां तर्हि करतलमणिवत्सदा सर्वम्
एव पश्यन्नसौ तावपि दूरतोऽपि पश्यन्नेवाभविष्यत् । तच्च युवयोर्
दिदृक्षुणेति तद्वाक्येन व्यभिचारितम् । यदि स्वयमेव श्रीकृष्णस्तत्तद्
रूपावात्मानौ दर्शयति तदैव तेन तौ दृश्येयातामित्यानीतं च । तथा
च सति, तयोर्दृश्यत्वाभावादंशत्वं नोपपद्यते । तस्मादप्यधिक
शक्तित्वेन प्रत्युत पूर्णत्वमेवोपपद्यते ।

एवमपि यत्त्वर्जुनस्य तज्ज्योतिःप्रताडिताक्षत्वं तद्दर्शनजात
साध्वसत्वं च जातं तत्र स्वयमेव भगवता तत्तल्लीलारसौपयिक
मात्रशक्तेः प्रकाशनादन्यस्याः स्थिताया अपि कुण्ठनान्न विरुद्धम् ।
दृश्यते च स्वस्यापि क्वचिद्युद्धे प्राकृतादपि पराभवादिकम् । यथात्रैव
तावत्स्वयमेव वैकुण्ठादागतानामप्यश्वानां प्राकृततमसा
भ्रष्टगतित्वम् । तदेवमेव श्रीकृष्णस्य तस्मिन् भक्तिभर
दर्शनेनाप्यन्यथा न मन्तव्यम् । श्रीरुद्रादौ श्रीनारदादौ च तथा
दर्शनात् ।

एवमत्र परत्र वा तदीयलीलायां तु पूर्वपक्षो नास्ति तस्य
स्वराचरणत्वात् । अतस्तदीयतात्पर्य(पगे १२)शब्दोत्थावर्थावेवमेव
दृश्येते । तत्तात्पर्योत्थो यथासौ श्रीकृष्णः स्वयं भगवानपि यथा
गोवर्धनमखलीलायां श्रीगोपगणविस्मापनकौतुकाय काञ्चिन्निजां
दिव्यमूर्तिं प्रदर्शयन् तैः सममात्मनैवात्मानं नमश्चक्रे ।
तथैवार्जुनविस्मापनकौतुकाय महाकालरूपेणैवात्मना द्विज
बालकान् हारयित्वा पथि च तं तं चमत्कारमनुभाव्य महाकालपुरे
च तां कामपि निजां महाकालाख्यं दिव्यमूर्तिं दर्शयित्वा तेन समं
तद्रूपमात्मानं नमश्चक्रे । तद्रूपेणैव सार्जुनमात्मानं तथा
बभाषे च । तदुक्तं तस्मै नमो व्रजजनैः सहचक्रेऽत्मनात्मनै
[भागवतम् १०.२४.३६] इतिवत् । अत्रापि बबन्ध आत्मानमनन्तमच्युतः [भागवतम्
१०.८९.३१] इति । अतएव हरिवंशे तत्समीपज्योतिरुद्दिश्य चार्जुनं प्रति श्री
कृष्णेनोक्तं मत्तेजस्तत्सनातनम् [ःV २.११४.९] इति ।

अथ शब्दोत्थोऽप्यर्थो यथा तत्र श्रीमहाकालमुद्दिश्य
पुरुषोत्तमोत्तमम् [भागवतम् १०.८९.५४] इति विशेषणस्यार्थः । पुरुषो जीवस्तस्माद्
उत्तमस्तद्अन्तर्यामी तस्मादुत्तमं भगवत्प्रभावरूपमहाकाल
शक्तिमयं तमिति ।

अथ श्रीमहाकालवाक्यस्य

द्विजात्मजा मे युवयोर्दिदृक्षुणा
मयोपनीता भुवि धर्मगुप्तये ।
कलावतीर्णाववनेर्भरासुरान्
हत्वेह भूयस्त्वरयेतमन्ति मे ॥ [भागवतम् १०.८९.५९]

इत्यस्य युवयोर्युवां दिदृक्षुणा मया द्विजपुत्रा मे मम भुवि धाम्नि
उपनीता आनीता इत्येकं वाक्यम् । वाक्यान्तरमाह हे धर्मगुप्तये
कलावतीर्णौ कला अंशास्तद्युक्ताववतीर्णौ मध्यमपदलोपी
समासः । कलायामंशलक्षणे मायिकप्रपञ्चेऽवतीर्णौ वा पादोऽस्य
विश्वा भूतानि [ऋव्१०.९०.३] इति श्रुतेः । भूयः पुनरपि अवैशिष्टानवनेर्
भरासुरान् हत्वा मे मम अन्ति समीपाय समीपमागमयितुं युवां
त्वरयेतं त्वरतम् । अत्र प्रस्थाप्य तान्मोचयतमित्यर्थः । तद्धतानां
मुक्तिप्रसिद्धेः । महाकालज्योतिरेव मुक्ताः प्रविशन्तीति ब्रह्म
तेजोमयं दिव्यं महद्यद्दृष्टवानसि [ःV २.११४.९] इति श्रीहरिवंशोक्तेश्
च । त्वरयेतमिति प्रार्थनायां हेतुणिज्अन्तस्य लिङि रूपमन्तीत्य्अव्ययाच्
चतुर्थ्यां लुक्, चतुर्थी च एधोभ्यो व्रजतीतिवत्क्रियार्थोपपस्य च कर्मणि
स्थानिनः [पाणिनि २.३.१४] इति स्मरणात् । कटं कृत्वा प्रस्थापयतीतिवदुभयोर्
एकेनैव कर्मणान्वयः । तस्मादेक एवार्थः स्पष्टमकष्टो भवति ।
अर्थान्तरे तु सम्भवत्येकपदत्वे पदच्छेदः कष्टाय कल्प्यते ।

तथा
पूर्णकामावपि युवां नरनारायणावृषी ।
धर्ममाचरतां स्थित्यै ऋषभौ लोकसङ्ग्रहम् ॥ [भागवतम् १०.८९.६०]

इत्यस्य न केवलमेतद्रूपेणैव युवां लोकहिताय प्रवृत्तौ । अपि
वैभवान्तरेणापीति स्तौति पूर्णेति । स्वयं भगवत्त्वेन तत्सखत्वेन च
ऋषभौ सर्वावतारावतारिश्रेष्ठावपि (पगे १३) पूर्णकामावपि स्थित्यै
लोकरक्षणाय लोकसङ्ग्रहं लोकेषु तत्तद्धर्मप्रचारहेतुकं
धर्ममाचरतां कुर्वतां मध्ये युवां नरनारायणावृषी इत्यनयोर्
अल्पांशत्वेन विभूतिवन्निर्देशः । उक्तं चैकादशे श्रीभगवता विभूति
कथन एव नारायणो मुनीनां च [भागवतम् ११.१६.२५] इति । धार्मिकमौलित्वाद्
द्विजपुत्रार्थमवश्यमेष्यथ इत्यत एव मया तथा व्यवसितमिति
भावः । तथा च हरिवंशे श्रीकृष्णवाक्यम्

मद्दर्शनार्थं ते बाला हृतास्तेन महात्मना ।
विप्रार्थमेष्यते कृष्णो नागच्छेदन्यथा त्विह ॥ [ःV २.११४.८]

अत्राचरतमित्यर्थे आचरतामिति प्रसिद्धमित्यतश्च तथा न
व्याख्यातम् । तस्मान्महाकालतोऽपि श्रीकृष्णस्यैवाधिक्यं सिद्धम् । तद्
एतन्महिमानुरूपमेवोक्तं

निशाम्य वैष्णवं धाम पार्थः परमविस्मितः ।
यत्किञ्चित्पौरुषं पुंसां मेने कृष्णानुकम्पितम् ॥ [भागवतम् १०.८९.६३]

अत्र महाकालानुभावितमिति तु नोक्तम् । एवमेव स चेतिक्षणो भगवान्
श्रीकृष्ण एवेति दर्शयितुमाख्यानान्तरमाह एकदा [भागवतम् १०.८९.२१] इति । श्री
स्वामिलिखितैतत्प्रकरणचूर्णिकापि सुसङ्गता भवति ।

अथ परकीयाण्यपि विरुद्धायमानानि वाक्यानि तद्अनुगतार्थतया
दृश्यन्ते । तत्र श्रीविष्णुपुराणे उज्जहारात्मनः केशौ सितकृष्णौ महा
मुने [Vइড়् ५.१.५९] इति । महाभारते [१.१८९.३१३२]

स चापि केशौ हरिरुद्बबर्ह
शुक्लमेकमपरं चापि कृष्णम् ।
तौ चापि केशौ विशतां यदूनां
कुले स्त्रियो रोहिणीं देवकीं च ।

तयोरेको बलभद्रो बभूव
योऽसौ श्वेतस्तस्य देवस्य केशः ।
कृष्णो द्वितीयः केशवः सम्बभूव
केशो योऽसौ वर्णतः कृष्ण उक्तः ॥ इति ॥[*Eण्ड्ण्Oट्E ॰१]

अत्र तात्पर्यं स्वामिभिरित्थं विवृतं भूमेः सुरेतरवरूथ [भागवतम्
२.७.२६] इत्यादिपद्ये । सितकृष्णकेश इत्यत्र सितकृष्णकेशत्वं शोभैव न
तु वयःपरिणामकृतमविकारित्वात् । यच्च उज्जहारात्मनः केशावित्यादि
तत्तु न केशमात्रावताराभिप्रायं किन्तु भूभारावतारणरूपं कार्यं
कियदेतदात्मकेशौ एव तत्कर्तुं शक्ताविति द्योतनार्थं रामकृष्णयोर्
वर्णसूचनार्थं च केशोद्धरणमिति गम्यते । कृष्णस्तु भगवान्
स्वयमित्येतद्विरोधनाच्चेति । इदमप्यत्र तात्पर्यं सम्भवति ।

ननु देवाः किमर्थं मामेवातारयितुं भवद्भिरागृह्यते
अनिरुद्धाख्यपुरुषप्रकाशविशेषस्य क्षीरोदश्वेतद्वीपधाम्नो
मम यौ केशाविव स्वस्वशिरोधार्यभूतौ तावेव श्रीवासुदेव
सङ्कर्षणौ स्वयमेवावतरिष्यतः । ततश्च भूभारहरणं ताभ्याम्
ईषत्करमेवेति । अथ उज्जहारात्मनः केशावित्यस्यैव शब्दोऽर्थोऽपि
मुक्ताफलटीकायां केशौ सुखस्वामिनौ सितो रामः आत्मनः सकाशाद्
उज्जहार उद्धृतवान् ।

हरिवंशे हि कस्यांचिद्गिरिगुहायां भगवान् स्वमूर्तिं निक्षिप्य गरुडं
च तत्रावस्थाप्य स्वयमत्रागत इत्युक्तम् । तदुक्तं स देवान्
अभ्यनुज्ञाय [ःV १.५५.५०] इत्यादि । यैस्तु यथाश्रुतमेवेदं व्याख्यातं
ते न सम्यक्परामृष्टवन्तः यतः सुरमात्रस्यापि निज्ररत्वप्रसिद्धिः ।
अकालकलिते भगवति जरानुदयेन केशशौक्ल्यानुपपत्तिः । न चास्य
केशस्य नैसर्गिकसितकृष्णतेति प्रमाणमस्ति । अतएव नृसिंहपुराणे
कृष्णावतारप्रसङ्गे शक्तिशब्द एव प्रयुज्यते न तु केशशब्दः । तथा
हि

वसुदेवाच्च देवक्यामवतीर्य यदोः कुले ।
सितकृष्णे च मच्छक्ती कंसाद्यान् घातयिष्यतः ॥ (णृसिंहড়् ५३.३०३१)

इत्यादिना । अस्तु तर्हि अंशोपलक्षकः केशशब्दः । (पगे १४) न, अविप्लुत
सर्वशक्तित्वेन साक्षाद्आदिपुरुषत्वेन निश्चेत्तुं शक्यत्वात् । कृष्णविष्ण्व्
आदिशब्दानामविशेषतः पर्यायप्रतीतेश्च । नैवमवतारान्तरस्य कस्य
वान्यस्य जन्मदिनं जयन्त्याख्ययातिप्रसिद्धम् । अतएवोक्तं भारते
(१.१.१९३?)[*Eण्ड्ण्Oट्E ॰२]

भगवान् वासुदेवश्च कीर्त्यतेऽत्र सनातनः ।
शाश्वतं ब्रह्म परमं योगिध्येयं निरञ्जनम् ॥ इति ।

तस्याकालकलितत्वं योऽयं कालस्तस्य तेऽव्यक्तबन्धो चेष्टामाहुः [भागवतम्
१०.३.२६] इत्यादौ श्रीदेवकीदेवीवाक्ये,

नताः स्म ते नाथ सदाङ्घ्रिपङ्कजं
विरिञ्चिवैरिञ्च्यसुरेन्द्रवन्दितम् ।
परायणं क्षेममिहेच्छतां परं
न यत्र कालः प्रभवेत्परः प्रभुः ॥ [भागवतम् १.११.६]

इत्यादौ श्रीद्वारकावासिवाक्ये च प्रसिद्धम् ।

अतो यत्प्रभासखण्डे केशस्य बालत्वमेव तत्सितिम्नः कालकृतपलित
लक्षणत्वमेव च दर्शितम्, तस्य शरीरिणां शुक्लवैराग्यप्रतिपादन
प्रकरणपतितत्वेन सुरमात्रनिर्जरताप्रसिद्धत्वेन चामुख्यार्थत्वान्
न स्वार्थप्रामाण्यम् । ब्रह्मा येन इत्यारभ्य,

विष्णुर्येन दशावतारग्रहणे क्षिप्तो महासङ्कटे ।
रुद्रो येन कपालपाणिरभितो भिक्षाटनं कारितम् ॥ [ङर्ড়् १.११३.१५]

इत्यादौ तस्मै नमः कर्मणे इति गरुडवचनात् । किन्तु तत्प्रतिपादनाय
शब्दसाम्येन छलोक्तिरेवेयम् । यथा

अहो कनकदौरात्म्यं निर्वक्तुं केन युज्यते ।
नामसाम्यादसौ यस्य धूस्तरोऽपि मदप्रदः ॥ इति ।

शिवशास्त्रीयत्वाच्च नात्र वैष्णवसिद्धान्तविरुद्धस्य तस्योपयोगः । यत
उक्तं स्कान्द एव षण्मुखं प्रति श्रीशिवेन शिवशास्त्रेऽपि तद्ग्राह्यं
भगवच्छास्त्रयोगि यतिति । अन्यतात्पर्यकत्वेन स्वतस्तत्राप्रामाण्याद्
युक्तं चैतत्यथा पङ्केन पङ्काम्भ [भागवतम् १.८.५२] इत्यादिवत् ।

पाद्मोत्तरखण्डे च शिवप्रतिपादकानां पुराणानामपि तामसत्वमेव
दर्शितम् । मात्स्येऽपि तामसकल्पकथामयत्वमिति युक्तं च तस्य वृद्ध
सूतस्य श्रीभागवतमपठितवतः श्रीबलदेवावज्ञातुः श्रीभगवत्
तत्त्वासम्यक्ज्ञानजं वचनमेवं वदन्ति राजर्षे ऋषयः केचनान्विताः
[भागवतम् १०.७७.३०] इतिवत् । एतादृश श्रीभागवतवाक्येन स्वविरुद्ध
पुराणान्तरवचनबाधनं च । यथेह कर्मजितो लोकः क्षीयत [Cहाऊ
८.१.६] इत्यादि वाक्येन उपाम सोमममृता अभूम [ऋक्८.४८.३] इत्यादिवचन
बाधनवज्ज्ञेयम् । अत्रापि यत्स्ववचो विरुद्धेत नूनं ते न स्मरन्त्य्
अमुम् [भागवतम् १०.७७.३०] इति युक्तिसद्भावओ दृश्यते । तत्रैवात्मनः
सन्दिघ्दत्वमेव तेन सूतेन व्यञ्जितम् । अचिन्त्या खलु ये भावा न तांस्
तर्केण योजयेदित्यादिना ।

किं च तत्रैवोत्तरग्रन्थे कलङ्कापत्तिकारणकथने श्रीकृष्णावतार
प्रसङ्गे स्वयं विष्णुरेवेत्युक्तत्वात्स्वेनैव विरोधश्च । तस्मान्न
केशावतारत्वेऽपि तात्पर्यं केशशब्दस्य बालत्ववाचनं च । छलतो
भगवत्तत्त्वाज्ञानतो वेति । अतो वैष्णवादिपद्यानां शब्दोत्तमर्थमेवं
पश्यामः

अंशवो ये प्रकाशन्ते मम ते केशसंज्ञिताः ।
सर्वज्ञाः केशवं तस्मान्मामाहुर्मुनिसत्तम ॥ [ंBह्१२.३२८.४३]

इति सहस्रनामभाष्योत्थापितभारतवचनात्केशशब्देनांशुरुच्यते ।
तत्र च सर्वत्र केशेतरशब्दाप्रयोगात्नानावर्णांशूनां श्रीनारद(पगे
१५)दृष्टतया मोक्षधर्मप्रसिद्धेश्च । तथा चांशुत्वे लब्धे तौ
चांशू वासुदेवसङ्कर्षणावतारसूचकतया निर्दिष्टाविति तयोरेव स्याताम्
इति गम्यते । तदीययोरपि तयोरनिरुद्धेऽभिव्यक्तिश्च युज्यत एव ।
अवतारितोजोऽन्तर्भूतत्वादवतारस्य । एवमेव सत्त्वं रजस्तम [भागवतम् १.२.२३]
इत्यादिप्रथमस्कन्धपद्यप्राप्तमनिरुद्धाख्यपुरुषावतारत्वं
भवानीनाथैर्[भागवतम् ५.१७.१६] इत्य्आदिपञ्चमस्कन्धगद्यप्राप्तं
सङ्कर्षणावतारत्वं च भवस्य संगच्छते । ततश्चोज्जहारेत्यस्यायम्
अर्थः आत्मनः सकाशात्श्रीवासुदेवसङ्कर्षणांशभूतौ केशावंशू
उज्जहार उद्धृतवान् प्रकटीकृत्य दर्शितवानित्यर्थः । अत्रायं सुमेरुर्
इत्येकदेशदर्शनेनैवाखण्डमेरुनिर्देशवत्तद्दर्शनेनापि
पूर्णस्यैवाविर्भावनिर्देशो ज्ञेयः ।

अथ च सापि केशावित्यादिकव्याख्या । उद्वदर्हे योगबलेनात्मनः सकाशाद्
विच्छिद्य दर्शयामास । स चापीति चशब्दः पूर्वमुक्तं देवकर्तृकं
निवेदनरूपमर्थं समुच्चिनोति । अपिशब्दस्तद्उद्बर्हणे श्रीभगवत्
सङ्कर्षणौ स्वयं हेतुकर्तृत्वं सूचयति । तौ चापीति चशब्दोऽनुक्त
समुच्चयार्थत्वेन भगवत्सङ्कर्षणौ स्वयमाविविशतुः । पश्चात्तौ च
तत्तादात्म्येनाविविशतुरिति बोधयति । अपिशब्दो यत्रानुस्यूतावमू सोऽपि
तद्अंशा अपीति गमयति । तयोरेको बलभद्रो बभूवेत्य्आदिकं तु नरो
नारायणो भवेत् । हरिरेव भवेन्नर इत्यादिवत्तद्ऐक्यावाप्त्य्अपेक्षया ।

केशवः श्रीमथुरायां केशवस्थानाख्यमहायोगपीठाधिपत्वेन
प्रसिद्धः । स एव कृष्ण इति । अत एवोदाहरिष्यते भूमेः सुरेतर [भागवतम् २.७.२६]
इत्यादि । श्रीनृसिंहपुराणे सितासिते च मच्छक्ती इति तच्छक्तिद्वारैव श्री
कृष्णेन ताद्घातनापेक्षया । अर्जुने तु नरावेशः कृष्णो नारायणः स्वयम्
इत्यागमवाक्यं तु श्रीमद्अर्जुने नरप्रवेशापेक्षया । यस्तु स्वयम्
अन्यथा सिद्धो नारायणः नारायणस्त्वं न हि सर्वेदेहिनामित्यादौ
दर्शितः । स पुनः कृष्ण इत्यर्थान्तर्अपेक्षया च मन्तव्यम् । अतएव
पुरुषनारायणस्य तथागमनप्रतिपादकश्रीहरिवंशवाक्यमपि तत्
तेजःसमाकर्षणविवक्षयैवोक्तम् । सर्वेषां प्रवेशश्च तस्मिन् स
युक्तिकमेवोदारणीयः ।

अतः पाद्मोत्तरखण्डे नृसिंहरामकृष्णेषु षाड्गुण्यं परिपूरणमित्य्
आवतारान्तरसाधारण्यमपि न मन्तव्यम् । किन्त्ववताराणां प्रसङ्गे
तेषु श्रेष्ठे विविदिषिते सामान्यतस्तावत्सर्वश्रेष्ठास्त्रय उक्तास्तेष्वप्य्
उत्तरोत्तरत्राधिक्यक्रमाभिप्रायेण श्रीकृष्णश्रैष्ठ्यं विवक्षितम् ।

अतएव श्रीविष्णुपुराणे मैत्रेयेण हिरण्यकशिपुत्वादिषु तयोरमुक्ति
मुक्तिकारणे पृष्टे श्रीपराशरोऽपि (पगे १६) श्री
कृष्णस्यैवात्युद्भटैश्वर्यमाह । किं च श्रीकृष्णमप्राप्यान्यत्र त्व्
असुराणां मुक्तिर्न सम्भवति । एवकारद्वयेन स्वयमेव श्रीगीतासु
तथा सूचनात्

तानहं द्विषतः क्रूरान् संसारेषु नराधमान् ।
क्षिपाम्यजस्रमशुभानासुरीष्वेव योनिषु ॥
आसुरीं योनिमापन्ना मूढा जन्मनि जन्मनि ।
मामप्राप्यैव कौन्तेय ततो यान्त्यधमां गतिम् ॥ [गीता १६.१९२०] इति ।

कुत्रचिद्भगवद्द्वेषिणां तत्स्मरणादिप्रभावेन श्रूयतां वा मुक्तिः ।
सर्वेषामपि तद्द्वेषिणां तु मुक्तिप्रदत्वमन्यत्रावतारेऽवतारिणि वा न
क्वचित्श्रूयते । तस्मात्तेषामपि मुक्तिदातृत्वाय श्रीकृष्ण
एवैश्वर्याधिक्यं युक्तमेव वर्णायामास श्रीपराशरः । अतएव पूर्वम्
ऐश्वर्यसाक्षात्कारस्य मुक्तिहेतुत्वमुक्त्वा पुनः पूतनादिमोक्षं
विचिन्त्य कालनेम्य्आदीनां च तद्अभावमाशङ्क्य तदप्यसहमानस्
तस्य तु श्रीकृष्णाख्यस्य भगवतः परमाद्भुतस्वभाव एवायमित्य्
उवाच सर्वान्तिमगद्येन अयं हि भगवान् कीर्तितः संस्मृतश्च
द्वेषानुबन्धेनाप्यखिलसुरासुरादिदुर्लभं फलं प्रयच्छति किमुत
सम्यक्भक्तिमताम् [Vइড়् ४.१५.१७] इत्यनेन ।

अतः श्रीभागवतमते तयोर्जन्मत्रयनियमश्च श्रीकृष्णादेव
मोक्षः सम्भवेदित्यपेक्षयैवेति ज्ञेयम् । अतएव श्रीनारदेनापि तम्
उद्दिश्यैवोक्तं वैरेण यं नृपतयः [भागवतम् ११.५.४८] इत्यादि । सर्वेषां
मुक्तिदत्वं च तस्य कृष्णस्य निजप्रभावातिशयेन यथा कथञ्चित्स्मर्तृ
चित्ताकर्षणातिशयस्वभावात् । अन्यत्र तु तथा स्वभावो नास्तीति नास्ति
मुक्तिदत्वम् । अतएव वेणस्यापि विष्णुद्वेषिणस्तद्वदावेशाभावात्मुक्त्य्
अभाव इति । अतएवोक्तं तस्मात्केनाप्युपायेन मनः कृष्णे निवेशयेत्[भागवतम्
७.१.३१] इति ।

तस्मादस्त्येव सर्वतोऽप्याश्चर्यतमा शक्तिः श्रीकृष्णस्य इति सिद्धम् । तद्
एवं विरोधपरिहारेण विरुद्धार्थानामप्यर्थानुकूल्येन श्रीकृष्णस्य
स्वयं भगवत्त्वमेव दृढीकृतम् । तत्र च वेदान्तसूत्रादावप्येकस्य
महावाक्यस्य नानावाक्यविरोधपरिहारेणैव स्थापनीया दर्शनान्
नाप्यत्रैवेदृशमित्यश्रद्धेयम् । वाक्यानां दुर्बलबलित्वमेव
विचारणीयम्, न तु बह्व्अल्पता । दृश्यते च लोके एकेनापि युद्धे सहस्र
पराजय इति । एवं च बहुव्विरोधपरिहारेणैव स्वस्मिन् श्रीकृष्णाख्ये
परब्रह्मणि सर्ववेदाभिधेयत्वमाह

किं विधत्ते किमाचष्टे किमनूद्य विकल्पयेत् ।
इत्यस्या हृदयं लोके नान्यो मद्वेद कश्चन ॥
मां विधत्तेऽभिधत्ते मां विकल्प्यापोह्यते त्वहम् ।
एतावान् सर्ववेदार्थः शब्द आस्थाय मां भिदाम् ॥ [भागवतम् ११.२१.४२४३] इति ।

विकल्प्य विविधं कल्पयित्वा अपोह्यते, तत्तन्निषेधेन सिद्धान्त्यते यत्तद्
अहं श्रीकृष्णलक्षणं वस्त्विति ॥

॥ ११.१२ ॥ श्रीभगवान् ॥ २९ ॥

[३०]
तदेवं कृष्णस्तु भगवान् स्वयमित्येतत्प्रतिज्ञावाक्याय महावीर
राजायेवात्मनैव निर्जित्यात्मसात्कृतविरोधिशतार्थायापि शोभाविशेषेण
प्रेक्षावतामानन्दनार्थं चतुरङ्गिनीं सेनामिवान्यामपि वचन
श्रेणीमुपहरामि । तत्र तस्य लीलावतारकर्तृत्वमाह

मत्स्याश्वकच्छपनृसिंहवराहहंस
राजन्यविप्रविबुधेषु कृतावतारः
त्वं पासि इत्य्आदि [१०.२.४०] । स्पष्टम् ॥

॥ १०.२ ॥ देवाः श्रीभगवन्तम् ॥ ३० ॥
(पगे १७)

[३१]

तथा, सुरेष्वृषिष्वीश तथैव [भागवतम् १०.१४.२] इत्यादि । स्पष्टम् ॥

॥ १०.१४ ॥ ब्रह्मा तम् ॥ ३१ ॥

[३२]

तथा, बहूनि सन्ति नामानि रूपाणि च सुतस्य ते [भागवतम् १०.८.१५] इत्यादि ।
स्पष्टम् ॥
॥ १०.८ ॥ गर्गः श्रीव्रजेश्वरम् ॥ ३२ ॥

[३३]

एवं, यस्यावतारा ज्ञायन्ते शरीरेष्वशरीरिणः [भागवतम् १०.१०.३४] इत्यादि ।
शरीरेष्वशरीरिण इत्यपि ज्ञाने हेतुगर्भविशेषणम् ।

शरीरिषु मध्येऽप्यवतीर्णस्य यतः सतः स्वयमशरीरिणः । नातः परं
परम यद्भवतः स्वरूपम् [भागवतम् ३.९.३] इत्यादि द्वितीयसन्दर्भोदाहरण
प्रघट्टकदृष्ट्या जीववद्देहदेहिपार्थक्याभावेन
मुख्यमत्वार्थाभावात् ।

॥ १०.१० ॥ यमलार्जुनौ श्रीभगवन्तम् ॥ ३३ ॥

[३४]

अपरं च

यत्पादपङ्कजरजः शिरसा बिभर्ति
श्रीरब्जजः सगिरिशः सह लोकपालैः
लीलातनुः स्वकृतसेतुपरीप्सया यः
कालेऽदधत्स भगवान्मम केन तुष्येत् ॥ [भागवतम् १०.५८.३७]

॥ स्पष्टम् ॥ १०.५८ ॥ नग्नजिच्छ्रीभगवन्तम् ॥ ३४ ॥

[३५]
परं च

नमस्तस्मै भगवते कृष्णायाकुण्ठमेधसे ।
यो धत्ते सर्वभूतानामभवायोशतीः कलाः ॥ [भागवतम् १०.८७.४६]

टीका च नम इति श्रीकृष्णावतारतया नारायणं स्तौति । एते चांशकलाः
पुंसः कृष्णस्तु भगवान् स्वयमित्युक्तेरित्येषा । अतएव तच्
छ्रवणानन्तरं तस्मा एव नमस्कारात्श्रुतिस्तुतावपि श्रीकृष्ण एव स्तुत्य
इत्यायातम् । तथैव श्रुतिभिरपि निभृतमरुन्मनोऽक्ष [भागवतम् १०.८७.२३] इत्य्
आदिपद्ये निजारिमोक्षप्रदत्वाद्य्असाधारणलिङ्गेन स एव व्यञ्जितः ।
स्पष्टम् ।

॥ १०.८७ ॥ श्रीनारदः ॥ ३५ ॥

[३६]

तथा गुणावतारकर्तृत्वमाह

इत्युद्धवेनात्य्अनुरक्तचेतसा
पृष्टो जगत्क्रीडनकः स्वशक्तिभिः ।
गृहीतमूर्तित्रय ईश्वरेश्वरो
जगाद सप्रेममनोहरस्मितः ॥ [भागवतम् ११.२९.७]

स्पष्टम् । अत्र अजानतां त्वत्पदवीम् [भागवतम् १०.१४.२९] इत्युदाहृतं वचनम्
अप्यनुसन्धेयम् ॥

॥ ११.२९ ॥ श्रीशुकः ॥ ३६ ॥

[३७]

अथ पुरुषावतारकर्तृत्वमाह

इति मतिरुपकल्पिता वितृष्णा
भगवति सात्वतपुङ्गवे विभूम्नि ।
स्वसुखमुपगते क्वचिद्विहर्तुं
प्रकृतिमुपेयुषि यद्भवप्रवाहः ॥ [भागवतम् १.९.३२]

टीका च परमफलरूपां श्रीकृष्णरतिं प्रार्थयितुं प्रथमं स्व
कृतमर्पयति इतीति । विगतो भूमा यस्मात्तस्मिन् । यमपेक्ष्यान्यस्य
महत्त्वं नास्तीत्यर्थः । तदेव पारमैश्वर्यमाह स्वसुखं स्वरूप
भूतं परमानन्दमुपगते प्राप्तवत्येव । क्वचित्कदाचिद्विहर्तुं
क्रीडितुं प्रकृतिमुपेयुषि स्वीकृतवति, न तु स्वरूपतिरोधानेन जीववत्
पारतन्त्र्यमित्यर्थः । विहर्तुमित्युक्तं प्रपञ्चयति यद्यतो भव
प्रवाहः सृष्टिपरम्परा भवति इत्येषा ॥

[B रेअद्स्हेरे: एवमेव तं प्रत्युक्तं देवैरप्येकादशे तत्त्वः पुमान्
समधिगम्य ययास्य वीर्यं धत्ते महान्तमिव गर्भममोघवीर्यः
[भागवतम् ११.६.१६] इति । टीका च तत्त्वः पुरुषो वीर्यं शक्तिं समधिगम्य
प्राप्य यया मायया सह महान्तं धत्ते । कमिव ? अस्य विश्वस्य गर्भम्
इव इत्येषा ॥[B एन्द्स्.]

॥ १.९ ॥ भीष्मः श्रीभगवन्तम् ॥ ३७ ॥

[३८]
(पगे १८)
अतएव भवभयमपहर्तुं [भागवतम् ११.२९.४९] इत्यादौ तस्यादिपुरुषत्वं
श्रेष्ठत्वमप्याह पुरुषमृषभमाद्यं कृष्णसंज्ञं नतोऽस्मि इति ।

कृष्णेति संज्ञां यस्येति मूर्त्य्अन्तरं निषिध्यते । तन्मूर्तेर्
नमस्क्रियमाणत्वेन च नित्यसिद्धत्वं दर्श्यते । अत्रैव टीकाकृद्भिरपि
तं वन्दे परमानन्दं नन्दनन्दनरूपिणमित्युक्तम् ॥

॥ ११.२९ ॥ श्रीशुकः ॥ ३८ ॥

[३९]

तदेवं जगृहे इत्यादिप्रकरणे यत्स्वयमुत्पेक्षितं तच्छ्रीस्वामि
सम्मत्या दृढीकृतम् । पुनरपि तत्सम्मतिरभ्यस्यते यथा

श्रुत्वाजितं जरासन्धं नृपतेर्ध्यायतो हरिः ।
आहोपायं तमेवाद्य उद्धवो यमुवाच ह ॥ [भागवतम् १०.७२.१५]

टीका च आद्यो हरिः श्रीकृष्ण इत्येषा ॥

॥ १०.७२ ॥ श्रीशुकः ॥ ३९ ॥

[४०]

किं च
अथाहमंशभागेन देवक्याः पुत्रतां शुभे ।
प्राप्स्यामि [भागवतम् १०.२.९] इत्यादि ।

अंशभागेनेत्यत्र पूर्णोचितमेवार्थं बहुधा योजयद्भिर्मध्ये
अंशेन उरुषरूपेण मायया भागो भजनमीक्षणं यस्य तेनेति च
व्याचक्षाणैरन्ते सर्वथा परिपूर्णरूपेणेति विवक्षितम् । कृष्णस्तु
भगवान् स्वयमित्युक्तत्वात् । इत्येवं हि तैर्व्याख्यातम् ।

॥ १०.२ ॥ श्रीभगवान् योगमायाम् ॥ ४०॥

[४१]

एवम्
यस्यांशांशांशभागेन विश्वोत्पत्तिलयोदयाः ।
भवन्ति किल विश्वात्मंस्तं त्वाद्याहं गतिं गता ॥ [भागवतम् १०.८५.३१]

टीका च यस्यांशः पुरुषस्तस्यांशो माया तस्या अंशा गुणास्तेषां
भागेन परमाणुमात्रलेशेन विश्वोत्पत्त्य्आदयो भवन्ति । तं त्वा त्वां
गतिं शरणं गतास्मि इत्येषा ॥

॥ १०.८५ ॥ श्रीदेवकी भगवन्तम् ॥ ४१ ॥

[४२]

यथा च नारायणस्त्वं न हि सर्वदेहिनामित्यादौ नारायणोऽङ्गं
नरभूजलायनातिति । [भागवतम् १०.१४.१४]

टीका च नरादुद्भूता येऽर्थाः तथा नराज्जातं यज्जलं तद्अयनाद्यो
नारायणः प्रसिद्धः सोऽपि तवाङ्गं मूर्तिरित्येषा । अत्र स तवाङ्गं त्वं
पुनरङ्गीत्यसौ तु विशदोऽर्थः । न तु स्तुतिमात्रमिदम् ।
दृष्ट्वाघासुरमोक्षणं प्रभवतः प्राप्तः परं विस्मयम् [भागवतम् १०.१३.१५]
इत्युक्तरीत्या क्वचिदप्यवतार्य्अवतारान्तरेषु तादृशस्यापि मोक्षम्
अदृष्टगोचरं दृष्ट्वा विस्मयं प्राप्तवान् ब्रह्मा । द्रष्टुं मञ्जुम्
अहित्वमन्य अपि तद्वत्सानितो वत्सपान्नीत्वान्यत्र कुरुद्वहान्तरधाद्
इत्युक्तरीत्या तस्यापरमपि माहात्म्यं दिदृक्षुस्तथा माहात्म्यं
ददर्शेति प्रकरणसारस्येनापि लब्धम् । न चापरमाहात्म्यदर्शनं
सम्भावनामात्रम् ।

तावत्सर्वे वत्सपालाः पश्यतो ञ्जस्य तत्क्षणात् ।
व्यदृश्यन्त घनश्यामाः पीतकौशेयवाससः ॥ [भागवतम् १०.१३.४६]

इत्यादिना शक्तिभिरजाद्याभिरैश्वर्यैरणिमाद्यैश्चतुर्विंशतिसङ्ख्य
तत्त्वैर्महद्आदिभिः तत्सहकारिभिः कालस्वभावाद्यैस्तत्सम्भूतैर्
ब्रह्माण्डैः तद्अन्तर्भूतस्रष्टृभिर्ब्रह्मादिभिर्जीवैश्च स्तम्ब
पर्यन्तः पृथक्पृथगुपासितास्तादृशब्रह्माण्डेश्वरकोटयः श्री
कृष्णेनैव तत्तद्अंशांशेनाविर्भाव्य ब्रह्माणं प्रति साक्षादेव दर्शिता
इति ह्युक्तं तदीदृशमेव कृष्णस्तु भगवान् स्वयमित्यत्राविष्कृतसर्व
शक्तित्वादित्येतत्(पगे १९)स्वामिव्याख्यानस्यासाधारणं बीजं भवेत् ।
विश्वरूपदर्शनादीनां तत्तद्ब्रह्माण्डान्तर्यामिपुरुषाणाम्
एकतरेणापि शक्यत्वात् । तस्माद्विराट्पुरुषयोरिव पुरुषभगवतोरपि
जगृहे पौरुषं रूपमित्यादावुपासनार्थमेव तैरभेदव्याख्या
कृतेति गम्यते । वस्तुतस्तु परमाश्रयत्वेन श्रीकृष्ण एव तैरङ्गीकृतोऽस्ति ।
यथा

विश्वसर्गविसर्गादिनवलक्षणलक्षितम् ।
श्रीकृष्णाख्यं परं धाम जगद्धाम नमामि तत् ॥
दशमे दशमं लक्ष्यमाश्रिताश्रयविग्रहम् ।
क्रीडद्यदुकुलाम्भोधौ परानन्दमुदीर्यते ॥ इति [Bहावार्थदीपिका,
१०.२.१]।

यद्यन्येषामपि परमाश्रयत्वं तन्मतं तदा दशम इत्यनर्थकं
स्यात् । तस्मान्नारायणोऽङ्गमिति युक्तमुक्तम् ॥

॥ १०.१४ ॥ ब्रह्मा श्रीकृष्णम् ॥ ४२ ॥
[४३]

अवतारप्रसङ्गेऽपि तथैव स्पष्टम्

गिरं समाधौ गगने समीरितां
निशम्य वेधास्त्रिदशानुवाच ह ।
गां पौरुषीं मे शृणुतामराः पुनर्
विधीयतामाशु तथैव मा चिरम् ॥

पुरैव पुंसावधृतो धराज्वरो
भवद्भिरंशैर्यदुषूपजन्यताम् ।
स यावदुर्व्या भरमीश्वरेश्वरः
स्वकालशक्त्या क्षपयंश्चरेद्भुवि ॥

वसुदेवगृहे साक्षाद्भगवान् पुरुषः परः ।
जनिष्यते तत्प्रियार्थं सम्भवन्तु सुरस्त्रियः ॥ [भागवतम् १०.१.२१२३]

पौरुषीं पुरुषेण सृजामि तन्नियुक्तोऽहम् [भागवतम् २.६.३०] इत्य्आद्य्अनुसारात्
पुरुषाभिन्नेन विष्णुरूपेण क्षीरोदशायिना स्वयमेवोक्तां गां वाचम् ।
पुरुषस्यैव वाचमनुवदति पुरैवेति । पुंसा आदिपुरुषेण कृष्णः स्वयं
समभवत्परमः पुमान् यः [Bरह्मष्५.४९] इत्यनुसारात् । स्वयं
भगवत्ता श्रीकृष्णस्येत्यर्थः । अंशैः श्रीकृष्णस्यांशभूतैस्तत्
पार्षदैः श्रीमद्उद्धवादिभिः सह । इत्थमेव प्राचुर्येणोक्तम्

नन्दाद्या ये व्रजे गोपा याश्चामीषां च योषितः ।
वृष्णयो वसुदेवाद्या देवक्य्आद्या यदुस्त्रियः ॥
सर्वे वै देवताप्राया उभयोरपि भारत ।
ज्ञातयो बन्धुसुहृदो ये च कंसमनुव्रताः ॥ [भागवतम् १०.१.६२६३] इति ।

तस्मादादिपुरुषत्वमेव व्यनक्ति स इति सर्वान्तर्यामित्वात् । पुरुषस्तावद्
ईश्वरः । तस्याप्यंशित्वात्स आदिपुरुषः श्रीकृष्णः पुनरीश्वरेश्वरः
त्र्य्अधीशशब्दवत् । तथा च दशमस्य पञ्चाशीतितमे श्रीमद्
आनकदुन्दुभिनोक्तम् युवां न नः सुतौ साक्षात्प्रधानपुरुषेश्वरौ
[भागवतम् १०.८५.१८] इति । स्वकालशक्त्या स्वशक्त्या कालशक्त्या च । ईश्वरेश्वरत्वे
हेतुः साक्षात्स्वयमेव भगवानिति । तदलं मयि तत्प्रार्थनयेति
भावः । तत्प्रियार्थं तत्प्रीत्यै । अमरस्त्रियः श्रीमद्उपेन्द्रप्रेयस्य्
आदिरूपाः काश्चित्सम्भवन्तु मिलिता भवन्तु । साक्षादवतरतः श्री
भगवतो नित्यानपायिमहाशक्तिरूपासु तत्प्रेयसीष्ववतरन्तीषु श्री
भगवति तद्अंशान्तरवत्ता अपि प्रविशन्त्वित्यर्थः । तत्प्रियाणां तासाम्
एव दास्य्आदिप्रयोजनाय जायन्तामिति वा । अनेन तैरपार्थितस्याप्य्
अस्यार्थस्यादेशेन परमभक्ताभिस्ताभिर्लीलाविशेष एव भगवतः
स्वयमवतितीर्षायां कारणम् । भारावतरणं चानुषङ्गिकम् (पगे २०)
एव भवतीति व्यञ्जितम् ।

तदेवं श्रुतीनां च दण्डकारण्यवासिनां मुनीनां चाग्निपुत्राणां च
श्रीगोपिकादित्वप्राप्तिर्यत्श्रूयते तदपि पूर्ववदेव मन्तव्यम् । अत्र
प्रसिद्धार्थे नायं श्रियोऽङ्ग उ नितान्तरतेः प्रसादः स्वर्योषितां नलिन
गन्धरुचां कुतोऽन्याः [भागवतम् १०.४७.६०] इति विरुध्येत । न च सुरस्त्रीणां
सम्भववाक्यं श्रीमहिषीवृन्दपरं, तासामपि तन्निजशक्ति
रूपत्वेन दर्शयिष्यमाणत्वात् ।

॥ १०.१ ॥ श्रीशुकः ॥ ४३ ॥

[४४]

तदेवमवतारप्रसङ्गेऽपि श्रीकृष्णस्य स्वयं भगवत्त्वमेवायातम् ।
यस्मादेवं तस्मादेव श्रीभागवते महाश्रोतृवक्तॄणामपि श्रीकृष्ण
एव तात्पर्यं लक्ष्यते । तत्र श्रीविदुरस्य

यच्चान्यदपि कृष्णस्य भवान् भगवतः प्रभोः ।
श्रवः सुश्रवसः पुण्यं पूर्वदेहकथाश्रयम् ॥
भक्ताय मेऽनुरक्ताय तव चाधोक्षजस्य च ।
वक्तुमर्हसि योऽदुह्यद्वैन्यरूपेण गामिमाम् ॥ [भागवतम् ४.१७.६७]

पूर्वदेहः पृथ्व्अवतारः । लोकदृष्टावभिव्यक्तिरीत्या पूर्वत्वम् । तत्
कथैवाश्रयो यस्य तत् ॥

॥४.१७॥ विदुरः ॥४४॥

[४५]

अथ श्रीमैत्रेयस्य तद्अनन्तरमेव

चोदितो विदुरेणैवं वासुदेवकथां प्रति ।
प्रशस्य तं प्रीतमना मैत्रेयः प्रत्यभाषत ॥ [भागवतम् ४.१७.८]

तत्प्रशंसया प्रीतमनस्त्वेन चास्यापि तथैव तात्पर्यं लभ्यते ।
अतएवात्र वसुदेवनन्दनत्वेनैव वासुदेवशब्दः प्रयुक्तः ।

॥४.१७॥ श्रीसुतः ॥४५॥

[४६]

अथ श्रीपरीक्षितः

अथो विहायेमममुं च लोकं
विमर्शितौ हेयतया पुरस्तात् ।
कृष्णाङ्घ्रिसेवामधिमन्यमान
उपाविशत्प्रायममर्त्यनद्याम् ॥ [भागवतम् १.१९.५]

टीका च श्रीकृष्णाङ्घ्रिसेवामधिमन्यमानः सर्वपुरुषार्थाधिकां
जाननित्येषा ।

॥ १.१९ ॥ श्रीसुतः ॥४६॥

[४७]
न वा इदं राजर्षिवर्य चित्रं
भवत्सु कृष्णं समनुव्रतेषु ।
येऽध्यासनं राजकिरीटजुष्टं
सद्यो जहुर्भगवत्पार्श्वकामाः ॥ [भागवतम् १.१९.२०]

भवत्सु पाण्डोर्वश्येषु ये जहुरिति श्रीयुधिष्ठिराद्य्अभिप्रायेण । अतएव
तत्र स्थितानां सर्वश्रोतॄणामपि श्रीकृष्ण एव तात्पर्यमायाति ।

॥ १.१९ ॥ श्रीमहर्षयः परीक्षितम् ॥४७॥

[४८]

अपि मे भगवान् प्रीतः कृष्णः पाण्डुसुतप्रियः ।
पैतृष्वसेयप्रीत्य्अर्थं तद्गोत्रस्यात्तबान्धवः ॥
अन्यथा तेऽव्यक्तगतेर्दर्शनं नः कथं नृणाम् ।
नितरां म्रियमाणानां संसिद्धस्य वनीयसः ॥ [भागवतम् १.१९.३५३६]

तेषां पैतृष्वसेयाणां पाण्डुसुतानां गोत्रस्य मे आत्तं स्वीकृतं
बान्धवं बन्धुकृत्यं येन ते तव श्रीकृष्णस्यैकरसिकस्य वनीयसः
अत्युदारतया मां याचेथा इति प्रवर्तकस्येत्यर्थः ।

॥ १.१९ ॥ राजा श्रीशुकम् ॥ ४८ ॥

[४९]

स वै भागवतो राजा पाण्डवेयो महारथः ।
बालक्रीडनकैः क्रीडन् कृष्णक्रीडां य आददे ॥ [भागवतम् २.३.१५]

या या श्रीकृष्णस्य वृन्दावनादौ बालक्रीडा श्रुतास्ति तत्प्रेमावेशेन तत्
सख्यादिभाववान् तां तामेव क्रीडां यः कृतवानित्यर्थः ॥

॥ २.३ ॥ श्रीशौनकः ॥ ४९ ॥

[५०]

एवं जातीयानि बहून्येव वचनानि विराजन्ते तथा कथितो वंशविस्तारः
[भागवतम् १०.१.१] इत्यारभ्य, नैषातिदुःसहा क्षुन्माम् [भागवतम् १०.१.१३] इत्यन्तं
दशमस्कन्धप्रकरणम् (पगे २१) अप्यनुसन्धेयम् ।

किं च इत्थं द्विजा यादवदेवदत्तः [भागवतम् १०.१२.४०] इत्यादि । येन श्रवणेन
नितरां गृहीतं वशीकृतं चेतो यस्य सः ।

॥ १०.१२ ॥ श्रीसुतः ॥ ५० ॥

[५१]

तथा, येन येनावतारेण इत्यादि यत्शृण्वतोऽपैत्यरतिः [भागवतम् १०.७.१२] इत्यादि
च । टीका च
कृष्णार्भकसुधासिन्धुसम्प्लवानन्दनिर्भरः ।
भूयस्तदेव सम्प्रष्टुं राजान्यदभिनन्दति ॥

येन येन मत्स्याद्यवतारेणापि यानि कर्माणि करोति तानि नः कर्ण
सुखावहानि मनः प्रीतिकराणि च भवन्त्येव । तथापि यच्छृण्वतः
पुंसः पुंमात्रस्यारतिर्मनोग्लानिस्तन्मूलभूता विविधा तृष्णा
चापगच्छति, तथा सत्त्वशुद्धिहरिभक्तिहरिदास्यसख्यानि च भवन्त्य्
अचिरेणैव तदेवं हारं हरेश्चरितं मनोहरं वा वद अनुग्रहं यदि
करोषि इत्येषा ।

॥ १०.७ ॥ राजा ॥ ५१ ॥

[५२]

अथ श्रीशुकदेवस्य अपि मे भगवान् प्रीतः कृष्णः पाण्डुसुतप्रियः [भागवतम्
१.१९.३५] इत्यादिना श्रीकृष्ण एव स्वरतिं व्यज्य म्रियमाणानां श्रोतव्यादि
प्रश्नेनैवान्तकाले श्रीकृष्ण एव मय्युपदिश्यतामिति
राजाभिप्रायानन्तरं

वरीयानेष ते प्रश्नः कृतो लोकहितं नृप ।
आत्मवित्सम्मतः पुंसां श्रोतव्यादिषु यः परः ॥ [भागवतम् २.१.१]

ते त्वया पुंसां श्रोतव्यादिषु मध्ये यः परः श्रीकृष्ण
श्रवणाभिप्रायेण परमः प्रश्नः कृत एष वरीयान् सर्वावतारावतारि
प्रश्नेभ्यः परममहान् । लोकहितं यथा स्यात्तथैव कृतः । त्वं तु
तथाभूतश्रीकृष्णैकनिबद्धप्रेमत्वात्कृतार्तहेवेति भावः । तद्
उक्तम्

वैयासकेरिति वचस्तत्त्वनिश्चयमात्मनः ।
उपधार्य मतिं कृष्णे औत्तरेयः सतीं व्यधात् ॥ [भागवतम् २.४.१]

सती विद्यमाना कृष्णे या मतिस्तामेव विशेषेण धृतवानित्यर्थः । एतद्
एव व्यक्तीकरिष्यते राज्ञा

हरेरद्भुतवीर्यस्य कथा लोकसुमङ्गला ।
कथयस्व महाभाग यथाहमखिलात्मनि ।
कृष्णे निवेश्य निःसङ्गं मनस्त्यक्ष्ये कलेवरम् ॥ इति [भागवतम् २.८.२]

॥ २.१ ॥ श्रीशुकः ॥ ५२ ॥

[५३]

एवमेव कथितो वंशविस्तारम् [भागवतम् १०.१.१] इत्याद्य्अनन्तरं सम्यग्
व्यवसिता बुद्धिः [भागवतम् १०.१.१५] इत्यादि ।

पूर्वं मया नानावतारादिकथाभिरभिनन्दितस्यापि यत्श्रीवसुदेव
नन्दनस्यैव कथायां नैष्ठिकी स्थायिरूपा रतिर्जाता एषा बुद्धिस्तु
सम्यग्व्यवसिता परमविदग्धेत्यर्थः ॥
॥ १०.१ ॥ श्रीशुकः ॥ ५३ ॥

[५४]

तथा, इत्थं द्विजा यादवदेवदत्तः श्रुत्वा स्वरातुश्चरितं विचित्रम् [भागवतम्
१०.१२.४०] इत्यनन्तरं

इत्थं स्म पृष्टः स तु बादरायणिस्
तत्स्मारितानन्तहृताखिलेन्द्रियः ।
कृच्छ्रात्पुनर्लब्धबहिर्दृशिः शनैः
प्रत्याह तं भागवतोत्तमोत्तम ॥ [भागवतम् १०.१२.४४]

अनन्तः प्रकटितपूर्णैश्वर्यः श्रीकृष्णः । सर्वदा तेन स्मर्यमाणेऽपि
तस्मिन् प्रतिक्षणं नव्यत्वेन तत्स्मारितेत्युक्तम् ॥

॥ १०.१२ ॥ श्रीसुतः ॥ ५४ ॥

[५५]

अतएव स वै भागवतो राजा [भागवतम् २.३.१५] इत्याद्य्अनन्तरं राज्ञा समान
वासनात्वेनैव तमाह

वैयासकिश्च भगवान् वासुदेवपरायणः ।
उरुगायगुणोदाराः सतां स्युर्हि समागमे ॥ [भागवतम् २.३.१६] (पगे २२)

चशब्दः प्राग्वर्णितेन समानवासनत्वं बोधयति । तस्मात्श्री
वसुदेवनन्दनत्वेनैवात्रापि वासुदेवशब्दो व्याख्येयः । अन्येषामपि
सतां समागमे तावदुरुगायस्य गुणोदाराः कथा भवन्ति । तयोस्तु श्री
कृष्णचरितप्रधाना एव ता भवेयुरिति भावः ॥

॥ २.३ ॥ श्रीशुकः ॥ ५५ ॥

[५६]

किं बहुना, श्रीशुकदेवस्य श्रीकृष्ण एव तात्पर्ये तद्एकचरितमयौ
ग्रन्थार्धायमानौ दशमैकादशस्कन्धावेव प्रमाणम् ।
स्कन्धान्तरेष्वन्येषां चरितं संक्षेपेणैव समाप्य ताभ्यां तच्
चरितस्यैव विस्तारितत्वात् । अत आरभ्य एव तत्प्रसादं प्रार्थयते श्रियः
पतिः इत्यादौ

पतिर्गतिश्चान्धकवृष्णिसात्वतां
प्रसीदतां मे भगवान् सतां गतिः ॥ [भागवतम् २.४.२०] ॥

स्पस्टम् ॥ २.४ ॥ श्रीशुकः ॥ ५६ ॥

[५७]

अथ श्रीव्यासदेवस्य
अनर्थोपशमं साक्षाद्भक्तियोगमधोक्षजे ।
लोकस्याजानतो विद्वांश्चक्रे सात्वतसंहिताम् ॥
यस्यां वै श्रूयमाणायां कृष्णे परमपूरुषे ।
भक्तिरुत्पद्यते पुंसः शोकमोहभयापहा ॥ [भागवतम् १.७.६७]

अधोक्षजे श्रीकृष्णे ।

अधोऽनेन शयानेन शकटान्तरचारिणा ।
राक्षसी निहता रौद्रा शकुनीवेशधारिणी ॥
पूतना नाम घोरा सा महाकाया महाबला ।
विषदिग्धस्तनं क्षुद्रा प्रयच्छन्ती जनार्दने ॥
ददृशुर्निहतां तत्र राक्षसीं वनगोचराः ।
पुनर्जातोऽयमित्याहुरुक्तस्तस्मादधोक्षजः ॥ [ःV २.१०१.३०३२]

इति हरिवंशे श्रीवासुदेवमाहात्म्ये तन्नाम्नः श्रीकृष्णविषयताया
प्रसिद्धेः । अतएवोत्तरत्रपद्ये साक्षात्कृष्ण इत्येवोक्तम् । श्रीभगवन्
नामकौमुदीकाराश्च कृष्णशब्दस्य तमालश्यामलत्विषि यशोदा
स्तनन्धये परब्रह्मणि रूढिः इति प्रयोगप्राचुर्यात्तत्रैव प्रथमतः
प्रतीतेरुदय इति चोक्तवन्तः । सामोपनिषदि च कृष्णाय देवकीनन्दनाय
इति । अत्र ग्रन्थफलत्वं तस्यैव व्यक्तमिति चैकेनैवानेन वचनेन तत्
परिपूर्णता सिध्यति ॥

॥ १.७ ॥ श्रीसूतः ॥ ५७ ॥

[५८]

अथ श्रीनारदस्य

तत्रान्वहं कृष्णकथाः प्रगायताम्
अनुग्रहेणाशृणवं मनोहराः ।
ताः श्रद्धया मेऽनुपदं विशृण्वतः
प्रियश्रवस्यङ्ग ममाभवद्रुचिः ॥ [भागवतम् १.५.२६]

येन येनावतारेण [भागवतम् १०.७.१] इत्येतच्छ्रीपरीक्षिद्वचनपद्यद्वयम्
अप्यत्र श्रीयशोदास्तनन्धयत्वे साधकं श्रुतिसामान्यन्यायेन ॥

॥ १.५ ॥ श्रीनारदः श्रीवेदव्यासम् ॥ ५८ ॥

[५९]

तच्छब्दस्यैवाभ्यासो दृश्यते एवं कृष्णमतेः [भागवतम् १.६.२८] इत्यादौ ।
अन्यत्र च

यूयं नृलोके बत भूरिभागा
लोकं पुनाना मुनयोऽभियन्ति ।
येषां गृहानावसतीति साक्षाद्
गूढं परं ब्रह्म मनुष्यलिङ्गम् ॥

स वा अयं ब्रह्म महद्विमृग्य
कैवल्यनिर्वाणसुखानुभूतिः ।
प्रियः सुहृद्वः खलु मातुलेय
आत्मार्हणीयो विधिकृद्गुरुश्च ॥

न यस्य साक्षाद्भवपद्मजादिभी
रूपं धिया वस्तुतयोपवर्णितम् ।
मौनेन भक्त्योपशमेन पूजितः
प्रसीदतामेष स सात्वतां पतिः ॥ [भागवतम् ७.१०.४८५०]

(पगे २३)
टीका च अहो प्रह्लादस्य भाग्यं येन देवो दृष्टः । वयं तु मन्द
भाग्या इति विषीदन्तं राजानं प्रत्याह यूयमिति त्रिभिरित्येषा ।
मनुष्यस्य दृश्यमानमनुष्यस्येव लिङ्गं करचरणादिसन्निवेशो यस्य
तं रूपं श्रीविग्रहः । वस्तुतया नोपवर्णितं तद्रूपस्यैव पर
ब्रह्मत्वेन किमिदं वस्त्विति निर्देष्टुमशक्यत्वात् । यथोक्तं सहस्र
नामस्तोत्रे अनिर्देश्यवपुरिति । एषामेव पद्यानां सप्तमान्तेऽपि
परमामोदकत्वात्पुनरावृत्तिर्दृश्यते ॥

॥ ७.१० ॥ स श्रीयुधिष्ठिरम् ॥ ५९ ॥

[६०]

अत्र च स्पष्टम्

देवदत्तामिमां वीणां स्वरब्रह्मविभूषिताम् ।
मूर्च्छयित्वा हरिकथां गायमानश्चराम्यहम् ॥
प्रगायतः स्ववीर्याणि तीर्थपादः प्रियश्रवाः ।
आहूत इव मे शीघ्रं दर्शनं याति चेतसि ॥ [भागवतम् १.६.३३३४]

देवः श्रीकृष्ण एव । लिङ्गपुराणे उपरिभागे तेनैव स्वयं तस्य वीणा
ग्रहणं हि प्रसिद्धम् । अत्र यद्रूपेण वीणा ग्राहिता तद्रूपेणैव चेतसि
दर्शनं स्वारस्यलब्धम् । देवदत्तामिति कृतोपकारतायाः
स्मर्यमाणत्वेन तमनुसन्धायैव तद्उक्तेः ।

॥ १.६ ॥ श्रीनारदः श्रीवेदव्यासम् ॥ ६० ॥

[६१]

अत एतदेवमेव व्याख्येयम् ।

त्वमात्मनात्मानमवेह्यमोघदृक्
परस्य पुंसः परमात्मनः कलाम् ।
अजं प्रजातं जगतः शिवाय तन्
महानुभावाभ्युदयोऽधिगण्यताम् ॥ [भागवतम् १.५.२१]

हे अमोघदृक्त्वमात्मना स्वयमात्मानं स्वं परस्य पुंसः कलाम्
अंशभूतमवेहि अनुसन्धेहि । पुनश्च जगतः शिवायाधुनैव श्री
कृष्णरूपेण यश्चाजोऽपि प्रजातस्तमवेहि । तदेतद्द्वयं ज्ञात्वा
महानुभावस्य सर्वावतारावतारिवृन्देभ्योऽपि दर्शितप्रभावस्य तस्य
श्रीकृष्णस्यैवाभ्युदयो लीला अधि अधिकं गण्यतां निरूप्यताम् । स्वयम्
ईश्वरोऽपि भवान्निजाज्ञानरूपां मायां न प्रकटयत्विति भावः ॥

॥ १.५ ॥ स तम् ॥६१ ॥

[६२]

अतएव पुराणप्रादुर्भावाय श्रीव्यासं श्रीनारदेन चतुर्व्यूहात्मक
श्रीकृष्णमन्त्र एवोपदिष्टस्तद्उपायकस्य सर्वोत्तमत्वं च । यथा
नमो भगवते तुभ्यम् [भागवतम् १.५.३७] इत्यादि स सम्यग्दर्शनः पुमान् [भागवतम्
१.५.३८] इत्यन्तम् । स्पष्टम् ।

॥ १.५ ॥ स तम् ॥ ६२ ॥

अथ श्रीब्रह्मणः

भूमेः सुरेतरवरूथविमर्दितायाः
क्लेशव्ययाय कलया सितकृष्णकेशः ।
जातः करिष्यति जनानुपलक्ष्यमार्गः
कर्माणि चात्ममहिमोपनिबन्धनानि ॥ [भागवतम् २.७.२६]

असुरसेनानिपीडितायाः भूमेः क्लेशमपहर्तुं परमात्मनोऽपि परत्वाज्
जनैरस्माभिरनुपलक्ष्यमार्गोऽपि प्रादुर्भूतः सन् कर्माणि च
करिष्यति । कोऽसौ कलया अंशेन सितकृष्णकेशो यः । यत्र सितकृष्णकेशौ
देवैर्दृष्टाविति शास्त्रान्तरप्रसिद्धिः । सोऽपि यस्यांशेन स एव भगवान्
स्वयमित्यर्थः । तद्अविनाभावित्वाच्छ्रीबलदेवस्यापि ग्रहणं
द्योतितम् ।

ननु पुरुषादपि परोऽसौ भगवान् कथं भूभारावतारणमात्रार्थं
(पगे २४) स्वयमवतारिष्यतीत्याशङ्क्याह आत्मनो महिमानः परम
माधुरीसम्पद उपनिबध्यन्ते निजभक्तैरधिकं वर्ण्यन्ते येषु तानि
कर्माणि च करिष्यति । यद्यपि निजांशेनैव वा निजेच्छाभासेनैव वा भू
भारहरणमीषत्करं तथापि निजचरणारविन्दजीवातुवृन्दम्
आनन्दयन्नेव लीलाकादम्बिनीर्निजमाधुरीवर्षणाय
वितरिषमाणोऽवतरिष्यतीत्यर्थः । एतदेव व्यक्तीकृतं तोकेन जीवहरणम्
[भागवतम् २.७.२७] इत्यादौ । इतरथा स्वमाधुरीसम्पत्प्रकाशनेच्छाम्
अन्तरेण मधुरतरं तोकादिभावं दधता तेन पूतनादीनां जीवन
हरणादिकं कर्म न भाव्यं न सम्भावनीयम् ।

तथा च तथायं चावतारस्ते [भागवतम् १.७.२५] इत्यादौ तैरेव व्याख्यातम् । किं
भूभारहरणं मद्इच्छामात्रेण न भवति तत्राह स्वानामितीति ।
जयति जननिवास [भागवतम् १०.९०.४८] इत्यत्र च इच्छामात्रेण निरसनसमर्थोऽपि
क्रीडार्थं दोर्भिरधर्ममस्यन्निति तदेवमादिभिः श्रीकृष्णस्यैव
सर्वाद्भुततावर्णनाभिनिवेशप्रपञ्चो ब्रह्मणि स्पष्ट एव । अस्तु तावत्
तद्भूरि भाग्यमिह जन्म किमप्यटव्याम् [भागवतम् १०.१४.३४] इत्यादि ॥

॥ २.७ ॥ ब्रह्मा श्रीनारदम् ॥ ६३ ॥

[६४]

एवं चतुःश्लोकीवक्तुः श्रीभगवतोऽपि

[Vऋ. इन्सेर्त्स्] श्रीकृष्णत्वमेव । तथा हि

ददर्श तत्राखिलसात्वतां पतिं
श्रियः पतिं यज्ञपतिं जगत्पतिम् ।
सुनन्दनन्दप्रबलार्हणादिभिः
स्वपार्षदाग्रैः परिसेवितं विभुम् ॥ [भागवतम् २.९.१४] इति ।

व्याख्या च अखिलसात्वतां सर्वेषां सात्वतानां यादववीराणां पतिम् ।

श्रियः पतिर्यज्ञपतिः प्रजापतिर्
धियां पतिर्लोकपतिर्धरापतिः ।
पतिर्गतिश्चान्धकवृष्णिसात्वतां
प्रसीदतां मे भगवान् सतां पतिः ॥ [भागवतम् २.४.२०]

इत्येतद्वाक्यसंवादितत्त्वात् ।

पुरा मया प्रोक्तमजाय नाभ्ये
पद्मे निषण्णाय ममादिसर्गे ।
ज्ञानं परं मन्महिमावभासं
यत्सूरयो भागवतं वदन्ति ॥ [भागवतम् ३.४.१३]

इति तृतीये उद्धवं प्रति श्रीकृष्णवाक्यानुसारेण च

यो ब्रह्माणं विदधाति पूर्वं
यो विद्यास्तस्मै गोपायति स्म कृष्णः ।
तं ह दैवमात्मबुद्धिप्रकाशं
मुमुक्षुर्वै शरणमनुव्रजेत ॥ [ङ्टू १.२२]

इति श्रीगोपालतापन्य्अनुसारेण च तस्यैवोपदेष्टृत्वश्रुतेः तदु होवाच
ब्राह्मणोऽसावनवरतं मे ध्यातः स्तुतः परार्धान्ते सोऽबुध्यत । गोप
वेशो मे पुरुषः पुरस्तादाविर्बभूव ॥ [ङ्टू १.२५] इति श्रीगोपालतापन्य्
अनुसारेण क्वचित्कल्पे श्रीगोपालरूपेण सृष्ट्य्आदावित्थमेव ब्रह्मणे
दर्शितनिजरूपत्वाद्धाम्ना महावैकुण्ठत्वेन साधयिष्यमाणत्वाच्
च । तथा च ब्रह्मसंहितायाम्

सिसृक्षायां मतिं चक्रे पूर्वसंस्कारसंस्कृतः ।
ददर्श केवलं ध्वान्तं नान्यत्किमपि सर्वतः ॥
उवाच पुरतस्तस्मै तस्य दिव्य सरस्वती ।
कामः कृष्णाय गोविन्द हे गोपीजन इत्यपि ।
वल्लभाय प्रिया वह्नेर्मन्त्रं ते दास्यति प्रियम् ॥
तपस्त्वं तप एतेन तव सिद्धिर्भविष्यति ।
अथ तेपे स सुचिरं प्रीणन् गोविन्दमव्ययम् ॥ [Bरह्मष्५.२२२५] इत्यादि ।
सुनन्द प्रबलार्हणाधिभिः [भागवतम् २.९.१४] इत्यत्र तु द्वारकायां
प्राकट्यावसरे श्रुतसुनन्दनन्दादिसाहचर्येण प्रबलादयोऽपि ज्ञेयाः ।
यथोक्तं प्रथमे सुनदनन्दशीर्षण्या ये चान्ये सात्वतर्षभाः [भागवतम्
१.१४.३२] इति । [एन्द्Vऋ. अद्दितिओन्]

[आ रेअद्सिन्स्तेअदोf अबोवे] श्रीकृष्णत्वेनैव दर्शितत्वात्तस्य च अहमेवासम्
एवाग्रे [भागवतम् २.९.३२] इत्युक्तेस्तस्मिन्नेव तात्पर्यं स्पष्टम् [एन्दा] ।

(पगे २५)
किं बहुना, नानावतारावतारिष्वपि सत्सु महापुराणप्रारम्भ एव श्री
शौनकादीनां श्रीकृष्णे तात्पर्यम् । अत्र पूर्वे सामान्यतोऽस्माभिरेकान्त
श्रेयस्त्वेन सर्वशास्त्रसारत्वेन आत्मसु प्रसादहेतुत्वेन च यत्पृष्टं
तदेतदेवास्माकं भाति यत्श्रीकृष्णस्य लीलावर्णनमित्यभिप्रेत्याहुः ।

सूत जानासि भद्रं ते भगवान् सात्वतां पतिः ।
देवक्यां वसुदेवस्य जातो यस्य चिकीर्षया ॥ [भागवतम् १.१.१२]

भद्रं त इति श्रीकृष्णलीलाप्रश्नसहोदरौत्सुक्येनाशीर्वादः । भगवान्
स्वयमेवावतारी । सात्वतां यादवानाम् ।

[Vऋ. अद्द्स्: सम्पूर्णैश्वरादियुक्तः । सात्वतां सात्वतानां पतिः । नुड्अभावे
आर्षः । यादवानामित्यर्थः । जातो जगद्दृश्यो बभूव । [एन्द्Vऋ.]

[६५]

तन्नः शुष्रूषमाणानामर्हस्यङ्गानुवर्णितुम् ।
यस्यावतारो भूतानां क्षेमाय च भवाय च ॥ [भागवतम् १.१.१३]

अङ्गे हे सूत सामान्यतस्तावद्यस्यावतारमात्रं क्षेमाय पालनाय
भवाय समृद्धये च । तत्प्रभावमनुवर्णयन्तस्तद्यशः
श्रवणौत्सुक्यमाविष्कुर्वन्ति ।

[६६]

आपन्नः संसृतिं घोरां यन्नाम विवशो गृणन् ।
ततः सद्यो विमुच्येत यद्बिभेति स्वयं भयम् ॥ [भागवतम् १.१.१४]

विवशोऽपि यस्य श्रीकृष्णस्य नाम तस्यावतारित्वादवतारनाम्नामपि
तत्रैव पर्यवसानात् । अतएव साक्षात्श्रीकृष्णादपि तत्तन्नामप्रवृत्ति
प्रकारान्तरेण श्रूयते श्रीविष्णुपुराणे । तत्र त्वखिलानामेव भगवन्
नाम्नां कारणान्यभवन्निति हिस्तदीयं गद्यम् । ततः संसृतेः । यद्यतो
भयमपि स्वयं बिभेति ।
[६७]

किं च

यत्पादसंश्रयाः सूत मुनयः प्रशमायनाः
सद्यः पुनन्त्युपस्पृष्टाः स्वर्धुन्य्आपोऽनुसेवया ॥ [भागवतम् १.१.१५]

यस्य श्रीकृष्णस्य पादौ संश्रयौ येषाम् । अतएव प्रशमायनाः शमो
भगवन्निष्ठबुद्धिता । शमो मन्निष्ठता बुद्धेरिति [भागवतम् ११.१९.३६]
स्वयं श्रीभगवद्वाक्यात्स एव प्रकृष्टः शमः प्रशमः । साक्षात्
पूर्णभगवत्श्रीकृष्णसम्बन्धित्वात् । प्रशम एवायनं वर्त्म आश्रयो
वा येषां ते श्रीकृष्णलीलारसाकृष्टचित्ता मुनयः श्रीशुकदेवादयः ।
उपस्पृष्टाः सन्निधिमात्रेण सेविताः सद्यः पुनन्ति सवासनपापेभ्यः
शोधयन्ति । स्वर्धुनी गङ्गा तस्या आपस्तु योऽसौ निरञ्जनो देवश्चित्
स्वरूपा अपि साक्षाच्छ्रीवामनदेवचरणान्निःसृता अपि, अनुसेवया साक्षात्
सेवाभ्यासेनैव तथा शोधयन्ति न सन्निधिमात्रेण सेवया । साक्षात्
सेवयापि न सद्य इति तस्या अपि श्रीकृष्णाश्रितानामुत्कर्षात्तस्योत्कर्षः ।
एवमेव ततस्तद्यशसोऽप्याधिक्यं वर्ण्यते । तीर्थं चक्रे नृपोनं यद्
अजनि यदुषु स्वःसरित्पादशौचमिति [भागवतम् १०.९०.४७] ।

(पगे २६)
टीका च इतः पूर्वं स्वःसरिदेव सर्वतोऽधिकं तीर्थमित्यासीदिदानीं
यदुषु यदजनि जातं तीर्थं श्रीकृष्णकीर्तिरूपमेतत्स्वःसरिद्रूपं
पादशौचं तीर्थमूनमल्पं चक्रे इत्येषा ।

[६८]

एतस्य दशमस्कन्धपद्यस्यैव संवादितां व्यनक्ति ।

को वा भगवतस्तस्य पुण्यश्लोकेड्यकर्मणः ।
शुद्धिकामो न शृणुयाद्यशः कलिमलापहम् ॥ [भागवतम् १.१.१६]

स्पष्टम् ॥

[६९]

यस्मादेव तस्मात् ।

तस्य कर्माण्युदाराणि परिगीतानि सूरिभिः ।
ब्रूहि नः श्रद्दधानानां लीलया दधतः कलाः ॥ [भागवतम् १.१.१७]

उदाराणि परमानन्ददातॄणि जन्मादीनि स्वयं परिपूर्णस्य लीलया अन्या अपि
कलाः पुरुषादिलक्षणा दधतस्तत्तद्अंशानप्यादाय तस्यावतीर्णस्य
सत इत्यर्थः ।

[७०]

अथाख्याहि हरेर्धीमन्नवतारकथाः शुभाः ।
ईला विदधतः स्वैरमीश्वरस्यात्ममायया ॥ [भागवतम् १.१.१८]

श्री कृष्णस्य तावन्मुख्यत्वेन कथय अथ तद्अनन्तरम्
आनुषङ्गिकतयैवेत्यर्थः । हरेः श्रीकृष्णस्य प्रकरणबलात् । अवताराः
पुरुषस्य गुणावतारा लीलावताराश्च । तेषां कथा लीलाः सृष्ट्य्आदिकर्म
रूपा भूभारहरणादिरूपाश्च ।
[७१]

औत्सुक्येन पुनरपि तच्चरितान्येव श्रोतुमिच्छन्तस्तत्रात्मनस्तृप्त्य्
अभावमावेदयन्ति ।

वयं तु न वितृप्याम उत्तमश्लोकविक्रमे ।
यच्छृण्वतां रसज्ञानां स्वादु स्वादु पदे पदे ॥ [भागवतम् १.१.१९]

योगयागादिषु तृप्ताः स्मः । भगवद्विक्रममात्रे तु न तृप्याम एव
तत्रापि तीर्थं चक्रे नृपोनमित्याद्य्उक्तलक्षणस्य सर्वतोऽप्य्
उत्तमश्लोकस्य विक्रमे विशेषेण न तृप्यामः । अलमिति न मन्यामहे ।
तत्र हेतुः । यद्विक्रमं शृण्वताम् । यद्वा अन्ये तृप्यन्तु नाम वयं तु
नेति तुशब्दस्यान्वयः ।

[७२]

कृतवान् किल कर्माणि सह रामेण केशवः ।
अतिमर्त्यानि भगवान् गूढः कपटमानुषः ॥ [भागवतम् १.१.२०]

टीका च अतः श्रीकृष्णचरितानि कथयेत्याशयेनाहुः कृतवानिति ।
अतिमर्त्यानि मर्त्यानतिक्रान्तानि गोवर्धनोद्धरणादीनि । मनुष्येष्व्
असम्भावितानीत्यर्थः इत्येषा ।
ननु कथं मानुषः सन्नतिमर्त्यानि कृतवान् ? तत्राह कपटमानुषः ।
पार्थिवदेहविशेष एव मानुषशब्दः प्रतीतः तस्मात्कपटेनैवासौ
तथा भातीत्यर्थः । वस्तुतस्तु नराकृतेरेव परब्रह्मत्वेनासत्यपि
प्रसिद्धमानुषत्वे नराकृतिनरलीलात्वेन लब्धमप्रसिद्ध
मानुषत्वमस्त्येव ।
(पगे २७)
तत्पुनरैश्वर्याव्याघातकत्वान्न प्रत्याख्यायत इति भावः । अतएव
स्यमन्तकाहरणे पुरुषं प्राकृतं मत्वा [भागवतम् १०.५३.२२] इत्यनेन
जाम्बवतोऽन्यथाज्ञानव्यञ्जकेन तस्य प्राकृतत्वं निषिध्य पुरुषत्वं
स्थाप्यते । एवं मायामनुष्यस्य वदस्व विद्वन्न् [भागवतम् १०.१.७] इत्यादिष्वपि
ज्ञेयम् । यस्मात्कपटमानुषस्तस्मादेव गूढः स्वतस्तु तद्
रूपतयैव भगवानिति ॥

॥ १.१ ॥ श्रीशौनकः ॥ ६४७२ ॥

[७३]

अथ श्रीसूतस्यापि इति सम्प्रश्नसंहृष्टः [भागवतम् १.२.१] इत्याद्य्अनन्तरं
नारायणं नमस्कृत्य [भागवतम् १.२.२] इत्य्आद्य्अन्ते पुराणमुपक्रम्यैवाह

मुनयः साधु पृष्टोऽहं भवद्भिर्लोकमङ्गलम् ।
यत्कृतः कृष्णसम्प्रश्नो येनात्मा सुप्रसीदति ॥ [भागवतम् १.२.५]

टीका च तेषां वचः प्रतिपूज्येति यदुक्तं तत्प्रतिपूजनं करोति । हे
मुनयः साधु यथा भवति तथाहं पृष्टः । यतो लोकानां मङ्गलम्
एतत् । यतः कृष्णविषयः संप्रश्नः कृतः । सर्वशास्त्रार्थसारोद्धार
प्रश्नस्यापि कृष्णे पर्यवसानादेवमुक्तम् । इत्येषा ।

इत्येवोत्तरेष्वपि पद्येषु अधोक्षजवासुदेवसात्वतांपतिकृष्णशब्दास्
तत्प्राधान्यविवक्षयैव पठिता । अत्र श्रेयःप्रश्नस्याप्युत्तरं लोक
मङ्गलमित्यनेनैव दत्तं भवति । तथात्मसुप्रसादहेतोश्च येनात्मा
सुप्रसीदति इत्यनेन ।

॥ १.२ ॥ श्रीसूतः ॥ ७३ ॥

[७४]

तदेवं श्रोतृवक्तॄणामैकमत्येन च तात्पर्यं सिद्धम् ।

[Vऋ. अद्द्स्हेरे: अथ श्रुतिलिङ्गादिभिः षड्भिरपि प्रमाणैः स एव
प्रमीयते । तत्र निरपेक्षरवा श्रुतिर्दर्शितैव कृष्णस्तु भगवान् स्वयम्
इत्यत्र । अथ श्रुतिसामर्थ्यरूपं लिङ्गं च ।

तावत्सर्वे वत्सपालाः पश्यतोऽजस्य तत्क्षणात् ।
व्यदृश्यन्त घनश्यामाः पीतकौशेयवाससः ॥ [भागवतम् १०.१३.४६] इत्यादौ
ज्ञेयम् ।

किन्त्वन्यत्र बर्हिर्देवसदनं दामि इत्यस्य मन्त्ररूपस्य लिङ्गस्य बलात्
श्रुतिः कल्प्यते । अत्र तु कृष्णस्तु भगवान् स्वयमिति साक्षादेव तद्
रूपोऽस्तीति विशेषोऽप्यस्ति । अथाकाङ्क्षायोग्यतासत्तिमद्अनेकपद
विशिष्टैकार्थ्यप्रतिपादकशब्दरूपं वाक्यं च यस्यां वै
श्रूयमानायां [भागवतम् १.७.७] इति अश्वाभिधानीमादत्ते इति ब्राह्मणवाक्याद्
अश्वरसनादाने विनियोगः प्रतीयते । तथात्रापि भक्तियोगेन मनसि
सम्यक्प्रणिहितेऽमले । अपश्यत्पुरुषं पूर्णं [भागवतम् १.७.६] इत्यत्र पूर्ण
पुरुषत्वेनोक्तस्य कृष्णत्वम् । यस्यां वै श्रूयमानायां कृष्णे परम
पूरुषे [भागवतम् १.७.७] इति वाक्याद्व्यज्यते इति । तथारभ्याधीतरूपं
प्रकरणं चात्र सूत जानासि भद्रं ते [भागवतम् १.१०.१२] इत्यादिरूपम् । यथा
दर्शपूर्णमासाभ्यां यजेत इत्यत्र तृतीयया श्रुत्या दर्शपूर्णमासयोः
प्रकरणत्वेन प्राप्ते करणस्य चेति कर्तव्यताकाङ्क्षायामग्निष्टोमेन
स्वर्गकामो यजेत इति तदारभ्य प्रकरणार्थारब्धेन स्वर्गकाम इत्य्
अनेन योजना । तथा सूत जानासि भद्र ते इत्यत्र श्रवणारम्भ एव श्री
कृष्णस्यावतारे हेतुं विज्ञातुमिच्छद्भिः शौनकादिभिस्तत्र
परमाद्भुततां व्यज्य श्रीकृष्णस्यैव सर्वत्र ज्ञेयत्वेन योजना गम्येति
तस्यैव स्वयं भगवत्त्वं व्यक्तम् । दर्शितं तच्च सर्वश्रोतृवक्तॄणां
तदैकमत्यप्रकरणेनेति ।

अथ क्रमवर्तिनां पदार्थानां क्रमवर्तिभिः पदार्थैः यथाक्रम
सम्बन्धरूपं स्थानं चात्र सूत जानासि भद्रं ते इत्यादावेव ज्ञेयम् ।
यथा दर्शपौर्णमासप्रकरणे कानिचित्कर्माणि उपांशुयागप्रभृतीनि
दर्विरसि इत्यादयः केचन मन्त्राश्च समाम्नायन्ते । तत्र यस्य क्रमेण
यो मन्त्रः समास्नातस्तेनैव तस्य च सम्बन्धस्तथा मुनयः साधु
पृष्टोऽहं भवद्भिर्लोकमङ्गलम् । यत्कृतं कृष्णसम्प्रश्नः इत्यत्र
कृष्णशब्दस्य प्रथमप्रश्नोत्तरगतत्वेन पठितस्य देवकीजात
वाचकत्वमेव लभ्यते । अथ नामादिना तुल्यताख्यानरूपा समाख्या च
जगृहे पौरुषं रूपं भगवानित्यस्य एते चांशकलाः पुंसः कृष्णस्तु
भगवान् स्वयमित्यत्र पर्यवसानमित्येवं ज्ञेयम् । यथाध्वर
संज्ञानां मन्त्राणामग्निर्यज्ञं नयतु प्रजाननित्यादीनामाध्वर्य
संज्ञके कर्मणि नियोग इति । [एन्द्Vऋ. अद्दितिओन्.]

किं च एतस्यामष्टादशसाहस्र्यां संहितायां श्रीकृष्णस्यैवाभ्यास
बाहुल्यं दृश्यते । तत्र प्रथमदशमैकादशेष्वतिविस्तरेणैव । द्वितीये
श्रीब्रह्म(पगे २८)नारदसंवादे । तृतीये श्रीविदुरोद्धवसंवादे ।
चतुर्थे ताविमौ वै भगवतो हरेरंशाविहागताव्[भागवतम् ४.१.५७] इत्यादौ,
यच्चान्यदपि कृष्णस्य [भागवतम् ४.१७.६] इत्यादौ च । पञ्चमे राजन् पतिर्गुरुर्
अलम् [भागवतम् ५.६.१८] इत्यादौ । षष्ठे मां केशवो गदया प्रातरव्याद्गोविन्द
आसङ्गवमात्तवेणुः [भागवतम् ६.८.२०] इत्यत्र । सप्तमे नारदयुधिष्ठिर
संवादे । अष्टमे तन्महिमविशेषबीजारोपरूपे कालनेमिवधे तादृश
श्रीमद्अजितद्वारापि तस्य मुक्तिर्नाभवत्किन्तु पुनः कंसत्वे तद्
द्वारैवेति तत्तन्महिमविशेषकथनप्रथमाङ्गत्वात् । नवमे
सर्वान्ते । द्वादशे च श्रीकृष्णकृष्णसखवृष्ण्य्ऋषभावनिध्रुग्
राजन्यवंशदहनानपवर्ग्यवीर्य [भागवतम् १२.११.२५] इत्यादौ ।

श्रीभागवतानुक्रमणिकायां च उत्तरोत्तरत्र सर्वतोऽपि भूयस्त्वेन
गीयते । तथा च यस्याभ्यासस्तदेव शास्त्रे प्रधानमित्य्
आनन्दमयोऽभ्यासाद्[Vस्४.१.१२] इत्यत्रापरैरपि समर्थितत्वादिहापि श्री
कृष्ण एव प्रधानं भवेदितीति तस्यैव मूलभगवत्त्वं सिध्यति । यत्
प्रतिपादकत्वेनास्य शास्त्रस्य भागवतमित्याख्या । अपि च न केवलं
बहुत्र सूचनमात्रमत्राभ्यासनमपि त्वर्धादप्यधिको ग्रन्थस्तत्
प्रस्तावको दृश्यते । तत्रापि सर्वाश्चर्यतया । तस्मात्साधूक्तमेते चांस
कलाः पुंसः कृष्णस्तु भगवान् स्वयम् [भागवतम् १.३.२८] इति ।

तदेवमस्य वचनराजस्य सेनासङ्ग्रहो निरूपितः । तथा तस्य प्रतिनिधि
रूपाणि वाक्यान्तराणि अपि दृश्यन्ते । यथा

अष्टमस्तु तयोरासीत्स्वयमेव हरिः किल ॥ इति [भागवतम् ९.२४.५५]

किलशब्देन कृष्णस्त्विति प्रसिद्धिः सूच्यते । ततो हरिरत्र भगवानेव ।
यथोक्तम् वसुदेवगृहे साक्षाद्भगवान् पुरुषः परः [भागवतम् १०.१.२३] इति
च ।

॥ ९.२४ ॥ श्रीशुकः ॥ ७४ ॥

[७५]

यथा वा अहो भाग्यमहो भाग्यमित्यादि ॥ [भागवतम् १०.१४.३२]

ब्रह्मत्वेनैव बृहत्तमत्वे लब्धेऽपि पूर्णमित्यधिकं विशेषणम्
अत्रोपजीव्यते ॥

॥ १०.१४ ॥ श्रीब्रह्मा भगवन्तम् ॥ ७५ ॥

[७६]

अतएव

स्वयं त्वसाम्यातिशयस्त्र्यधीशः
स्वाराज्यलक्ष्म्य्आप्तसमस्तकामः ।
बलिं हरद्भिश्चिरलोकपालैः
किरीटकोटीडितपादपीठः ॥ [भागवतम् ३.२.२१]

न साम्यातिशयौ यस्य यमपेक्ष्यान्यस्य साम्यमतिशयश्च नास्तीत्य्
अर्थः । तत्र हेतवस्त्र्य्अधीशस्त्रिषु सङ्कर्षणप्रद्युम्नानिरुद्धेष्वप्य्
अधीशः । सर्वांशित्वादतएव स्वाराज्यलक्ष्म्या सर्वाधिकपरमानन्द
स्वरूपसम्पत्त्यैव प्राप्तसमस्तभोगः । बलिं तद्इच्छानुसरणरूपम्
अर्हणं हरद्भिः समर्पयद्भिश्चिरैर्लोकपालैर्भगवद्दृष्ट्य्
अपेक्षया ब्रह्मादयस्तावदचिरलोकपालाः अनित्यत्वात्ततश्च चिर
कालीनैर्लोकपालैरनन्तब्रह्माण्डान्तर्यामिपुरुषैः किरीटकोटिद्वारा
ईडितं स्तुतं पादपीठं यस्य सः । अत्यन्ततिरस्कृतवाच्यध्वनिना
परमश्रेष्ठ इत्यर्थः । समस्तपादपाठेऽपि (पगे २९) स एवार्थः ।
श्रीकृष्ण इति कृष्णस्तु भगवान् स्वयमितिवत्स्वयं भगवत्तामेव
व्यनक्ति ।

॥ ३.२ ॥ श्रीमद्उद्धवो विदुरम् ॥ ७६ ॥

[७७]

तदेतत्पूर्णत्वं दृष्टान्तद्वारापि दर्शितमस्ति ।

देवक्यां देवरूपिण्यां विष्णुः सर्वगुहाशयः ।
आविरासीद्यथा प्राच्यां दिशीन्दुरिव पुष्कलः ॥ [भागवतम् १०.३.८]

यथा यथावत्स्वस्वरूपेणैवेत्यर्थः ॥

॥ १०.३ ॥ श्रीशुकः ॥ ७७ ॥

[७८]

यथा च

अखण्डमण्डलो व्योम्नि रराजोडुगणैः शशी ।
यथा यदुपतिः कृष्णो वृष्णिचक्रावृतो भुवि ॥ [भागवतम् १०.२०.४४]

स्पष्टम् ॥ १०.२० ॥ श्रीशुकः ॥ ७८ ॥

[७९]

तथा श्रीकृष्णप्रतिनिधिरूपत्वादस्य महापुराणस्य श्रीकृष्ण एव
मुख्योऽभिधेय इत्यप्याह ।

कृष्णे स्वधामोपगते धर्मज्ञानादिभिः सह ।
कलौ नष्टदृशामेष पुराणार्कोऽधुनोदितः ॥ [भागवतम् १.३.४३]

स्पष्टम् ॥ १.३ ॥ श्रीसूतः ॥ ७९ ॥

[८०]

तदेवं श्रीकृष्णस्य स्वयं भगवत्त्वं दर्शितम् । तत्तु गतिसामान्येनापि
लभ्यते । यथा महाभारते

सर्वे वेदाः सर्वविद्याः सर्वशास्त्राः
सर्वे यज्ञाः सर्व ईड्यश्च कृष्णः ।
विदुः कृष्णं ब्राह्मणास्तत्त्वतो
ये तेषां राजन् सर्वाज्ञाः समाप्ताः ॥ इति ।

अत्र सर्वसमन्वयसिद्धेः पूर्णत्वमेव लभ्यते । एवं श्रीभगवद्
उपनिषत्सु च वेदैश्च सर्वैरहमेव वेद्यो वेदान्तकृद्वेदविदेव
चाहम् [Bग्१५.१५] इति, ब्रह्मणो हि प्रतिष्ठाहम् [Bग्१४.२७] इत्यादि च ।
ब्रह्मसंहितायाम् [५.२९] चिन्तामणिप्रकरसद्मसु कल्पवृक्ष
लक्षावृतेषु सुरभीरभिपालयन्तमित्यादिकमुपक्रम्य

यस्यैकनिश्वसितकालमथावलम्ब्य
जीवन्ति लोमविलजा जगद्अण्डनाथाः ।
विष्णुर्महान् स इह यस्य कलाविशेषो
गोविन्दमादिपुरुषं तमहं भजामि ॥ इति [Bरह्मष्५.३०] ।

ननु पाद्मोत्तरखण्डादौ सर्वावतारी परव्योमाधिपतिर्नारायण एवेति
श्रूयते । पञ्चरात्रादौ तु वासुदेवः, न च स कृष्ण एवेति वक्तव्यम् । तत्तु
स्थानपरिकरनामरूपाणां भेदात् । तर्हि कथं श्रीकृष्णस्यैव
सर्वावतारित्वं स्वयंभगवत्त्वं वा ? तत्रोच्यते श्रीभागवतस्य सर्व
शास्त्रचक्रवर्तित्वं प्रथमसन्दर्भे प्रघट्टकेनैव दर्शितम् ।
पूर्णज्ञानप्रादुर्भावानन्तरमेव श्रीवेदव्यासेन तत्प्रकाशितमिति
च तत्रैव प्रसिद्धम् । स्फुटमेव दृश्यते चास्मिन्नपर
शास्त्रोपमर्दकत्वम् ।

इत्यङ्गोपदिशन्त्येके विस्मृत्य प्रागुदाहृतम् ।
मुनिवासनिवासे किं घटेतारिष्टदर्शनम् ॥ [भागवतम् १०.५७.३१] इत्यादौ ।

एवं वदन्ति राजर्षे [भागवतम् १०.७७.३०] इत्यादौ च । अतएव नवमेऽप्युक्तम्

हित्वा स्वशिष्यान् पैलादीन् भगवान् बादरायणः ।
मह्यं पुत्राय शान्ताय परं गुह्यमिदं जगौ ॥ [भागवतम् ९.२२.२२] इति ।

तदेवं सर्वशास्त्रोपचरितत्वं सिद्धम् । तत्र श्रीकृष्णस्यैव स्वयं
भगवत्त्वं निरूपितम् । दृश्यते च प्रशंसितुर्वैशिष्ट्येन प्रशंस्यस्यापि
वैशिष्ट्यम् । यथा ग्रामाध्यक्ष्यराजसभयोः सर्वोत्तमत्वेन
प्रशस्यमानौ वस्तुविशेषौ तारतम्यमापद्येते । (पगे ३०) तदेवं सत्स्व्
अप्यन्येषु तेष्वन्यत्र प्रशस्तेषु श्रीभागवतप्रशंस्यमानस्य श्री
कृष्णस्यैव परमाधिक्यं सिध्यति । अतएव कृष्णस्तु भगवान् स्वयमिति
सावधाराणा श्रुतिरन्यश्रुतिबाधिकेति युक्तमेव व्याख्यातं पूर्वम्
अपि ।

ततश्च ते तु परव्योमाधिपनारायणवासुदेवादयः श्रीकृष्णस्यैव
मूर्तिविशेषा भवेयुः । स्वयं श्रीकृष्णस्तु नारायणस्त्वमित्याद्युक्तो
महानारायणो द्वारकादिप्रसिद्धो महावासुदेवश्च भवेत् । ततश्च
नारायणवासुदेवोपनिषदोः स एव व्यक्तः । ब्रह्मण्यो देवकीपुत्र इति
[णाऊ ४], देवकीनन्दनो निखिलमानन्दयादिति च । तदित्थमेव तं
वासुदेवमपि विभूतिनिर्विशेषतया स्वयमेव स्पष्टमाह वासुदेवो
भगवताम् [भागवतम् ११.१९.२९] इति स्पष्टम् ।

[८१]

तथा

सात्वतां नवमूर्तीनामादिमूर्तिरहं परा ॥ इति [भागवतम् ११.१९.३२]

टीका च सात्वतां भागवतानां नवव्यूहार्चने वासुदेवसङ्कर्षण
प्रद्युम्नानिरुद्धनारायणहयग्रीववराहनृसिंहब्रह्माण इति या
नवमूर्तयस्तासां मध्ये वासुदेवाख्या । इत्येषा ।

अतएव दृश्यते चाद्वैतवादिनामपि सन्न्यासिनां व्यासपूजापद्धतौ श्री
कृष्णस्य मध्यसिंहासनस्थत्वं वासुदेवादीनां व्यासादीनां चावरण
देवतात्वमिति । अतएव क्रमदीपिकायामष्टाक्षरपटले वासुदेवादयस्
तद्आवरणत्वेन श्रूयन्ते । यत्तु वृष्णीनां वासुदेवोऽस्मि [गीता १०.३७] इति
भगवद्उपनिषदः । तत्र वासुदेवशब्देन वसुदेवापत्यार्थेन श्री
बलदेव एवोच्यते । वक्ता हि तत्र श्रीकृष्ण एव । ततश्च स्वविभूतिं
कथयति तस्मिन्नपि विभूतित्वारोपो न युज्यते । वक्तुरन्यत्रैव श्रोतृभिस्
तत्प्रतीतेः । ततो मुख्यार्थबाधे तथैव व्याख्या समुचिता । तस्मात्
साधु व्याख्यातम् वासुदेवो भगवतामित्यादि [भागवतम् ११.१९.२९] ।

॥ ११.१९ ॥ श्रीभगवान् ॥ ८०८१ ॥

[८२]

यस्मादेवं सर्वतोऽपि तस्योत्कर्षस्तस्मादेवान्यतस्तदीयनामादीनाम्
अपि महिमाधिक्यमिति गतिसामान्यान्तरं च लभ्यते । तत्र नाम्नो यथा
ब्रह्माण्डपुराणे श्रीकृष्णाष्टोत्तरशतनामामृतस्तोत्रे

सहस्रनाम्नां पुण्यानां त्रिर्आवृत्त्या तु यत्फलम् ।
एकावृत्त्या तु कृष्णस्य नामैकं तत्प्रयच्छति ॥ इति ।

व्यक्तीक्रियते चाधिकफलत्वं कृष्णनाम्नः पाद्मे पातालखण्डे श्री
मथुरामाहात्म्ये श्रीमहादेवस्यैव वाक्ये तारकाज्जायते मुक्तिः
प्रेमभक्तिस्तु पारकादिति । पूर्वमत्र मोचकत्वप्रेमदत्वाभ्यां
तारकपारकसंज्ञे रामकृष्णनाम्नोर्हि विहिते । तत्र च रामनाम्नि
मोचकत्वशक्तिरेवाधिका श्रीकृष्णनाम्नि तु मोक्षसुखतिरस्कारि
प्रेमानन्ददातृत्वशक्तिः समधिकेति भावः । इत्थमेवोक्तं विष्णु
धर्मोत्तरे

यच्छक्तिर्नाम यत्तस्य तस्मिन्नेव च वस्तुनि ।
साधकं पुरुषव्याघ्र सौम्यक्रूरेषु वस्तुषु ॥ इति ।

किं च श्रीकृष्णनाम्नो माहात्म्यं निगदेनैव श्रूयते प्रभासपुराणे
श्रीनारदकुशध्वजसंवादे श्रीभगवद्उक्तौ नाम्नां मुख्यतमं
नाम कृष्णाख्यं मे परन्तप इति । तदेवं गतिसामान्येन नाममहिम
द्वारा तन्महिमातिशयः साधितः । तथा तदीयगुणरूपलीलामथुरादि
स्थानानामपि तत्तच्छास्त्रप्रतिपाद्यमानैः सर्वाधिकमहिमभिरप्य्
असावनुसन्धेयः । विस्तरभिया तु नोदाह्रियते ।
(पगे ३१)
[षर्वसंवादिनी: एतदनन्तरं गतिसामान्यप्रकरण्श्रीकृष्णनाम
माहात्म्ये सहस्रनाम्नामित्यादिब्रह्माण्डवाक्यानन्तरमेव
व्याख्येयम् । यथा

सर्वार्थशक्तियुक्तस्य देवदेवस्य चक्रिणः ।
यच्चाभिरुचितं नाम तत्सर्वार्थेषु योजयेत् ॥

इति विष्णुधर्मदृष्ट्या सर्वेषामेव भगवन्नाम्नां निरङ्कुश
महिमत्वे सति समाहृतानामुच्चारणमपि नानार्थकं संस्कारप्रचय
हेतुत्वादेकस्यैवोच्चारारप्रचयवदिति नामकौमुदीकारैरङ्गीकृतम् ।
तथा समाहृतसहस्रनामत्रिर्आवृत्तिशक्तेः कृष्णनामोच्चारणवश्यं
मन्तव्यम् । अत्र देवदेवस्य यदभिरुचितं प्रियं नाम तत्सर्वार्थेषु
योजयेदित्यपि केचिद्व्याचक्षते । यथा हरेः प्रियेण गोविन्दनाम्ना
निहतानि सद्यः इति ।

ननु बृहत्सहस्रनामस्तोत्रं नित्यमेव पठन्तीं देवीं प्रति सहस्र
नामतत्तुल्यं रामनाम वरानने इत्याद्य्उपपत्त्या रामनाम्नैव
सहस्रनामफलं भवतीति बोधयन् श्रीमहादेवस्तत्सहस्र
नामान्तर्गतकृष्णनाम्नामपि गौणत्वं बोधयति । तर्हि कथं
ब्रह्माण्डवचनमविरुद्धं भवति । उच्यते प्रस्तुतस्य बृहत्सहस्र
नामस्तोत्रस्यैवैकया वृत्त्या यत्फलं तद्भवतीति रामनाम्नि
प्रौढिः । कृष्णनाम्नि तु द्विगावसम्भवात्सहस्रनाम्नामिति बहु
वचनात्तादृशानां बहूनां सहस्रनामस्तोत्राणां त्रिर्आवृत्त्या तु यत्
फलं तद्भवतीति ततोऽपि महती प्रौढिः । अतएव तत्र

समस्तजपयज्ञानां फलदं पापनाशनम् ।
शृणु देवि प्रवक्ष्यामि नाम्नामष्टोत्तरं शतम् ॥

इत्युक्त्वा अन्येषामपि जपानां वेदाद्य्उक्तानां फलमन्तर्भावितम् ।
ततश्च प्रौङ्ह्याधिक्यादुत्तरस्य पूर्वस्माद्बलवत्त्वे सति पूर्वस्य
महिमापि तद्अविरुद्ध एव व्याख्येयः । तदा हि यद्यप्येवमेव श्री
कृष्णवत्तन्नाम्नोऽपि सर्वतः शक्तिपूर्णतया सर्वेषामपि नाम्नाम्
अवयवित्वमेव तथापि अवयवसाधारण्येन फलं भवेत् । यथा साक्षान्
मुक्तेरपि दातुः श्रीविष्णोराधानस्य यज्ञाङ्गत्वेन क्रियमाणस्य स्वर्ग
मात्रप्रदत्वम् । यथा वा वेदजपतस्तद्अन्तर्गतभगवन्मन्त्रेणापि
न ब्रह्मलोकाधिकफलप्राप्तिः । यथात्रैव तावत्केवलं रामनामैव
सकृद्वदतोऽपि बृहत्सहस्रनामफलमन्तर्भूतरामनामैकोन
सहस्रनामकं सम्पूर्णम् । बृहत्सहस्रनामापि पठतो बृहत्सहस्र
नामफलं न त्वधिकमेकोनसहस्रनामफलमिति । अतएव
साधारणानां केशवादिनाम्नापि तदीयतावैलक्षण्येनागृह्यमाणानाम्
अवतारान्तरनामसाधारणफलमेव ज्ञेयम् । नामकौमुद्यां तु
सर्वानर्थक्षय एव ज्ञानाज्ञानविशेषो निषिद्धः न तु प्रेमादिफल
तारतम्ये । तदेवं कृष्णनाम्नः साधारणफलदत्त्वे सति सहस्र
नामभिस्तुल्यं रामनाम वरानन इत्यपि युक्तमुक्तम् । वस्तुतस्त्वेवं
सर्वावतारावतारिणामभ्यः श्रीकृष्णनाम्नोऽभ्यधिकं फलं स्वयं
भगवत्त्वात्तस्य ।

ननु यथा दर्शपौर्णमास्याद्य्अङ्गभूतया पूर्णाहूत्या सर्वान् कामान्
अवाप्नोति इत्यादावर्थवादत्वं तथैवात्रोभयत्रापि भविष्यतीति चेत्, न ।
बृहत्सहस्रनामस्तोत्रं पठित्वैव भोजनकारिणीं देवीं प्रति राम
नामैव सकृत्कीर्तयित्वा कृतकृत्या सती मया सह भुङ्क्ष्वेति साक्षाद्
भोजने श्रीमहादेवेन प्रवर्तनात् । कृष्ण्नाम्नि तु तथार्थवादत्वं
दूरोत्सारितमेवेति ॥ [Eन्द्षर्वसंवादिनी]

इत्थमेव श्रीकृष्णस्यैवासमोर्द्ध्वमहिमत्वात्स्वयमेव तेनापि सकल
भक्तवृन्दवन्दितभगवत्प्रणयं श्रीमद्अर्जुनं प्रति सर्व
शास्त्रार्थसारभूतश्रीगीतोपसंहारवाक्ये निजाखिलप्रादुर्भावान्तर
भजनमतिक्रम्य स्वभजनमेव सर्वगुह्यतमत्वेनोपदिष्टम् ।
यथाह कर्तुं नेच्छसि यन्मोहात्करिष्यस्यवशोऽपि तद्[गीता १८.६०] इत्य्
अनन्तरम्

ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति ।
भ्रामयन् सर्वभूतानि यन्त्रारूढानि मायया ॥
तमेव शरणं गच्छ सर्वभावेन भारत ।
तत्प्रसादात्परां शान्तिं स्थानं प्राप्स्यसि शाश्वतम् ॥
इति ते ज्ञानमाख्यातं गुह्याद्गुह्यतरं मया ।
विमृश्यैतदशेषेण यथेच्छसि तथा कुरु ॥
सर्वगुह्यतमं भूयः शृणु मे परमं वचः ।
इष्टोऽसि मे दृढमिति ततो वक्ष्यामि ते हितम् ॥
मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु ।
मामेवैष्यसि सत्यं ते प्रतिजाने प्रियोऽसि मे ॥
सर्वधर्मान् परित्यज्य मामेकं शरणं व्रज ।
अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः ॥ [गीता १८.६१६६]

एषामर्थः अशोच्यानन्वशोचस्त्वमित्यादि [गीता २.११] ग्रन्थो न
युद्धाभिधायकः, यतः कर्तुमित्यादि ततः परमार्थाभिधायक
एवायं तत्रापि गुह्यतरं सर्वगुह्यतमं च शृणु इत्याह । ईश्वर इत्यादि ।
य एक सर्वान्तर्यामी ईश्वरः स एव सर्वाणि संसारयन्त्रारुढानि भूतानि
मायया भ्रामयन् तेषामेव हृद्देशे तिष्ठति सर्वभावेन पुरुष
एवदं सर्वम् [श्वेतू ३.१५] इति भावनायाः सर्वेन्द्रियप्रवणतया वा परां
शान्तिं तदीयां परमां भक्तिं शमो मन्निष्ठता बुद्धेर्[भागवतम् ११.१९.३६]
इत्युक्तेः । स्थानं तदीयं धाम गुह्याद्ब्रह्मज्ञानादपि गुह्यतरं
द्वयोः प्रकर्षे तरप् ।

अथेदमपि निजैकान्तभक्तवराय तस्मै न पर्याप्तमिति अवध्याय
स्वयमेव महाकृपाभरेणोद्घाटितपरमरहस्यः श्रीभगवान्
अन्यामपि प्रद्युम्नसङ्कर्षणवासुदेवपरमव्योमाधिपलक्षण
भजनीयतारतम्यगम्यां भजनक्रमभूमिकामतिक्रम्यैव
सर्वतोऽप्युपादेयमेव सहसोपदिशति सर्वगुह्यतमं भूयः [१८.६४] इति ।
यद्यपि गुह्यतमत्वोक्तेरेव गुह्यगुह्यतराभ्यामपि प्रकृष्टमिदम्
इत्यायाति तथापि सर्वशब्दप्रयोगो गुह्यतममपि परमव्योमाधिपादि
भजनार्थशास्त्रान्तरवाक्यमत्येति, तस्य यावद्अर्थवृत्तिकत्वात् ।
बहूनां प्रकर्षे तमप् । अतएव परमम् । स्वकृततादृशहितोपदेश
श्रवणे हेतुमाह इष्टोऽसि मे दृढमितीति । परमाप्तस्य ममैतादृशं
वाक्यं त्वयावश्यं श्रोतव्यमिति भाव इत्यर्थः ।

स्वस्य च तादृशरहस्यप्रकाशने हेतुमाह तत इति । ततस्तादृशेष्टत्वाद्
एव हेतोः । तदेवमौत्सुक्यमुच्छलय्य किं तदित्यपेक्षायां
सप्रणयाश्रुकृताञ्जलिमेतं प्रत्याह मन्मना इति । मयि त्वन्मित्रतया
साक्षादस्मिन् स्थिते श्रीकृष्णे मनो यस्य तथाविधो भव । एवं मद्
भक्तो मद्एकतात्पर्यको भवेत्यादि । सर्वत्र मच्छब्दावृत्त्या मद्
भजनस्यैव नानाप्रकारतया आवृत्तिः कर्तव्या । न त्वीश्वरतत्त्वमात्र
भजनस्येति बोध्यते । साधनानुरूपमेव फलमाह मामेवैष्यसीति ।
अनेनैवकारेणाप्यात्मनः सर्वश्रेष्ठत्वं सूचितम् । अन्यस्य (पगे ३२)
का वार्ता मामेवेति । एतदेव फलं श्रीपरीक्षितापि व्यक्तीकरिष्यते कलिं
प्रति ।

यस्त्वं कृष्णे गते दूरं
सह गाण्डीवधन्वना ।
शोच्योऽस्यशोच्यान् रहसि
प्रहरन् वधमर्हसि ॥ [भागवतम् १.१७.६] इति ।

सत्यं ते इत्यनेनात्रार्थे तुभ्यमेव शपेऽहमिति प्रणयविशेषो दर्शितः ।
पुनरप्यतिकृपया सर्वगुह्यतममित्यादि वाक्यार्थानां पुष्ट्य्अर्थम्
आह प्रतिजाने इति ।

ननु नानाप्रतिबन्धविक्षिप्तस्य मम कथं त्वन्मनस्त्वादिकमेव
सिध्येत्तत्राह सर्वेति । सर्वशब्देन नित्यपर्यन्ता धर्माः विवक्षिताः ।
परिशब्देन तेषां स्वरूपतोऽपि त्यागः समर्थितः । पापानि प्रतिबन्धास्
तद्आज्ञया परित्यागे पापानुत्पत्तेः । तदेव व्यतिरेकेन द्रढयति मा शुच
इति । तत्र

अशोच्यानन्वशोचस्त्वं
प्रज्ञावादांश्च भाषसे ।
गतासूनगतासूंश्च
नानुशोचन्ति पण्डिताः ॥ [गीता २.११]

इत्युपक्रमवाक्ये तस्यापण्डितत्वं व्यज्य शोकपरित्यागेन मत्
कृतोपदेशमेव गृहाणेति विवक्षितम् । ततश्च तारतम्यज्ञानार्थमेव
बहुधोपदिश्यापि महोपसंहारवाक्यस्थस्य त्वस्योपदेशस्य परमत्वं
निर्दिश्य शोकपरित्यागेन तमेतमेवोपदेशं त्वं गृहाणेति द्वयोर्
वाक्ययोरेकार्थप्रवृत्तत्वमपि स्पष्टम् ।

षर्वसंवादिनी अथ ईश्वरः सर्वभूतानामित्यादिश्रीगीतापद्य
षट्के व्याख्यानान्तरमेव व्याख्येयम् । तथा हि अत्र कश्चिद्वदति
ईश्वरः सर्वभूतानामित्यादौ सर्व एवेदमीश्वर इति भावेन यद्
भजनं, तत्र ज्ञानांशस्पर्शः । इह तु मन्मना भवेत्यादिशुद्धैव
भक्तिरुपदिष्टेत्यत एव सर्वगुह्यत्मत्वम् । किं वा पूर्वेण वाक्येन
परोक्षतयैवेश्वरमुद्दिश्यापरेण तमेवापरोक्षतया निर्दिष्टवानित्यत
एव न च वक्तवयम् । पूर्वमपि

मन्मना भव मद्भक्तो
मद्याजी मां नमस्कुरु ।
मामेवैष्यसि युक्त्वैवम्
आत्मानं मत्परायणः ॥ [९.३४]

इत्यादिभिः शुद्धभजनस्योक्तत्वात् । तथापि अधियज्ञोऽहमेवात्र देहे
देहभृतां वरः [गीता ८.४] इत्यादौ च स्वस्यान्तर्यामित्वेन चोक्तत्वात् ।
सर्वगुह्यतमत्वगुह्यतरत्वयोरनुपपत्तिरिति । यद्यदेव पूर्वं
सामान्यतयोक्तं तस्यैवान्ते विविच्य निर्दिष्टत्वात् । उच्यते न तावद्भजन
तारतम्यम् । अत्र भजनीयतारतम्यस्यापि सम्भवे गौणमुख्य
न्यायेन भजनीय एवार्थसम्प्रतीतेः । मुख्यत्वं च तस्य फलमत
उपपत्तेरिति [Vस्३.२.२९] न्यायेन । विशेषतस्तु तच्छब्देन न स्वयमेव तद्
रूप इति मच्छब्देन स्वयमेवैतद्रूप इति च भेदस्य विद्यमानत्वात्
उपदेशद्वये निजेनौदासीन्येनावेशेन च लिङ्गेनापूर्णत्वोपलम्भनात् ।
फलभेदव्यपदेशेनैवकारेण च तद्अर्थस्यैव पुष्टत्वात् । साक्षादेव
भजनीयतारतम्यमुपलभ्यते । वस्तुतस्तु सर्वभावेनेत्यस्य
सर्वेन्द्रियप्रवणतयेत्येवार्थः । गौणमुख्यन्यायेनैव ज्ञान
मिश्रस्य सर्वात्मताभावनालक्षणभजनरूपार्थस्य बाधितत्वात् ।

स्थानं प्राप्स्यसि शाश्वतमिति लोकविशेषप्राप्तेरेव निर्दिष्टत्वात् । तस्मान्
न च भजनावृत्तितारतम्यावकाशः । न च भजनीयस्यैव
परोक्षापरोक्षतया निर्देशयोस्तारतम्यम् । तदैव तया
प्राचीनयार्वाचीनया चानया गतिक्रियया सङ्कोचवृत्तिरियं कल्पनीया ।
यद्यन्तर्यामिणः सकाशादन्या परावस्था न श्रूयते, शास्त्रे श्रूयते तु
तद्अवस्थातः परा, ततोऽपि परा च सर्वत्र । अत्रैव तावत्
साधिभूताधिदैवं मां चाधियज्ञं च ये विदुः [गीता ७.३०] इत्यादौ
भेदव्यपदेशात् । तत्र सहयुक्तेऽप्रधाने [पाणिनि २.३.१७] इति
स्मरणेनाधियज्ञस्यान्तर्यामिणः सहार्थतृतीयान्ततया लब्धसमास
पदस्य स्वस्मादप्रधानत्वोक्तेस्ततः परत्वं श्रीकृष्णस्य व्यक्तमेव ।
अधियज्ञोऽहमेवात्र [गीता ८.४] इत्यादौ च तदेव व्यज्यते । एष वै
भगवान् द्रोणः प्रजारूपेण वर्तते [भागवतम् १.७.४५] इतिवत् । तस्माद्भजनीय
तारतम्यविवक्षयैवोपदेशतारतम्यं सिद्धम् । एष तु वातिवदति यः
सत्येनातिवदति [Cहाऊ ७.१६.१] इतिवत्यः सत्येन ब्रह्मणैव प्रतिपाद्य
भूतेन सर्वं वादिनमतिक्रम्य वदति एष एव सर्वमतिक्रम्य वदतीत्य्
अर्थः । तदेवमर्थे सति यथा तत्र वादस्यातिशायितालिङ्गेन नामादि
प्राणपर्यन्तानि तत्प्रकरण उत्तरोत्तरभूमतयोपदिष्टान्यपि सर्वाणि
वस्तून्यतिक्रम्य ब्रह्मण एव भूमत्वं साध्यते तद्वदत्राप्य्
उपदेशाधिक्येन प्रतिपाद्याधिक्यमिति । अतः श्रीकृष्णस्यैवाधिक्यमित्य्
अन्तेऽप्युक्तमिति दिक् । [एन्द्षर्वसंवादिनी]

अतः श्रीकृष्णस्यैवाधिक्यं सिद्धम् । अतएव असद्व्यपदेशान्नेति चेन्न
धर्मान्तरेण वाक्यशेषाद्[Vस्. २.१.१७] इति न्यायाद्
उपसंहारस्यैवोपक्रमार्थस्य च सर्वशास्त्रार्थत्वात्तत्रोक्तं विश्व
रूपमभि तद्अधीनामेव । तच्च युक्तम् । तेनैव दर्शितत्वात् । तत्र च


इत्यर्जुनं वासुदेवस्तथोक्त्वा
स्वकं रूपं दर्शयामास भूयः ॥ [गीता ११.५०]

इत्य्नराकारचतुर्भुजरूपस्यैव स्वकत्वनिर्देशात् । तद्विश्वरूपं न
तस्य साक्षात्स्वरूपमिति स्पष्टम् । अतएव परमभक्तस्यार्जुनस्यापि न
तद्अभीष्टम्, किन्तु तदीयं स्वयं रूपमेवाभीष्टम् । अदृष्टपूर्वं
हृषितोऽस्मि दृष्ट्वा भयेन च प्रव्यथितं मनो मे [गीता ११.४५] । इत्याद्य्
उक्तेः । तद्दर्शनार्थमर्जुनं प्रति दिव्यदृष्टिदानलिङ्गेन तस्यैव
माहात्म्यमिति तु बालकोलाहलः । नराकृति परं ब्रह्म इति, तदमितं
ब्रह्माद्वयं शिष्यते इति [भागवतम् १०.१४.१८], यन्मित्रं परमानन्दम् [भागवतम्
१०.१४.३२] इति, स एव नित्यात्मसुखानुभूत्य्अभिव्युदस्तमायः [भागवतम् १०.१२.३९]
इति, स त्वं विभो कथमिहाक्षपथः प्रतीत इति च, तथा ब्रह्मणो हि
प्रतिष्ठाहम् [गीता १४.२७] इति, नाहं प्रकाशः सर्वस्य [गीता ७.२५] इति च
श्रवणेन प्रकृष्टदृष्टेस्तत्राप्यकरणत्वाद्भगवच्छक्तिविशेष
संवलितदृष्टेरेव तत्र करणत्वात् । ततस्तस्या दृष्टेर्दिव्यत्वं दानं च
नराकारपरब्रह्मदर्शनहेतुलक्षणायास्तत्स्वाभाविकदृष्टेर्
अन्यासौ देववपुर्दर्शनहेतुरित्यपेक्षयाइव । तच्च नराकृतिपर
ब्रह्म दिव्यदृष्टिभिरपि दुर्दर्शमित्युक्तम्

सुदुर्दर्शमिदं रूपं दृष्टवानसि यन्मम ।
देवा अप्यस्य रूपस्य नित्यं दर्शनकाङ्क्षिणः ॥ [गीता ११.५२] इत्यादिना ।

किन्तु भक्त्यैव सुदर्शनमित्यप्युक्तम् ।

भक्त्या त्वनन्यया शक्य अहमेवंविधोऽर्जुन ।
ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परंतप ॥ [गीता ११.५४] इत्यादिना ।

न च सुदुर्दर्शम् (पगे ३३) इत्यादिकं विश्वरूपपरम् । दृष्ट्वेदं
मानुषं रूपम् [गीता ११.५१] इत्यादेरेवाव्यवहितपूर्वोक्तत्वात्विश्वरूप
प्रकरणस्य तद्व्यवधानाच्च । तथा चैकादशे सर्वेषां देवादीनाम्
आगमने व्यचक्षतावितृप्ताक्षाः कृष्णमद्भुतदर्शनम् [भागवतम् ११.६.५] इति ।
तत्रैवान्यत्र गोविन्दभुजगुप्तायाम् [भागवतम् ११.२.१] इत्यादि । सप्तमे यूयं
नृलोके [७.१०.४८] इत्यादि च । तृतीये च विस्मापनं स्वस्य च [३.२.१२] ।

अत उपसंहारानुरोधेन स्ववाक्यतात्पर्येण चास्यापि प्रकरणस्य श्री
कृष्णपरत्वमेव । तस्मात्श्रीकृष्णगीतासु च श्रीकृष्णस्यैव स्वयं
भगवत्त्वं सिद्धम् । तदुक्तम्

एकं शास्त्रं देवकीपुत्रगीतम्
एको देवो देवकीपुत्र एव ।
कर्माप्येकं देवकीपुत्रसेवा
मन्त्रोऽप्येको देवकीपुत्रनाम ॥ इति ।

तथा श्रीगोपालपूर्वतापनीश्रुतावपि मुनयो ह वै ब्रह्माणमूचुः,
कः परमो देवः [ङ्टू १.२] इत्याद्य्अनन्तरं तदु होवाच ब्राह्मणः ।
कृष्णो वै परमं दैवतम् [ङ्टू १.३] इत्यादि । उपसंहारे च तस्मात्कृष्ण
एव परो देवस्तं ध्यायेत्तं रसेत्तं यजेदित्यों तत्सद्[ङ्टू १.४९] इति ।

किं बहुना सर्वावतारावतारिविलक्षणा महाभगवत्तामुद्राः साक्षाद्
एव तत्र वर्तन्त इति श्रूयते पाद्माध्यायत्रयेण । यथा तदीया कियन्तः
श्लोकाः ।

ब्रह्मोवाच
शृणु नारद वक्ष्यामि पादयोश्चिह्नलक्षणम् ।
भगवत्कृष्णरूपस्य ह्यानन्दैकघनस्य च ॥
अवतारा ह्यसङ्ख्येयाः कथिता मे तवानघ ।
परं सम्यक्प्रवक्ष्यामि कृष्णस्तु भगवान् स्वयम् ॥
देवानां कार्यसिद्ध्य्अर्थमृषीणां च तथैव च ।
आविर्भूतस्तु भगवान् स्वानां प्रियचिकीर्षया ॥
यैरेव ज्ञायते देवो भगवान् भक्तवत्सलः ।
तान्यहं वेद नान्योऽस्ति सत्यमेतन्मयोदितम् ॥
षोडशैव तु चिह्नानि मया दृष्टानि तत्पदे ।
दक्षिणेनाष्टचिह्नानि इतरे सप्त एव च ॥
ध्वजाः पद्मं तथा वज्रमङ्कुशो यव एव च ।
स्वस्तिकं चोर्ध्वरेखा च अष्टकोणस्तथैव च ॥
सप्तान्यानि प्रवक्ष्यामि साम्प्रतं वैष्णवोत्तम ।
इन्द्रचापं त्रिकोणं च कलसं चार्धचन्द्रकम् ॥
अम्बरं मत्स्यचिह्नं च गोष्पदं सप्तमं स्मृतम् ।
अङ्कान्येतानि भो विद्वन् दृश्यन्ते तु यदा कदा ॥
कृष्णाख्यं तु परं ब्रह्म भुवि जातं न संशयः ।
द्वयं वाथ त्रयं वाथ चत्वारः पञ्च एव वा ॥
दृश्यन्ते वैष्णवश्रेष्ठ अवतारे कथञ्चन ॥ इत्यादि ।
षोडशं तु तथा चिह्नं शृणु देवर्षिसप्तम् ।
जम्बूफलसमाकारं दृश्यते यत्र कुत्रचित् ॥ इत्यन्तम् ।

षर्वसंवादिनी: अथ शृणु नारद प्रवक्ष्यामीत्य्आदिचरणचिह्न
प्रतिपादकपाद्मवचनान्तमादिशब्दादेतान्यपि पद्यानि ज्ञेयानि ।

मध्ये ध्वजा तु विज्ञेया पद्मं त्र्याङ्गुलमानतः ।
वज्रं वै दक्षिणे पार्श्वे अङ्कुशो वै तद्अग्रतः ॥
यवोऽप्यङ्गुष्ठमूले स्यात्स्वस्तिकं यत्र कुत्रचित् ।
आदिं चरणमारभ्य यावद्वै मध्यमा स्थिता ॥
तावद्वै चोर्ध्वरेखा च कथिता पाद्मसंज्ञके ।
अष्टकोणं तु भो वत्स मानं चाष्टाङ्गुलैश्च तत् ॥
निर्दिष्टं दक्षिणे पादे इत्याहुर्मुनयः किल ।
एवं पादस्य चिह्नानि तान्येव वैष्णवोत्तम ॥
दक्षिणेतरस्थानानि संवदामीह साम्प्रतम् ।
चतुरङ्गुलमानेन त्वङ्गुलीनां समीपतः ॥
इन्द्रचापं ततो विद्यादन्यत्र न भवेत्क्वचित् ।
त्रिकोणं मध्यनिर्दिष्टं कलसो यत्र कुत्रचित् ॥
अष्टाङ्गुलप्रमाणेन तद्भवेदर्धचन्द्रकम् ।
अर्धचन्द्रसमाकारं निर्दिष्टं तस्य सुव्रत ॥
बिन्दुर्वै मत्स्यचिह्नं च आद्यन्ते वै निरूपितम् ।
गोष्पदं तेषु विज्ञेयमाद्याङ्गुलप्रमाणतः ॥ इत्यादि ।

तद्अग्रे च
षोडशं तु तथा चिह्नं शृणु देवर्षिसत्तम ।
जम्बूफलसमाकारं दृश्यते यत्र कुत्रचित् ।
तच्चिह्नं षोडशं प्रोक्तमित्याहुर्मुनयोऽनघाः ॥ इति ।

अत्र वैष्णवोत्तमेत्य्आदिकं श्रीनारदसम्बोधनम् । यदा कदेति यदा
कदाचिदेवेत्यर्थः । मध्यमापार्ष्णिपर्यन्तयोः समदेशो मध्यस्
तत्र ध्वजा ध्वजः । त्र्य्अङ्गुलमानतः । पादाग्रे त्र्य्अङ्गुलप्रमाण
देशं परित्यज्येत्यर्थः । पद्यस्याधो ध्वजं धत्ते सर्वानर्थजय
ध्वजमिति स्कान्दसंवादात् ।

अत्र कुत्रचित्परित इत्यर्थः आदिमङ्गुष्ठ तर्जनीसन्धिमारभ्य
मध्यमा यावत्तावदूर्ध्वरेखा व्यवस्थिता पाद्मसंज्ञके पुराणे
कथितेत्यर्थः । अष्टाङ्गुलैर्मानं तदिति मध्यमाङ्गुल्य्अग्राद्
अष्टाङ्गुलमानं परित्यज्येत्यर्थः । तावद्विस्तारत्वेन व्याख्यायां
स्थानासमावेशः । अतएव पूर्वमपि तथा व्याख्यातम् । एवमुत्तरत्रापि
ज्ञेयम् । इन्द्रचापं त्रिकोणार्धचन्द्रकाणि क्रमादधोऽअधोभाग
स्थानानि । अन्यत्रेति । श्रीकृष्णादन्यत्रेत्यर्थः । बिन्दुरम्बरम् । आदौ
चरणस्यादिदेश तद्अङ्गुलसमीपे बिन्दुः । अन्ते पार्ष्णिदेशे मत्स्यचिह्नं
षोडशचिह्नमुभयोरपि ज्ञेयम् । दक्षिणाद्य्अनियमेनोक्तत्वात् । अत्र
दक्षिणाङ्गुष्ठाधश्चक्रं वामाङ्गुष्ठाधस्तन्मुखं दरं च
स्कान्दोक्तानुसारेण । ते हि श्रीकृष्णेऽप्यन्यत्र श्रूयते । यथा आदिवाराहे
मथुरामण्डलमाहात्म्ये

यत्र कृष्णेन संकीर्णं क्रीडितं च यथासुखम् ।
चक्राङ्कितपदा तेन स्थाने ब्रह्ममये शुभे ॥ इति ।

श्रीगोपालतापन्यां शङ्खध्वजातपत्रैस्तु चिह्नितं च पदद्वयम्
[ङ्टू २.६२] इति । आतपत्रमिदं चक्राधस्ताज्ज्ञेयम् । दक्षिणस्य प्राधान्यात्
तत्रैव स्थानसमावेशाच्च । अङ्गुलिपरिमाणमात्रदैर्घ्याच्
चतुर्दशांशेन तद्विस्तारात् । षष्ठांशेन ज्ञेयम् । अन्यत्र दैर्घ्ये
चतुर्दशाङ्गुलिपरिमाणत्वेन विस्तारे षड्अङ्गुलिपरिमाणत्वेन प्रसिद्धेर्
इति । [एन्द्षर्वसंवादिनी]

तस्मादस्त्येव स्वयं भगवत्त्वं श्रीकृष्णस्यैव ।

[Vऋ. हेरे रेअद्स् तथा च ब्रह्मवैवर्ते भगवद्अवतारप्रसङ्गे सूत
वाक्यम्

अवतारा ह्यसङ्ख्येया आसन् सत्त्वस्वभाविनः ।
विशतिस्तेषु मुख्यान् यान् श्रुत्वा मुच्येन्महांहसः ॥

इत्यादिना प्रायशः श्रीभागवतवत्श्रीकृष्णसंहितांस्तान् गणयित्वा
पुनराह

नरसिंहादयोऽन्येऽपि सर्वपापविनाशनाः ।
यद्विभूतिविशेषेणालङ्कृतं भुवि जायते ।
तत्सर्वमवगन्तव्यं कृष्णांशांशसमुद्भवम् ॥ [एन्द्Vऋ. सेच्तिओन्]

तदित्थं सर्वमभिप्रेत्य महोपक्रमं श्लोकमेव श्रीविष्णुपुराणीय
भगवच्छब्दनिरुक्तिवत्साक्षात्श्रीकृष्णाभिधेयत्वेनापि योजयति
जन्माद्यस्य [भागवतम् १.१.१] इति ।

नराकृति (पगे ३४) परं ब्रह्म इति [Vऋ. रेअद्स्हेरे: पुराणवर्गात्, तस्मात्
कृष्ण एव परो देवः [ङ्टू १.४९] इति गोपालतापनीश्रुतेश्च । [एन्द्Vऋ.
अद्दितिओन्] परं श्रीकृष्णं धीमहि ।

अस्य स्वरूपलक्षणमाह सत्यमिति । सत्यव्रतं सत्यपरं त्रिसत्यम्
[भागवतम् १०.२.२६] इत्यादौ तथाश्रुतत्वात् ।

[Vऋ. रेअद्स्हेरे: “
सत्ये प्रतिष्ठितः कृष्णः सत्यमत्र प्रतिष्ठितम् ।
सत्यात्सत्यं च गोविन्दस्तस्मात्सत्यो हि नामतः ॥ [ंभ्५.६८.१२]
इत्युद्यमपर्वणि सञ्जयकृतश्रीकृष्णनामनिरुक्तौ च तथा श्रुतत्वात् ।
[एन्द्Vऋ. अद्दितिओन्]

एतेन तद्आकारस्याव्यभिचारित्वं दर्शितम् । तटस्थलक्षणमाह धाम्ना
स्वेन इत्याह । स्वेन स्वस्वरूपेण धाम्ना श्रीमथुराख्येन सदा निरस्तं
कुहकं मायाकार्यलक्षणं येन तम् ।

मथ्यते तु जगत्सर्वं
ब्रह्मज्ञानेन येन वा ।
तत्सारभूतं यद्यस्यां
मथुरा सा निगद्यते ॥ [ङ्टू २.६६] इति गोपालोत्तरतापनीप्रसिद्धेः ।

लीलामाह आद्यस्य नित्यमेव श्रीमद्आनकदुन्दुभिव्रजेश्वर
नन्दनतया श्रीमथुराद्वारकागोकुलेषु विराजमानस्यैव तस्य
कस्मैचिदर्थाय लोके प्रादुर्भावापेक्षया । यतः श्रीमद्आनकदुन्दुभि
गृहाज्जन्म तस्माद्य इतरतश्च इतरत्र श्रीव्रजेश्वरगृहेऽपि अन्वयात्
पुत्रभावतस्तद्अनुगतत्वेनागच्छत् । उत्तरेणैव य इति पदेनान्वयः ।
यत इत्यनेन तस्मादिति स्वयमेव लभ्यते ।

कथमन्वयात्? तत्राह अर्थेषु कंसवञ्चनादिषु तादृशभाववद्भिः
श्रीगोकुलवासिभिरेव सर्वानन्दकदम्बकादम्बिनीरूपा सा सा कापि
लीला सिध्यतीति तल्लक्षणेषु वा अर्थेषु अभिज्ञः । ततश्च स्वराट्स्वैर्
गोकुलवासिभिरेव राजते इति । तत्र तेषां प्रेमवशतामापन्नस्याप्य्
अव्याह । तद्ऐश्वर्यमाह तेन इति । य आदिकवये ब्रह्मणे ब्रह्माणं
विस्मापयितुं हृदा सङ्कल्पमात्रेणैव ब्रह्मसत्यज्ञानानन्तानन्द
मात्रैकरसमूर्तिमयं वैभवं तेने विस्तारितवान् । यद्यतस्तथाविध
लौकिकालौकिकतासमुचितलीलाहेतोः सूरयस्तद्भक्ता मुह्यन्ति
प्रेमातिशयोदयेन वैवश्यमाप्नुवन्ति । यदित्युत्तरेणाप्यन्वयात् । यद्
यत एव तदृशलीलातस्तेजोवारिमृदामपि यथा यथावद्विनिमयो भवति ।
तत्र तेजसश्चान्द्रादेर्विनिमयो निस्तेजोवस्तुभिः सह धर्मपरिवर्तः ।
तत्श्रीमुखादिरुचा चन्द्रादेर्निस्तेजस्त्वाविधानात्निकटस्थनिस्तेजो
वस्तुनः स्वभासा तेजस्वितापादनाच्च । तथा वारि द्रवश्च कठिनं
भवति । वेणुवाद्येन मृत्पाषाणादिः द्रवतीति । यतः श्रीकृष्णे त्रिसर्गः
श्रीगोकुलमथुराद्वारकावैभवप्रकाशः अमृषा सत्य एवेति ।

॥ १.१ ॥ वेदव्यासः ॥ ८२ ॥

[८३]

एवं सर्वोपसंहारवाक्यमपि तत्रैव संगच्छते कस्मै येन विभासित
इत्यादि [भागवतम् १२.१३.१९] ।

यो ब्रह्माणं विदधाति पूर्वं
यो विद्यास्तस्मै गापयति स्म कृष्णः ।
तं हि देवमात्मबुद्धिप्रकाशं
मुमुक्षुर्वै शरणममुं व्रजेत् ॥ [ङ्टू १.२६]

इति गोपालपूर्वतापनीश्रुतेः । व्याकृतं च द्वितीयसन्दर्भे तस्यैव चतुः
श्लोकीवक्तृत्वमपि ॥

॥ १२.१३ ॥ श्रीसूतः ॥ ८३ ॥

[८४]

तदेवमभ्यासादीन्यपि तस्मिन् विस्पष्टान्येव पूर्वोदाहृतवाक्येषु । तद्
एतत्श्रीमद्गीतागोपालतापन्यादिशास्त्रगणसहायस्य निखिलेतरशास्त्र
शतप्रणतचरणस्य श्रीभागवतस्याभिप्रायेण श्रीकृष्णस्य स्वयं
भगवत्त्वं करतल इव दर्शितम् । श्रीभागवतस्य च स (पगे ३५) एव
प्रतिपाद्य इति पुराणान्तरेणैव च स्वयं व्याख्यातम् । यथा ब्रह्माण्ड
पुराणे श्रीकृष्णाष्टोत्तरशतनामामृतस्तोत्रे श्रीकृष्णस्य नामविशेष
एव शुकवाग्अमृताब्धीन्दुरिति ।

अथ तस्य महावासुदेवत्वे सिद्धे श्रीबलदेवादीनामपि महा
संकर्षणादित्वं स्वत एव सिद्धम् । यद्रूपः स्वयं भगवान् तद्रूपा
एव ते भवितुर्महन्तीति । अतः श्रीबलरामस्य यत्कश्चिदावेशावतारत्वं
मन्यते तदसत् । दृश्यते च श्रीकृष्णरामयोर्युगलतया वर्णनेन सम
प्रकाशत्वम् तावङ्घ्रियुग्ममनुकृष्य सरीसृपन्तौ [भागवतम् १०.८.२२], यद्
विश्वेश्वरयोर्याच्ञां [भागवतम् १०.२३.३७], ददर्श रामं कृष्णं च [भागवतम् १०.३८.२७],
तौ रेजतू रङ्गगतौ महाभुजौ [भागवतम् १०.४३.१९] इत्यादौ ।

लोकेऽपि सूर्यचन्द्रमसावेव युगलतया वर्ण्येते । न तु सूर्यशुक्रौ ।
अतएव हरिवंशेऽपि वासुदेवमाहात्म्ये रामकृष्णयोर्दृष्टान्तः
सूर्याचन्द्रमसाविति । तथा ध्वजवज्राङ्कुशाम्भोजैश्चिह्नितैरङ्घ्रिभिर्
व्रजम् । शोभयन्तौ महात्मानौ [भागवतम् १०.३८.३०] इत्येवं भगवल्लक्षणान्य्
अपि तत्र श्रूयन्ते, न त्वेवं पृथ्व्आदिषु । तस्मादेष तन्महिमापि
वर्ण्यते

नैतच्चित्रं भगवति ह्यनन्ते जगद्ईश्वरे ।
ओतं प्रोतमिदं यस्मिंस्तन्तुष्वङ्ग यथा पटः ॥ [भागवतम् १०.१५.३५]

स्पष्टम् ॥ १०.१५ ॥ श्रीशुकः ॥ ८४ ॥

[८५]

किं च

सप्तमो वैष्णवं धाम यमनन्तं प्रचक्षते ।
गर्भो बभूव देवक्यां हर्षशोकविवर्धनः ॥ [भागवतम् १०.२.५]

गर्भो बभूव न तु गर्भे बभूवेति सप्तम्य्अन्तानुक्त्या साक्षाद्
एवावतारत्वं सूचितम् ॥

॥ १०.२ ॥ स एव ॥८५॥

[८६]

अत इदमप्येवमेव व्याख्येयम्

वासुदेवकलानन्तः सहस्रवदनः स्वराट् ।
अग्रतो भविता देवो हरेः प्रियचिकीर्षया ॥ [भागवतम् १०.१.२४]

श्रीवसुदेवनन्दनस्य वासुदेवस्य कला प्रथमोऽंशः श्रीसंकर्षणः ।
तस्य श्रीसंकर्षणत्वं स्वयमेव न तु संकर्षणावतारत्वेनेत्याह
स्वराट्स्वेनैव राजते इति । अतएवानन्तः कालदेशपरिच्छेदरहितः । अतएव
मायया तस्य गर्भसमय आकर्षणं च युक्तम् । पूर्णस्य
वास्तवाकर्षणासम्भवादिति केचित् । एतद्विधकार्ये च तद्
अकुण्ठेच्छात्मकचिच्छक्त्य्आविष्टैव सा प्रभवेत् । उक्तं च तदानीं तद्
आविष्टत्वं तस्याः आदिष्टा प्रभुनांशेन कार्यार्थे सम्भविष्यति [१०.१.२५]
इति । मिलिष्यतीति तत्र ह्यर्थः । अतएव एकानंशेति । तस्या नाम । एकोऽनंशो
यत्रेति निरुक्तिरिति केचित् । य एव शेषाख्यः सहस्रवदनोऽपि भवति । यतो
देवो नानाकारतया दीव्यतीति । तद्उक्तं श्रीयमुनादेव्या

राम राम महाबाहो न जाने तव विक्रमम् ।
यस्यैकांशेन विधृता जगती जगतः पतेः ॥ [भागवतम् १०.६५.२८] इति ।

एकांशेन शेषाख्येन इति टीका च । अन्यथा तद्एकावयवैकदेश
रूपार्थत्वे येनैकांशेनेति यच्छब्दस्य करृत्वनिर्देश एव युक्तः स्यात् ।
तद्अंशावयवैकदेशरूपार्थत्वे येनैकांशेनेति यच्छब्दस्य कर्तृत्व
निर्देश एव युक्तः स्यात् । तद्अंशावतारलक्षणार्थान्तरप्रतीतिनिरसनाय
महाविद्वद्वाक्यत्वात् । सम्बन्धनिर्देशेन तु टीकाव्याख्यैव
स्फुटतरा । एकांशे मुख्यस्यैव (पगे ३६) कर्तृत्वस्य निर्वाजप्रतीतिर्न
त्वौपचारिकस्येति ।

एवं श्रीलक्ष्मणस्याप्यन्तिमदशानुकरणस्याप्यन्तिमदशानुकरण
लीलायां श्रूयते स्कान्दीयायोध्यामाहात्म्ये

ततः शेषात्मतां यातं लक्ष्मणं सत्यसङ्गरम् ।
उवाच मधुरं शक्रः सर्वस्य च सः पश्यतः ॥
इन्द्र उवाच
लक्ष्मणोत्तिष्ठ शीघ्रं त्वमारोहस्व पदं स्वकम् ।
देवकार्यं कृतं वीर त्वया रिपुनिसूदन ॥
वैष्णवं परमं स्थानं प्राप्नुहि स्वं सनातनम् ।
भवन्मूर्तिः समायाता शेषोऽपि बिलसत्फणः ॥ इत्यादि ।

ततश्च
इत्युक्त्वा सुरराजेन्द्रो लक्ष्मणं सुरसङ्गतः ।
शेषं प्रस्थाप्य पाताले भूभारधरणक्षमम् ॥
लक्ष्मणं यानमारोप्य प्रतस्थे दिवमादरात् ॥ इति ।

अतो नारायणवर्मण्यपि यज्ञश्च लोकादवतात्कृतान्ताद्बलो गणात्
क्रोधवशादहीन्द्रः ॥ इति बलदेवस्य शेषादन्यत्वं शक्त्य्अतिशयश्च
दर्शितः । जनान्तादिति पाठेऽपि जनानां नाशादिति स एवार्थः । अतः
शेषाख्यं धाम मामकमिति [भागवतम् १०.२.८] इत्यत्रापि शिष्यते शेषसंज्ञ
इतिवतव्यभिचार्यांश एवोच्यते । सेषस्याख्या ख्यातिर्यस्मादिति वा ।
श्रीमद्आनकदुन्दुभिना च श्रीकृष्णसाम्येनैव निर्दिष्टम् युवां न
नः सुतौ साक्षात्प्रधानपुरुषेश्वरौ [भागवतम् १०.८५.१८] इति ।

अत्र साक्षादेवेति त्वधिकमुपजीव्यम् । अथ यदि प्रायो मायां तु मे
भर्तुर्नान्या मेऽपि विमोहिनी [भागवतम् १०.१३.३७] तद्
वाक्यानुसारेणावेशावतारत्वं मन्तव्यं तदा पूर्वग्रन्थबलात्श्री
बलदेवे स्वांशत्वमेवेति, किन्तु शेषाख्यतद्आविष्टपार्षदविशेषस्य तद्
अन्तःपातात्तद्अंशेनैव तद्व्यवहार इत्यपि मन्तव्यम् ॥

[Vऋ. रेअद्स्हेरे: तदेवमेकरूपत्वेऽपि प्रायो मायां तु मे भर्तुर्नान्या
मेऽपि विमोहिनी इत्यादौ यत्तस्मिंस्तस्य भक्तिः श्रूयते तत्तु लक्ष्म्या इव
द्रष्टव्यम् । [एन्द्Vऋ. अद्दितिओन्]

॥ १०.२ ॥ श्रीब्रह्मा देवान् ॥ ८६ ॥

[८७]

अथ श्रीप्रद्युम्नस्यापि शिवनेत्रदग्धः स्मरो जातोऽयमिति यच्छ्रूयते
तदप्येकदेशप्रस्तावमात्रम् । तस्य श्रीगोपालतापनीश्रुत्य्आदौ
यत्रासौ संस्थितः कृष्णस्त्रिभिः शक्त्या समाहितः ।
रामानिरुद्धप्रद्युम्नै रुक्मिण्या सहितो विभुः ॥ [ङ्टू २.३६]

इत्यादिना नित्यश्रीकृष्णचतुर्व्यूहान्तःपातिततया प्रसिद्धेस्तथा
सम्भवाभावात् । तस्य स्मरस्यापि साधारणदेवताविशेषमात्रत्वेन
प्रसिद्धत्वे चतुर्व्यूहान्तःपातितायामयोग्यतमत्वात् । तस्माद्
वक्ष्यमाणाभिप्रायेणैवैतदाह

कामस्तु वासुदेवांशो दग्धः प्राग्रुद्रमन्युना ।
देहोपपत्तये भूयस्तमेव प्रत्यपद्यत ॥ [भागवतम् १०.५५.१]

अवेदज्ञस्यापि ब्राह्मण्ये सत्येव ब्राह्मणस्तु वेदज्ञ इतिवत्तु शब्दोऽत्र
मुख्यतां सूचयति । ततः कामस्तु वासुदेवांश इत्यस्य वासुदेवांशो यः
कामः स एव मुख्य इत्यर्थः । तुशब्दोऽयं भिन्नोपक्रमे वा । ततो
वासुदेवांशस्तु काम इत्यन्वयेऽपि पूर्ववदेवार्थः । तदेवं सति यः
प्राग्रुद्रस्य मन्युना दग्धो देवताविशेषः कामः स देहोपपत्तये तत्
कोपदग्धतया नित्यमेवानङ्गतां प्राप्तस्य स्वतो देहापत्त्य्अभावाद्
देहप्राप्त्य्अर्थं तमेव वासुदेवांशं प्रद्युम्नाख्यं काममेव
प्रत्यपद्यत प्रविष्टवान् । भूयःशब्देन प्रद्युम्नादेव पूर्वमप्य्
उद्भूतोऽसाविति बोध्यते । यद्वा यस्तु प्राग्रुद्रकोपेनादग्धो न
दग्धः स भूयः प्रकटलीलायां देहोपपत्तये (पगे ३७) स्वमूर्ति
प्रकाशनार्थं, तं वासुदेवमेव प्रविष्टवान् । अदग्धत्वे हेतुर्
वासुदेवांश इति ॥

[८८]

पूर्वोक्तमेव व्यनक्ति

स एव जातो वैदर्भ्यां कृष्णवीर्यसमुद्भवः ।
प्रद्युम्न इति विख्यातः सर्वतोऽनवमः पितुः ॥ [भागवतम् १०.५५.२]

यः कृष्णवीर्यसमुद्भवो यश्च प्रद्युम्न इति विख्यातः, स एव प्रकट
लीलावसरेऽपो वैदर्भ्यां जात आविर्भूतः । न त्वन्यः प्राकृतकाम एव ।
तत्र हेतुः सर्वतो गुणरूपादिष्वशेषेष्वेव धर्मेषु पितुः श्रीकृष्णाद्
अनवमः तुल्य एवेति । अन्यथा तादृशानवमत्वं न कल्पत इति भावः ।
तस्माद्यथा महाभारते सर्वत्र श्रीमद्अर्जुनस्य नरत्वप्रसिद्धावपि
पञ्चेन्द्रोपाख्याने इन्द्रत्वप्रसिद्धिः इन्द्रस्यापि तत्र प्रवेशविवक्षया
घटते तद्वदत्रापि ।

अतः श्रीनारदेन रत्यै तथोपदेशस्तथा तत्प्राप्तिश्च न दोषाय । पूर्व
पद्यस्य उत्तरस्मिन्नर्थे श्रीनारदोपदेशबलेनैव दग्धकामस्य
प्रवेशस्तत्र गम्यः । ततः साक्षात्प्रद्युम्नसङ्गमे योग्यता चास्याः
स्पर्शमणिवत्तत्सामीप्यगुणादेव मन्तव्या । श्रीप्रद्युम्नस्य निज
शक्तिस्तु श्रीमद्अनिरुद्धमातैवेति ज्ञेयम् । अतः तापनीश्रुतिलब्धोऽर्थः
समञ्जसः ॥

॥ १०.५५ ॥ श्रीशुकः ॥ ८७८८ ॥

[८९]

एवमनिरुद्धस्यापि साक्षाच्चतुर्व्यूहत्वे लिङ्गमाह

अपि स्विदास्ते भगवान् सुखं वो
यः सात्वतां कामदुघोऽनिरुद्धः ।
यमामनन्ति स्म हि शब्दयोनिं
मनोमयं सत्त्वतुरीयतत्त्वम् ॥ [भागवतम् ३.१.३४]

शब्दयोनिं निश्वासव्यञ्जितवेदवृन्दम् । एवं वा अरे अस्य महतो भूतस्य
निश्वसितमेतद्यदृग्वेदः [Bआऊ २.४.१०] इत्यादिश्रुतेः । मनोमयं चित्ते
वासुदेववन्मनस्युपास्यम् । सत्त्वं शुद्धसत्त्वात्मकः श्रीवासुदेवादि
रूपो भगवान् तत्र तुरीयं रूपम् । अतो बाणयुद्धादौ
बन्धनानुकरणादिकमात्मेच्छामयी लीलैव श्रीरामचन्द्रादिवत् । अस्य
पाद्मबृहत्सहस्रनाम्नि माहात्म्यनामानि चैतानि

अनिरुद्धो बृहद्ब्रह्म प्राद्युम्निर्विश्वमोहनः ।
चतुर्आत्मा चतुर्वर्णश्चतुर्युगविधायकः ॥
चतुर्भेदैकविश्वात्मा सर्वोत्कृष्टांशकोटिसूः ।
आश्रयात्मा... ॥ इति ।

अतः श्रीकृष्णव्यूहत्वेन महानिरुद्धत्वादस्यैवाविर्भावविशेषः
प्रलयार्णवादिधामा पुरुष इति ज्ञेयम् । अत एवाभेदेन जगृहे पौरुषं
रूपं भगवान् [भागवतम् १.३.१] इत्य्आद्य्उक्तं मूलसङ्कर्षणाद्य्अंशैरेव
हीतरसङ्कर्षणाद्य्अवस्थात्रयं पुरुषं प्रकाशयतीति । तथैवाभेदेन
विष्णुधर्मोत्तरेऽपीदमुक्तं तत्र । श्रीवज्रप्रश्नः

कस्त्वसौ बालरूपेण कल्पान्तेषु पुनः पुनः ।
दृष्टो यो न त्वया ज्ञातस्तत्र कौतूहलं मम ॥

श्रीमार्कण्डेयोत्तरं च
भूयो भूयस्त्वसौ दृष्टो मया देवो जगत्पतिः ।
कल्पक्षयेण विज्ञातः स मायामोहितेन वै ॥
कल्पक्षये व्यतीते तु तं देवं प्रपितामहात् ।
अनिरुद्धं विजानामि पितरं ते जगत्पतिम् ॥ इति । [१.७९.१३]

[Vऋ. अद्द्स्हेरे: भीष्मपर्वणि दुर्योधनं प्रति भीष्मशिक्षायां श्री
कृष्णस्यावतारारम्भे गन्धमादनमागतस्य ब्रह्मणस्तद्आविर्भावं
मनसि पश्यतस्तु बालस्य तदिदं वचनम्

सृष्ट्वा संकर्षणं देवं स्वयमात्मानमात्मना ।
कृष्ण त्वमात्मनास्राक्षीः प्रद्युम्नं चात्मसंभवम् ॥
प्रद्युम्नाच्चानिरुद्धं त्वं यं विदुर्विष्णुमव्ययम् ।
अनिरुद्धोऽसृजन्मां वै ब्रह्माणं लोकधारिणम् ॥
वासुदेवमयः सोऽहं त्वयैवास्मि विनिर्मितः ॥ [ंBह्६.६१.६५६७] [Vऋ अद्दितिओन्
एन्द्स्]

अतएव च पूर्वमपि च जगृहे पौरुषं रूपमित्यत्र श्रीकृष्णस्य
अनिरुद्धावतारान्तःपातित्वं न व्याख्यातम् ॥

॥ ३.१ ॥ विदुरः श्रीमद्उद्धवम् ॥ ८९ ॥

[९०]

तदेतत्तस्य चतुर्व्यूहात्मकस्यैव पूर्णत्वं व्याख्यातम् । श्री
गोपालोत्तरतापन्यामपि (पगे ३८) तथैवायं प्रणवार्थत्वेन दर्शितः


रोहिणीतनयो रामो अकाराक्षरसम्भवः ।
तैजसात्मकः प्रद्युम्नो उकाराक्षरसम्भवः ॥
प्राज्ञात्मकोऽनिरुद्धो मकाराक्षरसम्भवः ।
अर्धमात्रात्मकः कृष्णो यस्मिन् विश्वं प्रतिष्ठितम् ॥ इति [ङ्टू २.५५५६]

अथ श्रीकृष्णेऽवतरति तत्तद्अंशावताराणामपि प्रवेश इति यदुद्दिष्टं
तद्यथा अत्र कृष्णस्तु भगवान् स्वयमित्यादिकं सिद्धमेव तथा तस्य
तद्रूपेणैव श्रीवृन्दावनादौ सर्वदावस्थायित्वं प्रतिपादयिष्यामः ।

अथ च श्रीहरिवंशमते उपेन्द्र एवावततारेति । जयविजयशापप्रस्तावे
च यास्यामि भवनं ब्रह्मन्नेतद्अन्ते एवानघ [भागवतम् ११.३.३१] इत्यत्र च
पाहि वैकुण्ठकिङ्करान् [भागवतम् ११.६.२७] इत्यत्र च स्वामिव्याख्यानुसारेण
विकण्ठासुत एवेति क्वचित्क्षीरोदशाय्य एवेति क्वचित्पुरुष एवेति, क्वचिन्
नारायणर्षिरेवेति बृहत्सहस्रनाम्नि लक्ष्मणस्यैव बलरामत्व
कथनेन श्रीराघव एवेति क्वचिन्नारायणकेश एवेत्यादिकं नाना
विधत्वं श्रूयते । एवं चैकं सन्धित्सतोऽन्यत्प्रच्यवतोऽत्र सत्यं च सर्वं
वाक्यम् ।

[Vऋ. अद्द्स्: यथा स्वमत्य्अनुभवानुरूपात्नानावाक्यैकवाक्यता च ।
यथा क्रममुक्तिमार्गेऽर्चिर्आदिक्रम एवाङ्गी, नाडीरश्म्य्आदिमार्गास्
तु तद्अङ्गत्वेनैव अर्चिर्आदिना तत्प्रथितेः [Vस्. ४.३.१] इति सूत्रे स्वीक्रियन्ते
तद्वत् । यतः स्वयं भगवत्यवतरति सर्वेऽपि ते प्रविष्टा इति यदा यत्
किञ्चिद्येनानुभूतम्, तदा तेन तदेव निर्दिष्टमिति । [Vऋ. एन्द्स्हेरे.]

तस्माद्विद्वद्भिरेवं विचार्यताम् स्वयं भगवति तस्मिन् प्रवेशं विना
कथं तत्सम्भवेदिति । दृश्यते च तस्मात्केषांचिदंशानां पुनर्
आविर्भावः यथा प्रद्युम्नादीनाम् । अतएव विकुण्ठासुतस्य
प्रवेशाभिप्रायेणैव शिशुपालदन्तवक्रयोः श्रीकृष्णसायुज्यमेव
तदानीं जातम् पुनरवतारलीलामाप्तौ श्रीविकुण्ठासुते स्वधाम
गते पार्षदत्वप्राप्तिः । यथोक्तं श्रीनारदेन

वैरानुबन्धतीव्रेण ध्यानेनाच्युतसात्मताम् ।
नीतौ पुनर्हरेः पार्श्वं जग्मतुर्विष्णुपार्षदौ ॥ [भागवतम् ७.१.४६] इति ।

तथा हरिवंशे च क्षीरोदशायिनो मुकुटे दैत्यापहृते दैत्यमारणाय
गरुडो यावत्कृतविलम्बस्तावत्श्रीकृष्णोऽवततार । ततश्चासौ मुकुटम्
आहृत्य तत्र चोर्ध्वलोके कुत्रापि भगवन्तमदृष्ट्वा गोमन्तशिरसि श्री
कृष्णायैव समर्पितवानिति प्रसिद्धिः ।

[Vऋ. अद्द्स्: एवमेव बलिसद्गतयोः श्रीकृष्णरामयोस्तद्द्वारस्थविष्णु
दर्शनम् । किन्तु तत्तद्वाक्यार्थपर्यालोचनया केषांचिन्मूर्त्य्आकर्षणं
हरिवंशगतगिरिगुहाशयनपर्यालोचनया तु तच्छक्त्य्आकर्षणमिति
लभ्यते । तच्च तदानीमात्मनि सर्वेषामेव भक्तानामेकतानताकृति
लीलाकौतुकार्थमेवेति च गम्यते । [Vऋ. अद्दितिओनेन्द्स्हेरे.]

अतो यथा क्रममुक्तिमार्गेऽर्चिर्आदिक्रम एवाङ्गी नाडीरश्म्य्आदिविधि
क्रमस्तु तद्अङ्गत्वेनैव प्रस्तूयते तद्वदिहापीति । अर्चिर्आदिना तत्
प्रथितेः [Vस्. ४.३.१] इत्येष न्यायोऽत्र दृष्टान्तयितव्यः ।

त्वं ब्रह्म परमं व्योम पुरुषः प्रकृतेः परः ।
अवतीर्णोऽसि भगवन् स्वेच्छोपात्तपृथग्वपुः ॥ [भागवतम् ११.११.२८]
(पगे ३९)
साक्षाद्भगवानेव त्वमवतीर्णोऽसि । भगवत एव वैभवमाह
ब्रह्मत्वं परमव्योमाख्यो वैकुण्ठस्त्वं प्रकृतेः परः पुरुषोऽपि
त्वमिति । भगवानपि कथम्भूतः सन्नवतीर्णः ।

[Vऋ. अद्द्स्: स्वेच्छामयस्य इत्यनुसारेण स्वेषां सर्वेषामेव भक्तानां या
इच्छा तां पूरयितुमुपात्तानि ततस्ततः स्वतः आकृष्टानि पृथग्वपूंषि
निजतत्तद्आविर्भावा येन तथाभूतः सन्निति । तं प्रति यथाह जाम्बवान्


यस्येषद्उत्कलितरोषकटाक्षमोक्षैर्
वर्त्मादिशत्क्षुभितनक्रतिमिङ्गिलोऽब्धिः ।
सेतुः कृतः स्वयश उज्ज्वलिता च लङ्का
रक्षःशिरांसि भुवि पेतुरिषुक्षतानि ॥ [भागवतम् १०.५६.५८]

यथा च देवाः

केतुस्त्रिविक्रमयुतस्त्रिपतत्पताको
यस्ते भयाभयकरोऽसुरदेवचम्वोः ।
स्वर्गाय साधुषु खलेष्वितराय भूमन्
पादः पुनातु भगवन् भजतामघं नः ॥ [भागवतम् ११.६.१३]

यथा वा ब्रह्मा नारायणस्त्वमित्यादौ नारायणोऽङ्ग नरभूजलायनात्
[भागवतम् १०.१४.४] इति । अतएवाक्रूरः

अद्भुतानीह यावन्ति भूमौ वियति वा जले ।
त्वयि विश्वात्मके तानि किं मेऽदृष्टं विपश्यतः ॥ [भागवतम् १०.४१.४]

अतएव

गोविन्दभुजगुप्तायां द्वारवत्यां कुरूद्वह ।
अवात्सीन्नारदोऽभीक्ष्णं कृष्णोपासनलालसः ॥ [भागवतम् ११.२.१] [Vऋ. अद्दितिओन्
एन्द्स्हेरे.]
स्वेच्छयोपात्तानि ततस्तत आकृष्टानि पृथग्वपूंषि निजतत्तद्आविर्भावा
येन तथाभूतः सन्निति ।

॥ ११.११ ॥ उद्धवः श्रीभगवन्तम् ॥ ९० ॥

[९१]

तदेवं प्रमाणवत्त्वे प्रयोजनवत्त्वे स्थिते तमेव प्रवेशमाह

स्वशान्तरूपेष्वितरैः स्वरूपैर्
अभ्यर्द्यमानेष्वनुकम्पितात्मा ।
परावरेशो महद्अंशयुक्तो
ह्यजोऽपि जातो भगवान् यथाग्निः ॥ [भागवतम् ३.२.१५]

तच्च जन्म निजतत्तद्अंशान्यादायैवेत्याह महद्अंशयुक्तः ।
महतः स्वस्यैवांशैर्युक्तः । महान्तं विभुमात्मानम् [Kअठू १.२.२२]
इत्यादि श्रुतेः, महच्चेति [Vस्१.४.८] न्यायप्रसिद्धेश्च । महान्तो ये
पुरुषादयोऽंशास्तैर्युक्त इति वा । लोकनाथं महद्भूतमितिवद्
आत्मत्वाव्यभिचारः । महद्भिरंशिभिरंशैश्च युक्त इति वा ॥

॥ ३.२ ॥ विदुरं श्रीमद्उद्धवः ॥ ९१ ॥

[९२]

तथैवमथाहमंशभागेन [भागवतम् १०.२.९] इत्यादावप्येवं
व्याख्येयम् । अंशानां भागो भजनं प्रवेशो यत्र तेन परिपूर्णरूपेण ।
अंशानां भजनेन लक्षितो वा प्राप्स्यामीति प्रकटलीलाभिप्रायेण
भविष्यन्निर्देशः । अतएव तद्अवतारसमये युगावताराश्च स एवेत्य्
अभिप्रेत्याह

आसन् वर्णास्त्रयो ह्यस्य गृह्णतोऽनुयुगं तनूः ।
शुक्लो रक्तस्तथा पीत इदानीं कृष्णतां गतः ॥ [भागवतम् १०.८.१३]

अस्य तव पुत्रस्य प्रतियुगं तनुः युगावतारलीलावतारान् गृह्णतः
प्रकटयतो यद्यपि शुक्लादयस्त्रयोऽप्यन्ये वर्णा आसन् तथापि इदानीम्
अस्य प्रादुर्भाववति अस्मिन् द्वापरे तु स शुक्लो युगावतारस्तथा रक्तः
पीतोऽपि । एतदप्युपलक्षणमन्यद्वापरयुगावतारः (पगे ४०) शुक
पक्षवर्णोऽपि कृष्णतामेव गत एतस्मिन्नन्तर्भूत इत्यर्थः । तस्मात्
कृष्णीकर्तृत्वात्स्वयं कृष्णत्वात्सर्वाकर्षकत्वाच्च कृष्ण इत्येकमस्य
नामेति प्राकरणिकोऽप्यर्थः श्रेयान् । तदानीं श्रीकृष्णस्यैव द्वापर
युगावतारत्वं श्रीकरभाजनेन युगावतारोपासनायामुक्तम्, न तु
द्वापरान्तरवच्छुकपक्षवर्णस्यान्यस्य

द्वापरे भगवाञ्श्यामः पीतवासा निजायुधः ।
श्रीवत्सादिभिरङ्कैश्च लक्षणैरुपलक्षितः ॥
तं तदा पुरुषं मर्त्या महाराजोपलक्षणम् ।
यजन्ति वेदतन्त्राभ्यां परं जिज्ञासवो नृप ॥
नमस्ते वासुदेवाय नमः सङ्कर्षणाय च ।
प्रद्युम्नायानिरुद्धाय तुभ्यं भगवते नमः ॥ [भागवतम् ११.५.२७२९] इति ।
[Vऋ. अद्द्स्हेरे:] अत्र श्रीकृष्णत्वे लिङ्गं महाराजोपलक्षणमिति
वासुदेवायेत्यादि च श्रीहरिवंशोक्तराजराजाभिषेकाद्द्वारकायां चतुर्
व्यूहत्वप्रसिद्धेश्च । [एन्दोf Vऋ. अद्दितिओन्.]

॥ १०.८ ॥ गर्गः श्रीनन्दम् ॥ ९२ ॥

[९३]

तदेवं श्रीकृष्णस्य स्वयं भगवत्त्वे सुष्ठु निर्धारिते नित्यमेव तद्
रूपत्वेनावस्थितिरपि स्वयमेव सिद्धा । तथापि मन्दधियां भ्रान्ति
हानार्थमिदं विविरियते । तत्र तावदाराधनावाक्येनैव सा सिध्यति ।
आराध्यस्याभावे आराधनानोदनाया विप्रलिप्साजन्यत्वापत्तेः । तच्च
परमाप्ते शास्त्रे न सम्भवति । सम्भवे च पुरुषार्थाभावात्
शास्त्रानर्थक्यम् ।

षर्वसंवादिनी अथ द्विनवतितमवाक्यानन्तरं नित्यत्वप्रकरणे
“शास्त्रानर्थक्यम्” इत्यस्यानन्तरमिदं विवेचनीयम् । ननु बालातुराद्य्
उपच्छन्दनवाक्यवत्तज्ज्ञानमात्रेणापि पुरुषार्थसिद्धिर्दृश्यते । ततो
नार्थान्तरसद्भावे तत्स्मारकवाक्यं कारणम् । किन्तु प्रथमतस्तद्
अभिरुचिते तदानीमसत्यपि वस्तुविशेषे तदीयहितवस्त्व्अन्तर
चित्तावताराय बालादीनिव मात्रादिवाक्यं सगुणविशेषे साधकान्
प्रवर्तयति शास्त्रम् । पश्चाद्यथा स्वहिते क्रमेण स्वयमेव प्रवर्तन्ते
बालादयस्तथा बलवच्छास्त्रान्तरं दृष्ट्वा निर्गुणे वा नित्यप्राकट्य
वैकुण्ठनाथलक्षणगुणे वा प्रवर्तस्यन्त इति । तन्न । अनन्तगुण
रूपादिवैभवनित्यास्पदत्वात् । तद्रूपेणावस्थितिर्नासम्भवितेति । यद्
गतं भवच्च भविष्यच्च [Bआऊ ३.८.३] इति श्रुतेः ।

सम्भावितायां तु तस्यामवतारवाक्यं चावतारस्य प्रपञ्चगततदीय
प्रकाशमात्रलक्षणत्वात् । नारायणादीनां च तत्रैवावतारे प्रवेश
मात्रविवक्षातो न विरुध्यते । किं चोत्तरमीमांसायां तत्तद्उपासना
शास्त्रोक्ता या या मूर्तिस्तद्वती एव देवता इति सिद्धान्तग्रहः । ततश्च तं
पीठगं ये तु यजन्ति धीरास्तेषां सुखं शाश्वतं नेतरेषाम् [ङ्टू १.२०]
इत्यादिका गोपालतापन्य्उपनिषदि येनायथार्था मन्यते तस्य तु महद्
एव साहसम् । अत्र च शाश्वतसुखफलप्राप्तिश्रवणात्तत्पीठस्य
यजनं विना ज्ञानमयं ज्ञानात्मोक्ष इति श्रुतेः । तत्रैव घोरा इति
विशेषणात्बालातुरवद्भावस्तेषां दूर एवोत्सारितः । नेतरेषामिति
निर्धारणे तद्यजनस्य परम्पराहेतुत्वमपि निषिध्यते । अतएव नाम
ब्रह्मेत्युपासीत [Cहाऊ ७.१.५] इतिवदत्रारोपोऽपि न मन्तव्यः । तस्माद्
आराधनवाक्येन तस्य नित्यत्वं सिध्यत्येव स्वाध्यायादिष्टदेवता
सम्प्रयोग इति स्मरणं चात्रोपष्टम्भकमिति । [एन्द्षर्वसंवादिनी]



आरोपश्च परिच्छिन्नगुणरूप एव वस्तुनि कल्प्यते नानन्तगुणरूपे ।
श्रीस्वामिचरणैरपीदमेव पुष्टमेकादशसमाप्तौ धारणाध्यान
मङ्गलम् [भागवतम् ११.३१.६] इत्यत्र धारणाया ध्यानस्य च मङ्गलं शोभनं
विषयमितरथा तयोर्निर्विषयत्वम् । दृश्यते चाद्याप्युपासकानां
साक्षात्कारस्तत्फलस्प्राप्तिश्चेति भावः । श्रूयते चैवं पञ्चमे नवसु
वर्षेषु तत्तद्अवतारोपासनादि । यथोक्तं नवस्वपि वर्षेषु भगवान्
नारायणो महापुरुषः पुरुषाणां तद्अनुग्रहायात्मतत्त्व
व्यूहेनात्मनाद्यापि सन्निधीयते । [भागवतम् ५.१७.१४] इति ।

सन्निधानं चेदं साक्षाद्रूपेण श्रीप्रद्युम्नादौ गतिविलासादेर्
वर्णितत्वात् । तत्र चात्मना स्वयमेवेत्युक्तम् । तथा नित्यत्वे एव
शालग्रामशिलादिषु नरसिंहत्वादिभेदश्च संगच्छते । तत्तद्अवतार
सान्निध्यादेव हि तत्तद्भेदः । तथा श्रीकृष्णमधिकृत्यापि गीतं श्री
कृष्णसहस्रनामप्रारम्भे श्रीविष्णुधर्मोत्तरे

तस्य हृष्टाशयः स्तुत्या विष्णुर्गोपाङ्गनावृतः ।
तापिञ्छश्यामलं रूपं पिञ्छोत्तंसमदर्शयत् ॥ इति ।

अग्रे च तद्वाक्यम्
मामवेहि महाभाग कृष्णं कृत्यविदां वर ।
पुरस्कृतोऽस्मि त्वद्भक्त्या पूर्णाः सन्तु मनोरथाः ॥ इति ।

तथा पाद्मे निर्माणखण्डे पश्य त्वं दर्शयिष्यामि स्वरूपं वेद
गोपितमिति श्रीभगवद्वाक्यानन्तरं ब्रह्मवाक्यम्

ततोऽपश्यमहं भूप बालं कालाम्बुदप्रभम् ।
गोपकन्यावृतं गोपं हसन्तं गोपबालकैः ॥
कदम्बमूल आसीनं पीतवाससमद्भुतम् ।
वनं वृन्दावनं नाम नवपल्लवमण्डितम् ॥ इत्यादि ।

त्रैलोक्यसंमोहनतन्त्रे श्रीमद्अष्टादशाक्षरजपप्रसङ्गे

अहर्निशं जपेद्यस्तु मन्त्री नियतमानसः ।
स पश्यति न सन्देहो गोपवेशधरं हरिम् ॥ इति ।

[षर्वसंवादिनी: त्रैलोक्यसंमोहनतन्त्रवचनानन्तरं चैवं
व्याख्येयम् । यदि वा श्रीकृष्णादीनां स्वयंभगवत्त्वादिकम्
अननुसन्धायैव प्रलापिभिरुपासनानुसारेणान्यदापि कश्चिन्मूलभूत
भगवान् तद्रूपेणोपासकेभ्यो दर्शनं ददातीति मन्तव्यम् । तथापि
श्रुत्य्आदिप्रसिद्धानां तत्तद्उपासनाप्रवाहाणां

स्वयं समुत्तीर्य सुदुस्तरं द्युमन्
भवार्णवं भीममदभ्रसौहृदाः ।
भवत्पदाम्भोरुहनावमत्र ते
निधाय याताः सद्अनुग्रहो भवान् ॥ [भागवतम् १०.२.३१]

इत्यनुसारेणाविच्छिन्नसम्प्रदायत्वेनादिसिद्धत्वातनन्तत्वात्केषांचित्
तच्चरणारविन्दैकसेवामात्रपुरुषार्थानां ये यथा मां प्रपद्यन्ते
[गीता ४.११] इति न्यायेन नित्यतद्एकोपलब्धत्वात्श्रीभगवतः सर्वदैव
तत्तद्रूपेणावस्थितिर्गम्यते एव । अतएव भगवत्पदाम्भोरुह
नावमात्र ते निधायेत्युक्तम् । तदेतामपि परिपाटीं पश्चाद्विधायाह ।
[एन्द्ष्ष्.]

गौतमीये च सद्आचारप्रसङ्गे
अहर्निशं जपेन्मन्त्रं मन्त्री नियतमानसः ।
स पश्यति (पगे ४१) न सन्देहो गोपवेशधरं हरिम् ॥ इति ।

श्रीगोपालतापनीश्रुतिश्चैवम् तदु होवाच ब्रह्मणोऽसावन्वरतं मे
ध्यातः स्तुतः परमेश्वरः परार्धान्ते सोऽबुध्यत । गोपवेशो मे पुरुषः
पुरस्तादाविर्बभूव ॥ [ङ्टू १.२९] इति सिद्धनिर्देशोऽपि श्रूयते यथा वन्दे
वृन्दावनासीनमिन्दिरानन्दमन्दिरम् [णार्ড়् १.१.१] इति बृहन्
नारदीयारम्भे मङ्गलाचरणम् ।

गृहं सन्तिष्ठते यस्य माहात्म्यं दैत्यनायक ।
द्वारकायाः समुद्भूतं सान्निध्यं केशवस्य च ।
रुक्मिणीसहितः कृष्णो नित्यं निवसते गृहे ॥

इति स्कान्दे द्वारकामाहात्म्ये बलिं प्रति श्रीप्रह्लादवाक्यम् ।

व्रतिनः कार्त्तिके मासि स्नातस्य विधिवन्मम ।
गृहाणार्घ्यं मया दत्तं दनुजेन्द्रनिषूदन ॥ [ড়द्मড়् ६.९३.२४]

इति पाद्मकार्त्तिकमाहात्म्ये तत्प्रातःस्नानार्घ्यमन्त्रः । एवं च
श्रीमद्अष्टादशाक्षरादयो मन्त्रास्तत्तत्परिकरादि
विशिष्टतयिवाराध्यत्वेन सिद्धनिर्देशमेव कुर्वन्ति । तद्आवरणादिपूजा
मन्त्राश्च । किं बहुना कर्मविपाकप्रायश्चित्तशास्त्रेऽपि तया श्रूयते ।
यदाह बोधायनः होमस्तु पूर्ववत्कार्यो गोविन्दप्रीतये ततः इत्याद्य्
अनन्तरं

गोविन्द गोपीजनवल्लभेश
कंसासुरघ्न त्रिदशेन्द्रवन्द्य ।
गोदानतृप्तः कुरु मे दयालो
अंशोविनाशं क्षपितारिवर्ग ॥ इति ।

अन्यत्र च यथा
गोविन्द गोपीजनवल्लभेश
विध्वस्तकंस त्रिदशेन्द्रवन्द्य ।
गोवर्धनादिप्रवरैकहस्त
संरक्षिताशेषगवप्रवीण ॥
गोनेत्रवेणुक्षपण प्रभूतम्
आन्ध्यं तथोग्रं तिमिरं क्षिपांशु ॥ इति ।

स्पष्टं च तथात्वं श्रीगोपालतापन्यां गोविन्दं सच्चिद्आनन्द
विग्रहं वृन्दावनसुरभूरुहतलासीनं सततं समरुद्गणोऽहं
तोषयामि [ङ्टू १.३७] इति ।

अतएव पुरस्कृतोऽस्मि त्वद्भक्त्या इत्येवोक्तमिति । अलं चैवांविध
प्रमाणसङ्ग्रहप्रपञ्चेन । यतश्चिच्छक्त्य्एकव्यञ्जितानां तत्
परिच्छदादीनामपि तथा नित्यावस्थितित्वेनाविर्भावतिरोभावावेव द्वितीय
सन्दर्भे साधितौ स्तः । सर्वथोत्पत्तिनाशौ तु निषिद्धौ । ततस्तद्
अवताराणां किमुत स्वयं भगवतो वा तस्य किमुततरामिति । यथा च
व्याख्यातं जगृहे पौरुषं रूपमित्यत्र तत्त्ववादगुरुभिः । व्यक्त्य्
अपेक्षया जगृहे । तथा च तन्त्रभागवते

अहेयमनुपादेयं यद्रूपं नित्यमव्ययम् ।
स एवापेक्ष्यरूपाणां व्यक्तिमेव जनार्दनः ॥
अगृह्णाद्व्यसृजच्चेति रामकृष्णादिकां तनुम् ।
पठ्यते भगवानीशो मूढबुद्धिव्यपेक्षया ॥
तमसा ह्युपगूढस्य यत्तमःपानमीशितुः ।
एतत्पुरुषरूपस्य ग्रहणं समुदीर्यते ॥
कृष्णरामादिरूपाणां लोके व्यक्तिव्यपेक्षया ॥ इति ।

एवमेव प्रथमे द्वादशाध्याये विधूय [भागवतम् १.१२.११] इत्य्आदिपद्ये
स्वामिभिरपि व्याख्यातम् यत्र दृष्टस्तत्रैवान्तर्हितः न त्वन्यत्र
गतः । यतो विभुः सर्वगत इति । तथा माध्वभाष्यप्रमाणिता श्रुतिश्च


वासुदेवः सङ्कर्षणः प्रद्युम्नोऽनिरुद्धोऽहं मत्स्यः कूर्मो वराहो
नरसिंहो वामनो रामो रामो रामः कृष्णो बुद्धः कल्किरहं शतधाहं
सहस्रधाहमितोऽहमनन्तोऽहं नैवैते जायन्ते नैते म्रियन्ते । नैषाम्
अज्ञानबन्धो न मुक्तिः सर्व एव ह्येते पूर्णा अजरा अमृताः परमा
परमानन्दा इति चतुर्वेदशिखायाम् ।

तथा च श्रीनृसिंहपुराणे युगे युगे विष्णुरनादिमूर्तिमास्थाय विश्वं
परिपाति दुष्टहा इति ।

तथा च नृसिंहतापन्यां तद्भाष्यकृद्भिर्व्याख्यातम् एतन्नृसिंह
विग्रहं नित्यमिति । श्रुतिश्च सेयमृतं सत्यं परं ब्रह्म पुरुषं नृ
केशरिविग्रहमिति । एवं च ब्राह्मपाद्मोत्तरखण्डादावपि श्रीमत्स्य
देवादीनां च पृथक्पृथग्वैकुण्ठादिलोकाः श्रूयन्ते । एवमेव जलेषु
मां (पगे ४२) रक्षतु मत्स्यमूर्तिरिति नारायणवर्माद्य्उक्तमपि
सङ्गच्छते ।

तस्मात्स्वयं भगवति श्रीकृष्णेऽप्यन्यथासम्भावनमनादिपाप
विक्षेप एव हेतुः । तदेवमभिप्रेत्य तान् दुर्बुद्धीनपि बोधयितुं तस्य
स्वोपास्यत्वं प्रतिपादयन्नाह पतिर्गतिश्चान्धकवृष्णिसात्वतां
प्रसीदतां मे भगवान् सतां पतिः ॥ [भागवतम् २.४.२०] इति । स्पष्टम् ।

॥ २.४ ॥ श्रीशुकः ॥ ९३ ॥

[९४]

तथा देवे वर्षति यज्ञविप्लवरुषा इत्य्आदौ प्रीयान्न इन्द्रो गवाम् [भागवतम्
१०.२६.२५] इति । स्पष्टम् ।

॥ १०.२६ ॥ श्रीशुकः ॥ ९४ ॥

[९५]

तथा
श्रीकृष्ण कृष्णसख वृष्ण्य्ऋषभावनिध्रुग्
राजन्यवंशदहनानपवर्गवीर्य ।
गोविन्द गोपवनिताव्रजभृत्यगीत
तीर्थश्रवः श्रवणमङ्गल पाहि भृत्यान् ॥ [भागवतम् १२.११.२५]

स्पष्टम् ॥ १२.११ ॥ श्रीसूतः ॥ ९५ ॥

[९६]

अपि च स्वयमेव स्वविग्रहमेव लक्ष्यीकृत्याह

तदा वां परितुष्टोऽहममुना वपुषानघे ।
तपसा श्रद्धया नित्यं भक्त्या च हृदि भावितः ॥
प्रादुरासं वरदराड्युवयोः कामदित्सया ।
व्रियतां वर इत्युक्ते मादृशो वां वृतः सुतः ॥ [भागवतम् १०.३.३७३८]

इत्युपक्रम्य
अदृष्ट्वान्यतमं लोके शीलौदार्यगुणैः समम् ।
अहं सुतो वामभवं पृश्निगर्भ इति श्रुतः ॥
तयोर्वां पुनरेवाहमदित्यामास कश्यपात् ।
उपेन्द्र इति विख्यातो वामनत्वाच्च वामनः ॥
तृतीयेऽस्मिन् भवेऽहं वै तेनैव वपुषाथ वाम् ।
जातो भूयस्तयोरेव सत्यं मे व्याहृतं सति ॥ [भागवतम् १०.३.४१४३]

अमुना श्रीकृष्णस्य मम प्रादुर्भावसमयेऽत्र प्रकाशमानेनैतेन
श्रीकृष्णाख्येनैव । तृतीय इति तेनैव पूर्वं वरार्थं प्रादुर्भावितेनैव ।
अतएव पृश्निगर्भादित्वे तेनैव वपुषेत्युक्तत्वान्न तु तदानीमधुनेव
स्वयमेव बभूव किन्त्वंशेनैवेति गम्यते । पृश्निगर्भस्तु ते बुद्धिम्
आत्मानं भगवान् परः [भागवतम् १०.६.१२] इत्यत्राप्येतदेव गीर्देव्या सूचितम्
अस्ति । अतएव तृतीय एव भवे तत्सदृशसुतप्राप्तिलक्षणवरस्य परम
पूर्णत्वापेक्षया तत्रैव सत्यं मे व्याहृतमित्युक्तं चतुर्भुजत्वं चेदं
रूपं श्रीकृष्ण एव । कृष्णावतारोत्सवः [भागवतम् १०.३.११] इत्य्आदिभिस्तस्यात्यन्त
प्रसिद्धेः ॥

॥ १०.३ ॥ श्रीभगवान् देवकीदेवीम् ॥ ९६ ॥

[९७]

एवं च देवक्यां देवरूपिण्याम् [भागवतम् १०.३.८] इत्यादि । स्पष्टम् ।

॥ १०.३ ॥ श्रीशुकः ॥ ९७ ॥

[९८]

ननु सत्यं तस्य चतुर्भुजाकाररूपस्य तादृशत्वं किन्तु रूपं चेदं
पौरुषं ध्यानधिष्ण्यं मा प्रत्यक्षं मांसदृशां भो कृषीष्ठाः
[भागवतम् १०.३.२८] इति मातृविज्ञापनानुसारेण ।
एतद्वां दर्शितं रूपं प्राग्जन्मस्मरणाय मे ।
नान्यथा मद्भवं ज्ञानं मर्त्यलिङ्गेन जायते ॥ [भागवतम् १०.३.४४]

इति प्रत्युत्तरय्य
इत्युक्त्वासीद्धरिस्तूष्णीं भगवानात्ममायया ।
पित्रोः सम्पश्यतोः सद्यो बभूव प्राकृतः शिशुः ॥ [भागवतम् १०.३.४६]

इत्युक्तदिशा यन्मानुषाकाररूपं स्वीकृतवान् तत्र सन्दिग्धमिव भाति ।
अत्र च भवतु वा हरिरपि तत्याज आकृतिं त्र्य्अधीश इति [भागवतम् ३.४.२८] त्यक्षन्
देहमिति [भागवतम् ३.४.२९] च तन्त्रभागवतानुसारेणान्तर्धापनार्थत्वाद्
असहायम् ।

ययाहरद्भुवो भारं तां तनुं विजहावजः ।
कण्टकं कण्टकेनेव द्वयं चापीशितुः समम् ॥
यथा मत्स्यादिरूपाणि धत्ते जह्याद्यथा नटः । (पगे ४३)
भूभारः क्षपितो येन जहौ तच्च कलेवरम् ॥ [भागवतम् १.१५.३४३५]

इति तु परिपोषकम् । एतदेव श्रीवसुदेववचनेऽपि लभ्यते

सूतीगृहे ननु जगाद भवानजो नौ
सञ्जज्ञ इत्यनुयुगं निजधर्मगुप्त्यै ।
नानातनूर्गगनवद्विदधज्जहासि
को वेद भूम्न उरुगाय विभूतिमायाम् ॥ [भागवतम् १०.८५.२०]

अत्रोच्यते तत्तद्वचनमन्यार्थत्वेन दृश्यमिति । एकस्मिन्नेव तस्मिन् श्री
विग्रहे कदाचित्चतुर्भुजत्वस्य कदाचिद्द्विभुजत्वस्य च प्रकाश
श्रवणेनाविशेषापाताद्भूभारक्षपणे द्वयोरपि सामान्यात् । सूतीगृहे
इत्यादिवाक्यस्य चतुर्भुजविषयत्वाच्च । किं च यैर्विद्वद्अनुभवसेवित
शब्दसिद्धैर्नित्यत्वादिभिर्धर्मैः श्रीविग्रहस्य परमतत्त्वाकारत्वं
साधितम् । ते प्रायशो नराकारमधिकृत्यैव ह्युदाह्रियन्ते स्म द्वितीय
सन्दर्भे । तथात्रैव चोपासकेषु साक्षात्कारादिलिङ्गेन सिद्धनिर्देशेन
च तद्आकारस्यापि नित्यसिद्धत्वं दृढीकृतम् । उदाहरिष्यते च सिद्ध
निर्देशः मां केशवो गदया प्रातरव्याद्गोविन्द आसङ्गव मात्तवेणुः
[भागवतम् ८.९.२०] इति ।

संप्रत्यन्यदपि तत्रोदाह्रियते । तत्र नित्यत्वं यथा

कंसो बताद्याकृत मेऽत्य्अनुग्रहं
द्रक्ष्येऽङ्घ्रिपद्मं प्रहितोऽमुना हरेः ।
कृतावतारस्य दुरत्ययं तमः
पूर्वेऽतरन् यन्नखमण्डलत्विषा ॥

यदर्चितं ब्रह्मभवादिभिः सुरैः
श्रिया च देव्या मुनिभिः ससात्वतैः ।
गोचारणायानुचरैश्चरद्वने
यद्गोपिकानां कुचकुङ्कुमाङ्कितम् ॥ [भागवतम् १०.३८.७८]

अत्र पूर्व इत्यादिद्योतितं गोचारणाय इत्य्आदिलब्धस्य स्फुटं श्री
नराकारस्यैव नित्यावस्थायित्वं लभ्यते ॥

॥ १०.३८ ॥ श्रीमद्अक्रूरः ॥ ९८ ॥

[९९]

तथा

या वै श्रियार्चितमजादिभिराप्तकामैर्
योगेश्वरैरपि यदात्मनि रासगोष्ठ्याम् ।
कृष्णस्य तद्भगवतश्चरणारविन्दं
न्यस्तं स्तनेषु विजहुः परिरभ्य तापम् ॥ [भागवतम् १०.४७.६२]

सदा भूतवर्तमानभविष्यत्कालेषु श्र्य्आदीनां सर्वदावस्थायित्वेन
प्रसिद्धेः । सदेत्यस्य तथैव ह्यर्थप्रतीतिः । सङ्कोचवृत्तौ
कष्टतापत्तेः । श्रीभगवति तादृशत्वासम्भवाच्च । तथा च श्रुतौ
गोविन्दं सच्चिद्आनन्दविग्रहं वृन्दावनसुरभूरुहतलासीनं सततं
समरुद्गणोऽहं तोषयामि [ङ्टू १.३७] इति ब्रह्मवाक्यम् ।

[Vऋ. रेअद्स्हेरे:। तद्उत्तरतापनीश्रुतौ श्रीगोपीः प्रति दुर्वाससो वाक्यम्
जन्मजराभ्यां भिन्नः स्थानुरयमच्छेद्योऽयं योऽसौ सौर्ये तिष्ठति ।
योऽसौ गोषु तिष्ठति, योऽसौ गाः पालयति, योऽसौ गोपेषु तिष्ठति स वो हि
स्वामी भवति ॥ [ङ्टू २.२३] इति । [एन्द्Vऋ. अद्दितिओन्.]

॥ १०.४७ ॥ श्रीमद्उद्धवः ॥ ९९ ॥

[१००]

एवं च

यत्पादपांसुर्बहुजन्मकृच्छ्रतो
धृतात्मभिर्योगिभिरप्यलभ्यः ।
स एव यद्दृग्विषयः स्वयं स्थितः
किं वर्ण्यते दिष्टमतो व्रजौकसाम् ॥ [भागवतम् १०.१२.१२]

अत्र स्वयमित्यनेन तु बाढमेवान्यथाप्रतीतिर्दुर्धियां निरस्ता ॥

[Vऋ. रेअद्स्हेरे:। स्थित इति वर्तमाने क्त । यच्च किञ्चिज्जगत्सर्वं व्याप्य
नारायण स्थितः [ंहानारायण ऊपनिषद्९.५] इतिवत् । [एन्द्Vऋ. अद्दितिओन्.]

॥ १०.१२ ॥ इति शुकः ॥ १०० ॥
(पगे ४४)
[१०१]

अतएव स्वभावसिद्धत्वं पूर्णैश्वर्याद्य्आश्रयत्वं च

गोप्यस्तपः किमचरन् यदमुष्य रूपं
लावण्यसारमसमोर्ध्वमनन्यसिद्धम् ।
दृग्भिः पिबन्त्यनुसवाभिनवं दुरापम्
एकान्तधाम यशसः श्रिय ऐश्वरस्य ॥ [भागवतम् १०.४४.१४]

अनन्यसिद्धमन्येन तत्सिद्धमिति न, किन्तु स्वाभाविकमेवेत्यर्थः ।
अन्यत्रासिद्धमिति तु व्याख्यापि पिष्टपेषणम् । असमोर्ध्वमिति हि युक्तम्
एव ॥

[Vऋ. अद्द्स्हेरे: तदिदं च तासां वाक्यं श्रीशुकदेवादिभिः स्वयम्
अनुमोदितमिति नान्यथा मन्तव्यम् । [Vऋ. अद्दितिओनेन्द्स्.]

॥ १०.४४ ॥ मथुरापुरस्त्रियः परस्परम् ॥ १०१ ॥

[१०२]

अथ विभुत्वं न चान्तर्न बहिर्यस्य [भागवतम् १०.९.१३] इत्यादौ । प्राकृत
वस्त्व्अतिरिक्तत्वं त्वक्श्मश्रुरोमनखकेशपिनद्धम् [भागवतम् १०.६०.४५]
इत्यादौ स्पष्टम् । स्वप्रकाशलक्षणत्वम्

अस्यापि देववपुषो मद्अनुग्रहस्य
स्वेच्छामयस्य न तु भूतमयस्य कोऽपि ।
नेशे महित्ववसितुं मनसान्तरेण
साक्षात्तवैव किमुतात्मसुखानुभूतेः ॥ [भागवतम् १०.१४.२]

अस्य नौमीड्य ते [भागवतम् १०.१४.१] इत्यादिना वर्णितलक्षणस्य श्रीमन्
नराकरस्य तव सम्प्रति बालकवत्साद्य्अंशैर्दर्शितेषु एकमपि देव
रूपं चतुर्भुजाकारं यद्वपुस्तस्यापि । [Vऋ. अद्द्स्: अस्तु वा तावत्
समस्तानामित्यर्थः । एन्द्Vऋ. अद्दितिओन्.] एवं च सति साक्षादेतद्
रूपस्यांशिनस्तव, किमुत देववपुषो विशेषणं मद्अनुग्रहस्येत्यादि ।
ममानुग्रहो यस्मात्तस्य तद्दर्शनेनैव भवन्महिमज्ञानात् ।
कथम्भूतस्य तव ? आत्मसुखानुभूतेः । आत्मना स्वेनैव न त्वन्येन
सुखस्यानुभूतिरनुभवो यस्य तस्यानन्यवेद्यानन्दस्येत्यर्थः ।

॥ १०.१४ ॥ ब्रह्मा श्रीभगवन्तम् ॥ १०२ ॥

[१०३]

कैमुत्येन स्वयंरूपत्वनिर्देशश्च

सकृद्यद्अङ्गप्रतिमान्तर्आहिता
मनोमयी भागवतीं ददौ गतिम् ।
स एव नित्यात्मसुखानुभूत्य्अभि
व्युदस्तमायोऽन्तर्गतो हि किं पुनः ॥ [भागवतम् १०.१२.३९]

स्पष्टम् ॥ ॥ १०.१२ ॥ श्रीशुकः ॥ १०३ ॥

[१०४]

अतएव साक्षात्परब्रह्मत्वमेव दर्शितम् अद्यैव त्वद्ऋतेऽस्य [भागवतम्
१०.१४.१८] इत्यादौ अहो भाग्यमहो भाग्यम् [भागवतम् १०.१४.३२] इत्यादौ च ।
अतएवोक्तं गूढं परं ब्रह्म मनुष्यलिङ्गम् [भागवतम् ७.१५.७५] इति । वैष्णवे


यदोर्वंशं नरः श्रुत्वा सर्वपापैः प्रमुच्यते ।
यत्रावतीर्णं कृष्णाख्यं परं ब्रह्म नराकृति ॥ [Vइড়् ४.११.२] इति ।

नराकृति परं ब्रह्मेति बृहत्सहस्रनामस्तोत्रे च । एतेन श्रीकृष्णस्य
नराकृतित्वमेवेति । द्विभुजत्व एव श्रीकृष्णत्वं नराकृतिकैवल्यान्
मुख्यं, चतुर्भुजत्वे तु श्रीकृष्णत्वं नराकृतिभूयिष्ठत्वात्तद्
अनन्तरमेव । अतएव चतुर्भुजत्वेऽपि मनुषरूपत्वं वर्णितं श्रीमद्
अर्जुनेन तेनैव रूपेण चतुर्भुजेन सहस्रबाहो भव विश्वमूर्ते [गीता
११.५१] इत्युक्त्वा, दृष्ट्वेदं मानुषं रूपं तव सौम्य जनार्दन, इदानीम्
अस्मि संवृत्तः [गीता ११.५१] इत्युक्तत्वात् । एवंजातीयकानि बहूनि, तानि च
द्रष्टव्यानि ।

अतएव सा नराकारा मूर्तिरेव परमकारणं वस्तुतत्त्वमित्याह
नारायणे कारणमार्त्यमूर्तौ [भागवतम् १०.४६.३३] सर्वकारणं यत्तत्त्वं तद्
एव मर्त्याकारा मूर्तिर्यस्य । तदुक्तं तत्त्वं परं योगिनाम् [भागवतम् १०.४३.१७]
इति । तथा च पाद्मनिर्माणखण्डे श्रीवेदव्यासवाक्यम्

दृष्टातिहृष्टो ह्यभवं सर्वभूषणभूषणम् ।
गोपालमबलासङ्गे मुदितं वेणुवादिनम् ॥
ततो मामाह भगवान् वृन्दावनचरः स्वयम् । (पगे ४५)
यदिदं मे त्वया दृष्टं रूपं दिव्यं सनातनम् ॥
निष्कलं निष्क्रियं शान्तं सच्चिद्आनन्दविग्रहम् ।
पूर्णं पद्यपलाशाक्षं नातःपरतरं मम ॥
इदमेव वदन्त्येते वेदाः कारणकारणम् ॥ इत्यादि ।

॥ १०.४६ ॥ उद्धवः श्रीव्रजेश्वरम् ॥ १०४ ॥

[१०५]

अतएव बहूंश्चतुर्भुजान् दृष्टवानपि श्रीनराकारस्यैव विशेषतः
स्तुत्यत्वं प्रतिजानीते । नौमीड्य तेऽभ्रवपुषे तडिद्अम्बराय [भागवतम् १०.१४.१]
इत्यादि ।

इदमेव तव परमं तत्त्वमित्यज्ञात्वा पूर्वमहं भ्रान्तवान् । अधुना
तु अद्यैव त्वद्ऋतेऽस्य किम् [भागवतम् १०.१४.१८] इत्यादिदिदर्शितया भवतः कृपया
ज्ञातवानित्यतस्तत्र तद्आकारमेव त्वां लब्धुं स्तौमीति तात्पर्यम् ।

॥ १०.१४ ॥ ब्रह्मा श्रीभगवन्तम् ॥ १०५ ॥
[१०६]

तदेवं साधूक्तं तत्तद्वचनमन्यार्थत्वेन दृश्यमिति । तथा हि
पूर्वरीत्या चतुर्भुजत्वद्विभुजत्वयोर्द्वयोरपि ध्यानधिष्ण्यत्वे सति,
यत्पूर्वस्य जनन्या निगूहनप्रार्थनं तत्तु तस्य प्रसिद्धत्यआ सर्व एव
ज्ञास्यतीति जन्म ते मय्यसौ पापो मा विद्यान्मधुसूदन [भागवतम् १०.३.२९] इत्य्
आद्य्उक्तलक्षणया कंसभिया विश्वं यदेतत्स्वतनौ निशान्ते [भागवतम्
१०.३.३१] इत्य्आद्य्उक्तलक्षणया मांसदृक्शब्दोक्तभगवत्स्वरूपशक्ति
विलासतज्जन्मादिलीलातत्त्वानभिज्ञप्राकृतदृग्भ्यो लज्जया च । न पुनर्
अपरस्य गूढं परं ब्रह्म मनुष्यलिङ्गम् [भागवतम् ७.१५.३५] इत्यादौ
गूढत्वेन कथितस्य ध्यानधिष्ण्यत्वाभावविवक्षया । श्रीगोपाल
तापनीश्रुतावप्युभयोरपि ध्यानधिष्ण्यत्वं श्रूयते

मथुरायां विशेषेण मां ध्यायन्मोक्षमश्नुते ।
अष्टपत्रं विकसितं हृत्पद्मं तत्र संस्थितम् ॥ [ङ्टू २.५८५९]

इत्यादिषु मध्ये चतुर्भुजं शङ्खचक्र [ङ्टू २.६०] इत्यादिकमुक्त्वा
सर्वान्ते शृङ्गवेणुधरं तु वा [ङ्टू २.६०] इत्युक्तम् । एवमागमेऽपि
द्विभुजध्यानं श्रूयते तस्मान्निगूढत्वविवक्षयैव समीचीना ।
तथैव तद्विवक्षया नान्यथा मद्भावं मर्त्यलिङ्गेन जायते [भागवतम्
१०.३.४४] इति श्रीभगवतोक्तम् ।

तथा च पाद्मनिर्माणखण्डे श्रीभगवद्वाक्यं व्यासवाक्ये

पश्य त्वं दर्शयिष्यामि स्वरूपं वेदगोपितम् ।
ततोऽपश्यमहं भूप बालं कालाम्बुदप्रभम् ।
गोपकन्यावृतं गोपं हसन्तं गोपबालकैः ॥ इति ।

एवमित्युक्त्वासीद्धरिस्तूष्णीम् [भागवतम् १०.३.४६] इत्यादौ च व्याख्येयम् ।
आत्ममायया स्वेच्छया आत्ममाया तद्इच्छा स्यादिति महासंहितोक्तेः ।
प्रकृत्या स्वरूपेणैव व्यक्तः प्राकृतः । न त्वौपाधिकतया शैषिकोऽण् ।
तत्र हि भगवद्विग्रहे शिशुत्वादयो विचित्रा एव धर्माः स्वाभाविकाः
सन्तीति को वेत्ति भूमन् [भागवतम् १०.१४.२१] इत्यस्य व्याख्याने द्वितीयसन्दर्भे
दर्शितमेव ।

अत्र श्रीरामानुजाचार्यसम्मतिरपि । श्रीगीतासु प्रकृतिं स्वामवष्टभ्य
सम्भवाम्यात्ममायया [गीता ४.६] इत्यत्र स्वमेव स्व्भावमास्थाय
आत्ममायया स्वसङ्कल्परूपेण ज्ञानेनेत्यर्थः । माया व्यूनं ज्ञानम्
इति नैर्घण्टुकाः । महाभारते च अवताररूपस्याप्यप्राकृतत्वमुच्यते
न भूतसङ्घसंस्थानो देहोऽस्य परमात्मनः इति ।

अथ बृहद्वैष्णवेऽपि
यो वेत्ति भौतिकं देहं कृष्णस्य परमात्मनः ।
स सर्वस्माद्बहिष्कार्यः श्रौतस्मार्तविधानतः ।
मुखं तस्यावलोक्यापि सचेलः स्नानमाचरेत् ।
पश्येत्सूर्यं स्पृशेद्गां च धृतं प्राश्य विशुद्ध्यति ॥ इति । [पगे ४६]

अथ यथाहरद्भुवो भारम् [भागवतम् १.१५.३४] इत्यादौ चैवं मन्तव्यम् ।
तनुरूपकलेवरशब्दैरत्र श्रीभगवतो भूभारजिहीर्षालक्षणो
देवादिपिपालयिषालक्षणश्च भाव एवोच्यते । यथा तृतीये विंशतितमे तत्
तच्छब्दैर्ब्रह्मणो भाव एवोक्तः । यदि तत्रैव तह्ता व्याख्येयं तदा
सुतरामेव श्रीभगवतीति । ततश्च तस्य भावस्य भगवति तद्आभास
रूपत्वात्कण्टकदृष्टान्तः सुसङ्गत एव । तथा द्वयमेवेशितुः साम्यम्
अपि । तत्तु तृतीये सन्दर्भ एव विवृतं मत्स्यादिरूपाणि [भागवतम् १.१५.३५]
मत्स्याद्य्अवतारेषु तत्तद्भावान् ।

अथ नटदृष्टान्तेऽपि नटः श्राव्यरूपकाभिनेता । व्याख्यातं च टीका
कृद्भिः प्रथमस्यैकादशे नटा नवरसाभिनयचतुरा [Bहावार्थ
दीपिका १.११.२१] इति । ततो यथा श्रव्यरूपकाभिनेता नटः स्वरूपेण स्व
वेशेन च स्थित एव पूर्ववृत्तमभिनयेन गायन्नायकनायिकादिभावं
धत्ते जहाति च तथेति । अतएव तृतीये

प्रदर्श्यातप्ततपसामवितृप्तदृशां नृणाम् ।
आदायान्तरधाद्यस्तु स्वबिम्बं लोकलोचनम् ॥ [भागवतम् ३.२.११]

इत्यत्रापि लोकलोचनरूपं स्वबिम्बं निजमूर्तिं प्रदर्श्य पुनरादायैव
च अन्तरधात् । न तु त्यक्त्वेत्युक्तं श्रीसूतेन यथा मत्स्यादिरूपाणि [भागवतम्
१.१५.३५] इत्यनन्तरमपि तथोक्तं यदा मुकुन्दो भगवानिमां महीं
जहौ स्वतन्वा [भागवतम् १.१५.३६] इति । त्यागोऽत्र स्वतनुकरणक इति न तु स्व
तन्वा सहेति व्याख्येयम् । अध्याहार्यापेक्षागौरवातुपपदविभक्तेः
कारकविभक्तिर्बलीयसीति न्यायाच्च ।

[Vऋ. रेअद्स्हेरे: अथवा नाहं प्रकाशः सर्वस्य योगमायासमावृतः [गीता
७.२५] इति श्रीगीतवचनेन ।

योगिभिर्दृश्यते भक्त्या नाभक्त्या दृश्यते क्वचित् ।
द्रष्टुं न शक्यो रोषाच्च मत्सराच्च जनार्दनः ॥

इति पाद्मोत्तरखण्डनिर्णयेन । मल्लानामशनिः [भागवतम् १०.४३.१७] इति श्री
भागवतदर्शनेन । आत्मविनाशाय भगवद्धस्तचक्रांशु
मालोज्ज्वलमक्षयतेजःस्वरूपं परमब्रह्मभूतमपगतद्वेषादि
दोषो भगवन्तमद्राक्षीत्[Vइড়् ४.१५.१५] इति शिशुपालमुद्दिश्य विष्णु
पुराणगद्येन चासुरेषु यद्रूपं स्फुरति । तत्तस्य स्वरूपं न भवति
किन्तु मायाकल्पितमेव । स्वरूपे दृष्टे द्वेषश्चापयातीति ततश्चासुरेषु
स्फुरत्या यया तन्वा भुवो भाररूपमसुरवृन्दमहरत्तां तनुं
विजहौ । पुनस्तत्प्रत्य्आयनं न चकारेत्यर्थः । भक्तिदृश्या तनुस्तु
तस्य नित्यसिद्धवेत्याह अज [गीता ४.६] इति, देवक्यां देवरूपिण्याम् [भागवतम्
१०.३.८] इत्यादेः, कृष्णं च तत्र छन्दोभिः स्तूयमानम् [भागवतम् १०.२८.१७] इत्यत्र
गोलोकाधिष्ठातृत्वनिर्देशाच्च ।

ततश्च यथा मत्स्यादिरूपाणि इत्यस्याप्ययमेवार्थः । यथा नट
ऐन्द्रजालिकः कश्चित्स्वभक्षकानां बकादीनां निग्रहाय मस्त्याद्य्
आकाआन् धत्ते, स्वस्मिन् प्रत्यायाति तन्निग्रहे सति यथा च तानि जहाति, तथा
सोऽयमजोऽपि येन मायित्वेन लक्ष्यतां प्रापितेन रूपेण भूभार
रूपासुरवर्गः क्षपिततद्वर्गं क्षपितवानित्यर्थः । तच्च कलेवरम्
अजो जहौ अन्तर्धापितवानित्यर्थः । किन्तु श्रीगीतापद्ये योगमाया
समावृतः [गीता ७.२५] सर्पकञ्चुकवन्मायारचितवपुर्आभाससमावृत
इत्यर्थः ।

विष्णुपुराणगद्ये आत्मविनाशाय इति आत्मनः स्वस्य शिशुपालस्येत्यर्थः ।
भगवता अस्तं क्षिप्तं यच्चक्रं तस्यांशुमालया उज्ज्वलं यथास्यात्
तथाद्राक्षीत् । यतः उपगतद्वेषादिदोष इति । तया तस्य दृष्टावुज्ज्वलायां
सत्यामपगतद्वेषादिदोषः सन् दूरीकृतमायिकनिजावरणं
भगवन्तमद्राक्षीदित्यर्थः । किं च, तन्मते कल्पान्तरगततत्
कथायां शिशुपालादिद्वयमुक्तिविषयकमैत्रेयपराशरप्रश्नोत्तर
रीत्या जयविजययोः शापसङ्गतिर्नास्तीत्यन्यावेव तावसुरौ ज्ञेयौ ।
युक्तं च तत्, प्रतिकल्पं तयोः शापकदर्थनाया अयुक्तत्वात् ॥ [एन्द्. Vऋ.
अद्दितिओन्.]

[पगे ४७]
अथ सूतीगृहे [भागवतम् १०.८५.२०] इत्यस्यार्थः । एतत्प्राक्तनवाक्येषु श्री
भगवन्महिमज्ञानभक्तिप्रधानोऽसौ विशुद्धसत्त्व
प्रादुर्भावस्याप्यात्मनो मनुष्यलीलामेव दैन्यातिशयतः प्राकृत
मानुषत्वेन स्थापयित्वा श्रीभगवत्य्अपत्यबुद्धिमाक्षिप्तवान् ।

ततश्च ननु तर्हि कथमपत्यबुद्धिं कुरुषे इति श्रीभगवत्प्रश्नम्
आशङ्क्य तत्र तद्वाक्यगौरवमेव मम प्रमाणं न तूपत्तिरित्याह
सूतीगृह इति । नौ आवयोरनुयुगम् । अत एव भवान् संजज्ञे अवतीर्णवानिति
सूतीगृहे भगवाननुजगाद ।

ननु मया तदपि भवद्आदितनुप्रवेशनिर्गमापेक्षयैव जज्ञे इत्य्
उक्तम्, न तु मम प्रव्शनिर्गमलिङ्गेनैव जन्म वाच्यम् । जीवसखेन
व्यष्टेः समष्टेर्वान्तर्यामिरूपेण

तं दुर्दशं गूढमनुप्रविष्टं
गुहाहितं गह्वरेष्ठं पुराणम् [Kअठू १.२.१२]

तत्सृष्ट्वा तदेवानुप्राविशत्[टैत्तू २.६.२] इत्यादौ च तत्तदनुप्रवेशादि
दर्शनसामान्यात् । ततस्तद्वदिदमुपचरितमेवेति मन्यताम् ।

तत्राह नानेति । स्वकृतविचित्रयोनिषु विशन्निव हेतुतया [भागवतम् १०.८७.१९]
इत्यादिश्रवणात्गगनवदसङ्ग एव त्वं यज्जीवानां नानातनूर्विदधत्
प्रविशन् जहासि । मुहुः प्रविशसि जहासि चेत्यर्थः । तद्भूम्नस्तव
विभूतिविशेषरूपां मायां को वेद बहु मन्यते, नो कोऽपीत्यर्थः । इदं
त्वावाभ्यां जन्म सर्वैरेव स्तूयते इति भावः । ततो विद्वद्आदरोऽप्य्
अत्रास्तु प्रमाणं मम तु तत्सर्वथा न बुद्धिगोचर इति व्यञ्जितम् । अत्र
विद्धातोः प्रवेशार्थो नानुपपन्नः । यथोक्तं सहस्रनामभाष्ये
शिष्टान् करोति पालयति इति । सामान्यवचनो धातुर्विशेषवचने दृष्टः ।
कुरु काष्ठानीत्याहरणे यथा तद्वदिति ।

तदेवं श्रीकृष्णस्य स्वयं बहगवत्त्वं तस्यैव नराकृतिपरब्रह्मणो
नित्यमेव तद्रूपेणावस्थायित्वं दर्शितम् । तथा प्रथमे पृथिव्यापि
सत्यं शौचं दया शौचिः [भागवतम् १.१६.२७] इत्यादिना तदीयानां कान्तिसहौजो
बलानां स्वाभाविकत्वमव्यभिचारित्वं च दर्शितम् । अतएव ब्रह्माण्डे
चाष्टोत्तरशतनामस्तोत्रे नराकृतित्वं प्रकृत्यैवोक्तम्

नन्दव्रजजनानन्दी सच्चिद्आनन्दविग्रहः ।
नवनीतविलिप्ताङ्गी नवनीतनटोऽनघ ॥ इति ।

श्रीगोपालपूर्वतापन्यामपि तथैव
नित्यो नित्यानां चेतनश्चेतनानाम्
एको बहूनां यो विदधाति कामान् ।
तं पीठगं येऽनुभजन्ति धीरास्
तेषां सिद्धिः शाश्वती नेतरेषाम् ॥ [ङ्टू १.२०] इति ।

तमेकं गोविन्दं सच्चिद्आनन्दविग्रहम् [ङ्टू १.३३] इत्यादि च । तस्माच्
चतुर्भुजत्वे द्विभुजत्वे च श्रीकृष्णत्वस्याव्यभिचारित्वमेवेति सिद्धम् ।

अथ कतमत्तत्पदं यत्रासौ विहरति । तत्रोच्यते

या यथा भुवि वर्तन्ते पुर्यो भगवतः प्रियाः ।
तास्तथा सन्ति वैकुण्ठे तत्तल्लीलार्थमादृताः ॥

इति स्कान्दवचनानुसारेण वैकुण्ठे यद्यत्स्थानं वर्तते तत्तदेवेति
मन्तव्यम् । तच्चाखिलवैकुण्ठोपरिभाग एव । यतः पाद्मोत्तरखण्डे
दशावतारगणने श्रीकृष्णमेव नवमत्वेन वर्णयित्वा क्रमेण
पूर्वादिषु तद्दशावतारस्थानानां परमव्योमाभिध
वैकुण्ठस्यावरणत्वेन गणनया श्रीकृष्णलोकस्य ब्रह्मदिशि प्राप्ते
सर्वोपरिस्थायित्वमेव पर्यवसितम् । आगमादौ हि दिक्क्रमस्तथैव
दृश्यते । तत्रास्माभिस्तु तत्तच्छ्रवणात्श्रीकृष्णलोकस्य स्वतन्त्रैव
स्थितिः । किन्तु परमव्योमपक्षपातित्वेनैव [पगे ४८] पाद्मोत्तरखण्डे
तद्आवरणेषु प्रवेशितोऽसाविति मन्तव्यम् । पाद्मोत्तरखण्ड
प्रतिपाद्यस्य गौणत्वं तु श्रीभागवतप्रतिपाद्यापेक्षया वर्णितमेव ।
स्वायम्भुवागमे च स्वतन्त्रतयैव सर्वोपरि तत्स्थानमुक्तम् । यथा
ईश्वरदेवीसंवादे चतुर्दशाक्षरध्यानप्रसङ्गे पञ्चाशीतितमे पटले


ध्यायेत्तत्र विशुद्धात्मा इदं सर्वं क्रमेण तु ।
नानाकल्पलताकीर्णं वैकुण्ठं व्यापकं स्मरेत् ॥
अधःसाम्यं गुणानां च प्रकृतिं सर्वकारणम् ।
प्रकृतेः कारणान्येव गुणांश्च क्रमशः पृथक् ॥
ततस्तु ब्रह्मणो लोकं ब्रह्मचिह्नं स्मरेत्सुधीः ।
ऊर्ध्वं तु सीम्नि विरजां निःसीमां वरवर्णिनि ॥
वेदाङ्गस्वेदजनिततोयैः प्रस्रावितां शुभाम् ।
इमाश्च देवता ध्येया विरजायां यथाक्रमम् ॥ इत्याद्य्अनन्तरम्

ततो निर्वाणपदवीं मुनीनामूर्ध्वरेतसाम् ।
स्मरेत्तु परमव्योम यत्र देवाः सनातनाः ॥
ततोऽनिरुद्धलोकं च प्रद्युम्नस्य यथाक्रमम् ।
सङ्कर्षणस्य च तथा वासुदेवस्य च स्मरेत् ॥
लोकाधिपान् स्मरेत्... इत्याद्य्अनन्तरं च

पीयूषलतिकाकीर्णां नानासत्त्वनिषेविताम् ।
सर्वर्तुसुखदां स्वच्छां सर्वजन्तुसुखावहाम् ॥
नीलोत्पलदलश्यामां वायुना चालितां मृदु ।
वृन्दावनपरागैस्तु वासितां कृष्णवल्लभाम् ॥
सीम्नि कुञ्जतटां योषित्क्रीडामण्डपमध्यमाम् ।
कालिन्दीं संस्मरेद्धीमान् सुवर्णतटपङ्कजाम् ॥
नित्यनूतनपुष्पादिरञ्जितं सुखसङ्कुलम् ।
स्वात्मानन्दसुखोत्कर्षशब्दादिविषयात्मकम् ॥
नानाचित्रविहङ्गादिध्वनिभिः परिरम्भितम् ।
नानारत्नलताशोभिमत्तालिध्वनिमन्द्रितम् ॥
चिन्तामणिपरिच्छिन्नं ज्योत्स्नाजालसमाकुलम् ।
सर्वर्तुफलपुष्पाढ्यं प्रवालैः शोभितं परि ॥
कालिन्दीजलसंसर्गवायुना कम्पितं मुहुः ।
वृन्दावनं कुसुमितं नानावृक्षविहङ्गमैः ॥
संस्मरेत्साधको धीमान् विलासैकनिकेतनम् ।
त्रिलोकीसुखसर्वस्वं सुयन्त्रं केलिवल्लभम् ॥
तत्र सिंहासने रम्ये नानारत्नमये सुखे ।
सुमनोऽधिकमाधुर्यकोमले सुखसंस्तरे ॥
धर्मार्थकाममोक्षाख्यचतुष्पादैर्विराजते ।
ब्रह्मविष्णुमहेशानां शिरोभूषणभूषिते ॥
तत्र प्रेमभराक्रान्तं किशोरं पीतवाससम् ।
कलायकुसुमश्यामं लावण्यैकनिकेतनम् ॥
लीलारससुखाम्भोधिसंमग्नं सुखसागरम् ।
नवीननीरदाभासं चन्द्रिकाङ्चितकुन्तलम् ॥ इत्यादि । (पगे ४९)

[Vऋ. हेरे अद्द्स्. मृत्युसञ्जयतन्त्रे च

ब्रह्माण्डस्योर्ध्वतो देवि ब्रह्मणः सदनं महत् ।
तद्ऊर्ध्वं देवि विष्णूनां तद्ऊर्ध्वं रुद्ररूपिणाम् ॥
तद्ऊर्ध्वं च महाविष्णोर्महादेव्यास्तद्ऊर्ध्वगम् ।
कालातिकालयोश्चाथ परमानन्दयोस्ततः ।
पारे पुरी महादेव्याः कालः सर्वभयावहः ।
ततः श्रीरत्नपीयूषवारिधिर्नित्यनूतनः ॥
तस्य पारे महाकालः सर्वग्राहकरूपधृक् ।
तस्योत्तरे समुद्भासी रत्नद्वीपः शिवाह्वयः ॥
उद्यच्चन्द्रोदयः क्षुब्धरत्नपीयूषवारिधेः ।
मध्ये हेममयीं भूमिं स्मरेन्माणिक्यमण्डिताम् ॥
षोडशद्वीपसंयुक्तां कलाकौशलमण्डिताम् ।
वृन्दावनसमूहैश्च मण्डितां परितः शुभैः ॥
तन्मध्ये नन्दनोद्यानं मदनोन्मादनं महत् ।
अनल्पकोटिकल्पद्रुवाटीभिः परिवेष्टितम् ॥ इत्यादि

तन्मध्ये विपुलां ध्यायेद्वेदिकां शतयोजनाम् ।
सहस्रादित्यसङ्काशाम्... इत्यादि
तस्यान्तरे महापीठं महाचक्रसमन्वितम् ।
तन्मध्ये मण्डपं ध्यायेद्व्याप्तब्रह्माण्डमण्डलम् ॥ इत्यादि ।
ध्यायेत्तत्र महादेवीं स्वयमेव तथाविधः ।
रक्तपद्मनिभां देवीं बालार्ककिरणोपमाम् ॥ इत्यादि ।
पीतवस्त्रपरिधानां वंशयुक्तकराम्बुजाम् ।
कौस्तुभोद्दीप्तहृदयां वनमालाविभूषिताम् ॥
श्रीमत्कृष्णाङ्कपर्यङ्कनिलयां परमेश्वरीम् ॥ इत्यादि ।

इति ध्यात्वा तथा भूत्वा तस्या एव प्रसादतः ।
तद्आज्ञया परानन्दमेत्यानन्दकलावृतम् ॥
तद्आकर्णय देवेशि कथयामि दवानघे ।
एतद्अन्तर्महेशानि श्वेतद्वीपमनुत्तमम् ॥
क्षीराम्भोनिधिमध्यस्थं निरन्तरसुरद्रुमम् ।
उद्यद्अर्धेन्दुकिरणदूरीकृततमोभरम् ॥
कालमेघसमालोकनृत्यद्बर्हिकदम्बरम् ।
कूजत्कोकिलसङ्घेन वाचालितजगत्त्रयम् ॥
नानाकुसुमसौगन्ध्यवाहिगन्धवहान्वितम् ।
कल्पवल्लीनिकुञ्जेषु गुञ्जद्भृङ्गगणान्वितम् ॥
रम्यावाससहस्रेण विराजितनभस्तलम् ।
रम्यनारीसहस्रौघैर्गायद्भिः समलङ्कृतम् ॥
गोवर्धनेन महता रम्यावासविनोदिना ।
शोभितं शुभचिह्नेन मानदण्डेन चापरम् ॥
अवाचीप्राच्य्उदीच्य्आशाः क्रमायतविवृद्धया ।
व्याप्ता यमुनया देव्या नीलमेघाम्बुशोभया ॥
तन्मध्ये स्फटिकमयं भवनं महदद्भुतम् । इत्यादि ।

तत्तद्अन्तर्महाकल्पमन्दारादिद्रुमैर्वृतम् ।
तत्तन्मध्ये समुद्भासिवृन्दावनकुलाकुलम् ॥ इत्यादि ।

कुत्रचिद्रत्नभवनं कुत्रचित्स्फटिकालयम् ॥ इत्यादि ।
गोगोपैरसङ्ख्यातैः सर्वतः समलङ्कृतम् ।
विपापं विलयं रम्यं सदा षड्ऊर्मिविवर्जितम् ॥ इत्यादि ।
तस्य मध्ये मणिमयं मण्डपं तोरणान्वितम् ।
तन्मध्ये गरुडोद्वाहिमहामणिमयासनम् ॥ इत्यादि ।
कल्पवृक्षसमुद्भासिरत्नभूधरमस्तके ।
ध्यायेत्तत्र परमानन्दं रम्योपास्यं परं महः ॥
स्मरेद्वृन्दावने रम्ये मोहयन्तमनारतम् ।
वल्लवीवल्लभं कृष्णं गोपकन्याः सहस्रशः ॥ इत्यादि ।

फुल्लेन्दीवरकान्तिमिन्दुवदनम् [ড়्व्४६] इत्यादि च । एतदनन्तरं
नित्यानित्यलोकविवेके देव्या पृष्टे श्रीशिव आह

ब्रह्मादीनां च सर्वेषां भवनानां च पार्वति ।
विनाशोऽस्तीह सर्वेषां विना तद्भवनं तयोः ॥

इति पूर्वोक्तयोः श्रीभगवन्महादेव्योरित्यर्थः ॥ [Vऋ. अद्दितिओनेन्द्स्
हेरे.]

[पगे ४९]

तस्माद्या यथा भुवि वर्तन्ते इति न्यायाच्च स्वतन्त्र एव द्वारकामथुरा
गोकुलात्मकः श्रीकृष्णलोकः स्वयं भगवतो विहारास्पदत्वेन भवति
सर्वोपरीति सिद्धम् । अतएव वृन्दावनं गोकुलमेव सर्वोपरिविराजमानं
गोलोकत्वेन प्रसिद्धम् । ब्रह्मसंहितायां ईश्वरः परमः कृष्णः इत्य्
उपक्रम्य

सहस्रपत्रकमलं गोकुलाख्यं महत्पदम् ।
तत्कर्णिकारं तद्धाम तद्अनन्तांशसम्भवम् ॥
कर्णिकारं महद्यन्त्रं षट्कोणं वज्रकीलकम्
षड्अङ्गषट्पदीस्थानं प्रकृत्या पुरुषेण च ॥
प्रेमानन्दमहानन्दरसेनावस्थितं हि यत्
ज्योतीरूपेण मनुना कामबीजेन सङ्गतम् ॥
तत्किञ्जल्कं तद्अंशानां तत्पत्राणि श्रियामपि ॥
चतुर्अस्रं तत्परितः श्वेतद्वीपाख्यमद्भुतम्
चतुर्अस्रं चतुर्मूर्तेश्चतुर्धाम चतुष्कृतम् ॥
चतुर्भिः पुरुषार्थैश्च चतुर्भिर्हेतुभिर्वृतम्
शूलैर्दशभिरानद्धमूर्ध्वाधो दिग्विदिक्ष्वपि ॥
अष्टभिर्निधिभिर्जुष्टमष्टभिः सिद्धिभिस्तथा
मनुरूपैश्च दशभिर्दिक्पालैः परितो वृतम् ॥
श्यामैर्गौरैश्च रक्तैश्च शुक्लैश्च पार्षदर्षभैः
शोभितं शक्तिभिस्ताभिरद्भुताभिः समन्ततः ॥ इति ।
(पगे ५०)
तथाग्रे ब्रह्मस्तवे

चिन्तामणिप्रकरसद्मसु कल्पवृक्ष
लक्षावृतेषु सुरभिरभिपालयन्तम् ।
लक्ष्मीसहस्रशतसम्भ्रमसेव्यमानं
गोविन्दमादिपुरुषं तमहं भजामि ॥ इति ।

व्याख्यामाह सहस्राणि पत्राणि यत्र तत्कमलं चिन्तामणिमयं
पद्मं तद्रूपम् । तच्च महत्सर्वोत्कृष्टं पदं महतो महाभगवतो
वा पदं श्रीमहावैकुण्ठमित्यर्थः । तत्तु नानाप्रकारमित्य्
आशङ्क्य प्रकारविशेषत्वेण निश्चिनोति गोकुलाख्यमिति । गोकुलमित्याख्या
प्रसिद्धिर्यस्य तत्गोगोपालसरूपमित्यर्थः । रूढिर्योगमपहरति इति
न्यायेन तस्यैव प्रतीतेः । तत एतदनुगुणत्वेनैवोत्तरग्रन्थोऽपि
व्याख्येयः । तस्य श्रीकृष्णस्य धाम नन्दयशोदादिभिः सह वास
योग्यं महान्तःपुरम् । तस्य स्वरूपमाह तदिति । अनन्तस्य श्री
बलदेवस्यांशात् । सम्भवो नित्याविर्भावो यस्य तत् । तथा तन्त्रेणैतदपि
बोध्यते । अनन्तोऽंशो यस्य तस्य श्रीबलदेवस्यापि सम्भवो निवासो यत्र तद्
इति ।

सर्वमन्त्रगणसेवितस्य श्रीमद्अष्टादशाक्षरमहामन्त्रराजस्य
बहुपीठस्य मुख्यं पीठमित्याह कर्णिकारमिति द्वयेन । महद्
यन्त्रमिति । यत्प्रतिकृतिरेव सर्वत्र यन्त्रत्वेन पूजार्थं लिख्यते इत्य्
अर्थः । यन्त्रत्वमेव दर्शयति । षट्कोणा अभ्यन्तरे यस्य तद्वज्र
कीलकं कर्णिकारे (बीजरूप)हीरककीलकशोभितम् । षट्कोणत्वे
प्रयोजनमाह । षटङ्गानि यस्याः सा या षट्पदी श्रीमद्अष्टादशाक्षरी
तस्याः स्थानं प्रकृतिर्मन्त्रस्य स्वरूपं स्वयमेव श्रीकृष्णः कारण
स्वरूपत्वात् । पुरुषश्च स एव तद्देवतारूपः । ताभ्यामवस्थितम्
अधिष्ठितम् । द्वयोरपि विशेषणं प्रेमेति । प्रेमरूपा ये आनन्द
महानन्दरसास्तत्परिपाकभेदास्तद्आत्मकेन, तथा ज्योतीरूपेण स्व
प्रकाशेन मनुना मन्त्ररूपेण च कामबीजेन अवस्थितमिति मूल
मन्त्रान्तर्गतत्वेऽपि पृथग्उक्तिः कुत्रचिद्वैशिष्ट्यापेक्षया ।

तदेवं तद्धामोक्त्वा तद्आवरणान्याह तदिति । तस्य कर्णिकारस्य
किञ्जल्कास्तल्लग्नाभ्यन्तरवलय इत्यर्थः । तद्अंशानां तस्मिन्नंशो
दायो विद्यते येषां तेषां सजातीयानां धामेत्यर्थः । गोकुलाख्यमित्य्
उक्तेरेव । तेषां तज्जातीयत्वं श्रीशुकदेवेन च उक्तम्

एवं ककुद्मिनं हत्वा स्तूयमानः द्विजातिभिः ।
विवेश गोष्ठं सबलो गोपीनां नयनोत्सवः ॥ [भागवतम् १०.३६.१५] इति ।

तस्य कमलस्य पत्राणि श्रियां तत्प्रेयसीनां श्रीराधादीनामुपवन
रूपाणि धामानीत्य्अर्थः । अत्र पत्राणामुच्छ्रितप्रान्तानां मूल
सन्धिषु वर्त्मानि अग्रिमसन्धिषुगोष्ठानि ज्ञेयानि । अखण्डकमलस्य
गोकुलाख्यत्वात्तथैव समावेशाच्च ।

अथ गोकुलावरणान्याह चतुरस्रमिति । तद्बहिश्चतुरस्रं तस्य गोकुलस्य
बहिः सर्वतश्चतुरस्रं चतुष्कोणात्मकं स्थलं श्वेतद्वीपाख्यमिति तद्
अंशे गोकुलमिति नामविशेषाभावात् । किन्तु चतुरस्राभ्यन्तरमण्डलं
वृन्दावनाख्यं बहिर्मण्डलं केवलं श्वेतद्वीपाख्यं ज्ञेयं, गोलोक इति
यत्पर्यायः । तदिह क्रोडीकृतगोकुलं वृन्दावनाख्ययातिप्रसिद्धमिति
न निर्दिष्टम् । क्रोडीकृततत्सर्वमस्य तु बहिर्मण्डलं गोलोक
श्वेतद्वीपाख्यं ज्ञेयम् ।

[Vऋ. रेअद्सिन् थे प्लचे ओf थे लस्त्त्wओ सेन्तेन्चेस्: तदेतदुपलक्षणं
गोकोकाख्यं चेत्यर्थः । यद्यî गोकुलेऽपि श्वेतद्वीपत्वमस्त्येव, तद्
अवान्तरभूमिमयत्वात्तथापि विशेषनाम्नाम्नातत्वातेनैव तत्
प्रतीयते इति तथोक्तम् । किन्तु चतुरस्रेऽप्यन्तर्मण्डलं श्री
वृन्दावनाख्यं ज्ञेयं बृहद्वामनस्वायम्भुवागमयोस्तथा
दृष्टत्वात् । एन्द्Vऋ.]

चतुर्मूर्तेश्चतुर्व्यूहस्य श्रीवासुदेवादिचतुष्टयस्य चतुष्कृतं चतुर्धा
विभक्तं चतुर्धाम । किन्तु देवलीलत्वात्तद्उपरि व्योमयानस्था एव
ते ज्ञेया । हेतुभिः पुरुषार्थसाधनैर्मनुरूपैः स्वस्वमन्त्रात्मकैर्
इन्द्रादिभिः । श्यामैरित्यादिभिरिति चतुर्भिर्वेदैरित्यर्थः । कृष्णं च
तत्र छन्दोभिः स्तूयमानं सुविस्मिताः [भागवतम् १०.२८.१८] इति श्रीदशमोक्तेः ।

शक्तिभिरिति श्रीविमलादिभिरित्यर्थः । इयं च बृहद्वामनपुराण
प्रसिद्धिः । यथा श्रीभगवति श्रुतिप्रार्थनापूर्वकाणि पद्यानि

आनन्दरूपमिति यद्विदन्ति हि पुराविदः ।
तद्रूपं दर्श्यास्माकं यदि देयो वरो हि नः ॥
श्रुत्वैतद्दर्शयामास स्वलोकं प्रकृतेः परम् ।
केवलानुभवानन्दमात्रमक्षरमव्ययम् ॥
यत्र वृन्दावनं नाम वनं कामदुघैर्द्रुमैः ।
मनोरमनिकुञ्जाढ्यं सर्वर्तुसुखसंयुतम् ॥
यत्र गोवर्धनो नाम सुनिर्झरदरीयुतः ।
रत्नधातुमयः श्रीमान् सुपक्षिगणसङ्कुलः ॥
यत्र निर्मलपानीया कालिन्दी सरिता वरा ।
रत्नबद्धोभयतटा हंसपद्मादिसङ्कुला ॥
शश्वद्रासरसोन्मत्तं यत्र गोपीकदम्बकम् ।
तत्कदम्बकमध्यस्थः किशोराकृतिरच्युतः ॥ इति ।
एतद्अनुसारेण श्रीहरिवंशवचनमप्येव व्याख्येयम् । तद्यदाह
शक्रः

स्वर्गादूर्ध्वं ब्रह्मलोको ब्रह्मर्षिगणसेवितः ।
तत्र सोमगतिश्चैव ज्योतिषां च महात्मनाम् ॥
तस्योपरि गवां लोकः साध्यास्तं पालयन्ति हि ।
स हि सर्वगतः कृष्ण महाकाशगतो महान् ॥
उपर्युपरि तत्रापि गतिस्तव तपोमयी ।
यां न विद्मो वयं सर्वे पृच्छन्तोऽपि पितामहम् ।
गतिः शमदमाढ्यानां स्वर्गः सुकृतकर्मणाम् ॥
ब्राह्म्ये तपसि युक्तानां ब्रह्मलोकः परा गतिः ।
गवामेव तु यो लोको दुरारोहो हि सा गतिः ॥
स तु लोकस्त्वया कृष्ण सीदमानः कृतात्मना ।
धृतो धृतिमता वीर निघ्नतोपद्रवान् गवाम् ॥ [ःV २.१९.२९३५] इति ।

अस्यार्थः । स्वर्गशब्देन
भूर्लोकः कल्पितः पद्भ्यां भुवर्लोकोऽस्य नाभितः ।
स्वर्लोकः कल्पितो मूर्ध्ना इति वा लोककल्पना ॥ [भागवतम् २.५.४२]

इति द्वितीयोक्तानुसारेण स्वर्लोकमारभ्य सत्यलोकपर्यन्तं लोक
पञ्चकमुच्यते । तस्मादूर्ध्वमुपरि ब्रह्मलोको ब्रह्मात्मको
वैकुण्ठाख्यः सच्चिद्आनन्दरूपत्वात् । ब्रह्मणो भगवतो लोक इति वा
ददृशुर्ब्रह्मलोकं ते यत्राक्रूरोऽध्यगात्पुरा [भागवतम् १०.२८.१७] इति दशमात् ।
एवं द्वितीये मूर्धभिः सत्यलोकस्तु ब्रह्मलोकः सनातनः [भागवतम् २.५.३८]
इति । टीका च ब्रह्मलोको वैकुण्ठाख्यः । सनातनो नित्यः । न
सृज्यान्तर्वर्तीत्यर्थः । इत्येषा ।

ब्रह्माणि मूर्तिमन्तो वेदाः । ऋषयश्च श्रीनारदादयः । गणाश्च श्री
गरुडविष्वक्सेनादयः । तैर्निषेवितः । एवं नित्याश्रितानुक्त्वा तद्
गमनाधिकारिण आह । तत्र ब्रह्मलोके उमया सह वर्तत इति सोमः श्री
शिवस्तस्य गतिः ।

[Vऋ. इन्सेर्त्स्:
स्वधर्मनिष्ठः शतजन्मभिः पुमान्
विरिञ्चतामेति ततः परं हि माम् ।
अव्याकृतं भागवतोऽथ वैष्णवं
पदं यथाहं विबुधाः कलात्यये ॥ [भागवतम् ४.२४.२९] इति चतुर्थे श्रीरुद्र
गीतम् ।
[एन्द्Vऋ. अद्दितिओन्.]

सोमेति सुपां सुलुगित्यादिना (पगे ५२) षष्ठ्या लुक्छान्दसः । तत
उत्तरत्रापि गतिपदान्वयः । ज्योतिर्ब्रह्म तद्ऐकात्म्यभावानां
मुक्तानामित्यर्थः । न तु तादृशानामपि सर्वेषामित्याह महात्मनां
महाशयानां मोक्षनिरादरतया भजतां श्रीसनकादितुल्यानामित्य्
अर्थः

मुक्तानामपि सिद्धानां नारायणपरायणः
सुदुर्लभः प्रशान्तात्मा कोटिष्वपि महामुने ॥ [भागवतम् ६.१४.५] इत्यादौ,
योगिनामपि सर्वेषां मद्गतेनान्तरात्मना ।
श्रद्धावान् भजते यो मां स मे युक्ततमो मतः ॥ [गीता ६.४७]

इत्यादावपि तेष्वेव महत्त्वपर्यवसनात् । तस्य च ब्रह्मलोकस्योपरि
सर्वोर्ध्वप्रदेशे गवां लोकः श्रीगोलोक इत्यर्थः । तं च श्रीगोलोकं
साध्या अस्माकं प्रापञ्चिकदेवानां प्रसादनीया मूलरूपा नित्यतदीय
देवगणाः पालयन्ति । तत्र तत्र दिक्पालत्वेनावरणरूपा वर्तन्ते, ते ह
नाकं महिमानः सचन्तः यत्र पूर्वे साध्याः सन्ति देवाः [ऋक्१०.९०.१६] इति
श्रुतेः ।

तत्र पूर्वे ये च साध्या
विश्वे देवाः सनातनाः ।
ते ह नाकं महिमानः
सचन्ते शुभदर्शनाः ॥ [ড়द्मড়् ६.२२७.७६] इति पाद्मोत्तरखण्डाच्च ।

यद्वा तद्भूरिभाग्यमिह जन्म किमप्यटव्यां यद्गोकुलेऽपि [भागवतम्
१०.१४.३४] इत्याद्य्उक्त्यानुसारेण तद्विधपरमभक्तानामपि साध्यास्
तादृशसिद्धिप्राप्तये प्रासादनीयाः श्रीगोपगोपीप्रभृतयः । तं
पालयन्ति अधिकृत्य भुञ्जन्ति । हि प्रसिद्धौ । स गोलोकः सर्वगतः श्री
कृष्णवत्सर्वप्रापञ्चिकाप्रापञ्चिकवस्तुव्यापकः । अतएव महान्
भगवद्रूप एव । महान्तं विभुमात्मानम् [Kअठू २.२२] इति श्रुतेः ।
तत्र हेतुः । महाकाशः परमव्योमाख्यः ब्रह्मविशेषणलाभाद्
आकाशस्तल्लिङ्गाद्[Vस्१.१.२२] इति न्यायप्रसिद्धेश्च । तद्गतः ।
ब्रह्माकारोदयान्तरमेव वैकुण्ठप्राप्तेः । यथा श्रीगोपानां
वैकुण्ठदर्शने तैरेव व्याख्यातम् । यथा वा श्रीमद्अजामिलस्य
वैकुण्ठगमनम् । यद्वा महाकाशः परमव्योमाख्यो महा
वैकुण्ठस्तद्गतस्तद्ऊर्ध्वभागस्थितः । एवमुपर्युपरि सर्वोपर्य्
अपि विराजमाने तत्र श्रीगोलोकेऽपि तव गतिः । नानारूपेण वैकुण्ठादौ
क्रीडतस्तव तत्रापि श्रीगोविन्दरूपेण क्रीडा विद्यत इत्यर्थः ।

अतएव सा च गतिः साधारणी न भवति किन्तु तपोमयी
अनवच्छिन्नैश्वर्यमयी परमं यो महत्तपः इत्यत्र सहरनाम
भाष्येऽपि तपःशब्देन तथैव व्याख्यातम् । अतएव ब्रह्मादि
दुर्वितर्क्यत्वमप्याह यामिति । अधुना तस्य श्रीगोलोकेत्याख्या बीजम्
अभिव्यञ्जयति गतिरिति । ब्राह्मे ब्रह्मणो लोकप्रापके तपसि विष्णु
विषयकमनःप्रणिधाने युक्तानां रतचित्तानां प्रेमभक्तानामित्य्
अर्थः । ब्रह्मलोको वैकुण्ठलोकः । परा प्रकृत्यतीता । गवां मोचयन्
व्रजगवां दिनतापम् [भागवतम् १०.३५.२५] इत्य्उक्तानुसारेण अत्रैव
निघ्नतोपद्रवान् गवामित्युक्त्या च गोलोकवासिमात्राणां स्वतस्तद्
भावभावितानां च साधनवशेनेत्यर्थः । अतएव तद्
भावस्यासुलभत्वाद्दुरारोहा ।

तदेवं गोलोकं वर्णयित्वा तस्य गोकुलेन सहाभेदमाह स त्विति । स एव
तु स लोको धृतो रक्षितः । श्रीगोवर्धनोद्धरणेनेति । यथा मृत्युसञ्जय
तन्त्रे ।

एकदा सान्तरीक्षाच्च वैकुण्ठं स्वेच्छया भुवि ।
गोकुलत्वेन संस्थाप्य (पगे ५३) गोपीमयमहोत्सवा ।
भक्तिरूपां सतां भक्तिमुत्पादितवती भृशम् ॥ इति ।

अत्र शब्दसाम्यभ्रमप्रतीतार्थान्तरे स्वर्गादूर्ध्वं, ब्रह्मलोक इत्य्
अयुक्तं लोकत्रयमतिक्रम्योक्तेः । तथा सोमगतिरित्यादिकं न
सम्भवति । यतो ध्रुवलोकादधस्तादेव चन्द्रसूर्यादीनां गतिर्
महर्लोकेऽपि न वर्तते । तथावरसाध्यगणानां तुच्छत्वात्सत्य
लोकस्यापि पालनं न युज्यते कुतस्तद्उपरिलोकस्य श्रीगोलोकाख्यस्य ।
तथा सर्वगतत्वं चासम्भाव्यं स्यात् । अतएव तत्रापि एव गतिरित्यापि शब्दो
विस्मये प्रयुक्तः । यां न विद्म इत्यादिकं च । अन्यथा यथोक्तिर्न
सम्भवति स्वेषां ब्रह्मणश्च तद्अज्ञानज्ञापनात् । तस्मात्प्राकृत
गोलोकादन्य एवासौ सनातनो गोलोको ब्रह्मसंहितावत्श्रीहरिवंशेऽपि
परोक्षवादेन निरूपितः ।

एवं च नारदपञ्चरात्रे विजयाख्याने

तत्सर्वोपरि गोलोके श्रीगोविन्दः सदा स्वयम् ।
विहरेत्परमानन्दी गोपीगोकुलनायकः ॥ इति ।

एवं चोक्तं मोक्षधर्मे नारायणीये तथा स्कान्दे च

एवं बहुविधै रूपैश्चरामीह वसुन्धराम् ।
ब्रह्मलोकं च कौन्तेय गोलोकं च सनातनम् ॥ [ंभ्१२.३३०.६८] इति ।

तदेवं सर्वोपरि श्रीकृष्णलोकोऽस्तीति सिद्धम् । स च लोकस्तत्तल्लीला
परिकरभेदेनांशभेदात्द्वारकामथुरागोकुलाख्यस्थान
त्रयात्मक इति निर्णीतम् । अन्यत्र तु भुवि प्रसिद्धान्येव तत्तद्आख्यानि
स्थानानि तद्रूपत्वेन श्रूयन्ते तेषामपि वैकुण्ठान्तरवत्
प्रपञ्चातीतत्वनित्यत्वालौकिकरूपत्वभगवन्नित्यास्पदत्वकथनात् ।
तत्र द्वारकायास्तत्तरं स्कान्दप्रह्लादसंहितादावन्वेष्टव्यम् । इयं च
श्रुतिरुदाहरणीया

अन्तःसमुद्रे मनसा चरन्तं
ब्राह्मान्वविन्दन् दशहोतारमर्णे ।
समुद्रेऽन्तः कवयो विचक्षते
मरीचीनां पदमन्विच्छन्ति वेधसः ॥ इत्याद्या ।

श्रीमथुरायाः प्रपञ्चातीतत्वं यथा वाराहे अन्यैव काचित्सा सृष्टिर्
विधातुर्व्यतिरेकिणी इति । नित्यत्वमपि यथा पाद्मे पातालखण्डे ऋषिर्
माथुरनामात्र तपः कुर्वति शाश्वते इति । अत्र मथुरामण्डले शाश्वते
नित्ये कुर्वति करोति ।

अलौकिकरूपत्वं यथा आदिवाराहे

भूर्भुवः स्वस्तलेनापि न पातालतलेऽमलम् ।
नोर्ध्वलोके मया दृष्टं तादृक्क्षेत्रं वसुन्धरे ॥ इति ।

श्रीभगवन्नित्यास्पदत्वं यथा
अहोऽतिधन्या मथुरा यत्र सन्निहितो हरिः ॥ इति ।
न च वक्तव्यमुपासनास्थानमेवेदम्, यतो आदिवाराहे
मथुरायाः परं क्षेत्रं त्रैलोक्ये न हि विद्यते ।
तस्यां वसाम्यहं देवि मथुरायां तु सर्वदा ॥ इति ।

तत्र वासस्यैव कण्ठोक्तिः । अत्रेदृशं श्रीवराहदेववाक्यमंशांशिनोर्
ऐक्यविवक्षयैव न तु तस्यैवासौ निवासः श्रीकृष्णक्षेत्रत्वेनैव
प्रसिद्धेः । तथैव पातालखण्डे अहो मधुपुरी धन्या यत्र तिष्ठति
कंसहा इति ।

वायुपुराणे तु स्वयं साक्षादेवेत्युक्तम्
चत्वारिंशद्योजनानां ततस्तु मथुरा स्मृता ।
यत्र देवो हरिः साक्षात्स्वयं तिष्ठति कंसहा ॥ इति ।

अत्र साक्षाच्छब्देन सूक्ष्मरूपता । स्वयंशब्देन श्रीमत्प्रतिमा
रूपता च निषिद्धा । तत इति पूर्वोक्तात्पुष्कराख्यतीर्थातित्यर्थः ।
मथुरायाः परं क्षेत्रमित्यनेन वराहवचनेन पूर्यामेव तिष्ठतीति
निरस्तम् ।

[पगे ५४]
अत्र श्रीगोपालतापनीश्रुतिश्च स होवाच तं हि नारायणो देवः सकाम्या
मेरोः शृङ्गे यथा सप्तपूर्यो भवन्ति तथा निष्काम्याः सकाम्याश्च
भूगोलचक्रे सप्तपूर्यो भवन्ति । तासां मध्ये साक्षाद्ब्रह्म गोपाल
पुरी हीति ॥ सकाम्या निष्काम्या देवानां सर्वेषां भूतानां भवति यथा
हि वै सरसि पद्मं तिष्ठति तथा भूम्यां तिष्ठतीति चक्रेण रक्षिता हि
मथुरा तस्मात्गोपालपुरी भवति । बृहद्बृहद्वनं मधोर्मधु
वनम् [ङ्टू २.२६२८] इत्यादिका ।

पुनश्च एतैरावृता पुरी भवति तत्र तेष्वेव गहनेष्वेवमित्यादिका ।
तथा द्वे वने स्तः कृष्णवनं भद्रवनं तयोरन्तर्द्वादशवनानि
पुण्यानि पुण्यतमानि तेष्वेव देवास्तिष्ठन्ति सिद्धाः सिद्धिं प्राप्ताः ।
तत्र हि रामस्य राममूर्तिः [ङ्टू २.३१३२] इत्यादिका । तदप्येते श्लोका
भवन्ति ।

प्राप्य मथुरां पुरीं रम्यां सदा ब्रह्मादिसेवितम् ।
शङ्खचक्रगदाशार्ङ्गरक्षितां मुषलादिभिः ॥
यत्रासौ संस्थितः कृष्णस्त्रिभिः शक्त्या समाहितः ।
रामानिरुद्धप्रद्युम्नै रुक्मिण्या सहितो विभुः ॥ [ङ्टू २.३५३६] इति ।

किं तस्य स्थानमिति श्रीगान्धर्व्याः प्रश्नस्योत्तरमिदम् । एवमेव श्री
रघुनाथस्याप्ययोध्यायां श्रूयते, यथा स्कान्दायोध्यामाहात्म्ये
स्वर्गद्वारमुद्दिश्य

चतुर्धा च तनुं कृत्वा देवदेवो हरिः स्वयम् ।
अत्रैव रमते नित्यं भ्रातृभिः सह राघवः ॥ इति ।

अतएव, यत्र यत्र हरेः स्थानं वैकुण्ठं तद्विदुर्बुधा इत्यनुसारेण
महाभगवतः स्थानत्वात्महावैकुण्ठ एवासौ । यतो वैकुण्ठात्तस्य
गरीयस्त्वं श्रूयते । यथा पातालखण्डे
एवं सप्तपुरीणां तु सर्वोत्कृष्टं च माथुरम् ।
श्रूयतां महिमा देवि वैकुण्ठो भुवनोत्तमः ॥ इति ।

अतएव तत्रैव
अहो मधुपुरी धन्या वैकुण्ठाच्च गरीयसी । इति ।

[B रेअद्स्हेरे] आदिवाराहे
मथुरायां ये वसन्ति विष्णुरूपा हि ते खलु ।
अज्ञानास्तान्न पश्यन्ति पश्यन्ति ज्ञानचक्षुषा ॥ इति । [एन्द्Vऋ.]

अथ श्रीवृन्दावनस्य प्रपञ्चातीतत्वादिकं मथुरामण्डलस्यैव तत्त्वेन
सिद्धम् । यथा च श्रीगोविन्दवृन्दावनाख्यबृहद्गौतमीये तन्त्रे
नारदप्रश्नस्योत्तरं श्रीकृष्णस्योत्तरम् । तत्र प्रश्नः

किमिदं द्वादशाभिख्यं वृन्दारण्यं विशाम्पते ।
श्रोतुमिच्छामि भगवन् यदि योगोऽस्मि मे वद ॥

अथोत्तरम्
इदं वृन्दावनं रम्यं मम धामैव केवलम् ।
अत्र ये पशवः पक्षिवृक्षा कीटा नरामराः ।
ये वसन्ति ममाधिष्ण्ये मृता यान्ति ममालयम् ॥
अत्र या गोपकन्याश्च निवसन्ति ममालये ।
योगिन्यस्ता मया नित्यं मम सेवापरायणाः ॥
पञ्चयोजनमेवास्ति वनं मे देहरूपकम् ।
कालिन्दीयं सुषुम्नाख्या परमामृतवाहिनी ॥
अत्र देवाश्च भूतानि वर्तन्ते सूक्ष्मरूपतः ।
सर्वदेवमयश्चाहं न त्यजामि वनं क्वचित् ॥
आविर्भावस्तिरोभावो भवेन्मेऽत्र युगे युगे ।
तेजोमयमिदं रम्यमदृश्यं चर्मचक्षुषा ॥ इति

विशेषतस्तादृग्अलौकिकरूपत्वभगवन्नित्यधामत्वे तु दिव्य
कदम्बाशोकादिवृक्षादयोऽप्यद्यापि महाभागवतैः साक्षात्क्रियन्ते इति
प्रसिद्धावगतेः । यथा वाराहे कालीयह्रदमाहात्म्ये

अत्रापि महदाश्चर्यं पश्यन्ति पण्डिता नराः ।
कालीयह्रदपूर्वेण कदम्बो महितो द्रुमः ।
शतशाखं विशालाक्षि पुण्यं सुरभिगन्धि च ।
स च द्वादशमासानि मनोज्ञः शुभशीतलः ।
पुष्पायति विशालाक्षि प्रभासन्तो दिशो दश ॥ इति ।

शतानां शाखानां समाहारः शतशाखं तद्यत्र प्रवर्ततित्यर्थः ।
प्रभासन्तः प्रभासयन्नित्यर्थः । तत्रैव तदीयब्रह्मकुण्ड
माहात्म्ये

तत्राश्चर्यं प्रवक्ष्यामि तच्छृणु त्वं वसुन्धरे ।
लभन्ते मनुजाः सिद्धिं मम कर्मपरायणाः ॥
तस्य तत्रोत्तरे पार्श्वेऽशोकवृक्षः सितप्रभः ।
वैशाखस्य तु मासस्य शुक्लपक्षस्य द्वादशी ॥
स पुष्पति च मध्याङ्गे मम भक्तसुखावहः ।
न कश्चिदपि जानाति विना भागवतं शुचिम् ॥ इत्यादि ।

द्वादशीति द्वादश्यामित्यर्थः । सुपां सुलुगित्यादिनैव पूर्वसवर्णः ।
शुचित्वमत्र तद्अनन्यवृत्तित्वम् । अनेन पृथिव्यापि तस्य तस्य तादृशरूपं
न ज्ञायते इत्यायातम् । अतएव तदीयतीर्थान्तरमुद्दिश्य यथा चादिवाराहे


कृष्णक्रीडासेतुबन्धं महापातकनाशनम् ।
वलभीं तत्र क्रीडार्थं कृत्वा देवो गदाधरः ॥
गोपकैः सहितस्तत्र क्षणमेकं दिने दिने ।
तत्रैवे रमणार्थं हि नित्यकालं स गच्छति ॥ इति ।

एवं स्कान्दे
ततो वृन्दावनं पुण्यं वृन्दादेवीसमाश्रितम् ।
हरिणाधिष्ठितं तच्च ब्रह्मरुद्रादिसेवितम् ॥ इति ।

श्रुतिश्च दर्शिता
गोविन्दं सच्चिद्आनन्दविग्रहं वृन्दावनसुरभूरुहतलासीनं सततं
समरुद्गणोऽहं परितोषयामि । [ङ्टू १.३७] इति ।

एवं पातालखण्डे यमुनाजलकल्लोले सदा क्रीडति माधवः । इति ।
यमुनाया जलकल्लोला यत्र एवंभूते वृन्दावने इति प्रकरणाल्लब्धम् ।
तत्राजहल्लक्षणया तीरह्रदावेव गृह्येते । तीरं च वृन्दावनलक्षणं
तत्र प्रस्तुतम् । अतएवास्य श्रीवृन्दावनस्य वैकुण्ठत्वमेव कण्ठोक्त्या
कृष्णतापन्यां श्रुतौ दर्शितं गोकुलं वनवैकुण्ठम् [Kऋष्णोपनिषत्७]
इति । तस्मान्नित्यधामत्वश्रवणात्श्रीमथुरादीनां तत्स्वरूप
विभूतित्वमेव स भगवः कस्मिन् प्रतिष्ठित इति स्वे महिम्नि [Cहाऊ १.२४.१]
इति श्रुतेः ।

अतएव तापनीश्रुतिः साक्षाद्ब्रह्म गोपालपुरी हि [ङ्टू २.२६] इति । बृहद्
गौतमीयतन्त्रे च तेजोमयमिदं रम्यमदृश्यं चर्मचक्षुषा इति ।
तद्ईदृशरूपता काशीमुद्दिश्य ब्रह्मवैवर्ते त्वित्थं समाधीयते ।
यथा श्रीविष्णुं प्रति मुनीनां प्रश्नः

छत्राकारं तु किं ज्योतिर्जलादूर्ध्वं प्रकाशते ।
निमग्नायां धरायां तु न वै मज्जति तत्कथम् ॥
किमेतच्छाश्वतं ब्रह्म वेदान्तशतरूपितम् ।
तापत्रयार्तिदग्धानां जीवनं छत्रतां गतम् ॥
दर्शनादेव चास्याथ कृतार्थाः स्मो जगद्गुरो ।
वारं वारं तवाप्यत्र दृष्टिर्लग्ना जनार्दन ॥
परमाश्चर्यरूपोऽपि साश्चर्य इव पश्यसि ॥

अथ श्रीविष्णूत्तरम्
छत्राकारं परं ज्योतिर्दृश्यते गगनेचरम् ।
तत्परं परमं ज्योतिः काशीति प्रथितं क्षितौ ॥
रत्नं सुवर्णे खचितं यथा भवेत्
तथा पृथिव्यां खचिता हि काशिका ।
न काशिका भूमिमयी कदाचित्
ततो न मज्जेन्मम सद्गतिर्यतः ॥
जडेषु सर्वेष्वपि मज्जमानेष्व्
इयं चिद्आनन्दमयी न मज्जेत् ॥ इत्यादि ।

[पगे ५६]

तथाग्रे च
चेतनाजडयोरैक्यं यद्वन्नैकस्थयोरपि ।
तथा काशी ब्रह्मरूपा जडा पृथ्वी च सङ्गता ॥
निर्माणं तु जडस्यात्र क्रियते न परात्मनः ।
उद्धरिष्यामि च महीं वाराहं रूपमास्थितः ॥
तदा पुनः पृथिव्यां हि काशी स्थास्यामि मत्प्रिया ॥ इति ।

चेतनाशब्देनात्रान्तर्यामी उपलक्ष्यते । जडशब्देन तु देहः
परमात्मन इत्युक्तत्वात् । ततश्च केचित्स्वदेहान्तर्हृदयावकाशे प्रादेश
मात्रं पुरुषं वसन्तम् [भागवतम् २.२.८] इत्यादिना चतुर्भुजत्वेन
वर्णितोऽन्तर्यामी देहे स्थितोऽपि यथा देहवेदनादिना न स्पृश्यते तद्वदिति
ज्ञेयम् ।

तदेवं तद्धाम्नामुपर्य्अधः प्रकाशमात्रत्वेनोभयविधत्वं
प्रसक्तम् । वस्तुतस्तु श्रीभगवन्नित्याधिष्ठानत्वेन तच्छ्री
विग्रहवदुभयत्र प्रकाशाविरोधात्समानगुणनाम
रूपत्वेनाम्नातत्वाल्लाघवाच्चैकविधत्वमेव मन्तव्यम् । एकस्यैव
श्रीविग्रहस्य बहुत्र प्रकाशश्च द्वितीयसन्दर्भे दर्शितः ।

चित्रं बतैतदेकेन वपुषा युगपत्पृथक्
गृहेषु द्व्य्अष्टसाहस्रं स्त्रिय एक उदावहत् ॥ [भागवतम् १०.६९.१] इत्यादिना ।

एवंविधत्वं च तस्याचिन्त्यशक्तिस्वीकारेण सम्भावितमेव । स्वीकृतं
चाचिन्त्यशक्तित्वं श्रुतेस्तु शब्दमूलत्वात्[Vस्२.१.२७] इत्यादौ । तदेवम्
उभयाभेदाभिप्रायेणैव श्रीहरिवंशेऽपि गोलोकमुद्दिश्य स हि सर्व
गतो महान् [ःV २.१९.३०] इत्युक्तम् । भेदे तु ब्रह्मसंहितायामपि गोलोक
एव निवसत्यखिलात्मभूतः [Bरह्मष्५.४८] इत्येवकारोऽत्र स्वकीयनित्य
विहारप्रतिपादकवाराहादिवचनैर्विरुध्येत । अविरोधस्तूभयेषाम्
ऐक्येनैव भवतीति तं न्यायसिद्धमेवार्थं ब्रह्मसंहिता तु गृह्णाति ।
अतएव श्रीहरिवंशेऽपि शक्रेण

स तु लोकस्त्वया कृष्ण सीदमानः कृतात्मना ।
धृतो धृतिमता वीर निघ्नतोपद्रवान् गवाम् ॥ [ःV २.१९.३५] इति ।

गोलोकगोकुलयोरभेदेनैवोक्तम् । तस्मादभेदेन च भेदेन
चोपक्रान्तत्वादेकविधान्येव श्रीमथुरादीनि प्रकाशभेदेनैव
तूभयविधत्वेनाम्नातानीति स्थितम् । दर्शयिष्यते चाग्रे । क्षौणि
प्रकाशमान एव श्रीवृन्दावने श्रीगोलोकदर्शनम् ।
ततोऽस्यैवापरिच्छिन्नस्य गोलोकाख्यवृन्दावनीयप्रकाशविशेषस्य
वैकुण्ठोपर्यपि स्थितिर्माहात्म्यावलम्बनेन भजतां स्फुरतीति
ज्ञेयम् । अयमेव मथुराद्वारकागोकुलप्रकाशविशेषात्मकः श्री
कृष्णलोकस्तद्विरहिणा श्रीमद्उद्धवेनापि समाधावनुभूत इत्याह


शनकैर्भगवल्लोकान्नृलोकं पुनरागतः ।
विमृज्य नेत्रे विदुरं प्रीत्याहोद्धव उत्स्मयन् ॥ [भागवतम् ३.२.६]

स्पष्टम् ॥ ३.२ ॥ श्रीशुकः ॥ १०६ ॥

[१०७]

इममेव लोकं द्युशब्देनाप्याह

विष्णोर्भगवतो भानुः कृष्णाख्योऽसौ दिवं गतः ।
तदाविशत्कलिर्लोकं पापे यद्रमते जनः ॥
यावत्स पादपद्माभ्यां स्पृशनास्ते रमापतिः ।
तावत्कलिर्वै पृथिवीं पराक्रन्तुं न चाशकत् ॥ [भागवतम् १२.२.२९३०]

यदा गुणावतारस्य भगवतो विष्णोस्तद्अंशत्वाद्रश्मिस्थानीयस्य
कृष्णाख्यो भानुः सूर्यमण्डलस्थानीयो दिवं प्रापञ्चिकलोकागोचरं
मथुरादीनामेव प्रकाशविशेषरूपं वैकुण्ठलोकं गतस्तदा कलिर्
लोकमाविशत् । एषां स च प्रकाशः पृथिवीस्थोऽप्यन्तर्धानशक्त्या ताम्
अपृशन्नेव विराजते । अतस्तया न स्पृश्यते पृथिव्य्आदिभूतमयैरस्माभिर्
वाराहोक्तमहाकदम्बादिरिव । यस्तु प्रापञ्चिकलोकगोचरो मथुरादि
प्रकाशः सोऽयं कृपया पृथिवीं स्पृशन्नेवावतीर्णः । अतस्तया च स्पृश्यते
तादृशैरस्माभिर्दृश्यमानकदम्बादिरिव । अस्मिंश्च (पगे ५७) प्रकाशे
यदावतीर्णो भगवांस्तदा तत्स्पर्शेनापि तत्स्पर्शात्तां स्पृशन्नेवास्ते
स्म । सम्प्रति तद्अस्पृष्टप्रकाशे विरहमाणः पुनरस्पृशन्नेव
भवति । [Vऋ. अद्द्स्. यद्यप्येवं तथापि क्वचिद्द्वयोर्भेदेन क्वचिद्
अभेदेन च विवक्षा तत्रावगन्तव्या । एन्द्Vऋ.] तदेतदभिप्रेत्याह यावद्
इति । पराक्रन्तुमित्यनेन तत्पूर्वमपि कंचित्कालं प्राप्य प्रविष्टोऽसाव्
इति ज्ञापितम् ॥

॥ १२.२ ॥ श्रीशुकः ॥ १०७ ॥

[१०८]

तेने धीरा अपि यन्ति ब्रह्मविद उत्क्रम्य स्वर्गलोकमितो विमुक्ताः [Bआऊ
४.४.८] इति श्रुत्य्अनुसारेण स्वर्गशब्देनाप्याह यातुधान्यपि सा स्वर्गम्
आप जननीगतिम् [भागवतम् १०.६.३८] इति ।

अत्र जननीगतिमिति विशेषणेन लोकान्तरं निरस्तम् । तत्प्रकरण एव
तदादीनां बहुशो गत्य्अन्तरनिषेधात् । सद्वेषादिव पूतनापि सकुला
त्वामेव देवापिता [भागवतम् १०.१४.३५] इत्यत्र साक्षात्तत्प्राप्तिनिर्धारणाच्च ।

तथा च केनोपनिषदि दृश्यते केनेषितं मनः पतति प्राणस्य प्राणमुत
चक्षुषश्चक्षुरतिमुच्य धीराः प्रेत्यास्माल्लोकादमृता भवन्ति [Kएनऊ
१.१२] इत्युपक्रम्य, तदेव ब्रह्म त्वं विद्धि [Kएनऊ १.४] इति मध्ये
प्रोच्य, अमृतत्वं हि विदन्ते [Kएनऊ २.४], सत्यमायतनं [Kएनऊ ४.८] यो वा
एतामेवमुपनिषदं वेदापहत्य पाप्मानमनन्ते स्वर्गे लोके
प्रतिष्ठति [Kएनऊ ४.९] इति उपसंहृतम् । ततः को वासुदेवः किं तद्वनं को
वा स्वर्गः किं तद्ब्रह्म इत्यपेक्षायां पुरुषो ह वै नारायणः इत्य्
उपक्रम्य, पुनश्चाभ्यासेन नित्यो देव एको नारायणः इत्युक्त्वा
नारायणोपासकस्य च स्तुतिं कृत्वा तद्ब्रह्म नारायण एवेति व्यज्य स्वर्गं
प्रतिपादयितुं वैकुण्ठं वनलोकं गमिष्यति तदिदं पुरमिदं
पुण्डरीकं विज्ञानघनं तस्मात्तदिहावभासमिति वनलोकाकारस्य
वैकुण्ठस्यानन्दात्मकत्वं प्रतिपाद्य स च तद्अधिष्ठाता नारायणः
कृष्ण एवेत्युपसंहरति ब्रह्मण्यो देवकीपुत्रः इति ।

॥ १०.६ ॥ श्रीशुकः ॥ १०८ ॥

[१०९]

काष्ठाशब्देनापि तमेवोद्दिशति

ब्रूहि योगेश्वरे कृष्णे ब्रह्मण्ये धर्मवर्मणि ।
स्वां काष्ठामधुनोपेते धर्मः कं शरणं गतः ॥ [भागवतम् १.१.२३]

स्वां काष्ठां दिशम् । यत्र स्वयं नित्यं तिष्ठति तत्रैव प्रापञ्चिकलोक
सम्बन्धं त्यक्त्वा गते सतीत्यर्थः ।

॥ १.१ ॥ श्रीशौनकः ॥ १०९ ॥

[११०]

तदेवमभिप्रेत्य द्वारकायास्तावन्नित्यश्रीकृष्णधामत्वमाह

सत्यं भयादिव गुणेभ्य उरुक्रमान्तः
शेते समुद्र उपलम्भनमात्र आत्मा ।
नित्यं कद्इन्द्रियगणैः कृतविग्रहस्त्वं
त्वत्सेवकैर्नृपपदं विधुतं तमोऽन्धम् ॥ [भागवतम् १०.६०.३५]

अयमर्थः । पूर्वं श्रीकृष्णदेवेन श्रीरुक्मिणीदेव्यै

राजभ्यो बिभ्यतः सुभ्रु समुद्रं शरणं गतान् ।
बलवद्भिः कृतद्वेषान् प्रायस्त्यक्तनृपासनान् ॥ [भागवतम् १०.६०.१२]

कस्मान्नो ववृषे इति परिहसितम् । अत्रोत्तरमाह सत्यमिति । अत्रात्मा त्वम्
इत्येतयोः पदयोर्युगपच्छेतु इति क्रियान्वयायोगात्विशेषणविशेष्य
भावः प्रतिहन्येत । वाक्यच्छेदे तु कष्टतापतेत् । ततश्चोपमानोपमेय
भावेनैव ते उपतिष्ठतः । इयं च लुप्तोपमा । तथा च आत्मा साक्षी यथा
गुणेभ्यः सत्त्वादिविकारेभ्यस्तद्अस्पर्शालिङ्गाद्भयादिव समुद्रे
तद्वदगाधे विषयाकारैरपरिच्छिन्ने उपलम्भनमात्रे ज्ञानमात्र
स्वशक्त्याकारेऽन्तर्हृदये नित्यं शेते, अक्षुब्धतया प्रकाशते । हे
उरुक्रम तथा त्वमपि तेभ्यः सम्प्रति तद्विकारमयेभ्यो राजभ्यो
भयादिव उपलम्भनमात्रे वैकुण्ठान्तरवत्चिद्एकविलासे अन्तः
समुद्रे द्वारकाख्ये धाम्नि नित्यमेव शेषे स्वरूपानन्दविलासैर्गूढं
विहरसि । अर्थवशाद्विभक्तिविपरिणामः प्रसिद्ध एव । उदाहरिष्यते च
नित्यस्थायित्वं द्वारकां हरिणा त्यक्ताम् [भागवतम् ११.३१.२३] (पगे ५८) इत्यादौ
नित्यं सन्निहितस्तत्र भगवान्मधुसूदनः [भागवतम् ११.३१.२४] इति ।

अतो वस्तुतस्तस्य तदाश्रयकस्य जीवचैतन्यस्य यदि तेभ्यो भयं नास्ति
तदा सुतरामेव तव नास्ति किन्तूभयत्रापि स्वधामैक्यविलासित्वात्
तत्रौदासीन्यमेव भयत्वेनोत्प्रेक्षत इति भावः । एवं तस्य एव च
समञ्जसता । तेषां तु दौरात्म्यमेवेत्याह । तथाप्यात्मा कुत्सितानाम्
इन्द्रियाणां गणैस्तदीयनानावृत्तिरूपैः कृतो विग्रहो यत्र तथाविधस्
त्वमपि कुत्सित इन्द्रियगणो येषां तथाभूतैः राजभिः कृतविग्रहः ।
उभयत्राप्यावरणधार्ष्ट्यम् । यद्येवम्भूतस्त्वं तर्हि का तव
नृपासनपरित्यागे हानिः । तत्तु त्वत्सेवकैः प्राथमिकत्वद्
भजनोन्मुखैरेव विधुतं त्यक्तम् । तच्चोक्तं तयैव यद्वाञ्छया
नृपशिखामणयः [भागवतम् १०.६०.४१] इत्यादिना । यतोऽन्धं तम एव तत्प्राकृत
सुखमयत्वात् । अतः श्रीद्वारकाया नित्यत्वमपि ध्वनितम् ।

॥ १०.६० ॥ श्रीरुक्मिणी श्रीभगवन्तम् ॥ ११० ॥

[१११]

अथ श्रीमथुरायाः । मथुरा भगवान् यत्र नित्यं सन्निहितो हरिः ॥ [भागवतम्
१०.१.२८] अर्थात्तत्रत्यानाम् ।

॥ १०.१ ॥ श्रीशुकः ॥ १११ ॥

[११२]

तत्तात गच्छ भद्रं ते यमुनायास्तटं शुचि ।
पुण्यं मधुवनं यत्र सान्निध्यं नित्यदा हरेः ॥ [भागवतम् ४.८.४२]

स्पष्टम् ॥ ४.८ ॥ श्रीनारदो ध्रुवम् ॥ ११२ ॥

[११३]

तस्य हरेः श्रीकृष्णत्वमेव व्यनक्ति

इत्युक्तस्तं परिक्रम्य प्रणम्य च नृपार्भकः ।
ययौ मधुवनं पुण्यं हरेश्चरणचर्चितम् ॥ [भागवतम् ४.८.६२]

[Vऋ. हेरे रेअद्स्: पाद्मकल्पारम्भकथने प्रथमस्वायम्भुव
मन्वन्तरे तस्मिन् हरेश्चरणचर्चितवं श्रीमथुरायास्तन्नित्यत्वात्श्री
कृष्णावतारस्य । तथा हरिशब्देनाप्यत्र श्रीकृष्ण एव विवक्षितः श्रुत्य्
आदौ तद्अवस्थितिप्रसिद्धेः । Eन्दद्दितिओन्.]

प्रतिकल्पमाविर्भावात्तस्यैव चरणाभ्यां चर्चितमिति श्रीकृष्णस्यैव
नित्यसान्निध्यत्वं गम्यते । अतएव द्वादशाक्षरविद्यादैवतस्य श्री
ध्रुवाराध्यस्य त्वन्यत एव तत्रागमनमभिहितमिति मधोर्वनं
भृत्यदिदृक्षया गतः [भागवतम् ४.९.१] इत्यनेनेति ।

॥ ४.८ ॥ श्रीमैत्रेयः ॥ ११३ ॥

[११४]

अथ श्रीवृन्दावनस्य

पुण्या बत व्रजभुवो यदयं नृलिङ्ग
गूढः पुराणपुरुषो वनचित्रमाल्यः ।
गाः पालयन् सहबलः क्वणयंश्च वेणुं
विक्रीडयाञ्चति गिरित्ररमार्चिताङ्घ्रिः ॥ [भागवतम् १०.४४.१२]

अत्र पूर्वोदाहृतश्रुत्य्आद्य्अवष्टम्भेन तिष्ठन्ति पर्वता इतिवदञ्चति
सदैव विहरतीति मथुरास्त्रीणां श्रीभगवत्प्रसादजा यथावद्भारती
निःसृतिरियमिति व्याख्येयम् । (पगे ५९)

॥ १०.४४ ॥ पुरस्त्रियः परस्परम् ॥ ११४ ॥

[Vऋ. रेअद्स्fओर्थिस्सेच्तिओन्:
स च वृन्दावनगुणैर्वसन्त इव लक्षितः ।
यत्रास्ते भगवान् साक्षाद्रामेण सह केशवः ॥ [भागवतम् १०.१८.३]
अत्र यत्रासीदित्यप्रोच्य यत्रास्ते इत्युक्त्या नित्यस्थितित्वमेव व्यक्तीकृतम् ॥

॥ १०.१८ ॥ श्रीशुकः ॥ ११४ ॥
Eन्दल्तेर्नतिवे रेअदिन्ग्.]

[११५]

अथवा त्रिष्वप्येतदेवोधारणीयम्

जयति जननिवासो देवकीजन्मवादो
यदुवरपरिषत्स्वैर्दोर्भिरस्यन्नधर्मम् ।
स्थिरचरवृजिनघ्नः सुस्मित श्रीमुखेन
व्रजपुरवनितानां वर्धयन् कामदेवम् ॥ [भागवतम् १०.९०.४८]

यदुवराः परिषत्सभ्यरूपा यस्य सः । देवकीजन्मवादस्तज्
जन्मत्वेन लब्धख्यातिः । देवक्यां जन्मेति वादस्तत्त्वबुभुत्सुकथा
यस्य स इति वा । श्रीकृष्णो जयति पर्मोत्कर्षेण सदैव विराजते ।
लोहितोष्णीषाः प्रचरन्तीतिवत्यदुवरसभ्यविशिष्टतयैव
जयाभिधानम् । अत्र यदुवरशब्देन श्रीव्रजेश्वरतद्भ्रातरोऽपि
गृह्यन्ते तेषामपि यदुवंशोत्पन्नत्वेन प्रसिद्धत्वात् । तथा च भारत
तात्पर्ये श्रीमध्वाचार्यैरेवं ब्रह्मवाक्यत्वेन लिखितम्

तस्मै वरः स मया सन्निसृष्टः
स चास नान्दाख्य उतास्य भार्या ।
नाम्ना यशोदा स च शूरतात
सुतस्य वैश्याप्रभवस्य गोपः ॥ इति ।

शूरतातसुतस्य शूरसपत्नीमातृजस्य वैश्यायां तृतीयवर्णायां जातस्य
सकाशातास बभूव इत्यर्थः । अतएव श्रीमद्आनकदुन्दुभिना तस्मिन्
भ्रातरिति मुहुः सम्बोधनमक्लिष्टार्थं भवति भ्रातरं नन्दम्
आगतम् [भागवतम् १०.५.२०] इति श्रीमन्मुनीन्द्रवचनं च । तदेतदप्य्
उपलक्षणं तद्भ्रातॄणाम् ।

[Vऋ. अद्द्स्हेरे : यथा स्कान्दे मथुराखण्डे रक्षिता यादवाः सर्वे इन्द्र
वृष्टिनिवारणातिति । यत्राभिषिक्तो भगवान्मघोना यदुवैरिणा इति च,
यादवानां हितार्थाय धृतो गिरिवरो मया इति चान्यत्र । Vऋ. अद्दितिओनेन्द्स्.]

यथा च यादवमध्यपातितत्वेनैव तेषु निर्धारणमयं श्रीराम
वचनं श्रीहरिवंशे यादवेष्वपि सर्वेषु भवन्तो मम बान्धवाः [ःV
८३.१५] इति । सप्तम्या ह्यस्य जातावेव निर्धारणमुच्यते पुरुषेषु क्षत्रियः
शूर इतिवत् । विजातीयत्वे तु श्रोघ्नेभ्यो मथुरा ह्याढ्यतमा इतिवत्
यादवेभ्योऽपि सर्वेभ्यो इत्येवोच्यतेति ज्ञेयम् । अत्र जयतीत्यत्र लोड्अर्थत्वं
न सङ्गच्छते सदैवोत्कर्षानन्त्यमिति तस्मिन्नासीर्वादानवकाशात् । तद्
अवकाशो वा आशीर्वादविषयस्य तदानीमाशीर्वादककृतानुवादविशेष
विशिष्टतयैव स्थितेरवगमात्प्रतिपिपादयिषितं तादृशत्वेनैव
तात्कालिकत्वमागच्छत्येव । यथा धार्मिकसभ्योऽयं राजा वर्धताम्
इति । तदेवं पतिर्गतिश्चान्धकवृष्णिसात्वताम् [भागवतम् २.४.२०] इत्यत्राप्य्
अनुसन्धेयम् । अनेन यदुवराणामपि तथैव जयो विवक्षितः ।

नन्वेवं तथा विहरणशीलश्चेत्पुनः कथमिव देवकीजन्म
वादोऽभूत् । तत्राह स्वैर्दोर्भिर्दोर्भ्यां चतुर्भिश्चतुर्भुजैरधर्मं
तद्बहुलमसुरराजवृन्दमस्यन्निहन्तुम् । तदर्थमेव लोकेऽपि तथा
प्रकटीभूत इत्यर्थः ।

किं वा किं कुर्वन् जयति ? स्वैः कालत्रयगतैरपि [पगे ६०] भक्तैरेव
दोर्भिस्तद्द्वारा अधर्मं जगद्गतपाप्मानमस्यन्नाशयन्नेव । तद्
उक्तम् मद्भक्तियुक्तो भुवनं पुनाति [भागवतम् १०.१४.२४] इति ।

पुनः किमर्थं देवकीजन्मवादः ? तत्राह स्थिरचरवृजिनघ्नः
निजाभिव्यक्त्या निखिलजीवानां संसारहन्ता तद्अर्थमेवेत्यर्थः । तद्
उक्तं यत एतद्विमुच्यते [भागवतम् १०.२९.१६] इति ।

किं वा कथम्भूतो जयति ? व्रजयदुपुरवासिनां स्थावरजङ्गमानां
निजचरणवियोगदुःखहन्ता सन् । नित्यविहारे प्रमाणमाह जन
निवासः । जनशब्दोऽत्र स्वजनवाचकः । सालोक्येत्य्[भागवतम् ३.२९.१३] आदिपद्ये
जना इतिवत् । स्वजनहृदये तत्तद्विहारत्वेन सर्वदेवावभासमान इत्य्
अर्थः । सर्वप्रमाणचयचूडामणिभूतो विद्वद्अनुभव एवात्र
प्रमाणमिति भावः ।

स्वयं तु किं कुर्वन् जयति ? व्रजवनितानां मथुराद्वारकापुर
वनितानां च कामलक्षणो यो देवः स्वयमेव तद्रूपस्तं वर्धयन्
सदैवोद्दीपयन् । अत्र तदीयहृदयस्थकामतद्अधिदेवयोरभेद
विवक्षा तादृशतद्भावस्य तद्वदेव परमार्थताबोधनाय श्रीकृष्ण
स्फूर्तिमयस्य तादृशभावस्याप्राकृतत्वात्परमानन्दपराकाष्ठा
रूपत्वाच्च । श्रीकृष्णस्य कामरूपोपासना चागमे व्यक्तास्ति । वनिता
जनितात्यर्थानुरागायां च योषिति इति नामलिङ्गानुशासनम् । व्रजेति
श्रैष्ठ्येन पूर्वनिपातः । अतएव पूर्वं मेरुदेव्यां सुदेवीति संज्ञावत्
देवकीशब्देन श्रीयशोदा च व्याख्येया

द्वे नाम्नी नन्दभार्याया यशोदा देवकीति च ।
अतः सख्यमभूत्तस्या देवक्या शौरिजायया ॥ इति पुराणान्तरवचनम् ।

तदेवं त्रिष्वपि नित्यविहारित्वं सिद्धम् ।

॥ १०.९० ॥ श्रीशुकः ॥ ११५ ॥

[११६]

अथ यदुक्तं श्रीवृन्दावनस्यैव प्रकाशविशेषे गोलोकत्वम् । तत्र
प्रापञ्चिकलोकप्रकटलीलावकाशत्वेनावभासमानप्रकाशो गोलोक इति
समर्थनीयम् । प्रकटलीलायां तस्मिंस्तच्छब्दप्रयोगादर्शनात्
भेदांशश्रवणाच्च । प्रकटाप्रकटतया लीलाभेदश्चाग्रे
दर्शयितव्यः । तदेवं वृन्दावन एव तस्य गोलोकाख्यप्रकाशस्य
दर्शनेनाभिव्यनक्ति

नन्दस्त्वतीन्द्रियं दृष्ट्वा लोकपालमहोदयम् ।
कृष्णे च सन्नतिं तेषां ज्ञातिभ्यो विस्मितोऽब्रवीत् ॥
ते चौत्सुक्यधियो राजन्मत्वा गोपास्तमीश्वरम् ।
अपि नः स्वगतिं सूक्ष्मामुपाधास्यदधीश्वरम् ॥
इति स्वानां स भगवान् विज्ञायाखिलदृक्स्वयम् ।
सङ्कल्पसिद्धये तेषां कृपयैतदचिन्तयत् ॥
जनो वै लोक एतस्मिन्नविद्याकामकर्मभिः ।
उच्चावचासु गतिषु न वेद स्वां गतिं भ्रमन् ॥
इति सञ्चिन्त्य भगवान्महाकारुणिको हरिः ।
दर्शयामास लोकं स्वं गोपानां तमसः परम् ॥
सत्यं ज्ञानमनन्तं यद्ब्रह्मज्योतिः सनातनम् ।
यद्धि पश्यन्ति मुनयो गुणापाये समाहिताः ॥
ते तु ब्रह्मह्रदं नीता मग्नाः कृष्णेन चोद्धृताः ।
ददृशुर्ब्रह्मणो लोकं यत्राक्रूरोऽध्यगात्पुरा ॥
नन्दादयस्तु तं दृष्ट्वा परमानन्दनिर्वृताः ।
कृष्णं च तत्र च्छन्दोभिः स्तूयमानं सुविस्मिताः ॥ [भागवतम् १०.२८.१०१७]

अतीन्द्रियमदृष्टपूर्वम् । लोकपालः वरुणः । स्वगतिं स्वधाम । (पगे
६१) सूक्ष्मां दुर्ज्ञेयाम् । उपाधास्यनुपधास्यति नोऽस्मान् प्रति
प्रापयिष्यतीति सङ्कल्पितवन्त इत्यर्थः । जन इति ।

[Vऋ. रेअद्स्हेरे:] जनशब्देन तदीयस्वजन एवोच्यते । सालोक्यसार्ष्टि इत्यादि
पद्ये जना इतिवत् । अत्रैते मत्सेवनं विना प्राप्यमाणा सालोक्यादि
परित्यागेन तत्सेवैकवाञ्छाव्रताः साधका एवेति लभ्यते । न वेद स्वां
गतिमित्यत्र तु श्रीभगवता तस्मिन् लोके स्वीयत्वतदीयत्वयोरेकत्वम्
अनेन स्वाभेद एव प्रतिपादित इति परम एवासौ तदीयस्वजनः । अतएव

तस्मान्मच्छरणं गोष्ठं मन्नाथं मत्परिग्रहम् ।
गोपाये स्वात्मयोगेन सोऽयं मे व्रत आहितः ॥ [भागवतम् १०.२५.१८]

इति स्वयमेव भगवता मत्परिग्रहमित्यनेन स्वस्मिंस्तत्परिकरता
मच्छरणमित्यादिक्रमप्राप्तबहुव्रीहिणा दर्शिता । सोऽयं मे व्रतः
इत्यनेन स्वस्य तद्गोपनव्रतता च तदेवं व्रजवासिजन एव लब्धे तं
प्रत्येव करुणया दर्शितवान् । न त्वन्यान् स्वां गतिमिति
सामानाधिकरण्ये एव व्यक्ते । न तु ताभ्यां पदाभ्यां वस्तुद्वयम्
उच्यते । स्वगतिं सूक्ष्मामिति पूर्वोक्तमपि तथा । तस्मात्तल्लोक
दर्शनमेवोभयत्र विवक्षितम् । विवक्षिते च तल्लोके स तु जनमात्रस्य
स्वगतिर्न भवतीति च जनशब्देन तद्विशेष एव व्याख्यातः । तदेवं
सत्ययमर्थः । [Vऋ. अद्दितिओनेन्द्स्.]

[जनोऽसौ व्रजवासी मम स्वजनः ।] एतस्मिन् प्रापञ्चिकलोके । अविद्यादिभिः
कृता या उच्चावचा गतयो देवतिर्यग्आदयः । तासु स्वां गतिं भ्रमन् ताभ्यो
निर्विशेषतया जानन् तामेव स्वां गतिं न वेदेत्यर्थः ।

[ठे Vऋ. एदितिओनद्द्स्हेरे: ततो मामपि सर्वोत्तमतया प्रेमभक्त्या
सर्वोत्तमतया द्रष्टुरेतस्य यद्यपि तत्तल्लीलारसपोषाय मदीयलीला
शक्त्यैव भ्रमादिकं कल्पितम् । न पुनरविद्यादिभिः ।

इति नन्दादयो गोपाः कृष्णरामकथां मुदा ।
कुर्वन्तो रममाणाश्च नाविन्दन् भववेदनाम् ॥ [भागवतम् १०.११.५८] इति ।

यद्धामार्थसुहृत्प्रियात्मतनयप्राणाशयास्त्वत्कृते [भागवतम् १०.१४.२५] इत्य्
आदि । तथाप्येतस्येच्छानुसारेण क्षणकतिपयमेतदीयाम् । [Eन्द्Vऋ. एद्.]

ततोऽयं भ्रमो यद्यपि तत्तल्लीलापोषायैव मदीयलीलाशक्त्या कल्पितस्
तथापि तद्इच्छानुसारेण क्षणकतिपयं तदीयां सर्वविलक्षणां स्वां
गतिं दर्शयन् तमपनेष्यामीति भावः । वैलक्षण्यं चाग्रे व्यञ्जनीयम् ।
गोपानां स्वं लोकं श्रीगोलोकम् । यः खलु [Vऋ. एदितिओनोन्ल्य्:] गोपीगोपैर्
असङ्ख्यातैः सर्वतः समलङ्कृतमिति मृत्युसञ्जयतन्त्रे वर्णितः । तथा


पद्माकृतिपुरोद्वारि लक्षमण्डलनायिकाः ।
रामादयस्तु गोपालाश्चतुर्दिक्षु महेश्वराः ॥

इति नारदपञ्चरात्रे विजयाख्याने वर्णितः । [एन्द्Vऋ. अद्दितिओन्] चिन्तामणि
प्रकरसद्मसु इत्यादिभिर्बहुवर्णितव्यक्तवैभवातिक्रान्तप्रपञ्च
लोकमहोदयस्तम् ।

तमसः प्रकृतेः परं प्रपञ्चानभिव्यक्तत्वेन तदीयेनाप्यसङ्करम् ।
अतएव सच्चिदानन्दरूप एवासौ लोक इत्याह सत्यमिति । सत्यादिरूपं यद्
ब्रह्म यच्च गुणात्यये पश्यन्ति तदेव स्वरूपशक्तिवृत्तिविशेष
प्राकट्येन सत्यादिरूपाव्यभिचारिणं गोलोकं सन्तं दर्शयामासेति
पूर्वेनान्वयः । यथान्यत्रापि वैकुण्ठे भगवत्सन्दर्भोदाहृतं
पाद्मादिवचनं ब्रह्माभिन्नतावाचित्वेन दर्शितं तद्वत् ।

अथ श्रीवृन्दावने च तादृशदर्शनं कतमदेशस्थितानां तेषां जातम्
इत्यपेक्षायामाह ब्रह्मह्रदमक्रूरतीर्थं कृष्णेन नीताः पुनश्च
तद्आज्ञयैव मग्नाः, पुनश्च तस्मात्तीर्थात्श्रीकृष्णेनैवोद्धृताः ।
उद्धृत्य वृन्दावनमध्यदेशमानीतास्तस्मिन्नेव नराकृतिपर
ब्रह्मणः श्रीकृष्णस्य लोकं गोलोकाख्यं ददृशुः ।

[V एदितिओनद्द्स्:] कोऽसौ ब्रह्मह्रदः ? तत्राह यत्रेति । पुरेत्येतत्
प्रसङ्गाद्भाविकाल इत्यर्थः । पुरा पुराणे निकटे प्रबन्धातीत
भाविषु इति कोषकाराः । [एन्द्V. अद्दितिओन्]

यत्र च ब्रह्मह्रदेऽध्यगाद्(पगे ६२) अस्तौत अधिगतवानिति वा ।
सर्वत्रैव श्रीवृन्दावने यद्यपि तत्प्रकाशविशेषोऽसौ गोलोकः दर्शयितुं
शक्यः स्यात्तथापि तत्तीर्थमाहात्म्यज्ञापनार्थमेव वा विनोदार्थम्
एव वा तस्मिन्मज्जनमिति ज्ञेयम् ।

[ठे Vऋ. एदितिओन् हेरे रेअद्स्: नन्दादय इति कर्त्र्अन्तरानिर्देशाच्छन्दोभिर्
एव मूर्तैः कर्तृभिः । तद्अभिज्ञापनार्थं तज्जन्मादिलीलया
स्तूयमानम् । अन्तरङ्गाः परिकरास्तु पूर्वदर्शितरीत्या गोगोपादय एव ।
अतएव कृष्णं यथा ददृशुस्तथा तत्परिकरान्तराणां दर्शनानुक्तेस्तत्र
क एव तत्र परिकरा इत्यभिव्यज्यते । त एव च पूर्वदर्शितमृत्यु
सञ्जयादितन्त्रहरिवंशादिवचनानुसारेण प्रकटाप्रकटप्रकाश
गततया द्विधाभूताः सम्प्रत्यप्रकटप्रकाशप्रवेशे सत्येकरूपा
एव जाता इति पृथग्दृष्टाः ।

यदा तत्प्रकाशभेदो भवति, तदा तत्तल्लीलारसपोषाय तेषु प्रकाशेषु
तत्तल्लीलाशक्तिरेवाभिमानभेदं परस्परमनुसन्धानं च प्रायः
सम्पादयतीति गम्यते । उदाहरिष्यते चाग्रे । अतएवोक्तं न वेद स्वां गतिं
भ्रमनिति । तथा च सतीदानीं श्रीव्रजवासिनां कथञ्चिज्जातया
तादृशेच्छया तेभ्यस्तेषामेव तादृशलोकप्रकाशविशेषादिकं दर्शितम्
इति गम्यते । न च प्रकाशान्तरसम्भावनीयम् । परमेश्वरत्वेन तच्च
श्रीविग्रहपरिकरधामलीलादीनां युगपदेकत्राप्यनन्तविध
वैभवप्रकाशशीलत्वात् । Eन्दोf Vऋ. अद्दितिओन्.]

अत्र स्वां गतिमिति तदीयतानिर्देशो गोपानां स्वं लोकमिति षष्ठीस्व
शब्दयोर्निर्देशः । कृष्णमिति साक्षात्तन्निर्देशश्च वैकुण्ठान्तरं
व्यवच्छिद्य श्रीगोलोकमेव प्रतिपादयति । अतएव तेषां तद्दर्शनात्
परमानन्दनिर्वृतत्वं सुविस्मितत्वमपि युक्तमुक्तम् । तस्यैव
पूर्णत्वात् । तथापि तेषां पुत्रादिरूपेणैवोदयाच्च ।[*Eण्ड्ण्Oट्E ॰३] तथा
तत्र कृष्णं यथा ददृशुस्तथा तत्परिकराणामन्येषां दर्शनानुक्तेस्त
एक एव तत्र परिकरा इत्यभिव्यज्यते । ततश्च लीलाद्वये कृष्णवत्तेषाम्
एव प्रकाशभेदः । यदा च प्रकाशभेदो भवति तदा तत्तल्लीलारस
पोषाय तेषु प्रकाशेषु तत्तल्लीलाशक्तिरेवाभिमानभेदं परस्परम्
अननुसन्धानं च प्रायः सम्पादयतीति गम्यते । उदाहरिष्यते चाग्रे ।

अतएवोक्तं न वेद स्वां गतिं भ्रमनिति । तथा च सतीदानीं श्रीव्रज
वासिनां कथञ्चिज्जातया तादृशेच्छया तेभ्यस्तेषामेव तादृशं प्रकाश
विशेषादिकं दर्शितमिति गम्यते । न च प्रकाशान्तरमसम्भावनीयम् ।
परमेश्वरत्वेन तत्श्रीविग्रहपरिकरधामलीलादीनां युगपद्
एकत्राप्यनन्तविधवैभवप्रकाशशीलत्वात् । तदेवमुक्तोऽर्थः
समञ्जस एव ।

॥ १०.२८ ॥ श्रीशुकः ॥ ११६ ॥

[११७]

एवं द्वारकादीनां तस्य नित्यधामत्वं सिद्धम् । अथ तत्र के तावदस्य
परिकराः । उच्यते पूर्योर्यादवादयो वने श्रीगोपादयश्चेति । श्री
कृष्णस्य द्वारकादिनित्यधामत्वेन तेषां स्वतःसिद्धेः । तद्रूपत्वे
परिकरान्तराणामयुक्तत्वादश्रवणत्वाच्च । तत्
परिकरत्वेनैवाराधनादिवाक्यानि दर्शितानि दर्शयितव्यानि च । अतएवोक्तं
पाद्मे कार्तिकमाहात्म्ये श्रीकृष्णसत्यभामासंवादे

एते हि यादवाः सर्वे मद्गणा एव भामिनि ।
सर्वदा मत्प्रिया देव मत्तुल्यगुणशालिनः ॥ [ড়द्मড়्
६.८९.२२[*Eण्ड्ण्Oट्E ॰४]]

एवकारान्न देवादयः । श्रीहरिवंशेऽप्यनिरुद्धान्वेषणे तादृशत्वम्
एवोक्तमक्रूरेण देवानां च हितार्थाय वयं याता मनुष्यताम् [ःV
२.१२१.५७][*Eण्ड्ण्Oट्E ॰५] इति । श्रीमथुरायां त्ववतारावसरेणाभिव्यक्ता
अपि निगूढतया केचित्तस्यामेव वर्तमानाः श्रूयन्ते । यथा श्री
गोपालोत्तरतापन्याम्

यत्रासौ संस्थितः कृष्णस्त्रिभिः शक्त्या समाहितः ।
रामानिरुद्धप्रद्युम्नै रुक्मिण्या सहितो विभुः ॥ [ङ्टू २.३६] इति ।

श्रीवृन्दावने (पगे ६३) तैः सदा विहाराश्च । यथा पाद्मपातालखण्डे
श्रीयमुनामुद्दिश्य

अहो अभाग्यं लोकस्य न पीतं यमुनाजलम् ।
गोवृन्दगोपिकासङ्गे यत्र क्रीडति कंसहा ॥ इति ।

स्कान्दे च
वत्सैर्वत्सतरीभिश्च सदा क्रीडति माधवः ।
वृन्दावनान्तरगतः सरामो बालकैर्वृतः ॥ इति ।

न तु प्रकटलीलागतेभ्य एते भिन्नाः, एते हि यादवाः सर्वे इत्यनुसारात् ।
तथा हि पाद्मनिर्माणखण्डे च श्रीभगवद्वाक्यम्

नित्यां मे मथुरां विद्धि वनं वृन्दावनं तथा ।
यमुनां गोपकन्याश्च तथा गोपालबालकान् ॥
ममावतारो नित्योऽयमत्र मा संशयं कृथाः ॥ इति ।

अतस्तानेवोद्दिश्य श्रुतौ च तत्र ऋक्षु
तां वां वास्तून्युश्मसि गमध्यै
यत्र गावो भूरिशृङ्गा अयासः ।
अत्राह तदुरुगायस्य वृष्णः
परमं पदमवभाति भूरि ॥ इति ।

व्याख्यातं च तां तानि वां युवयोः कृष्णरामयोर्वास्तूनि लीलास्थानानि
गमध्यै गन्तुं प्राप्तुमुश्मसि कामयामहे । तानि किंविशिष्टानि ? यत्र
येषु भूरिशृङ्गा महाशृङ्ग्यो गावो वसन्ति । यथोपनिषदि भूमवाक्ये
धर्मिपरेण भूमशब्देन महिष्ठमेवोच्यते न तु बहुतरमिति ।
यूथदृष्ट्यैव वा भूरिशृङ्गा बहुशृङ्ग्यो बहुशुभलक्षणा इति वा ।
अयासः शुभाः । अत्र भूमौ तल्लोकवेदप्रसिद्धं श्रीगोलोकाख्यं
उरुगायस्य स्वयं भगवतो वृष्णः सर्वकामदुघचरणारविन्दस्य
परमं प्रपञ्चातीतं पदं स्थानं भूरि बहुधा अवभातीत्याह वेद
इति ।

यजुःसु माध्यन्दिनीयास्तु या ते धामन्युश्मसि इत्यादौ । [याति
धामन्युश्मसि इति वा पाठः]

पाद्मोत्तरखण्डे तु यत्त्वियं श्रुतिः परमव्योमप्रस्ताव उदाहृता तत्
परमव्योमगोलोकयोरेकतापत्त्य्अपेक्षयेति मन्तव्यम् । गोशब्दस्य
सास्नादिमत्येव प्रचुरप्रयोगेण झटित्यर्थप्रतीतेः । श्रीगोलोकस्य
ब्रह्मसंहिताहरिवंशमोक्षधर्मादिषु प्रसिद्धत्वाच्च । अथर्वणि च
श्रीगोपालतापन्यां जन्मजराभ्यां भिन्नः स्थाणुरयमच्छेद्योऽयं
योऽसौ सौर्ये तिष्ठति योऽसौ गोषु तिष्ठति योऽसौ गाः पालयति । योऽसौ गोपेषु
तिष्ठति [ङ्टू २.२२] इत्यादि ।

तदेवमुभयेषामपि नित्यपार्षदत्वे सिद्धे यत्तु शस्त्राघातक्षत
विषपानमूर्च्छातत्त्वबुभुत्सासंसारसारनिस्तारोपदेशास्पदत्वादिकं
श्रूयते, तद्भगवत इव नरलीलौपायिकतया प्रपञ्चितमिति मन्तव्यम् ।
यथा तवेयं विषमा बुद्धिर्[भागवतम् १०.५४.४२] इत्यादिकं साक्षात्श्रीरुक्मिणीं
प्रति श्रीबलदेववाक्ये । यच्च श्रीमद्उद्धवमुद्दिश्य स कथं
सेवया तस्य कालेन जरसं गतः [भागवतम् ३.२.३] इत्युक्तम् । तदपि चिरकालसेवा
तात्पर्यकमेव । तत्र प्रवयसोऽप्यासन् युवानोऽ तिबलौजसः [भागवतम् १०.४५.१९]
इति विरोधात् ।

क्वचिच्च प्रकटलीलायाः प्रापञ्चिकलोकमिश्रत्वात्यथार्थमेव तद्
आदिकम् । यथा शतधन्ववधादौ । अन्तरङ्गानां भगवत्साधारण्यं
तु यादवानुद्दिश्योक्तम् मत्तुल्यगुणशालिनः इति । गोपानुद्दिश्य च
गोपैः समानगुणशीलवयोविलासवेश्यैश्च इति । पाद्मनिर्माणखण्डे
 गोपाला मुनयः सर्वे वैकुण्ठानन्दमूर्तयः इति । यतो यो वैकुण्ठः
श्रीभगवान् स इवानन्दमूर्तयस्ते ततस्तत्परमभक्तत्वादेव
मुनय इत्युच्यते । न तु मुन्य्अवतारत्वादिति ज्ञेयम् । नैते सुरेशा ऋषयो
न वैते इत्यादिकं श्रीबलदेववाक्यं च भगवद्आविर्भावलक्षण
गोपादीनां केयं वा कुत आयाता दैवी वा नार्युतासुरी [भागवतम् १०.१३.३७] इत्यादि
प्राप्तमन्यत्वमेव निषेधति, न तु पूर्वेषां च तद्विदधाति कल्पना
गौरवादिति ज्ञेयम् । [B अद्दितिओन्: इत्थं सतां ब्रह्मसुखानुभूत्या इत्य्
आदेः तद्भूरिभाग्यमित्यादेश्च । एन्द्Vऋ.]
युक्तं चैषां तत्सादृश्यं

तस्यात्मतन्त्रस्य हरेरधीशितुः (पगे ६४)
परस्य मायाधिपतेर्महात्मनः ।
प्रायेण दूता इह वै मनोहराश्
चरन्ति तद्रूपगुणस्वभावाः ॥ [भागवतम् ६.३.१८] इति श्रीयम
वाक्यानुगतत्वात् ।

दृष्टं च प्रथमे प्राविशत्पुरम् [भागवतम् १.११.११] इत्यारभ्य मधुभोज
दशार्हार्हकुकुरान्धकवृष्णिभिः आत्मतुल्यबलैर्गुप्ताम् [भागवतम् १.११.१२]
इत्यादि । अतएव

गोपजातिप्रतिच्छन्ना देवा गोपालरूपिणम् ।
ईडिरे कृष्णं रामं च नटा इव नटं नृपः ॥ [भागवतम् १०.१८.११]

इत्यत्र साम्यमेव सूचितम् । अर्थश्च देवाः श्रीकृष्णावरणे मद्भक्त
पूजाभ्यधिका इति न्यायेन तद्वदेवोपास्या अपि श्रीदामादयो गोपजात्या
प्रतिच्छन्ना अन्यगोपसामान्यभावेन प्रायस्तादृशावपि तौ तद्रूपिणौ
तथा तेऽपीत्यर्थः (?) । अत्र देवा इत्यनेन गुणसाम्यं चाभिप्रेतमिति ।

[११८]

तत्र यादवादीनां तत्पार्षदत्वं योजयति

अहं यूयमसावार्य इमे च द्वारकौकसः ।
सर्वेऽप्येवं यदुश्रेष्ठ विमृग्याः सचराचरम् ॥ [भागवतम् १०.८५.२३]

यूयं श्रीमद्आनकदुन्दुभ्य्आदयो विमृग्याः परमार्थरूपत्वाद्
अन्वेषणीयाः । तथान्यदपि द्वारकौको जङ्गमस्थावरसहितं यत्किञ्चित्
तद्अन्वेष्यम् । अहं श्रीकृष्ण इति दृष्टान्तत्वेनोपन्यस्तम् । ततश्च
नराकारब्रह्मणि स्वस्मिन्निव तन्नित्यपरिकरे सर्वत्रैव परम
पुरुषार्थत्वमिति भावः । तस्माद्यथा पूर्वं सत्त्वं रजस्तमः इत्य्
आदिना सत्त्वादिगुणानां तद्वृत्तीनां च ब्रह्मणि त्रैकालिकस्पर्श
सम्भवान्माययैव तद्अध्यासो भवता वर्णितस्तथा दृष्टिरत्र तु
नकार्येति तात्पर्यम् । लौकिकाध्यात्मगोष्ठीत्येवमेवेत्याह द्वयेन

आत्मा ह्येकः स्वयंज्योतिर्नित्योऽन्यो निर्गुणो गुणैः ।
आत्मसृष्टैस्तत्कृतेषु भूतेषु बहुधेयते ॥ [भागवतम् १०.८५.२४]

अत्रानुगतार्थान्तरं च दृश्यते । द्वारकायामिति प्रकरणेन लभ्यते । हि
यस्मादेक एवात्मा भगवत्त्वमात्मसृष्टैः स्वरूपादेवोल्लसितैर्गुणैः
स्वरूपशक्तिवृत्तिविशेषैः कर्तृभिस्तत्कृतेषु तस्मिन् स्वरूपे एव
प्रादुर्भावितेषु भूतेषु परमार्थसत्येषु द्वारकान्तर्वर्तिवस्तुषु
बहुधा तत्तद्रूपेण ईयते प्रकाशते । सहस्रनामभाष्ये लोकनाथं
महद्भूतमित्यत्र च भूतं परमार्थसत्यमिति व्याख्यातम् । तथा
तथा च प्रकाशः स्वरूपगुणापरित्यागेनैवेत्याह स्वयं ज्योतिः स्व
प्रकाश एव सन्, नित्य एव सन्, अन्यः प्रपञ्चेऽभिव्यक्तोऽपि तद्विलक्षण एव
सन्, निर्गुणः प्राकृतगुणरहित एव च सन्निति ।
[११९]

अत्र चार्थान्तरं यथा तर्हि कथं भवत आत्यन्तिकं सममेवात्र सर्वम्
इत्याशङ्क्य तथापि मय्यस्ति वैशिष्ट्यमित्याह

खं वायुर्ज्योतिरापो भूस्तत्कृतेषु यथाशयम् ।
आविस्तिरोऽल्पभूर्येको नानात्वं यात्यसावपि ॥ [भागवतम् १०.८५.२५]

सत्कार्यवादाभ्युपगमात्तस्य कारणानन्यत्वाभ्युपगमाच्च । यथा
खादीनि भूतानि तत्कृतेषु तत्स्वरूपेणैव विकासितेषु वाय्व्आदिघटान्तेषु
यथाशयं वाय्व्आद्य्आविर्भावाद्य्अनुरूपमेवाविर्भावादिकं यान्ति न तु
तेष्वधिकम् । अत्र यावान् वायुर्गृह्यते तावानेव तत्राकाशधर्मः
शब्दोऽपि गृह्यते । यावज्ज्योतिस्तावानेव वायुधर्मः स्पर्शोऽपीत्यादिकं
ज्ञेयम् । तथा स्वरूपेणैव विकासितेषु द्वारकावस्तुषु असौ भगवद्आख्य
आत्मापि । तस्मादहं तु तत्सर्वमयः सर्वस्मात्पृथक्परिपूर्णश्चेत्य्
अस्ति वैशिष्ट्यमिति भावः । अनेन दृष्टान्तेन (पगे ६५) मत्त एवोल्लसिता
मद्धर्मा एव ते भवितुमर्हन्ति न त्वाकाशे धूसरत्वादिवन्मयि
केवलमध्यस्था इति च ज्ञापितम् । अत्र यथा तथेति व्याख्यानमपि
शब्देन द्योत्यते ।

॥ १०.८५ ॥ श्रीभगवान् श्रीवसुदेवम् ॥ ११९ ॥

[१२०]

अतएवाह

तद्दर्शनस्पर्शनानुपथप्रजल्प
शय्यासनाशनसयौनसपिण्डबन्धः ।
येषां गृहे निरयवर्त्मनि वर्ततां वः
स्वर्गापवर्गविरमः स्वयमास विष्णुः ॥ [भागवतम् १०.८२.२०]

येषां वो युष्माकं वृष्णीनां गृहे विष्णुः श्रीकृष्णाख्यो भगवान् स्वयम्
आत्मना स्वभावत एव आस निवासं चक्रे न त्वन्येन हेतुनेत्यर्थः ।
कथम्भूतेऽनिरयवर्त्मनि निरयः संसारस्तद्वर्त्म प्रपञ्चः
ततोऽन्यस्मिन्, प्रपञ्चातीत इत्यर्थः । कीदृशानां वस्तस्मिन्नेव
वर्तमानानाम् । स्वयं कथम्भूतः स्वर्गापवर्गविरमः
स्वर्गस्यापवर्गस्य च विरमो येन । यो निजभक्तेभ्यस्तद्
बहिर्मुखताकरं स्वर्गं न ददाति तद्भक्त्य्उदासीनं केवलं मोक्षं
च न ददाति किन्तु तान् स्वचरणारविन्दतल एव रक्षतीत्यर्थः । येषां
युष्माकं तु गृहे स एवम्भूत एवासेत्याह तद्दर्शनेति । तस्य युष्मत्
कर्तृकं दर्शनं च अनुपथोऽनुगतिश्च प्रजल्पो गोष्ठी च, तथा युष्मत्
संवलिता शय्या शयनं च आसनं च अशनं भोजनं च तैर्विशिष्टैश्चासौ
सयौनसपिण्डबन्धश्चेति शाकपार्थिवादिवन्मध्यपदलोपी कर्म
धारयः । तत्र वृष्णिभिः सह यौनबन्धो विवाहसम्बन्धः, सपिण्ड
बन्धो दैहिकसम्बन्धस्ताभ्यां सह वर्तमानोऽसाविति बहुव्रीहि
गर्भता ।

॥ १०.८२ ॥ राजानं श्रीमद्उग्रसेनम् ॥ १२० ॥
[१२१]

किं च

सङ्ख्यानं यादवानां कः करिष्यति महात्मनाम् ।
यत्रायुतानामयुत लक्षेणास्ते सदाहुकः ॥ [भागवतम् १०.९०.४२]

आहुकः उग्रसेनः । यत्रास्त इति वर्तमानप्रयोगेण तत्रापि सदेति नित्यता
वाचकाव्ययेन तेषां नित्यपार्षदत्वं सुव्यक्तम् ॥

॥ १०.९० ॥ श्रीशुकः ॥ १२१ ॥

[१२२]

अतस्तेषां श्रीभगवत्पार्षदत्वे योग्यतामव्यभिचारित्वमपि
दृष्टान्तेन स्पष्टयति

तत्रोपविष्टः परमासने विभुर्
बभौ स्वभासा ककुभोऽवभासयन्
वृतो नृसिंहैर्यदुभिर्यदूत्तमो
यथोडुराजो दिवि तारकागणैः ॥ [भागवतम् १०.७०.१८]

स्पष्टम् । एवमेव दुर्योधनं प्रति स्वयं विश्वरूपं दर्शयता श्री
भगवता तेषां यादवादीनां निजावरणरूपत्वं दर्शितमित्युद्यम
पर्वणि प्रसिद्धिः ॥

॥ १०.७० ॥ श्रीशुकः ॥ १२२ ॥

[१२३]

यश्चैषामेकादशस्कन्धान्ते तद्अन्यथाभावः श्रूयते, स तु श्रीमद्
अर्जुनपराजयविमोहपर्यन्तो मायिक एव । तथावचनं च ब्रह्म
शापानिवर्त्यताख्यापनायैव गोब्राह्मणहितावतारिणा भगवता विहितम्
इति ज्ञेयम् । दृश्यते च बृहद्अग्निपुराणादौ रावणहृतायाः (पगे ६६)
सीताया मायिकत्वं यथा तद्वत्[*Eण्ड्ण्Oट्E ॰६] । तथा हि तदानीमेवाह


त्वं तु मद्धर्ममास्थाय ज्ञाननिष्ठ उपेक्षकः ।
मन्मायारचितामेतां विज्ञायोपशमं व्रज ॥ [भागवतम् ११.३०.४९]

त्वं तु दारुको ज्ञाननिष्ठो मदीयलीलातत्त्वज्ञः, मद्धर्मं मम
स्वभक्तप्रतिपालयितृत्वरूपं स्वतुल्यपरिकरसङ्गित्वरूपं च
स्वभावमास्थाय विश्रभ्य एतामधुना प्रकाशितां सर्वामेव
मौषलादिलीलां मम इन्द्रजालवद्रचितां विज्ञाय उपेक्षको बहिर्दृष्ट्या
जातं शोकमुपेक्षमाण उपशमं चित्तक्षोभात्निवृत्तिं व्रज प्राप्नुहि ।
तुशब्देनान्ये तावन्मुह्यन्तु तव तु तथा मोहो न युक्त एवेति ध्वनितम् ।
अत्र श्रीदारुकस्य स्वयं वैकुण्ठावतीर्णत्वेन सिद्धत्वादेतामित्य्
अत्रातिसन्निहितार्थलाभाच्चान्यथाव्याख्यानमेव प्रथमप्रतीत्य
विषय इति विवेक्तव्यम् ।

॥ ११.३० ॥ श्रीभगवान् दारुकम् ॥ १२३ ॥

[१२४]

तथा च पद्यत्रयम्

राजन् परस्य तनुभृज्जननाप्ययेहा
मायाविडम्बनमवेहि यथा नटस्य ।
सृष्ट्वात्मनेदमनुविश्य विहृत्य चान्ते
संहृत्य चात्ममहिनोपरतः स आस्ते ॥ [भागवतम् ११.३१.११]

परस्य श्रीकृष्णस्य ये तनुभृतः प्रयुज्यमाने मयि तां शुद्धां
भागवतीं तनुम् [भागवतम् १.६.२९] इति श्रीनारदोक्त्य्अनुसारेण तदीयां तनुम्
एव धारयन्तस्तत्पार्षदा यादवादयस्तेषां जननाप्ययरूपा ईहाश्
चेष्टाः केवलं परस्यैव मायया अनुकरणमवेहि यथा इन्द्रजालवेत्ता
नटः कश्चिज्जीवत एव मारयित्वेव दग्ध्वेव पुनश्च तद्देहं
जनयित्वेव दर्शयति तस्येव । विश्वसर्गादिहेत्व्अचिन्त्यशक्तेस्तस्य तादृश
शक्तित्वं न च चित्रमित्याह सृष्ट्वेति । एवं सति श्रीसङ्कर्षणादौ
मुग्धानामन्यथाभानहेतूदाहरणाभासः सुतरामेव मायिकलीला
वर्णने प्रवेशितो भवति । स्कान्दे श्रीलक्ष्मणस्याप्यन्यादृशत्वं न
सम्प्रतिपन्नम् । नारायणवर्मणि च शेषाद्विलक्षणशक्तित्वेन नित्यम्
एवोपासकपालकत्वेन तथैवानुमतमिति दर्शितम् । अतएव जरासन्ध
वाक्ये तव राम यदि श्रद्धा [भागवतम् १०.५०.१८] इत्यत्र श्रीस्वामिभिरपीत्थं
वास्तवार्थो व्यञ्जितः ।

अच्छेद्यदेहोऽसाविति स्वयमेव मत्वा अपरितोषात्पक्षान्तरमाह यद्वा
मां जहीति । तदेवं चानेन व्याख्यानेन लोकाभिरामां स्वतनुं [भागवतम्
११.३१.६] इत्यादिपद्येषु योगिजनशक्तिविलक्षणभगवच्छक्तिव्यञ्जकक
श्रीस्वामिचरणानामदग्ध्वेत्यादिपदच्छेदादिमयव्याख्या
सौष्ठवं कैमुत्यातिशयेन सुष्ठ्वेव स्थापितम् । यत एव दृश्यते
चाद्याप्युपासकानामित्यादिकं च तद्उक्तं सुसङ्गतं भवति । तत्तत्
परिकरेणैव सार्धं तेषु तत्साक्षात्कार इति । अप्राकृतदेहानां तेषां तन्
न सम्भवतीयास्ताम् ।

[१२५]

श्रीकृष्णपाल्यत्वेनैव न सम्भवतीत्याह

मर्त्येन यो गुरुसुतं यमलोकनीतं
त्वां चानयच्छरणदः परमास्त्रदग्धम् ।
जिग्येऽन्तकान्तकमपीशमसावनीशः
किं स्वानने स्वरनयन्मृगयां सदेहम् ॥ [भागवतम् ११.३१.१२]

यः श्रीकृष्णः यमलोकं गतमपि गुरुसुतं गुरोर्जातेन पञ्चजन
भक्षितेन तेन मर्त्येन देहेनैवानयत् । न च ब्रह्मतेजसो बलवत्त्वं
मन्तव्यम् । त्वां च ब्रह्मास्त्रदग्धं यस्तस्माद्ब्रह्मास्त्रादानयद्
रक्षितवानित्यर्थः । किमन्यद्वक्तव्यम् ? यश्चान्तकानामन्तकम्
ईशं श्रीरुद्रमपि बाणसङ्ग्रामे जितवान् । अहो यश्च तं जराख्यं
मृगयुमपि स्वः स्वर्गं वैकुण्ठविशेषं सशरीरमेव प्रापितवान् । स
कथं स्वानां यदूनाम् (पगे ६७) अवने ईशो न भवति ? तस्मात्तेष्व्
अन्यथादर्शनं न तात्त्विकलीलानुगतम् । सशरीरं तु तेषां स्वलोक
गमनमतीव युक्तमित्यर्थः ।

[१२६]

ननु गच्छन्तु ते सशरीरा एव स्वं धाम तत्रापि स्वयं भगवान् विराजत
एवेति न तेषां तद्विरहदुःखमपि । श्रीभगवांस्तु तथासमर्थश्चेत्
तर्हि कथमन्यांस्तादृशानाविर्भाव्य तैः सह मर्त्यलोकानुग्रहार्थम्
अपरमपि कियन्तं कालं मर्त्यलोकेऽपि प्रकटो नासीदित्यत्र सिद्धान्तयन्
तेषां श्रीभगवतश्च सौहार्दभरेणापि परस्परमव्यभिचारित्वमाह


तथाप्यशेषस्थितिसम्भवाप्ययेष्व्
अनन्यहेतुर्यदशेषशक्तिधृक् ।
नैच्छत्प्रणेतुं वपुरत्र शेषितं
मर्त्येन किं स्वस्थगतिं प्रदर्शयन् ॥ [भागवतम् ११.३१.१३]

यद्यप्युक्तप्रकारेण अशेषस्थितिसम्भवाप्ययेषु अनन्यहेतुः यत्
यस्मात्तद्ऊर्ध्वमप्यनन्ततादृशशक्तिधृक्, तथापि यादवान्
अन्तर्धाप्य निजं वपुरत्र शेषितं प्रणेतुं किञ्चित्कालं स्थापयितुं
नैच्छत्, किन्तु स्वमेव लोकमनयत् । तत्र हेतुः । तान् विना मर्त्येन लोकेन
किं मम प्रयोजनमिति स्वस्थानां तद्धामगतानां तेषां गतिमेव
स्वस्याभिमतत्वेन प्रकृष्टां दर्शयन्निति ।

॥ ११.३१ ॥ श्रीशुकः ॥ १२४१२६ ॥

[१२७]

अतस्तेषां श्रीभगवद्वदन्तर्धानमेव न त्वन्यदस्तीति श्री
भगवद्अभिप्रायकथनेनाप्याह

मिथो यदैषां भविता विवादो
मध्व्आमदाताम्रविलोचनानाम् ।
नैषां वधोपाय इयानतोऽन्यो
मय्युद्यतेऽन्तर्दधते स्वयं स्म ॥ [भागवतम् ३.३.१५]

एषां यदूनां यदा मिथो विवादस्तदाप्येषां पृथिवीपरित्याजने वध
रूप उपायो न विद्यते किमुतान्येन विवादे स न स्यादिति । तर्हि तेषां
ममाभिलषिते पृथिवीपरित्याजने कतम उपायो भवेत् । तत्र पुनः
परामृशति । अतो वधादन्य एव इयानेतावानेव उपायो वर्तते । कोऽसौ मयि
उद्यते ममेच्छया एते स्वयमन्तर्दधत इति यः । स्मेति निश्चये । यद्वा
वधस्योपायो न विद्यत इत्येवं व्याख्याय अतो वधोपायादन्य इयान्
वधोपायतुल्य उपायो विद्यते इति व्याख्येयम् । अन्यत्समानम् ।
॥ ३.३ ॥ श्रीमदुद्धवो विदुरम् ॥ १२७ ॥

[१२८]

अतएवान्तर्हिते भगवति श्रीमद्उद्धवस्य विदुरिति वर्तमानप्रत्यय
निर्देशवाक्येन तदानीमन्तर्हितस्यापि तद्वर्गस्य इव श्रीभगवतैव
सह संवासो व्यज्यते यथा

दुर्भगो बत लोकोऽयं यदवो नितरामपि ।
ये संवसन्तो न विदुर्हरिं मीना इवोडुपम् ॥ [भागवतम् ३.२.८]

अयं मम हृदये स्फुरन् द्वारकावासी लोकः । ये संवसन्तः सह
वसन्तोऽपि न विदुर्न जानन्ति । अहं तु संवासभाग्यहीनो न जानामीति
नाश्चर्यमिति भावः । अत्र तदानीं यदि संवासो नाभविष्यत्तदा नावेदिषुर्
इत्येवावक्ष्यदिति ज्ञेयम् ।

[१२९]

नन्वधुनापि न जानन्तीति कथं जानासीत्याशङ्क्य हेतुं प्राचीन
निजानुभवमाह

इङ्गितज्ञाः पुरुप्रौढा एकारामाश्च सात्वताः ।
सात्वतामृषभं सर्वे भूतावासममंसत ॥ [भागवतम् ३.२.९]

यं सात्वतां स्वेषामेव ऋषभं नित्यकुलपतित्वेन वर्तमानं स्वयं
भगवन्तमपि भूतावासं तद्अंशरूपं भूतान्तर्यामिनम्
एवामंसतेति । मे एको देव (पगे ६८) इत्यादौ सर्वभूताधिवास [श्वेतू ६.१८]
इत्यन्तर्यामिश्रुतेः । उक्तं च वृष्णीनां परदैवता [भागवतम् १०.४३.२७] इति ।

॥ ३.२ ॥ श्रीमद्उद्धवो श्रीविदुरम् ॥ १२८१२९ ॥

[१३०]

यमेव संवासं पूर्वमपि प्रार्थयामास

नाहं तवाङ्घ्रिकमलं क्षणार्धमपि केशव ।
त्यक्तुं समुत्सहे नाथ स्वधाम नय मामपि ॥ [भागवतम् ११.६.४३]

स्वधामद्वारकाया एव प्रापञ्चिकाप्रकटप्रकाशविशेषमपीति ।
यथा यादवानन्यान्नयसि तथा मामपि नयेत्यर्थः । अर्थान्तरे त्वपि
शब्दवैयर्थ्यं स्यात् ।

॥ ११.६ ॥ श्रीमानुद्धवः ॥ १३० ॥

[१३१]

पाद्मोत्तरखण्डे कार्त्तिकमाहात्म्ये च यादवानां तदृशत्वं

यथा सौमित्रिभरतौ यथा सङ्कर्षणादयः ।
तथा तेनैव जायन्ते निजलोकाद्यदृच्छया ॥
पुनस्तेनैव गच्छन्ति तत्पदं शाश्वतं परम् ।
न कर्मबन्धनं जन्म वैष्णवानां च विद्यते ॥ [ড়द्मড়् ६.२२९.५७५८] इति ।

अत्र निजलोकादिति तत्पदमिति च रामकृष्णादिवैकुण्ठं पाद्मोत्तर
खण्डमतम् । श्रीमत्स्याद्य्अवताराणां पृथक्पृथक्वैकुण्ठावस्थितेस्
तत्र साक्षादुक्तत्वात् । तादृशानां भगवत इव भगवद्इच्छयैव
जन्मादिकारणं चोक्तं श्रीविदुरेण

अजस्य जन्मोत्पथनाशनाय
कर्माण्यकर्तुर्ग्रहणाय पुंसाम्
नन्वन्यथा कोऽर्हति देहयोगं
परो गुणानामुत कर्मतन्त्रम् ॥ [भागवतम् ३.१.४४] इति ।

को वान्योऽपीति टीका च । तदेवं तेषां श्रीकृष्णनित्यपरिकरत्वे सिद्धे
साधिते श्रीवसुदेवादीनां प्राग्जन्मनि साधकत्वादिकथनं च
भगवत इव भगवद्इच्छयैव लोकसङ्ग्रहाद्य्अर्थमंशेनैवावतारात्
क्वचिज्जीवान्तरावेशात्सम्भवति । पुनश्च स्वयमवतरत्सु तेषु तद्अंश
प्रवेशकथारीत्या त्वेकत्वेन कथनमिति ज्ञेयम् । यथा प्रद्युम्नस्य
व्याख्यातम् । एवं तृतीये वेदाहमित्यादि भगवद्वाक्ये उद्धवं प्रति
वस्व्अंशत्वापेक्षयैव वसो इति सम्बोधनं तादृशांश
पर्यवसानास्पदांशिरूपत्वेन चरमजन्मतोक्तिश्च ज्ञेया । अतएवाह

त्वमेव पूर्वसर्गेऽभूः पृश्निः स्वायम्भुवे सति ।
तदायं सुतपा नाम प्रजापतिरकल्मषः ॥ [भागवतम् १०.३.३२]

त्वं श्रीदेवकीदेव्येव पृश्निरभूः न तु पृश्निस्त्वमभूदिति । एवं
तदायमपीति ।

॥ १०.३ ॥ श्रीभगवान् ॥ १३१ ॥

[१३२]

एवमेवाह वसुदेवं हरेः स्थानं वदन्त्यानकदुन्दुभिम् [भागवतम्
९.२४.३०] इति । सत्त्वं विशुद्धं वसुदेवशब्दितं यदीयते तत्र पुमान्
अपावृतः [भागवतम् ४.३.२३] इत्यादौ प्रसिद्धं वसुदेवाख्यं हरेः स्थानम्
अत्रानकदुन्दुभिं वदन्ति मुनय इति ॥

॥ ९.२४ ॥ श्रीशुकः ॥ १३२ ॥

[१३३]

तथात्राप्येवं व्याख्येयं देवक्यां देवरूपिण्याम् [भागवतम् १०.३.८] वसुदेवस्
तद्रूपिण्यां शुद्धसत्त्ववृत्तिरूपायामेवेति । अतएव विष्णुपुराणे तां
प्रति देवस्तुतौ त्वं परा प्रकृतिः सूक्ष्मा [भागवतम् ५.२.७] इत्य्आदि बहुतरम् ॥

॥ १०.३ ॥ श्रीशुकः ॥ १३३ ॥

[१३४]

अतएवाहमिव नित्यमेव मत्पितृरूपेणाप्रकटलीलायां वर्तमानौ
युवामधुना (पगे ६९) प्रकटलीलामनुगतौ पुनरप्रकटलीला
प्रवेशं यदृच्छयैवाप्स्यथ इत्याह

युवां मां पुत्रभावेन ब्रह्मभावेन चासकृत् ।
चिन्तयन्तौ कृतस्नेहौ यास्येथे मद्गतिं पराम् ॥ [भागवतम् १०.३.४५]

ब्रह्मभावेन नराकृतिपरब्रह्मबुद्ध्या । परां प्रकटलीलातोऽन्यां
मद्गतिं लीलाम् ।

[१३५]

युवयोः प्रागंशेनाविर्भूतयोरपि मद्एकनिष्ठासीदित्याह

अजुष्टग्राम्यविषयावनपत्यौ च दम्पती ।
न वव्राथेऽपवर्गं मे मोहितौ देवमायया ॥ [भागवतम् १०.३.३९]

मम मायया मद्विषयस्नेहमय्या शक्त्येत्यर्थः । वैष्णवीं व्यतनोन्
मायां पुत्रस्नेहमयीं विभुर्[भागवतम् १०.८.४७] इति व्रजराज्ञीं प्रति च
दर्शनात् । तादृशस्नेहजनिकया मम कृपयेति वा । माया दम्भे कृपायां
च इति विश्वप्रकाशात् । तत्प्रेम्णैव ह्यपवर्गस्य तिरस्कारः सर्वत्र
श्रूयते, यद्यपि मोक्षवरणे हेतुरस्तीत्याह अजुष्टेति । विषयावेशाभावाद्
वैराग्योत्पत्तेरिति भावः ॥

॥ १०.३ ॥ श्रीभगवान् पितरौ ॥ १३४१३५ ॥

[१३६]

अथ श्रीगोपादीनामपि तन्नित्यपरिकरत्वम् । जयति जननिवास इत्यादाव्
एव व्यक्तम् । अतएवाह

तस्मान्मच्छरणं गोष्ठं मन्नाथं मत्परिग्रहम् ।
गोपाये स्वात्मयोगेन सोऽयं मे व्रत आहितः ॥ [भागवतम् १०.२५.१८]

स्पष्टम् ॥ १०.२५ ॥ श्रीभगवान् ॥ १३६ ॥

[१३७]

तथा

तत आरभ्य नन्दस्य व्रजः सर्वसमृद्धिमान् ।
हरेर्निवासात्मगुणै रमाक्रीडमभून्नृप ॥ [भागवतम् १०.५.१८]

हरेर्निवासभूतो य आत्मा तस्य ये गुणास्तैरेव सर्वसमृद्धिमान्, नित्य
योगे मत्वर्थीयेन नित्यमेव सर्वसमृद्धियुक्तः । श्रीनन्दस्य व्रजः
ततस्तं श्रीकृष्णप्रादुर्भावमारभ्य तु रमाक्रीडां

चिन्तामणिप्रकरसद्मसु कल्पवृक्ष
लक्षावृतेषु सुरभिरभिपालयन्तम् ।
लक्ष्मीसहस्रशतसम्भ्रमसेव्यमानमित्यत्र प्रसिद्ध्या ।

रमाणां महालक्ष्मीणां श्रीव्रजदेवीनामपि साक्षाद्विहारास्पदं
बभूव । हरिनिवासात्मनि तत्र श्रीकृष्णो यावन्निगूढतया विहरति स्म
तावत्ता अपि तथैव विहरन्ति स्म । व्यक्ततया तु ता अपि व्यक्ततयेत्यर्थः ।

॥ १०.५ ॥ श्रीशुकः ॥ १३७ ॥

[१३८]

एतदेव प्रपञ्चयति षड्भिः

अहो भाग्यमहो भाग्यं नन्दगोपव्रजौकसाम् ।
यन्मित्रं परमानन्दं पूर्णं ब्रह्म सनातनम् ॥ [भागवतम् १०.१४.३२]

भाग्यमनिर्वचनीया कापि श्रीकृष्णस्य कृपा । तस्य पुनर्उक्त्य्आदरेण
सर्वथैवापरिच्छेद्यत्वमुक्तम् । पूर्णपरमानन्दब्रह्मत्वेनैव
सनातनत्वे सिद्धे यत्पुनस्तद्उपादानं तन्मित्रपदस्यैव
विशेषणत्वेन लभ्यम् । अथवा विधेयस्य विशेषप्रतिपत्त्य्अर्थमनूद्यं
विशिष्यते । यथा मनोरमं सुवर्णमिदं कुण्डलं जातमिति कुण्डलस्यैव
मनोरमत्वं साध्यम् । तस्मादत्राप्यनूद्यस्य श्रीकृष्णाख्यस्य पर
ब्रह्मणः परमानन्दपूर्णत्वलक्षणं विशेषणद्वयं विधेयाया
मित्रताया एव तत्तद्भावं साधयतीति तद्एकार्थप्रवृत्तं सनातनत्वं
तस्यास्तद्भावं साधयेत् ।

किं चात्र मित्रमिति कालविशेषयोगनिर्देशाभावात्कालसामान्यमेव
भजते । ततश्च तस्य मित्रतालक्षणस्य विधेयस्य कालत्रयावस्थितत्वम्
एव स्पष्टम् । कालान्तरासंजननं तु कष्टम् । अत्र चोत्तरयोरर्थयोः श्री
कृष्णस्य सनातनत्वे शब्दलब्धे सति तदीयमैत्रीमतां परिकराणामपि
सनातनत्वं नासम्भवमपि श्रीरुक्मिणीप्रभृतीनां तथा दर्शनात् ।
(पगे ७०)

[१३९]

अहो अस्तु तावदेषां नित्यमेव श्रीकृष्णमैत्रीपरमानन्दम्
अनुभवतां भाव्यं, सम्प्रति अस्माकमपि तत्किमपि जातमित्याह

एषां तु भाग्यमहिमाच्युत तावदास्ताम्
एकादशैव हि वयं बत भूरिभागाः ।
एतद्धृषीकचषकैरसकृत्पिबामः
शर्वादयोऽङ्घ्र्य्उदजमध्व्अमृतासवं ते ॥ [भागवतम् १०.१४.३३]

एका अखण्डिता नित्येति यावत् । सा भाग्यमहिमा भाग्यमाहात्म्यमेषां
तावदास्तां सम्प्रति शर्वादयो दशदिक्पालदेवा एव वयं भूरिभागाः ।
परमभक्तत्वात्तेषु मुख्यत्वाच्च शर्वादय इत्युक्तम् । भूरि
भागत्वमेव दर्शयति हृषीकचषकैश्चक्षुर्आदिलक्षणपानपात्रैः
कृत्वा वयमप्येतत्साक्षादेव यथा स्यात्तथा ते तव अङ्घ्र्य्उदज
मध्व्अमृतासवमसकृत्पुनः पुनरिहागत्य पिबाम इति । चरण
सौन्दर्यादिकमेवातिमनोहरत्वात्मध्व्आदितया त्रिधापि रूपितं
समाहारद्वन्द्वेन । एतदिति चास्यैव वा विशेषणस्य । अत्र तुष्यतु दुर्जनः
इति न्यायेन श्रीव्रजवासिनां प्राकृतदेहित्वमतेऽपि तेषां करणैर्देवता
कर्तृकभोगो न युज्येत तस्य च नित्यत्वात्[Vस्२.४.१७] इत्यत्र श्री
शङ्कराचार्येण च करणपक्षस्यैव हि देवता न भोक्तृपक्षस्य इत्य्
आत्मनः एव भोक्तृत्वनिर्धारणात् ।


[१४०]

अतः पूर्वमपि तदस्तु मे नाथ स भूरिभागः [भागवतम् १०.१४.३०] इत्यादि यत्
प्रार्थितं तदेतदेवेत्याह

तद्भूरिभाग्यमिह जन्म किमप्यटव्यां
यद्गोकुलेऽपि कतमाङ्घ्रिरजोऽभिषेकम् ।
यज्जीवितं तु निखिलं भगवान्मुकुन्दस्
त्वद्यापि यत्पदरजः श्रुतिमृग्यमेव ॥ [भागवतम् १०.१४.३४]

अनेन श्रीगोकुलजन्मलाभादेव तव पादनिषेवालक्षणो याचितो भूरि
भागः सदैव सेत्स्यतीति सूचितम् ।

[षर्वसंवादिनी: तत्रावतीर्णः श्रीभगवान् तत्र इह श्रीमथुरा
मण्डले । तत्रापि अटव्यां श्रीवृन्दावने तत्रापि श्रीगोकुले । कथम्भूतं
जन्म ? गोकुलवासिनां मध्ये अपि कतमस्य यस्य कस्यापि अङ्घ्र्
रजसाभिषेको यस्मिन् तत् । Eन्द्ष्ष्.]

[१४१]

तस्मात्तेषां भागधेयं किं वर्णनीयम् । अहो येषां भक्त्या भवानपि
नित्यमृणितामापन्नो येषु रुद्ध एवास्ते इत्याह

एषां घोषनिवासिनामुत भवान् किं देव रातेति नश्
चेतो विश्वफलात्फलं त्वद्अपरं कुत्राप्ययन्मुह्यति ।
सद्वेषादपि पूतनापि सकुला त्वामेव देवापिता
यद्धामार्थसुहृत्प्रियात्मतनयप्राणाशयास्त्वत्कृते ॥ [भागवतम् १०.१४.३५]

सतां शुद्धचित्तानां धात्र्य्आदिजनानामिव वेषात् । [Vऋ. अद्द्स् लेभे गतिं
धात्र्य्उचिताम् [भागवतम् ३.२.२३] इति तृतीयोक्तेः [एन्द्Vर्.] । तस्मादनादिकल्प
परम्परागतत्वादवतारत एवैवं प्राप्तत्वेन तैरेकैरेव भक्ति
रुद्धत्वात्सनातनं मित्रमित्येवं साधूक्तम् । ततश्च तद्भूरि
भाग्यमित्यादिकमपि साध्वेव प्रार्थितमिति भावः ।

[षर्वसंवादिनी: इत्यत्र राता दाता त्व त्वत्तः । अयतितस्ततो गच्छत् । Eन्द्
ष्ष्.]

[१४२]

नन्वेषां मनुष्यान्तरवत्रागादिकं दृश्यते । कथं तर्हि स्वयं
भगवतो नित्यपरिकरत्वं तत्र कैमुत्यमाह

तावद्रागादयः स्तेनाः तावत्कारागृहं गृहम् ।
तावन्मोहोऽङ्घ्रिनिगडो यावत्कृष्ण न ते जनाः ॥ [भागवतम् १०.१४.३६]

स्तेनाः पुरुषसारहराः । अन्येषां प्राकृतजनानामपि तावदेव
रागादयश्चौरादयो भवन्ति यावत्ते जनास्ते तव न भवन्ति सर्वतो
भावेन त्वय्यात्मानं न समर्पयन्ति । समर्पिते चात्मनि तेषां
रागादयोऽपि त्वन्निष्ठा एवेति रागादीनां प्राकृतत्वाभावान्न चौरादित्वं
प्रत्युत परमानन्दरूपत्वम् (पगे ७१) एवेत्यर्थः । तथैव प्रार्थितं
श्रीप्रह्लादेन

या प्रीतिरविवेकानां विषयेष्वनपायिनी ।
त्वामनुस्मरतः सा मे हृदयान्नापसर्पतु ॥ [Vइড়् १.२०.१९] इति ।

अतो यदि साधकानामेवं वार्ता तदा किं वक्तव्यं, नित्यमेव तादृश
प्रियत्वेन सतां श्रीगोकुलवासिनामेवमिति । इत्थमेवोक्तम्

इति नन्दादयो गोपाः कृष्णरामकथां मुदा ।
कुर्वन्तो रममाणाश्च नाविन्दन् भववेदनाम् ॥ [भागवतम् १०.११.५८] इति ।

भवन्त्यस्मिन्निति भवः प्रपञ्चः । यद्यपि प्रपञ्चजनेष्वभिव्यक्तास्
ते तथापि तत्सम्बन्धिनी या वेदना विषयदुःखादिज्ञानं तां नाविन्दन्न्
इत्यर्थः । वेदना ज्ञानपीडयोः इति कोषज्ञाः ।

[१४३]

तर्हि कथं गोकुले प्रपञ्चवद्भानं लोकानां भवति तत्राह

प्रपञ्चं निष्प्रपञ्चोऽपि विडम्बयसि भूतले ।
प्रपन्नजनतानन्द सन्दोहं प्रथितुं प्रभो ॥ [भागवतम् १०.१४.३७]

प्रपञ्चादतीतोऽपि त्वं भूतले स्थितं प्रपञ्चं विडम्बयसि (जन्मादि
लीलया ममायं पिता ममेयं माता इत्यादि भावलिङ्गतः) स्वयमनेन
प्रस्तुतेन गोकुलरूपेणानुकरोषि । वस्तुतस्तु श्रीगोकुलरूपमिदं तव
स्वरूपं प्रपञ्चवदेव भाति न तु प्रपञ्चरूपमेवेति तात्पर्यम् ।
तद्वच्च भानं किमर्थं तत्राह प्रपन्नेति । एतादृशलौकिकाकार
लीलयैव हि प्रपन्नजनवृन्दस्य परमानन्दो भवतीत्येतदर्थम् ।
तस्मात्साधूक्तमहो भाग्यमित्यादि ।

॥ १०.१४ ॥ ब्रह्मा श्रीभगवन्तम् ॥ १३८१४३ ॥

[१४४]

अतएवाह

तासामविरतं कृष्णे कुर्वतीनां सुतेक्षणम् ।
न पुनः कल्पते राजन् संसारोऽज्ञानसम्भवः ॥ [भागवतम् १०.६.४०]

तासां श्रीगोपपुरस्त्रीणां संसारः संसारित्वं प्रापञ्चिकत्वं न पुनः
कल्प्यते न तु घटते, किन्तु अप्रापञ्चिकत्वमेव घटत इत्यर्थः ।
यतोऽसावज्ञानसम्भवः । तासां तु कथम्भूतानां ? अज्ञानतमः
सूर्यस्य ज्ञानस्योपरिविराजमानो यः प्रेमा तस्याप्युपरि वर्तमानं यत्
सुतेक्षणं पुत्रभावो वात्सल्याभिधः प्रेमा तदेव तत्राप्यविरतं
नित्यमनादित एव श्रीकृष्णे कुर्वतीनामिति ॥

[Vर्. हेरे अद्द्स्: इति स्थिते तन्नामसिद्धश्रीकृष्णनामविशेषाङ्कित
विदितानां श्रीकृष्णेन सहान्तरङ्गतया तन्महायोगपीठध्येयानां
तद्वदन्यास्वपि लीलासु तादृशतया दर्शयितव्यानां तासां श्रीकृष्ण
प्रेयसीनां तु किं वक्तव्यम् । Vऋ. सेच्तिओनेन्द्स्.]

॥ १०.६ ॥ श्रीशुकः ॥ १४४ ॥

[१४५]

यस्मादेवं श्रीगोपादीनां तदीयनित्यपरिकरत्वं (पगे ७२) तस्मादेतत्
प्रकरणत्वसिद्धदेहानां साधकचरीणां कासांचिदपेक्षया । यद्वा
एतदभिप्रायं तच्च अन्तर्गृहगता [भागवतम् १०.२९.९] इत्यादिकं, न चैवं
विस्मयः कार्यः [भागवतम् १०.२९.१६] इत्याद्य्अन्तम् ।

[षर्वसंवादिनी:
अन्तर्गृहगताः काश्चिद्गोप्योऽलब्धविनिर्गमाः ।
कृष्णं तद्भावनायुक्ता दध्युर्मीलितलोचनाः ॥
दुःसहप्रेष्ठविरहतीव्रतापधुताशुभाः ।
ध्यानप्राप्ताच्युताश्लेषनिर्वृत्या क्षीणमङ्गलाः ॥
तमेव परमात्मानं जारबुद्ध्यापि सङ्गताः ।
जहुर्गुणमयं देहं सद्यः प्रक्षीणबन्धनाः ॥
राजोवाच
कृष्णं विदुः परं कान्तं न तु ब्रह्मतया मुने ।
गुणप्रवाहोपरमस्तासां गुणधियां कथम् ॥
श्रीशुक उवाच
उक्तं पुरस्तादेतत्ते चैद्यः सिद्धिं यथा गतः ।
द्विषन्नपि हृषीकेशं किमुताधोक्षजप्रियाः ॥
नॄणां निःश्रेयसार्थाय व्यक्तिर्भगवतो नृप ।
अव्ययस्याप्रमेयस्य निर्गुणस्य गुणात्मनः ॥
कामं क्रोधं भयं स्नेहमैक्यं सौहृदमेव च ।
नित्यं हरौ विदधतो यान्ति तन्मयतां हि ते ॥
न चैवं विस्मयः कार्यो भवता भगवत्यजे ।
योगेश्वरेश्वरे कृष्णे यत एतद्विमुच्यते ॥ [भागवतम् १०.२९.९१६] Eन्द्ष्षद्दितिओन्.]

[Vर्. रेप्लचेसबोवे परग्रफ्wइथ्थे fओल्लोwइन्ग्: तदेवमेव तासां श्री
कृष्णवदानन्दविग्रहाणां तैरेव विग्रहैः श्रीकृष्णसङ्गः प्रोक्तः ।
उक्तं च तासां विग्रहमाहात्म्यं तत्रातिशुशुभे ताभिर्भगवान् देवकी
सुतः [भागवतम् १०.३३.६] इत्यादिभिः । श्रीमद्उद्धवेन च तान्नमस्यता
प्रथममेताः परं तनुभृतः [भागवतम् १०.४७.५८] इत्यनेन तासामेव परम
तनुभृतत्वं प्रदर्श्य मध्ये क्वेमाः स्त्रियः [भागवतम् १०.४७.५९] इत्यनेन
परमतमनूद्य तत्खण्डयता नायं श्रियोऽङ्ग [भागवतम् १०.४७.६०] इत्यनेन
लक्ष्मीतोऽपि विलक्षणं तासु तत्प्रेयसीरूपत्वं प्रदर्श्य परमनित्यत्वं
स्थापयित्वा तत्र च यः प्रसाद उदगातित्यनेन तत्प्रसादस्य
सदान्तर्भूय स्थायित्वं सूचयित्वा पुनः आसामहो चरण [भागवतम् १०.४७.६१] इत्य्
आदिना स्वीयपरमपुरुषार्थचरणरेणुत्वं दर्शितम् । यत्र भेजुर्
मुकुन्दपदवीं श्रुतिभिर्विमृग्याम् [भागवतम् १०.४७.६१] इत्यनेन यदेव
पुरुषार्थतया स्थापितम् । यत्र वृन्दावने इत्यादिना वृन्दावनस्य च
तादृशत्वं स्थापितम् । तदेतद्व्यतिरेकेण द्रढयितुमन्यासाम्
आगन्तुकानामसिद्धदेहानां विग्रहत्यागेनैव तत्सङ्गप्राप्तिरित्याह
अन्तर्गृहगता [भागवतम् १०.२९.९] इत्यादिकेन, न चैवं विस्मयः कार्यः [भागवतम्
१०.२९.१६] इत्याद्य्अन्तेन । अन्तर्गृहगताः शुश्रूषन्त्यः पतीन् काश्चितित्य्
अत्रोक्ता इत्यर्थः । विशेषव्याख्या च क्रमसन्दर्भे दर्शयिष्यते । Vऋ.
सेच्तिओनेन्द्स्.]

अत्र अन्तरिति स्फुटमेव । अशुभं [भागवतम् १०.२९.१०] श्रीकृष्णप्राप्ताव्
अन्तरायरूपं गुरुभयादिकम् । मङ्गलं श्रीकृष्णप्राप्तौ साधनं
सख्यादिसाहाय्यचिन्तनम् । न कर्मबन्धनं जन्म वैष्णवानां च
विद्यते [ড়द्मড়् ६.२२९.५८] इति ह्युक्तमेव । दृश्यते चान्यत्रापि तद्
असम्भवस्थले तच्छब्दप्रयोगः वत्स्यत्युरसि मे भूतिर्भवत्पाद
हतांहसः [भागवतम् १०.८९.११] इत्यादौ । तत्र यथा श्रीभगवद्वाक्य
याथार्थ्यायार्थान्तरमनुसन्धेयं तद्वदिहापीति ।

परमात्मानम् [भागवतम् १०.२९.११] इति ब्रह्मस्तम्बान्तनिर्दिष्टसिद्धान्तरीत्या
श्रीकृष्णस्य स्वभावत एव परमप्रेमास्पदत्वं दर्शितम् । जार इति या
बुद्धिस्तयापि तन्मात्रेणापि सङ्गताः न तु साक्षादेव जाररूपेण प्राप्तिर्
इति । तद्भावपुरस्कारेण भजनस्य प्राबल्यं व्यञ्जितम् । जारशब्देन
निर्देशात्लोकधर्ममर्यादातिक्रमं दर्शयित्वा तथाविध
भावस्यातिनिरर्गलत्वं दर्शितम् । बन्धनं श्रीकृष्णप्राप्तिविरोधिगुरु
जनमध्यवासादिरूपम् ।

अत्र गुणमयं देहं जहुरित्यत्र राज्ञः सन्देहः कृष्णं विदुर्[भागवतम्
१०.२९.१२] इति । हे मुने, ताः श्रीकृष्णं परं केवलं कान्तं निगूढ
वल्लभं विदुर्न तु ब्रह्मेति । तर्हि कथं तासां गुणप्रवाहस्योपरमः
सम्भवति ? यस्य ब्रह्मभावना स्यात्तत्र तस्य निर्गुणस्यैवोदयाद्
भवेत्प्राचीनमायिकगुणप्रवाहोपरमः । तासु तु कान्ततयैव
भावयन्तीषु प्राकृतगुणातीतगुणस्यैव तस्योदयात्प्राकृतगुणाभावेऽपि
तद्गुणानुबन्धगुणत्वात्परमपुरुषार्थानुगतानां तेषां गुणानां
कथमुपरम इत्यर्थः । यद्वा तासां गुणप्रवाहः कथमुपरमः
पारमर्थिको न भवति, येन ततो मुक्तिं कथयसीति भावः । ब्रह्मतया
वेदनावैलक्षण्यं प्रतिपादयति गुणधियां ब्रह्मनिष्ठाया अपि त्याजके
तस्य परमसौन्दर्यादिगुणे धीश्चेतो यासाम् । तत्रोत्तरमुक्तिमिति ।
पुरञ्जनेतिहासादिवद्दुरूहत्वात्स्वयमुक्तस्य व्याख्यानमिदम् ।
एवं हि दृष्टान्तबलेन लभ्यते । यथा चैद्यशब्देनात्र कारुषोऽपि गृहीतः
तौ च जयविजयौ तयोश्च

देहेन्द्रियासुहीनानां वैकुण्ठपुरवासिनाम् ।
देहसम्बन्धसम्बद्धमेतदाख्यातुमर्हसि ॥ [भागवतम् ७.१३.३४]

इति श्रीयुधिष्ठिरप्रश्नदृशा त्वप्राकृतविग्रहत्वेनानश्वरविग्रहयोर्
एव सतोः

भगवाननुगावाह यातं मा भैष्टमस्तु शम् ।
ब्रह्मतेजः समर्थोऽपि हन्तुं नेच्छे मतं तु मे ॥ [भागवतम् ३.१६.२९]

इति भगवद्उक्त्य्अनुसारेण । इत्थं जयविजयौ सनकादिशापव्याजेन
केवलं भगवतो लीलार्थं संसृताववतीर्य इति पाद्मोत्तरखण्ड
गद्यानुसारेण च स्वभक्तचित्ताकर्षविनोदाय युद्धादिक्रीडा
निमित्ततया तस्य दुर्घटघटनाकारिण्येच्छया एव वारत्रयं स्वीयस्य
अणिमादिसिद्धिमयपरमज्योतिर्देहस्य गुणमयपार्थिवदेहान्तर
प्रवेशः ।

अतएव सप्तमे कृष्णचक्रहतांहसौ [भागवतम् ७.१.४५] इत्यत्र टीका च कृष्ण
चक्रेण (पगे ७३) हतमंहो ययोस्तौ । तयोः पापमेव हतं न तु तौ इत्य्
एषा ।

तथा तद्अर्थमेव श्रीकृष्णेच्छयैवात्रापि तासामप्राकृतविग्रहाणाम्
एव तद्अभिसारप्रतिरोधसमये

नासूयन् खलु कृष्णाय मोहितास्तस्य मायया ।
मन्यमानाः स्वपार्श्वस्थान् स्वान् स्वान् दारान् व्रजौकसः ॥ [भागवतम् १०.३३.३७]
इतिवत् ।

तात्कालिककल्पितो यो गुणमयो देहस्तत्र प्रवेशः । इममेवापेक्ष्य
दार्ष्टान्तिकेऽप्युक्तं जहुर्गुणमयं देहम् [भागवतम् १०.२९.११] इति, विशेषण
वैयर्थ्यान्न तु स्वमित्यर्थः । तत्र च यथा तयोः सह द्वेषाभासस्
तस्याप्यनुस्मरणस्य (सद्वेषस्याप्यनुस्मरणस्य) प्रभावेन
तादृशोपाधिपरित्यागात्ततोऽन्तर्धाय भगवत्प्राप्तिस्तथा सुतरामेव
सप्रीतेस्तस्य प्रभावेन तत्प्राप्तिः । अत्र च भक्तचित्ताकर्षणमेवं
सम्भवति अहो तादृशोऽसौ श्रीकृष्णे मधुरिमा येन ताः स्व
साक्षात्काराय प्राणानपि त्याज्यन्ते स्मेति ।

नॄणाम् [भागवतम् १०.२९.१४] इति सामान्यतो जीवानामेव निःश्रेयसाय व्यक्तौ
सत्यां भक्तानां तु सुतरामेवेत्यायातम् । अन्यथा तस्य व्यक्तिरेव न
सम्भवेदित्याह । अव्ययस्येति । निर्गुणस्य प्राकृतगुणरहितस्य
गुणात्मनः । तत्र ये चैश्वर्यादयो गुणास्ते आत्मनः स्वरूपाण्येव यस्य
तस्य ।

तर्ह्येतादृशलीलया कथं नॄणां निःश्रेयसं भवति । उच्यते । एतद्
बोधनेन भवतीत्याह कामम् [भागवतम् १०.२९.१५] इति । अत्र तन्मयताशब्देन
तत्प्रचुरतोच्यते । तत्र कामस्नेहादिषु तद्अनुरक्तात्मतेति पर्यवसानं
स्त्रीमयो जाल्म इतिवत् । क्रोधभयैक्येषु ते प्रायस्तत्प्रलीनतेति दुग्ध
मयं जलमितिवत् । एकस्यैव शब्दस्य विशेषणवशादर्थभेदश्च
युज्यते स्याच्चैकस्य ब्रह्म शब्दवद्[Vस्. २.३.४] इति न्यायेन । क्रोध
भययोरत्र पठनमन्येषु कैमुत्यापादनायैव न तु तद्उपदेश
विवक्षया । न च श्रीगोपिकादीनां ये कामादयो भावास्तद्अनुसरणेनान्ये
कृतार्था भवन्तीति चित्रमित्याह । न चेति । किं वक्तव्यमेकेषां विमुक्तिर्
जगतोऽपि सम्भवतीत्याह यत इति ।

[Vऋ. अद्द्स्: एके तु प्रकटलीलायामाराधनपाकादागन्तुकस्य एवैता न
तु नित्यसिद्धवत्सच्चिद्आनन्ददेहं प्राप्ताः । ततो न दोष इति वर्णयन्ति ।
[एन्द्Vऋ. अद्दितिओन्.]

॥ १०.२९ ॥ श्रीशुकः ॥ १४५ ॥

[१४६१५०]

अथ पूर्ववदिहापि श्रीव्रजेश्वरादीनां प्राचीनजन्मादिकं व्याख्येयम् ।
तथा हि

त्रय्या चोपनिषद्भिश्च साङ्ख्ययोगैश्च सात्वतैः ।
उपगीयमानमाहात्म्यं हरिं सामन्यतात्मजम् ॥ [भागवतम् १०.८.४५] इत्येतत्,

नेमं विरिञ्चो न भवः [भागवतम् १०.९.२०] इति वक्ष्यमाणानुसारिमहा
माहात्म्यं श्रुत्वा विस्मितमनाः श्रीराजोवाच

नन्दः किमकरोद्ब्रह्मन् श्रेय एवं महोदयम् ।
यशोदा च महाभागा पपौ यस्याः स्तनं हरिः ॥
पितरौ नान्वविन्देतां कृष्णोदारार्भकेहितम् ।
गायन्त्यद्यापि कवयो यल्लोकशमलापहम् ॥ [भागवतम् १०.८.४६७]

ययोः प्रसन्नोऽवतीर्णस्तौ पितरावपि । तदेवं प्रश्नमवधार्य श्री
शुक उवाच

द्रोणो वसूनां प्रवरो धरया भार्यया सह ।
करिष्यमाण आदेशान् ब्रह्मणस्तमुवाच ह ॥ [भागवतम् १०.८.४८]

आदेशान् गोपालनादिलक्षणान् । किमुवाच तदाह

जातयोर्नौ महादेवे भुवि विश्वेश्वरे हरौ ।
भक्तिः स्यात्परमा लोके ययाञ्जो दुर्गतिं तरेत् ॥ [भागवतम् १०.८.४९]
(पगे ७४)
स्पष्टम् । ततश्च

अस्त्वित्युक्तः स एवेह व्रजे द्रोणो महायशाः ।
जज्ञे नन्द इति ख्यातो यशोदा सा धराभवत् ॥
ततो भक्तिर्भगवति पुत्रीभूते जनार्दने ।
दम्पत्योर्नितरामासीद्गोपगोपीषु भारत ॥ [भागवतम् १०.८.५०५१]

अन्येषां यः पुत्रो नासीत्तस्मिंस्तु तयोः पुत्रतां प्राप्त इति च्वि
प्रत्ययार्थः । भक्तिविशेषमात्रेणैवोदयविशेषनियमात् ।
वात्सल्याभिधप्रेमविशेषेणैव श्रीकृष्णः पुत्रतयोदेति, न तु स्व
देहादावाविर्भावेन, हिरण्यकशिपुसभास्तम्भे श्रीनृसिंहस्य ब्रह्मणि
श्रीवराहस्य च पितृत्वाप्रयोगात् । न च गर्भप्रवेशेन परीक्षिद्
रक्षणार्थं तत्प्रविष्टस्यापि तस्योत्तरामातृत्वाश्रवणात् । तादृशप्रेमा
तु शुद्धः समुद्रिक्तश्च श्रीव्रजेश्वरयोरेव । अतएव गर्भ
प्रवेशादिकं विनापि तयोः पुत्रतया तस्य प्रसिद्धिः । यथा नन्दस्त्व्
आत्मज उत्पन्न [भागवतम् १०.५.१] इत्यादौ, तथोपासना च यथा सकललोक
मङ्गलो नन्दगोपतनयः इत्यादौ । न त्वेवं स्तम्भादेः ।

किं च श्रीमदानकदुन्दुभिप्रभृतिष्वाविर्भावोऽपि न प्राकृतवत्
तदीयचरमधात्व्आदौ प्रवेशः । किं तर्हि, सच्चिद्आनन्दविग्रहस्य
तस्य तन्मनस्यावेश एव । तदुक्तम्

ततो जगन्मङ्गलमच्युतांशं
समाहितं शूरसुतेन देवी ।
दधार सर्वात्मकमात्मभूतं
काष्ठा यथानन्दकरं मनस्तः ॥ [भागवतम् १०.२.१८] इति ।

ततः श्रीनारदप्रह्लादध्रुवादिषु दर्शनात्सर्वसम्मतत्वात्तादृश
प्रेमविषयत्वेन साक्षात्श्रीभगवद्आविर्भावाव्यवहितपूर्वप्रचुर
कालं व्याप्य सन्ततस्तद्आवेशः श्रीव्रजेश्वरयोरप्यवश्यमेव
कल्प्यते । ब्रह्मवरप्रार्थनयापि तदेव लभ्यत इति समान एव
पन्थाः । वात्सल्यं त्वत्राधिकं, येन विना तस्य पुत्रभावो न
सम्भवतीत्यत्रैव पुत्रतां मन्यामह इति पुत्रीभूत इत्यस्य भावः ।
इदं प्रकटायामेव लीलायां समाहितम्, अप्रकटायां तु तयोर्नित्य
सिद्धत्वे एव पुरतोऽवधारयिष्यमाणे लक्ष्मीविष्णोरनादितया आदिरस
सिद्धदाम्पत्यवत्श्रीव्रजेश्वरयोस्तस्य चानादितो वत्सलरससिद्धपितृ
पुत्रभावो विद्यत एव । अतः पुत्रभूत इति च क्वचित्पाठः ।

[Vऋ. अद्द्स्हेरे: प्रागयं वसुदेवस्य क्वचिज्जातस्तवात्मजः [भागवतम् १०.८.१४] इत्य्
अत्र सत्यवचसः श्रीगर्गस्याप्ययमभिप्रायः । श्रीदेवक्यामुपसंहर
विश्वात्मन्नदो रूपमलौकिकम् [भागवतम् १०.३.३०] इति प्रार्थितवत्यां श्री
भगवान् श्रीदेवकीमनसि स्फुरितचरं सम्प्रति बहिश्चाविर्भूतं
चतुर्भुजत्वमन्तर्भाव्य श्रीव्रजेश्वरीमनसि स्फुरितं द्विभुजत्वं
तत्राविर्भावितवान् । तस्यास्त्वरया मनसि स्फूर्तिभेदश्च तथा
तथाविर्भावभेदाद्गम्यते । फलेन फलकारणमनुमीयते इति । Eन्द्
Vऋ. अद्दितिओन्.]

अतएव न ह्यस्यास्ति प्रियः कश्चिद्[भागवतम् १०.४६.३७] इत्यादि प्रकरणे,

युवयोरेव नैवायमात्मजो भगवान् हरिः ।
सर्वेषामात्मजो ह्यात्मा पिता माता स ईश्वरः ॥ [भागवतम् १०.४६.४२]

इत्येतत्श्रीव्रजेश्वरौ प्रति श्रीमद्उद्धववाक्यं तद्औदासीन्य
प्रकटनेनापातसान्त्वनमात्रतात्पर्यकबाह्यार्थमपि वास्तवम्
अर्थं त्वेवं वहति । पूर्वोक्तप्रकारेणायं प्रियाप्रियादिमातापित्रादि
(पगे ७५)रहितोऽपि भगवान् हरिः यः सोऽयं कृष्णरूपत्वेन विशेषाकारः
सन् युवयोरेवात्मजो नैव सर्वेषाम् । स एवेश्वररूपत्वेन सामान्याकारस्
तु सर्वेषामात्मजादिसर्वरूपः स्यात् । किन्तु परत्र मायामयत्वात्
नास्माकमादरः । पूर्वत्र तु मुमुक्षुमुक्तभक्तश्लाघ्य
प्रेममयत्वादत्यादर इति भावः । तथोक्तं प्रागेव

तयोरित्थं भगवति कृष्णे नन्दयशोदयोः ।
वीक्ष्यानुरागं परमं नन्दमाहोद्धवो मुदा ॥
युवां श्लाघ्यतमौ नूनं देहिनामिह मानद ।
नारायणेऽखिलगुरौ यत्कृता मतिरीदृशी ॥ [भागवतम् १०.४६.२९३०] इति ।

तथा

स पिता सा च जननी यौ पुष्णीतां स्वपुत्रवत् ।
शिशून् बन्धुभिरुत्सृष्टानकल्पैः पोषरक्षणे ॥ [भागवतम् १०.४५.२२]

इति श्रीव्रजेश्वरं प्रति श्रीकृष्णरामाभ्यां सान्त्वनं च । श्रीरामस्यैव
परपुत्रमपेक्ष्येति ज्ञेयम् । यथोक्तं तत्रैव तेन

यात यूयं व्रजं तात वयं च स्नेहदुःखितान् ।
ज्ञातीन् वो द्रष्टुमेष्यामो विधाय सुहृदां सुखम् ॥ [भागवतम् १०.४५.२३] इति ।

द्रष्टुमेष्यामः । मम तत्रागमनस्य भवद्दर्शनमेव पुरुषार्थ
इत्यनेन युष्मानपश्यन्त एव स्थास्याम इत्यर्थः ।
[Vऋ. अद्दितिओन्: यद्वा तथापि भूमन्महिमागुणस्य ते विबोद्धुमर्हति
[भागवतम् १०.१४.६] इत्यत्र विबोद्धुं बोधगोचरीभवितुमितिवद्द्रष्टुं
दर्शनगोचरीभवितुमित्यर्थः । तत्र हेतुः ज्ञातीनिति । Eन्द्Vऋ.
अद्दितिओन्.]

तस्मादनयोरेव मुख्यं पुत्रत्वं श्रीकृष्णे विराजते इति सिद्धम् ।
प्रकृतमनुसरामः । गोपगोपीनामपि तस्मिन् प्रेमासीदेव । दम्पत्योस्
तयोस्तु तास्वपि नितरामासीदिति । उपसंहरति

कृष्णो ब्रह्मण आदेशं सत्यं कर्तुं व्रजे विभुः ।
सहरामो वसंश्चक्रे तेषां प्रीतिं स्वलीलया ॥ [भागवतम् १०.८.५२]

स्वेषु भक्तजनविशेषेषु या लीला तद्भक्तिविशेषवशलीलाविशेषस्तयैव
तेषां सर्वेषामपि प्रीतिं चक्रे । द्वावपि तौ प्रति तेन वरदानादिति
भावः । यद्यप्येवं तथापि ब्रह्मण आदेशं सत्यं कर्तृ महद्आशीर्
अन्यथा न स्यादिति दर्शयितुमपीत्यर्थः । यद्वा स्वलीलया तेषां प्रीतिं
कर्तुं व्रजे वसन् ब्रह्मण आदेशं सत्यं चक्रे । तदनुषङ्गतः स्वयम्
आदृत्य सर्वत्राव्यभिचारिणं चकारेति ।

॥ १०.८ ॥ श्रीशुकः ॥ १४६१५० ॥

[१५११५२]

तदेतत्कारणं तद्आभासमेव मन्यमानस्तयोर्ब्रह्मादिभ्योऽपि
सौभाग्यातिशयस्य ख्यापनार्थमनन्तरमेव एकदा गृहदासीषु [भागवतम्
१०.९.१] इत्याद्य्अध्यायमारब्धवान् । तत्रैव च साक्षाच्छ्रीभगवद्
बन्धनरूपमहावशीकरणकारणवात्सल्यमपि विदितं, तेन
ब्रह्मणोऽपि शिवलक्ष्मीभ्यामपि दुर्लभं भगवत्प्रसादभरमाह


नेमं विरिञ्चो न भवो न श्रीरप्यङ्गसंश्रया ।
प्रसादं लेभिरे गोपी यत्तत्प्राप विमुक्तिदात् ॥ [भागवतम् १०.९.२०]

स आदिदेवो जगतां पुरो गुरुर्[भागवतम् २.९.५] इत्युक्तेः विरिञ्चिस्तावद्भक्तादि
गुरुः । (पगे ७६) स च भवस्तु वैष्णवानां यथा शम्भुः [भागवतम् १२.१३.१६]
इत्यादिदर्शनात्ततोऽप्युत्कर्षवान् । सा च श्रीस्तु तयोरपि भगवद्भक्ति
शिक्षानिदर्शनप्रथमरूपत्वात्परमोत्कर्षवती । तदेवमुत्तरोत्तर
विन्यासेन यथोत्तरमहिमानं सूचयित्वा श्रीस्तु न केवलं भक्तिमात्रेण
तादृश्येव । किं तर्हि परमसख्येन ततोऽप्यनिर्वचनीयमाहात्म्येत्य्
आह । अङ्गसंश्रयेति । एवंभूतापि सा च प्रसादं लेभिरे एव । कस्मात्?
विमुक्तिदात्

अस्त्वेवमङ्ग भजतां भगवान्मुकुन्दो
मुक्तिं ददाति कर्हिचित्स्म न भक्तियोगम् । [भागवतम् ५.६.१८]

इत्युक्तरीत्या प्रायो विमुक्तिमेव ददाति न तु तथाभूतं प्रसादं, तस्मात्
श्रीभगवत एव किन्तु गोपी श्रीगोपेश्वरी यत्तदनिर्वचनीयं प्रसाद
शब्देनापि वक्तुं शङ्कनीयं, तस्मात्प्राप, तद्रूपप्रसादं विरिञ्चिश्च
भवश्च श्रीश्च न लेभिरे न लेभिरे ने लेभिरे इत्यर्थः । लेभिरे इत्यस्य
प्रत्येकं नञ्त्रयेणान्वयः । नञस्त्रिर्आवृत्तिश्च निषेधस्यातिशयार्था ।
पूर्वोत्तराध्यायद्वये श्र्बादरायणेर्विवक्षितमिदम् । द्रोणधरयोस्
तावत्साधारणदेवतात्वं चेत्तर्हि तयोः श्रीशिवादिदुर्लभ
चरणारविन्दस्फूर्तिलेशस्य श्रीकृष्णस्य तथा प्राप्तौ स्वतः सम्भावना
नास्ति । न च तयोस्तादृशगाढभजनादिकं कुत्रचिद्वर्ण्यते । अन्यथा तद्
एवाहमाख्यास्यम् । न च ताभ्यां यदीदृशं फलं लब्धं तद्ब्रह्मणि
पूर्वं प्रार्थितं, किन्तु दुर्गतितरणहेतुत्वेनोत्तमभक्तिमात्रम् । न
च ब्रह्मापि श्रीकृष्णस्य महाभक्तैरपि दुर्लभपुत्रत्वादिकं विशिष्य
ताभ्यां वरं दत्तवान् । न च नेमं विरिञ्चिः इत्यादिनोच्यमानतादृश
प्रसादाप्तिराहित्यस्य ब्रह्मणो वरस्तादृशफलदाने भवति समर्थः ।
वक्ष्यते च तत्प्रसादाप्तिराहित्यातिशयः । तद्भूरिभाग्यमिह जन्म किम्
अप्यटव्यां यद्गोकुलेऽपि कतमाङ्घ्रिरजोऽभिषेकम् [भागवतम् १०.१४.३४] इत्य्
आदिना । तस्मात्तयोस्तादृशमहोदये कारणं नास्ति किन्तु निष्कारणत्वेन
तयोर्नित्यामेव तादृशीं स्थितिं विज्ञाय मया श्रीभगवल्लीलयैव [Vऋ.
अद्द्स्: स्वभक्तिविशेषप्रचारकारणकश्रीभगवद्इच्छयैव एन्द्
अद्दितिओन्.] द्रोणधरारूपेणांशेनैवावतीर्णयोरैक्यविवक्षया यथा
कथञ्चित्कारणाभास एवोपन्यस्त इति । किं च श्रीमद्भागवतेऽस्मिन् श्री
भगवत्प्रेमैव सर्वपुरुषार्थशिरोमणित्वेनोद्घुष्यते । तस्य च
परमाश्रयरूपं श्रीगोकुलमेव । तत्रापि श्रीव्रजेश्वरौ । ततस्तत्
परमाश्रयनित्यत्वे सिद्ध एव तादृशग्रन्थप्रयत्नः सकलः स्यात् । यत
एव श्रीब्रह्मादिभिस्तत्र यत्किञ्चिज्जन्म प्रार्थ्यते इति । तस्मात्स्वाभाविक्य्
एव तयोस्तादृशी स्थितिरिति प्रतिपादयंस्तत्सम्बन्धेनैव भजतां
सुखापो नान्येषामित्याह

नायं सुखापो भगवान् देहिनां गोपिकासुतः ।
ज्ञानिनां चात्मभूतानां यथा भक्तिमतामिह ॥ [भागवतम् १०.९.२१]

सुखेनाप्यत इति सुखापः । अयं श्रीगोपिकासुतः भगवान् देहिनां
देहाभिमानिनां तपादिना न सुखापः न सुलभः किन्तु तैरतिचिरेणैव
तेन शुद्धेऽन्तःकरणे कथञ्चिद्(पगे ७७) भक्तावलोकनलेशेन जातसद्
बुद्धिभिस्तदेव तपादिकं तस्मिन्नर्पयद्भिः कथञ्चिदेवासौ
लभ्यते । तथा आत्मभूतानामाविर्भूताद्वैतवृत्तीनां निवृत्त
देहाभिमानानां ज्ञानिनामपि तादृशेन ज्ञानेन न सुखापः किन्तु
पूर्वेणैव करणेन जाततद्आसत्तिभिस्तेन ज्ञानेन यद्ब्रह्म स्फुरति तद्
एवायमिति चिन्तयद्भिस्तैः कथञ्चिदेवासौ लभ्यते । ततश्च द्वयोरपि
तयोः साधनयोर्हीनत्वात्तल्लाभश्च न साक्षात्किन्तु केनचिदंशेन
व्यञ्जितं ते प्राप्नुवन्ति मामेव सर्वभूतहिते रताः [गीता १२.४],
क्लेशोऽधिकतरस्तेषामव्यक्तासक्तचेतसाम् [गीता १२.५] इति श्रीभगवद्
उक्तेः । शाब्दे परे ब्रह्मणि धर्मतो व्रतैः स्नातस्य मे न्यूनमलं
विचक्ष्व [भागवतम् १.५.७] इति श्रीव्यासप्रश्नानन्तरात् ।

भवतानुदितप्रायं यशो भगवतोऽमलम् ।
येनैवासौ न तुष्येत मन्ये तद्दर्शनं खिलम् ॥ [भागवतम् १.५.८]

इति श्रीनारदप्रतिवचनाच्च । सुखापस्तु केषामित्यपेक्षायां
निदर्शनमाह इह गोपिकासुते भक्तिमतां यथा [Vऋ एदितिओन् हेरे अद्द्स्:
तथा च श्रीब्रह्मोक्तिः ज्ञाने प्रयासमुदपास्य [भागवतम् १०.१४.३] इत्यादि, श्री
नारदोक्तिश्च यजते यज्ञपुरुषं स सम्यग्दर्शनः पुमान् [भागवतम् १.५.३८]
इति । Vऋ अद्दितिओनेन्द्स्.] सुखाप इति श्रीगोपिकायास्तु सुखाप इति किं
वक्तव्यम् । तस्याः सुत एवायं भगवानित्यतो गोपिकासुत इति विशेषणं
दत्तम् ।

सुखमापयतीति वा सुखापः । यतश्चायं न देहाभिमानिनां सुखापः
यतो गोपिकासुतस्तत्सुतत्वलीलायाः स्वसाधारणदृष्ट्यानादरात् । तथा
ज्ञानिनामपि न सुखापः यतो गोपिकासुतः सर्वात्मैकवृत्त्य्उदयेन
भगवत्स्वरूपानन्दवैचित्रीसारोपरिचरतल्लीलातत्त्वानुभवात् । यथेह
श्रीगोपिकासुते भक्तिमतामिति निदर्शनम् ।

सुखेनाप्यते ज्ञायते इति वा सुखापः सुबोधः । ततश्चायं
देहाभिमानिभिस्[Vऋ. अद्दितिओन्] तर्कादिना न सुबोधः । तथा ज्ञानिभिरपि
ज्ञानेन न सुबोधः । तत्र पूर्ववद्धेतुर्गोपिकासुत इति । देहेभिः
देहाभिमानिभिरपि । [एन्द्Vऋ. अद्दितिओन्] तत्तद्अलौकिककर्मलिङ्गकात्
तर्कात्ज्ञानिभिरप्यनावृतब्रह्मत्वावगमात्सुबोध एव । सत्यं तथापि
यथेह श्रीगोपिकासुते भक्तिमद्भिः सुबोधस्तथा न । ते हि श्रीकृष्ण
भक्ताः स्वसुखनिभृतचेतास्तद्व्युदस्तान्यभावोऽप्यजितरुचिर
लीलाकृष्टसारः [भागवतम् १२.१२.६९] इत्यादिदर्शनात्तादृशलीलानुभवस्यैव
परमपुरुषार्थत्वमवगच्छन्तीति भावः । अत्रार्थत्रयोऽपीहपदेन
श्रीपरव्योमनाथादिभक्तिमन्तोऽपि व्यावृत्ताः । गोपिकासुत इति विशेषणेन
च त्रैकालिकतद्भक्तानां तत्सम्बन्धिसुखापत्वं प्रति तत्सुतत्वायोग
तद्अन्यत्वयोगौ व्यवच्छिद्येते । इत्यतो विद्वद्अनुभवयाथार्थ्येन नित्य
एव तत्सम्बन्धो विवक्षितः । (पगे ७८)

अतएवायं गोपिकासुत इति स्वयमपि साक्षादङ्गुल्या निर्दिश्यते । तस्मादपि
साधूक्तं नित्य एव श्रीव्रजेश्वरयोस्तत्सम्बन्ध इति । अत्र एकदा गृह
दासीषु [भागवतम् १०.९.१] इत्यादिकम्, नेमं विरिञ्चः [भागवतम् १०.९.२०] इत्यादि पद्य
द्वयान्तमिदमुत्तरवाक्यं, द्रोणो वसूनां प्रवरः [भागवतम् १०.८.४८] इत्य्
आदिकस्य पूर्ववाक्यस्य बाधकत्वेनैवोक्तं, पूर्वविरोधधर्मान्तर
प्रतिपादनादयुक्तत्वाच्च पूर्वस्य असद्व्यपदेशान्नेति चेन्न
धर्मान्तरेण वाक्यशेषाद्[Vस्२.१.१७] इतिवत् । तत्र च यथिवासच्छब्दस्य
गत्य्अन्तरं चिन्त्यते तथात्रापि । तच्च पूर्वमेव दर्शितं
पूर्वोत्तराध्यायद्वये बादरायणे विवक्षितमिदमारभ्य प्रकरणेन ।

॥ १०.८ ॥ श्रीशुकः ॥ १५११५२ ॥

[१५३]

तदेवं श्रुतिपुराणादिनिगमोक्त्य्अनुसारेण श्रीकृष्णस्य
नित्याभिव्यक्तित्वं द्वारकादिषु नित्यविहारित्वं नित्ययादवादिपरिकरत्वं
च दर्शितम् । इत्थमेव च कृष्णस्तु भगवान् स्वयमिति सुसिद्धम् ।
अथाशङ्कते यदि नित्यमेव तथाविधः श्रीकृष्णाख्यः स्वयं भगवान्
तत्र तत्र एतैर्निजपरिकरैः सार्धं विहरति तर्हि ब्रह्मादिप्रार्थनया
श्रीनारायण एतावततारेति श्रूयते । तस्य यदि श्रीकृष्णे प्रवेशः तर्हि च
कथं नित्यमेव द्वारकादिषु विराजमानं स्वयं भगवन्तं परित्यज्य
ते तस्मै निवेदयितुं गताः । कथं वा जन्मादिलीलया क्रमेण मथुरां
गोकुलं पुनर्मथुरां द्वारकां च त्यक्त्वा वैकुण्ठमारूढवानिति ।

अत्रेदमुच्यते यो द्वारकादौ नित्यं विहरति स श्रीकृष्णाख्यः स्वयं
भगवान् परात्परो ब्रह्मादिष्वप्रकट एव प्रायशः । यस्तु क्षीरोदादि
लीलाधामा नारायणादिनामा पुरुषः स एव विष्णुरूपः साक्षाद्वा
निजांशेन वा तेषु प्रकटः सन् ब्रह्माण्डपालनादिकर्तेत्युक्तमेव ।
तत्र ब्रह्माण्डाधिकारिणो ब्रह्मादयोऽपि ब्रह्माण्डकार्यं तस्मा एव
निवेदयितुमर्हन्ति । ततस्तदापि तस्मा एव पृथिवीभारावताराय
निवेदितवन्तः । अनन्तरं सोऽपि पुरुषस्तान् प्रति केशदर्शनेन स यावद्
उर्व्यां भरमीश्वरेश्वरः [भागवतम् १०.१.२२] इत्यादिवाक्येन च स्वयं
भगवत एवावतारसमयोऽयमिति सूचयित्वा स्वयमप्यवतितीर्षां चकार ।
सा चावतितीर्षा पूर्वयुक्त्या प्रकटीभवति स्वयं भगवति प्रवेशायैव ।
तदेदं वैकुण्ठाद्य्आरोहणमपि तत्तद्अंशेनैव । स्वयं तु तत्र तत्रैव
पुनर्निगूढं लीलायते । अत्रोदाहृतं तन्त्रभागवतादिवाक्यं वाराहादि
वाक्यं चानुसन्धेयम् । उदाहरिष्यते च नित्यं सन्निहितस्तत्र भगवान्
मधुसूदनः [भागवतम् ११.३१.२४] इत्यादिकम् । एष चाभिसन्धिर्न सर्वैर्
एवावबुध्यतेति ।

यथ स्वस्वदृष्टमेव मुनिभिस्तादृग्वर्ण्यते । यथा समुद्रतीरस्थ
दृष्ट्यैव अद्भुतो वा एष प्रातरुदेत्यपः सायं प्रविशति इति श्रुतिः ।
प्रवर्तते न तु वस्तुत इति प्राञ्चः । यदि तत्र सुमेरुपरिक्रमादि
वाक्येनान्यथा गतिः क्रियते तदात्रापि स्वयं भगवत्तानित्यविहारितादि
प्रतिपादकवाक्येन कथं नाम न क्रियताम् । तथा मथुरादि
परित्यागाद्य्उक्तिरवतारे प्रापञ्चिकजनप्रकटलीलापेक्षयैव । तद्
अप्रकटा तु लीला नित्यमेव विद्यते एव । तस्मान्नित्यत्वेन
जन्मादिमयत्वेन च लीलाप्रतिपादकानां वाक्यानां समन्वयस्वारस्याद्
इदं लभ्यते । यथा य एव श्रीकृष्णस्तत्र तत्र नित्यमप्रकटो विहरति
स एव स्वयं जन्मादिलीलया प्रकटो भवति । तत्र नारायणादयोऽपि
प्रविशन्तीति सर्वं शान्तम् ।

तदेवं तत्र श्रीकृष्णलीला द्विविधा अप्रकटरूपा प्रकटरूपा च ।
प्रापञ्चिकलोकाप्रकटत्वात्तत्प्रकटत्वाच्च । तत्राप्रकटा

(पगे ७९)
यत्रासौ संस्थितः कृष्णस्त्रिभिः शक्त्या समाहितः ।
रामानिरुद्धप्रद्युम्नै रुक्मिण्या सहितो विभुः ॥ [ङ्टू २.३६] इति ।

मथुरातत्त्वप्रतिपादकश्रीगोपालतापन्य्आदौ चिन्तामणिप्रकर
सद्मसुकल्पवृक्ष [भागवतम् ५.४०] इत्यादि वृन्दावनतत्त्वप्रतिपादकब्रह्म
संहितादौ च प्रकटलीलातः किञ्चिद्विलक्षणत्वेन दृष्टा, प्रापञ्चिकलोकैस्
तद्वस्तुभिश्चामिश्रा, कालवद्आदिमध्यावसानपरिच्छेदरहितस्व
प्रवाहा, यादवेन्द्रत्वव्रजयुवराजत्वाद्य्उचिताहरहर्महा
सभोपवेशगोचारणविनोदादिलक्षणा । प्रकटरूपा तु श्रीविग्रहवत्
कालादिभिरपरिच्छेद्यैव सती भगवद्इच्छात्मकस्वरूपशक्त्यैव
लब्धारम्भसमापना प्रापञ्चिकाप्रापञ्चिकलोकवस्तुसंवलिता तदीय
जन्मादिलक्षणा ।

तत्राप्रकटा द्विविधा । मन्त्रोपासनामयी स्वारसिकी च । प्रथमा यथा
तत्तद्एकतरस्थानादिनियतस्थितिका तत्तन्मन्त्रध्यानमयी । यथा
बृहद्ध्यानरत्नाभिषेकादिप्रस्तावः क्रमदीपिकायाम् । यथा वा

अथ ध्यानं प्रवक्ष्यामि सर्वपापप्रणाशनम् ।
पीताम्बरधरं कृष्णं पुण्डरीकनिभेक्षणम् ॥ इत्यादि गौतमीय
तन्त्रे ।

यथा वा

वेणुं क्वणन्तमरविन्ददलायताक्षम्
बर्हावतंसमसिताम्बुदसुन्दराङ्गम् ।
कन्दर्पकोटिकमनीयविशेषशोभं
गोविन्दमादिपुरुषं तमहं भजामि ॥

आलोलचन्द्रकलसद्वनमाल्यवंशी
रत्नाङ्गदं प्रणयकेलिकलाविलासम् ।
श्यामं त्रिभङ्गललितं नियतप्रकाशं
गोविन्दमादिपुरुषं तमहं भजामि ॥ इति ब्रह्मसंहितायाम् [५.३९४०] ।

होमस्तु पूर्ववत्कार्यो गोविन्दप्रीतये ततः इत्य्आद्य्अनन्तरं

गोविन्दं मनसा ध्यायेत्गवां मध्ये स्थितं शुभम् ।
बर्हापीडकसंयुक्तं वेणुवादनतत्परम् ॥
गोपीजनैः परिवृतं वन्यपुष्पावतंसकम् ॥ इति बोधायनकर्मविपाक
प्रायश्चित्तस्मृतौ ।

तदु होवाच हैरण्यो गोपवेशमभ्राभं तरुणं कल्पद्रुमाश्रितम् ।
तदिह श्लोका भवन्ति

सत्पुण्डरीकनयनं मेघाभं वैद्युताम्बरम् ।
द्विभुजं मौनमुद्राढ्यं वनमालिनमीश्वरम् ॥
गोपगोपीगवावीतं सुरद्रुमतलाश्रितम् ।
दिव्यालङ्करणोपेतं रक्तपङ्कजमध्यगम् ॥
कालिन्दीजलकल्लोलसङ्गिमारुतसेवितम् ।
चिन्तयंश्चेतसा कृष्णं मुक्तो भवति संसृतेः ॥

इति श्रीगोपालतापन्याम् [१.१११५] गोविन्दं गोकुलानन्दं सच्चिद्आनन्द
विग्रहम् [ङ्टू १.३७] इत्यादि च ।

या तु तत्तत्कामनात्मकप्रयोगमयी पूतनावधादिरूपा यद्यद्
धिया त उरुगाय विभावयन्ति तत्तद्वपुः प्रणयसे सद्अनुग्रहाय [भागवतम्
३.९.११] इत्युक्तानुसारेणाद्यापि साधकहृदि कदाचित्साम्प्रतीव स्फुरति सा
खलु मन्त्रोपासनामयीत्वेऽपि स्वारसिक्यामेव पर्यवस्यति अतीतत्वेन
सर्वत्र निर्दिष्टत्वात् ।

अथ स्वारसिकी च यथोदाहृतमेव स्कान्दे

वत्सैर्वत्सतरीभिश्च सदा क्रीडति माधवः ।
वृन्दावनान्तरगतः सरामो बालकैः सह ॥ इत्यादि ।

तत्र चकारात्श्रीगोपेन्द्रादयो गृह्यन्ते । राम (पगे ८०) शब्देन रोहिण्य्
अपि । तथा तेनैव क्रीडतीत्यादिना व्रजागमनशयनादिलीलापि । क्रीडा
शब्दस्य विहारार्थत्वाद्विहारस्य नानास्थानानुसारणरूपत्वादेक
स्थाननिष्ठाया मन्त्रोपासनामय्या भिद्यतेऽसौ । यथावसरविविध
स्वेच्छामयी स्वारसिकी । एवं ब्रह्मसंहितायाम्

चिन्तामणिप्रकरसद्मसु कल्पवृक्ष
लक्षावृतेषु सुरभिरभिपालयन्तम्
लक्ष्मीसहस्रशतसम्भ्रमसेव्यमानं
गोविन्दमादिपुरुषं तमहं भजामि ॥ [Bरह्मष्५.२८] इति ।

अत्र कथा गानं नात्यं गमनमपि वंशी [Bरह्मष्५.५२] इत्य्
अत्रानुसन्धेयम् । तत्र नानालीलाप्रवाहरूपतया स्वारसिकी गङ्गेव ।
एकैकलीलात्मतया मन्त्रोपासनामयी तु लब्धतत्सम्भवह्रदश्रेणिर्
इव ज्ञेया । किं च मन्त्रोपासनामय्यामपि व्रजराजादिसम्बन्धः श्रूयते
किमुत स्वारसिक्यामिति न कुत्रापि तद्रहितता कल्पनीया । तदेतत्सर्वं
मूलप्रमाणेऽपि दृश्यते । तत्र प्रकटरूपा विस्पष्टैव ।

अथाप्रकटायां मन्त्रोपासनामयीमाह

मां केशवो गदया प्रातरव्याद्
गोविन्द आसङ्गवमात्तवेणुः । [भागवतम् ६.८.२] इति ।

आत्तवेणुरिति विशेषेण गोविन्दः श्रीवृन्दावनमथुराप्रसिद्धमहा
योगपीठयोस्तन्नाम्नैव सहितौ प्रसिद्धौ । तौ च तत्र तत्र
प्रापञ्चिकलोकदृष्ट्यां श्रीमत्प्रतिमाकारेणाभातः स्वजनदृष्ट्यां
साक्षाद्रूपवृन्दप्रकरण एव एतौ पठितौ । ततश्च नारायण
वर्माख्यमन्त्रोपास्यदेवतात्वेन (श्रीगोपालतापन्यादिप्रसिद्ध
स्वतन्त्रमन्त्रान्तरोपास्यदेवतात्वेन) च मन्त्रोपासनामय्यामिदम्
उदाहृतम् ॥

॥ ६.८ ॥ विश्वरूप इन्द्रम् ॥ १५३ ॥

[१५४]

वक्ष्यमाणभगवद्अभिप्रायानुसारेण स्पष्टार्थत्वेन च वस्तुतः
स्वारसिकीमाह

मा खिद्यतं महाभागौ द्रक्ष्यथः कृष्णमन्तिके ।
अन्तर्हृदि स भूतानामास्ते ज्योतिरिवैधसि ॥ [भागवतम् १०.४६.३६]

हे महाभागौ श्रीव्रजेश्वरौ मा खिद्यतं यतः श्रीकृष्णं
द्रक्ष्यथः । कथं यतः सोऽन्तिक एवास्ते । तस्यान्तिकस्थितेरव्यभिचारे
दृष्टान्तः । भूतानामन्तर्हृदि परमात्मलक्षणं ज्योतिरिव एधसि
चाग्निलक्षणं ज्योतिरिवेति । तत्र निरन्तरस्तत्स्फूर्तिरेव भवतां
प्रमाणमिति भावः । अर्थान्तरे तूत्तरार्धस्य हेतुत्वास्पष्टत्वात्
परमात्मरूपेणान्तर्हृदिस्थितस्यापि दर्शनानियमात् ।

॥ १०.४६ ॥ उद्धवः श्रीव्रजेश्वरीम् ॥ १५४ ॥

[१५५]

एवं श्रीभगवानुवाच भवतीनां वियोगो मे न हि सर्वात्मना क्वचित् ॥
[भागवतम् १०.४७.२९]

ये मया सह भवतीनां योऽयं वियोगः स सर्वात्मना सर्वेणापि प्रकाशेन
न विद्यते । किं तर्ह्येकेन प्रकटलीलायां विराजमानेन प्रकाशेन
वियोगः । अप्रकटलीलायां त्वन्येन (पगे ८१) प्रकाशेन संयोग एवेत्य्
अर्थः । अत्रैतदुक्तं भवति न चान्तर्न बहिर्यस्य इत्यादि दामोदरलीला
प्रघट्टकदृष्ट्या मृद्भक्षणलीलादौ श्रीव्रजेश्वर्य्आदीनां
तथानुभूत्या च श्रीविग्रहस्य मध्यमत्व एव विभुत्वं दृश्यते । तच्च
परस्परविरोधिधर्मद्वयमेकत्राचिन्त्यविभुत्वशक्तिमति तस्मिन्न्
आसम्भवं श्रुतेस्तु शब्दमूलत्वादित्येतन्न्यायेन इत्येवं भगवत्
सन्दर्भे प्रघट्टकेन विवृतमस्ति ।

तदेवं विभुत्वे सति युगपदनेकस्थानाद्य्अधिष्ठानार्थं रूपान्तर
सृष्टिः पिष्टपेषिता । किन्तु युगपन्मध्यमत्वविभुत्वप्रकाशिकया
तथैवाचिन्त्यशक्त्या तद्इच्छानुसारेणैक एव श्रीविग्रहोऽनेकधा
प्रकाशते । बिम्ब इव स्वच्छोपाधिभिः । किन्तु अत्रोपाधिमात्रजीवनत्वेन
साक्षात्स्पर्शाद्य्अभावेन वैपरीत्योदयनियमेन बिम्बस्य
परिच्छिन्नत्वेन च प्रतिबिम्बत्वम् । अत्र तु स्वाभावैकशक्तिस्फुरितत्वेन
साक्षात्स्पर्शादिभावेन यथेच्छमुदयेन श्रीविग्रहस्य विभुत्वेन च
बिम्बत्वमेवेति विशेषः । एवमेव सर्वेषामपि प्रकाशानां पूर्णत्वम्
आह श्रुतिः

पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते ।
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥ [Bआऊ ६.५.४] इति ।

तत्र च तेषां प्रकाशानां तथैवाचिन्त्यशक्त्या पृथक्पृथगेव क्रियादीनि
भवन्ति । अतएव युगपदाविर्भूतानां प्रकाशभेदावलम्बिनीनां
निमेषोन्मेषणादिक्रियाणामविरोधः । अतएव विभोरपि परस्पर
विरुद्धक्रियागणाश्रयस्यापि तत्तत्क्रियाकर्तृत्वं यथार्थमेव । तद्
यथार्थत्वे बहुशः श्रीभागवतादिवर्णितं विदुषां तु तद्उद्भवं
सुखं नोपपद्यत इति तद्अन्यथानुपपत्तिश्चात्र प्रमाणम् । इत्थम्
एवाभिप्रेत्य श्रीनारदेन चित्रं बतैतदेकेन वपुषा युगपत्पृथक्[भागवतम्
१०.६९.१] इत्यादौ वपुषा एकत्वेऽपि पृथक्प्रकाशत्वं तेषु प्रकाशेषु पृथक्
पृथक्क्रियाधिष्ठानादित्वं तादृशशक्तिस्त्वन्यत्र मुनिजनादौ न
सम्भवतीति स्वयं चित्रत्वं चोक्तम् । एष एव प्रकाशः क्वचिदात्म
शब्देनोच्यते क्वचिद्रूपादिशब्देन च । यथा तत्रैव न हि सर्वात्मना
क्वचिदिति, अन्यत्र कृत्वा तावन्तमात्मानम् [भागवतम् १०.३३.१९] इति, तावद्रूप
धरोऽव्ययः [भागवतम् १०.५९.४२] इति, कृष्णेनेच्छाशरीरिणा [भागवतम् १०.३०.४०] इति च ।

तत्र नानाक्रियाद्य्अधिष्ठानत्वादेव लीलारसपोषाय तेषु प्रकाशेष्व्
अभिमानभेदं परस्परमननुसन्धानं च प्रायः स्वेच्छयोरीकरोतीत्य्
अपि गम्यते । एवं तच्छक्तिमयत्वात्तत्परिकरेष्वपि ज्ञेयम् । तत्र तेष्व्
अपि प्रकाशभेदः, यथा कन्याषोडशसहस्रविवाहे श्रीदेवक्य्आदिषु ।
उक्तं हि टीकाकृद्भिः अनेन देवक्यादिबन्धुजनसमागमोऽपि प्रति
गृहं यौगपद्येन सूचित इति । तेषु श्रीकृष्णे च प्रकाशभेदादभिमान
क्रियाभेदो यथा श्रीनारददृष्टयोगमायावैभवे तत्र ह्येकत्र

दीव्यन्तमक्षैस्तत्रापि प्रियया चोद्धवेन च ।
पूजितः परया भक्त्या प्रत्युत्थानासनादिभिः ॥ [भागवतम् १०.६९.२०] इति ।

मन्त्रयन्तं च कस्मिंश्चिन्मन्त्रिभिश्चोद्धवादिभिः । [भागवतम् १०.६९.२७]
तत्रान्यत्र इति भावभेदादभिमानभेदो लक्ष्यते । अयमेव तद्
अवस्थोऽहमत्रास्मीति । एवं षोडशसहस्रविवाहे कुत्रचित्श्रीकृष्ण
समक्षं माङ्गलिकं कर्म कुर्वत्या देवक्यास्तद्दर्शनसुखं भवति ।
तत्परोक्षं तु तद्दर्शनोत्कण्ठेति । तथा योगमायावैभवदर्शन एव
क्वचिद्(पगे ८२) उद्धवेन संयोगः क्वचिद्वियोग इति विचित्रता ।

तदेवं तत्र प्रकाशभेदे सति तद्भावेनाभिमानक्रियाभेदे च स्थिते
तदानीं वृन्दावनप्रकाशविशेषे स्थितेन श्रीकृष्णस्याप्रकटप्रकाशेन
तासामप्रकटप्रकाशात्मिकानां संयोगस्तत्प्रकाशविशेषे प्राक्स्थितेन
सम्प्रति मथुरां गतेन तत्प्रकटप्रकाशेनैव स्वीकृतेन स्थानत्रयेऽपि
सपरिकरश्रीकृष्णनित्यावस्थायितावाक्यमनुपहतं स्यात् । प्रकट
लीलायामन्यत्र सपरिकरस्य तस्य कदाचिद्गमनेऽपि
प्रकाशान्तरेणावस्थानादिति । तस्मात्साधूक्तं भवतीनां वियोगो मे [भागवतम्
१०.४७.२९] इत्यादि ।

सेयं च नित्यसंयोगिता परमरहस्येति ब्रह्मज्ञानसादृश्यभङ्ग्या
समाच्छाद्यैवोपदिष्टा । दृश्यते चान्यत्रापि रहस्योपदेशेऽर्थान्तर
समाच्छन्नोक्तिः । यथा महाभारते जतुगृहे गच्छतः पाण्डवान् प्रति
विदुरस्य । यथा वा षष्ठे हर्याश्वादीन् प्रति श्रीनारदस्य ।

[१५६]

तदेवं पुनरपि तथैवोपदिशति

यथा भूतानि भूतेषु खं वाय्व्अग्निर्जलं मही ।
तथाहं च मनःप्राण भूतेन्द्रियगुणाश्रयः ॥ [भागवतम् १०.४७.२९]
यथा खादीनि कारणरूपाणि भूतानि वाय्व्आदिषु स्वस्वकार्यरूपेषु
भूतेष्ववस्थितानि, तत्राकाशस्य स्थितिर्वायौ वायोरग्नावित्यादि । तथा
भवतीष्वहं बहिर्अनुपलभ्यमानोऽपि नित्यं तिष्ठाम्येवेत्यर्थः ।
कथम्भूतोऽहम् ? भवतीनां मद्एकजीवातूनां मनाद्य्आश्रयः ।
अन्यथा निमेषमपि मद्वियोगेन तान्यपि न तिष्ठेयुरिति भावः ।

यद्वा, किंरूपस्तिष्ठसीत्याकाङ्क्षायामाह, भवतीनां मनाद्य्
आश्रयभूतो यो द्विभुजश्यामसुन्दरवेणुविनोदिरूपस्तद्रूप एवेति ।

[१५७]

नन्वित्थं प्रकाशवैचित्री कथं स्यात्यया विरहसंयोगयोर्युगपदेव
स्थितिरित्याशङ्क्याह

आत्मन्येवात्मनात्मानं सृजे हन्म्यनुपालये ।
आत्ममायानुभावेन भूतेन्द्रियगुणात्मना ॥ [भागवतम् १०.४७.३०]

आत्मनि अनन्तप्रकाशमये श्रीविग्रहलक्षणे स्वस्मिनात्मना स्वयम्
आत्मानं प्रकाशविशेषं सृजे अभिव्यञ्जयामि । केन ? निमित्तभूतेन
आत्मामायानुभावेन अचिन्त्यायाः स्वरूपशक्तेः प्रभावेन । स्वरूप
भूतया नित्यशक्त्या मायाख्यया युत इति मध्वभाष्यधृतचतुर्वेद
शिखातः । कीदृशेन ? भूतेन्द्रियगुणात्मना भूतानि परमार्थसत्यानि
यानि ममेन्द्रियाणि ये च गुणा रूपरसादयस्तेषामात्मना प्रकाशकेनेत्य्
अर्थः । बुद्धीन्द्रियेति पाठे आत्मनेत्यस्य विशेषणम् । बुद्धयोऽन्तः
करणानि, इन्द्रियाणि बहिःकरणानि, गुणा रूपादयः, तानि सर्वाण्यपि आत्मा
स्वरूपं यत्र, तेनेति ।

तदेवमाविर्भूय अनु पश्चात्कदापि हन्मि, ततोऽन्यत्र गच्छामि । हन्
हिंसागतयोः । कदाप्यनु पश्चात्पुनः पालये स्वयमागत्य पालयामि
निजविरहदूनानिति शेषः । एतत्कारणं तु यत्त्वहं भवतीनां वै [भागवतम्
१०.४७.३४] इत्यादौ वक्ष्यते । हन्तेरर्थान्तरे त्रयाणामेककर्मकर्तृत्वेऽपि
तमात्मानं प्रकाशं कदाचित्तिरोधापयामि । तस्मात्तं प्रकाशमाकृष्य
प्रकाशवैविध्यमेकीकरोमीत्यर्थः ।

एवमेव दशमसप्ततिममाध्याये स्वामिभिरपि व्याख्यातम् एवं
सर्वगृहेभ्यः पृथक्पृथङ्निर्गत्यानन्तरमेक एव सुधर्मां प्राविशत्
[१०.७०.१७] इति । यथा च माध्वभाष्यधृत(पगे ८३) स्वामि(?)वचनम्


स देवो बहुधा निर्गुणः पुरुषोत्तमः ।
एकीभूयः पुनः शेते निर्दोषो हरिरादिकृत् ॥ इति ।

श्रुतिश्च शङ्करभाष्यधृता स एकधा भवति, द्विधा भवति इत्य्
आद्या । तद्अनन्तरं पुनरपि तमात्मानं पालये पुनरभिव्यज्य निज
श्रेष्ठजनैः सह क्रीडया सम्भूतानन्दं करोमीत्यर्थः । एवं हन्तिर्
अश्लीलोऽपि स्ववियोगिजनविषयकारुण्यकृतभावान्तरेण स्वयमेव
प्रयुक्त इति न दोष आशङ्क्यः छिन्द्यां स्वबाहुमपि वः प्रतिकूलवृत्तिम्
[भागवतम् ३.१६.६] इतिवत् ।

[१५८]

ननु प्रकटमेव मथुरायां विक्रीडसि तर्ह्यत्राप्यधुना विर्कीडसीत्य्
अत्रास्माकं सम्भावना कथं जायतामित्याशङ्क्य तासामेवानुभवं
प्रमाणयति

आत्मा ज्ञानमयः शुद्धो व्यतिरिक्तोऽगुणान्वयः ।
सुषुप्तिस्वप्नजाग्रद्भिर्मायावृत्तिभिरीयते ॥ [भागवतम् १०.४७.३१]

यद्वा आस्तां तावदप्रकटलीलायां मद्वियोगाभाववार्ता । प्रकट
लीलायामपि तयानुसन्धीयतामित्याह आत्मा ज्ञानमय इत्यादि । अर्थश्
चायम् आत्मशब्दोऽस्मिन्नस्मच्छब्दपरः । ततश्च आत्माहं श्री
कृष्णलक्षणो भवतीनां सुषुप्त्य्आदिलक्षणाभिर्मनोवृत्तिभिरीयते
अनुभूयत एव । कीदृशः ? ज्ञानमयो नानाविद्याविदग्धः । शुद्धो
दोषरहितः । विगतोऽतिरिक्तो यस्मादिति वा विशेषेणातिरिक्त इति वा व्यतिरिक्तः
सर्वोत्तमो गुणान्वयः सर्वगुणशाली ।

अतएव स च स्फूर्तिरूपोऽयमनुभवः कदाचित्साक्षात्कारद्वारापि कल्प्यते
इति चिरकालविरहेऽपि तासां सन्धुक्षणकारणं ज्ञेयम् । अत्र सुषुप्तेऽपि तत्
स्फूर्तिनिर्देशः सर्वदैव स्फुरामीतिमात्रतात्पर्यकः । यद्वा तत्र
तासां स्वप्नजाग्रतोरनन्यवृत्तित्वं सिद्धमेव । वृत्त्य्अन्तरासम्भवात्
तु श्रीकृष्णसमाधिलक्षणे सुषुप्तेऽपि तस्मिन्नेव स्वप्नजाग्रद्गतानां
वृत्तिवैचित्रीणां तद्अनुभावितामात्रावशेषतया प्रवेशो भवति । तद्
उत्तरकाले प्राकृतैः सुखमहमस्वाप्समितिवत्ताभिः स इति
एवानुसन्धीयते इति तथोक्तम् ।

तथा हि गारुडे
जाग्रत्स्वप्नसुसुप्तिषु योगस्थस्य च योगिनः ।
या काचिन्मनसो वृत्तिः स भवत्यच्युताश्रयः ॥ इति ।

[१५९]

ननु तथाप्यस्माकं विरह एव सर्वोपमर्दकः स्फुरति । किं कुर्म इत्य्
आशङ्क्य, हन्त यदि मद्वियोगिताभिमानिमनोवृत्तिं कथमपि रोद्धुं
शक्नुथ तदा स्वत एव नित्यसंयोगित्वमुद्देष्यतीत्येवमुपदेशेन
वक्तुं योगशास्त्रप्रक्रियामाह द्वाभ्यां

येनेन्द्रियार्थान् ध्यायेत मृषा स्वप्नवदुत्थितः ।
तन्निरुन्ध्यादिन्द्रियाणि विनिद्रः प्रत्यपद्यत ॥ [भागवतम् १०.४७.३२]

उत्थितः पुमान् यथा मिथ्याभूतमेव स्वप्नं ध्यायति एवं बाधितानपि
इन्द्रियार्थान् शब्दादीन् येन मनसा ध्यायेत चिन्तयेत्, ध्यायंश्च
येनेद्रियानि प्रत्यपद्यत प्राप, तन्मनो विनिद्रोऽनलसः सन्निरुन्ध्यान्
नियच्छेदिति । यद्यपि स्वप्नादिवत्तद्विरहस्तासु नाज्ञानाध्यस्तः,
प्रकटलीलायां तस्याप्राप्तेस्तासामेवानुभवसिद्धत्वात्तथाप्य्
अप्रकटलीलायां नित्यसंयोगमनुसन्धापयितुं तस्य
तादृशत्वेनैवोपदेशो भगवता योग्य इति तथोक्तम् । एकांशेऽपि संयोगे
वियोगो नास्त्येवेति वा ।

[१६०]

तं मनोनिरोधमेव स्तौति

एतद्अन्तः समाम्नायो योगः साङ्ख्यं मनीषिणाम् ।
त्यागस्तपो दमः सत्यं समुद्रान्ता इवापगाः ॥ [भागवतम् १०.४७.३३] (पगे ८४)

एष मनोनिरोधोऽन्तः समाप्तिः फलं यस्य सः । समाम्नायो वेदः । स
तत्र पर्यवस्यतीत्यर्थः । मार्गभेदेऽप्येकत्र प्रयवसाने दृष्टान्तः ।
समुद्रान्ता आपगता नद्य इव इति । यस्मात्सर्वैरेव वेदादिविद्भिः
प्रशस्यते मनोनिरोधस्तस्माद्यूयमपि मद्वियोगाभिमानिमनोवृत्तिं
नियच्छथेति पद्यद्वयेन ध्वनितम् ।

[१६१]

ननु, अहो यदि तद्विरहेण वयमतिदुःखिता इत्यतः कृपालुचित्त एव त्वम्
अस्मभ्यं निजप्राप्तिसाधनमुपदिशसि । तर्हि स्वयं किमु प्रकटमेव
नायासि, तस्मात्कैतवमेवेदं तव कृपालुत्वमित्याशङ्क्याह

यत्त्वहं भवतीनां वै दूरे वर्ते प्रियो दृशाम् ।
मनसः सन्निकर्षार्थं मद्अनुध्यानकाम्यया ॥ [भागवतम् १०.४७.३४]

साम्प्रतं भवतीनां दृशां प्रियोऽप्यहं यद्दूरे वर्ते, तद्भवतीनां
मद्अनुध्यानेच्छया यो मनसः सन्निकर्षस्तद्अर्थं मम भवन्
निकटस्ह्तितौ मद्अर्थं भवतीनां दृश्ये वावेशः स्याद्, भवद्दूरे तु
मनस्येवेति तत्र मम सन्निकर्षः स्यादित्येतद्अर्थः ।

[१६२]

तदेव निदर्शयति

यथा दूरचरे प्रेष्ठे मन आविश्य वर्तते ।
स्त्रीणां च न तथा चेतः सन्निकृष्टेऽक्षिगोचरे ॥ [भागवतम् १०.४७.३५]

चकारात्स्त्रीषु प्रेष्ठस्य च ।

[१६३]

मनःसन्निकर्षे किं स्यात्श्रीघ्रमेव लब्धो भव्ष्यामीति ज्ञायतामित्य्
आह

मय्यावेश्य मनः कृत्स्नं विमुक्ताशेषवृत्ति यत् ।
अनुस्मरन्त्यो मां नित्यमचिरान्मामुपैष्यथ ॥ [भागवतम् १०.४७.३६]

विमुक्ता अशेषा विरहतत्कारणभावनारूपा वृत्तयो येन तन्मनो मयि
कृष्णरूपे आवेश्य मां कृष्णरूपमेवानुस्मरन्त्यो मां कृष्णरूपम्
एवाचिरादेव समीप एवैष्यथ, अनन्यवेद्यतया प्राप्स्यथ ।

[१६४]

तर्हि कथं प्रकटं नागच्छसि तत्राह तस्य झटिति प्राप्तेर्वृन्दावन
एव लीलान्तरनित्यास्तितायाश्च प्रतीत्य्अर्थं निदर्शनमप्याह

या मया क्रीडता रात्र्यां वनेऽस्मिन् व्रज आस्थिताः ।
अलब्धरासाः कल्याण्यो मापुर्मद्वीर्यचिन्तया ॥ [भागवतम् १०.४७.३७]

तद्बहिर्विघ्नवञ्चनार्थमित्यर्थः । ता हि तद्रात्रिप्रकटरास
मात्रमलब्धवत्योऽप्यस्मिन् वृन्दावन एव सर्वविघ्नास्पृष्टाः प्रकट
विचित्रक्रीडानिधानं मामापुरेवेति । तथा च वासनाभाष्यधृतं
मार्कण्डेयवचनम्

तदानीमेव तं प्राप्ताः श्रीमन्तं भक्तवत्सलम् ।
ध्यानतः परमानन्दं कृष्णं गोपालनायिकाः ॥ इति ।

तत्रापि हे कल्याण्यः सर्वविघ्नरहिताः । अर्थान्तरे सशरीरा एव च । [Vऋ.
अद्द्स्: सशरीरा इति तत्तद्देहत्यागेन भवतीनां मत्प्राप्तिर्न स्यात्, किन्त्व्
अनेनैव देहेन मत्प्राप्तिः स्यादिति भावः । [एन्द्. Vऋ. अद्दितिओन्]

तासां शरीरपरित्यागादिकं तु मायिकमेवेति भावः । तस्मात्तासां व्रजे
प्राकट्येनानुपलम्भात्तथा मयि भक्तिर्हि भूतानाम् [भागवतम् १०.८२.४४] इत्य्
आदि वक्ष्यमाणानुसारेण मार्कण्डेयवचनानुसारेण च तदीयाभीप्सित
रूपविलासस्यैव मम प्राप्तेः सिद्धत्वाच्च विद्यत एव प्रकटाया अस्या
लीलाया पृथक्तस्मिन्नन्या लीला, तस्यां च ममेव युष्माकमपि स्थितिर्
अध्यवसीयताम् । यामेव लीलां मदीयव्रजागमनासकृत्प्रतिज्ञानुसारेण
(पगे ८५) शीघ्रमेव यदुपुर्याः सकाशाद्भवत्प्रेमयन्त्रिततया
समागत्याहं (सर्वसमञ्जसतया भवतीनां तत्तद्विघ्ननिवारण
पूर्वकं) सर्वेभ्य एव व्रजवासिभ्यः सन्ततं दर्शयिष्यामीति भावः ।
अस्मिन्निति निर्देशात्तदानीमपि स्वस्य वृन्दावनस्थत्वं सूचयति ।
प्रकरणेऽस्मिन्निदमुक्तं भवति । न ह्यत्र तासामध्यात्मविद्या
श्रेयस्करी भवति ।
तस्मान्मद्भक्तियुक्तस्य योगिनो वै मद्आत्मनः ।
न ज्ञानं न च वैराग्यं प्रायः श्रेयो भवेदिह ॥ [भागवतम् ११.२०.३१]

इति श्रीभगवता । ज्ञाने प्रयासमुदपास्य नमन्त एव जीवन्ति [भागवतम् १०.१४.३]
इति ब्रह्मणा च साधारणभक्तानामप्यनुपादेयत्वेनोक्तत्वात् । न च
तच्छ्रवणेन तासां विरहज्वाला शाम्यति । तं श्यामं मनोहरं विना
साधारणभक्तानामपि स्वर्गापवर्गनरकेष्वपि तुल्यार्थदर्शिनः
[भागवतम् ६.१७.१८] इत्युक्तदिशा, नात्यन्तिकं विगणयन्त्यपि ते प्रसादम् [भागवतम्
३.१५.४८] इत्य्आद्य्उक्तदिशा वा हेयरूपत्वेनैवानुभवात् । तासां तु स्वरसस्य
परमविरोध्येव तत् । पूर्वं च श्रूयतां प्रियसन्देशो भवतीनां
सुखावहः [भागवतम् १०.४७ .२८] इत्येवोक्तम् ।

अत उक्तं तासामेवाभिप्रायकथने श्रीस्वामिभिरपि ननु किम्
अन्यानिवास्मानात्मविद्यया लोभयसि ? वयं तु सर्वसुन्दर
सर्वालङ्करणेन त्वया विरहं नैव सहामहे [Bहावार्थदीपिका तो
१०.४७.३४] इति । तस्माद्विदुरस्येव कूटोक्तिरियमित्युक्त एवार्थी भवत्य्
अन्तरङ्गः । स च युधिष्ठिरस्येव तासामेव गम्य इति ।

॥ १०.४७ ॥ श्रीभगवान् श्रीव्रजदेवीः ॥ १५५१६४ ॥

[१६५]

पूर्वव्याख्यानुसारेणैवाह

एवं प्रियतमादिष्टमाकर्ण्य व्रजयोषितः ।
ता ऊचुरुद्धवं प्रीतास्तत्सन्देशागतस्मृतीः ॥ [भागवतम् १०.४७.३८]

तत्सन्देशेनागता स्मृतिर्नित्यसंयोगानुसन्धानरूपा यासां तादृश्यः ।
अतएव प्रीताः । इतः परं कदाचित्प्रकटलीलानुभवे सति तासां सन्तोषः
प्रकटलीलादर्शनतस्तु विरह एवेति भावद्वैतं लक्ष्यते ।

[१६६]

तच्च सन्तोषमाह

ततस्ताः कृष्णसन्देशैर्व्यपेतविरहज्वराः ।
उद्धवं पूजयां चक्रुर्ज्ञात्वात्मानमधोक्षजम् ॥ [भागवतम् १०.४७.५३]

तथा तेन सन्दिष्टं तथैवात्मानमनुभूयाधोक्षजं चानुभूयेत्य्
अर्थः ।

॥ १०.४७ ॥ श्रीशुकः ॥ १६५१६६ ॥

[१६७]

स्वविरहं व्यञ्जयन्ति
अप्येष्यतीह दाशार्हस्तप्ताः स्वकृतया शुचा ।
सञ्जीवयन्नु नो गात्रैर्यथेन्द्रो वनमम्बुदैः ॥ [भागवतम् १०.४७.४४]
स्वनिमित्तेन शोकेन तप्ताः नोऽस्मान् गात्रैः करस्पर्शादिभिः सञ्जीवयन्
किं नु इहैष्यतीति ॥

॥ १०.४७ ॥ श्रीव्रजदेव्य उद्धवम् ॥ १६७ ॥

[१६८]

एवं तथा श्रीमद्उद्धवद्वारोपदिष्टं तथा कुरुक्षेत्रे साक्षादपि
स्वयमुपदिष्टम् । (पगे ८६)

[Vऋ. अद्द्स्:] कुरुक्षेत्रयात्रायामपि
अपि स्मरथ नः सख्यः स्वानामर्थचिकीर्षया ।
गतांश्चिरायिताञ्छत्रु पक्षक्षपणचेतसः ॥ [भागवतम् १०.८२.४१]
इत्यनेन स्वागमनविलम्बे कारणं विज्ञाप्य पुनश्च । [Vऋ. एन्द्स्.]

मयि भक्तिर्हि भूतानाममृतत्वाय कल्पते ।
दिष्ट्या यदासीन्मत्स्नेहो भवतीनां मद्आपनः ॥ [भागवतम् १०.८२.४४]

इत्यत्र तादृशीनां साक्षादेव तत्प्राप्तिः फलं नान्येषामिवामृतत्व
मात्रमित्येतत्तासामाश्वासनरूपभगवद्वचनानन्तरम् । ननु त्वं
द्वारकायामेव सदा क्रीडसि वयं तु वृन्दावनवासिन्यः कथं
प्राप्स्याम इत्याशङ्क्य युष्माभिर्नित्यसंयुक्त एवाहमस्मीति
तथाविधमात्मानमुपदिशति द्वाभ्यां

[Vऋ. रेअद्सिन्स्तेअदोf थे अबोवे परग्रफ्: इत्यनेन तासां स्वप्राप्तिम्
अवश्यम्भाविनीं प्रोच्य तत्रापि तासां कालविलम्बाक्षमत्वं विलोक्य झटिति
सान्त्वनार्थमुद्धवद्वारा प्रहितचरसन्देशवदेव स्वेन नित्य
संयोगमुपदिशति Eन्द्Vऋ. रेअदिन्ग्.]

अहं हि सर्वभूतानामादिरन्तोऽन्तरं बहिः ।
भौतिकानां यथा खं वार्भूर्वायुर्ज्योतिरङ्गनाः ॥
एवं ह्येतानि भूतानि भूतेष्वात्मात्मना ततः ।
उभयं मय्यथ परे पश्यताभातमक्षरे ॥ [भागवतम् १०.८२.४५४६]

यथाहमहङ्कारो भूतादिः सर्वेषां भूतानां खादीनामाद्यन्तादि
रूपः । अहङ्कारान्तर्गतान्येव खादीनीत्यर्थः । यथा च खादीनि
भूतानि भौतिकानां शरावसैन्धवादीनामाद्य्अन्तादिरूपाणि,
खादीनामन्तर्गतान्येव तानीत्यर्थः । एवमेतानि प्रकटलीलायाम्
अनुभूयमानानि युष्माकं ममतास्पदानि भूतानि परमार्थसत्य
वस्तूनि श्रीवृन्दावनादीनि भूतेष्वप्रकटलीलागतेषु परमार्थसत्य
वस्तुषु तेषु वर्तन्ते । युष्माकं प्रकटलीलाभिमान्य्अहन्तास्पदमात्मा
चाप्रकटलीलाभिमान्यहन्तास्पदेनात्मना ततो व्याप्तः । एवम्
इदन्ताहन्तास्पदं यदुभयं तच्च पुनः परे प्रकटमत्र
दृश्यमानेऽपि तस्यां वृन्दाटव्यां विहरमाणेऽक्षरे नित्यमेव युष्मत्
सङ्गिनि मय्याश्रयरूपे आभातं विराजमानं पश्यतेति । तस्मात्प्रकाश
भेदादेव तत्तद्वस्त्व्आदिभेदव्यपदेशो विरहसंयोगव्यवस्था
चेतीदमत्रापि व्यक्तम् ।

[१६९]

श्रीभगवच्छिक्षानुरूपमेव श्र्यृषिरुवाच

अध्यात्मशिक्षया गोप्य एवं कृष्णेन शिक्षिताः ।
तद्अनुस्मरणध्वस्तजीवकोशास्तमध्यगन् ॥ [भागवतम् १०.८२.४७]

अध्यात्मशिक्षया तद्उपदेशेन आत्मानं श्रीकृष्णमधिकृत्य या शिक्षा
तया वा । तथाविधं यदुपदिष्टं तद्अनुस्मरणेन नित्यसिद्धाप्रकट
लीलायाः पुनरनुसन्धानेन ध्वस्तस्त्यक्तप्रायो जीवकोषः प्रपञ्चस्
तत्र प्राकट्याभिनिवेशो याभिस्ताः । तं स्वयमुपदिष्टं नित्यसंयुक्त
रूपं श्रीकृष्णमध्यगन् प्रणिहितवत्यः । तत्रापि पूर्वदर्शितश्रुति
पुराणादिगतनित्यतावाक्यं मयि भक्तिर्हि [भागवतम् १०.८२.४४] इति । फलभेद
वाक्यं च न ज्ञानं न च वैराग्यम् [भागवतम् ११.२०.३१] इत्याद्य्अयुक्तताव्यञ्जि
वाक्यं चानुसन्धाय परोक्षवादार्थप्रयुक्तमर्थान्तरं न
प्रमेयम् ।

[१७०]
अथ ज्ञानरूपं प्रकटार्थमस्वीकुऋवाणा नित्यलीलारूपं रहस्यार्थं
स्वीकुर्वाणा अपि पूर्ववत्पुनश्च प्रकटलीलाभिनिवेशेन विरहभीताः
परमदैन्योत्तरमेवं प्रार्थयामासुरित्याह

आहुश्च ते नलिननाभ पदारविन्दं
योगेश्वरैर्हृदि विचिन्त्यमगाधबोधैः
संसारकूपपतितोत्तरणावलम्बं
गेहं जुषामपि मनस्युदियात्सदा नः ॥ [भागवतम् १०.८२.४८]

आस्तां तावद्दुर्विधिहतानामस्माकं त्वद्दर्शनगन्धवार्तापि । हे
नलिननाभ तव पदारविन्दं त्वद्उपदेशानुसारेणास्माकं मनस्य्
उदियात् ।

ननु (पगे ८७) किमिवात्रासम्भाव्यम् ? तत्राहुः योगेश्वरैरेव हृदि
विचिन्त्यं न त्वस्माभिस्त्वत्स्मरणारम्भ एव मूर्च्छागामिनीभिः । तद्
उक्तमुद्धवं प्रति स्वयं भगवता

मयि ताः प्रेयसां प्रेष्ठे दूरस्थे गोकुलस्त्रियः ।
स्मरन्त्योऽङ्ग विमुह्यन्ति विरहौत्कण्ठ्यविह्वलाः ॥ [भागवतम् १०.४६.५] इति ।

तदेवोपपादयन्ति अगाधबोधैः साक्षाद्दर्शनेऽप्यक्षुभित
बुद्धिभिः । न त्वस्माभिरिव त्वद्दर्शनेच्छया क्षुभितबुद्धिभिः ।
चरणस्यारविन्दतारूपकं च त्वत्स्पर्शेनैव दाहशान्तिर्भवति न तु
तथा त्वत्स्मरणेनेति ज्ञापनाय ।

ननु तथा निदिध्यासनमेव योगेश्वराणां संसारदुःखमिव
भवतीनां विरहदुःखं दूरीकृत्य तद्उदयं करिष्यतीति आशङ्क्याह
संसारकूपपतितानामेवोत्तरणावलम्बं न त्वस्माकं विरहसिन्धु
निमग्नानाम् । त्वच्चिन्तनारम्भे दुःखवृद्धेरेवानुभूयमानत्वाद्
इति भावः ।
नन्वधुनैवागत्य मुहुर्मां साक्षादेवानुभवत, तत्राह गेहं
जुषां परगृहिणीनामस्वाधीनानामित्यर्थः । यद्वा गेहं जुषामिति
तव सङ्गतिश्च त्वत्पूर्वसङ्गमविलासधाम्नि तत्तद्अस्मत्कामदुघे
स्वाभाविकास्मत्प्रीतिनिलये निजगेहे गोकुल एव भवतु, न तु द्वारकादाव्
इति स्वमनोरथविशेषेण तस्मिन्नेव प्रीतिमतीनामित्यर्थः । यः
कौमारहरः स एव हि वरः इत्यादिवत् । तस्मादस्माकं मनसि भवच्
चरणचिन्तनसामर्थ्याभावात्स्वयमागमनस्यासामर्थ्यादनभिरुचेर्
वा साक्षादेव श्रीवृन्दावन एव यद्यागच्छसि तदैव निस्तार इति भावः ।

[Vऋ एदितिओनद्द्स्हेरे:
तमेतमेव भावं श्रीभगवानङ्गीचकार । यथोक्तमेतद्अनन्तरम्

त एवं लोकनाथेन परिपृष्टाः सुसत्कृताः ।
प्रत्यूचुर्हृष्टमनसस्तत्पादेक्षाहतांहसः ॥ [भागवतम् १०.८३.२] [एन्द्Vऋ
अद्दितिओन्]

॥ १०.८२ ॥ श्रीशुकः ॥ १६८१७० ॥

[१७१]

तदेवं स्वारसिक्यप्रकटलीला दर्शिता । अथाप्रकटलीले द्वे अप्यर्थ
विशेषेणाह

गोपीनां तत्पतीनां च सर्वेषामेव देहिनाम् ।
योऽन्तश्चरति सोऽध्यक्षः क्रीडनेनेह देहभाक् ॥ [भागवतम् १०.३३.३५]

अन्तर्अन्तःस्थितमप्रकटं यथा स्यात्तथा गोपीनां तत्पतीनां च तत्
पतिंमन्यानां क्रीडनदेहभाक्सन् तेषामेव गोकुलयुवराजतया
अध्यक्षश्च सन् यश्चरति क्रीडति स एव प्रकटलीलागतोऽपि भूत्वा
सर्वेषां विश्ववर्तिनां देहिनामपि क्रीडनदेहभाक्सन् तेषां
पालकत्वेनाध्यक्षोऽपि सन् चरति । तस्मादनादित एव ताभिः क्रीडाशालित्वेन
स्वीकृतत्वात्तच्छक्तिरूपाणां तासां सङ्गमे वस्तुत एव परदारता
दोषोऽपि नास्ति ।

ततस्तेषां तत्पतित्वं च । नासूयन् खलु कृष्णाय [भागवतम् १०.३३.३७] इत्यादि
वक्ष्यमाणदिशा, तेषां तासां च प्रातीतिकमात्रं न तु दैहिकम् । तादृश
प्रतीतिसम्पादनं च तासामुत्कण्ठापोषार्थमिति तत्प्रकरण
सिद्धान्तस्य पराकाष्ठा दर्शिता ॥

॥ १०.३३ ॥ श्रीशुकः ॥ १७१ ॥
(पगे ८८)
[१७२]

एवं तत्तल्लीलाभेदेनैकस्यापि तत्तत्स्थानस्य प्रकाशभेदः श्री
विग्रहवत् । तदुक्तम् वृष्णः परमं पदमवभाति भूरि इति श्रुत्या ।
तत्र त्वितरलीलान्तःपातिभिः प्रायश इतरलीलावकाशविशेषो नोपलभ्यते ।
दृश्यते च प्रकटलीलायामप्यसङ्करीभावेनैव विचित्रावकाशत्वम् ।
यथा द्वादशयोजनमात्रप्रमितायामेव द्वारकान्तःपुर्यां क्रोश
द्वयप्रमितगृहकोटिप्रभृतिवस्तूनि । यथा स्वल्पे गोवर्धनगर्ते तद्
असङ्ख्यगोकुलप्रवेशः । यथा ब्रह्मणा दृष्ट्या वृन्दावनस्य सवृक्ष
तृणपक्ष्याद्य्अवकाशता ब्रह्माण्डाद्य्अनन्तवस्त्व्अवकाशता च । यथा
च श्रीनारददृष्टयोगमायावैभवे समकालमेव द्वारकायां
प्रातस्त्यमाध्याह्निकसायन्तनलीला इत्यादि । तदेवं वृन्दावनस्य तावत्
प्रकाशभेदा उदाह्रियन्ते । तत्राप्रकटलीलानुगतो यथा यामले रुद्र
गौरीसंवादे

वीथ्यां वीथ्यां निवासोऽधरमधुसुवचस्तत्र सन्तानकानाम्
एके राकेन्दुकोट्य्आतपविशदकरास्तेषु चैके कमन्ते ।
रामे रात्रेर्विरामे समुदिततपनद्योतिसिन्धूपमेया
रत्नाङ्गानां सुवर्णाचितमुकुररुचस्तेभ्य एके द्रुमेन्द्राः ॥

यत्कुसुमं यदा मृग्यं यत्फलं च वरानने ।
तत्तदैव प्रसूयन्ते वृन्दावनसुरद्रुमाः ॥

अर्थश्च हे अधरमधुसुवचः अधरमधुतुल्यानि सुवचांसि यस्याः
तथाभूते हे गौरि ! तत्र श्रीवृन्दावने रथाङ्गानां सन्तानकानां
मध्ये एके द्रुमेन्द्रा राकेन्दुकोट्य्आतपविशदकराः । हे रामे, तेषु
सन्तानकेषु च एके रात्रेर्विरामे समुदिततपनद्योतिसिन्धूपमेयाः
कमन्ते विराजन्ते । तेभ्यस्तानतिक्रम्य एके कमन्ते । कथम्भूताः
सुवर्णाचितमुकुररुच इति । तत्र च यदा यत्कुसुमं मृग्यं भवति यदा
च यत्फलं मृग्यं भवति तदैव तद्वृन्दावनसुरद्रुमाः प्रसूयन्त
इति ।

एवं ब्रह्मसंहितायामपि आदिपुरुषगोविन्दस्तोत्र एव

श्रियः कान्ताः कान्तः परमपुरुषः कल्पतरवो
द्रुमा भूमिश्चिन्तामणिगणमयि तोयममृतम् ।
कथा गानं नाट्यं गमनमपि वंशी प्रियसखि
चिद्आनन्दं ज्योतिः परमपि तदास्वाद्यमपि च ॥

स यत्र क्षीराब्धिः स्रवति सुरभीभ्यश्च सुमहान्
निमेषार्धाख्यो वा व्रजति न हि यत्रापि समयः ।
भजे श्वेतद्वीपं तमहमिह गोलोकमिति यं
विदन्तस्ते सन्तः क्षितिविरलचाराः कतिपये ॥ [Bरह्मष्५.५६] इति ।

ज्योतिर्लौकिकलीलामाधुर्याय महाप्रलयेऽप्यनश्वरसूर्यादिरूपं यत्
तत्र वर्तते तथा तेषामासाद्यमपि यत्किञ्चित्तत्चिदानन्दरूपं परम्
अपि परमतत्त्वमेव न तु प्राकृतम् । चन्द्रार्कयोः स्थितिश्च तत्र
विलक्षणत्वेनैव गौतमीयतन्त्रे कथिता समानोदितचन्द्रार्कमिति हि
वृन्दावनविशेषणम् । समानत्वं च रात्रो रात्रौ राकाचन्द्रमयत्वाद्
इति । अपि चेति परेणान्वयः । (पगे ८९) रसावेशेन तद्अज्ञानादेव समयो न
व्रजतीत्युक्तम् । अन्यथा पौर्वापर्याभावे सति चेष्टात्मिकाया लीलायाः
स्वरूपहानिः स्यात् । श्वेतं शुभ्रं दोषरहितमित्यर्थः । द्वीपं तद्
इवान्यासङ्गशून्यं सर्वतः परमित्यर्थः । तदुक्तं श्रुत्या यथा हि
सरसि पद्मं तिष्ठति तथा भूम्यां तिष्ठति [ङ्टू २.३०] इति । किं च ब्रह्म
संहितायामेव तत्स्तवादौ चिन्तामणिप्रकरसद्मसु कल्पवृक्ष
लक्षावृतेषु [Bरह्मष्५.२९] इत्यादि ।

एवं नारदपञ्चरात्रे च श्रुतिविद्यासंवादे

ततः श्वेतमहाद्वीपश्चतुर्दिक्षु विदिक्षु च ।
अधश्चोर्ध्वं च दिङ्नाथास्तोयं क्षीरामृतार्णवः ॥
महावृन्दावनं तत्र केलिवृन्दावनानि च ।
वृक्षाः सुरद्रुमाश्चैव चिन्तामणिमयी स्थली ॥
क्रीडाविहङ्गलक्षं च सुरभीनामनेकशः ।
नानाचित्रविचित्रश्रीरासमण्डलभूमयः ॥
केलिकुञ्जनिकुञ्जानि नानासौख्यस्थलानि च ।
प्राचीनच्छत्ररत्नानि फणाः शेषस्य भान्त्यहो ॥
यच्छिरोरत्नवृन्दानामतुलद्युतिवैभवम् ।
ब्रह्मैव राजते तत्र रूपं को वक्तुमर्हति ॥ इति ।

इत्थं श्रीवृन्दावनस्याप्रकटलीलानुगतप्रकाश एव गोलोक इति
व्याख्यातम् । तत्राप्रकटलीलाया द्वैविध्ये मन्त्रोपासनामय्यां किञ्चिद्
विलक्षणः । स च तत्तन्मन्त्रेषु यथादर्शितप्रतिनियतलीलास्थान
सन्निवेशः । यथा पूर्वतापन्यां, यथा च स्कान्दे श्रीनारदवाक्यम्

यस्मिन् वृन्दावने पुण्यं गोविन्दस्य निकेतनम् ।
तत्सेवकसमाकीर्णं तत्रैव स्थीयते मया ॥
भुवि गोविन्दवैकुण्ठं तस्मिन् वृन्दावने नृप ।
यत्र वृन्दादयो भृत्याः सन्ति गोविन्दलालसाः ॥ इति ।

अथ प्रकटलीलानुगतप्रकाशः श्रीविष्णुपुराणहरिवंशादौ
प्रसिद्धः । स एष एव प्रकाशस्तदानीं प्राकृतैरपि कैश्चिद्भाग्य
विशेषोदयवद्भिर्ददृशे सम्प्रत्यस्माभिरपि तद्अंशो दृश्यते । अत्र तु
यत्प्राकृतप्रदेश इव रीतयोऽवलोक्यन्ते तत्तु श्रीभगवतीव स्वेच्छया
लौकिकलीलाविशेषाङ्गीकारनिबन्धनमिति ज्ञेयम् । श्रीभगवद्
धाम्नां तेषां सर्वथा प्रपञ्चातीतत्वादिगुणैः श्रुतिस्मृतिभ्यां कृत
प्रमाणत्वात् । अतएवोक्तमादिवाराहे

वसन्ति ये मथुरायां विष्णुरूपा हि ते खलु ।
अज्ञानास्तान्न पश्यन्ति पश्यन्ति ज्ञानचक्षुषः ॥ इति ।

तदेतन्मूलप्रमाणेऽप्यप्रकटलीलानुगतः प्रकाशः श्रीवृन्दावनस्य
 ते चौत्सुक्यधियो राजन्मत्वा गोपास्तमीश्वरः [भागवतम् १०.२८.११] इत्यादौ
दर्शित एव । प्रकटलीलानुगतो यथा

अहो अमी देववरामरार्चितं
पादाम्बुजं ते सुमनःफलार्हणम् ।
नमन्त्युपादाय शिखाभिरात्मनस्
तमोऽपहत्यै तरुजन्म यत्कृतम् ॥ [भागवतम् १०.१५.५] इत्यादि ।

आत्मनः सुमनः फलरूपमर्हणमुपादायात्मन एव शिखाभिर्
नमन्ति । यद्यैः । शृण्वतां पश्यतां च संसारिणां तमोऽपहत्यै तरु
जन्मैतत्कृतमिति । यत्कृतमिति तृतीयातत्पुरुषो वा ॥

॥ १०.१५ ॥ श्रीभगवान् श्रीबलदेवम् ॥ १७२ ॥

[१७३]

यथा च

सपद्येवाभितः पश्यन् दिशोऽपश्यत्पुरःस्थितम् ।
वृन्दावनं जनाजीव्य द्रुमाकीर्णं समाप्रियम् ॥
यत्र नैसर्गदुर्वैराः सहासन्नृमृगादयः ।
मित्राणीवाजितावास द्रुतरुट्तर्षकादिकम् ॥ [भागवतम् १०.१३.५९६०] इत्यादि ।

(पगे ९०)
समानामात्मारामाणामपि समस्य सहचरस्य श्रीभगवतोऽपि वा । आ
सर्वतोभावेन सर्वांशेनैव प्रियमिति । तत्रासद्अंशत्वं निषिध्य
सर्वतोऽप्यानन्दातिशयप्रदत्वं प्रदर्शितम् ॥

॥ १०.१३ ॥ श्रीशुकः ॥ १७३ ॥

[१७४]

तदेवं श्रीकृष्णलीलास्पदत्वेन तान्येव स्थानानि दर्शितानि । तच्
चावधारणं श्रीकृष्णस्य विभुत्वे सति व्यभिचारि स्यात् । तत्र समाधीयते
तेषां स्थानानां नित्यतल्लीलास्पदत्वेन श्रूयमानत्वात्तद्आधारशक्ति
लक्षणस्वरूपविभूतित्वमवगम्यते स भगवः कस्मिन् प्रतिष्ठित इति
स्वे महिम्नि [Cहाऊ ७.२४.१] इति श्रुतेः । साक्षाद्ब्रह्मगोपालपुरी [ङ्टू
२.२६] इत्यादेश्च ।

ततस्तत्रैवाव्यवधानेन तस्य लीला । अन्येषां प्राकृतत्वात्न साक्षात्तत्
स्पर्शोऽपि सम्भवति धारणशक्तिस्तु नतराम् । यत्र क्वचिद्वा प्रकट
लीलायां तद्गमनादिकं श्रूयते । तदपि तेषामाधारशक्तिरूपाणां
स्थानानामावेशादेव मन्तव्यम् । वैकुण्ठान्तरस्य त्वप्राकृतत्वेऽपि
श्रीकृष्णविलासास्पदताकरनिजयोग्यताविशेषाभावान्न तादृशत्वमिति
ज्ञेयम् ।

अथाप्रकटप्रकटलीलयोः समन्वयस्त्वेवं विवेचनीयः । तत्र यद्यपि
तस्य (मन्त्रोपासनामय्य्)अप्रकटलीलायां बाल्यादिकमपि वर्तते तथापि
(स्वारसिकलीलामय)किशोराकारस्यैव मुख्यत्वात् । तमाश्रित्यैव सर्वं
प्रवर्तते इति प्रकटलीलापि तमाश्रित्यैव वक्तव्या । यद्वा द्वारकायाम्
अपि मथुरायामपि वृन्दावनेऽपि युगपदेक एव किशोराकृतिः श्री
कृष्णाख्यो भगवान् श्रीमद्आनकदुन्दुभिव्रजराजनन्दनरूपेण
प्रापञ्चिकलोकाप्रकटं नित्यमेव लीलायमान आस्ते ।

अथ कदाचित्भक्तियोगविधानार्थं कथं पश्येम हि स्त्रियः [भागवतम् १.८.२०]
इत्याद्य्उक्तदिशा सत्यप्यानुसङ्गिके भूभारहरणादिके कार्ये, स्वेषाम्
आनन्दचमत्कारपोषायैव लोकेऽस्मिंस्तद्रीतिसहयोगचमत्कृतनिज
जन्मबाल्यपौगण्डकैशोरात्मकलौकिकलीलाः प्रकटयन् तद्अर्थं
प्रथमत एवावतारितश्रीमद्आनकदुन्दुभिगृहे तद्विधयदुवृन्द
संवलिते स्वयमेव बालरूपेण प्रकटीभवति ।

अथ च तत्र तत्र स्थाने वचनजातसिद्धनिजनित्यावस्थितकैशोरआदि
विलाससम्पादनाय तैरेव प्रकाशान्तरेणाप्रकटमपि स्थितैः परिकरैः
साकं निजप्रकाशान्तरेणाप्रकटमपि विहरत्येव ।

अथ श्रीमद्आनकदुन्दुभिगृहेऽवतीर्य च तद्वदेव
प्रकाशान्तरेणाप्रकटमपि स्थित्यैव स्वयं प्रकटीभूतस्य सव्रजश्री
व्रजराजस्य गृहेऽपि तदीयामनादित एव सिद्धां स्ववात्सल्यमाधुरीं
जातोऽयं नन्दयति । बालोऽयं रिङ्गति । पौगण्डोऽयं विक्रीडतीत्य्आदिस्व
विलासविशेषैः पुनः पुनर्नवीकर्तुं समायाति । तत्र च सकलमाधुरी
शिरोमणिमञ्जरीमाकैशोरबाल्यकेलिलक्ष्मीमुल्लास्य गोकुलजनान्
नितरामात्मवशीकृतान्तर्बहिर्इन्द्रियाण्यापद्य पुनरपि तेषां
समधिकामपि प्रेमर्द्धिं संवर्धयन् । श्रीमदानकदुन्दुभि
प्रभृतीनपि नन्दयन् भूभारराजन्यसङ्घमपि संहरन्मथुरायां
प्रयाति । ततश्च द्वारकाख्यं स्वधामविशेषं प्रकाशयितुं समुद्रं
गत्वा तत्तल्लीलामाधुरीं परिवेशयति ।

अथ सिद्धासु निजापेक्षितासु तत्तल्लीलासु च तत्र तत्र नित्य (पगे ९१)
सिद्धमप्रकटत्वमेवोरीकृत्य तावप्रकटलीलाप्रकाशौ प्रकटलीला
प्रकाशाभ्यामेकीकृत्य तथाविधतत्तन्निजवृन्दमप्रत्यूहम्
एवानन्दयतीति । तत्र पूर्णकैशोरव्यापिन्येव व्रजे प्रकटलीला ज्ञेया
क्व चातिसुकुमाराङ्गौ किशोरौ नाप्तयौवनौ [भागवतम् १०.४४.८] इति ।

नास्मत्तो युवयोस्तात नित्योत्कण्ठितयोरपि ।
बाल्यपौगण्डकैशोराः पुत्राभ्यामभवन् क्वचित् ॥ [भागवतम् १०.४५.३] इति ।

मनांसि तासामरविन्दलोचनः
प्रगल्भलीलाहसितावलोकैः ।
जहार मत्तद्विरदेन्द्रविक्रमो
दृशां ददच्छ्रीरमणात्मनोत्सवम् ॥ [भागवतम् १०.४१.२७] इत्यपि हि श्रूयते ।

अतएव एकादशसमास्तत्र गूढार्चिः सबलोऽवसद्[भागवतम् ३.२.२६] इत्य्
अत्रैकादशसमा व्याप्य गूढार्चिरित्येष एवार्थः । अथवा एकादशभिरेव
समाभिस्तस्य पूर्णकैशोरत्वं ज्ञेयम् ।

कालेनाल्पेन राजर्षे रामः कृष्णश्च गोकुले ।
अघृष्टजानुभिः पद्भिर्विचक्रमतुरञ्जसा ॥ [भागवतम् १०.८.२६]

[Vऋ. रेअद्स्हेरे: गूढार्चिरिति । यथा गूढार्चिः कुत्राप्यग्निः प्राप्तं
प्राप्तमिन्धनं दहति, तथा गोपलीलाया गूढप्रभाव एव सन् प्राप्तं
प्राप्तमसुरं दहन्नित्यर्थः । एकादशपर्यन्तं गूढार्चिः । ततः परं
पञ्चदशपर्यन्तं प्रकटार्चिरिति साध्याहारं व्याख्यानं त्व्
अघटमानं च । एकादशाभ्यन्तरे तत्तत्प्रभावस्य मध्ये मध्ये
प्रसृतत्वात् । [Vऋ. अद्दितिओनेन्द्स्.]
तदेवं स्थिते लीलाद्वयसमन्वये त्वप्रकटलीलैकानुभावसमन्वयश्
चैवमनुसन्धेयः । प्रथमं श्रीवृन्दावने ततो द्वारकामथुरयोर्
इति । सर्वप्रकटलीलापर्यवसाने युगपदेव हि द्वारकामथुरयोर्लीला
द्वयैक्यं मथुराप्रकटलीलाया एव द्वारकायामनुगमनात् । अतएव
रुक्मिणीप्रभृतीनां मथुरायामप्रकटप्रकाशः श्रूयते । वृन्दावने
त्वियं प्रक्रियां विशिष्य लिख्यते । तत्र प्रथमं श्रीवृन्दावनवासिनां
तस्य प्राणकोटिनिर्मञ्छनीयदर्शनलेशस्य विरहस्ततः श्रीमद्
उद्धवद्वारा सान्त्वनम् । पुनश्च पूर्ववदेव तेषां महाव्याकुलताया
मुद्रितायां श्रीबलदेवद्वारापि तथैव समाधानम् ।

अथ पुनरपि परमोत्कण्ठाकोटिविस्फुटहृदयानां सूर्योपराग
व्रज्याव्याजया तद्अवलोकनकाम्यया कुरुक्षेत्रगतानां तेषां घर्मान्ते
चातकानामिव निजाङ्गनवघनसङ्घावलोकदानेन तादृशसंलाप
मन्त्रगर्जितेन च पुनर्जीवनसञ्चारणम् ।

अथ दिनकतिपयसहवासादिना च तानतिक्षीणतरानन्नेन दुर्भिक्ष
दुःखितानिव संतर्प्य तैः सह निजविहारविशेषणामेकमेव रम्यम्
आस्पदं श्रीवृन्दावनं प्रत्येव पूर्ववत्सम्भावितया निजागमनाश्वास
वचनरचनया प्रस्थापनम् । सूर्योपरागयात्रा त्वियं दूरतः प्रस्तुतापि
कंसवधान्नातिबहुसंवत्सरानन्तरा शिशुपालशाल्वदन्तवक्त्रवधात्
प्रागेव ज्ञेया । श्रीबलदेवतीर्थयात्रा हि दुर्योधनवधैककालीना ।
तस्मिन् तस्यां कुरुक्षेत्रमागते खलु दुर्योधनवधः । सा च
सूर्योपरागयात्रायाः पूर्वं पठिता । सूर्योपरागयात्रा च श्रीभीष्म
द्रोणदुर्योधनाद्य्आगमनमयीति ।

तत्रायं क्रमः प्रथमं सूर्योपरागयात्रा । ततः श्रीयुधिष्ठिर
सभा । तस्यां शिशुपालवधः, ततः कुरुपाण्डवद्यूतं, तदैव शाल्व
वधो वनपर्वणि प्रसिद्धः । दन्तवक्त्रवधश्च ततः । ततः
पाण्डवानां वनगमनं, ततः श्रीबलदेवस्य तीर्थयात्रा, ततो
दुर्योधनवध इति । तस्मादुपरागयात्रा कंसवधान्नातिकाल
विलम्बेनाभवदिति लक्ष्यते । यत्तु तस्यामेव आस्तेऽनिरुद्धो रक्षायां
(पगे ९२) कृतवर्मा च यूथपः [भागवतम् १०.८२.६] इति । तदपि श्री
प्रद्युम्नानिरुद्धयोरल्पकालादेव यौवनप्राप्त्या सम्भवति ।
यथोक्तं नातिदीर्घेन कालेन स कार्ष्णो रूढयौवनः [भागवतम् १०.५५.९] इति ।

अथवा अनिरुद्धनामा कश्चित्कृष्णनन्दन एव यो दशमान्तेऽष्टादश
महारथमध्ये गणितः । तथैव च व्याख्यातं तत्र तैरिति । अतः
कुरुक्षेत्रयात्रायामेव श्रीमद्आनकदुन्दुभिना श्रीकुन्तीदेवीं प्रत्य्
उक्तं

कंसप्रतापिताः सर्वे वयं याता दिशं दिशम् ।
एतर्ह्येव पुनः स्थानं दैवेनासादिताः स्वसः ॥ [भागवतम् १०.८२.२१] इति ।

अतः प्रथमदर्शनादेव द्रौपदीश्रीकृष्णमहिषीणां परस्पर
विवाहप्रश्नोऽपि सङ्गच्छते । अत्र आगमिष्यत्यतिदीर्घेण कालेन व्रजम्
अच्युतः [भागवतम् १०.४६.३४] इत्यादिकमपि पद्यं सहायं भवेत् ।

प्रकृतमनुसरामः । अथ वृन्दावनं प्रस्थापितानामपि तेषां पुनरपि
निजादर्शनेन महासन्तापवृद्धिमतीवोत्कण्ठाभिः श्रीगोविन्दः
सस्मार । यामेव साक्षाद्दृष्टवान् परमोत्कण्ठः श्रीमदुद्धवः ।
तमवसरं लब्धा प्रसावान्तरे गायन्ति

गायन्ति ते विशदकर्म गृहेषु देव्यो
राज्ञां स्वशत्रुवधमात्मविमोक्षणं च ।
गोप्यश्च कुञ्जरपतेर्जनकात्मजायाः
पित्रोश्च लब्धशरणो मुनयो वयं च ॥ [भागवतम् १०.७१.९] इति व्यञ्जयामास ।

ततश्च राजसूयसमाप्त्य्अनन्तरं शाल्वदन्तवक्त्रवधान्ते झटिति
स्वयं गोकुलमेव जगाम । तथा च पाद्मोत्तरखण्डे गद्यपद्यानि

अथ शिशुपालं निहतं श्रुत्वा दन्तवक्त्रः कृष्णेन योद्धुं मथुराम्
आजगाम । कृष्णस्तु तच्छ्रुत्वा रथमारुह्य तेन योद्धुं मथुराम्
आययौ । दन्तवक्त्रवासुदेवयोरहोरात्रं मथुरापुरद्वारि यमुनातीरे
सङ्ग्रामः समवर्तत कृष्णस्तु गदया तं जघान । स तु चूर्णितसर्वाङ्गो
वज्रनिर्भिन्नमहीधर इव गतासुरवनितले पपात । सोऽपि हरेः सायुज्यं
योगिगम्यं नित्यानन्दसुखं शाश्वतं परमं पदमवाप । इत्थं जय
विजयौ सनकादिशापव्याजेन केवलं भगवतो लीलार्थं संसृताववतीर्य
जन्मत्रयेऽपि तेनैव निहतौ जन्मत्रयावसाने मुक्तिमवाप्तौ ।

कृष्णोऽपि तं हत्वा यमुनामुत्तीर्य नन्दव्रजं गत्वा प्राक्तनौ पितराव्
अभिवाद्य आश्वास्य ताभ्यां साश्रुकण्ठमालिङ्गितः सकलगोपवृद्धान्
प्रणम्याश्वास्य रत्नाभरणादिभिस्तत्रस्थान् सन्तर्पयामास ।

कालिन्द्याः पुलिने रम्ये पुण्यवृक्षसमावृते ।
गोपनारीभिरनिशं क्रीडयामास केशवः ॥
रम्यकेलिसुखेनैव गोपवेषधरो हरिः ।
बद्धप्रेमरसेनात्र मासद्वयमुवास ह ॥ [ড়द्मড়् ६.२५२.१९२७]

इत्यत्रेदं ज्ञेयम् । दन्तवक्त्रस्य मथुरायामागमनं राजसूयानन्तरम्
इन्द्रप्रस्थे श्रीकृष्णावस्थानं ज्ञात्वा जरासन्धवधार्थं श्रीमद्
उद्धवयुक्तिच्छायामवलम्ब्य गदाकुशलंमन्यत्वेनैकाकिनं
द्वन्द्वयुद्धाय तमाह्वयितुं तदर्थमेव तद्राष्ट्रं तद्
उपद्रावयितुं च । पुनश्च द्वारकागतं तं श्रुत्वा प्रस्थितस्य तस्य
मथुराद्वारगतेन सङ्गमः । यत्स्थानमद्यापि द्वारकादिग्गतं
दतिहेति प्रसिद्धं वर्तते । सर्वमेतत्श्रीनारदस्य श्रीभगवद्रथस्य
च मनोमयत्वात्सम्भवति । अतः श्रीभागवतेनापि विरोधो नास्तीति अलं
कल्पभेदकल्पनया । अतएव झटिति तस्य शाल्ववधश्रवणमपि
तत्रोक्तं सम्पद्यते । तथा श्रीकृष्णस्य (पगे ९३) गोकुलगमनं च श्री
भागवतसंमतमेव

तास्तथा तप्यतीर्वीक्ष्य स्वप्रस्थाने यदूत्तमः ।
सान्त्वयामास सप्रेमैरायास्य इति दौत्यकैः ॥ [भागवतम् १०.३९.३५] इति ।

यात यूयं व्रजं तात वयं च स्नेहदुःखितान् ।
ज्ञातीन् वो द्रष्टुमेष्यामो विधाय सुहृदां सुखम् ॥ [भागवतम् १०.४५.२३] इति ।
हत्वा कंसं रङ्गमध्ये प्रतीपं सर्वसात्वताम् ।
यदाह वः समागत्य कृष्णः सत्यं करोति तत् ॥ [भागवतम् १०.४६.३५] इति ।

आगमिष्यत्यतिदीर्घेण कालेन व्रजमच्युतः ।
प्रियं विधास्यते पित्रोर्भगवान् सात्वतां पतिः ॥ [भागवतम् १०.४६.३४] इति च ।

तस्य श्रीमुखेन भक्तजनमुखेन च बहुशः सङ्कल्पानाम्
अन्यथानुपपत्तेः सत्यसङ्कल्पः [ंैत्रू १.१] इति हि श्रुतिः । ईश्वराणां
वचः सत्यम् [भागवतम् १०.३३.३१] इति स्वयं श्रीभागवतं च ।

न केवलमेतावदेव कारणं, तस्य व्रजागमनमपि स्फुटमेवेत्याहुः
 यर्ह्यम्बुजाक्षापससार भो भवान् कुरून्मधून् वाथ सुहृद्
दिदृक्षया [भागवतम् १.११.९] इति । अत्र मधून्मथुरां वेति व्याख्याय तदानीं
तन्मण्डले सुहृदो व्रजस्था एव प्रकटा इति तैरप्यभिमतम् । तत्र योग
प्रभावेन नीत्वा सर्वजनं हरिः [भागवतम् १०.५०.५१] इत्यत्र सर्वशब्दात् ।

[ठे Vऋ एदितिओन् हेरे अद्द्स्:
बलभद्रः कुरुश्रेष्ठ भगवान् रथमास्थितः ।
सुहृद्दिदृक्षुरुत्कण्ठः प्रययौ नन्दगोकुलम् ॥ [भागवतम् १०.६५.१] इत्यत्र
प्रसिद्धत्वात् ।
Vऋ अद्दितिओनेन्द्स्.]

॥ १.११ ॥ द्वारकावासिनः श्रीभगवन्तम् ॥ १७४ ॥

[१७५]

तदेतद्आगमनं दन्तवक्त्रवधानन्तरमेव श्रीभागवतसम्मतं,
यतः ज्ञातीन् वो द्रष्टुमेष्यामो विधाय सुहृदां सुखम् [भागवतम् १०.४५.२३] इति
कंसवधान्ते

अपि स्मरथ नः सख्यः स्वानामर्थचिकीर्षया ।
गतांश्चिरायिताञ्छत्रु पक्षक्षपणचेतसः ॥ [भागवतम् १०.८२.४१]

इति कुरुक्षेत्रयात्रायां च श्रीभगवद्वाक्येन तद्आगमने दन्तवक्त्र
वधान्तं तच्छत्रुपक्षक्षपणलक्षणं सुखादानमेवापेक्षितम्
आसीत् । तदेवं मासद्वयं प्रकटं क्रीडित्वा श्रीकृष्णोऽपि तानात्म
विरहार्तिभयपीडितानवधाय पुनरेव माभूदिति भूभारहरणादि
प्रयोजनरूपेण निजप्रियजनसङ्गमान्तरायेण संवलितप्रायां
प्रकटलीलां तल्लीलाबहिरङ्गेणापरेण जनेन दुर्वेद्यतया तद्अन्तराय
सम्भावनालेशरहितया तया निजसन्तताप्रकटलीलयैकीकृत्य
पूर्वोक्ताप्रकटलीलावकाशरूपं श्रीवृन्दावनस्यैव प्रकाशविशेषं,
तेभ्यः कृष्णं च तत्र छन्दोभिः स्तूयमानम् [भागवतम् १०.२८.१८] इत्याद्य्उक्त
दिशा स्वेन नाथेन सनाथं श्रीगोकुलाख्यं पदमाविर्भावयामास ।
एकेन प्रकाशेन च द्वारवतीं च जगामेति । तथा पाद्मोत्तरखण्ड एव
तद्अनन्तरं गद्यम्

अथ तत्रस्था नन्दादयः सर्वे जनाः पुत्रदारसहिताः पशुपक्षि
मृगादयश्च वासुदेवप्रसादेन दिव्यरूपधरा विमानमारूढा
परमवैकुण्ठलोकमवापुरिति । कृष्णस्तु नन्दगोपव्रजौकसां
सर्वेषां परमं निरामयं स्वपदं दत्त्वा दिवि देवगणैः संस्तूयमानो
द्वारवतीं विवेश ॥ [ড়द्मড়् ६.२५२.२८२९] इति च ।

इत्थं माथुरहरिवंशेऽपि प्रसिद्धिरस्तीति श्रूयते । तत्र नन्दादयः
पुत्रदारसहिताः इत्यनेन पुत्राः श्रीकृष्णादयः । दाराः श्रीयशोदादय
इति लब्धे पुत्रादिरूपैरेव श्रीकृष्णादिभिः सह तत्प्राप्तेः कथनात् ।
प्रकाशान्तरेण तत्र तेषां स्थितिश्च तैरपि नावगतेति (पगे ९४) लभ्यते ।
वासुदेवप्रसादेनाकस्मातागमनरूपेण परमप्रसादेन दिव्यरूप
धरास्तदानन्दोत्फुल्लतया पूर्वतोऽप्याश्चर्यरूपाविर्भावं गता इत्य्
अर्थः । विमानमारूढा इति गोलोकस्य सर्वोपरिस्थितिदृष्ट्य्अपेक्षया
वस्तुतस्त्वयमभिसन्धिः । कृष्णोऽपि तं हत्वा यमुनामुत्तीर्य इति
गद्यानुसारेण यमुनाया उत्तरपारे एव व्रजवासस्तदानीमित्य्
अवगम्यते । स च तेषां वृन्दावनदर्शनाक्षमतया एव तत्परित्यागेन
तत्र गतत्वात् । ततश्च विमानशिरोमणिना स्वेनैव रथेन पुनः तस्याः
दक्षिणपारप्रापणपूर्वकं श्रीमद्गोपेभ्यः श्रीवृन्दावन एव
पूर्वं गोलोकतया दर्शिते तत्प्रकाशविशेष एव निगूढं निवेशनं
वैकुण्ठावाप्तिरिति । अक्के चेन्मधु विन्देत किमर्थं पर्वतं व्रजेदिति
न्यायेन । समीपार्थेऽव्ययमक्केशब्दः । न वेद स्वां गतिं भ्रमन्न्
[भागवतम् १०.२८.१४] इति वदता श्रीभगवता तेषां गतित्वेनापि विभावितोऽसौ लोकः ।
तस्माद्वृन्दावने निगूढप्रवेश एव समञ्जसः । अत्र वृन्दावननित्य
लीलावाक्यवृन्दं चाधिकमप्यस्ति प्रमाणम् ।

[Vऋ अद्द्स्] एवमेव श्रीगर्गवाक्यं कृतार्थं स्यात्
एष वः श्रेय आधास्यद्गोपगोकुलनन्दनः ।
अनेन सर्वदुर्गाणि यूयमञ्जस्तरिष्यथ ॥ [भागवतम् १०.८.१६] इति । [Vऋ अद्दितिओन्
एन्द्स्.]

अथ गद्यान्ते द्वारवतीं विवेश इति च शाल्ववधार्थं निर्गतैः श्री
भगवत्प्रत्यागमनं प्रतीक्षमाणैः यादवैः सहैवेति श्री
भागवतवदेव लभ्यते । तं विना स्वयं गृहप्रवेशानौचित्यात् ।
क्षणार्धं मेनिरेऽर्भकाः [भागवतम् १०.१४.४३] इतिवदल्पकालभावनेन वा ।
तदेवं पुनः श्रीगोकुलागमनाभिप्रायेणैव श्रीवृन्दावन
नाथोपसनामन्त्रे निहतकंसत्वेन तद्विशेषणं दत्तम् । यथा
बोधायनोक्तेः गोविन्दं मनसा ध्यायेद्गवां मध्ये स्थितं शुभमिति
ध्यानानन्तरं, गोविन्दं गोपीजनवल्लभेश कंसासुरघ्न त्रिदशेन्द्र
वन्द्य इत्यादि । अन्यत्र च गोविन्द गोपीजनवल्लभेश विध्वस्तकंस इत्य्
आदि ।

[Vऋ अद्द्स्] एवमेव गौतमीये श्रीमद्दशाक्षरोपासनायां वैश्यविशेस
गोपाललीलाय तस्मै यज्ञसूत्रसमर्पणं विहितं यज्ञसूत्रं ततो
दद्यादथवा स्वर्णनिर्मितम् । [Vऋ अद्दितिओनेन्द्स्.]

इत्थमेव पुनः प्राप्त्य्अभिप्रायेणोक्तम् अनुस्मरन्त्यो मां नित्यमचिरान्
मामुपैष्यथ [भागवतम् १०.४७.३६] इति, दिष्ट्या यदासीन्मत्स्नेहो भवतीनां
मद्आपनः [भागवतम् १०.८२.४४] इति । अथानुगृह्य भगवान् गोपीनां स गुरुर्गतिः
[भागवतम् १०.८३.१] इति च । तथैव केवलेन हि भावेन [भागवतम् ११.१२.८] इत्य्आदिपद्य
द्वयकृतेन साधकचरीणां गोपीनां प्रथमं तत्प्राप्तिप्रस्तावेन
नित्यप्रेयसीनामपि तन्महावियोगानन्तरप्राप्तिं तस्य वियोगस्यातीतत्व
निर्देशाद्द्रढयति द्वाभ्याम्

रामेण सार्धं मथुरां प्रणीते
श्वाफल्किना मय्यनुरक्तचित्ताः ।
विगाढभावेन न मे वियोग
तीव्राधयोऽन्यं ददृशुः सुखाय ॥

तास्ताः क्षपाः प्रेष्ठतमेन नीता
मयैव वृन्दावनगोचरेण ।
क्षणार्धवत्ताः पुनरङ्ग तासां
हीना मया कल्पसमा बभूवुः ॥ [भागवतम् ११.१२.१०११]

अत्र विगाढभावेन वियोगतीव्राधयः सत्यो मत्तोऽन्यं निजसख्य्आदिकम्
अपि न सुखाय ददृशुः । ततश्चाधुना तु सुखाय पश्यन्तीति वियोगो नास्तीत्य्
अर्थः । एवं तास्ताः (पगे ९५) क्षपाः मया हीनाः सत्यः कल्पसमा
बभूवुरधुना तु तादृश्यो न भवन्तीति नास्त्येव वियोग इत्यर्थः ।

[Vऋ अद्द्स्] पूर्वं त्वेतमेवोद्धवं प्रति
मयि ताः प्रेयसां प्रेष्ठे दूरस्थे गोकुलस्त्रियः ।
स्मरन्त्योऽङ्ग विमुह्यन्ति विरहौत्कण्ठ्यविह्वलाः ॥
धारयन्त्यतिकृच्छ्रेण प्रायः प्राणान् कथञ्चन ।
प्रत्यागमनसन्देशैर्बल्लव्यो मे मद्आत्मिकाः ॥ [भागवतम् १०.४६.५६]
इत्यत्र वर्तमानप्रयोग एव कृत इति सोऽयमर्थः स्पष्ट एव
प्रतिपत्तव्यः । [Vऋ अद्दितिओनेन्द्स्.]

[१७६]

ततश्च प्रकटाप्रकटलीलयोः पृथक्त्वाप्रतिपत्त्यैवाप्रकटभावम्
आपद्य स्वनामरूपयोरेव ताः स्थिता इत्याह

ता नाविदन्मय्यनुषङ्गबद्ध
धियः स्वमात्मानमदस्तथेदम् ।
यथा समाधौ मुनयोऽब्धितोये
नद्यः प्रविष्टा इव नामरूपे ॥ [भागवतम् ११.१२.१२]

तास्तथाभूतविरहौत्कण्ठ्यातिशयेनाभिव्यक्तदुर्धरमहाभावाः
सत्यः, (तथा आगमिष्यत्यतिदीर्घेन कालेन व्रजमच्युतः [भागवतम् १०.४६.३४]
इति भगवद्उक्त्य्अनुसारेण यर्ह्यम्बुजाक्षापससार भो भवान् कुरून्
मधून् वा [भागवतम् १.११.९] इति द्वारकावासिप्रजावचनानुसारेण च,) कदाचित्
तासां दर्शनार्थं गते मयि लब्धो योऽनुषङ्गो महामोदन
भावाभिव्यक्तिकारी पुनश्च संयोगस्तेन बद्धा धीर्यासां तथाभूताः
सत्यः स्वं ममतास्पदमात्मानमहङ्कारास्पदं चादः अप्रकट
लीलानुगतत्वेनाभिमतं वा तथेदं प्रकटलीलानुगतत्वेनाभिमतं वा
यथा स्यात्तथा नाविदन्, किन्तु द्वयोरैक्येनैवाविदुरित्यर्थः ।

प्रकटाप्रकटतया भिन्नं प्रकाशद्वयमभिमानद्वयं लीलाद्वयं
चभेदेनैवाजानन्निति विवक्षितम् । ततश्च नाम च रूपं च तस्मिन् तत्तन्
नामरूपात्मनि अप्रकटप्रकाशविशेषे प्रविष्टा इव, न तु प्रविष्टा वस्
त्वभेदादित्यर्थः । नामरूप इति समाहारः ।

तत्र प्रकटाप्रकटलीलागतयोर्नामरूपयोरभेदे दृष्टान्तः यथा
समाधौ मुनयः इति । समाधिरत्र शुद्धजीवस्येति गम्यम् । तयोर्
लीलयोर्भेदावेदने दृष्टान्तस्त्वयं लीलाब्धे आवेदनांश एव, न तु
सर्वावेदनांशे लोकवत्तु लीलाकैवल्यम् [Vस्. २.१.३३] इतिवत् ।

[१७७]

तदेवं प्रकटाप्रकटलीलयोर्द्वयोरपि तासां स्वप्राप्तौ भाव एव
कारणं दर्शितम् । ततश्चाप्रकटलीलायां प्रविष्टा अपि यादृशं तस्य
स्वरूपं प्राप्तास्तद्दर्शयन्नन्यदप्यनुवदति

मत्कामा रमणं जारमस्वरूपविदोऽबलाः ।
ब्रह्म मां परमं प्रापुः सङ्गाच्छतसहस्रशः ॥ [भागवतम् ११.१२.१३]

[B रेअद्स्हेरे: अयमर्थः यथा भीष्ममुदारं दर्शनीयं कटं करोति
इत्यत्र क्रिया खलु विशेषस्य कृतिं प्रत्यायन्ती विशेषणानामपि
प्रत्याययति । कटं करोति तं च भीष्ममित्यादिरीत्या । तथात्रापि
प्रतीयते विशेष्यं चात्र ब्रह्मैव । सर्वविशेषणाश्रयणीयपरम
वस्तुतया तेषु विशेषणेषु तस्याभेदेनानुगमातेकमेवाद्वितीयं ब्रह्म
[Cहाऊ ६.१.१] इति श्रुतेः । परमित्यादीनि तु विशेषणानि तद्अभिन्नत्वेऽपि
प्रतिस्वं भेदकत्वात्स एकधा भवति द्विधा भवति इत्यादि श्रुतेः । तद्
एवं स्थिते क्रमोऽप्यत्रार्थिक एव गृह्यते पच्यन्तां विविधाः पाकाः [भागवतम्
१०.२४.२६] इत्यादौ, सर्वदोहश्च गृह्यतामितिवतग्निहोत्रं जुहोति यवागं
पचति इत्यादिवच्च । ततश्च [एन्द्Vऋ. अद्दितिओन्]

(पगे ९६)
एवं पूर्वोक्तरीत्या ता अबला ब्रह्म प्रापुस्तच्च परमं भगवद्रूपं
प्रापुः । ब्रह्मणो हि प्रतिष्ठाहम् [गीता १४.२७] इत्यादेः । तदेवं स्थिते
तासां मद्अंशभूतानां नित्यप्रियाणां सङ्गादन्या अपि तदानीमेव
गोकुलभाजः शतसहस्रशः प्रापुः । सङ्गस्य तत्प्रापकत्वं च झटिति
समानभावजनकत्वात् । यथोक्तमेतत्पूर्वमेव केवलेन हि भावेन
गोप्यो गावः [भागवतम् ११.१२.८९] इत्यादि । एवं गवादिष्वपि द्विविधत्वं गम्यम् ।
किमाख्यं प्रापुस्तत्राह मां कृष्णाख्यमेव नराकृति परं ब्रह्मेति
पुराणवर्गात् । योऽवताराणां मध्ये श्रेष्ठोऽवतारः को भविता कथम्
अस्यावतारस्य ब्रह्मता भवति [ङ्टू २.१३] तापनीभ्यश्च ।

कीदृशसम्बन्धं त्वां प्रापुस्तत्राह रमणं जारमिति । रमणः पतिर्
नन्दनशब्दवद्यौगिकत्वबाधात् । यथा मित्रापुत्रो मित्रानन्दन
एवोच्यते, न तु मित्रापतिः । मित्रापतिरपि मित्रारमण एवोच्यते, न तु
मित्रापुत्र इति ।

ततश्चायमर्थः । यथा भीष्ममुदारं दर्शनीयं कटं करोति इत्यत्र
क्रिया खलु विशेषस्य कृतिं प्रत्यायन्ती विशेषणानामपि प्रत्याययति ।
कटं करोति तं च भीष्ममित्यादिरीत्या । तथात्रापि प्राप्तं ब्रह्म
प्रापुस्तच्च परमं भगवद्रूपं तच्च मां श्रीकृष्णाख्यं स्वयं
भगवद्रूपमित्यादिरीत्या । किन्तु जारमित्युक्तेरेव रमणविशेषत्वे
लब्धे रमणपदमधिकं स्यादित्यक्षराधिक्येनार्थाधिक्यमिति
न्यायादधिकार्थमेव बोधयति । तत्र चाधिकपदस्यैवार्थः
पर्यवस्यतीति प्रयत्ने नोपादानाज्जारत्वं च प्रातीतिकमात्रम् । गोपीनां
तत्पतीनां चेत्यादेः । किन्तु साधारणीष्वपि परब्रह्मणः सर्वांशित्वात्
सर्वपातृत्वाच्पतित्वमेव । यथोक्तं पिङ्गलया आत्मना रमणेन वै [भागवतम्
११.८.३९] इति, रेमेऽनेन यथा रमा [भागवतम् ११.८.३४] इति । लक्ष्मीदेव्या च, स वै
पतिः स्यादकुतोभयः (पगे ९७) स्वयं समन्ततः पाति भयातुरं जनम्
[भागवतम् ५.१८.२०] इति । तस्मात्पूर्वं यं जारत्वेन प्रतीतं प्रापुः पश्चान्निज
रूपमेव तं प्रापुरिति । तथा जारमित्येवोक्ते पर्यवसितं न सिद्ध्येदिति
(पगे ९८) रमणमित्युच्यते । रमणमित्येवोक्ते भगवत्त्वं श्रीकृष्ण
रूपत्वं च न सिद्ध्यति, मामित्येवोक्ते ब्रह्मत्वं भगवत्त्वं च
प्रमाणान्तरसाकाङ्क्षं भवति इति साक्षादेव तत्तदुच्यते । पूर्व
प्रतीतत्वाद्रमणपदेनापि जारत्वमेव प्रतीयेतेति तन्निरासार्थं तत्तद्
अनुवादश्चावश्यं कार्यः । (पगे ९९) ब्रह्म मां परममित्येषु पदेषु
पाठक्रमस्याविवक्षितत्वाज्जारभावस्य च पूर्वत्वादार्थिक एव क्रमो
लभ्यते । एष एव च सर्वत्र बलीयान् । ततो न विपर्ययेणार्थश्च कार्यः ।
किं चाप्राप्ते हि शास्त्रमर्थवदिति न्यायेन । दध्ना जुहोतीत्यादिवद्
अप्राप्ते रमणपदे एव तात्पर्यं न तु पूर्वपूर्वप्राप्ते ब्रह्मादिजार
पर्यन्ते । नन्दगोपसुतं देवि पतिं मे कुरु ते नमः [भागवतम् १०.२२.४] इति कृत
जपानां कुमारीणां तु पतिभावनापूर्तेति चेत्तर्हि तासामनवद्य
भावानां सङ्कल्पसिद्धिरेव श्रीभगवता सुतरां कार्या । तत्रैव च
स्वयमङ्गीकृतं याताबला [भागवतम् १०.२२.२१] इत्यादौ सिद्धा इति मया इति च ।

[ठे अबोवे सेच्तिओन् स्तर्तिन्ग्wइथ्“ब्रह्मणो हि प्रतिष्ठाहम्” उप्तो “इति
मयेति च” इस्नोत्fओउन्दिन् Vऋ. ईत्रेअद्सस्fओल्लोwस्:

परमं यो महद्ब्रह्म इति सहस्रनामस्तोत्रात् । शुभाश्रयः स्वचित्तस्य
सर्वगस्य तथात्मनः [Vइড়् ६.७.७५] इति विष्णुपुराणाच्च । तादृशं तं च मां
कृष्णाख्यमेव प्रापुः कृष्णाकृति परं ब्रह्म इति पुराणवर्गात् ।
ब्रह्मणो हि प्रतिष्ठाहम् [गीता १४.२७] इति श्रीगीतोपनिषद्भ्यः । तद्
रूपस्यैव स्वस्य प्राप्तिस्तासु स्वयमेव श्रीभगवता प्रोक्ता [भागवतम् १०.४.३६] ।

मय्यावेश्य मनः कृत्स्नं विमुक्ताशेषवृत्तिर्यत् ।
अनुस्मरन्त्यो मां नित्यमचिरान्मामुपैष्यथ ॥ [भागवतम् १०.४७.३६] इति ।

मयि भक्तिर्हि भूतानाममृतत्वाय कल्पते ।
दिष्ट्या यदासीन्मत्स्नेहो भवतीनां मद्आपनः ॥ [भागवतम् १०.८२.४४] इति च ।

अथ तादृशं च मां भावविशेषसंवलितमेव प्रापुरित्याह, मत्कामा
रमणं जारमस्वरूपविदः इति, रमणशब्देन पतिरेवोच्यते, नन्दन
शब्देन पुत्र इव रूढ्या यौकितत्वबाधात् । यथा मित्रानन्दन
शब्देनात्र मित्रापुत्र एवोच्यते न तु मित्रापतिः । मित्रारमणशब्देन
च मित्रापतिः । न तु मित्रापुत्रः तद्वदत्रापि । कोषमते च रमण
शब्दः पत्यावेव रूढः । पटोलमूले रमणं स्यात्तथा रमणः प्रिये
श्रीस्त्रीजातिसम्बन्धे सति रमणशब्दवत्प्रियशब्देन पतिरेवोच्यते
तथैव प्रसिद्धेः । धवः प्रियः पतिर्भर्ता इत्यमरकोषाच्च । पतित्वं
तूद्वाहेन कन्यायाः स्वीकारित्वमिति लोक एव भगवति तु स्वभावेनापि
दृश्यते परमव्योमाधिपस्य महालक्ष्मीपतित्वं ह्यनादिसिद्धमिति ।

जारशब्देन सर्वत्रोपपतिरेवोच्यते जारस्तूपपतिः समौ इत्यमरकोषात् ।
उपपतित्वं चाधर्मेण प्रतीयमानत्वम् । यथोपधर्मत्वमधर्मे
धर्मीयमानत्वमिति । उभयत्रापि (पगे ९७) वेदविरुद्धत्वात् । तदेव
जारः पापपतिः समौ इति त्रिकाण्डशेषः । ततश्च जारत्वं रमणे नास्ति,
रमणत्वं जारे नास्ति । धर्मोपधर्मयोरिव द्रव्यस्य स्वामिचौरयोरिव
च विरुद्धवस्तुत्वादिति स्थिते ब्रह्म मां परममितिवन्
नैकाधिकरणत्वं जारत्वरमणत्वयोः सम्भवति । तस्माद्
अधिकारिणीनां तासां विशेषणभेदेन तद्द्वयं समादधत्तद्अर्थं
चैकस्य वास्तवत्वमन्यस्य त्ववास्तवत्वं दर्शयति मत्कामा रमणम्
इति जारमस्वरूपविदः इत्याभ्यां तत्र जारत्वस्यैव प्रातीतिकमात्रत्वाद्
अवास्तवत्वं स्वामिभिरङ्गीकृतं नान्यस्य । जारबुद्धिवेद्यमपि इत्य्
उक्तत्वात् । स्थापयिष्यते च तदिदमस्माभिरुत्तरत्र ।

ततश्चायमर्थः । स्वरूपं मन्नित्यप्रेयसीरूपत्वमजानन्त्यो
जन्मादिलीलाशक्त्या विस्मरन्त्यो मां जारं प्रापुः धर्मविरुद्धतया
प्रतीतावपि रागातिशयेन जारतयापि स्वीकृतं प्रापुरित्यर्थः । तथा तत्
प्राप्तावपि मत्कामाः इति यत्पत्य्अपत्य्सुहृदामनुवृत्तिरङ्ग [भागवतम्
१०.२९.३२] इत्य्आदिरीत्या मयि कामोऽभिलाषविशेषः कथमन्यत्र पतित्वं
स्वप्नवद्विलीयते । श्रीकृष्ण एव पतित्वं जाग्रद्वदाविर्भवेदित्येवंरूपो
यासां तादृश्यः सत्यो रमणरूपमेव मां प्रापुरिति । एतदर्थमेव
पृथक्कृत्य तासां विशेषणाभ्यां सह स्वविशेषणद्वयं मत्कामा
रमणमिति ।

जारस्वरूपविदः इति यथायोगं च पठितम् । न तु ब्रह्म मां परमम्
इत्येभिः सह कृतम् । तदिदं स्वेषु तदीयस्वीयात्वं प्रकटयितुमपि
तासां प्रार्थनापि दृश्यते । यस्मातपि बत मधुपुर्यामार्य
पुत्रोऽधुनास्ते [भागवतम् १०.४७.२१] इत्यत्र तदीयात्व एव स्वामिमतिं व्यज्य तत्र
च किङ्करीणामित्यनेन दैन्यात्पुनस्तदपलाप्य पुनरुत्कण्ठया
भुजमगुरुसुगन्धम् [भागवतम् १०.४७.२१] इत्यादिना स्पष्टतयैव स्वीयात्वेन
स्वेषु तदीयस्वीकारस्याभिकाङ्क्षाव्यञ्जना श्रीराधादेव्या कृतेति हि
गम्यते । दैन्यं चात्र पतित्वकामनायामपि श्यामसुन्दर ते दास्यः
[भागवतम् १०.२२.१५] इतिवद्गम्यम् । स्पष्टं च तत्स्वीकरणप्रार्थना च ।

यद्यपि मामेव दयितं प्रेष्ठमात्म्नानं मनसा गताः [भागवतम् १०.४६.४]
इत्यनेन बल्लव्यो मे मद्आत्मिकाः इत्यनेन चास्मासु स्वीयात्वभावस्
तस्यापि मनसि वर्तते एव, तथापि धारयन्त्यतिकृच्छ्रेण इत्यादि
स्वाभिप्रायेण यद्यागत्य स्पष्टमेव स्वीक्रियामहे तदैवास्माकं
निस्तारः स्यादिति तस्याभिप्रायः । तस्मात्साध्वेव तथा व्याख्यातं मत्
कामा रमणमिति ।

अथ प्रस्तुतमेवानुसरामः । जारतया प्रतीतत्वेन रमणत्वेन च प्राप्तौ
हेतुः अबला इति । एतत्पदेन हि तासु निजकारुण्यं व्यञ्जितम् । तेन च तस्य
कारणं रामेण सार्धमित्याद्युक्तं तासां महाप्रेम स्मारितम् । तस्मात्
तथा मत्प्राप्तौ तादृशमहाप्रेमैव हेतुरित्यर्थः । तदेवम्
उभयथाप्राप्तावपि मत्कामा इत्यनेन रमणतया प्राप्तावेव
पर्याप्तिः दर्शिता । तद्यथा तु अहं भक्तपराधीनः [भागवतम् ९.४.६३] इति,
स्वेच्छामयस्य [भागवतम् १०.१४.२] इति, ये यथा मां प्रपद्यन्ते [गीता ४.११] इति च
प्रतिज्ञाहानिः स्यात् । तत्र ये यथा इति येन कामनाप्रकारेणेत्यर्थः तत्
क्रतुन्यायात् ।

तदेवं तासामभीष्टपूरणं कैमुत्येनैवायातम् । ततश्चास्तां तासां
तदीयपरमलक्ष्मीरूपाणां वार्ता । तत्सङ्गादन्या अपि शतसहस्रशस्
तथा मां प्रापुरित्याह सङ्गादिति । अत्रैवं विवेचनीयं तासां नित्य
प्रेयसीनां तस्मिन् जारत्वं न सम्भवत्येव । श्रीमद्दशार्णादौ हि तन्
नाम्ना तासां पतित्वेनैवासावभिधीयते वल्लभो दयितेऽध्यक्षे इति विश्व
प्रकाशादिगतवल्लभशब्दस्य द्व्य्अर्थत्वेऽपि दयितत्वस्य तास्वर्हत्वात् ।
गौतमीयतन्त्रे च तन्मन्त्रव्याख्यायां पतित्वेनैव तद्व्याख्या
दृश्यते । तन्नाम्नः खलु ब्रह्मत्वेश्वरत्वयोगेन व्याख्याद्वयं
विधायोत्तरपक्षत्वेनाभीष्टं व्याख्यानमाह गौतमीयतन्त्रे
द्वितीयाध्याये दशार्णव्याख्यायां

अनेकजन्मसिद्धानां गोपीनां पतिरेव वा ।
नन्दनन्दन इत्युक्तस्त्रैलोक्यानन्दवर्धनः ॥ इति ।

अत्रानेकजन्मसिद्धत्वमनादिकल्पपरम्पराप्रादुर्भूतत्वम्
एवोच्यते बहूनि मे व्यतीतानि जन्मानि तव चार्जुन [गीता ४.५] इतिवत् ।
वैवस्वतमन्वन्तरान्तर्गतावश्यम्भावं तत्प्रादुर्भावं विना
कल्पाभावात् । अनादिसिद्धवेदप्राप्ततद्उपासनासिद्धानादित्वात् । तद्
एकपतित्वं च तत्तन्मन्त्रोपासनाशास्त्रे (पगे ९८) तासां
कालानवच्छेदेन तद्आराधनतत्परतया स्थितानां ध्यातुं
विधीयमानत्वात्, पत्य्अन्तरसम्बन्धगन्धस्याप्यश्रवणात् । तथा च
ब्रह्मसंहितायां

आनन्दचिन्मयरसप्रतिभाविताभिस्
ताभिर्य एव निजरूपतया कलाभिः ।
गोलोक एव निवसत्यखिलात्मभूतो
गोविन्दमादिपुरुषं तमहं भजामि ॥ [Bरह्मष्५.४८] इति ।

लक्ष्मीसहस्रशतसम्भ्रमसेव्यमानमित्युक्तरीत्यामन्त्रतस्तच्
छब्दप्राप्त्या च गोपीरूपाभिः सह गोलोक एव निवसति इति प्रकट
लीलायामिव परकीयात्वप्रपञ्चं निषिद्धम् । कलात्वेनैव निजरूपत्वे
प्राप्ते निजरूपतयेत्यस्य तथैव सार्थकत्वात् ।

तथैवोक्तं श्रियः कान्ताः कान्तः परमपुरुषः [Bरह्मष्५.५६] इति । अत्र
श्रीपरमपुरुषयोरौपपत्यं न सम्भवतीति युक्तं च दर्शितवान् ।
तपन्यां ताः प्रति दुर्वाससो वचनं, स वो हि स्वामी [ङ्टू २.२७] इति । पति
रमणवल्लभशब्दवत्स्वामिशब्दश्च तथा प्रसिद्धः स्वामिनो देवृ
देवरौ इत्यमरकोषात् । ते च शब्दा एकनिष्ठत्वेन प्रयोगादन्योन्यम्
अन्यार्थतां निरस्यन्ति कृष्णाय वासुदेवाय देवकीनन्दनाय च [भागवतम् १.८.२१]
इत्यादिवत् । आस्तामप्रकटलीलाया वार्ता गुप्ततादृशतायां प्रकट
लीलायामपि रसप्रसङ्गे श्रीशुकेनापि सुखावेशादगुप्तमेव कृष्ण
वध्वः [भागवतम् १०.३३.७] इत्युक्तम् । ऋषभस्य जगुः कृतानि इत्यत्र स्वामिनापि
ऋषभस्य पत्युः इति व्याख्यातम् । गोपीपतिरनन्तोऽपि वंशध्वनिवशं
गतः इति सङ्गीतशास्त्रे । श्रीयमुनास्तवे श्रीशङ्कराचार्यवचनैरप्य्
उक्तम्, विधेहि तस्य राधिकाधवाङ्घ्रिपङ्कजे रतिमिति । श्रीगीतगोविन्दे
श्रीजयदेवचरणैश्च पत्युर्मनः कीलितमिति ।

तस्मात्स्वयं भगवता साध्वेव दर्शितम् जारमस्वरूपविदः इति मत्
कामा रमणमिति च । पूर्वं ययैव लीलाशक्त्या तासामुक्तण्ठातिशय
प्रकटनार्थं तन्नित्यप्रेयसीत्वस्वरूपानुसन्धानावरणपूर्वकं
श्रीकृष्णे जारत्वं प्रत्यायितमायत्यामपि तथैव पुनस्तस्मिन्
स्वाभाविकपतित्वप्रकाशमयसुखचमत्कारकरतादृश
स्वरूपानुसन्धानं क्रियते इति भावः । आस्तां नित्यप्रेयसीनां तासां
वार्ता । तत्सङ्गात्प्राप्तवतीनामन्यासामपि तस्मिन् रमणत्वमेव
सिध्यति, न तु जारत्वम् ।

तदेव व्यञ्जितम् मत्कामा इत्यनेन ब्रह्म मां परमं प्रापुः इत्य्
अनेन च परमब्रह्मणः सर्वांशित्वात्सर्वपातृत्वाच्च सर्वाधिपत्यम्
एव सिध्यति न तु परत्वम् । तत्र च सति तासु तादृशमत्कामासु पतित्वम्
एव स्यान्न जारत्वमित्यभिप्रायात् । तदुक्तं दत्तात्रयेणापि पारमार्थिक
तद्विवेकश्लाघागर्भगुरुत्वेन मतया पिङ्गलया आत्मना रमणेन वै
[भागवतम् ११.८.४०] इति, रेमेऽनेन यथा रमा [भागवतम् ११.८.३५] इति । रमादेव्या च स वै
पतिः स्यादकुतोभयः स्वयं समन्ततः पाति भयातुरं जनम् [भागवतम्
५.१८.२०] इति । तस्माद्वास्तववस्तुन एव फलत्वपर्यवसानाज्जारबुद्ध्यापि
प्राप्ते तस्मिन् रमणतया प्राप्तेरेव लालसाविषयत्वाच्च पतित्वमेव
पर्यवस्यति ।

तदेवमेवोक्तं

तमेव परमात्मानं जारबुद्ध्यापि सङ्गताः
जहुर्गुणमयं देहं सद्यः प्रक्षीणबन्धनाः ॥ [भागवतम् १०.२९.११]

अत्र जिघांसयापि हरये स्तनं दत्त्वाप सद्गतिम् [भागवतम् १०.६.३५] इति यथा
विगीतार्थेन जिघांसयापदेन संसजन्नपिशब्दो जिघांसायास्
तत्राप्रवर्तनीयत्वं व्यनक्ति, तथापि पुरुषार्थः सिद्ध इति विषयस्य
शक्तिमेव स्थापयति, तथा विगीतार्थेन जारपदेन संसजनजारत्वस्य
तथात्वं विषयस्य च तां गमयति रमणत्वं तु न तथा विगीतम्, प्रत्युत


याः सम्पर्यचरन् प्रेम्णा पादसंवाहनादिभिः ।
जगद्गुरुं भर्तृबुद्ध्या तासां किं वर्ण्यते तपः ॥ [भागवतम् १०.९०.२७]

इत्यादिना सुष्ठु स्तुतमेव न च आसामहो चरणरेणुजुषाम् [भागवतम्
१०.४७.६१] इत्यादिना जारत्वमपि स्तुतं, किन्तु तासां राग एव स्तुतः । येन
जारत्वेनाप्यसौ स्वीकृत इति । जारबुद्ध्या सहेति या जारवादिनः कल्पना
सा (पगे ९९) त्वसत्यैव । अनर्हत्वाज्जारपदसंसक्तस्यापिशब्दस्यान्यथा
प्रत्यायकत्वेन दर्शितत्वात् । सहपदसापेक्षत्वेन कष्टत्वात् । उपपद
विभक्तेः कारकविभक्तिर्बलीयसी इति न्यायात् । साधकतमस्यान्यस्य
कल्पनीयत्वाच्च ।

ते सर्वे स्त्रीत्वमापन्नाः समुद्भूताश्च गोकुले ।
हरिं सम्प्राप्य कामेन ततो मुक्ता भवार्णवात् ॥

इति पाद्मोत्तरखण्डश्रवणादेताः खलु तदापि न सिद्धदेहा इति
पर्यवसीयते । ततश्च तस्य देहस्य पत्युश्च त्यागेन श्रीकृष्णप्राप्तौ
परकीयात्वानुपपत्तिः । किमुत मायामात्रेण परकीयात्वेन
प्रतीयमानानां नित्यप्रेयसीनाम् । एवमेव च स्वयं भगवतापि दर्शितं
 या मया क्रीडता रात्र्यां [भागवतम् १०.४७.३०] इत्यादिना । किन्तु जारपदमेतादृग्
अश्लीलम् । यत्खलु जारतया भजन्तीभिरपि न जारं प्रतिवचन
विषयीक्रियते । किन्तु रमणादिपदमेवेति तदभिधेयं कथमिव
फलाय कल्पते ।

तदेवं जारमिति ब्रह्मेत्य्आद्यनूद्यवर्गान्तःपात्येव । किन्तु
भ्रममयत्वान्निन्दितत्वाच्च जारत्वस्य हेयत्वम् । रमणमिति तु
विधेयमिति यदुक्तम् । तत्खलु प्रकटलीलायां पूर्वस्य स्पष्टतया
वर्णितत्वेन श्रोतरि प्रसिद्धत्वादुत्तरस्य तद्वदवर्णितत्वेनापि
प्रसिद्धत्वादपि सिध्यति । प्रसिद्धत्वाप्रसिद्धत्वे एव तयोः प्रवृत्तिहेतुः
ब्राह्मण्योऽयं पण्डितः इतिवत् । न च अनुवादमनुक्त्वा तु न विधेयम्
उदीरयेतिति सर्वत्रोपलभ्यते । यस्य पर्णमयी जुहुर्भवति इत्यत्र
वैपरीत्यदर्शनात्, अप्राप्ते हि शास्त्रमर्थवतिति न्यायेन च दध्ना जुहोति
इत्यादिवदप्राप्ते रमणत्व एव तात्पर्यम् । न च पूर्वपूर्वप्रसिद्धे
ब्रह्मत्वादिजारत्वपर्यन्ते अनधिगतार्थगन्तृप्रमाणमिति च
वृद्धाः ।

किं च जारत्वस्य वास्तवत्वेऽश्लीलता दुर्निवारा । अवास्तवत्वे व्यभिचारित्वम्
एवेति । सर्वथा तद्विधेयं न भवत्येव वेत्यलमतिविस्तरेण । अत्र
ब्रह्मेत्येवोक्ते भगवन्तं, श्रुतनिर्विशेषब्रह्मवादस्य कस्यचित्
सन्देहविषयो भवतीति परममित्युक्तम् । परममित्युक्ते श्रीकृष्ण
रूपत्वं न प्रतीयते इति मामित्युक्तम् । मामित्येवोक्ते ब्रह्मत्वं
परमत्वं च प्रमाणान्तरसापेक्षं भवतीति तत्तदुच्यते । तथा जारम्
इत्येवोक्ते पर्यवसितं न सिध्यतिईति रमणमित्युक्तम् । रमणमित्येवोक्ते
पूर्वप्रतीतत्वाद्रमणपदेनापि कथञ्चिज्जारत्वमेव लक्ष्येतेति तन्
निरासार्थं जारमिति चानूद्यते । परमाभीष्टत्वादपि रमणत्वस्यैव
विधेयत्वं, न तु जारत्वस्य । [एन्द्Vऋ. रेअदिन्ग्.]

तथापि सर्वत्र पर्यवसाननिरुपद्रवेष्टप्राप्तिरेव खलु सिद्धान्त
रसशास्त्रयोः सम्मतीः । प्राचीनैराधुनिकैश्च लौकिकालौकिअवर्णकैः
कविभिस्तथैवोपाख्यायते । श्रीमद्अस्मद्उपजीव्यचरणैरपि ललित
माधवेपूर्णमनोरथनामन्यङ्के तथैव समार्पितं तदेवोज्ज्वल
नीलमणौ प्रमाणीकृत्य सर्वरसपूरकः समृद्धिमयः सम्भोग
उदाहृतः । श्रीभगवता च यत्त्वहं भवतीनां वै [भागवतम् १०.४७.३४] इत्य्
आदिना, या मया क्रीडता रात्र्याम् [भागवतम् १०.४७.३७] इत्याद्य्अन्तेन
तथैवाभिप्रेतम् । जारभावमयः सङ्गमश्च सदैव सोपद्रवस्
तस्मादसौ पर्यवसानपुरुषार्थत्वे तत्तच्छास्त्र (पगे १००) सम्मतो
न स्यात् । तथा परकोटिसङ्ख्यानां निजपदाब्जदलैः [भागवतम् १०.३५.१६] इत्य्
आदियुगले, कुजगतिं गमिता न विदामः कश्मलेन कवरं वसनं वा
[भागवतम् १०.३५.१७] इति चेत्यादिरीतीनामुद्भटमहाभावानां तासां व्रजे
भावसंगोपनं पूर्वमपि दुष्करमासीत् ।

महाविरहे तु जाते निवारयामः समुपेत्य माधवं किं नोऽकरिष्यन् कुल
वृद्धबान्धवाः [भागवतम् १०.३९.२८] इति, विसृज्य लज्जां रुरुदुः स्म सुस्वरं
गोविन्द दामोदर माधवेति [भागवतम् १०.३९.३१] चेति, ता मन्मनस्का मत्प्राणा
मद्अर्थे त्यक्तदैहिकाः [भागवतम् १०.४६.४] इति, कृष्णदूते व्रजायाते उद्धवे
त्यक्तलौकिकाः [भागवतम् १०.४७.९] इति, गतह्रियः [भागवतम् १०.४७.१०] इति, काचिन्
मधुकरं दृष्ट्वा [भागवतम् १०.४७.११] इति, या दुस्त्यजं स्वजनमार्यपथं च
हित्वा [भागवतम् १०.४७.६१] इति, गोप्यो हसन्त्यः पप्रच्छू रामदर्शनादृताः [भागवतम्
१०.६५.९] इति,

मातरं पितरं भ्रातॄन् पतीन् पुत्रान् स्वसॄनपि ।
यद्अर्थे जहिम दाशार्ह दुस्त्यजान् स्वजनान् प्रभो ॥ [भागवतम् १०.६५.११] इति च
श्रूयते ।

अत्र निवारयाम इत्यादिकं यथा सङ्क्प्ते तथैव विसृज्य लज्जामित्य्
आदिनाचरितम् । तासां लज्जात्यागः खलु भावव्यक्त्यैव स्यात्, सर्वेषां
गोइकुलवासिनां रोदनादिसाम्यात् । ततस्तद्व्यक्तिपूर्वैकरोदनद्वारेण
ताभिर्निवारणमपि योग्यमिति ।

एवं त्यक्तलौकिका इत्य्आदिषु च सुष्ठ्वेव भावव्यक्तिर्गम्यते । किं
बहुना, मातरमित्यादौ मात्रादीन् जहिम इत्युक्तं न तु पूर्वरागवत्
पतिसुतान्वयभ्रातृबान्धवानतिविलङ्घ्य [भागवतम् १०.३१.१६] इत्य्मात्रम्
उक्तम् । गोप्यो हसन्त्य इति तून्मादलक्षणम् । तदानीं हासायोग्यत्वात्,
यथैव काचिन्मधुकरं दृष्ट्वा इत्यादावुन्माद एव दृश्यते ।

तदेवं तदानीं तु दुर्धरमहाभावेनोन्मत्तचेष्टानां निरपत्रप
व्यञ्जितभावानां त्यक्तमात्रादीनां तासामसङ्ख्यानां भावस्य
संगोपनं नोपपद्यत एव । किन्तु ज्ञातोऽप्यसौ महाविरहपीडया स
वैरज्ञात इव आसीत् । अनन्तरं त्वनुसन्दध एव । स तु भाव
सङ्गोपनयैव कालकतिपयं स्वस्य रसतामावहति । व्यक्तत्वे तु स्वस्य
परेषामपि सर्वत्र वस्तुतो धर्ममयत्वप्रतीतौ जातायामेवेति रस
विदां मतम् । अधर्ममयत्वप्रतीत त्वश्लीलतया व्याहन्यत एव रसः ।
अधर्ममयत्वं च द्विधां परकीयात्वेन परस्पर्शेन च । तस्माद्
यथैश्वर्यज्ञानमय्यां श्रीपरीक्षित्सभायामैश्वर्यज्ञानरीत्यैव
तत्परिहृत्य रसावहत्वं समाहितम् । तथा लोकवल्लीलाकैवल्यावलम्बने
प्रेममय्यां श्रीगोकुलसभायां लोकरीत्यैव समाधेयम् । तथा हि

नासूयन् खलु कृष्णाय मोहितास्तस्य मायया ।
मन्यमानाः स्वपार्श्वस्थान् स्वान् स्वान् दारान् व्रजौकसः । [भागवतम् १०.३३.३७]

इति यत्श्रूयते (पगे १०१) तच्चात्राप्यवश्यमेव सङ्गमनीयं तस्याप्य्
असमर्थः । तस्य मायया मोहिताः सन्तो नासूयन् तस्य स्वनित्यप्रेयसी
स्वीकारलक्षणे कथमसावस्मद्धामार्थसुहृतप्रियात्मतनय
प्राणाशयजीवातुतमः परदारस्वीकारामङ्गलमङ्गीकरोतीति
दोषारोपं नाकुर्वन्नित्यर्थः । मायामोहितत्वमेवाह मन्येति । स्वरूप
सिद्धानां भगवद्दाराणामपरकर्तृकबलात्कारपरिहारार्थं तत्
तद्आकारतया मायाकल्पिता ये स्वे स्वे दारास्तान् स्वपार्श्वस्थान्
मन्यमानाः स्वमत्या निश्चिन्वाना इत्यर्थः ।

तदेवमन्तर्गृहगताः काश्चित्[भागवतम् १०.२९.९] इत्यत्रोक्तानामपि
समाधानं ज्ञेयम् । परमसमर्थायास्तस्याः मायाया निजप्रभु
प्रेयसीनां तद्एकानुरागस्वभावानां मर्यादारक्षणार्थं परिणयम्
आरभ्य सदैव सावधानतायाः योग्यत्वात्तद्दिनमुपलक्षणमेवेति ।

[Vऋ. अद्द्स्] श्रूयते च कूर्मपुराणे द्वात्रिंशाध्यायस्यान्ते पति
व्रतामात्रस्य परात्परिभवो न सम्भवतीति कैमुत्येन श्रीसीतादेव्य्
उदाहृता

पतिव्रताधर्मपरा रुद्राण्येव न संशयः ।
नास्यां पराभावं कर्तुं शक्नोतीह जनः क्वचित् ॥
यथा रामस्य सुभगा सीता त्रैलोकविश्रुता ।
पत्नी दाशरथेर्देवी विजिग्ये राक्षसेश्वरम् ॥
रामस्य भार्यां विमलां रावणो राक्षसेश्वरः ।
सीतां विशालनयनां चकमे कालचोदितः ॥
गृहीत्वा मायया वेशं चरन्तीं विजने वने ।
समाहर्तुं मतिं चक्रे तापसः किल भाविनीम् ॥
विज्ञाया सा च तद्भावं स्मृत्वा दाशरथिं पतिम् ।
जगाम शरणं वह्निमावसथ्यं शुचिस्मिता ॥
उपतस्थे महायोगं सर्वपापविनाशनम् ।
कृताञ्जली रामपत्नी साक्षात्पतिमिवाच्युतम् ॥
नमस्यामि महायोगं कृतान्तं गहनं परम् ।
दाहकं सर्वभूतानामीशानं कालरूपिणम् ॥ इत्यादि ।

इति वह्निं पूज्य जप्त्वा रामपत्नी यशस्विनी ।
ध्यायन्ती मनसा तस्थौ राममुन्मीलितेक्षणा ॥
अथाववस्थ्याद्भगवान् हव्यवाहो महेश्वरः ।
आविरासीत्सुदीप्तात्मा तेजसैव दहन्निव ।
सृष्ट्वा मायामयीं सीतां स रावणवधेच्छया ॥
सीतामादाय धर्मिष्ठां पावकोऽन्तरधीयत ।
तां दृष्ट्वा तादृशीं सीतां रावणो राक्षसेश्वरः ।
समादाय ययौ लङ्कां सागरान्तरसंस्ह्तिताम् ।
कृत्वा च रावणवधं रामो लक्षणसंयुतः ।
समादायाभवत्सीतां शङ्काकुलितमानसः ।
सा प्रत्ययाय भूतानां सीता मायामयी पुनः ।
विवेश पावकं दीप्तं ददाह ज्वलनोऽपि ताम् ।
दग्ध्वा मायामयीं सीतां भगवानुग्रदीधितिः ।
रामायादर्शयत्सीतां पावकोऽभूत्सुरप्रियः ।
प्रगृह्य भर्तुश्चरणौ कराभ्यां सा सुमध्यमा ।
चकार प्रणतिं भूमौ रामाय जनकात्मजा ॥
दृष्ट्वा हृष्टमना रामो विस्मयाकुललोचनः ।
ननाम वह्निं शिरसा तोषयामास राघवः ॥
उवाच वह्ने भगवन् किमेषा वरवर्णिनी ।
दग्ध्वा भगवता पूर्वं दृष्ट्या मत्पार्श्वमागता ॥
तमाह देवो लोकानां दाहको हव्यवाहनः ।
यथा वृत्तं दाशरथिं भूतानामेव सन्निधौ ॥ [Kऊर्मড়् ३२.५१३५३०] इत्य्
आदि ।

एवमग्निपुराणमपि दृश्यम् । तदेवमपि यत्तु वाल्मीकिना नेदं
स्पष्टीकृतं तत्खलु करुणरसपोषआर्थमेवेति गम्यते । सेयं च तस्य
परिपाटी क्वचिदन्येनाप्युपजीव्यते इति ज्ञेयम् ।

तदेवं पतिव्रतामात्राणां विशेषतः श्रीभगवत्प्रेयस्या प्रभावे सति


य एतस्मिन्महाभागे प्रीतिं कुर्वन्ति मानवाः ।
नारयोऽभिभवन्त्येतान् विष्णुपक्षानिवासुराः ॥ [भागवतम् १०.२६.२१]

इति सामान्यविषये गर्गवचने च सति तादृशीनां भ्रमेऽपि तं नित्यकान्तं
परित्यजन्तीनां नित्यं तत्कान्तं परिचरन्ती माया श्रीरामावसथ्याग्निवद्
अपि किं रक्षां न कुर्वीत किन्तु तकीय लीलानाट्यरक्षार्थं [Vऋ अद्दितिओन्
एन्द्स्हेरे.]

तदेवं च तत्पतिंमन्यादिष्वेव विवाहादिशयनादिसमयेष्वेव च
स्वरूपसिद्धा आवव्रिरे । अन्येषु चान्यदा च कल्पिता एवेति गम्यते । तावदेव
च युक्तं तासु मर्यादारक्षणोत्कण्ठावर्धनैकप्रयोजनत्वात्तस्याः ।
(पगे १०२)

यथैव हि तव सुतः सति यदाधरबिम्बे दत्तवेणुः [भागवतम् १०.३५.१४] इत्य्
आदौ, शुश्रूषन्त्यः पतीन् काश्चित्[भागवतम् १०.२९.७] इत्यादौ, ता वार्यमाणाः
पतिभिः [भागवतम् १०.२९.८] इत्यादौ च स्वरूपसिद्धानामेव दर्शनं तत्र
तत्रावगतम् । एवमन्यत्राप्यवगम्यम् । तासामन्यकृत
ध्वंसाभावस्य कारणं प्रभावश्च सम्भाव्यते

य एतस्मिन्महाभागाः
प्रीतिं कुर्वन्ति मानवाः ।
नारयोऽभिभवन्त्येतान्
विष्णुपक्षानिवासुराः ॥ [भागवतम् १०.८.१८] इति कैमुत्यप्राप्तेः ।

अथ तासामपत्यश्रवणं च यातृमानिनीप्रभृतीनामपत्ये तद्
व्यवहारात् ।

[Vऋ. ओमित्स्बेत्wएएन् यथैव हि अन्द्प्रभृतीनामपत्ये तद्व्यवहारात्: अथ
तासामपत्यश्रवणं च यातृमानिनीप्रभृतीनापत्येषु तद्व्यवहारात् ।
साम्बलक्षणा प्रयानयने श्रीबलदेवमुद्दिश्य ससुतः सस्नुषः
प्रायात्सुहृद्भिरभिनन्दितः इतिवत् । Eन्द्Vऋ. रेअदिन्ग्.]

स्वापत्यत्वे सति विभाववैगुण्येन रसाभासत्वमापद्येत । ततश्च भजते
तादृशीः क्रीडा याः श्रुत्वा तात्परो भवेत्[भागवतम् १०.३३.३६] इति, सिषेव इत्यादौ
सर्वाः शरत्काव्यकथारसाश्रया [भागवतम् १०.३३.२६] इति च विरुध्यते । पर
पुत्रत्वप्रतिपादनायैव हि पाययन्त्यः शिशून् पय इत्येवोक्तं न तु सुतान्
स्तनमिति । अतएव मातरः पितरः पुत्रा भ्रातरः पतयश्च वः [भागवतम्
१०.२९.२०] इति परिहासत्वेनैव श्रीभगवद्वाक्यं रसाय सम्पद्यते ।
वास्तवत्वेन तु वैरस्यायैव स्यात्, तासामङ्गीकरिष्यमाणत्वात् । क्वचित्
ताभिरेव तेषु यत्पतिशब्दः प्रयुक्तस्तद्बहिर्लोकव्यवहारत एव
नान्तर्दृष्टितः यत्पत्य्अपत्यसुहृदामनुवृत्तिरङ्ग [भागवतम् १०.२९.३२] इत्य्
आदिना तद्अङ्गीकारात् । मामेव दयितं श्रेष्ठमात्मानं मनसा गताः
[भागवतम् १०.४६.४] इति भगवता तासामन्तःकरणप्रकाशनात् ।

[Vऋ. अद्द्स्: परं सौख्यं हि नैराश्यं स्वैरिण्यप्याह पिङ्गला [भागवतम् १०.४७.४७]
इत्यादिना ताभिः स्वेषां तद्एकनिष्ठताव्यञ्जनात् । Eन्द्Vऋ. रेअदिन्ग्.]

गोप्यः किमाचरयदयमित्यादौ दामोदराधरसुधामपि गोपिकानां
भुङ्क्ते स्वयम् [भागवतम् १०.२१.९] इत्यनेन अपि बत मधुपुर्यामार्य
पुत्रोऽधुनास्ते [भागवतम् १०.४७.२१] इत्यनेन ताभिः स्वयमुक्तेश्च । तत एतद्
उक्तं भवति रासपञ्चाध्याय्यां नासूयन् खलु कृष्णाय [भागवतम् १०.३३.३७] इत्य्
उक्तदिशा, स वो हि स्वामी [ङ्टू २.२२] इत्य्ताः प्रति तापनीस्थितदुर्वाससो
वाक्यवत् । कृष्णवध्व इत्य्उक्तरीत्या च याः खलु योगमायामुपाश्रित्य
इति श्रवणात्तत्तद्अर्थभगवन्नियुक्तयोगमायाकल्पिताकल्पिततया
योगमायैकविदिताः स्वतः परतश्च प्रच्छन्नद्विविधायमाना आसन्, तास्
तु पश्चाद्योगमाययैव देव्या प्रापञ्चिताभ्यां मर्यादोत्कलिताभ्यां स्व
पालितस्य रसपोषतरोः पर्यवसाननिरुपद्रवमहासुखप्राप्तिरूपाय
फलाय मुन्य्आकाशादिवाण्य्आदिकं द्वारीकृत्य वा स्वयमेव
प्रकटीभूय एव वा श्रीगोकुलवासिनः प्रति तथैव व्यक्तीकृताः,
स्वरूपेण मामेव रमणं प्राप्ताः, नासूयन् खलु कृष्णाय इत्याद्य्
उक्तासूयापरिहारस्य सम्यक्त्वाय तत्कल्पितास्तु स्वस्वपतिमित्येव श्री
भगवन्तम् । दृश्यते च संज्ञाछायादिवत्कल्पनाया व्यक्तत्वमेव
परिणामः सर्वत्र । तदित्थमेव मातापित्र्आदीनामभीष्टं सिध्यति ॥

[Vऋ. अद्द्स्हेरे: तस्मिन्नेव तेषां वात्सल्यस्य विश्रान्तेः । न च दाम्पत्ये
प्रकटे

बहु वार्यते यतः खलु यत्र प्रच्छन्नकामुकत्वं च ।
या च मिथो दुर्लभता सा परमा मन्मथस्य रतिः ॥ [ऊण्१.२०]

इति भरतानुसृतनिवारणाद्य्अभावाद्रसनिष्पत्तिर्न स्यादिति वाच्यम् ।
तस्य निवारणं खलु न भयदानेन भवेत्सर्वातिशायिसामर्थ्यात्, किन्तु
लज्जादानेनैव । लज्जा तु कुलीनकुमाराणां स्वस्त्रीगतरहस्यविहार
विशेषस्य परेणानुमितावपि जायते, किमुत

यत्र ह्रीः श्रीः स्थिता तत्र यत्र श्रीस्तत्र सन्नतिः ।
सन्नतिर्ह्रीस्तथा श्रीश्च नित्यं कृष्णे महात्मनि ॥ [ःV २.१०१.७३ (९६.७२)]

इति हरिवंशाद्य्उक्तानुसारेण परमलज्जादिगुणनिधानस्य व्रजे नव
वयः श्रीलतामेवाभिव्यञ्जतस्तस्य सिद्धे च लज्जालुत्वे स्वयमेव
निवारणादित्रयं सिध्यति । किन्तु लज्जा द्विविधा सङ्गोप्य न्याय्यकर्मणि
सङ्कोचमात्रकरी, अन्याय्यकर्मणि न्यक्कारकरी च । अत्र
पूर्वाव्याजान्तराच्छन्ना नातिविरोधिनी उत्तरा यशः प्रियेण तेन कृत्तेऽपि
व्याजे तस्यानुमितिश्चेद्द्विगुणीभूय विरोधिनी ।

तदेवं सति गोपनारीभिरनिशं क्रीडयामास केशवः [ড়द्मড়् ६.२५२.२६]
श्रुतानिशक्रीडा पारदार्ये सर्वथा न सम्भवति, स्वदारत्वे तु तासाम्
असङ्ख्यानां स्वस्वरूपपत्य्अप्राप्ता जातपरमदुःखानां गुरुभिरपि
सम्मतः सान्त्वनादिरूपो य आवश्यकधर्मस्तद्विधव्याजेन
सम्भवति । यच्च

रम्यकेलिसुखेनैव गोपवेशधरः प्रभुः ।
बहुप्रेमरसेनात्र मासद्वयमुवास ह ॥

इत्येतत्पद्यं तद्अनन्तरं च सर्वेषां मनोरमत्वं बहुप्रेमरस
प्रदत्वं च इत्थमेव सङ्गच्छते इति । न च गोपनारीभिरिति परदारत्वं
शब्दलब्धम् । देवहुत्यां सा त्वं ब्रह्मन्नृपवधूरिति कर्दमं प्रति
भगवद्वाक्याज्जात्य्अपेक्षयापि सम्भवात् ।

न च निवारणादिभिरौपपत्यमेव भरतमतं रत्नावलीनाटिकायां
ययातिचरितादिवद्दाम्पत्येऽपि सम्भवात् । नेष्टा यदङ्गिनि रसे कविभिर्
परोढा [ऊण्५.३] इति विरोधात् ।

तदेवं गूढतया मायया प्रणीतानां रमणतया तस्य प्राप्तौ मत्कामा
रमणमिति पद्यं योजितम् । नन्दगोपसुतं देवि पतिं मे कुरु ते नमः
इति कृतजपानां कुमारीत्वेन प्रसिद्धानां परासामपि सङ्कल्पसिद्धिर्
एव श्रीभगवता कृता । तत्रैव हि स्वयमङ्गीकृतं याताबला व्रजं
सिद्धाः इति । तदेतत्पक्षेऽपि पूर्ववदेव गुप्तपतित्वाज्जारमिव जारमिति
सङ्गमनीयम् । तस्माच्च श्रीगोपालोत्तरतापन्यां ताः प्रति दुर्वाससा यद्
उक्तं तदेव निगमनीयं जन्मजराभ्यां भिन्नं स्थाणुरयमित्यादौ
स वो हि स्वामी भवति इति । [एन्द्Vऋ. अद्दितिओन्.]

॥ ११.१२ ॥ श्रीभगवानुद्धवम् ॥ १७५१७७ ॥

(पगे १०३)
[१७८]

पूर्वोक्त एवाप्रकटलीलाप्रवेशप्रकटलीलाविष्काररूपोऽर्थस्तद्
अनन्तरप्रश्नोत्तराभ्यामप्यभिप्रेतोऽस्ति । प्रश्नस्तावत्श्र्युद्धव
उवाच

संशयः शृण्वतो वाचं तव योगेश्वरेश्वर ।
न निवर्तत आत्मस्थो येन भ्राम्यति मे मनः ॥ [भागवतम् ११.१२.१६]

तव वाचं शृण्वतोऽवधारयतोऽपि ममात्मस्थः संशयो मयोदितेष्ववहित
इत्यादिकाध्यायत्रयगतमहावाक्यार्थपर्यालोचनासामर्थ्यं न
निवर्तते । कुतः ? येन यत एव रामेण सार्धं मथुरां प्रणीते [भागवतम्
११.१२.१०] इत्यादि लक्षणात्तव वाक्यान्मम मनो भ्राम्यति । हन्त तासाम्
अनेन सङ्गमः कुत्र कथं विद्यते इति चिन्तया न स्वस्थं वर्तते इत्य्
अर्थः ।

[१७९]

तथोत्तरं तत्र तस्य संशयमपनेतुं द्वाभ्यां तावत्तच्चित्तं स्वस्थयन्
श्रीभगवानुवाच

स एष जीवो विवरप्रसूतिः
प्राणेन घोषेण गुहां प्रविष्टः ।
मनोमयं सूक्ष्ममुपेत्य रूपं
मात्रा स्वरो वर्ण इति स्थविष्ठः ॥ [भागवतम् ११.१२.१७]

स एव मल्लक्षणो जीवो जगतो जीवनहेतुः विशेषतो व्रजस्य जीवनहेतुर्वा
परमेश्वरः प्राणेन मत्प्राणतुल्येन घोषेण व्रजेन सह विवर
प्रसूतिर्विवरादप्रकटलीलातः प्रसूतिः प्रकटलीलायामभिव्यक्तिर्यस्य
तथाभूतः सन् पुनर्गुहामप्रकटलीलामेव प्रविष्टः । (पगे १०४)
कीदृशः सन् ? किं कृत्वा ? मात्रा मम चक्षुर्आदीनि स्वरो भाषागानादि
वर्णो रूपमिति इत्थं स्थविष्टः स्वपरिजनानां प्रकट एव सनन्येषां
सूक्ष्ममदृश्यं बहिरङ्गभक्तानां च मनोमयं कथञ्चिन्मनस्येव
गम्यं यद्रूपं प्रकाशस्तदुपेत्य ।

[१८०]

प्रकटलीलाविष्कारं च सदृष्टान्तं स्पष्टयति

यथानलः खेऽनिलबन्धुरुष्मा
बलेन दारुण्यधिमथ्यमानः ।
अणुः प्रजातो हविषा समेधते
तथैव मे व्यक्तिरियं हि वाणी ॥ [भागवतम् ११.१२.१८]

दृष्टान्तोऽयं गर्भादिक्रमेणाविर्भावमात्रांशे । तृतीयेऽपि तदुक्तं
श्रीमद्उद्धवेनैव अजोऽपि जातो भगवान् यथाग्निः [भागवतम् ३.२.१५] इति ।
व्यक्तिराविर्भावः । हि यस्मादियं स्वरहस्यैकविज्ञस्य ममैव वाणी,
नात्रासम्भावना विधेयेत्यर्थः । ततश्चानन्तरं वक्ष्यमाण एवं गदिर्
[भागवतम् ११.१२.१९] इत्यादि ग्रन्थस्तु संशयापत्तोदने व्याख्येयः । एवं
पूर्वोक्तवाक्यस्यैवार्थभेदेन गदिर्लौकिकभाषणमिति ज्ञेयम् ।
तस्याप्युत्पत्तिर्ज्ञेयेत्यर्थः । स च सतात्पर्यकोऽर्थभेदष्टीकायामेव
दृश्यते इति ॥

॥ ११.१२ ॥ श्रीशुकः ॥ १७९१८० ॥

[१८१]

तदेवं श्रीमद्भागवते पुनर्व्रजागमनादिरूपोऽयमर्थो बहुधा
लब्धोऽपि पाद्मोत्तरखण्डवद्यन्न स्पष्टतया वर्णितस्तत्खलु
निजेष्टदेवत्वस्य बहिर्मुखान् प्रत्याच्छादनेच्छया अन्तर्मुखान्
प्रत्युत्कण्ठावर्धनेच्छयेति गम्यते । अतएवोक्तम् परोक्षवादा ऋषयः
परोक्षं च मम प्रियम् [भागवतम् ११.२१.३५] इति । यदेतत्तु मया क्षुद्रेण
तरलायितं क्षमतां तत्क्षमाशीलः श्रीमान् गोकुलवल्लभः ।

तदेतत्श्रीलवृन्दावने लीलाद्वयस्य मिलनं सावसरमेव प्रस्तुतम् ।
द्वारकायां तु प्रसिद्धमेव । तत्र मौषलादिलीला मायिक्येवेति पूर्वम्
एव दर्शितम् । वस्तुतस्तु द्वारकायामेव सपरिकरस्य श्रीभगवतो
निगूढतया स्थितिर्यादवानां च नित्यपरिकरत्वात्तत्त्यागेन स्वयं
भगवत एवान्तर्धाने तैरतिक्षोभेणोन्मत्तचेष्टैरुपमर्दिता पृथिव्य्
एव नश्येदिति प्रथमं तेषामन्तर्धापनम् । अतएवोक्तम्

भूभारराजपृतना यदुभिर्निरस्य
गुप्तैः स्वबाहुभिरचिन्तयदप्रमेयः ।
मन्येऽवनेर्ननु गतोऽप्यगतं हि भारं
यद्यादवं कुलमहो अविषह्यमास्ते ॥ [भागवतम् ११.१.३] इति ।

अत्र तेषामधार्मिकतया तु पृथिवीभारत्वं न मन्तव्यम् ।

ब्रह्मण्यानां वदान्यानां नित्यं वृद्धोपसेविनाम् ।
विप्रशापः कथमभूद्वृष्णीनां कृष्णचेतसाम् ॥ [भागवतम् ११.१.८] इत्यादौ

शय्यासनाटनालाप
क्रीडास्नानादिकर्मसु ।
न विदुः सन्तमात्मानं
वृष्णयः कृष्णचेतसः ॥ [भागवतम् १०.९०.४६] इत्यादौ च परमसाधुत्व
प्रसिद्धेः ।

पृथ्वीभारश्च व्यक्तिबाहुल्यमात्रेण नेष्यते । पर्वतसमुद्रादीनाम्
अनन्तानां विद्यमानत्वात् । तथा न वस्तव्यम् [भागवतम् ११.७.५] इत्यादि भगवद्
वाक्यस्य तात्पर्यमिदम् । माययापि यदूनां तादृशत्वदर्शनं
ममानन्दवैभवधाम्नि मदीयजनसुखदमद्विलासैकनिधौ
द्वारकायां नोचितं, प्रभासे तु तत्तद्योगादुचितमिति ।

अथ च जिजीविषुभिः [भागवतम् ११.६.३४] इत्युक्त्वा वृजिनानि तरिष्यामः [भागवतम् ११.६.३८]
इति चोक्त्वा वस्तुतस्तु तेषां तादृशत्वं न भविष्यतीत्येवोक्तम् । (पगे १०५)
तत्र चास्माभिः इति वयमिति चोक्त्वा स्वेनैक्यसूचनया स्वात्मवद्
अन्यथाभावत्वमेकगतित्वं व्यञ्जितमिति ।

तदेवं स्थिते तैः साकं श्रीभगवतो द्वारकायामेव नित्यां स्थितिमाह


द्वारकां हरिणा त्यक्तां समुद्रोऽप्लावयत्क्षणात् ।
वर्जयित्वा महाराज श्रीमद्भगवद्आलयम् ॥
नित्यं सन्निहितस्तत्र भगवान्मधुसूदनः ।
स्मृत्याशेषाशुभहरं सर्वमङ्गलमङ्गलम् ॥ [भागवतम् ११.३१.२३२४]

लोकदृष्ट्यैव हरिणा त्यक्तामत्यक्तामिति वा, नित्यं सन्निहित इति
वक्ष्यमाणत्वात् । ततश्चोभयथाप्याप्लावनं परितो जलेन परिखावद्
आवरणं तज्जलमज्जनं च समुद्रेणैव श्रीभगवद्आज्ञया त्यक्त
भूमिलक्षणस्य हस्तिनापुरप्रस्थापितबहिर्जनगृहाद्य्अधिष्ठान
बहिर्आवरणस्यैव । तथा रचनं विश्वकर्मणा तस्यैव प्रकटलीलायाः
प्रापञ्चिकमिश्रत्वात् । अतः सुधर्मादीनां स्वर्गादागमनं च युज्यते ।
अप्रकटलीलायां ततोऽपि दिव्यतरं सभान्तरादिकमपि स्यात् । श्रीमान्
यादवादिगृहवृन्दलक्षणशोभोपशोभावान् यो भगवद्आलयस्तं
वर्जयित्वा । तदेवमद्यापि समुद्रमध्ये कदाचिदसौ दूरतः किञ्चिद्
दृश्यते इति तत्रत्यानां महती प्रसिद्धिः । अत्र महाराजेति सम्बोधनं
दृष्टान्तगर्भम् । यद्वा महान्तो राजानो यादवलक्षणा यत्र
तथाभूतं तद्आलयं श्रीकृष्णनित्यधामरूपं द्वारकापुरम् । न
केवलं पुरमात्रास्तित्वं तत्र च श्रीमति भगवद्आलये मधुसूदनः
श्रीकृष्णो नित्यमेव सन्निहितः । अर्थात्तत्रत्यानां किं वा न तत्र
सन्निहितः । भगवान् यादवादिलक्षणाखिलनिजैश्वर्यवानेव ।

तद्आलयमेव विशिनष्टि स्मृत्येति । साक्षादधुना व्यक्ततद्
दर्शनाभावात्स्मृत्येत्युक्तम् । यः स्वयमेवम्भूतस्तस्य त्वन्यथा
सम्भावितत्वमपि नास्तीति । एवमेव विष्णुपुराणे

प्लावयामास तां शून्यां द्वारकां च महोदधिः ।
नित्यं सन्निहितस्तत्र भगवान् केशवो यतः ॥
तदतीव महापुण्यं सर्वपापप्रणाशनम् ।
विष्णुक्रीडान्वितं स्थानं दृष्ट्वा पापात्प्रमुच्यते ॥ [Vइড়् ५.३८.९१०] इति ।

[Vऋ. अद्द्स्हेरे: तथैव श्रीहरिवंशे यादवान् प्रतीन्द्रप्रेषितस्य
नारदस्य वाक्यम्

कृष्णो भोगवतीं रम्यामृषिकान्तां महायशाः ।
द्वारकामात्मसात्कृत्वा समुद्रं गमयिष्यति ॥ [ःV २.१०२.३२]

इत्यत्र आत्मसात्कृत्वा इति न तु त्यक्त्वेति । Vऋ. अद्दितिओनेन्द्स्.]

॥ ११.३१ ॥ श्रीशुकः ॥ १८१ ॥

[१८२]

तदेवमप्रकटप्रकटलीलयोः समन्वयो दर्शितः । एते एव पाद्मोत्तर
खण्डे भोगलीलाशब्दाभ्यामुच्येते भोगे नित्यस्थितिस्तस्य लीलां
संहरते कदा [भागवतम् ६.२२६.९] इत्यादिना । यां कदाचित्संहरते सा लीलेत्य्
अर्थः । तत्र प्रकटलीलागतभावस्य विरहसंयोगादिलीलावैचित्रीभर
वाहित्वेन बलवत्तरत्वातुभयलीलैकीभावानन्तरमपि तन्मयस्तेषाम्
अभिमानोऽनुवर्तते एव । तत्रैश्वर्यज्ञानसंवलितभावानां श्री
यादवानां स तावन्नूनमेवं सम्भवति । अहो सर्वदैवान्यजीवातूनाम्
अस्माकमीशिता श्रीकृष्णाख्यो भगवानयं नानालीलामृतनिर्झरैः
सान्द्रानन्दचमत्कारमास्वादयितुं यादवशिखामणेर्नित्यमेव पितृ
भावसमृद्धस्य श्रीमद्आनकदुन्दुभेर्गृहे स्वजन्मना स्वान् स्वान्
अलंचकार । ततश्च साधितास्मद्आनन्दसत्रप्रधानविविधकार्यः
परमबान्धवोऽसौ परमेश्वरस्तत्तद्रूपानेवास्मान् पुनर्
ब्रह्माद्यैरपि दुरधिगमे श्रीमथुरानाम्नि श्रीद्वारकानाम्नि वा
परमधाम्नि नानामाधुरीधुरीणाभिरात्मलीलाभिरनुशीलित एव
(पगे १०६) विभ्राजते इति । सोऽयमभिमानः श्रीवृन्दावने तु निजनिज
सम्बन्धसन्धायकप्रेमैकानुसारिणां श्रीव्रजवासिनां नूनमेव
समुज्जृम्भते अहोयोऽसौ गोकुलकुलभागधेयपुञ्जमञ्जुलप्रकाशो
मादृशां दृशां जीवनसञ्चयनिर्मञ्छनीयपादलाञ्छनलेशो
वाञ्छातीतसुखसन्ततिसन्तानको महावनव्रजमहाखनिजनिनीनील
मणिराविरासीत् । योऽसौ दुष्टभोजराजविसृष्टैः पूतनादिग्रहसमूहैर्
उपरकोऽपि मुहुरनुकूलेन विधिना तेषां स्वयमेव विनाशपूर्वकं
चकोरेभ्यः चन्द्रमा इवास्मभ्यं वितीर्ण एवासीत् । योऽसौ तादृशतदीय
महागुणगणादेव परितुष्यद्भिर्मुनिदेवैरिव दत्तेन केनापि
प्रभावेण मुहुरपि विपद्गणादात्मक्लेशमगणयन्नेव नः
परित्रातवान् । योऽसौ निजशीललावण्यरूपगुणविलासकेलिविनिगूढ
सौहृद्यप्रकटनचातुरीगुम्फितमाधुरीभिरस्मान् सुस्ठु पुष्टांश्
चकार । योऽसौ लघुनापि गुणाभासेनास्माकमानन्दसन्दोहम्
अभिविन्दमानो यद्यदपि मादृशामभिलषितं तद्अतीता वा तत्तदपि
प्रतिलवमप्याश्चर्यभूतं निजमाधुर्यवर्यमुल्लासितवान् । योऽसौ
सकलसाधुजनावनाय विख्यापितयादवसम्बन्धस्तद्द्वारा स्वयम्
अपि च राजन्यासुरसङ्घसंहरणाय यदुपुरीं प्रस्थितवान् । योऽसौ
कार्यानुरोधेन तत्रैव चिराय तिष्ठत आत्मनो विप्रयोगेन सतप्तबुद्धीन्
उद्धवादिभिरस्मानसकृदाश्वासयामास । योऽसौ पुनर्उत्कण्ठाकोटि
समाकृष्टमूर्तिभिस्तीर्थव्रज्याव्याजेन कुरुक्षेत्रप्रगतैरस्माभिः
श्वासमात्रावशिष्टैरिवामृतवारिधिरूपलब्धो बभूव । योऽसौ
तथाविधानस्मानात्मसन्निधौ मासकतिपयं संवास्य परम
स्वजनया मुधैव कृताभिमानेभ्यो यादवेभ्यो निगूढां कामपि स्नेह
मुद्रामस्मासु समुद्घटय्य भवतामेवाहमिति व्यञ्जनया मुहुर्
एवास्मानभितः सन्धुक्षितवान् । योऽसौ श्रीवृन्दावनमेवास्माकम्
आत्मनोऽपि परममभीष्टमिति निष्टङ्क्य शपथादिना निजझटित्य्
आगमने विस्रभ्य साग्रहमस्मानत्रैव प्रस्थापितवान् । सोऽयमहो
अकृतापरकर्तव्यशेष एवास्मान्निजागमनं विना समारब्धप्राणकोटि
मोचनव्यवसायानाशङ्क्य झटिति स्वयमेव गोकुलं साम्प्रतमागम्य
निजविरहकालव्यालमुखान्निष्कास्य च स्वावलोकनामृतपूरेण सिञ्चन्न्
एवास्ते ।

तत्र च प्रतिक्षणमपि नवनवीकृतेनानन्यसाधारणेन केनापि स्नेह
सन्दोहमयेन केवलेन निजस्वभावविशेषेण तत्रापि निजसौन्दर्य
वर्यामृतपूरप्रपाचयचयनेन, तत्रापि विविधपुष्पादिविभूषणपर
भागपराभोगेन, तत्रापि विलासमाधुरीधुराविशेषाधानेन, तत्रापि
विचित्रगुणगणोल्लासचमत्कारविद्याविनोदेन, तत्रापि गोपालन
गवाकारणबाल्यक्रीडनमोहनमन्त्रायितमुरलीवादनादिविभ्रमेण,
तत्रापि गोकुलनिर्गमनप्रवेशादिलीलाचातुरीमाधुर्याडम्बरेण, तत्रापि
सुहृदां यथायथमनुसन्तर्पणकेलिकलाविशेषप्रकाशित
स्नेहातिशयेनास्मानुपलालयन्नेवास्ते ।

तेन वयमहो समयगमनागमनमपि सम्भालयितुं न पारयाम इति ।
एतद्अनुसारेण द्वारकातः समागते श्रीकृष्णे केषाञ्चिद्व्रजवासिनामेव
तदानीन्तनमुल्लासवचनं जयति जननिवास [भागवतम् १०.९०.४८] इत्य्आदिकं श्री
शुकमुखादाविर्भूतमिति व्रजैकान्तभक्ता व्याचक्षन्ते ।
अक्लेशेनैवार्थविशेषस्फूर्तेः । सम्भवति च श्रीभागवतस्य
विचित्रार्थत्वं, विद्वत्कामधेनुरूपत्वात् । तथा हि जयति इत्यादि ।

कोऽपि सोऽयमस्माकं जीवनकोटिप्रियतमो विष्वक्प्रचारेण श्री
वृन्दावनस्यैव (पगे १०७) विशेषतः स्थावराणां जङ्गमानां च तद्
विरहाद्यद्दुःखं तन्निहन्ता जयति सर्वोत्कर्षेण वर्तते । अर्थाच्छ्री
वृन्दावन एव । श्रीवृन्दावनस्य स्थावराणामपि भावो वर्णित एव,
केवलेनैव भावेन इत्यादिना । केन विशिष्टः ? सुस्मितेन श्रीमुखेन ।
एतेन सदातनमानन्दैकरसत्वं स्वेषु सदैव सुप्रसन्नत्वं च तस्य
प्रकाशितम् । किं कुर्वन् ? व्रजरूपं यत्पुरं तत्सम्बन्धिन्यो या वनिता
जनितानुरागाः कुलवध्वस्तासां कामदेवं सर्व
प्रेमानन्दोपरिविराजमानत्वात्तासां कामस्तु देवः परमदिव्यरूपस्
तं वर्धयन् ।

ननु श्रीदेवक्याः पुत्रोऽयमित्येवं वदन्ति, तत्कथं युस्माकम्
अत्रास्मदीयत्वेनाभिमानः ? तत्राह देवक्यां जन्मेति वादो मिथ्यैव लोक
ख्यातिर्यस्य सः । तर्हि कथं वासुदेव इति नामेत्याशङ्क्याह जननिवासो
जनानां स्वजनानामस्माकं निवासत्वादाश्रयत्वादेव तथाभिधीयत
इत्यर्थः । स्वजनेष्वस्मासु कृतवासत्वादेव वा । ततश्चाधिकरणे कर्तरि
वौणादिको वासुः । स च दीव्यति क्रीडतीति देवश्च स इति विग्रहः । प्रागयं
वासुदेवस्य [भागवतम् १०.८.१४] इत्यादिका श्रीगर्गोक्तिरपि नास्मभ्यं भातीति
भावः । किमर्थमसौ देवकीजन्मवादोऽभूदित्याशङ्कायामाह
यदुवराः परिषत्सहायरूपा यत्र तादृशं यथा स्यात्तथा, स्वैर्दोर्भिर्
भुजप्रायैरर्जुनादिभिरधर्मं तत्प्रचुरं दुष्टकुलमस्यन्
निहन्तुं, लक्षणहेत्वोः, क्रियायाः शतृप्रत्ययस्मरणात् । तस्यामात्म
जन्मनि ख्यापिते ते ते सहाया भविष्यन्तीत्येवमनुसन्धायेत्यर्थः ।
तथोक्तं कंसवधानन्तरं श्रीकृष्णेन श्रीव्रजेश्वरं प्रति ज्ञातीन् वो
द्रष्टुमेष्यामो विधाय सुहृदां सुखम् [भागवतम् १०.४५.२३] इति । अत्र
विशेषेणेनैव श्रीकृष्णरूपविशेष्यपदमुपस्थाप्यते अयमुदयति
मुद्राभञ्जनः पद्मिनीनामितिवत् ॥

॥ १०.९० ॥ श्रीशुकः ॥ १८२ ॥

[१८३]

अथ तेषां तेन परमानन्देन समयाननुसन्धानमप्युक्तं व्रजति न
हि यत्रापि समयः [Bरह्मष्५.५६] इति । अतस्तेषां श्रीकृष्णागमन
परमानन्दमत्तानामद्यैवायमागत इतीव सदा हृदि वर्तते ।

[Vऋ. अद्द्स्हेरे:] स एष यद्वदप्रकटस्वारसिक्यां प्रकटलीलागतभाव
प्रवेशस्तथा तद्वैभवरूपासु मन्त्रोपासनामयीष्वपि स्वस्व
प्राक्तनतद्भावप्रवेशो ज्ञेयः । गङ्गाया भावस्तदीयह्रदश्रेणीष्व्
एव । उभयत्राप्यसौ समान एव दर्शितः । पाद्मपातालखण्डे गोगोप
गोपिकासङ्गे यत्र क्रीडति कंसहा इति गोविन्द गोपीजनवल्लभेश
कंसासुरघ्न इत्याभ्याम् । एवं यथा स्वारसिक्यामिव मन्त्रमय्यामपि
नन्दनन्दनत्वमनुगच्छेदेवं श्रूयते सकललोकमङ्गलो नन्द
गोपतनयो देवता इत्यत्र गौतमीयतन्त्रे द्वितीयाध्याये नन्दनन्दन
इत्युक्तः इत्यत्र च । [Vऋ. अद्दितिओनेन्द्स्.]

तदेवं प्रकटलीलागतभावविशेषस्याप्रकटलीलायां प्रवेशाद्बहिर्
अन्तर्धानलीलाद्वितीयस्यैक्यं वर्णितम् । तत्र यद्यपि पूर्वपूर्वमपि
तादृशभावस्तेषामनादित एवानुवर्तते तथापि तमेव नवनवीकृत्य
समुद्दीपयितुं पुनः पुनरवतार इति ज्ञेयम् ।

तदेवं श्रीकृष्णस्य स्वयं भगवत्त्वं दर्शितम् । तत्रापि श्रीगोकुले तत्
प्रकाशातिशयो दृश्यते । स चैश्वर्यगतस्तावत्सत्यज्ञानानन्तानन्दरस
मात्रैकमूर्तिब्रह्माण्डकोटीश्वरदर्शनादौ । कारुण्यगतश्च
पूतनाया अपि साक्षान्मातृगतिदाने । माधुर्यगतश्च ।

व्रजस्त्रियो यद्वाञ्छन्ति पुलिन्द्यस्तृणवीरुधः ।
गावश्चारयतो गोपाः पादस्पर्शं (पगे १०८) महात्मनः ॥ [भागवतम् १०.८३.४३]
इति श्रीपट्टमहिषीप्रार्थनादौ ।

अत्र स्थितेऽपि सर्वतोऽपि प्रेमवरीयसीनां तासां तत्पादस्पर्शसौभाग्ये
तन्माधुर्यप्रकाशातिशयवैशिष्ट्याभिप्रायेणैव तथोक्तिः सङ्गच्छते ।
तथैव चोक्तं

त्रैलोक्यसौभगमिदं च निरीक्ष्य रूपं
यद्गोद्विजद्रुममृगान् पुलकान्यबिभ्रत् ॥ [भागवतम् १०.२९.४०] इत्यादिषु ।

अतो लीलागतश्चासौ श्लाघ्यते पितरौ नान्वविन्देतां कृष्णोदारार्भके हितम्
[भागवतम् १०.८.४७] इत्यादिषु । अतस्तदीयानामप्युत्कर्ष उक्तः वृन्दावनं
गोवर्धनं यमुनापुलिनानि च [भागवतम् १०.११.३६] वीक्ष्यामीत्यादौ । ततः
परिकराणां तु अहो भाग्यमहो भाग्यम् [भागवतम् १०.१४.३२] इत्यादौ । इत्थं
सताम् [भागवतम् १०.१२.११] इत्यादौ, नन्दः किमकरोत्[भागवतम् १०.८.४३] इत्यादौ, एताः
परम् [भागवतम् १०.४७.५१] इत्यादौ, गोप्यस्तपः किमचरन् [भागवतम् १०.४४.१४] इत्य्
आदौ । तत्रापि तत्रातिशुशुभे ताभिः [भागवतम् १०.३३.६] इत्यादौ च तासु
प्रकाशातिशयसीमा दर्शिता । ततः सर्वास्वपि तासु अनयाराधितो नूनं
भगवान् हरिरीश्वरः [भागवतम् १०.३०.२८] इत्यादिभिः । प्रेमवरीयस्त्वेन
प्रसिद्धायां श्रीराधिकायां तु किमुतेति ज्ञेयम् । अत्र चेदं तत्त्वम् ।
द्वितीये सन्दर्भे खलु परमत्वेन श्रीभगवन्तं निरूप्य तस्य शक्ति
द्वयी निरूपिता । तत्र प्रथमा श्रीवैष्णवानां श्रीभगवद्उपास्या
तदीयस्वरूपभूता यन्मय्येव खलु तस्य सा भगवत्ता । द्वितीया चाथ
तेषां जगद्वद्उपेक्षणीया मायालक्षणा, यन्मय्येव खलु तस्य
जगत्ता । तत्र पूर्वस्यां शक्तौ शक्तिमति भगवच्छब्दवल्लक्ष्मीशब्दः
प्रयुज्यत इत्यपि द्वितीय एव दर्शितम् । ततोऽस्मिन् सन्दर्भे तु स च भगवान्
श्रीकृष्णाख्य एवेति निर्धारिते तदीया स्वरूपशक्तिस्तु किमाख्येति
निर्धार्यम् । तत्र द्वयोरपि पुर्योः श्रीमहिसाख्या ज्ञेया । मथुरायाम्
अप्यप्रकटलीलायां श्रुतौ रुक्मिण्याः प्रसिद्धेरन्यासामुपलक्षणात् ।
श्रीमहिषीणां तदीयस्वरूपशक्तित्वं स्कान्दप्रभासखण्डे श्रीशिव
गौरीसंवादे गोप्यादित्यमाहात्म्ये दृष्टम्

पुरा कृष्णो महातेजा यदा प्रभासमागतः ।
सहितो यादवैः सर्वैः षट्पञ्चाशत्प्रकोटिभिः ॥
षोडशैव सहस्राणि गोप्यस्तत्र समागताः ।
लक्षमेकं तथा षष्ठिरेते कृष्णसुताः प्रिये ॥ इत्युपक्रम्य,
ततो गोप्यो महादेवि विद्यायाः षोडश स्मृताः ।
तासां नामानि ते वक्ष्ये तानि ह्येकमनाः शृणु ॥
लम्बिनी चन्द्रिका कान्ता क्रूरा शान्ता महोदया ।
भीषणी नन्दिनी शोका सुपूर्वविमला क्षया ॥
शुभदा शोभना पुण्या हंसस्यैताः कला क्रमात् ।
हंस एव मतः कृष्णः परमात्मा जनार्दनः ॥
तस्यैताः शक्तयो देवि षोडशैव प्रकीर्तिताः ।
चन्द्ररूपी मतः कृष्णः कलारूपास्तु ताः स्मृताः ॥
सम्पूर्णमण्डला तासां मालिनी षोडशी कला ।
प्रतिपत्तिथिमारभ्य सञ्चरत्यासु चन्द्रमाः ॥
षोडशैव कला यास्तु गोपीरूपा वराणने ।
एकैकशस्ताः सम्भिन्नाः सहस्रेण पृथक्पृथक् ॥
एवं ते कथितं देवि रहस्यं ज्ञानसम्भवम् ।
य एवं वेद पुरुषः स ज्ञेयो वैष्णवो बुधैः ॥ [१०८.५८, १०१६] इति ।

अत्र गोप्यो राज्ञ्यः इत्यर्थः । गोपो भूपेऽपि इति नामलिङ्गानुशासनात् ।
लम्बिनी अवतारशक्तिः । सुपूर्वविमला सुविमला । हंसशीतेत्यत्र प्राप्तस्य
हंसयेत्यस्य वाच्यमाह हंस एवेति । स च चन्द्ररूपी चन्द्र
दृष्टान्तेनोद्देश्य इत्यर्थः । कलारूपा इति ताश्च शक्तयश्च
चन्द्रस्यामृतेत्यादिकलादृष्टान्तेनोद्देश्या इत्यर्थः । अनुक्तामन्तिमां
महाशक्तिमाह सम्पूर्णेति । सेयं तु (पगे १०९) कलासमष्टिरूपा ज्ञेया ।
दृष्टान्तोपपादनाय चन्द्रस्य तादृशत्वमाह प्रतिपदिति । आसु एतत्तुल्यासु
कलासु । विवक्षितमाह षोडशैवेति षोडशानामेव विद्यारूपत्वात् । एतद्
उपदेशस्य ज्ञानसम्भवरहस्यत्वात् । तज्ज्ञानस्य वैष्णवतानुमापक
लिङ्गत्वाच्च ।

क्रूराभीषणीशोकानामपि भगवत्स्वरूपभूतानामेव सतीनां
मल्लानामशनिः [भागवतम् १०.४७१७] इतिवत्श्रीकृष्णस्य कठिनत्व
प्रत्यायकत्वात् । मृत्युर्भोजपतेरितिवद्दुर्जनवित्रासकत्वात्, असतां शास्ता
इतिवत्तदीयशोकहेतुत्वादेव च तत्तन्निरुक्तिरुपपद्यते । यथा
प्रकाशैकरूपाया एव सूर्यकान्तेरुलूकेषु तमादिव्यञ्जकतेति । अतश्
चन्द्ररूपी मतः कृष्णः कलारूपास्तु ताः स्मृताः इति स्फुटमेव
स्वरूपभूतत्वं दर्शितम् ।

तदेवं तासां स्वरूपशक्तिभूतत्वे लक्ष्मीत्वं सिध्यत्येव । तदेवम्
अभिप्रेत्य लक्ष्मीत्वमाह

गृहेषु तासामनपाय्यतर्ककृन्
निरस्तसाम्यातिशयेष्ववस्थितः ।
रेमे रमाभिर्निजकामसम्प्लुतो
यथेतरो गार्हकमेधिकांश्चरन् ॥ [भागवतम् १०.५९.३४]

टीका च रमाभिर्लक्ष्म्या अंशभूताभिरित्येषा । स्वरूपशक्तित्वादेव
रेमे इत्युक्तम् । अतएव निजः स्वकीयः परमानन्दशक्तिवृत्तिविशेषोदय
रूपप्रेमविशेषस्वरूपो यः कामस्तेन सम्प्लुतो व्याप्त इति ॥

॥ १०.४९ ॥ श्रीशुकः ॥ १८३ ॥

[१८४]

इत्थमष्टानां श्रीपट्टमहिषीणां तु तत्स्वरूपशक्तित्वं
कैमुत्येनैव सिध्यति । तत्र श्रीसत्यभामाया भूशक्तिरूपत्वं
पाद्मोत्तरखण्डादौ प्रसिद्धम् । श्रीयमुनायाः कृपाशक्तिरूपत्वं
स्कान्दयमुनामाहात्म्यादावित्याद्य्अन्वेषणीयम् । किन्तु श्री
हरिवंशादौ सत्यभामायाः सौभाग्यातिशयस्य विख्यातत्वात्प्रेमशक्ति
प्रचुरभूशक्तित्वं ज्ञेयम् । स्वयं लक्ष्मीस्तु श्रीरुक्मिणी
द्वारकायामभूद्राजन्महामोदः पुरौकसाम् ।
रुक्मिण्या रमयोपेतं दृष्ट्वा कृष्णं श्रियः पतिम् ॥ [भागवतम् १०.५४.६]

इत्यादिषु तस्यामेव भूरिशः प्रसिद्धेः । अतः स्वयं लक्ष्मीत्वेनैव
परस्परयोग्यतामाह

अस्यैव भार्या भवितुं रुक्मिण्यर्हति नापरा ।
असावप्यनवद्यात्मा भैष्म्याः समुचितः पतिः ॥ [भागवतम् १०.५३.३७]

स्पष्टम् ।

॥ १०.५३ ॥ विदर्भपुरवासिनः परस्परम् ॥ १८४ ॥

[१८५]

तथा तां रुक्मिणीं श्रियमित्यादौ या लीलया धृततनोरनुरूपरूपा
[भागवतम् १०.६०.९] इति । स्पष्टम् ।

अतः स्वयं भगवतोऽनुरूपत्वेन स्वयं लक्ष्मीत्वं सिद्धमेव । अतएव
वैदर्भीं भीष्मकसुतां श्रियो मात्रां स्वयंवरे [भागवतम् १०.५२.१६] इत्यत्र
माति अन्तर्भवत्यस्यामिति मात्रापदं बाहुल्यादधिकरण एवौणादिकं
ज्ञेयम् । कार्त्स्न्ये अवधारणे मात्रमितिवत् । ततश्च वैकुण्ठप्रसिद्धाया
लक्ष्म्या अन्तर्भावास्पदत्वादेषैव लक्ष्मीः सर्वतः परिपूर्णेत्यर्थः ।
यत्तु

नन्वेवमेतदरविन्दविलोचनाह
यद्वै भवान् भगवतोऽसदृशी विभूम्नः ।
क्व स्वे महिम्न्यभिरतो भगवांस्त्र्य्अधीशः
क्वाहं गुणप्रकृतिरज्ञगृहीतपादा ॥ [भागवतम् १०.६०.३४]

इति तस्या एवोक्तिस्तत्र निजांशाभासमेव दैन्येन स्वं मत्वोक्तमिति
मन्तव्यम् । यद्वा, गुणा गौणी प्रकृतिः स्वभावो यस्याः सा अपकृष्ट
रूपेत्यर्थः । यथा तत्रैव, स्यान्मे तवाङ्घ्रिररणं सृतिभिर्
भ्रमन्त्याः [भागवतम् १०.६०.४३] इति मनुष्यावतारताभिनिवेशात्तस्या एव
दैन्योक्तिः । अत्र दैवप्रेरितो वास्तवोऽर्थस्त्वेवं (पगे ११०) हेऽरविन्द
लोचन भगवतस्तवासदृश्यहमित्येतद् । यद्भवानाह ननु निश्चितं
तत्त्वेवं वक्ष्यमाणप्रकारकं न त्वन्यप्रकारकम् । तथैवाह स्वे
स्वरूपभूते महिम्नि ऐश्वर्यादावभिरतो भगवान् क्व कुत्रान्यत्र,
तथाहं ता ते गुणा ऐश्वर्यादय एव प्रकृतिः स्वरूपं यस्यास्तथाभूता
क्व कुत्रान्यत्र, किन्तु न कुत्रचिदन्यत्रेति द्वयोरेकत्र एव स्वरूपे स्थितिर्
इत्यर्थः । अतएवाज्ञैरस्य श्रीविष्णोस्तव तत्त्वज्ञैर्गृहीतौ सेवितौ पादौ
यस्यास्तथाभूताहं तस्माच्छक्तिशक्तिमतोरत्यन्तभेदाभावाद्
एवोपमानोपमेयत्वाभावेन सादृश्याभाव इति भावः । एवं सृतिभिर्
भ्रमन्त्या इत्यत्रापि हि त्वदीयपदवीभिरित्येव वास्तवोऽर्थः । तदुक्तम्
 देवत्वे देवदेहैयं मनुष्यत्वे च मानुषी [Vइড়् १.९.१४३] इति ।

एवमेव

अस्त्वम्बुजाक्ष मम ते चरणानुराग
आत्मन् रतस्य मयि चानतिरिक्तदृष्टेः ।
यर्ह्यस्य वृद्धय उपात्तरजोऽतिमात्रो
मामीक्षसे तदु ह नः परमानुकम्पा ॥ [भागवतम् १०.६०.४६]

इत्यत्रापि तस्याः प्रकृतित्वं दैन्यजेनाभेदोपचारेणैव व्याख्येयम् । यद्
वा अस्य गार्हस्थस्य उपात्ता अङ्गीकृता रजोऽतिमात्रो सर्व
भूतानुरञ्जनातिशयो येन सः । वास्तवार्थस्त्वेवं यदुक्तं उदासीना
वयमित्यादि, श्रीभगवता तत्राह अस्त्विति । हे अम्बुजाक्ष आत्मनात्मनि
मयि च रतस्य ते चरणानुरागो ममास्तु । मयि रतत्वं चोक्तं तथाहमपि
तच्चित्तो निद्रां च न लभे निशि [भागवतम् १०.५३.२] इति स्वयमेवेति भावः ।

नन्वात्मरतस्य मम कथं त्वयि रतिस्तत्राह अनतिरिक्तदृष्टेः ।
शक्तिमत्यात्मनि शक्तौ च मय्यनतिरिक्ता पृथग्भावशून्या दृष्टिर्
यस्य । शक्तिशक्तिमतोरपृथग्वस्तुत्वाद्द्वयोरपि मिथो
विशिष्टतयैवावगमाद्वा युज्यत एव मय्यपि रतिरिति भावः ।

तदेवं सत्यामपि स्वाभाविक्यां रतौ विशेषतस्तु, यर्ह्यस्य रत्याख्यस्य
भावस्य वृद्धये उपात्ता रजोऽतिमात्रा रागातिशयो येन तथाभूतस्त्वं
मामीक्षसे सभावमालोकयसि तदासौ नोऽस्मान् प्रति
परमैवानुकम्पेति । एवमुदासीनत्वं तव साक्षान्मत्सम्बन्धाद्
अन्यत्रैवेति मम सुदृढ एव विश्वास इति भावः । तस्मात्साधूक्तं या
लीलया धृततनोः [भागवतम् १०.६०.९] इत्यादिना श्रीरुक्मिणीदेव्याः स्वयं
लक्ष्मीत्वम् ।

॥ १०.६० ॥ श्रीशुकः ॥ १८५ ॥

[१८६१८७]

अथ वृन्दावने तदीयस्वरूपशक्तिप्रादुर्भावाश्च श्रीव्रजदेव्यः ।
यथा ब्रह्मसंहितायाम्

आनन्दचिन्मयरसप्रतिभाविताभिस्
ताभिर्य एव निजरूपतया कलाभिः ।
गोलोक एव निवसत्यखिलात्मभूतो
गोविन्दमादिपुरुषं तमहं भजामि ॥ [Bरह्मष्५.३०] इति ।

ताभिः श्रीगोपीभिर्मन्त्रे तच्छब्दप्रयोगात् । कलाभिः शक्तिभिः । निज
रूपतया स्वस्वरूपतया । शक्तित्वं च तासां पूर्वोक्तोत्कर्षेण परम
पूर्णप्रादुर्भावानां सर्वासामपि लक्ष्मीत्वमेव । तदुक्तं तत्रैव
लक्ष्मीसहस्रशतसम्भ्रमसेव्यमानमिति, श्रियः कान्ताः कान्तः
परमपुरुषः इति च । एतदभिप्रेत्यैव स्वायम्भुवागमेऽपि श्रीभूलीला
शब्दैस्तत्प्रेयसीविशेषत्रयमुपदिष्टम् । तस्माल्लक्ष्मीतोऽप्युत्कर्ष
वर्णनमासां (पगे १११) परव्योमादिस्थिताभ्यस्तन्नाम्नैव
लक्ष्मीभ्य आधिक्यविवक्षयेति मन्तव्यम् । श्रीवृन्दावनलक्ष्म्यस्त्वेता
एवेति ।

एवमेव पादन्यासैर्भुजविधूतिभिः [भागवतम् १०.३३.७] इत्यादौ कृष्ण
वध्वः इत्युक्तम् । अतएव गोपीजनाविद्याकलाप्रेरकः [ङ्टू १.८] इत्यत्र
तापनीवाक्ये श्रीमद्दशाक्षरस्थनामनिरुक्तौ ये गोपीजनास्ते आ
सम्यग्या विद्या परमप्रेमरूपा तस्याः कला वृत्तिरूपा इति व्याख्येयम् ।
राजविद्या राजगुह्यम् [गीता ९.२] इत्यादि श्रीगीताप्रकरणात् । (अविद्या
कलाशब्देन अविद्यैव कला वृत्तिर्यस्याः सा सर्वेन्द्रियविमोहकारिणी
प्रेमशक्तिरेवाख्याता ।) व्याख्यान्तरे भगवत्यविद्यासंश्लेषाभावात् ।
तदुक्तं

ह्लादिन्या संविद्आश्लिष्टः सच्चिदानन्द ईश्वरः ।
स्वाविद्यासंवृतो जीवः संक्लेशनिकराकरः ॥ इति स्वामिसूक्तौ । तथा

ह्लादिनी सन्धिनी संवित्त्वय्येका सर्वसंश्रये ।
ह्लादतापकरी मिश्रा त्वयि नो गुणवर्जिते ॥ इति [Vइড়् १.१२.६९] विष्णुपुराणे
च ।

[B हेरे अद्द्स्: अथवा वैभवमात्राभिज्ञान् प्रति विराड्उपासनावत्गोपीजन
शब्दस्यान्यनिरुक्तिरियम् । यथा तत्रैव गोपालपदनिरुक्तौ सृष्टि
पर्यन्तमालातीत्युक्तम् । तत्राविद्याकलाशब्देन मायैवोच्यते इति । B
अद्दितिओनेन्द्स्.]

ततस्तासां प्रेरकस्तत्तत्क्रीडायां प्रवर्तक इति वल्लभ
शब्देनैकार्थ्यमेव । स वो हि स्वामी इति तस्यामेव श्रुतौ ताः प्रति
दुर्वाससो वाक्यात् । यच्च तासां क्वचित्पूर्वजन्मनि साधकत्वमिव
श्रूयते । तत्तु पूर्वासामेव व्याख्येयम् । तास्तु नित्यसिद्धा एव । अत इदम्
इत्थमेव व्याख्येयम्

ताभिर्विधूतशोकाभिर्भगवानच्युतो विभुः ।
व्यरोचताधिकं तात पुरुषः शक्तिभिर्यथा ॥ [भागवतम् १०.३२.१०]

यथा यथावत् । अतएवाधिकं व्यरोचत इत्युक्तमुपपद्यते स्वशक्त्य्एक
प्रकाशकत्वात्श्रीभगवतः

गोप्यो लब्ध्वाच्युतं कान्तं श्रिय एकान्तवल्लभम् ।
गृहीतकण्ठ्यस्तद्दोर्भ्यां गायन्त्यस्तं विजह्रिरे ॥ [भागवतम् १०.३३.१५]

गोप्य एव श्रियः । कान्तं मनोहरम् । एकान्तवल्लभं रहोरमणम्
(अपाणिग्राहकत्वात्) ।

॥ १०.३२ ॥ श्रीशुकः ॥ १८६१८७ ॥

[१८८]

तासां महत्त्वं तु ह्लादिनीसारवृत्तिविशेषप्रेमरससारविशेष
प्राध्यान्यात् । तदुक्तमानन्दचिन्मयरसप्रतिभाविताभिः [Bरह्मष्
५.३०] इति । आनन्दचिन्मयरसेन प्रेमरसविशेषेण प्रतिभाविताभिरित्य्
अर्थः । अतएव तत्प्राचुर्यप्रकाशेन श्रीभगवतोऽपि तासु परमोल्लास
प्रकाशो भवति । येन ताभी रमणेच्छा जायते । तथैवाह

भगवानपि ता रात्रीः शरदोत्फुल्लमल्लिकाः ।
वीक्ष्य रन्तुं मनश्चक्रे योगमायामुपाश्रितः ॥ [भागवतम् १०.२९.१]

योगमायां दुर्घटसम्पादिकां स्वरूपशक्तिं तत्तल्लीलासौष्ठव
घटनायोपाश्रित इति तस्मै तां प्रवर्त्येत्यर्थः ।

॥ १०.२९ ॥ श्रीशुकः ॥ १८८ ॥

[१८९]

[पगे ११२]

अथ तासां नामानि श्रूयन्ते भविष्योत्तरे मल्लद्वादशीप्रसङ्गे श्री
कृष्णयुधिष्ठिरसंवादे

गोपीनामानि राजेन्द्र प्राधान्येन निबोध मे ।
गोपाली पालिका धन्या विशाखा ध्याननिष्ठिका ।
राधानुराधा सोमाभा तारका दशमी तथा ॥ इति ।

दशम्यपि तारकानाम्न्येवेत्यर्थः । स्कान्दे प्रह्लादसंहितायां
द्वारकामाहात्म्ये मयनिर्मितसरःप्रस्तावे श्रीललितोवाचेत्यादिना
ललिता श्यामला धन्या विशाखा राधा शैव्या पद्मा भद्रेत्येतान्यष्टैव
गृहीतानि ।

अथ वर्णिताशतकोटिभिरित्यागमप्रसिद्धेरन्यान्यपि लोकशास्त्रयोर्
अवगन्तव्यानि । अत्र शतकोटित्वान्यथानुपपत्त्य्आदिना तासां तन्महा
शक्तित्वमेवावगम्यते ।

तदेवं परममधुरप्रेमवृत्तिमयीषु तास्वपि तत्सारांशोद्रेक
मयी श्रीराधिका तस्यामेव प्रेमोत्कर्षपराकाष्ठाया दर्शितत्वात्प्रीति
सन्दर्भे दर्शयिष्यमाणत्वाच्च । यत्र च तत्प्रेमवैशिष्ट्यं तत्रैव ।
यस्यास्ति भक्तिर्भगवत्यकिञ्चन [भागवतम् ५.१८.१२] इत्यादिवत्सर्वा अप्य्
ऐश्वर्यादिरूपा अन्याः शक्तयो नात्यादृता अप्यनुगच्छन्तीति श्रीवृन्दावने
श्रीराधिकायामेव स्वयंलक्ष्मीत्वम् ।

अतएव सतीष्वन्यास्वपि मुख्याभिप्रायेणैव तस्या एव
वृन्दावनाधिपत्येन नामग्रहणम् । यथा पाद्मे कार्त्तिकमाहात्म्ये
शौनकनारदसंवादे

वृन्दावनाधिपत्यं च दत्तं तस्यै प्रत्युष्यता ।
कृष्णेनान्यत्र देवी तु राधा वृन्दावने वने ॥ [ড়द्मড়् ५.७७.३९] इत्यनेन ।

अन्यत्र साधारणे देशे देव्येवाधिकारिणी श्रीवृन्दावनाभिधे वने तु
श्रीराधिकैवेत्यर्थः । एवं स्कान्दे

वाराणस्यां विशालाक्षी विमला पुरुषोत्तमे ।
रुक्मिणी द्वारवत्यां च राधा वृन्दावने वने ॥ इति ।

तथा मात्स्येऽपि । शक्तित्वमात्रसाधारण्येनैव लक्ष्मीसीतारुक्मिणी
राधानामापि देव्या सह गणनम् । वैशिष्ट्यं तु लक्ष्मीवत्सीतादिष्वपि
ज्ञेयम् । तस्मान्न देव्या सह लक्ष्म्य्आदीनामैक्यम् । श्रीरामतापनी
श्रीगोपालतापन्य्आदौ तासां स्वरूपभूतत्वेन कथनात् । श्रीराधिकायाश्
च यामले पूर्वोदाहृतपद्यत्रयानन्तरम्

भुजद्वययुतः कृष्णो न कदाचिच्चतुर्भुजः ।
गोप्यैकया युतस्तत्र परिक्रीडति सर्वदा ॥ इति ।

अत्र वृन्दावनविषयकतत्सहितसर्वदाक्रीडित्वलिङ्गावगतेन
परस्पराव्यभिचारेण स्वरूपशक्तित्वम् । सतीष्वप्यन्यासु एकया इत्यनेन
(पगे ११३) तत्रापि परमुख्यात्वमभिहितम् ।

[Vऋ. ओमित्स्fरोमतएव सतीष्वन्यासु अन्देन्दिन्गभिहितम्, अन्धसिन्स्तेअद्
यत्तु मात्स्ये देव्या दक्षं प्रति

रुक्मिणी द्वारवत्यां तु राधा वृन्दावने वने ।
देवकी मथुरायां तु पाताले परमेश्वरी ।
चित्रकुटे यथा सीता विन्ध्ये विन्ध्यवासिनी ॥

इत्यादिना स्वरूपशक्तिव्यूहरुक्मिणीराधादेवकीसीतानां मायांश
रूपेण स्वेन सहाभेदकथनं तत्खलु यथा देवेन्द्रः प्रतर्दनं प्रति
प्राणोऽस्मि प्रज्ञात्मा इत्यादिकम् । यथा वा वासुदेवश्चाहं मनुरभवं
सूर्यश्च इत्यादिकं परमात्मना सहाभेदं मत्वावादीति । न वक्तुर्
उपदेशादि वेदान्तसूत्रेषु शास्त्रदृष्ट्या तूपदेशो वामदेववत्[Vस्. १.१.३०]
इत्यनेन विचारितं तद्वदिहापीति गम्यते । शास्त्रं खलु चतुर्धा
परावरयोरभेदं दर्शयति यथा तत्त्वमसि इति परमात्माजीअयोश्चित्
साम्येन, यथा सर्वं समाप्नोषि ततोऽसि सर्वः [गीता ११.४०] इत्य्
अधिष्ठानाधिष्ठात्रोरभेदोपचारेण । यथा वा रामोऽहमित्यादिकम्
अहङ्ग्रहोपासनेनेति । यत्रापि यथास्वं मन्तव्यम् । विशेषतः श्री
राधायाः स्वयं लक्ष्मीत्वम् । [एन्द्Vऋ. अद्दितिओन्]

तथा च बृहद्गौतमीये श्रीबलदेवं प्रति श्रीकृष्णवाक्यम्

सत्त्वं तत्त्वं परत्वं च तत्त्वत्रयमहं किल ।
त्रितत्त्वरूपिणी सापि राधिका मम वल्लभा ॥
प्रकृतेः पर एवाहं सापि मच्छक्तिरूपिणी ।
सात्त्विकं रूपमास्थाय पूर्णोऽहं ब्रह्मचित्परः ॥
ब्रह्मणा प्रार्थितः सम्यक्सम्भवामि युगे युगे ।
तया सार्धं त्वया सार्धं नाशाय देवताद्रुहाम् ॥ इत्यादि ।

सत्त्वं कार्यत्वं तत्त्वं कारणत्वं ततोऽपि परत्वं चेति यत्तत्त्वत्रयं तद्
अहमित्यर्थः । अतएव श्रीराधिकाप्रसङ्गे तत्पुरतोऽपि

देवी कृष्णमयी प्रोक्ता राधिका परदेवता ।
सर्वलक्ष्मीमयी सर्वकान्तिः संमोहिनी परा ॥ इति ।

ऋक्परिशिष्टश्रुतिश्च तथैवाह राधया माधवो देवो माधवेनैव
राधिका । विभ्राजन्ते जनेष्वा । विभ्राजन्ते विभ्राजते । आ सर्वत इति श्रुति
पदार्थः ।

[Vऋ अद्द्स्: अतएव तस्याः सर्वोत्तमत्वं सौभाग्यातिशयत्वं चादिवाराहे तत्
कुण्डप्रसङ्गे द्रष्टव्यम् । श्रीभागवते अनयाराधितो नूनमित्यादौ
च । [Eन्द्Vऋ अद्दितिओन्.]

एतत्सर्वमभिप्रेत्य मूर्धण्यश्लोके तादृशोऽप्यर्थः सन्दधै ।
तत्र तयोर्महामहैश्वर्यप्रतिपादकोऽर्थः पूर्ववत्स्वयम्
अनुसन्धेयः । परममाधुरीप्रतिपादकोऽर्थस्तु यथा जन्माद्यस्य
इति ।

यतोऽन्वयादनुगच्छति सदा निजपरमानन्दशक्तिरूपायां तस्यां श्री
राधायामासक्तो भवतीत्यन्वयः श्रीकृष्णस्तस्माद्यस्मात्तथा इतरत
इतरस्याश्च तस्य सदा द्वितीयायाः श्रीराधाया एव । यतो यस्या आद्यस्यादि
रसस्य जन्म प्रादुर्भावः यावेवादिरसविद्यायाः परमनिधानमित्य्
अर्थः । अतएव तयोरत्यद्भुतविलासमाधुरीधुरीणतामुद्दिशति
योऽर्थेषु तत्तद्विलासकलापेषु अभिज्ञो विदग्धः । या च स्वेन तथा
विधेनात्मना राजते विलासतीति स्वराट् ।

अतएव सर्वतोप्याश्चर्यरूपयोस्तयोर्वर्णने मम तत्कृपैव सामग्रीत्य्
आह आदिकवये प्रथमं तल्लीलावर्णनमारभमाणाय मह्यं श्री
वेदव्यासाय हृदा अन्तःकरणद्वारैव ब्रह्म निजलीलाप्रतिपादकं
शब्दब्रह्म यस्तेने । आरम्भसमकालमेव युगपत्सर्वमिदं महा
पुराणं मम हृदि प्रकाशितवानित्यर्थः । एतच्च प्रथमस्य स्पत्म एव
व्यक्तम् । यद्यस्यां च सूरयः शेषादयोऽपि मुह्यन्ति स्वरूपसौन्दर्य
गुणादिभिः अत्यद्भुता केयमिति निर्वक्तुमारब्धा निशेतुं न शक्नुवन्ति ।
एवं भूत्वा सा यदि कृपां नाकरिष्यत्तदा लब्धमाधवतादृश
कृपस्यापि मम

तैस्तैः पदैस्तत्पदवीमन्विच्छन्त्योऽग्रतोऽबलाः ।
वध्वाः पदैः सुपृक्तानि विलोक्यार्ताः समब्रुवन् ॥ [भागवतम् १०.३०.२६]

इत्यादिना तस्या लीलावर्णनलेशोऽपि साहससिद्धिरसौ नाभविष्यदेवेति
भावः । तयोराश्चर्यरूपत्वमेव व्यनक्ति तेजोवारिमृदां चैतन्यानाम्
अपि यथा येन प्रकारेण विनिमयः परस्परं स्वभावविपर्ययोर्भवति
तथा यो विभ्राजित इति शेषः । वाक्यशेषं च भावाभिभूतत्वेन न वक्तुं
शक्तवानिति गम्यते ।

तत्र तेजसश्चन्द्रादेस्तत्पदनखकान्तिविस्फारतादिना (पगे ११४) वारि
मृद्वन्निस्तेजस्त्वधर्मावाप्तिः । वारिणो नद्यादेश्च तत्संसर्गवंशी
वाद्यादिना वह्न्य्आदितेजोवदुच्छूनताप्राप्तिः पाषाणादिमृद्वच्च
स्तम्भप्राप्तिः । मृदश्च पाषाणादेस्तत्कान्तिकन्दईल्च्छुरित्वेन तेजोवद्
उज्ज्वलताप्राप्तिर्वंशीवाद्यादिना वारिवच्च द्रवताप्राप्तिरिति ।

तदेतत्सर्वं तस्य लीलावर्णने प्रसिद्धमेव । यत्र यस्यां च
विद्यमानायां तिर्धामसर्गः श्रीभूलीलेतिशक्तित्रयीप्रादुर्भावो वा ।
द्वारकामथुरावृन्दावनानीतीस्थानत्रयगतशक्तिवर्गत्रय
प्रादुर्भावो वा । वृन्दावने एव रसव्यवहारेण सुहृद्उदासीनप्रतिपक्ष
नायिकारूपत्रिभेदानां सर्वासामपि व्रजदेवीनामेव प्रादुर्भावो वा
मृषा मिथ्यैव । यस्याः सौन्दर्यादिगुणसम्पदा तास्ताः कृष्णस्य न
किञ्चिदिव प्रयोजनमर्हन्तीत्यर्थः । तद्धीमहीति यच्छब्दलब्धेन
तच्छब्देनान्वयः । परमभक्तिशक्तिमत्त्वेनातिशायितमहाभावरसेन
वा परस्परभिन्नतां गतयोरैक्येनैव विवक्षितं तदिति । अतएव
सामान्यतया परामर्शान्नपुंसकत्वं च ।

कथम्भूतम् ? स्वेन धाम्ना स्वस्वप्रभावेन सदा निरस्तं स्वलीला
प्रतिबन्धकानां जरतीप्रभृतीनां प्रतिपक्षनायिकानां च कुहकं
माया येन तत् । तथा सत्यं तादृशत्वेन नित्यसिद्धम् । यद्वा परस्परं
विलासादिभिरनवरतमानन्दसन्दोहदाने कृतसत्यमिव जातम् । तत्र
निश्चलमित्यर्थः । अतएव परमन्यत्र कुत्राप्यदृष्टगुणलीलादिभिर्
विश्वविस्मापकत्वात्सर्वतोऽप्युत्कृष्टम् । अत्रैकोऽपि धर्मो भिन्न
वाचकतया वाक्यतो निरिदिष्ट इत्युभयसादृश्यावगमात्प्रतिवस्तूपमा
नामालङ्कारोऽयम् । इयं च मुहुरुपमितिमालाप्रतिवस्तूपमा । तेन तैस्
तैर्गुणैर्मिथो योग्यतया निबद्धत्वात्समनामापि । एतद्अलङ्कारेण च
अहो परस्परं परस्मात्परमपि तन्मिथुनभूतं किमपि तत्त्वं मिथो
गुणगणमाधुरीभिः समतामेव समवाप्तमिति सकलजीवजीवातुर्
तमरसपीयूषधाराधाराधरतासम्पदा कस्मै वा निजचरणकमल
विलासं न रोचयतीति स्वतः सम्भवि वस्तु व्यज्यते । तदाहुः

प्रतिवस्तूपमा सा स्याद्वाक्ययोर्गम्यसाम्ययोः ।
एकोऽपि धर्मः सामान्यो यत्र निर्दिश्यते पृथक् ॥ [षाह्ड्१०.४९] इति ।

इयं मालयापि दृश्यते इति । एवं समं स्यादानुरूप्येण श्लाघा योग्यस्य
वस्तुन इति । तथा वस्तु वालङ्कृतिर्वापि द्विधार्थः सम्भवी स्वतः । कवेः
प्रौढोक्तिसिद्धो वा तन्निबद्धस्य वेति षट् ।

षड्भिस्तैर्व्यज्यमानस्तु वस्त्व्अलङ्काररूपकः ।
अर्थशक्त्य्उद्भवो व्यङ्ग्यो याति द्वादशभेदताम् ॥ इति ।

तदुक्तं श्रुत्या राधया माधवो देवः इत्यादिना । तदुक्तमादिपुराणे
वेदान्तिनोऽपि इति पद्यानन्तरम्

अहमेव परं रूपं नान्यो जानाति कश्चन ।
जानाति राधिका पार्थ अंशानर्चन्ति देवताः ॥ इति ।

तयोर्नित्यविलासस्त्वित्थं यथा वर्णितोऽस्मद्उपजीव्यचरणाम्बुजैः

वाचा सूचितशर्वरीरतिकलाप्रागल्भ्यया राधिकां
व्रीडाकुञ्चितलोचनां विरचयन्नग्रे सखीनामसौ ।
तद्वक्षोरुहचित्रकेलिमकरीपाण्डित्यपारं गतः
कैशोरं सफलीकरोति कलयन् कुञ्जे विहारं हरिः ॥ इति [Bऋष्२.१.२३१] ।

तदेवं सन्दर्भचतुष्टयेन सम्बन्धो व्याख्यातः । तस्मिन्नपि
सम्बन्धे श्रीराधामाधवरूपेणैव प्रादुर्भावस्तस्य सम्बन्धिनः
परमः प्रकर्षः । तदुक्तं श्रुत्या राधया माधवो देव इति । एतद्
अर्थमेव व्यतानिषमिमाः सर्वा अपि परिपाटीरिति पूर्णः सम्बन्धः ।

गौरश्यामरुचोज्ज्वलाभिरमलैरक्ष्णोर्विलासोत्सवैर्
नृत्यन्तीभिरशेषमादनकलावैदग्ध्यदिग्धात्मभिः ।
अन्योन्यप्रियतासुधापरिमलस्तोमोन्मदाभिः सदा
राधामाधवमाधुरीभिरभितश्चित्तं ममाक्राम्यताम् ॥

इति श्रीकलियुगपावनस्वभजनविभाजनप्रयोजनावतारश्रीश्री
भगवत्कृष्णचैतन्यदेवचरणानुचरविश्ववैष्णवराजसभाजन
भाजनश्रीरूपसनातनानुशासनभारतीगर्भे श्रीभागवतसन्दर्भे
श्रीकृष्णसन्दर्भो नाम चतुर्थः सन्दर्भः ॥

श्रीभागवतसन्दर्भे सर्वसन्दर्भगर्भगे ।
श्रीकृष्णसन्दर्भनामा सन्दर्भोऽभूच्चतुर्थकः ॥

समाप्तोऽयं श्रीकृष्णसन्दर्भः ॥