श्रीभक्तिचन्द्रिका/षष्ठः पटलः

विकिस्रोतः तः
← पञ्चमः पटलः श्रीभक्तिचन्द्रिका
षष्ठः पटलः
[[लेखकः :|]]
सप्तमः पटलः →

षष्ठः पटलः
अथ वक्ष्ये मन्त्रवरान्सर्वकामार्थसिद्धिदान।
कृष्णचैतन्यचन्द्रस्य प्रेमभक्तिसुसिद्धये ॥१॥

कृष्णेति द्व्यक्षरो मन्त्रश्चैतन्यत्र्यक्षरो मतः ।
चतुर्वर्णो मन्त्रवरो ङेयुक्त्र्यक्षर एव च ॥२॥

स च पञ्चाक्षरो ज्ञेयः प्रेमादिर्मनुरुत्तमः ।
प्रेमसम्पुटितो ज्ञेयश्चैतन्य इति पञ्चमः ॥३॥

कामादिश्चेत्पञ्चमः स्यात्षडक्षर इतीरितः ।
षडक्षरो मन्मथान्तो मनुः सप्ताक्षरो मतः ॥४॥

विश्वम्भराय प्रेमादिः कामानोत्मनुरुत्तमः ।
स्याच्छचीनन्दनो ङेयुग्वह्निजायान्तको मनुः ॥५॥

अष्टक्षरो मन्त्रवरः प्रेमाख्यादिर्नवाक्षरः ।
दशाक्षरो मन्मथादिर्मन्त्रराजः प्रकीर्तितः ॥६॥

एतेषां नारदो ज्ञेयो मुनिश्छन्दो विराडिति ।
देवता कृष्णचैतन्यो बीजं प्रेमाख्यमुत्तमम् ॥७॥

शक्तिर्वह्निवधूः प्रोक्ता साद्याधिष्ठातृदेवता ।
प्रेमाख्येन हि षड्दीर्घभाजा स्यादङ्गकल्पना ॥८॥

प्रातः कृत्यादिकं कर्मयर्थापूर्वं समाचरेत।
पद्मं वसुदलोपेतं कर्णिकाकेशरान्वितम् ॥९॥

षट्कोणं विलिखेन्मध्ये बीजं तत्र लिखेत्पुनः ।
तत्र सम्पूजयेद्भक्त्या भगवन्तं सुसाधकः ॥१०॥

श्रीमन्मौक्तिकदामबद्धचिकुरं सुस्मेरचन्द्राननम् ।
श्रीखण्डागुरुचारुचित्रवसनस्रग्दिव्यभूषणाञ्चितम् ॥११॥

नृत्यावेशरसानुमोदमधुरं कन्दर्पवेशोज्ज्वलम् ।
चैतन्यं कनकद्युतिं निजजनैः संसेव्यमानं भजे ॥१२॥

ध्यात्वैवं पूजयेन्नित्यं बहिरङ्गैस्ततो बहिः ।
दिक्पालास्त्राणि सम्पूज्य जपेन्मन्त्रं सुसाधकः ॥१३॥

लक्षैकसङ्ख्यया प्रोक्तो जपो होमादयः क्रमात॥१४॥

पुनरन्यमनुं वक्ष्ये सर्वसिद्धिफलप्रदम् ।
वेदादिहृद्भगवते कृष्णचैतन्य एव च ॥१५॥

ङेयुतो मन्त्रराजोऽयं त्रयाधिकदशाक्षरः ।
मुनिर्ब्रह्मा विराट्छन्दो देवतान्यासिरूपधृक॥१६॥

चैतन्यः परमानन्दः प्रणवो बीजमुत्तमम् ।
नमः शक्तिर्विनियोगो भक्तिसिद्ध्यर्थ इत्यपि ॥१७॥

आचक्रायाग्निदयिता हृदयाय नमो हृदि ।
विचक्रायानलवधूः शिरसे वह्निनागरी ॥१८॥

सुचक्रायाग्निवरदा शिखायैव षडित्यपि ।
त्रैलोक्यरक्षणोपेतचक्रायाग्निप्रिया ततः ॥१९॥

कवचाय तथा वर्म त्वसुरान्तकपूर्वकम् ।
चक्रं पुनश्चतुर्थ्यन्तं स्वाहास्त्राय तथास्त्रकम् ॥२०॥

नाराचमुद्रया कुर्याद्ध्वनित्रितयमेव च ।
एवमङ्गादिना कुर्यात्करन्यासं सुसंयमी ।
अपरं पूर्ववत्कृत्वा ध्यायेद्हृदयपङ्कजे ॥२१॥

अत्यन्तातप्तहेमद्युतिरुचिरतनुं दीर्घदेहाक्षिबाहुं
श्रीखण्डालिप्तवक्षःस्थलकलिततलसन्मालतीमाल्ययुग्मम् ।
आरक्ताभासवासोयुगललितवपुर्नाट्यलीलाकलाढ्यं
वन्दे चैतन्यचन्द्रं सकलकलुषहं प्रेमभक्त्येकगम्यम् ॥२२॥

धात्वैवं पूजयेद्भक्त्या भगवन्तं जनार्दनम् ।
अङ्गैर्दिक्पतिभिः सार्धं वज्राध्यैश्च यथाक्रमम् ॥२३॥

एवमाराधितो देवदेवेशः साधकोत्तमैः ।
विरक्तिसहितां भक्तिं ददाति तत्क्षणात्प्रभुः ॥२४॥

प्रेमाख्यस्य मनोर्वक्ष्ये पूजाविधिमथो क्रमात।
ऋषिर्ब्रह्मानुष्टुप्च्छन्दो देवता प्रेमविग्रहः ॥२५॥

विश्वम्भरो बीजमन्त्रप्रेमाख्यं स्वयमेव च ।
शक्तिर्वह्निवधूः प्रोक्तो विनियोगः स्वकर्मणि ॥२६॥

षड्दीर्घभाजा प्रेम्ना च कुर्यादेवाङ्गकल्पनाम् ।
यथाविधि करन्यासं कृत्वाध्यायेत्समाहितः ॥२७॥

ध्यायेद्बालं प्रसन्नं तरुणरविकराभासमानं समन्तात्
क्रोडस्थं मातुरद्धा प्रकटितपरमानन्दमालोलदेहम् ।
देवं विश्वम्भरं तं कलिकलुषहरं दिव्यविप्राङ्गनाभिः
प्रेम्ना संवीक्ष्यमाणं विहसितवदनं रक्तनेत्रोत्पलाढ्यम् ॥२८॥

ध्यात्वैवं पूजयेद्भक्त्या पाद्यार्घ्याद्यैर्यथाक्रमम् ॥२९॥

अङ्गवह्न्यादिकोणे तदनु च परितः केशरेष्वेव मात्èर्
दिव्यालङ्कारयुक्ताः सुविमलवसनाः पूजयेद्भक्तियुकः ।
पूज्या भक्तिर्विभूतिस्त्रिभुवनजननी श्रीशचीकान्तिराद्या
शान्तिः शक्तिश्च धात्री तदनुदलगतात्पूजयेद्गन्धपुष्पैः ॥३०॥

नित्यानन्दस्तथाद्वैतो मुरारिः श्रीनिवासकः ।
जगन्नाथस्तथा ज्ञेयः सुदर्शन इति स्मृतः ॥३१॥

गदाधरश्च विख्यातः ख्यातो नरहरिस्तथा ।
दिव्यमाल्याम्बरधराः पुलकाश्रुभराकुलाः ॥३२॥

पत्राग्रे विप्रपत्न्यश्च पूजनीयाः प्रयत्नतः ।
माधवी वैष्णवी देवी शुभदा सुन्दरी सती ॥३३॥

कालिन्दी ललिता दिव्यवासोऽलङ्कारचर्चिताः ।
गौरीश्यामा क्रमाज्ज्ञेयाः प्रतिवेशिवराङ्गनाः ।
तद्बहिर्दिक्षु भक्ताग्र्याः पूजनीया विधानतः ॥३४॥

वासुदेवो मुकुन्दश्च रामः शङ्कर एव च ।
नीलाम्बरो रामदासकविचन्द्रस्ततः परम् ॥३५॥

हरिदासस्तथा चन्द्रशेखराचार्य एव च ।
दिव्यमाल्याम्बरधराः सर्वे सङ्गीततत्पराः ॥३६॥

तद्बहिर्दिक्षु दिक्पालान्वज्रादींश्च ततो बहिः ।
पूर्वोक्तयन्त्रे सम्पूज्य दशलक्षं जपेद्बुधः ॥३७॥

इति भक्तिचन्द्रिकायां षष्ठः पटलः