श्रीतन्त्रालोकः द्वितीयमाह्निकम्

विकिस्रोतः तः
Jump to navigation Jump to search

तन्त्रालोकः

अथ श्रीतन्त्रालोकस्य द्वितीयमाह्निकम्

यत्तत्राद्यं पदमविरतानुत्तरज्ञप्तिरूपं ।
तन्निर्णेतुं प्रकरणमिदमारभेऽहं द्वितीयम् ॥१॥

अनुपायं हि यद्रूपं कोऽर्थो देशनयात्र वै ।
सकृत्स्याद्देशना पश्चादनुपायत्वमुच्ययते ॥२॥

अनुपायमिदं तत्त्वमित्युपायं विना कुतः ।
स्वयं तु तेषां तत्तादृक् किं ब्रूमः किल तान्प्रति ॥३॥

यच्चतुर्धोदितं रूपं विज्ञानस्य विभोरसौ ।
स्वभाव एव मन्तव्यः स हि नित्योदितो विभुः ॥४॥

एतावद्भिरसंख्यातैः स्वभावैर्यत्प्रकाशते ।
केऽप्यंशांशिकया तेन विशन्त्यन्ये निरंशतः ॥५॥

तत्रापि चाभ्युपायादिसापेक्षान्यत्वयोगतः ।
उपायस्यापि नो वार्या तदन्यत्वाद्विचित्रता ॥६॥

तत्र ये निर्मलात्मानो भैरवीयां स्वसंविदम् ।
निरुपायामुपासीनास्तद्विधिः प्रणिगद्यते ॥७॥

तत्र तावत्क्रियायोगो नाभ्युपायत्वमर्हति ।
स हि तस्मात्समुद्भूतः प्रत्युत प्रविभाव्यते ॥८॥

ज्ञप्तावुपाय एव स्यादिति चेज्ज्ञप्तिरुच्यते ।
प्रकाशत्वं स्वप्रकाशे तच्च तत्रान्यतः कथम् ॥९॥

संवित्तत्त्वं स्वप्रकाशमित्यस्मिन्कं नु युक्तिभिः ।
तदभावे भवेद्विश्वं जडत्वादप्रकाशकम् ॥१०॥

यावानुपायो बाह्यः स्यादान्तरो वापि कश्चन ।
स सर्वस्तन्मुखप्रेक्षी तत्रोपायत्वभाक्कथम् ॥११॥

त्यजावधानानि ननु क्व नाम धत्सेऽवधानं विचिनु स्वयं तत् ।
पूर्णेऽवधानं न हि नाम युक्तं नापूर्णमभ्येति च सत्यभावम् ॥१२॥

तेनावधानप्राणस्य भावनादेः परे पथि ।
भैरवीये कथंकारं भवेत्साक्षादुपायता ॥१३॥

येऽपि साक्षादुपायेन तद्रूपं प्रविविञ्चते ।
नूनं ते सूर्यसंवित्त्यै खद्योताधित्सवो जडाः ॥१४॥

किं च यावदिदं बाह्यमान्तरोपायसंमतम् ।
तत्प्रकाशात्मतामात्रं शिवस्यैव निजं वपुः ॥१५॥

नीलं पीतं सुखमिति प्रकाशः केवलः शिवः ।
अमुष्मिन्परमाद्वैते प्रकाशात्मनि कोऽपरः ॥१६॥

उपायोपेयभावः स्यात्प्रकाशः केवलं हि सः ॥१७॥

इदं द्वैतमऽयं भेद इदमद्वैतमित्यपि ।
प्रकाशवपुरेवायं भासते परमेश्वरः ॥१८॥

अस्यां भूमौ सुखं दुःखं बन्धो मोक्षश्चितर्जडः ।
घटकुम्भवदेकार्थाः शब्दास्तेऽप्येकमेव च ॥१९॥

प्रशाशे ह्यप्रकाशांशः कथं नाम प्रकाशताम् ।
प्रकाशमाने तस्मिन्वा तद्द्वैतास्तस्य लोपिताः ॥२०॥

अप्रकाशेऽथ तस्मिन्वा वस्तुता कथमुच्यते ।
न प्रकाशविशेषत्वमत एवोपपद्यते ॥२१॥

अत एकप्रकाशोऽयमिति वादेऽत्र सुस्थिते ।
दूरादावारिताः सत्यं विभिन्नज्ञानवादिनः ॥२२॥

प्रकाशमात्रमुदितमप्रकाशनिषेधनात् ।
एकशब्दस्य न त्वर्थः संख्या चिद्व्यक्तिभेदभाक् ॥२३॥

नैष शक्तिर्महादेवी न परत्राश्रितो यतः ।
न चैष शक्तिमान्देवो न कस्याप्याश्रयो यतः ॥२४॥

नैष ध्येयो ध्यात्रभावान्न ध्याता ध्येयवर्जनात् ।
न पूज्यः पूजकाभावात्पूज्याभावान्न पूजकः ॥२५॥

न मन्त्रो न च मन्त्र्योऽसौ न च मन्त्रयिता प्रभुः ।
न दीक्षा दीक्षको वापि न दीक्षावान्महेश्वरः ॥२६॥

स्थानासननिरोधार्घसंघानावाहनादिकम् ।
विसर्जनान्तं नास्त्यत्र कर्तृकर्मक्रियोज्झिते ॥२७॥

न सन्न चासत्सदसन्न च तन्नोभयोज्झितम् ।
दुर्विज्ञेया हि सावस्था किमप्येतदनुत्तरम् ॥२८॥

अयमित्यवभासो हि यो भावोऽवच्छिदात्मकः ।
स एव घटवल्लोके संस्तथा नैष भैरवः ॥२९॥

असत्त्वं चाप्रकाशत्वं न कुत्राप्युपयोगिता ।
विश्वस्य जीवितं सत्यं प्रकाशैकात्मकश्च सः ॥३०॥

आभ्यामेव तु हेतुभ्यां न द्व्यात्मा न द्वयोज्झितः ।
सर्वात्मना हि भात्येष केन रूपेण मन्त्र्यताम् ॥३१॥

श्रीमत्त्रिशिरसि प्रोक्तं परज्ञानस्वरूपकम् ।
शक्त्या गर्भान्तर्वर्तिन्या शक्तिगर्भ परं पदम् ॥३२॥

न भावो नाप्यभावो न द्वयं वाचामगोचरात् ।
अकथ्यपदवीरूढं शक्तिस्थं शक्तिवर्जितम् ॥३३॥

इति ये रूढसंवित्तिपरमार्थपवित्रिताः ।
अनुत्तरपथे रूढास्तेऽभ्युपायानियन्त्रिताः ॥३४॥

तेषामिदं समाभाति सर्वतो भावमण्डलम् ।
पुरःस्थमेव संवित्तिभैरवाग्निविलापितम् ॥३५॥

एतेषां सुखदुःखांशशंकातंकविकल्पनाः ।
निर्विकल्पपरावेशमात्रशेषत्वमागताः ॥३६॥

एषां न मन्त्रो न ध्यानं न पूजा नापि कल्पना ।
न समय्यादिकाचार्यपर्यन्तः कोऽपि विश्रमः ॥३७॥

समस्तयन्त्रणातन्त्रत्रोटनाटंकधर्मिणः ।
नानुग्रहात्परं किंचिच्छेषवृत्तौ प्रयोजनम् ॥३८॥

स्वं कर्तव्यं किमपि कलयंल्लोक एष प्रयत्नान्नो पारार्थ्यं प्रति घटयते कांचन स्वप्रवृत्तिम् ।
यस्तु ध्वस्ताखिलभवमलो भैरवीभावपूर्णः कृत्यं तस्य स्फुटमिदमियल्लोककर्तव्यमात्रम् ॥३९॥

तं ये पश्यन्ति ताद्रूप्यक्रमेणामलसंविदः ।
तेऽपि तद्रूपिणस्तावत्येवास्यानुग्रहात्मता ॥४०॥

एतत्तत्त्वपरिज्ञानं मुख्यं यागादि कथ्यते ।
दीक्षान्तं विभुना श्रीमत्सिद्धयोगीश्वरीमते ॥४१॥

स्थण्डिलादुत्तरं तूरं तूरादुत्तरतः पटः ।
पटाद्ध्यानं ततो ध्येयं ततः स्याद्धारणोत्तरा ॥४२॥

ततोऽपि योगजं रूपं ततोऽपि ज्ञानमुत्तरम् ।
ज्ञानेन हि महासिद्धो भवेद्योगीश्वरस्त्विति ॥४३॥

सोऽपि स्वातन्त्र्यधाम्ना चेदप्यनिर्मलसंविदाम् ।
अनुग्रहं चिकीर्षुस्तद्भाविनं विधिमाश्रयेत् ॥४४॥

अनुग्राह्यानुसारेण विचित्रः स च कथ्यते ।
परापराद्युपायौघसंकीर्णत्वविभेदतः ॥४५॥

तदर्थमेव चास्यापि परमेश्वररूपिणः ।
तदभ्युपायशास्त्रादिश्रवणाध्ययनादरः ॥४६॥

नहि तस्य स्वतन्त्रस्य कापि कुत्रापि खण्डना ।
नानिर्मलचितः पुंसोऽनुग्रहस्त्वनुपायकः ॥४७॥

श्रीमदूर्मिमहाशास्त्रे सिद्धसंतानरूपके ।
इदमुक्तं तथा श्रीमत्सोमानन्दादिदैशिकैः ॥४८॥

गुरोर्वाक्याद्युक्तिप्रचयरचनोन्मार्जनवशात् समाश्वासाच्छास्त्रं प्रति समुदिताद्वापि कथितात् ।
विलीने शंकाभ्रे त्दृदयगगनोद्भासिमहसः प्रभोः सूर्यस्येव स्पृशत चरणान्ध्वान्तजयिनः ॥४९॥

इदमनुत्तरधामविवेचकं विगलितौपयिकं कृतमाह्निकम् ॥५०॥