सामग्री पर जाएँ

श्रावकभूमिः

विकिस्रोतः तः
श्रावकभूमिः
[[लेखकः :|]]

श्रावकभूमिः

(५)
इ. गोत्रभूमिः

॥ [।] इन्द्रियैरविकलता, आयतनगतः प्रसादः, अपरिवृत्तकर्मान्तता [।]

तत्र मनुष्यत्वं कतमत् । यथापीहैकत्यो मनुष्याणां सभागतायां प्रत्याजातो भवति । पुरुषश्च पुरुषेन्द्रियेण [समन्वागतो भवति । इदमुच्यते मनुष्यत्वं [।]

आर्या[य]तने प्रत्याजातिः कतमा [।] यथापीहै] कत्यो मध्येषु [ज]नपदेषु प्रत्याजातो भवति पूर्ववद्यावद्यत्र गतिः सत्पुरुषाणामियमुच्यते आर्यायतने प्रत्याजातिः [।]

(६)
इन्द्रियैरविकलता कतमा [।] यथापीहैकत्यः अजातो भवत्यनेडक इति विस्तरः [।] अंगप्रत्यंगाविकलो वा यद्रूपेणांप्रत्यंगावैकल्येन श्रोत्रावैकल्यादिकेन भव्यः कुशलपक्षसमुदागमाय [।] इदमुच्यते इन्द्रिया वैकल्यं [।]

आयतनगतः प्रसादः कतमः [।] यथापीहैकत्येन तथागतप्रवेदिते धर्मविनये श्रद्धा प्रतिलब्धा भवति । चेतसः प्रसादः [।] अयमुच्यते आयतनगतः प्रसादस्तदायतनं तथागतप्रवेदितो धर्मविनयः सर्वेषां लौकिकलोकोत्तराणां शुक्लधर्माणामुत्पत्तये [।] या पुनरत्र श्रद्धा, तेन पूर्वगमेनाधिपत्येन स आयतनगतः प्रसादः [।]

सर्वक्लेशमलकालुष्यापनयना अपरिवृत्तकर्मान्तता येन पंचानामानन्तर्याणां कर्मणां, तद्यथा मातृवधात्पितृवधादर्हद्वधात्संघभेदात्तथागतस्यान्तिके दुष्टचित्तरुचिरोत्पादादन्यतमान्यतमदानन्तर्यं कर्म दृष्ट एव धर्मे न कृतं भवति नाध्याचरितमियमुच्यते । अपरिवृत्तकर्मान्तता । इतीमानि पञ्चानन्तर्याणि कर्माणि कृतोपचितानि [।] दृष्ट एव धर्मे परिवर्त्याभव्यो भवति परिनिर्वाणायार्यमार्गस्योत्पत्तये तस्मादेतानि परिवृत्तकर्मान्ततेत्युच्यते । स्वयमेवानेन स आत्मभाव एभिः पञ्चभिरङ्गैः सम्पादितो भवति । तस्मादात्मसम्पदित्युच्यते ।

(७)
परसम्पत्कतमा [।] तद्यथा बुद्धानामुत्पादः, सद्धर्मदेशनादेशितानां धर्माणामवस्थानमवस्थितानां चानुप्रवर्त्तनम् । परतश्च प्रत्यनुकम्पा [।]

तत्रः बुद्धानामुत्पादः कतमः [।] यथापीहैकत्यः सर्वसर्वसत्वे(त्त्वे)षु कल्याणं हिताध्याशयमुत्पाद्य प्रभूतैर्दुष्करसहस्रैर्महता च पुण्यज्ञानसम्भारेण [] आत्मभावप्रतिलम्भे बोधिमण्डे निषद्य, पञ्चनिवरणानि प्रहाय, चतुर्षु स्मृत्युपस्थानेषु सूपस्थितचित्तः, सप्तत्रिंशद्बोधिपक्ष्यान् धर्मान् भावयित्वा [अ]नुत्तरां सम्यक्संबोधिमभिसंबुध्यते । अयमुच्यते बुद्धाना[मु]त्पादः । अतीतानागतप्रत्युत्पन्नेष्वध्वसु एवमेवा [क्लेश आ या] त एवं बुद्धा भगवन्तो लोक उत्पद्य तस्यैव च श्रावकलोकानुकम्पामुपादाय चत्वार्यार्यसत्यान्यारभ्य दुःख सद्भिरयञ्च धर्मो निर्यातो, देशितः, प्रशस्तो बुद्धैश्च बुद्धश्रावकैश्चा[यमुच्यते बुद्धानामुत्पादः] ।

देशितानां धर्माणामवस्थानं कतमत् । देशिते सद्धर्मे, प्रवर्तिते धर्मचक्रे, यावच्च बुद्धो भगवां(वान्) (८) जीवति, तिष्ठति च, परिनिर्वृते च बुद्धे भगवति, यावता कालेन प्रतिपत्तिर्न हीयते, सद्धर्मश्च नान्तर्धीयते [।] इदमुच्यते सद्धर्मस्यावस्थानं याव[वस्थानं वेदितव्यं] [।]

अवस्थितानां धर्माणामनुप्रवर्त्तनं कतमत् । यत्त एवाधिगन्तार[ः] सद्धर्मस्य, सद्धर्मसाक्षात्क्रियायै भव्यां प्रतिबलतां जानतां विदित्वा यथाधिगतामेवानुलोमिकीमववादानुशासनीमनुप्रवर्त्तयन्तीदमुच्यते अवस्थितानां धर्माणामनुप्रवर्त्तनम् ॥

परतः प्रत्यनुकम्पा कतमा । परत उच्यन्ते दा यकदानपतयः ते यानि तस्यानुलोमिकानि जीवितो पधारणानि तैः प्रत्यनुकम्पते (न्ते) यदुत चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैरियमुच्यते परतः प्रत्यनुकम्पा ॥

कुशलो धर्मच्छन्दः कतमः [।] यथापीहैकत्यस्तथागतस्य वा, तथागतश्रावकस्य वा अन्तिकाद्धर्मं श्रुत्वा श्रद्धां प्रतिलभते । स तां प्रतिलभ्य इदं संशिक्षते । संबाधो गृहावासो रजसामावासः । अभ्यवकाशं प्रव्रज्य यन्व(यन्न्व)हं सर्वं कड(ल)त्रवर्गं, धनधान्यहिरण्यं चोत्सृज्य स्वाख्याते धर्मविनये सम्यगेवागारादनागारिकां प्रव्रजेयम् । प्रव्रजित्वा (९) (प्रव्रज्य) च प्रतिपत्त्या सम्पादयेयमिति । य एवमुत्पन्नश्छन्दः कुशलेषु धर्मेष्वयमुच्यते कुशलो धर्मछन्दः (च्छन्दः) ॥

प्रव्रज्या कतमा [।] या तमेव कुशलं धर्मच्छन्दमधिपतिं कृत्वा ज्ञप्तिचतुर्थेन वाक्कर्मणा उपसम्पत्कुशलैरशी(ःशी)लसमादानं वा [।] इयमुच्यते प्रव्रज्या ॥

शीलसम्बरः कतमः [।] स तथा प्रव्रजितः शीलवान् विहरति, प्रातिमोक्षसम्वरसंवृतः । आचारगोचरसम्पन्नः । अणुमात्रेष्ववद्ये षु भयदर्शी, समादाय शिक्षते शिक्षापदेषु [।] अयमुच्यते शीलसम्वरः ॥

इन्द्रियसम्वरः कतमः ॥ स तमेव शीलसम्वरं निश्रित्यारक्षितस्मृतिर्भवति । निपकस्मृतिः । स्मृत्यारक्षितमानसः समावस्थावचारकः [।] स चक्षुषा रूपाणि दृष्ट्वा । न निमित्तग्राही भवति, नानुव्यंजनग्राही यतो [अ]धिकरणम स्य पापका, अकुशला धर्माश्चित्तमनुस्रवेयुस्तेषां सम्वराय प्रतिपद्यते [।] स श्रोत्रेण शब्दां (ब्दान्), घ्राणेन गन्धान्, जिह्वया रसान्, कायेन स्प्रष्टव्यानि (।), मनसा धर्मान् विज्ञाय न निमित्तग्राही भवति नानुव्यंजनग्राही यतो [अ]धिकरणमस्य पापका (१०) अकुशला धर्माश्चित्तमनुस्रवेयुस्तेषां सम्वरा [य प्रतिपद्यते, रक्षति] मन इन्द्रियं मन इन्द्रियेण सम्वरमापद्यते । अयमुच्यते इन्द्रियसम्वरः ।

भोजने मात्रज्ञता कतमा [।] स तथा संवृतेन्द्रियः प्रतिसंख्यायाहारमाहरति । न दर्पार्थं, न मदार्थं, न मण्डनार्थं, न विभूषणार्थं, यावदेवास्य कायस्य स्थितये, [यापनायै, ब्रह्मचर्यानुग्रहाय] इति । पौराणां वेदनां प्रहास्यामि, नवां च नोत्पादयिष्यामि [।] यात्रा च मे भविष्यति । बलंच, सुखं चानवद्यता च, स्पर्शविहारता चेयमुच्यते भोजने मात्रज्ञता ॥

जागरिकानुयोगः कतमः । [सदिवा चंक्रमनिषद्याभ्यामावरणीयेभ्यो (११) धर्मेभ्यश्चित्तं परि] शोधयति । स दिवा चंक्रमनिषद्याभ्यामावरणीयेभ्यो धर्मेभ्यश्चित्तं परिशोध्य, ततो विहारान्निर्गम्य, बहिर्विहारस्य पादौ प्रक्षाल्य, दक्षिणेन पार्श्वेन सिंहशय्यां कल्पयत्यालोकसंज्ञी, स्मृतः, संप्रजानन्, उत्थानसंज्ञामेव मनसि कुर्वन् स रात्र्याः पश्चिमे यामे [लघु लघ्वेव प्रतिविबुध्य, चंक्रमनिषद्याभ्या] मावरणीयेभ्यो धर्मेभ्यश्चित्तं परिशोधयतीयमुच्यते पूर्वरात्रापररात्रं जागरिकानुयुक्तता [।]

संप्रजानद्विहारिता कतमा [।] स तथा जागरिकानुयुक्तः अति(भि)क्रमप्रतिक्रमे संप्रजानद्विहारी भवत्यालोकितव्यवलोकिते, साम्मिञ्जितप्रसारिते, सांघाटीचीवरपात्रधारणे, अशितपीतखादितस्वादिते (१२) निद्राक्लमविनोदने, गते, स्थिते, निषण्णे, शयिते, जागृते, भाषिते, तूष्णीम्भावे सम्प्रजानद्विहारी भवति । इयमुच्यते सम्प्रजानद्विहारिता ॥

प्राविवेक्यं कतमत्[।] स एभिर्धर्मैः परिकर्मभूमिं शोधयित्वा विविक्तानि शयनासनान्यध्यावसत्यरण्यानि, वृक्षमूलानि, शून्यागाराणि, पर्वतकन्दरगिरिगुहापलाल[पुंजा]भ्यवकाशश्मशानवनप्रस्थानि प्रान्तानि शयनासनादीनीदमुच्यते प्राविवेक्यम् ॥

(१३)
निवरणविशुद्धिः कतमा [।] सो [अ]रण्यगतो वा, वृक्षमूलगतो वा, शून्यागारगतो वा, पंचभ्यो निवरणेभ्यश्चित्तं विशोधयति । कामच्छन्दाद्व्यापादात्स्त्यानमिद्धादौद्धत्यकौकृत्याद्विचिकित्सायाः [।] स एभ्यो निवरणेभ्यश्चित्तं विशोध्य विनिवरणं समाधिकल्पतायामवस्थापयतीयमुच्यते निवरण विशुद्धिः ।

(१४)
समाधिसन्निश्रय कतमः । स पञ्चनिवरणानि प्रहाय चेतसोपक्लेश(चेतस उपक्लेश)कराणि संक्लेशकराणि । विविक्तं कामैर्विविक्तम्पापकैरकुशलैर्धर्मैः सवितर्क सविचारं विवेकजं प्रीतिसुखं प्रथमं ध्यानमुपसंपद्य विहरति [।] सवितर्कसविचाराणां व्युपशमादध्यात्मसंप्रसादाच्चेतस एकोतीभावादवितर्कमविचारं (१५) समाधिजं प्रीतिसुखं द्वितीयं ध्यानमुपसम्पद्य विहरति । स प्रीतेर्विरागादुपेक्षको विहरति स्मृतः संप्रजान[न्] सुखं च कायेन प्रतिसम्वेदयते यत् । तदार्या आचक्षते उपेक्षकः स्मृतिमान् सुखविहारी तृतीयं ध्यानमुपसम्पद्य विहरति स सुखस्य च प्रहाणात्पूर्वमेव सौमनस्यदौर्मनस्ययोरस्तगमा(रस्तङ्गमा)ददुःखासुखमुपेक्षास्मृतिपरिशुद्धं चतुर्थं ध्यानमुपसम्पद्य विहरति । अयमुच्यते समाधिसन्निश्रयः [।]

सो [अ]नयानूपूर्व्या उत्तरोत्तरान्विशिष्टान् विशिष्टतरान् विशिष्टतमान् प्रत्यग्रानात्मसम्पत्पूर्वान् समाधि] संनिश्रयपर्यवसानान् समुदानयति । एवं परिशुद्धे चित्ते पर्यवदाते अनंगणे विगतोपक्लेशे ऋजुभूते कर्मण्ये स्थिते आनिंज्यप्राप्ते स चेच्चत्वार्यार्यसत्यान्यारभ्य तेषां परिज्ञायै प्रहाणाय साक्षात्क्रियायै भावनायै परतो घोषमववा दानुशासनीं प्रतिलभते । एवमसौ भव्यो भवति प्रतिबलश्च योगनिमित्तस्य मनस्कारस्योत्पादनाय । य (त)त्पूर्विकायाश्च सम्यग्दृष्टेर्यया चत्वार्यार्यसत्यान्यभिसमागच्छति । विमुक्तिञ्च परिपूरयति । निरुपधिशेषे च निर्वाणधातौ परिनिर्वाति । तत्र या सम्यग्दर्शनमुपादाय विमुक्तिपरिपूरिः । (१६) निरुपधिशेषपरिनिर्वाणं चायं गोत्रसमुदागमो वेदितव्यः । तत्रात्मसम्पदमुपादाय यावत्समाधिसन्निश्रयो [अ]यम् । हीनः समुदागमप्रत्ययो वेदितव्यः । तत्र यः चतुःसत्यदेशनाववादाधिपतेयः परतो घोषः, यश्च योनिशो मनस्कारः । अयं प्रधानः समुदागमप्रत्ययो वेदितव्यः । इदमुच्यते गोत्रव्यवस्थानम् ॥

गोत्रस्थस्य पुद्गलस्य कतमानि लिंगानि । आह । यान्यपरिनिर्वाणधर्मकस्य लिंगानि । ( आह । यान्यपरिनिर्वाणधर्मकस्य लिंगानि ।) तद्विपर्ययेण गोत्रस्थस्य पुद्गलस्य लिंगानि वेदितव्यानि ।

कानि पुनरपरिनिर्वाणधर्मकलिंगानि यैः समन्वागतः अपरिनिर्वाणधर्मकः । अपरिनिर्वाणधर्मकोऽयमिति विज्ञेयः । बहून्यपरिनिर्वाणधर्मकलिंगानि । (प्रदेशमात्रम् ।) प्रदेशमात्रन्तु निर्देक्ष्यामि । इहापरिनिर्वाणधर्मस्य पुद्गलस्यादित एवाल [] तृष्णा सर्वेण सर्वं सर्वथा च सर्वबुद्धैराश्रयसन्निविष्टा अप्रहाणधर्मिणी भवत्यनुत्पाद्या दूरागता प्रगाढसन्निविष्टा [इदं] । इदं प्रथम[म]गोत्रकस्थस्य पुद्गलस्य लिंगम् ॥ पुनरपरमगोत्रस्थः पुद्गलः अनेकपर्यायेण संसारगुणान् विचित्रान् प्रभूतांश्च (१७) श्रुत्वा निर्वाणगुणांश्चानेकपर्यायेण विचित्रान् । प्रभूतांश्च श्रुत्वा परीत्तमपि प्रपंचे संसारदोषदर्शनमादीनवदर्शनम् । संवेगमात्रं नोत्पादितवानतीतमध्वानमुपादाय नोत्पादयिष्यत्यानागत[मध्वान]मुपादाय नोत्पादयति [वर्त]मानमध्वानमुपादाय परीत्तकल्पमात्रकमवरमात्रकं निर्वाणे, तृष्णाक्षये, विरागे, निरोधे गुणदर्शनमुशन्स (शंस)दर्शनं प्रसादमात्रकमतीतानागतप्रत्युत्पन्नमध्वानमुपादाय नोत्पादितवान्नोत्पादयिष्यति नोत्पादयति । इदं द्वितीयमगोत्रस्थ[स्य पुद्गलस्य] लिंगम् । पुनरपरमगोत्रस्थः पुद्गलः [अनेकपर्या] [येण..............] गामीदुः[खा] पत्राप्येण समन्वागतो भवति । येनायमघृणचित्तश्चासंकुचितचित्तश्च प्रहृष्टचित्तश्च सर्वस्यायमध्याचरति । न च कदाचित्तनि (न्नि)दानं विप्रतिसारी भवति । नान्यत्र ॥ [।] [इदं तृतीयमगोत्रस्थं लिङ्गं [।] पुन]रपरमगोत्रस्थः (१८) सर्वाकारपरिपूर्णे [अ]स्य (।) दो[ष]युक्ते चित्रे (त्ते) गमके दुःखं वा आरभ्य, समुदयं वा, निरोधम्वा, मार्गम्वा, सद्धर्मे देश्यमाने न लभते चेतस आवर्जनमात्रे कर्मणि, मुक्तिमात्रे [यदुतातीतमध्वानमुपादायानागतमध्वानमुपादाय य] दुत प्रत्युत्पन्नमध्वानमुपादाय । इदं चतुर्थमगोत्रस्थं लिंगम् । पुनरपरमगोत्रस्थः पुद्गलः स चेत्कदाचित्कर्ह (र्हि)चित्स्वाख्याते धर्मविनये प्रव्रजति । स राजा भिनिर्णीतो वा, चो (चौ)राभिनिर्णीतो वा, ऋ[णा]र्तो वा, अजीविकामयभीतो वा, मा[रभयभीतो वा, अश्रमणः श्रमणप्रति] ज्ञः, अब्रह्मचारी ब्रह्मचारी (रि-) प्रतिज्ञः, अतीतानागतप्रत्युत्पन्नेष्वध्वस्वगोत्रस्थस्य पुद्गलस्यैवमेव प्रव्रज्या वेदितव्या । न वा शिक्षाकामस्य पुद्गलस्य प्रव्रज्योपसम्पद्भिक्षुभावः । तदनेन पर्यायेणानेनाभिसन्धिना अर्थतो नै[र्याणिकतो [अ]गोत्रस्थः पुद्गलः प्रव्रजित] इति संख्यां गच्छति । इदं पञ्चममगोत्रस्थस्य पुद्गलस्य लिंगम् ॥ पुनरपरमगोत्रस्थः पुद्गलो यत्किंचित्कुशलं कर्म करोति । (१९) कायेन, वाचा, मनसा वा तत्सर्वं भवाभिप्रायो वा, विशिष्टमायतिपुनर्भवमभिप्रार्थयमानो भोगाभिप्रायो [वा भवति । इदं षष्ठमगोत्रस्थस्य पुद्गलस्य] लिंगम् । एवंभागीयानि चास्य बहूनि लिङ्गानि सम्विद्यन्ते यैः समन्वागतः । अपरिनिर्वाणधर्मको [अ]परिनिर्वाणधर्मक इति संख्यां गच्छति ॥

तत्र कतमे गोत्रस्थाः पुद्गलाः । आह । अस्ति गोत्रस्थः पुद्गलः । गोत्र एव स्थितो, नावतीर्णो न निष्क्रान्तः [अवतीर्णो न निष्क्रान्तः, अवतीर्णो निष्क्रान्तो], मृद्विन्द्रियो, मध्येन्द्रियः, तीक्ष्णेन्द्रियः, रागचरितो, द्वेषचरितो, मोहचरितः । अक्षणोपपन्नः । अप्रमत्तः, मिथ्याप्रतिपन्नः, अमिथ्याप्रतिपन्नः, आवृतो [अ]नावृतः, दूरे, अन्तिके [।] परिपक्वश्चा [अ]परिपक्वश्च, विशुद्धश्चाविशुद्ध[श्च [।] ॥
तत्र कतमो गोत्रस्थ एव पुद्गलः । आह ।] यथापीहैकत्यः पुद्गलो लोकोत्तरधर्मबीजमोहागतो भवति । न च पुनरद्यापि लभते सत्पुरुषसंसेवां वागम्य, सद्धर्मश्रवणं वा, तथागतप्रवेदिते धर्मविनये श्रद्धां च शीलं च समाददाति । न श्रुतमुद्गृहणाति । न त्यागं बृंहयति, न दृष्टिमृजूक[रोति । अयमुच्यते गोत्रस्थ एव पुद्गलः ॥

अ]स्य विपर्ययेण शुक्लपक्षेण गोत्रस्थश्चावतीर्णश्च (२०) वेदितव्यः । अयन्तु विशेषो नो तु लाभी भवत्यार्यमार्गस्य । तत्फलस्य च क्लेश विसंयोगस्य ॥

कतमो गोत्रस्थश्चावतीर्णश्च निष्क्रान्तश्च ॥ एतदेवोक्त्वा [अ]यं विशेषः [।] लाभी भवत्यार्यमार्गस्य तत्फलस्य च ॥ [।]

[तत्र मृद्विन्द्रियः पुद्गलः कतमः । यस्य नात्यर्थं ज्ञेये वस्तुन्यालम्ब]ने अत्यर्थं धन्धवाहीनीन्द्रियाणि भवन्ति । मन्दवाहीनि वा [।] श्रुतमयेन वा, चिन्तामयेन वा, भावनामयेन वा मनसिकारेण संप्रयुक्तानि । यदुत श्रद्धा, वीर्यं, स्मृतिः, समाधिः । प्रज्ञा वा [।] न समर्थानि, न प्रतिबलानि धर्मस्य वा प्रतिवेधायार्थस्य वाशुच प्रतिवेधाय । अयमुच्यते मृद्विन्द्रियः पुद्गलः ॥

मध्येन्द्रियः कतमः [।] यस्य नात्यर्थं ज्ञेये वस्तुन्यालम्बने धन्धवाहीनीन्द्रियाणि सर्वं पूर्ववद्विस्तरेण वक्तव्यमयमुच्यते मध्येन्द्रियः पुद्गलः ॥

तीक्ष्णे[न्द्रियः पुद्गलः] कतमः [।] यस्य पुद्गलस्य ज्ञेये वस्तुन्यालम्बने [अ]धन्धवाहीनीन्द्रियाणि भवन्ति । अमन्दवाहीनि [।] श्रुतमयेन [वा, (२१) चिन्तामयेन वा, भावनामयेन वा मनसिकारेण संप्रयुक्तानि । यदुत श्रद्धा, वीर्यं, स्मृतिः,] समाधिः, प्रज्ञा वा [।] शक्तानि भवन्ति धर्मस्य प्रतिवेधाय, अर्थस्य वा आशु च प्रतिवेधाय । [तनु] वा [।] अयमुच्यते तीक्ष्णेन्द्रियः पुद्गलः [।]

रागचरितः पुद्गलः कतमः । यो रंजनीये आलम्बने तीव्ररागश्च भवत्यायतरागश्च, अयमुच्यते [रागचरितः पुद्गलः ॥

द्वेषचरितः पुद्गलः कतमः । यः प्र] तिघस्थानीये आलम्बने तीव्रद्वेषश्च भवत्यायतद्वेषश्चायमुच्यते द्वेषचरितः पुद्गलः ॥

मोहचरितः पुद्गलः कतमः । यो ज्ञेये वस्तुनि तीव्रमोहश्च भवत्यायतमोहश्चायमुच्यते मोहचरितः पुद्गलः ॥

अक्षणोपपन्नप्रमत्त[मिथ्याप्रतिपन्नाश्च पुद्गलाः कतमे । अक्षणो] पपन्नाः प्रमत्तामिथ्याप्रतिपन्नानावृता (पन्ना अनावृता) वेदितव्या[ः] ॥

दूरे पुद्गलः कतमः । अस्ति पुद्गलः कालदूरतया निर्वाणस्य दूरे । अस्ति प्रयोगदूरतया (।) तत्र कतमः कालदूरतया दूरे । अनेकैर्जातिशतैरनेकैर्जातिशतसहस्रैः (२२) [अनेकजातिशतसहस्रैः] ततः पश्चाद्भव्यो [भवत्याशुप्रत्ययलाभाय । परिनिर्वाणाय । तत्र । प्रयोगदूरतया पु]द्गलो गोत्र एव केवले स्थितो भवति । नावतीर्णः । स भव्यो भवत्याशुप्रत्ययलाभाय । परिनिर्वाणाय [।] स निर्वाणायानारब्धप्रयोगदूरतया [दूरत्वात्प्रयोग] कालदूरतया अयमुच्यते दूरे पुद्गलः ॥ आसन्ने पुद्गलः । .............................

(२३)
(२४)
(२५)
इइ. अवतारभूमिः

........... यैः षड्भिर्भव्यो मृदुकुशलमूलसमन्वागतो मध्यकुशलमूलसमन्वागतः । अधिमात्रकुशलमूलसमन्वागतः । निष्ठाप्रायोगिको, निष्ठागतश्च ।

तत्र कतमो भव्य एव पुद्गलः । यो गोत्रस्थान (नं) चा(भि)ध्यायि(यी) तत्प्रथमतस्तथागतप्रवेदिते धर्मविनये श्रद्धां प्रतिलभते । या च दृष्टिमृजूकरोति ।

तत्र कतमो मृदुकुशलमूलसमन्वागतः । यो गोत्रस्थस्तेन वा तथागतप्रवेदिते धर्मविनये तत्प्रथमतः श्रद्धा प्रतिलब्धा भवति । यावद्दृष्टि ऋजूकृता [।] अयमुच्यते मृदुकुशलमूलसमन्वागतः [।]

(२६)
मध्यकुशलमूलसमन्वागतो गोत्रस्थः पुद्गलस्तत्प्रथमतस्तथागतप्रवेदिते धर्मविनये श्रद्धां प्रतिलभ्य, यावद्दृष्टिमृजुं कृत्वा एकम्वा (कं वा), द्वे वा, सम्बहुलानि वा जन्मान्यभिनिर्वर्त्तयति । विशेषाये(यै)ति ।

य[ः] परैति । नो चरममात्मभावं प्रतिलभते । यत्र स्थितः परिनिर्वात्ययमुच्यते । अधिमात्रकुशलमू लसमन्वागतः पुद्गलः ।

तत्र कतमो निष्ठाप्रायोगिकः पुद्गलः । यः पुद्गलश्चरममात्मभावं प्रतिलभ्यास्रवक्षयाय सम्यगववादानुशासनीं, सद्धर्मश्रवणं वा प्रतिलभ्य सम्यगेव प्रयुज्यते । न चाध्मायि (यी?) सर्वेण सर्वं सर्वथा प्रतिपद्यते । आस्रवक्षयमनुप्राप्नोति । न निष्ठां गच्छत्ययमुच्यते निष्ठाप्रायोगिकः पुद्गलः ।

तत्र निष्ठागतः पुद्गलः कतमः [।] यः सम्यगावेदितः सम्यगनुशिष्टः । यदुतास्रवक्षयाय तथा तथा प्रतिपद्यते । यत्सर्वेण सर्वं सर्वथा आस्रवक्षयमनुप्राप्नोति । कृतकृत्यो भवति परमशीतीभावप्राप्तः [।] अयमुच्यते निष्ठागतः पुद्गलः ॥

तत्र भव्यजातीयः पुद्गलो गोत्रं निश्रित्य, गोत्रं प्रतिष्ठाय मृदूनि कुशलमूलानि प्रतिलभते । अवतीर्णश्च (२७) भवति । सो [अ]वतीर्णो मृदूनि कुशलमूलानि निश्रित्य, प्रतिष्ठाय, मध्यानि कुशलमूलानि प्रतिलभतेतैश्चात्मानम्परिपाचयति । स तथा परिपच्यमानो मध्यानि कुशलमूलानि निश्रित्य प्रतिष्ठायाधिमात्राणि कुशलमूलानि प्रतिलभते । परिपक्वश्च भवति । सो [अ]धिमात्रकुशलमूलहेतुसमुदागतेनात्मभावप्रतिलम्भेन यदा सम्भारञ्च समुदानयति । चित्तैकाग्रताञ्च स्पृशति । सम्यक्त्वञ्च न्याममवक्रामति । स्त्रोत आपत्तिफलम्वा, सकृदागामिफलं वा [अ]नागामिफलम्वा साक्षात्करोति । नो त्वग्रफलमर्हत्वं(त्त्वं) साक्षात्करोति । तदा निष्ठाप्रायोगिक इत्युच्यते ।

यदा तु सर्वक्लेशप्रहाणमर्हत्वं (त्त्वं) साक्षात्करोति । तदा निष्ठागतो भवति ॥

सैषा सादिमध्यपर्यवसाना सर्वश्रावकचर्या षड्भिः पुद्गलव्यवस्थानैः सन्दर्शिता भवति । तत्र गोत्रेणादि[ः] श्रावकचर्यायाः सन्दर्शितः । निष्ठाया (निष्ठया) पर्यवसानम् । तदन्येन मध्यं संदर्शितम् ॥

तत्रावतीर्णानां पुद्गलानां किं परिमाणनियतस्तुल्यश्च सर्वेषां कालो भवति । परिनिर्वाणायाहोस्विदपरिमाणनियतः । (२८) अतुल्यनिश्चयः सर्वेषां कालो भवति । न परिनिर्वाणाय आहो नैषां परिमाणनियतः कालो नापि तुल्यः सर्वेषाम्परिनिर्वाणाय [।] अपि तु यथायोगमेषां यथाप्रत्ययलाभं परिनिर्वाणं वेदितव्यम् । केषांचिच्चिरेण, केषांचिच्चातिचिरेण, केषांचित्पुनः क्षिप्रमेव परिनिर्वाणं भवत्यपि तु यो गोत्रस्थः पुद्गलः [स] सर्वक्षिप्रं परिनिर्वाति । सो [अ]वश्यं त्रीणि जन्मान्यभि निर्वर्त्तयति । एकस्मिन्नवतरत्येकस्मिं (स्मिन्) परिमुच्यते । एकास्मिं(स्मिन्) जन्मनि परिपक्वो भवति । तत्रैव च परिनिर्वाति । नो चेत्परिनिर्वाति । सो [अ]वश्यं शैक्षकालं करोति । परञ्च सप्तभवानभिनिर्वर्त्तयतीदमुच्यते अवतारव्यवस्थानम् ।

अवतीर्णस्य पुद्गलस्य कतमानि लिंगानि । इह गोत्रस्थः पुद्गलः अवतीर्णमात्र एव यदा जन्मान्तरपरिवर्त्तेनापि स्मृतिसंप्रमोषं प्रतिलभते । आशास्तरि धर्मविनये वा सति सम्विद्यमाने [अ]पि दुराख्याते धर्मविनये स्वाख्याते [अ]प्यनेकपर्यायेण दुराख्यातस्य धर्मविनयस्य वर्णं स्तुतिमानुशन्सं(शंसं) श्रुत्वा नावतरति । न प्रव्रजति । प्रव्रजितो [अ]प्यवतीर्णो (२९) लघु लघ्वेव प्रत्युदावर्त्तखे । प्रकृत्यैव चास्य तत्रारोचकः संतिष्ठते । मधुनि जातस्येव च प्राणकस्य शुक्तिप्रक्षिप्तस्य कामोपभोगिनो वा कर्दे(न्दे ?)ण, स्यन्दनिकायाम्वा प्रक्षिप्तस्य यथापि तत्पूर्वकेणैव हेतुबलाधानेन स्वाख्यातस्य वा पुनर्धर्मविनयस्य नैव वर्ण[ं] स्तुतिमानुशन्सं (शंसं) श्रृणोति वा कण्डति वा । अल्पमात्रमवरमात्रम्वा श्रुत्वा, अश्रुत्वा वा लघु लघ्वेवावतरति प्रव्रजति वा [।] तथा प्रव्रजितश्चावतीर्णो न प्रत्युदावर्त्तते । प्रकृत्यैव चास्य तत्र रुचिः संतिष्ठते । मधुप्राणकस्य वा मधुनि, कामोपभोगिनो वा प्रणीतायां कामचर्यायाम् । यथापि तत्पूर्वकेणापि हेतुबलाधानेन । इदं प्रथममवतीर्णस्य पुद्गलस्य लिङ्गम् ॥

पुनरपरमवतीर्णः पुद्गलः (लो) न तावद्विसंयुक्तो भवत्यपायक्षणगमनीयैः क्लेशैः । न च पुनरक्षणेपूपपद्यते । अवतीर्णं च पुद्गलं सन्धायोक्तं भगवता ।

सम्यग्दृष्टिरधिमात्रा लौकिकी यस्य विद्यते । अपि जातिसहस्राणि नासौ गच्छति दुर्गतिम् ॥

स यदा अधिमात्रेषु कुशलमूलेषु प्रतिष्ठो भवत्यनुपूर्वेण परिपाकगमनीयेषु तथा नाक्षणेषूपपद्यते [।] (३०) न त्वन्येषु । इदं द्वितीयमवतीर्णस्य पुद्गलस्य लिङ्गम् ।

पुनरपरमवतीर्ण[ः] पुद्गलः बुद्धस्य वा, धर्मस्य वा, संघस्य वा गुणांच्छ्रुत्वा, अनुस्मृत्य वा, लभते चेतसः प्रसादमुदारं, कुशलं, नैष्क्रभ्योपसंहितं, भूयो भूयस्तेनालम्बनेन, प्रसादद्रवचित्ततया अस्त्रप्रपाताद्रोमांचा[दीनि] प्रतिलभते इदं तृतीयमवतीर्णस्य पुद्गलस्य (पुद्गलस्य) लिङ्गम् ।

पुनरपरमवतीर्णः पुद्गलः प्रकृत्यैव तीव्रेण ह्रीव्यपत्राप्येण समन्वागतो भवति । यदुत सर्वसावद्द्यस्थानसत्ता (मु)दाचारेष्विदं चतुर्थमवतीर्णस्य पुद्गलस्य लिङ्गम् ॥

पुनरपरमवतीर्णः पुद्गलः छन्दिको भवति । तीव्रछ (च्छ)न्दः उद्देशे, स्वाध्याये, परिपृच्छायां, योगे, मनसिकारे, किंकुशलगवेषी भवति । इदं पञ्चममवतीर्णस्य पुद्गलस्य लिङ्गम् ॥

पुनरपरमवतीर्णः पुद्गलः सर्वकर्मान्तेष्वनवद्येषु स[र्वस]मादानेषु कुशलपक्षप्रयोगेषु दृढारम्भश्च भवति स्थिरारम्भश्च निश्चितारम्भश्च यदुत समागमाय [।] इदं षष्ठमवतीर्णस्य पुद्गलस्य लिङ्गम् ॥

(३१)
पुनरपरमवतीर्णः पुद्गलः मन्दरज[स्क]जातीयो भवति । मन्दमन्दं क्लेशपर्यवस्थानमुत्पादयति । न च पुनः प्रबन्धं स्थापयत्यशठश्च भवत्यमायावी निहतमदमानाहंकारगुणाभिनिविष्टो दोषद्वेष्टा [।] इदं सप्तममवतीर्णस्य पुद्गलस्य लिङ्गम् ॥

पुनरपरमवतीर्णः पुद्गलोऽसंलीनचित्तो भवत्युदरेष्वधिगम्येषु स्थानेषु नात्मानम्परिभवति । नाप्रतिबलतायामवतरति । अधिमुक्तिबहुलो भवति । इदमष्टममवतीर्णस्य पुद्गलस्य लिङ्गम् ॥

इमान्येवंभागीयानि प्रभूतान्यवतीर्णानां पुद्गलानां लिङ्गानि वेदितव्यानि ॥ येषामेतत्प्रदेशमात्रमाख्यातम् ॥

पुनरेतानि लिङ्गानि मृदुकुशलमूलस्थस्यावतीर्णस्य मृदूनि भवन्ति । सछि(च्छि)द्राण्यनिरन्तराणि अपरिशुद्धानि [।] मध्यकुशलमूलस्थितस्य मध्यानि, अधिमात्रकुशलमूलस्थितस्याधिमित्राणि, निरन्तराणि, परिशुद्धानीमान्युच्यन्ते अवतीर्णस्य पुद्गलस्य लिङ्गानि । यैलिंगैः समन्वागत[ः] अवतीर्ण इति संख्यां गच्छति । अपि पुनरेतानि गोत्रस्थानामवतीर्णानाञ्च पुद्गलानामानुमानिकानि लिङ्गानि वेदितव्यानि । बुद्धा एव तु भगवन्तः परमपारमि[ता]प्राप्ताश्च श्रावकास्तायिनः । तत्र प्रत्यक्षदर्शिनः । (३२) सुविशुद्धेन ज्ञानदर्शनेन प्रत्यनुभवन्ति । यदुत गोत्रं चावतारञ्च [॥]

अवतीर्णाः पुद्गलाः कतमे [।] अस्त्यवतीर्णः पुद्गलः । अवतीर्ण एव, न परिपच्यमानो, न परिपक्वो, न निष्क्रान्तः ॥ अस्ति परिपक्वो न निष्क्रान्तः । अस्ति निष्क्रान्तो न परिपक्व एषां च पूर्ववद्विभागो वेदितव्यः ॥ ये [अ]पि तदन्ये मृद्विन्द्रिया दयः पुद्गलाः । गोत्रभूमौ निर्दिष्टाः । तेषामिहापि यथायोगं विभागो वेदितव्यः [।]

तत्र यश्चायमवतारस्य स्वभावः, यच्च व्यवस्थानं, यानि चेमान्यवतीर्णानां लिङ्गानि । ये चेमे अवतीर्णां पुद्गलाः तत्सर्वमभिसंक्षिप्यावतारभूमिरित्युच्यते ॥

॥ उद्दानम् ॥

स्वभावस्तद्व्यवस्थानं लिङ्गं पुद्गल एव च ।
अवतारभूमिविज्ञेया सर्वमेतत्समासतः ॥
॥श्रावकभूमा[व]वतारभूमिः समाप्ता ॥

(३३)
(३४)
(३५)
नैष्क्रम्यभूमिः

नैष्क्रम्यभूमिः कतमा । आह [।] यच्च लौकिकेन मार्गेण वैराग्यगमनम् । यच्च लोकोत्तरेण मार्गेण वैराग्यगमनम् । यच्च(यश्च) तयोस्सम्भारः तदेकत्यमभिसंक्षिप्य नैष्क्रम्यभूमिरित्युच्यते ।

लौकिकेन मार्गेण वैराग्यगमनं कतमत् । यथापीहैकत्यः कामधातावौदारिकदर्शी भवति । प्रथम एव स समापत्त्युपपत्तिके ध्याने विवेकजे प्रीतिसुखे शान्तदर्शी भवति । स तथादर्शी तद्बहुलविहारी सत्कायवैराग्यमनुप्राप्नोति । प्रथमञ्च ध्यानं समापद्यते । एवं सर्वध्यानादूर्ध्वं सर्वास्वधरिमासु भूमिष्वौदारिकदर्शी भवति । सर्वासु चोपरिमायु भूमिषु शान्तदर्शी, स तथादर्शी तद्बहुलविहारी समानो यावदाकिञ्चन्यायतनाद्वैराग्यमनुप्राप्नोति । नैवसंज्ञानासंज्ञायतनं च समापद्यते [।] लौकिकेन मार्गेण (३६) वैराग्यगमनं नास्त्यत उत्तरि नातो भूयः ।

लोकोत्तरेण मार्गेण वैराग्य गमनं कतमत् । यथापीहैकत्यः सत्पुरुषाणां दर्शी आर्यधर्मेषु कोविदः दुःखम्वा दुःखतो यथाभूतं प्रजानाति । समुदयम्वा समदयतः । निरोधम्वा निरोधतः । मार्गम्वा मार्गतः । शैक्षेण ज्ञानदर्शनेन समन्वागतः । ततश्चोत्तरि मार्गं भावयंस्त्रैधातुकेभ्यो दर्शनभावनाप्रहातव्येभ्योधर्मेभ्य आत्मानं विसंयोजयति विमोचयत्येवं चासौ त्रैधातुकसमतिक्रान्तो भवति । इदमुच्यते लोकोत्तरेण मार्गेण वैराग्यगमनम् ॥

तत्र सम्भारः कतमः । तद्यथा आत्मस्वपरसम्पत्(आत्मसम्पत्) । परसम्पत्, कुशलः (लो)धर्म[च्]छन्दः, शीलसम्वरः, भोजने मात्रज्ञता, पूर्वरात्रापररात्रं जागरिकानुयुक्तता, संप्रजानद्विहारिता, कल्याणमित्रता, (३७) सद्धर्मश्रवणचित्तं (चिन्तना) अ[न]न्तरायः त्यागः, श्रमणालंकारश्च इतीमे धर्मा लौकिकलोकोत्तरवैराग्य[गम]नाय सम्भार इत्युच्यते । तत्र या चात्मसम्पत्, परसम्पत्कुशलश्च धर्मछ(च्छ)न्द एषां पूर्ववद्विभागो वेदितव्यः । यदुक्तं निहीने बीजसमुदागमप्रत्यये ।

तत्र शीलसम्वरः कतमः [।] यथापीहैकत्यः शीलवान् विहरति यावत्समादाय शिक्षते शिक्षापदेषु [।] कथं च शीलवान् विहरति । यावत्समादाय शिक्षते शिक्षापदेषु [।] (कथं शीलवान् विहरति ।) यथा समात्तेषु शिक्षापदेषु अविपन्नकायकर्मान्तश्च, भवत्यविपन्नकायकर्मान्तश्च । अखण्डचारी, अछि(च्छि)द्रचारी एवं शीलवान् भवति ॥

कथं प्रातिमोक्षसम्वरसंवृतो भवति । सप्तनैर्याणिकं शीलं प्रातिमोक्षसम्वर इत्युच्यते । त एते निकायभेदेन बहवः सम्वरा भवन्ति । अस्मिंस्त्वर्थे (३८) भिक्षुसम्वरमधिष्ठायाह प्रतिमोक्षसम्वरसंवृतः ।

कथमाचारसम्पन्नो भवति । यथापि तदीर्यापथमितिकरणीय(यं) वा, कुशलपक्षप्रयोगम्वा अधिष्ठाय लोकानुवर्त्तिना, लोकानुत्क्रान्तेन, विनयानुवर्त्तिना, विनयानुत्क्रान्तेन चाचारेण समन्वागतो भवति ।

तत्र ईर्यापथाधिष्ठान आचारः । कथं न लोकानु(को)त्क्रान्तो [न] विन योत्क्रान्तः [।] यथापि तद्यत्र चंक्रमितव्यम् । यथा चंक्रमितव्यं [।] तत्र यथा चंक्रम्यते (चंक्रमते) येन न लोकगर्हितो भवति, न सतां, सम्यग्रतानां, सत्पुरुषाणां, सहधार्मिकाणां, विनयधराणां, विनयशिक्षितानामबध्यो भवति । [अ]गर्ह्यस्थानीयः । यथा चंक्रम एवं स्थानं, निषद्या, शय्या वेदितव्या ।

तत्र इतिकरणीय आचारः । कथं न लोकोत्क्रान्तो भवति । न विनयोत्क्रान्त इति करणीयमुच्यते । चीवराच्छादनम् । उच्चारवस्त्रावम् । उदकदन्तकाष्ठम् । ग्रामप्रवेशः । पिण्डपातनिर्हारपरिभोगः । पात्रनिर्मार्द (र्ज)नं स्थापनं च । पादप्रक्षालनं च । शयनासनप्रज्ञप्तिः । तस्यैव चाभिसंक्षेपः पात्रकर्म चीवरकर्म इति । यद्वा पुनरेवंभागीयं किंचित्तदितिकरणीयमित्युच्यते । तच्च यथायोगं यत्र कल्पयितव्यं, यथा च कल्पयितव्यं तत्र तथा कल्पयति । (३९) येन लौकिकानामनभ(भि)योज्यो भवत्यविगर्हितः । विनयधराणां [विनयशिक्षिताना] मनपवाद्यो भवत्यविगर्हितः । सम्यग्रतानां सहधार्मिकाणामेवमितिकरणीयाधिष्ठान आचारो लोकानुत्क्रान्तो भवति । विनयानुत्क्रान्तश्च ॥
तत्र कुशलपक्षप्रयोगधिष्ठान आचारः [।] कथं लोकानुत्क्रान्तश्च भवति, विनयानुत्क्रान्तश्च [।] कुशलपक्षौच्यते [।] तद्यथा स्वाध्यायगुरूणां सामीचीकर्म, उपस्था(प)नं च, तथा ग्लानोपस्थानमन्यो [अ]न्यमनुकम्पाचित्तमुपस्थाप्य च्छन्ददान[स]मुप्रयोगः, परिपृच्छा, धर्मश्रवणदक्षस्यानलसस्य विज्ञानां सब्रह्मचारिणां कायेन चैया(चेर्या) कृत्यक्रिया, परेषां च कुशलपक्षसमुदापना, धर्मदेशना । प्रतिसंलयनप्रवेशपर्यङ्कनिबन्धानिषद्या इति य एवं भागीया अप्यन्ये धर्मा अयमुच्यते । कुशलपक्षप्रयोगः [।] स एवं कुशलपक्षप्रयोगो (गं) यथायोगं यथापरिकीर्तितम् । यत्र कल्पयितव्यं तत्र तथा कल्पयति । येन नानुयोज्यो भवति । गर्हितो लौकिकानां विनयधराणां, विनयशिक्षितानां, सम्यग्रतानां, सत्पुरुषाणां, सहधार्मिकाणामयमुच्यते कुशलपक्ष (४०) प्रयोगाधिष्ठान आचार(रो) लोकानुत्क्रान्तो, विनयानुत्क्रान्तश्च [।] य एभिराकारैः सम्पन्न आचार इयमुच्यते आचारसम्पत् । एवं चाचारसम्पन्नो भवति ।

कथञ्च गोचरसम्पन्नो भवति । पञ्च भिक्षोरगोचराः (।) कतमे पञ्च [।] तद्यथा घोषो, वेषं (वेश्या-)पानागारः, राजकुलं, चण्डालकठिनमेव पञ्चममिति । य एतांस्तथागतप्रतिक्षिप्तानगोचरान् वर्जयित्वा अन्यत्र गोचरे चरत्यनवद्ये तत्र कालेनैवं गोचरसम्पन्नो भवति ॥

(४१)
कथमणुमात्रेष्ववद्येषु भयदर्शी भवति । अणुमात्रमवद्यमुच्यते । क्षुद्राणु(नु)क्षुद्राणि शिक्षापदानि येष्वध्यापत्तिर्व्युत्थानं च प्रज्ञायते । तेषां याध्यापत्तिरिदमवद्यमणुमात्रम् । पुनस्तथा हि तस्या अध्यापत्तेरल्पकृच्छेण व्युत्तिष्ठते येन तदणुमात्रमित्युच्यते ।

तत्र कथं भयदर्शी भवति । सा है वाह(सोऽह)मेषामध्यापत्तिहेतोरभव्यो वा स्यामप्राप्तस्य प्राप्तये, अनधि[गतस्याधि]गमाय, असाक्षात्कृतस्य साक्षात्क्रियायै, अपायगो वा स्यामपायगामी, आत्मा वा मे अपवदेत्, शास्ता वा, देवता वा, विज्ञा वा, सब्रह्मचारिणो [अ]धर्मतया विगर्हयेयुः । दिग्विदिक्षु च मे पापको वर्णकीर्त्तिशब्दश्लोको [अ]भ्युद्गच्छेत्स एभ्यो दृष्टधर्मसांपरायिकेभ्यस्तद्धेतुकेभ्यो वि[शि]ष्टेभ्यो धर्मेभ्यो भयदर्शी भवति । येन तानि क्षुद्राणु(नु)क्षुद्राणि शिक्षापदानि जीवितहेतोरपि न संधिभ्यो व्यापद्यते । कदाचित्कर्ह(र्हि)चित्स्मृतिसंप्रमोषादध्यापन्नः लघु लघ्वेव यथाधर्मं प्रतिकरोति व्युत्तिष्ठते [।] एवमणुमात्रेष्ववद्येषु भयदर्शी भवति ।

कथं समादाय शिक्षते शिक्षापदेषु । (४२) आह [।] पूर्वमनेन प्रातिमोक्षसम्वरसमादानज्ञप्तिचतुर्थेन कर्मणा उपसम्पद्यमानेन कतिपयानां शिक्षापदानां शरीरं श्रुतं, सातिरेकं च तदन्यं दिवसं शिक्षापदशतं प्रातिमोक्षसूत्रोद्दिष्टं प्रतिज्ञयेवोपगतं सर्वत्र ल(ब्धा)ष्यामीति (लप्स्यामीति) । आचार्योपाध्यायानामन्तिकाच्छ्रुत्वा आलप्तकसंलप्तकसंस्तुतकमप्रियकानां(णाम्) अध्बरमासंगप्रातिमोक्षसूत्रोद्देशतः । ततश्च तेन सर्वशिक्षासमादानात्प्रातिमोक्षसम्वरः प्रतिलब्धस्तत उत्तरकालं येषु शिक्षापदेषु कुशलो भवति । तानि तावन्नाध्यापद्यते । अध्यापन्नश्च यथाधर्मं प्रतिकरोति । येषु पुनः शिक्षापदेषु कुशलो भवति । अव्युत्पन्नबुद्धिः । तानि पूर्वं प्रतिज्ञासमादानेन समादत्तान्येतर्हि व्युत्पत्तिकौशल्यतया समाददाति । तेभ्यः पूर्वं यथापरिकीर्त्तितेभ्यः स्थानेभ्य आचार्यस्य वोपाध्यायस्य वा पूर्ववत् । व्युत्पत्तिकौशल्यतया च पुनः समादाय, यथानुशिष्टः अन्यूनमधिकं शिक्षते । ते[षु गुरु]स्थानीयव्यपदिष्टेषु शिक्षापदेषु अविपरीतग्राही च भवत्यर्थस्य व्यंजनस्य च । एवं समादाय शिक्षते शिक्षापदेष्वयं तावद्विभंगः शीलसम्वरस्य विस्तरकृतः ॥

तत्र कतमः समासार्थः । तथायं समासार्थस्त्रिलक्षण एव । शीलस्कन्धः परिदीपितो भगवता, तद्यथा (४३) अविप्रणाशलक्षणः, स्वभावलक्षणः, स्वभावगुणलक्षणश्च । यथा कथमिति यत्तावदाह शीलवान् विहरतीत्यनेन तावदविप्रणाशलक्षणं शीलसम्वरस्याख्यातम् ॥ यत्पुनराह प्राति मोक्षसम्वरसंवृत इति । अनेन स्वभावलक्षणमाख्यातम् । यत्पुनराह । आचारगोचरसम्पन्नः । अनेन परमुपनिधाय, तथा समादत्तस्य प्रातिमोक्षसम्वरस्य गुणलक्षणमाख्यातम् । तथापि परे तामाचारगोचरसम्पदमुपलभ्याप्रसन्नाश्च प्रसीदन्ति, प्रसन्नानां च भवति भूयोभावः । प्रसन्नाश्च प्रसन्नाधिकारं कुर्वन्ति । न च मनान्सि (मनांसि) प्रदूषयन्ति । नाव्वर्णं निश्चारयन्त्यन्यथा शीलसम्पन्नस्याचारगोचरसम्पन्नस्यायं पराधिपतेयो गुण आनुशन्सा (आनुशंसा) च भवेदेतद्विपर्ययेण वा (चा)स्य दोष एव भवेत् । यत्पुनराह । अणुमात्रेष्ववद्येषु भयदर्शी समादाय शिक्षते शिक्षापदेषु [।] अनेनाध्यात्माधिपतेयगुणानुशन्स(शंस)लक्षणमाख्यातम् । तत्कस्य हेतोर्यदस्येद (म)माचारगोचरसम्पन्नः पराधिपतेयं गुणानुशन्सं (शंसं) प्रतिलभेत । अपि च । शीलं वि पातयित्वा (विपात्य) तद्धेतुस्तत्प्रत्ययमपायेषूपपद्यते । अभव्यताम्वा (तांवा) अप्राप्तस्य प्राप्तये पूर्वत् । यत्पुनरणुमात्रेष्ववद्येषु भयदर्शी भवति । प्रागेवाधि मात्रेष्वसमादाय च शिक्षते शिक्षापदेषु तस्मात्तद्धेतुस्तत्प्रत्ययं कायस्य भेदात्सुगतावुपपद्यते । भव्यो (४४) वा भवत्यप्राप्तस्य प्राप्तस्य प्राप्तये पूर्व[व]दनेन कारणेना ध्यात्माधिपतेयो (अ)यं शीलसम्वरस्य गुणानुशंस इत्युच्यते ॥

अपरः पुनः पर्यायः [।] समासतो भगवता समादत्तशीलता परिदीपिता, नैर्याणिकशीलता च, शीलभावना च [।] तत्र यत्तावदाह । शीलवान्विहरतीत्यनेन समादत्तशीलताख्याता । यत्पुनराह । प्रातिमोक्षसम्वरसंवृत इत्यनेन नैर्याणिकशीलता आख्याता [।] तथा हि प्रातिमोक्षसम्वरसंगृहीतं शीलमधिशीलं शिक्षेत्युच्यते । अधिशीलं च शिक्षां निश्रित्य, अधिचित्तं च, अधिप्रज्ञं च शिक्षां भावयत्येवमसौ सर्वदुःखक्षयाय । निर्यातो भवति । यदुताधिशीलं प्रतिष्ठाय पूव्वंगमं कृत्वा तस्मात्प्रातिमोक्षसंवरो नैर्याणिकं शीलमित्युच्यते । यत्पुनराह । आचारगोचरसम्पन्नः अणुमात्रेष्ववद्येषु भयदर्शी समादाय शिक्षते शिक्षापदेष्वनेन शीलभावना आख्याता । एभिराकारैस्तत्प्रातिमोक्षसम्वरशीलम्भावयितव्यम् । एवं च भावितं सुभावितं भवतीति स एष एकः शीलसम्वरः षडाकारदेशनाप्रत्युपस्थानो वेदितव्यः ॥

स चैष शीलसम्वरो दशभिराकारैर्विपन्नो (४५) वेदितव्यः । विपर्ययाद्दशभिश्चैव कारणैः सम्पन्नः ।

कतमैर्दशभिः कारणैर्विपन्नो भवति । आदित एव दुर्गृहीतो भवत्यतिलीनो भवत्यनिसृतो भवति, प्रमादकौसीद्यपरिगृहीतो भवति । मिथ्या प्रणिहितो भवति । आचारविपत्त्या परिगृहीतो भवत्याजीवविपत्त्या परिगृहीतो भवत्यन्तद्वयपतितो भवति ॥ अनैर्याणिको भवति । समादानपरिभ्रष्टश्च भवति ॥

तत्र कथमादितो दुर्गृहीतं शीलं भवति । यथापी हैकत्यो राजाभिनिर्णीतो वा, प्रव्रजितश्चौराभिनिर्णीतो वा, ऋणार्त्तोवा, भयार्त्तो वा, वा, अ(आ)जीविकाभयभीतो (४६) वा, न श्रामण्याय, न ब्राह्मण्याय, नात्मशमाय, नात्मदमाय, नात्मपरिनिर्वाणायैवमादित[ः ।] दुःगृहीतो (दुर्गृहीतं) भवति ।

कथमतिलीनो (नं) भवति । यथापीहैकत्यः अलज्जी भवति मन्दकौकृत्यः । शैथिलिकः शिथिलकारी शिक्षोपदिष्टे [अ]यमतिलीनो (नं) भवति ॥

कथमतिसृतो (तं) भवति । यथापीहैकत्यो दुर्गृहीतग्राही भवत्यस्थानकौकृत्यः । सौकृत्यकरणीयेषु स्थानेषु कौकृत्यायमानः [।] अस्थाने परेषामन्तिके परिभवचित्तं वा आख्यातं वोत्पादयति । प्रवेदयत्येवमतिसृतं (भवति) ।

कथं प्रमादकौसीद्यपरिगृहीतं भवति । यथापीहैकत्यो [अ]तीतमध्वानमुपादायापत्तिमापन्नः [।] सा चानेन स्मृतिसंप्रमोषादेकत्या न यथाधर्मं प्रतिकृता भवति । यथा अतीतमध्वानमुपादाय एवमनागतं वर्तमानमध्वानमुपादाय यामापत्तिमापन्नो भवति । सा चानेन स्मृतिसंप्रमोषादेकत्या न यथाधर्मप्रतिकृता भवति । न च पूर्वमेवापत्तेरायत्यामनध्यापत्तये तीव्रमौत्सुक्यमापद्यते । यन्न्वहं तथा तथा चरेयं, यथा यथा चरन् विहरंश्चापत्तिं नाध्यापद्येय, तथा च, तथा चरति, विहरति । यथापत्तिमध्यापद्यते । सो [अ]नेन (४७) पूर्वान्तसहगतेनापरान्तसहगतेन, मध्यान्तसहगतेन, पूर्वकालकरणीयेन सहानुचरेण प्रमादेन समन्वागतो निद्रासुखं, शयनसुखं, पार्श्वसुखं च स्वीकरोति । अदक्षश्च भवत्यलसः, अनुत्थानसंपन्नः, न कर्ता भवति विज्ञानां सब्रह्मचारिणां कायेन वैयापृत्यमेवं (व्यापृत्यैवं) प्रमादकौसीद्यपरिगृहीतं भवति ॥

कथं मिथ्याप्रणिहितं भवति । यथापीहैकत्यः प्रणिधाय ब्रह्मचर्यं चरति । अनेनाहं शीलेन वा, ब्रतेन वा, तपसा वा, ब्रह्मचर्यवासेन वा, देवो वा स्यां, देवान्यतमो वा, लाभ सत्कारकामो भवति । परतः लाभसत्कारं प्रार्थयते । लाभसत्कारस्य स्पृहयति । एवं मिथ्याप्रणिहितं भवति ।

कथमाचारविपत्त्या परिगृहीतं भवति । यथापीहैकत्य ईर्यापथं वाधिष्ठाय इतिकरणीयम्बा कुशलपक्षप्रयोगं वा लोकोत्क्रान्तश्च भवति । विनयोत्क्रान्तश्च पूर्ववदेवमाचारविपत्त्या परिगृहीतं भवति ।

कथमाजीवविपत्त्या परिगृहीतं भवति । यथापीहैकत्यो (४८) महेच्छो भवत्यसंतुष्टः, दुर्मोषो, दुर्घरजातीयः [।] स चाधर्मेण चीवरं पर्येषते । न धर्मेणा [अ]धर्मेण पिण्डपातं, शयनासनं, ग्लानप्रत्ययभैषज्यपरिष्कारम्पर्येषते । न धर्मेण [।] स च चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारहेतोः आत्मनो गुणसंभावनानिमित्तमप्राकृतं तिठपित मीर्यापथं कल्पयत्यनुद्धतेन्द्रियतामचपलेन्द्रियतां, शान्तेन्द्रियताञ्च परेषामुपदर्शयति । येनास्य परे गुणसंभावना जाता दातव्यं कर्तव्यं मन्यन्ते । यदुत चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारान् । ध्वाङ्क्षश्च भवति, मुखरः । प्रगल्भः, केलायिता, नामगोत्रोद्गृहीता, बहुश्रुतो भवति । धर्मधरो, लाभकारणादेव च परेषां धर्मं संलपति, श्रावकभाषितं वा, आत्मनो वा गुणान्, भूतान्वा कि[ञ्चिद्वा] पुनः समारोप्य स्वयमेव वक्ता भवति । लापयति वा परैरनुत्तरेण वा उपदर्शयिता, चीवरार्थी वा, अन्यतमान्यतमेन वा श्रामणकेन परिष्कारेणार्थी, प्रभूतेन वा, अग्रतरेण वा, अविहन्यमानोऽपि प्राकृतस्य चीवरस्योपदर्शयिता (४९) भवति । अस्येच्छन् श्राद्धा ब्राह्मणगृहपतयः चीवरेण विघातं संलक्षयित्वा (संलक्ष्य) प्रभूतं प्रणीतं चीवरं दातव्यं कर्तव्यं मंस्यते(न्ते) । यथा चीवरमेवमन्यतमान्यतमं श्रामणकं जीवितपरिष्कारं श्राद्धानाञ्च ब्राह्मणगृहपतीनामन्तिकाद्यथाकामं वा अलभमानः, असत्सु वा [अ]संविद्यमानेषु भोगेष्वलभमान एवंचोपरोधेन याचते । निष्पिष्य निष्पियामि (पि)चैनां परुषयत्यपि हीनम्वा पुनर्लब्ध्वा तथा संविद्यमानेषु भोगेषु तं लाभं मन्स (मंस) यत्यवसादयति । संमुखं च दातारं दानपतिं, एवं चाह [।] हं भोः, कुलपुत्र, सन्त्येके कुलपुत्राः कुलदुहितरश्च ये तवान्तिका नीचकुलीनतराश्च [दरिद्रतराश्च] ते पुनरेवं चैवञ्च प्रणीतदायिनो मन आपदायिनश्च । कस्मात्त्वं तेषामन्तिकादुच्चकुलीनतराश्चान्यतरश्च समान एव समनाप (मन आप)दायी, नाप्रणीतपरीत्तदायी चेति । य एभिराकौरः कुहनाम्बा निश्रित्य, लपनाम्वा, नैमित्तिकताम्वा, नैष्पेषिकताम्वा, लाभेन लाभं निश्चिकीर्षतां, चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारान् परतः पर्येषते । सो [अ]धर्मेण [।] यः पुनरधर्मेण सो [अ]स्य भवति मिथ्याजीवः । एवं तच्छीलमाजीवविपत्त्या परिगृहीतं भवति ।

कथमन्तद्वयपतितं भवति । यथापीहैकत्यः (५०) कामसुखल्लिकानुयुक्तो भवत्यध्यवसिततांपरः । प्रतिलब्धान्धर्मेण वा अधर्मेण वा चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारान् परिभुङ्क्ते । आदीनवादर्शी निःसरणमप्रजानन्नयमुच्यते एको [अ]न्तः । पुनरपरमिहैकत्य आत्मक्लमथानुयुक्तो भवत्यनेकपर्यायेणात्मानमातापयति, सन्तापयति । कष्टव्रतसमादायी च भवति । तद्यथा कण्टकापाश्रयो वा भवति । भस्मादायी मुसलापाश्रयः । फलकापाश्रयो भवति । उत्कुहकस्थितो भवत्युत्कुहकप्रहाणयोगमनुयुक्तः [।] अग्निपरिचारको भवति । यावत्त्रिरप्यग्निं परिच[रति] उदकमध्याहारो भवति । यावत्त्रिरप्युदकमध्यावै(व)हति । एकपादकः स्थित्वा यतः सूर्यस्ततः परिवर्तते । इति यो वा पुनरप्येवंभागीय आत्मकक्लमथानुयोगः अयमुच्यते द्वितीयो [अ]न्तः । ए[वमन्त]द्वयपतितं भवति ।

कथमनैर्याणिकं भवति । यथापीहै कत्यः शीलं वा व्रतम्वा दृष्ट्या परामृशति । अनेनैव शीलेन वा व्रतेन वा शुद्धिर्भविष्यति । मुक्तिर्निर्याणं (५१) भविष्यतीति । सर्वं च शीलमितो बाह्यानां सुरक्ष(क्षि)तमपि सुविशुद्धमपि तदुपमया विशुद्ध्या अनैर्याणिकमित्युच्यते । एवमनैर्याणिकं भवति ।

कथं समादानपरिभ्रष्टं भवति । यथापीहैकत्यः सर्वेण सर्वमलज्जी भ भवति निरपेक्षः । श्रामण्ये स च भवति । दुःशीलः पापधर्मा अन्तः पूतिरवस्रुतः कशम्बोदकजातः । शंखस्वरसमाचारः । अश्रमण[ः] श्रमणप्रतिज्ञः अब्रह्मचारी ब्रह्मचारिप्रतिज्ञ एवं समादानपरिभ्रष्टं भवति ।

एभिर्दशभिः कारणैर्विपन्न (न्नं)शीलं शीलविपत्तिरित्युक्ता भगवता [।]

अपि च शीलाभ्यसनमप्युक्तं भगवता [।] द(त)च्च एभ्यः कारणेभ्यो द्वाभ्यां कारणाभ्यां वेदितव्यम् । या चानैर्याणिकता, यश्च समादानभ्रंशः तदन्यैश्च कारणैः शीलविपत्तिरेव वेदितव्या । एषामेव च कृष्णपक्षव्यवस्थितानां कारणानां विपर्ययेण शुक्लपक्ष्यः कारणैः शीलसम्पत्तिर्वेदितव्या । शीलविशुद्धिश्च [।] (५२) क्वचित्पुनर्भगवताशीलं मूलार्थेनोक्तम् । यथोक्तं-

सुप्रतिष्ठितमूल[ः] स्याच्चित्तस्योपशमे रतः ।

संयुक्ता च विसंयुक्ता दृष्ह्यादृष्ह्यार्यपापयेति गाथा ॥

क्वचिदलंकार शब्देनोक्तम् । यथोक्तं शीलालंकारसम्पन्नो भिक्षुर्वा भिक्षुणी वा अकुशलं प्रजहाति कुशलं भावयति । क्वचिदनुलेपनशब्देनोक्तम् । यत्राह । शीलानुलेपनसम्पन्नो भिक्षुर्वा भिक्षुणीवेति पूर्ववत् । क्वचिद्गन्धशब्देनोक्तम् । अस्ति तद्दानं यद्गन्धजातं यस्यानुवातमपि गन्धो वाति प्रतिवाम(त)मप्यनुवातमपि गन्धो वाति । क्वचित्सुचरितशब्देनोक्तम् । यत्राह । कायसुचरितस्येष्टो विपाको (५३) दृष्टे धर्मे अभिसंपराये च एवं वाक्सुचरितस्य [।] क्वचित्सम्वरशब्देनोक्तम् । यत्राह । दाता दानपतिः शीलवान् भवति । सम्वरस्थायी आगमदृष्टिः फलदर्शी । अपिचोक्तम् । शीलवान् विहरति । प्रातिमोक्षसम्वरसंवृत इति विस्तरः ।

केन कारणेन भगवता शीलं मूलशब्देनोक्तम् । प्रतिष्ठार्थमाधारार्थो मूलार्थः । तच्चैतच्छीलं सर्वेषामेव लौकिकलोकोत्तराणां [शुद्धाना]मनवद्यानामग्र्याणां प्रवराणां सुखाहाराणां, प्रतिष्ठास्थानीयं चोत्पत्तये, प्रतिलंभाय तस्मान्मूलशब्देनोच्यते । तद्यथा पृथिवी प्रतिष्ठा भवत्याधार[स्तृणगु]ल्मौषधिवनस्पतीनामुत्पत्तये एवमेव शीलम्बिस्तरेण पूर्ववद्वाच्यम् ।

केन कारणेन शीलमलंकारशब्देनाख्यातम् । आह । यानि तदन्यानि भूषणानि तद्यया हर्षम्वा, कटाहा वा, केयूरा वा, मुद्रिका वा, जातरूपरजतमाला वा तानि यावदयं दह्रो भवति । शिशु[ः] कृष्णकेशः (५४) प्रत्यग्रयौवनसमन्वागतः तावदस्य विभूषणानि प्रावृतानि शोभामात्रां जनयन्ति । न त्वेवं पुनर्जीर्णस्य, वृद्धस्य, महल्लस्याशीतिकस्य वा, नावतिकस्य वा, शण्डदन्तस्य, पलितशिरसो, नान्यत्र तैर्विभूषणैः प्रावृतैः स विडम्वित इव ख्याति । आरोग्यव्यसने वा, भोगव्यसने वा, ज्ञातिव्यसने वा प्रत्युपस्थिते न शोभते । शीलं पुनः सर्वेषां सर्वकालञ्च शोभाकारं भवति । तस्मादलंकारशब्देनोच्यते ॥

केन कारणेनशीलमनुलेपनशब्देनोक्तम् । तत्र बहुकुशलमनवद्यं शीलसमादानं सर्वदौःशील्यसमादानहेतुकं कायपरिदाहं चित्तपरिदाहमपनयति । घर्माभितप्तस्य उत्तमग्रीष्मपरिदाहे काले प्रत्युपस्थिते चन्दनानुलेपनं वा कर्पूरानुलेपनं वा अनेन कारणेन शीलमनुलेपनशब्देनोच्यते ॥

केन कारणेन शीलं गन्धजातशब्देनोच्यते । शीलवतः खलु पुरुषपुद्गलस्य दिग्विदिक्षु कल्याणः (णं) कीर्त्तियशः शब्दश्लोको निश्चरति । विविधानाम्वा मूलगन्धजातानां, सारगन्धजातानाम्वा, पुष्पगन्धानाम्वातेरितानां दिग्विदिक्षु मन आपो गन्धो निश्चरति । अनेन कारणेन शीलं गन्धजातशब्देनोच्यते ॥

केन कारणेन शीलं सुचरितशब्देनोच्यते । सुखगामिनी एषा चर्या स्वर्गगामिनी सुगतिगामिनी । (५५) एषा चर्या । तस्मात्सुचरिंतमित्युच्यते ॥

केन कारणेन शीलं सम्वरशब्देनोच्यते । निवृत्तिस्वभाव एष धर्मो निवृत्तिलक्षणो विरतिस्वभावः । तस्मात्सम्वरशब्देनोच्यते । अस्य खलु शीलसम्वरस्य त्रिविधा प्रत्यवेक्षा परिशुद्धिनिमित्तं [।] कतमा त्रिविधा [।] यदुत कायकर्मप्रत्यवेक्षा, वाक्कर्मप्रत्यवेक्षा, मनःकर्मप्रत्यवेक्षा ।

[तत्र च पुनरेतानि] कर्माणि प्रत्यवेक्षमाण[ः] शीलसम्वरं परिशोधयति । यत्कर्म कायेन प्रणिहितं भवति कर्त्तुं तदेव प्रत्यवेक्षते । किन्नु व्याबाधिकं मे एतत्कार्य कर्म आत्मना अन्तरायः

परेषा[मकु]शलं दुःखोदयं दुःखविपाकमाहोस्विदव्याबाधिकं मे एतत्कायकर्मात्मनः परेषां कुशलं सुखोदयं सुखविपाकं स चेत्स एवं प्रत्यवेक्षमाणो जानाति व्याबाधिकं मे एतत्कायकर्मात्मनो वा, परस्य वा अकुशलं [रागोदयं, रागविपाकं, स चेत्स एवं प्रत्यवेक्षमाणो न च]रति । तत्कर्म न करोति । नानुप्रयच्छति । स चेत्पुनर्जानात्यव्याबाधिकं मे एतत्कायकर्म कुशलं पूर्ववत स करोति । तत्कायेन कर्म (५६) न प्रतिसंहरति, अनुप्रयच्छति । यदप्यनेनातीतमध्वानमुपादाय कायेन कर्म कृतं भवति । तदप्यभीक्ष्णं प्रत्यवेक्षते । किन्तु व्याबाधिकं मे एतत्पूर्ववत् । स विज्ञानां सब्रह्मचारिणां सचेत्स ए[वं] प्रत्यवेक्षमाणो [जानाति व्याबाधिकं] मे एतत्कर्म पूर्ववत् । सविज्ञानां सब्रह्मचारिणामन्तिके प्रतिसंहरति । अनुप्रयच्छति । यदप्यनेनातीतमध्वानमुपादाय कायेन कर्म कृतं भवति । तदप्यभीक्ष्णं प्रत्यवेक्षते [।] किन्नु व्याबाधिकं मे एतत्पूर्ववत् । सविज्ञानां सब्रह्मचारिणा[मन्तिके] सचेत्स एवं प्रत्यवेक्षमाणो जानाति व्याबाधिकं मे एतत्कर्म पूर्ववत्[।] स विज्ञानां सब्रह्मचारिणामन्तिके प्रतिदेशयति, यथाधर्म प्रतिकरोति । स चेत्पुनरेवं प्रत्यवेक्षमाणो जानात्यव्याबाधिकं मे एतत्कायकर्म पूर्ववत्[।] स तेनैव प्रीतिप्रामोद्येनाहोरात्रानुशिक्षी बहुलम्विहरत्येवमस्य तत्कायकर्म सुप्रत्यवेक्षितं च भवति । सुविशोधितं च । यदुतातीतानागतप्रत्युत्पन्नेष्वध्वसु [।] यथा कायकर्म एवं वाक्कर्म वेदितव्यम् । अतीतान् संस्कारान् प्रतीत्योत्पद्यते मनः । अनागतान्, प्रत्युत्पन्नान् संस्कारान् प्रतीत्योत्पद्यते मनः । तन्मनो [अ]भीक्ष्णं प्रत्यवेक्षते [।] किन्नु व्याबाधिकं मे एतन्मनः पूर्ववत् । (५७) यावन्नोत्पादयति । प्रतिसंहरति, नानुप्रयच्छति । तन्मनस्कर्म [।] शुक्लपक्षेण पुनरुत्पादयति, न प्रतिसंहरति, अनुप्रयच्छतितन्मनस्कर्म । एवमनेन तन्मनः कर्म प्रत्यवेक्षितं भवति । सुपरिशोधितम् । यदुतातीतानागतप्रत्युपन्नेष्वध्वसु [।] तत्कस्य हेतोरतीते [अ]प्यध्वनि अनागते [अ]पिप्रत्युत्पन्ने [अ]पि ये केचिच्छ्रमणा वा, ब्राह्मणा वा, कायकर्म, वाक्ककर्म, मनस्कर्म प्रत्यवेक्ष्य परिशोध्य, परिशोध्य, बहुलं व्याहार्षुः, सर्वे ते एवं प्रत्यवेक्ष्य, परिशोध्य च [।] यथोक्तं भगवता आयुष्मन्तं राहुलमारभ्य ।

कायकर्माथ वाक्कर्म मनस्कर्म च राहुल ।
अभीक्ष्णं प्रत्यवेक्षस्व स्मरन् बुद्धानुशासनम् ॥
एतच्छ्रामणकं कर्म अत्र शिक्षस्व राहुल ।
अत्र ते शिक्षमाणस्य श्रेय एव न पापकम् ॥

तत्र यदेवं विचिनोति तत्कायकर्म, वाक्ककर्म, मनस्कर्म किं व्याबाधिकं मे इति विस्तरेण (५८) पूर्ववदियं प्रत्यवे[क्षणा] [।] यत्पुनरेकत्यं प्रतिसंहरति प्रतिदेशयत्येकत्यमनुप्रयच्छति । तेनैव प्रीतिप्रामोद्येनाहोरात्रानुशिक्षी बहुलं विहरतीयमुच्यते परिशोधना [।]

तत्रैवं परिशुद्धस्य शीलसम्वरस्य दशानुशन्सा(शंसा) (५९) वेदितव्या[ः ।] कतमे दश । इह शीलवां (वान्) विहरति पुरुषपुद्गलः शीलविशुद्धिमात्मनः (६०) प्रत्यवेक्षमाणः अविप्रति[सारं प्र]तिलभते । अविप्रतिसारिणः प्रामोद्यं प्रमुदितचित्तस्य प्रीतिर्जायते । प्रीतमनसः कायःप्रश्रभ्यते । प्रश्रब्धकायः सुखं वेदयते । सुखितस्य चित्तं समाधीयते । समाहितचित्तो यथाभूतं प्रजानाति । यथाभूतं पश्यति । यथाभूतं जानन् पश्यन्निर्विद्यते [।] निर्विण्णो विरज्यते, विरक्तो विमुच्यते, विमुक्तस्य विमुक्ति[ः] स्मृतिर्ज्ञा(विमुक्तिज्ञा)नदर्शनं भवति । यावन्निरुपधिशेषे निर्वाणधातौ परिनिर्वाति । यच्छीलवान् पुरुषपुद्गलः शीलविशुद्धय्धियतेयमविप्रतिसारं प्रतिलभते । अनुपूर्वेण यावन्निर्वाणगमनायायं प्रथमः शीलानुशन्सः (शंसः) । पुनरपरं शीलवां (वान्) पुरुषपुद्गलः मरणकालसमये प्रत्युपस्थिते, कृतमेतन्मे सूक्तं त [......] (सुचरितं) कायेन वाचा मनसा न कृतमेतन्मे दुश्चरितं कायेन पूर्ववत् । इति या गतिः । कृतपुण्यानां कृतकुशलानां कृतभयभीरूप्राणानां तां गतिं प्रेत्य गमिष्यामीति द्वितीयमविप्रतिसारं प्रतिलभते (।) सुगतिगमनाय, अविप्रतिसारिणो हि पुरुषपुद्गलस्य भद्रकं मरणं भवति । भद्रिका कालक्रिया भद्रको [अ]भिसम्परायः । अयं द्वितीयः शीलानुशन्सः (शंसः) ॥

पुनरपरं शीलवतः पुरुषपुद्गलस्य कल्याणो (६१) वर्णः कीर्तिर्यशः[ः] शब्दश्लोको निश्चरति । अयं तृतीयः शीलानुशन्सः (शंसः) ॥

पुनरपरं शीलवान् पुरुषपुद्गलः सुखं स्वपिति सुखं प्रतियुज्यते । निष्परिदाहेन कायेन चित्तेन चायं चतुर्थः शीलानुशन्सः (शंसः) ।

पुनरपरं शीलवां (वान्) पुरुषपुद्गलः सुप्तो [अ]पि देवानां रक्ष्यो भवति । अयं पञ्चमः शीलानुशन्सः (शंसः) ॥

पुनरपरं शीलवान् पुरुषपुद्गलः न शंकी भवति । परतः पापस्य, न भीतेश्च संत्रस्तमानसः [।] अयं षष्ठः शीलानुशन्सः (शंसः) ॥

पुनरपरं शीलवां(वान्) पुरुषपुद्गलः बधकानां प्रत्यर्थिकानामपि प्र--त्राणां छिद्रप्राप्तो [अ]पि रक्ष्यो भवति । सर्वदायं पुरुषपुद्गल इति विदित्वा मित्रताम्वापद्यन्ते (ते) मध्यमस्थताम्वा[।]अयं सप्तमः शीलानुशन्सः ॥

पुनरपरं पूर्वबह्वास्थानानां यक्षाणां निवासिकानाममनुष्याणां छिद्रप्राप्तो [अ]पि रक्ष्यो भवति । यदुत तदेव शीलमधिपतिं कृत्वा [।] अयमष्टमः शीलानुशन्सः (शंसः) ॥

पुनरपरं शीलवान् पुरुषपुद्गलः धर्मेणाल्पकृच्छ्रेण परतो लाभं लभन्ते (लभते) । यदुत चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारान्यदुत (६२) शीलाधिका(क)रणहेतोः सत्कृतश्च भवति । गुरुकृतो राज्ञां राजामात्राणां नैगमजानपदानां धनिनां श्रेष्ठिनां सार्थवाहानां [।] अयं नवमः शीलानुशन्सः (शंसः) ॥

पुनरपरं पूर्ववत्सर्वप्रणिधानानि समृध्यन्ति । स चेदाकांक्षते कामधातौ क्षत्रियमहासालकुलानां, ब्राह्मणमहासालकुलानाम्वा, गृहपतिमहासालकुलानां वा चातुर्महाराजकाणि कानाम्वा (चातुर्महाराजिकाणां वा) देवानां, त्रा (त्र)यस्त्रिंशानाम्वा, यामानां, तुषितानां, निर्माणरतीनां, परनिर्मितवशवर्त्तिनां देवानां सभागतोयोपपहो (सभागतायामुपपन्नो) यथापि तद्विशुद्धत्वाच्छीलानां समदानामत्यर्थजातं ध्यानानि च समापद्य दृष्टे धर्मे सुखं विहरेयम् । रूपोपमानां च देवानां सभागतायोपपद्येय (यामुपसम्पद्येय) विहरे[य एत]द्यश एतच्च शीलवतो वीतरागस्य प्रणिधानं समृध्यति । स चेदाकांक्षते । .......... विमोक्षा............ स्याद्वोपसम्पद्य विहरेयम् । आरूप्योपगतानाम्वा देवा[नां स]भागतायो (यामु)पपद्येय पूर्ववत् ॥ स चेदाकांक्षते अत्यन्तनिष्ठनिर्वाणमधिगच्छेयमित्यधिगच्छति ॥ (तद्गति) शुद्धत्वाच्छीलानां (६३) सर्वत्र च वीतरागस्य [।] अयं दशमः शीलानुशंसो वेदितव्यः ॥

निर्दिष्टः शीलस्कन्धो विभागशः, निर्दिष्टा विपत्तिसम्पत्तिः । निर्दिष्टानि पर्यायनामानि । निर्दिष्टा परिशुद्धिप्रत्यवेक्षा, निर्दिष्टो [अ]नुशंसः ॥

स एष सर्वाकारपरिपूर्णः शीलसम्वरः संभारपरिगृहीत आख्यातः कथिमो (तो) विवृतः प्रकाशितो यत्रात्मकामैः श्रामण्यब्राह्मण्यकामैः कुलपुत्रैः शिक्षितव्यम् ॥

॥ उद्दानम् ॥

विभंगस्त्रिविधो ज्ञेयः सम्पद्दशविधा भवेत् ।
पर्यायश्च षडाकारो विशुद्धिस्त्रिविधा मता ।
अनुशन्सो (शंसो) दशविधः एषोऽसौ शीलसम्वरः ॥

इन्द्रियसम्वरः कतमः । यथापीहैकत्यः (६४) इन्द्रियैर्गुप्तद्वारो विहरत्यारक्षितस्मृतिर्निपकस्मृतिरित्ति विस्तरः । तत्र कथमिन्द्रियैर्गुप्तद्वारो विहरत्यारक्षितस्मृतिर्भवति । निपकस्मृतिरिति विस्तरेण यावद्ररक्षति मन इन्द्रियं मन इन्द्रियेण [।] स एवं समापद्यते । एवमिन्द्रियैर्गुप्तद्वारो विहरति ।

तत्र कथमारक्षितस्मृतिर्भवति । यथापीहैकत्येनेन्द्रियगुप्तद्वारतामेवाधिपतिं कृत्वा श्रुतमुद्गृहीतं भवति । चिन्तितम्वा पुनर्भावितम्वा । तेन च श्रुतचिन्ताभावनाधिपतेया स्मृतिः प्रतिलब्धा भवति । (६५) स तस्या एव स्मृतेः प्रतिलब्धायाः असंप्रमोषार्थमधिगमार्थमविनाशार्थं कालेन कालं तस्मिन्नेव श्रुते योगं करोत्यभ्यासं करोति, चिन्तायांभावनायां योगमभ्यासं करोति । न भवति स स्त प्रयोगा यि-कृत प्रयोग एवमनेन तस्या[ः] श्रुतसमुदागमता(गता) याश्चिन्ता-समुदागतायाः स्मृतेः कालेन कालं श्रुतचिन्ताभावनायोगक्रियाया आरक्षा कृता भवति । एवमारक्षितस्मृतिर्भवति ।

कथं निपकस्मृतिर्भवति । स तस्यामेव स्मृतौ नित्यकारी च भवति । [निर्याणकारी च भवति] । तत्र या नित्यकारिता इयमुच्यते सातत्यकारिता । तत्र या निर्याणकारिता इयमुच्यते सत्कृत्यकारिता । स एवं सातत्यकारी सत्कृत्यकारी निपकस्मृतिरित्युच्यते । स तथारक्षितस्मृतिर्भवति । तथा तां स्मृतिं न संप्रमोषयति । स तथानिपकस्मृतिर्भवति । तथा तस्यामेवाप्रमुषितायां (६६) स्मृतौ बलाधानप्राप्तो भवति । येन शक्तो भवति प्रतिबलश्च रूपाणामभिभवाय शब्दानां, गन्धानां, रसानां, स्प्रष्टव्यानां, धर्माणामभिभवाय ।

कथं स्मृत्यारक्षितमानसो भवति । चक्षुः प्रतीत्य रूपाणि चोत्पद्यते । चक्षुर्वि[ज्ञानं, च]-क्षुर्विज्ञानानन्तरमुत्पद्यते । विकल्पकं मनोविज्ञानं येन विकल्पकेन मनोविज्ञानेन प्रियरूपेषु रूपेषु संरज्यते । अप्रियरूपेषु रूपेषु व्यापद्यते [।] स भा (ता)मेवाधिपतिं कृत्वा तस्मादयोनिशो विकल्पात्संक्लेशसमुत्थापकात्तस्मात्संरक्षति । यथा संक्लेशो नोत्पद्यते । एवं श्रोत्रं घ्राणं जिह्वां कायं मनः प्रतीत्य धर्माश्चोत्पद्यते मनोविज्ञानम् । तच्च मनोविज्ञानमस्यायोनिशेविकल्पसहगतं संक्लेशसमुत्थापकम् । येन प्रियरूपेषु धर्मेषु संरज्यते । अप्रियरूपेषु धर्मेषु व्यापद्यते । स तस्मादयोनिशोविकल्पात्संक्लेशसमुत्थापकात्तन्मानसं रक्षत्येवमस्य संक्लेशो नोत्पद्यते । एवं स्मृत्यारक्षितमानसोभवति ।

कथं समावस्थावचारको भवति । समावस्थोच्यते । उपेक्षा कुशला वा, अव्याकृता वा [।] स तस्मादयोनिशो विकल्पात्संक्लेशसमुत्थापकात्तन्मानसं रक्षित्वा कुशलायाम्वा उपेक्षायामव्याकृतायाम्वा अवचारयति । (६७) तेनोच्यते समावस्थावचारकः । एवं समावस्थावचारको भवति ।

कथं पुनस्तस्मादयोनिशो विकल्पसंक्लेशसमुत्थापकान्मानसं रक्षति । न निमित्तग्राही भवति । तेषु रूपेषु, शब्देषु, गन्धेषु, रसेषु, स्प्रष्टव्येषु, धर्मेषु नानुव्यंजनग्राही भवति यतो [अ]धिकरणमस्य पापका अकुशला धर्माश्चित्तमनुस्रवेयुः । स चेत्पुनः स्मृतिसंप्रमोषात्क्लेशप्रचुरतया वा विवर्जयतो [अ]पि निमित्तग्राहम(होऽ)नुव्यंजनग्राह[ः स]मुत्पद्यते एव । पापका अकुशलातो दुःगृहीतो (पापकादकुशलतो दुर्गृहीतो) भवति के (ये) धर्मा अनुसरन्त्येव । चित्तं तेषां सम्वराय प्रतिपद्यते । आभ्यां द्वाभ्यामाकाराभ्यां तस्मात्संक्लेशसमुत्थापकादयोनिशोविकल्पात्तन्मानसं रक्षितं भवति ॥

कथं च पुनस्तन्मानसमाभ्यामाकाराभ्यां सरंक्ष्य कुशलायाम्वा उपेक्षायामवधारयत्यव्या कृतायाम्वा [।] द्वाभ्यामेवाकाराभ्यां [।] कतमाभ्यां द्वाभ्यां [।] यथाह रक्षति चक्षुरिन्द्रियं चक्षुरिन्द्रियेण सम्वरमापद्यते । यथा चक्षुरिन्द्रियं चक्षुरिन्द्रियेण सम्वरमापद्यते । मे (ए)वं श्रोत्रघ्राणजिह्वाकायां (यान्), रक्षति मन इन्द्रियं मन इन्द्रियेण सम्वरमापद्यते । आभ्यां द्वाभ्योमाकाराभ्यां कुशलायाम्वा, अव्याकृतायाम्वा उपेक्षायां तन्मानसमेव चारयति ॥

(६८)
कथं चक्षुर्विज्ञेयेषु रूपेषु न निमित्तग्राही भवति । निमित्तग्राह उच्यते । यच्चक्षुर्विज्ञानगोचरो रूपे तस्य गोचरस्य ग्राही भवति । चक्षुर्विज्ञानेन [।] एवं निमित्तग्राही भवति । यदुत चक्षुर्विज्ञेयेषु रूपेषु श्रोत्रघ्राणजिह्वाकायमनोविज्ञेयेषु रूपेषु अपरा जाति[र्] निमित्तम् । स चेत्पुनस्तं गोचरं परिवर्जयति । चक्षुर्विज्ञानस्यैवं न (च) न निमित्तग्राही [भ]वति । चक्षुर्विज्ञेयेषु रूपेष्वेवं श्रोत्र घ्राणजिह्वाकायमनोविज्ञेयेषु धर्मेषु [।]

कथं नानुव्यंजनग्राहीभवति । चक्षुर्विज्ञेयेषु रूपेषु [।] अनुव्यंजनग्राह उच्यते । यस्तेष्वेवचक्षुर्विज्ञेयेषु रूपेषु चक्षुर्विज्ञानस्यैव समनन्तरसहोत्पन्नस्य विकल्पकस्य मनोविज्ञानस्य यो गोचरः संरागाय वा, संद्वेषाय, वा संमोहाय वा तं गोचरं परिवर्जयति । नोत्पादयति तदालम्बनम् । तन्मनोविज्ञानमेवं नानुव्यंजनग्राही भवति । यदुत चक्षुर्विज्ञेयेषु रूपेषु [।] एवं श्रोत्रघ्राणजिह्वाकायमनोविज्ञेयेषु धर्मेषु अपरा जातिर्निमित्तग्राहस्यानुव्यंजनग्राहस्य च । तत्र निमित्तग्राहो यच्चक्षुषा रुपाण्याभासगतानि तज्जं मनस्कारं संमुखीकृत्य पश्यति [।] तत्रानुव्यंजनग्राहः । तान्येव रूपाणि चक्षुषा आभासगतानि तज्जं मनसिकारं संमुखीकृत्य पश्यति । अपितु परतो [अ]नुस्रवपूर्वकं (६९) श्रृणोति । सन्त्येवं रूपाण्येवं रूपाणि चक्षुर्विज्ञेयानि रूपाणीति यानि तानि तदनुगतानि नामानि पदानि व्यंजनानि [यान्य]धिपतिं कृत्वा, यानि निश्रित्य प्रतिष्ठायायं पुरुषपुद्गलः यथाश्रुतानि चक्षुर्विज्ञेयानि रूपाणि विकल्पयत्ययमुच्यते । अनुव्यंजनग्राहः [।] यथा चक्षुर्विज्ञेयेषु रूपेषु, एवं श्रोत्रघ्राणजिह्वाकायमनोविज्ञेयेषु धर्मेषु वेदितव्यः । स पुनरयं निमित्तग्राहो [अ]नुव्यंजनग्राहश्च अस्ति यन्निदानमस्य यदधिकरणं यदधिपतेयमस्य पापका अकुशला धर्माश्चित्तमनुस्रवन्ति । अस्ति यच्च तन्निदानं च तदधिकरणं च तदधिपतेयं पापका अकुशला धर्मा श्चित्तमनुस्रवन्ति । तत्र यो [अ]यं निमित्तग्राहो [अ]नुव्यंजनग्राहो अयोनिशोग्राहः यन्निदानं यदधिकरणं यदधिपतेयमस्य पापका अकुशला धर्माश्चित्तमनुस्रवन्ति । तद्रूपमसौ निमित्तग्राहमनुव्यंजनग्राहं च परिवर्जयति ।

पापका अकुशला धर्माः कतमे [।] रागः, रागसमुत्थापितं कायदुश्चरितं, वाग्दुश्चरितं, मनोदुश्चरितम् । द्वेषो, मोहः [।], मोहसमुत्थापितं च कायदुश्चरितं, वाग्दुश्चरितं, मनोदुश्चरितमिम उच्यन्ते पापका अकुशला धर्माः ।

(७०)
कथमेते चित्तमनुस्रवन्ति । यदालम्बनं चित्तमनोविज्ञानमुत्पद्यते । गच्छति प्रतिसरति । तदालम्बनास्तदालम्बनास्तेन चित्तमनोविज्ञानेन संप्रयुक्ताः [ः] कायवाङ्मनोदुश्चरितसमुत्थापका[स्] ते रागद्वेषमोहा उत्पद्यन्ते, गच्छन्ति प्रतिसरन्ति । तेनोच्यन्ते (ते) चित्तमनुप्रवन्ति ॥

एवं तावन्निमित्तग्राहेणानुव्यंजनग्राहेण च य उत्पद्यते, संक्लेशश्चक्षुर्विज्ञेयेषु रूपेषु यावन्मनोविज्ञेयेषु धर्मेषु सो [अ]स्य नोत्पद्यते निमित्तग्राहमनुव्यंजनग्राहं च परिवर्जयतः [।] स चेत्पुनः स्मृतिसंप्रमोषाद्वा, क्लेशप्रचुरतया वा, एकाकिनो [अ]पि विहरतः पूर्वदृष्टानि चक्षुर्विज्ञेयानि रूपाण्यधिपतिं कृत्वा पूर्वानुभूतां (तान्) श्रोत्रघ्राणजिह्वाकायमनोविज्ञेयान् धर्मानधिपतिं कृत्वोत्पद्यन्ते पापका अकुशला धर्मा[स्] तानुत्पन्नानधिवासयति, प्रजहाति, विशोधयति, व्यन्तीकरोति । तेनोच्यते तेषां सम्वराय प्रतिपद्यते ।

स येषु रूपेषु चक्षुः प्रेरयितव्यं भवति । येषु श्रोत्रघ्राणजिह्वाकायमनोविज्ञेयेषु धर्मेषु मनः प्रेरयितव्यं (७१) भवति । तेषु तथा प्रेरयति । यथा न संक्लिश्यते । एवमनेन तस्मात्संक्लेशान्मन[इन्द्रियं] रक्षितं भवति । तेनोच्यते रक्षति मन इन्द्रियम् । येषु पुनश्चक्षुर्विज्ञेयेषु रूपेषु चक्शुरिन्द्रियं न प्रेरयितव्यं भवति । येषु श्रोत्रघ्राणजिह्वाकायमनोविज्ञेयेषु ध[र्मेषु] मन इन्द्रियं न प्रेरयितव्यं भवति । तेषु सर्वेण सर्वं सर्वथा न प्रेरयति । तेनोच्यतेचक्षुरिन्द्रियेण सम्वरमापद्यते । तेनोच्यते यावन्मन इन्द्रियेण सम्वरमापद्यते । अयं तावद्विभंगो विस्तरेणेन्द्रियसम्वरस्य विज्ञेय[ः] ।

समासार्थः । येन च संवृणोति, यतश्च संवृणोति, यथा च संवृणोति, या चासौ संवृतिः । तत्सर्वमेकत्यमभिसंक्षिप्येन्द्रियसम्वर इत्युच्यते ।

तत्र केन संवृणोति [।] या आरक्षिता च स्मृतिस्तया संवृणोति [।]

किं संवृणोति [।] चक्षुरिन्द्रियं संवृणोति । श्रोत्रघ्राणजिह्वाकायमनैन्द्रियं संवृणोति । इदं संवृणोति ।

कुतः संवृणोति । प्रियरूपाप्रियरूपेभ्यो रूपेभ्यः शब्देभ्यो यावद्धर्मेभ्यो [अ]तः संवृणोति (संवृणोति) ।

कथं संवृणोति । न निमित्तग्राही भवति नानुव्यंजनग्राही (७२) यतो [अ]धिकरणमेव पापका अकुशला धर्माश्चित्तमनुस्रवन्ति । तेषां सम्वराय प्रतिपद्यते । रक्षतीन्द्रियमिन्द्रियेण । सम्वरमापद्यते । इत्येवं संवृणोति ।

का पुनः संवृतिः । यतः स्मृत्यारक्षितमानसो भवति । समावस्थावचारकः । इयमुच्यते संवृतिः ।

पुनरपरः समासार्थः [।] यश्चसम्वरोपायः । यच्च सम्वरणीयम्वस्तु, या च संवृतिः । तदेकत्यमभिसंक्षिप्येन्द्रियसम्वर इत्युच्यते ।

तत्र कतमः सम्वरोवा (संवरोपायः) [।] यदाह आरक्षितस्मृतिर्भवति, निपकस्मृतिरिति चक्षुषा रूपाणि दृष्ट्वा न निमित्तग्राही भवति, नानुव्यंजनग्राही, यावन्मनसा धर्मान् विज्ञाय न निमित्तग्राही भवति, नानुव्यंजनग्राही । यतो [अ]धिकरणमेव पापका अकुशला धर्माश्चित्तमनुस्रवन्ति । तेषां सम्वराय प्रतिपद्यते । रक्षतीन्द्रियमिन्द्रियेण सम्वरमापद्यते । अयमुच्यते सम्वरोपायः ।

सम्वरणीयं वस्तु कतमत्[।] चक्षूरूपं चैवं यावन्मनोधर्माश्चेदमुच्यते सम्वरणीयं वस्तु ।

तत्र संवृतिः कतमा [।] यदाह । स्मृत्यारक्षितमानसो भवति । समावस्थावचारक इतीयमुच्यते संवृतिः ।

स खल्वयमिन्द्रियसम्वरः समासतो द्विविधः । (७३) प्रतिसंख्यानबलसंगृही[तो भावनाबलंसंगृही]तश्च ।

तत्र प्रतिसंख्यानबल संगृहीतो येन विष्येष्वादीनवं पश्यति । नो तु तमादीनवं व्यपकर्षति । प्रजहाति । तत्र [भा]वनाबलसंगृहीतो येन विष्येष्वादीनवं पश्यति, तं च पुनरादीनवं व्यपकर्षति । प्रजहाति । तत्र प्रतिसंख्यानबलसंगृहीतेनेन्द्रियसम्वरेण विषयालम्बनं क्लेशपर्यवस्थानं नोत्पादयति, न संमुखीकरोति । न चैवाश(श्र)यसन्निविष्टमनुशयं प्र[जहा]ति, समुद्घातयति । तत्र भावनाबलसंगृहीते[ने]न्द्रियसम्वरेण विषयालम्बनं च क्लेशपर्यवस्थानं नोत्पादयति, न सम्मुखीकरोति । सर्वदा सर्वकालमाश्रयसन्निविष्टं चानुशयं प्रजहाति । समुद्घातयति । अयम्विशेषः, अयमभिप्रायः । इद[म]नाकरणं प्रतिसंख्यानबलसंगृहीतस्य भावनाबलसंगृहीतस्य चेन्द्रियसम्वरस्य । तत्र यो [अ]यं प्रतिसंख्यानबलसंगृहीत इन्द्रियसम्वरो [अ]यं संभारमार्गसंगृहीतः [।] यः पुनर्भावनाबलसंगृहीत इन्द्रियसम्वरः । स वैराग्यभूमिपतितो वेदितव्यः ॥

भोजने मात्रज्ञता कतमा । यथापीहैकत्यः प्रतिसंख्यायाहारमाहरति । (७४) न द्रवार्थं, न मण्डनार्थं, न विभूषणार्थमिति विस्तरेण पूर्ववत् ।

कथं प्रतिसंख्यायाहारमाहरति । प्रतिसंख्योच्यते यया प्रज्ञया कबडंकारस्याहारस्यादीनवं समनुपश्यत्यादीनवदर्शनेन (श्भ्_स्ह्७५) विदूषयित्वा (विदूष्या)भ्यवहरति ॥

तत्पुनरादीनवदर्शनं कतमत् । यदुत यस्यैव कबडंकारस्य परिभोगान्वयो वा, विपरिणामान्वयो वा, पर्येषणान्वयो वा ।

परिभोगान्वय आदीनवः (कतमः) [।] यथापीहैकत्यो यस्मिन् समये आहारमाहरति वर्णसम्पन्नमपि, गन्धसम्पन्नमपि, रससम्पन्नमपि, सुप्रणीतमपि [।] तस्य कबडंकार आहारः समनन्तरक्षिप्त एव आस्ये यदा दन्तयन्त्रचूर्णितश्च, लालाविसरविक्लिन्नश्च भवति । लालापरिवेष्टितश्च भवति । स तस्मिन् समये कण्ठनालीप्रलुठितश्च भवति । स यासौ पूर्विका, पुराणा मनापता (न आपता) तां सर्वेण सर्वं विजहाति । परां च विकृतिमापद्यते । यस्यां च विकृतौ (श्भ्_स्ह्७६) वर्तमानश्छन्दितकोपमः ख्याति । तदवस्थं चैनं स चेदयं भोक्ता पुरुषपुद्गलः स चेदाकारतो मनसि कुर्यात्समनुस्मरेन्नास्य सर्वेण सर्वमन्यत्रापि तावदविपरिणते, प्रणीते भोजने भोगकामता सन्तिष्ठेत । कः पुनर्वादस्तत्र तदवस्थ इति य एभिराकौररनेकविधैरनयानुपूर्व्या भोजनपरिभोगमधिपतिं कृत्वा यासौ शुभा वर्णनिभा अन्तरीयते, आदीनवश्च प्रादुर्भवति अशू(शु)चिसंगृहीतः [।] अयमुच्यते परिभोगान्वयः । आदीनवः । यदुत आहारे ।

तत्र कतमो विपरिणामान्वय आदीनव आहारे । तस्य तमाहारमाहृतवतस्तु [ष्टव] तः यदा विपरिणमति रात्र्या मध्यमे वा यामे, पश्चिमे वा यामे, तदा स रुधिरमान्स(मांस)स्नाय्वस्थित्वगादीन्यनेकविधानि बहुनानाप्रकाराणि । अस्मिन् काये अशुचिन्द्रव्याणि विवर्धयति संजनयति ।

अर्थतश्च । अतिपरिणतश्चाधोभागी (७७) भवति । यदस्य दिवसे शोचयितव्यं च भवति । तेन च यः स्पृष्टो भवति । हस्तो (तौ) वा पादो (दौ) वा, अन्यतमा न्यतमज्वा (मंवा) अंगप्रत्यंगं, बहिर्धा गुप्यनीयं (गोपनीयं) भवत्यात्मनः परेषां च (।) तन्निदानाश्चास्योत्पद्यन्ते । काये बहवः कायिका आबाधाः । तद्यथा गण्डः, पिटकः, दद्रू, विचर्चिका, कण्डू[ः], कुष्ठः, किटिभः, किवासो (किलासो), ज्वरः कासः शोथः, शोषापस्मार (शोषोऽपस्मार), आटक्करं, पाण्डुरोगः, रुधिरं, पित्तभगन्दर इतीमे चान्ये भैरंभगंया ([अ]प्येवंभागीयाः) काये कायिका आबाधा उत्पद्यन्ते । भुक्तम्वा [अ]स्य विपद्यते । येनास्य काये विषूचिका सन्तिष्ठते । अयमुच्यते (७८) विपरिणामाच्च य आदीनवो यदुत आहारे ।

तत्र कतमः पर्येषणान्न(न्व)यआदीनव आहारे । पर्येषणान्वय आदीनवो [अ]नेकविध[ः]-समुदाननाकृतः । आरक्षाकृतः । स्नेहपरिभ्रंशकृतः । अतृप्तिकृतः । अस्वातन्त्र्यकृतः दुश्चरितकृतश्च ।

तत्र कतम आदीनव आहारे [।] समुदानना कृतः [।] यथापीहैकत्यः आहारहेतोराहारनिदानं शीते शीतेन हन्यमानः, उष्णे उष्णेन हन्यमानः, उत्सहते, घटते, व्यायच्छते । कृषिणा वा, गोरक्ष्येण वा, वाणिज्येन वा, लिपिगणनाव्यसनसंख्यामुद्रया [अ]नेकविधेन शिल्पस्थानकर्मस्थानेनाप्रतिलब्धस्य वाहारस्य प्रतिलम्भाय, उपचयाय वा [।] यथा आहारस्ये (स्यै)वमाहारनिदानस्य [।] तस्यैवमुत्सहतो, घटत(तो), व्यायच्छत (ः), स चेत्ते कर्मान्ता विपद्यन्ते । स तं निदानं (तन्निदानं) शोचति क्लाम्यति, परिदेवते । उरस्ताडयति । क्रन्दति- संगो वा [मा] मापद्यते । मोहो बत मे स्वायासो [अ]तिफल इति । अयमु(यं समु)दानना सहगतः आदीनवो यदुत आहारे [।]

स चेत्संपद्यते स तस्यारक्षाधिकरणहेतोस्तीव्रमौत्सुक्यमापद्ययते । कच्चिन्मे भोगा राज्ञा वा अपह्रियेरंश्चौरैर्वा, अग्निना वा दह्येरन्नुदकेन वा उह्येयुः । कुनिह(हि)ता वा निधयः प्रणश्येयुः (७९) कुप्रयुक्ता वा कर्मान्ताः प्रलुज्येरन्, अप्रियो(या)वा दायादा अधिगच्छेयुः । कुलेवा कुलांगार उत्पद्येत । यस्तान्भोगाननयेन व्यसनमापादये [द]यमारक्षासहगत आदीनवो यदुत आहारे ।

कतम आदीनव[ः] स्नेहपरिभ्रंशकृतः । यथापि तदाहारनिदानमाहाराधिकरणहेतोर्माता पुत्रस्यावर्णम्भाषते । पुत्रो मात्यः (मातुः), पिता पुत्रस्य, पुत्रो (त्रः) पितुः, भ्राता भगिन्या, भगिनी भ्रातुः । सहायकः । सहायकस्य । प्रागेव जनो जनस्य [।] ते (।) चान्योन्यं विगृहीता भवन्ति, विवादमापन्नास्तथाउदारा ब्राह्मणक्षत्रियगृहपतिमहासाला आहाराधिकरणहेतोरेवं विगृहीताविवादमापन्नाः अन्योन्यं पाणिना प्रहरन्ति । लोष्ठेनापि, दण्डेनापि, शस्त्रेणापि प्रहरन्त्ययमुच्यते स्नेहपरिभंशकृत आदीनवः ।

तत्र कतमः । अतृप्तिकृत आदीनवः । यथापि तद्राजानः कृतिया (क्षत्रिया) मूर्द्धाभिषिक्ताः, स्वेषु ग्रामनिगमराष्ट्रराजधानीषु असंतुष्टा विहरन्त उभयतो [अ]भ्यूहकानि संग्रामानीकानि प्रतिसरन्ति । शंखै(ः) कम्प(म्प्य)मानैः, पटाहैर्वाद्यमानैः, इषुभिः क्षिप्यमाणैर्विविधैस्ते तत्र भ्रान्तेनाश्वेन सार्धं समागच्छन्ति ॥ भ्रान्तेन हस्तिना, स्थेन, पत्तिना सार्धं समागच्छन्ति । इषुभिः शक्तिभिर्वा अपकृत्तगात्रा (८०) मरणम्वा नि (वि)गच्छन्ति । मरणमात्रं वा दुःखमयमुच्यते । अतृप्तिकृत आदीनव इति यो वा पुनरप्येवंभागीयः ॥

तत्र कतमः । अस्वातन्त्र्यकृत आदीनवः । यथापि तद्राज्ञः पौरुषेया आवरोधिकानि नगराण्यनुप्रस्कन्दतः (न्ते) । तप्तेनापि ति (तै)लेनावसिच्यन्ते । तप्तया वसया, तप्तया गोमयलो (लौ)हिकया, तप्तेन ताम्रेण, तप्तेनायसा, इषुभिः सन्तिभि (शक्तिभि)श्चापकृत्तगात्रा मरणं वा नि (वि)गच्छन्ति । मरणमात्रकं वा दुःखम् । अयमुच्यते अस्वातन्त्रयकृत आदीनव इति यो वा पुनरप्येवंभागीयः ।

तत्र [कतमो] दुश्चरितकृत आदीनवः [।] यथापि तदेकत्येनाहारनिदानं प्रभूतं कायेन दुश्चरितं कृतं भवत्युपचितं, यथा कायेनैवम्वाचा, मनसा [।] स च य(था का)य आबाधिको भवति, दुःखितो, बाढग्लानः, तस्य तत्पूर्वकं कायदुश्चरितं वाङ्मनोदुश्चरित(तं), पर्वतानां वा पर्वतकूटानाम्वा, सायाह्ने [या]च्छया(च्छाया) अवलम्बते । अव्या(ध्य)वलम्बते । अभिप्रलम्बते । [तस्यै]वं भवति । कृतं बत मे पापं, न कृतं बत मे पुण्यं, कायेन वाचा, मनसा, (८१) सो [अ]हं या गति[ः] कृतपापानां [तां] गतिं प्रेत्य गमिष्यामीति । विप्रतिसारी कालं करोति । अकालञ्च कृत्वापायेषूपपद्यते । यदुत नरकेषु, तिर्यक्प्रेतेषु [।] अयमुच्यते दुश्चरित कृत आदीनवः ।

तस्यैवम्भवति । इत्ययमाहार[ः] पर्येष(ष्य)माणो [अ]पि सादीनवः । परिभुज्यमानो [अ]पि सादीनवः । परिभुक्तो [अ]पि परिणाम आदीनवः । एवमस्ति पुनरस्याहारस्य काचिदनुशन्स (शंस)मात्रा सा पुनः कतमा । आहारस्थितिको [अ]य(यं) [काय] आहारं निश्रित्य तिष्ठति । नानाहार इयमस्यानुशन्स(शंस)मात्रा [।]

एवमाहारस्थितिको [अ]यं कायं(ः) सुचिरमपि तिष्ठन् वर्षशतम्वा तिष्ठति । किंचिद्वा पुनर्भूयः सम्यक्परिह्रियमाणः । अस्ति चास्यार्वागुपरतिः । तत्र यः (ये) कायस्थितिमात्रे प्रतिपन्नाः न ते सुप्रतिपन्ना[ः] काये कायस्थितिमात्रकेन (ण) संतुष्टा न (न) ते असंतुष्टा, न च पुनस्ते आहारकृतं परिपूर्णमनवद्यमनुशन्सं (शंसं) प्रत्यनुभवन्ति । ये पुनर्नकायस्थितिमात्रकेण (न) संतुष्टा[ः] कायस्थितिमात्रके प्रतिपन्ना, न ते सुप्रतिपन्ना, अपि तु तामेव कायस्थितिं (८२) निश्चिं[त्य] (निश्रित्य) ब्रह्मचर्यं (र्य)समुदागमाय प्रतिपन्नाः, सुप्रतिपन्नाः, त एव च पुनः परिपूर्णमनवद्यमनुशन्सं (शंसं) प्रत्यनुभवन्ति । तन्मे प्रतिमं स्याद्यद(द्)वा प्रत्यवरेण आहारानुशन्स (शंस)मात्रकेण संतुष्टो विहरेयम् । न मे प्रतिरूपं स्याद्यदहं बालसभागतां बालसहधार्मिकतामध्यापद्येयमेवमाहारे सर्वाकारं परिपूर्णमादीनवं ज्ञात्वा स इतः प्रतिसंख्यायादीनव दर्शी, निःसरणान्वेषी चाहारनिःसरणार्थमेव पुत्रमां(मान्) सो धर्ममाहारमाहरति ।

तस्यैवं भवति । एवमेते दायकदानपतयः कृच्छ्रेण भोगान् समुदानीय, महान्तं पर्येषणाकृतमादीनवं प्रत्यनुभवन्तः, प्रपीड्य, प्रपीड्य, त्वङ्मान्स (मांस)शोणितमस्माकमनुप्रयच्छन्ति । य [एते] [अ]नुकम्पामुपादाय विशेषफलार्थिनः तस्यास्माकं तथा प्रतिलब्धस्य पिण्डपातस्यायमेवं रूपो [अ]नुरूपः परिभोगः स्याद्यदहं तथा परिभूतमात्मानं (।) स्थापयित्वा परिभुंजीय, यथा तेषां काराः कृता अत्यर्थं महाफला[ः] स्युर्महानुशंसा, महाद्युभ(त)यो, महाविस्ताराः, चन्द्रोपमश्च कुलान्युपसंक्रमेयं व्यवकृष्य कायं, व्यवकृष्य चित्तं, ह्रीमानप्रगल्भः, अनात्मोत्कर्षी अपरपन्सी, (८३) यथास्वेन लाभेन चित्त (सुचित्तः) स्यां, सुमनाः, एवं परस्यापि लाभेन चित्त (सुचित्तः) स्यां सुमना, एवं चित्तश्च पुनः कुलान्युसंक्रमेयम् । तत्कुत एतल्लभ्यं प्रव्रजितेन परकुलेषु यद्वदत्र परे मे मान (नं) ददतु । सत्कृत्य, मा असत्कृत्य, प्रभूतं मा स्तोकं, प्रणीतं मा लूहं, त्वरित[ं] मा गत्वं (बद्धम्) । एवं चरितस्य मे कुलान्युसंक्रमतः स चेत्परे न दद्युस्तेनाहं न तेषामन्तिके आघातचित्ततया प्रतिघचित्ततया व्यवदीयेयम् । न च पुनस्तन्निदानं कायस्य भेदादपायोपपत्त्या विघातमापद्येय (यं) । यदुत तामेवाघातचित्तता (तां) [प्रतिघचित्ता]मधिपतिं कृत्वा स चेदसत्कृत्य न सत्कृत्य, स चेत्स्तोकं न प्रभूतम् । स चेल्लूहं न प्रणीतं, स चेद्वद्धं न त्वरितं दद्युः । द (त)याहमाघातचित्ततया, प्रतिघचित्ततया च व्यवदीयेयमिति विस्तरेण पूर्ववत् । इमं चाहं कबडीकारमाहारं निश्रित्य तथा तथा प्रतिपद्येय(यं), ताञ्च मात्रां प्रतिवेध्येयम् । येन मे जीवितेन्द्रियनिरोधश्च न स्यान्नच पिण्डकेन क्लाम्येयम् । ब्रह्मचर्यानुग्रहश्च मे स्यादेवं च मे श्रव(म)णभावे, प्रव्रजितभावे स्थितस्यायं पिण्डपातपरिभोगरूपश्च । (८४) परिशुद्धश्चानवद्यश्च स्यादेभि[राका]रैः स प्रतिसंख्यायाहारमाहरति ।

आहारः पुनः कतमः [।] चत्वार आहाराः [।] कबडंकारः, स्पर्शो, मनःसंचेतना, विज्ञानं चास्मिंस्त्वर्थे कबडंकार आहारोऽभिप्रेतः । स पुनः कतमस्तद्यथा मन्था वापूपा वा ओदनकुल्माषम्वा, सर्पिस्तैलं, फणितं, मांसं, मत्स्या, वल्लूरा, लवणं, क्षीरं, दधि, नवनीतमितीमानि चान्यानि चैवं रूपाण्युपकरणानि यानि कबडानि (८५) कृत्वा [अ]भ्यवह्रियन्ते । तस्मात्कबडंकार इत्युच्यते ।

आहरतीति भुंक्ते । प्रतिनिषेवत्यभ्यवहरति, खादति, भक्षयति । स्वादयति, पिबति, चूषतीति पर्यायाः [।]

न द्रवार्थमिति । यश्चैते (ये चैते) कामोपभोगिन इत्यर्थः । याहरन्ति (य आहरन्ति) यद्वयमाहारेण प्रीणितगात्राः संतर्पितगात्राः प्रत्युपस्थिते सायाह्नकाले समये, अतिक्रान्तायां रजन्यां, मौलीबद्धिकाभिः सार्द्धंमलाबु-रोमशबाहुभिः कन्दुकस्तनिभिर्नारीभिः (कन्दुकस्तनीभिर्नारीभिः) (८६) क्रीडतो (न्तो), रममाणाः, परिचारयन् (न्त), औद्धत्यं द्रवं प्राविष्करिष्याम इति [।] द्रव एष आर्ये धर्मविनये यदुतकामरागोपसंहिता, मैथुनोपसंहिता[ः] पापका अकुशला धर्मा, वितर्का, यैरयं खाद्यमानो, बाध्यमान, उद्धतेन्द्रियो भवत्यनुद्धतेन्द्रियश्च, द्रुतमानसः, प्लुतमानसः, अस्थितमानसो [अ]व्युपशान्तमानसः, ते पुनरत्यन्तमाहारमाहरन्तो द्रवार्थमाहरन्तीत्युच्यते ।

श्रुतवांस्त्वार्यश्रावक[ः] प्रतिसंख्यानबलिक आदीनवदर्शी निःसरणं प्रजानं (नन्) परिभुंक्ते । न तथा यथा ते कामोपभोगिनो भुंजन्ते । तेनाह- न द्रवार्थं न मदार्थं, न मण्डनार्थं न विभूषणार्थमिति । यथापि त एव कामोपभोगिन इत्यर्थ माहारमाहरन्ति । अद्य वयमाहारमाहृतवन्तो यदुत प्रभूतञ्च तृप्तितो यथाशक्त्याबलम् । स्निग्धं च, वृष्यञ्च, बृंहणीयञ्च, वर्णसंपन्नं, गन्धसम्पन्नं, रससम्पन्नम् । एन्धाभूते (ऐन्धीभूते), निर्गतायां रजन्यां शक्ता भविष्यामः । प्रतिबला, व्यायामकरणो (णा), यदुत अतर्त्काया (आततीक्रियया) वा, निर्घातेन, व्यायामशिलया (८७) वा, उल्लोठनेने (न) वा, पृथिवीखातेन वा, बाहुव्यायामेन वा, पादावष्टम्भनेन वा, प्लवनेन वा, (अ)लंघनेन वा [।] तत्र व्यायामेन बाह(हु)ञ्च पुनर्व्यायामं निश्रित्य बलवन्तोभविष्यामः । (अ)व्यायतगात्रा, दीर्घं चारोगाः, चिरकालं चास्माकं यौवनमनुवर्तकं भविष्यति, नो तु त्वरितं (।) विरूपकरणी जरा देहमभिभविष्यन्ती (ती)ति । चिरतरं च जीविष्याम इति । प्रभूतभक्षणे च प्रतिबला भविष्यामः । भुक्तं च (भुक्तं) सम्यक्परिणमिष्यति । दोषाणां चापच (क्ष)यः कृतो भविष्यति । इत्यारोग्यमदार्थं, [यौवन]मदार्थं, जीवितमदार्थं परिभुंजते ।

तेषां पुनरेवं भवति । कृतव्यायामा वयं स्नात्रसंविधानं करिष्यामो, यदुत-शुचिना तोयेन गात्राणि प्रक्षालिष्यामः । प्रक्षालितगात्राश्च केशानि च (केशांश्च) प्रसाधयिष्यामः । विविधेन चानुलेपनेन कायमनुपलिप्य (-मनुलिप्य) विविधैर्वस्त्रैर्विविधैर्माल्यैर्विविधैरलं[कारैः] कायं भूषयिष्यामः । (८८) तत्र यत्स्नानप्रसाधनानुलेपनमिदमुच्यते । तेषां मण्डनम् ।

तथा मण्डनजातानां यद्वस्त्रमाल्याभरणधारणमिदमुच्यते । विभूषणमिति । मण्डनार्थं विभूषणार्थं परिभुंज[तोऽत] एवं (परिभुंजन्तोऽत एवं) मदमत्ता मण्डनजातिविभूषितगात्राः । मध्याह्नसमये, सायाह्न समये वा, भक्तसमये तृषिता बुभुक्षिताश्च, परेण हर्षेण, परया नन्द्या, परेणामोदेन । आदीनवदर्शिनो निःसरणमप्रजानन्त (न्तो) यथोपपन्नमाहारमाहरन्ति । यावदेव पुनः पुनर्द्रवार्थं, मण्डनार्थं, विभूषणार्थ च [।]

श्रुतवांस्त्वार्यश्रावकः । प्रतिसंख्यानबलिक आदीनवदर्शी निःसरणंप्रजानन् परिभुंक्ते । न तु तथा यथा ते कामोपभोगिनः परिभुंजते । नान्यत्रेममसंनिवेषणाप्रहातव्यमाहारं प्रतिनिषेवमाण एव प्रहास्यामीति । यावदेवास्य कायस्य स्थितये इति भुक्त्वा नाभुक्त्वा यश्च जीवितस्य कायस्थितिरित्युच्यते । सो [अ]हमिममाहारमाहृत्य जीविष्यामि, न मरिष्यामीति आहारति । तेनाहं (ह) यावदेवास्य कायस्य स्थितये ।

(८९)
कथं यापनायै आहरति । द्विविधा यात्रास्ति कृच्छ्रेण अस्त्यकृच्छ्रेण [।] कृच्छ्रेण यात्रा कतमा [।] यद्रूपमाहारतो जिघत्सा दौर्बल्यं वा भवति । दुःखितो वा बाढग्लानः । अधर्मेण वा पिण्डपातं पर्येषते, न धर्मेण । रक्तः परिभुंक्ते, सक्तः, गृद्धो, ग्रथितो, मूर्छितोऽध्यवसितो [अ]ध्यवसायमापन्नः । गुरुको वास्य कायो भवत्यकर्मण्यः, अप्रहाणक्षमः, येनास्य धन्धं चित्तं समाधियते (धीयेत) । कृच्छ्रेण वा आश्वास-प्रश्वासाः प्रवर्तन्ते । स्त्यानमिद्धं वा चित्तं पर्यवहीय (पर्यवनह्यतीय)मुच्यते कृच्छ्रेण यात्रा ।

अकृच्छ्रेण यात्रा कतमा [।] यथापि तद्रूपमाहारमाहरतो यथा जिघत्सा दौर्ब्बल्यं वा न भवति । नाभ्यधिको भवति । दुःखितो वा बाढग्लानः । धर्मेण वा पिण्डपातं पर्येषते, न वा [अ]धर्मेण । सुरक्तो वा परिभुंक्तेसक्तः (परिभुङ्कतेऽसक्तः), अगृध्रः, अग्रथितः, अनध्यवसितो [अ]नध्यवसायमापन्नः, न चास्य कायो गुरुको भवति । कर्मण्यो भवति । प्रहाणक्षमः । येनास्य त्वरितं चित्तं समाधीयते । अल्पकृच्छ्रेणाश्वासप्रश्वासाः प्रवर्त्तन्ते । स्त्यानमिद्धं (९०) चित्तं न पर्यवन(ह्य)तीयमुच्यते अल्पकृच्छ्रेण यात्रा ।

तत्र या कृच्छ्रेण यात्रा तया जीवितस्थितिर्भवति । कायस्य सावद्या ससंक्लिष्टा [।] तत्र येयमल्पकृच्छ्रेण यात्रा तया जीवितस्थितिर्भवति (।) कायस्य [।] सा च पुनरनवद्या । असंक्लिष्टा [।] तत्र श्रुतवानार्यश्रावकः । सावद्यां संक्लिष्टां यात्राम्परिवर्जयति । अनवद्यामसंक्लिष्टां यात्रां गच्छति । प्रतिषेवते । तेनाह यापनायै ।

सा पुनरनवद्या असंक्लिष्टा यात्रा या पूर्वमुक्ता । तां कथं यापयति । आह । यद्ययं जिघत्सोपरतये, ब्रह्मचर्यानुग्रहाय इति, पौराणां च वेदनां प्रहास्यामि नवाञ्च नोत्पादयिष्यामि । यात्रा च मे भविष्यति । बलं च, सुखं चानवद्यता च, (९१) स्पर्शवि[हार]ता चेति । एवं प्रतिषेवमाणः अनवद्यामसंक्लिष्टां यात्रां कल्पयति ।

कथं च पुनर्जिघत्सोपरतये आहरति [।] प्रत्युपस्थिते भक्तसमये, उत्पन्नायां क्षुधायां, यदा परिभुंक्ते तस्यैव क्षुत्पर्यवस्थानस्य जिघत्सादौर्बल्यस्य च प्रतिविगमाय ताञ्च मात्रां परिभुंक्ते । यथास्य भुक्तवतः अकाले पुनर्जिघत्सादौर्बल्यन्न बाधते । सायाह्नसमये वा, अभि(ति?)क्रान्तायाम्वा रजन्यां, श्वोभूते, प्रत्युपस्थिते भक्तसमये [।] एवं जिघत्सोपरतये आहरति ।

कथं ब्रह्मचर्यानुग्रहायारति । तां मात्रां परिभुंक्ते तद्रूपमाहारमाहरति । येनास्य कुशलपक्षे प्रयुक्तस्य दृष्ट एव धर्मे भुक्तसमनन्तरं तस्मिन्नेव वा दिवसे अगुरुकः कायो भवति । कर्मण्यश्च भवति, प्रहाणक्षमश्च, येनास्य त्वरितत्वरितं चित्तं समाधीयते । अल्पकृच्छ्रेणाश्वासप्रश्वासाः प्रवर्तन्ते । स्त्यानमिद्धं चित्तं न पर्यवनह(ह्य)ति । येनायं भव्यो भवति । प्रतिबलश्च । क्षिप्रमेवाप्राप्तस्य प्राप्तये, अनधिगतस्याधिगमाय, असाक्षात्कृतस्य साक्षात्क्रियायै । एवं ब्रह्मचर्यानुग्रहायाहरति ॥

कथं पौराणां वेदनां प्रहास्यामीत्याहरति । (९२) तथापि तदतीतमध्वानमुपादाय । अमात्रया वा परिभुक्तम्भवत्यपश्यम्वा (पथ्यं वा), अपरिणते (तं) वा, येनास्य विविधः कायिक आबाधः समुत्पन्नो भवति । तद्यथा कण्डू[ः], कुष्ट[ः], किटिभ[ः] किलास इति विस्तरेण पूर्ववत् । तस्य चाबाधनिदाना उत्पद्यन्ते शारीरिका वेदना दुःखास्तीव्राः, खराः, कटुका, अमनापा (अमन आपा)[ः ।] तस्याबाधस्योपशमाय तासां च तन्निदानानां दुःखानां वेदनानामुपशमाय हितं पश्यमनु(पथ्यमनु)कूलमानुलोमिकं वैद्योपदिष्टेन विधिना भैषज्यं प्रतिषेवते [।] सांप्रेयं चाहारमाहरति । येनास्योत्पन्नस्याबाधस्य तन्निदानानां च दुःखानां वेदनानां प्रहाणं भवत्येवं पौराणाम्वेदनां प्रहास्यामीत्याहारमाहरति । स वर्त्तमानमध्वानमुपादाय सुखी, अरोगो, बलवान्नामात्रया वा परिभुंक्ते । अपथ्य ता अपरिणते, काये नास्यागतमध्वानमुपादाय (चास्यानागतमध्वानमुपादाय) श्वो वा, उत्तरश्वो वा, विषूचिका वा काये संतिष्ठेत । अन्यतमान्यतमो वा काये कायिक आबाधस्समुत्पद्येत । तद्यथा कण्डू[ः], कुष्ट[ः], किटिभ[ः], किलास इति विस्तरेण पूर्ववत् । यन्निदाना उत्पद्येरन्छा (ञ्छा)रीरिका वेदना[ः] पूर्ववत् । एवं च नवां वेदनां नोत्पादयिष्यामीत्याहरति ।

(९३)
कथं यात्रा मे भविष्यति । वर्णं च सुखं चानवद्यतां(ता) च । स्पर्शविहारता चेत्याहरति । यत्तावद्भुक्तो जीवतीत्येवं यात्रा भवति । यत्पुनर्जिघत्सादौर्बल्यमु(म)पनयति । एवमस्य वर्णं भवति । यत्पुनः पौराणां वेदनां प्रजहाति । नवां चो (च नो)त्पादयत्येवमस्य सुखं भवति । यत्पुनर्धर्मेण पिण्डपातं पर्येष्ट्यारक्तः (पर्येष्यारक्तः), असक्तः इति विस्तरेण पूर्ववदेवमनवद्यता भवति । यत्पुनर्भुक्तवतो न गुरुकः कायो भवति, कर्मण्यश्च भवति, प्रहाणक्षमो विस्तरेण पूर्ववदेवमस्य स्पर्शविहारता भवति । तेनाह प्रतिसंख्यायाहारमाहरति । न द्रवार्थं, न मदार्थं, न मण्डनार्थमिति । विस्तरेण पूर्ववदयं तावद्भोजने मात्रज्ञताया विस्तरविभागः ।

समासार्थः पुनः कतम[ः] आह [।] यश्च (यञ्च) परिभुङक्ते । यथा च परिभुंक्ते । यदुत कबडंकारमाहारं, मन्था वा, [अ]पूपा वा, ओदनकुल्माषं वा विस्तरेण पूर्ववत् ।

कथं परिभुंक्ते । प्रतिसंख्याय परिभुंक्ते । न द्रवार्थं, न मदार्थं न मण्डनार्थमिति विस्तरेण पूर्ववत् ।

पुनरपरं (ः) समासार्थः [।] प्रतिपक्षपरिगृहीतं च परिभुंक्ते । कामसुखल्लिकान्त (वि) वर्जितञ्च । आत्मक्लमथान्तविवर्जितञ्च बह्मचर्यानुग्रहाय । (९४) यदाह । प्रतिसंख्यायाहारमाहरति ।

कथं कामसुखल्लिकान्तविवर्जितम् । यदाह । न द्रवार्थं, न मदार्थं, न मण्डनार्थ, न विभूषणार्थमिति ।

कथमात्मक्लमथान्तविवर्जितम् । यदाह [।] जिघत्सोपरतये, पौराणां च वेदनां प्रहास्यामि । नवाञ्च नोत्पादयिष्यामि । यात्रा च मे भविष्यति । बलं च सुखं चेति ।

कथं बह्मचर्यानुग्रहाय परिभुंक्ते । यदाह । ब्रह्मचर्यानुग्रहाय । अनवद्यता च । स्पर्शविहारता च मे भविष्यतीति ।

पुनरपरः समासार्थः [।] द्वयमिदं भोजनं, चाभोजनं च । तत्राभोजनं यत्सर्वेण सर्वं सर्वथा किंचिन्न परिभुंक्ते । अभुंजानश्च म्रियते । तत्र भोजनं द्विविधम् । समभोजनं, विषमभोजनं च । तत्र समभोजनम् । यन्नात्यल्पं नातिप्रभूतं, नापथ्यं, नापरिणतेन संक्लिष्टम् । तत्र विषमभोजनम् । यद्य(द) त्यल्पमतिप्रभूतं च । अपरिणते (तं) वा, अपथ्यं वा, संक्लिष्टं वा परिभुंक्ते । तत्र समभोजने नात्यल्पभोजने जिघत्सादौर्बल्यमनुत्पन्नं (।) नोत्पादयति । उत्पन्नं प्रजहाति । तत्र नातिप्रभूतभोजने (न) [सम]विषमभोजनेन (९५) गुरुकः कायो भवत्यकर्मण्यः अप्रहाणक्षमो विस्तरेण पूर्ववत् । तत्र परिणतभोजनेन, समभोजनेन पौराणां च वेदनां प्रजहाति । नवाञ्च नोत्पादयिष्यत्येवमस्य यात्रा भवति । बलं च, सुखं च, असंक्लिष्टभोजनेन । समभोजनेन अनवद्यता च भवति । स्पर्शविहारता च ।

तत्रात्यल्पभोजनं येन जीवति । अतिप्रभूतभोजनम् । येनास्य गुरुभाराध्याक्रान्तश्च कायो भवति । न च कालेन भ(भु)क्तम्परिणमति । तत्रापरिणतभोजनेन विषूचिका काये संतिष्ठते । अन्यतमान्यतमो वा काये कायिक आबाधः (।) समुत्पद्यते । यथा अपरिणतभोजनेनैवमपथ्यभोजनेन [।] तत्रायमपथ्यभोजने विशेषः [।] दोषः प्रचयं गच्छति । खरं वाबाधं स्पृशति । तत्र संक्लिष्टभोजनेन अधर्मेण पिण्डपातं पर्येष्य रक्तः परिभुंक्ते । सक्तो, गृद्धो, ग्रथित इति विस्तरेण पूर्ववत् । इति यः समभोजनं च परिभुंक्ते । विषमभोजनं च परिवर्जयति । तस्माद्भोजने समकारीत्युच्यते । भोजने समकारितैषा एभिराकौरराख्याता, उत्ताना, विवृता, संप्रकाशिता । यदुत प्रतिसंख्यायाहारमाहरति । न द्रवार्थं, न मदार्थं, न मण्डनार्थं, न विभूषणार्थमिति विस्तरेण पूर्ववत् ।

(९६)
तत्र यस्ता(यत्ता)वदाह । प्रतिसंख्यायाहारमाहरति । न द्रवार्थं, न मदार्थं, न मण्डनार्थं, न विदू(भू)षणार्थं (।), यावदेवास्य कायस्य स्थितये, यापनायै, अनेन तावदभोजनं न (च) प्रतिक्षिपति । यत्पुनराह । जिघत्सोपरतये, ब्रह्मचर्यानुग्रहाय विस्तरेण यावत्स्पर्शविहारतायै, अनेन विषमभोजनं प्रतिक्षिपति ।

कथं च पुनर्विषमभोजनं (पुनरतिप्रभूतभोजनं) प्रतिक्षिपति । यत्तावदाह ब्रह्मचर्यानुग्रहायानेनातिप्रभूतभोजनं प्रतिक्षिपति । यदाह [।] पौराणां च वेदनां प्रहास्यामि (।), नवां च नोत्पादयिष्यामीत्यनेनापरिणतभोजनत मे (ताम)पथ्यभोजनतां च प्रतिक्षिपति । यदाह । यात्रा च मे भविष्यति, बलं चानेनात्यल्पभोजनतां प्र(तामप्र)भूतभोजनतां च दर्शयति (प्रतिक्षिपति) । यदाह । सुखं च मे भविष्यतीत्यनेन परिणतभोजनतां च दर्शयति [।] यदाह (।) सुखं च मे भविष्यतीति पथ्यभोजनतां च दर्शयति । यदाह । अनवद्यता च मे भविष्यति, स्पर्शविहारता चेत्यनेनासंक्लिष्टभोजनतां दर्शयति । योसावधर्मेण पिण्डपातं पर्येष्य रक्तः (९७) परिभुंक्ते । सक्तो विस्तरेण पूर्ववत् । स संक्लिष्टश्च परिभुंक्ते, सावद्यता चास्य भवति । तस्यैव च कुशलपक्षप्रयुक्तस्य प्रतिसंलयने, योगे, मनसिकारे, स्वाध्याये, अर्थचिन्तायां त एव पापका अकुशला वितर्काश्चित्तमनुवस्रवन्ति ये [अ]स्य तं नित्यां (तन्नित्यां), तत्प्रवणां, तत्प्राभोरां (तत्प्राभारां) चित्तसन्ततिं प्रवर्त्तयन्ति । येनास्य स्पर्शविहारेण (स्पर्शविहारो न) भवति । सा चेयं द्विविधा स्पर्शविहारता अतिप्रभूतभोजनपरिवर्जनाच्च येनास्य न गुरुकः कायो भवत्यकर्मण्यः, अप्रहाणक्षम इति विस्तरेण पूर्ववत् । अपरेना (णा) स्वादाकरणाद्येनास्य वितर्कसंक्षोभकृतां (ता) अस्पर्शविहारता न भवति । तदेवं सति सर्वैरेभिः पदैर्भोजने समकारिता व्याख्याता भवति । इयमुच्यते भोजने मात्रज्ञता ॥ विस्तरतः संक्षेपतश्च ॥

पूर्वरात्रापररात्रं जागरिकानुयुक्तता कतमा । (९८) तत्र कतमः पूर्वरात्रः (-मत्पूर्वरात्रम्) । कतमो (मद)पररात्रः (त्रम्) । कतमोजागरिकायोगः । कतमा जागरिकायोगस्यानुयुक्तता । तत्राय(यं)-(त्रेदं) सायाह्नमर्धरात्रः (त्रं), सायाह्नं सूर्यास्तंगमनमुपादाय यो रात्र्याः पूर्वभागः, सोऽतिरेकं प्रहारं (सातिरेकः प्रहरः) । तत्रायं जागा(ग)रिकायोगः । यदाह । दिवा चंक्रमनिषद्याभ्यामावरणीयेभ्यो धर्मेभ्यश्चित्तं परिशोधयति । परिशोध्य, बहि[र्]विहारस्य पादौ प्रक्षाल्य विहारं प्रविश्य दक्षिणेन पार्श्वेन शय्यां कल्पयति । पादे पादमाधाय आलोकसंज्ञी स्मृतः । संप्रजान(न्) उत्थानसंज्ञामेव मनसि कुर्वन्, स रात्र्याः पश्चिमे यामेलघु लघ्वेव प्रतिविबुध्य चंक्रमनिषद्याभ्यामावरणीयेभ्यो धर्मेभ्यश्चित्तं (९९) परिशोधयति । तत्रेयं जागरिकानुयोगस्यानुयुक्तता । यथापि तद्बुद्धस्य भगवतः श्रावकजागरिकायोगस्य श्रोता । तत्र शिक्षितुकामो भवति । यथाभूतस्यास्य यज्जागरिकायोगमारभ्य बुद्धानुज्ञातं जागरिकानुयोगं सम्पादयिष्यामीति यश्छन्दो, वीयं (वीर्यं), व्यायामो, निष्क्रमः । पराक्रमस्थानप्रारम्भः । उत्साह उत्सूढिरप्रतिवाणिश्चेतसः । संग्रहः सावद्यं (द्यः) ।

तत्र कथं चंक्रमनिषद्याभ्यामावरणीयेभ्यो धर्मेभ्यश्चित्तं परिशोधयति । दिवा उच्यते । सूय(र्य)स्याभ्युद्गमनसमयमुपादाय यावदस्तगमनसमया[च्], चंक्रम उच्यते । आयतानि (आयतनानि) (।) विपुलमापिते पृथिवीप्रदेशे गमनप्रत्यागमनप्र[योग]युक्तम् । सत्कायकर्मनिषद्या उच्यते । यथापीहैकत्यो मंचेवा, पीठे वा, तृणसंस्तरे वा निषीदति । पर्यङ्कमाभुज्य । ऋजुं कायं प्रणिधायाभिमुखीं स्मृतिमुपस्थाप्य [।] आवरणान्युच्यन्ते पञ्च निवरणानि । आवरणीया धर्मा ये निवरणस्थानीया धर्मा निवरणापरकास्ते (१००) पुनः कतमे । कामछन्दो (कामच्छन्दो), व्यापाद[ः], स्त्यान(नं), मिद्धौद्धत्यं, कौकृत्यं, विचिकित्सा, [अ]शुभता, प्रतिघनिमित्तमन्धकारः, ज्ञातिजनपदामरवितर्कपौराणस्य च हसितक्रीडितरसितपरिवारितस्यानुस्मृतिः, त्रयश्चाध्वानः । त्र्यध्वगता चायोनिशो धर्मचिन्ता [।]

एभ्यः कथं चंक्रमणचित्तं परिशोधयति । कतिभ्यश्च परिशोधयति [।] स्त्यानमिद्धात्स्यानमिद्धाहारकाच्चावरणात्परिशोधयति । आलोकनिमित्तमनेन साधु च, सुष्ठु च, सुगृहीतं भवति । सुमनसिकृतं, सुज(जु)ष्टम् । सुप्रतिविद्धम् । स आलोकसहगतेन, सुप्रभाससहगतेन चित्तेन छन्ने वा, अभ्यवकाशे वा, चंक्रमे चंक्रम्यमाणः (चंक्रममाणः), अन्यतमान्यतमेन प्रसदनीयेनालम्बनेन चित्तं संदर्शयति । समुत्तेजयति । संप्रहर्षयति । यदुत बुद्धानुस्मृत्या वा, धर्मसंघशीलत्यागदेवतानुस्मृत्या वा, (।) काये वा पुनरनेन स्त्यानमिद्धादीनवप्रतिसंयुक्ता धर्माः श्रुता भवन्त्यद्गृहीता, धृताः । तद्यथा सूत्रं, गू(गे)यं, व्याकरणं, गाथोदाननिदानावदानेतिवृत्तकजातकवैपुल्याद्भुतधर्मोपदेशा, येषु स्त्यानमिद्धममनेकपर्यायेण विगर्हितं, विजुगुप्सितं [।] स्त्यानमिद्धप्रहाणं पुनः (।)स्तुतं, वर्णितं, प्रशस्तं [।] तान् तेषां विस्तरेण स्वरेण स्वाध्यायं करोति । परेषाम्वा (१०१) प्रकाशयत्यर्थम्वा चिन्तयति । तुलयत्युपपरीक्षते, दिशो वा व्यवलोकयति । चतुर्नक्षत्रग्रहतारासु वा दृष्टिं धारयत्युदकेन मुखमाक्लेदयति । एवमस्य तत्स्त्यानमिद्धपर्यवस्थानमनुत्पन्नं च नोत्पद्यते, उत्पन्नं च प्रतिविगच्छत्येवमनेन तस्मादावरणीया[द्] धर्माच्चित्तं परिशोधितं भवति ।

तत्र निषद्यया कतमेभ्य आवरणीयेभ्यो धर्मेभ्यः [चित्तं] परिशोधयति । कामच्छन्दाद्, व्यापादादौद्धत्यकौकृत्याद्विचिकित्सायास्तदाहारकेभ्यश्च धर्मेभ्यः [।] स उत्पन्ने वा कामच्छन्दपर्यवस्थाने प्रतिविनोदनायानुत्पन्ने वा दूरीकरणाय, निषद्य, पर्यङ्कमाभुज्य, ऋजुं कायं प्रणिधाय, प्रतिमुखां (खीं) स्मृतिमुपस्थाप्य, विनीलकं वा, विपूयकम्वा, विम(भ)द्राम(त्म)कम्वा, व्याध्मातकम्वा, वि[खादि]तकम्वा, विलोहितकम्वा, अस्थिं (अस्थि) वा, शंकलिकां वा, अन्यतमान्यतमं वा भद्रकं समाधिनिमित्तं मनसि करोति । ये वा धर्माः कामरागप्रहाणमेवारभ्य कामरागप्रहाणायोद्गृहीता भवन्ति । धृता, वचसा परिजिता, मनसा अन्वीक्षिता[ः], दृष्ट्या सुप्रतिविद्धा[ः], तद्यथा सूत्रं, गेयं, व्याकरणमिति विस्तरेण पूर्ववत् । ये अनेकपर्यायेण कामरागं, कामच्छन्दं, (१०२) कामालयं, कामनियन्तिं, कामाध्यवसानं विगर्हन्ति, विवर्णयन्ति । विजुगुप्सयन्ति । कामरागप्रहाणमनेकपर्यायेण स्तुवन्ति । वर्णयन्ति, प्रशन्स(शंस)यन्ति । तां (तान्) धर्मांस्तथा निषण्णो [अ]योनिशो मनसि करोत्येवमस्यानुत्पन्नं च कामच्छन्दपर्यवस्थानं नोत्पद्यते । उत्पन्नं च कामच्छन्दपर्यवस्थानं प्रतिविगच्छति ।

तत्र व्यापादे अयम्विशेषः । तथा निषण्णो मैत्रीसहगतेन चित्तेनावैरेणासंपथेनाव्याबाधेन, विपुलेन, महद्गतेनाप्रमाणेन सुभावितेनैकां दिशमधिमुच्य स्मारित्वोप (स्मृत्वोप-)सम्पद्य विहरति । तथा द्वितीयां, तथा तृतीयां, तथा चतुर्थीमित्यूर्ध्वमधस्तिर्यक्सर्वमनन्तं लोकं स्मारित्वा (स्मृत्वा) उपसम्पद्य विहरति । शेषं पूर्ववत् ।

तत्रौद्धत्यकौकृत्ये विशेषः । तद्यथा निषण्णे अध्यात्ममेव चित्तं स्थापयति । संस्थापयति । सम्विषोदयति (संविशोधयति) । एकोतीकरोति । समाधत्ते । शेषं पूर्ववत् ।

तत्र विचिकित्सानिवरणे विशेषः । तथा सन्निषण्णः । अतीतमध्वानं नायोनिशो मनसिकरोति । अनागतं प्रत्युत्पन्नमध्वानं नायोनिशो मनसिकरोति । किं न्वहमभूवमतीते [अ]ध्वनि कोन्वहमभूवम् । आहोस्विन्नाहमतीते [अ]ध्वनि को न्वहमभूवम् । कथं (१०३) न्वहमभूवमदी(ती)तेऽध्वनि [।] को न्वहं भविष्यामि । अनागते [अ]ध्वनि, कथं भविष्याम्यनागते [अ]ध्वनि, के सन्तः के भविष्यामः । अयं सत्व (सत्त्वः) कुत आगतः । इतश्च्युतः कुत्रगामी भविष्यति । स इत्येवं रूपमयोनिशोमनसिकारं वर्जयित्वा योनिशो मनसि करोति । अतीतमध्वानमनाती(ग)तं प्र[त्युत्पन्न]मप्यध्वानं [।] स धर्ममात्रं पश्यति । वस्तुमात्रम् । सच्च सतः, असच्चासतः । हेतुमात्रं, फलमात्रं, नासद्भूतं समारोपं करोति । न सद्वस्तु नाशयत्यपच(व)दति । भूतं भूततो जानाति । यदुतानित्यतो वा, [दुःखतो] वा, शून्यतो वा, [अनात्मतो वा], अनित्येषु, दुःखेषु, शून्येषु, अनात्मसु धर्मेषु स एवं योनिशो मनसि कुर्वन्, बुद्धे [अ]पि निष्काङ्क्षो भवति, निर्विचिकित्सः । धर्मे, संघे, दुःखे, समुदये, निरोधे, मार्गे, हेतौ, हेतुसमुत्पन्नेषु धर्मेषु निष्काङ्क्षो भवति । निर्विचिकित्सः । शेषं पूर्ववत् ।

तत्र व्यापादे वक्तव्यम् । यो [अ]नेन प्रतिघं प्रतिघनिमित्तं चारभ्य, तस्य च प्रहाणाय, धर्मा उद्गृहीता इति विस्तरः [।]

औद्धत्यकौकृत्ये वक्तव्यम् । अनेनौद्धत्यकौकृत्यमारभ्य (१०४) तस्य च प्रहाणाय धर्मा उद्गृहीता इति विस्तरेण पूर्ववत् ।

विचिकित्सायाम्वक्तव्यम् । ये अनेन विचिकित्सामारभ्य तस्याश्च प्रहाणाय धर्मा उद्गृहीता इति विस्तरेण पूर्ववदित्यनेन कामछ(च्छ)न्दनिवरणाद्व्यापादस्त्यानमिद्धौद्धत्यकौकृत्यविचिकित्सानिवरणा[च्] चित्तं विशोधितं भवति । तदाहारकेभ्यश्च धर्मेभ्य आवरणीयेभ्यस्तेनाह चंक्रमनिषद्याभ्यामावरणीयेभ्यो धर्मेभ्यश्चित्तं परिशोधयति ।

या चैषा धर्माधिपतेया आवरणीयेभ्यो धर्मेभ्यश्चित्तस्य परिशोधना [।] अस्ति पुनरात्माधिपतेया, लोकाधिपतेया चावरणीयेभ्यो धर्मेभ्यश्चित्त परिशोधना [।]

आत्माधिपतेया कतमा । यथापि तदुत्पन्ने अन्यतमान्यतमस्मिन्निवरणे आत्मत एव प्रतिरूपताम्विदित्वा, उत्पन्नं निवरणं नाधिवासयते (ति) । प्रजहाति, विनोदयति, व्यन्तीकरोति । तेन निवरणेनात्मानं न ज्ञायमानः, चेतस उपक्लेशकरेण, प्रज्ञादौर्बल्यकरेण, विघातपक्ष्येणैवमसावात्मानमेवाधिपतिं कृत्वा आवरणीयेभ्यो धर्मेभ्यश्चित्तं परिशोधयति ।

कथं लोकमधिपतिं कृत्वा आवरणीयेभ्यो धर्मेभ्यश्चित्तं परिशोधयति । इहास्या (स्य) निवरणे (१०५) समुत्पन्ने, उत्पत्तिकाले वा प्रत्युपस्थिते । एवं भवत्यहं चेदनुत्पन्नं निवरणमुत्पादयेयं, शास्ता मे अपवदेद्, देवता अपि, विज्ञा अपि, सब्रह्मचारिणो [अ]धर्मतया विगर्हयेयुरिति । स लोकमेवाधिपतिं कृत्वा आवरणीयेभ्यो धर्मेभ्यश्चित्तं परिशोधयति । इहास्य निवरणे समुत्पन्ने, उत्पत्तिकाले वा प्रत्युपस्थिते, एवं भवत्यहं चेदनुत्पन्नं निवरणमुत्पादयेयम् । शास्ता मे अपवदेद्, देवता अपि । विज्ञा अपि, सब्रह्मचारिणो [अ]धर्मतया विगर्हयेयुरिति । स लोकमेवाधिपतिं कृत्वा, अनुत्पन्नं च निवरणं नोत्पादयति, उत्पन्नं च प्रजहाति । एवं लोकमधिपतिं कृत्वा आवरणीयेभ्यो धर्मेभ्यश्चित्तं परिशोधयति । शयनासनप्रतिगुप्त्यर्थं पुनर्लोकाचारञ्चानुवृत्तो भविष्यतीति यावद्रात्र्याः प्रथमे यामे चंक्रमनिषद्याभ्यामावरणीयेभ्यो धर्मेभ्यश्चित्तं परिशोधयति । आवरणीयेभ्यो धर्मेभ्यश्चित्तं परिशोध्य बहिर्विहारस्य पादौ प्रक्षालयति । प्रक्षाल्य, विहारं प्रविश्य, शय्यां कल्पयति । यावदेव स्वस्यो (यौ)पचयिकानाम्महाभूतानामुपचयाय [।] उपचितो [अ]यं कायः कर्मण्यतरश्च भविष्यति । अनुकूलतरश्च सातत्येनै[क]पक्ष्ये कुशलपक्षप्रयोगे ।

केनकारणेन पार्श्वेन शय्यां कल्पयति । (१०६) सिंहस्य प्राणिनः साधर्म्येण [।] किं पुनरत्र साधर्म्यं [।] सिंहः प्राणं (प्राणी) सर्वेषां तिर्यग्योनिगतानां प्राणिनां विक्रान्त, उत्साही, दृढपराक्रमः । भिक्षुरपि जागरिकानुयुक्त आरब्धवीर्यो विहरति । विक्रान्त, उत्साही, दृढपराक्रमः । अतस्तस्य सिंहोपमैव शय्या प्रतिरूपा भवदि(ति), नो तु प्रेतशय्या, देवशय्या, न का[म]भोगशय्या । तथा हि ते सर्व एव कुसीदा, हीनवीर्या, च(म)न्दबलपराक्रमाः । अपि तु धर्मतैषा यद्दक्षिणेन पार्श्वेन सिंहोपमां शय्यां कल्पयतो न तथा गात्राणां विक्षेपो भवति । न च शयानस्य स्मृतिसंप्रमोषो भवति । न च गाढं स्वपिति । पापकांश्च स्वप्नां (प्नान्) न पश्यति । अन्यथा तु शय्यां कल्पयतो विपर्ययेण सर्वे दोषा वेदितव्याः । तेनाह दक्षिणेन पार्श्वेन शय्यां कल्पयति ।

आलोकनिमित्तमनेन सूद्गृहीतं भवति । सुमनसिकृतम् । सुजुष्टं, सुप्रतिविद्धम् । यदेव मनसि कुर्वन् स प्रभा सहगतेन चित्तेन शय्यां कल्पयति । सुप्तस्यापि चास्य येन न भवति चेतसः [।] अन्धकारायितत्वमेवमालोकसंज्ञीशय्यां कल्पयति ।

कथं स्मृत[ः] शय्यां कल्पयति । य (ये) अनेनधर्मा[ः] श्रुता भवन्ति । चिन्तिता, भाविता वा, (१०७) कुशला अर्थोपसंहितास्तदन्वया [अ]स्य स्मृतिर्यावत्स्वपनकालानुवर्त्तिनी भवति । यथास्य सुप्तस्यापि त एव धर्मा जाग्रतो वा अभिलपन्ति, तेष्वेव च धर्मेषु तच्चित्तं बहुलमनुविचरति । इति यथास्मृत्या यथास्मृतः । कुशलचित्तशय्यां कल्पयति । अव्याकृतचित्तो वा [।] एवं स्मृतः शय्यां कल्पयति ।

कथं संप्रजानन्तो (जानन्) शय्यां कल्पयति । सुप्तस्यास्य तथा स्मृतस्य यस्मिन्समये [अ]न्यतमान्यतमेनोपक्लेशेन चेतसः संक्लेशो भवति । स उत्पद्यमानमेव तं संक्लेशं सम्यगेव प्रजानाति, नाधिवासयति, प्रजहाति, प्रतिविध्यति । प्रत्युदावर्त्तयति मानसम् । तेनोच्यते संप्रजानं(नन्) शय्यां कल्पयति ।

कथमुत्थानसंज्ञामेव मनसिकुर्वन् शय्यां कल्पयति । स वीर्यसंप्रगृहीतं चित्तं कृत्वा शय्यां कल्पयति । सुप्रतिबुद्धिकया सुहर्षक्त (सुहृष्टचित्त)स्तद्यथा आरण्यको मृगः । नो तु सर्वेण सर्वं विद्धमवक्रमणनिम्नं चित्तं करोति । तत्प्रवणम् । न तत्प्राभो (भा)रमपि (।) चास्यैवं भवति । अहो बताहं बुद्धानुज्ञातां जागरितां (कां)सर्वेण सर्वं सर्वथा सम्पादयेयमिति । तस्याश्च सम्पादनार्थं त्वाशंसेन, रसेन, प्रयोगेण, छन्दगतो विहरत्यभियुक्तश्च [।] अपि चास्यैवं भवति । यथाहमद्य (१०८) जागरिकार्थमारब्धवीर्यो व्यहार्षं, कुशलानाञ्च धर्माणां भावनायै, दक्षो [अ]नलस, उत्थानसम्पन्नः, श्वः प्रभाते, निर्गतायां च रजन्यां, भूयस्या मात्रया आरब्धवीर्यो विहरिष्यामि उत्थानसम्पन्न इति । तत्रैकया उत्थानसंज्ञया गाढं स्वपिति । येनाहं (यं) शक्नोति लघु लघ्वेव उत्थानकाले उत्थातुं, न कालातिक्रान्तं प्रतिबुध्यति । द्वितीययोत्थानसंज्ञया बुद्धानुज्ञातां सिं[हश]य्यां कल्पयत्यन्यूनामनधिकाम् । तृतीययोत्थानसंज्ञया छन्दंन स्रन्स(स्रंस)यति । सति स्मृतिसंप्रमोषे, सत्युत्तरत्रोत्तरत्र समादानाय प्रयुक्तो भवति । एवमुत्थानसंज्ञामेव मनसि कुर्वन् शय्यां कल्पयति ।

स रात्र्याः पश्चिमे यामे लघु लघ्वेव प्रतिविबुध्यावरणीयेभ्यो धर्मेभ्यश्चित्तं परिशोधयतीति । पश्चिमो याम उच्चते । यो [अ]पररात्रः सातिरेकप्रहरं (रः) । स चायमालोकसंज्ञी स्मृतः । संप्रजान[न्], उत्थानसंज्ञामेव मनसि कुर्वन्, मध्यमं यामं सातिरेकं प्रहरं मिद्धमवक्रामयित्वा (क्राम्य), यस्मिं (स्मिन्) समये व्युत्तिष्ठते । तत्र तस्मिं (स्मिन्) समये व्युत्तिष्ठते । कर्मण्यकायो भवति । उत्थाय, नाधिमात्रेण स्त्यानमिद्धपर्यवस्थानेनाभिभूतः । येनास्योत्तिष्ठतो धन्धायितत्वं वा स्यान्मंदायितच्च(त्व)म्वा, आलस्यकौसीद्यम्वा [।] असति वा (१०९) पुनस्तस्मिन्धन्धायितत्वे, मन्दायितत्वे, आलस्यकौसीद्ये, लघु लघ्वेवोत्थानं भवत्याभोगमात्रादेव नो संग्रामं वा कृत्वा आवरणीयेभ्यो धर्मेभ्यः परिशुद्धिः पूर्ववद्वेदि तव्याः (व्या) । अयं तावत्पूर्वरात्रापरंरात्रं जागरिकानुयोगस्य विस्तरविभागः ।

समासार्थाः पुनः कतमे । इह जागरिकायोगमनुयुक्तस्य पुरुषपुद्गलस्य चत्वारि सम्यक्करणीयानि भवन्ति । कतमानि चत्वारि । यावज्जाग्रति (गति) तावत्कुशलपक्षं न रिंचति । सातत्येनै[क]पक्ष्यकुशलधर्मभावनायां कालेन च शय्यां कल्पयति । नाकालेन । सुप्तश्चासंक्लिष्टचित्तो मिद्धमवक्रामयति । न संक्लिष्टचित्तः [।] कालेन च प्रतिविबुध्यते(ति) । नोत्थानकालमतिवर्तते । इतीमानि चत्वारि सम्यक्करणीयान्यारम्य भगवता श्रावकाणां जागरिकानुयोगो देशितः ।

कथं च पुनर्देशितः । यत्तावदाह [।] दिवा चंक्रमनिषद्याभ्यामावरणीयेभ्यो धर्मेभ्यश्चित्तं परिशोधयति । एवं रात्र्याः प्रथमयाममि (इ)त्यनेन तावत्प्रथमं सम्यक्करणीयमाख्यातम् । यदुत यावज्जाग्रति (गर्ति)तावत्कुशलपक्षं न रिंचति । सातत्येनै[क]पक्ष्यकुशलधर्मभावनायाम् । यस्मात्(११०) पुनराह । बहिर्विहारस्य पादौ प्रक्षाल्य, विहारं प्रविश्य, दक्षिणेन पार्श्वेन शय्यां कल्पयति । पादे पादमाधायेत्यनेन द्वितीयं सम्यक्करणीयमाख्यातम् । यदुत कालेन शय्यां कल्पयति । नाकालेन । यत्पुनराह । आलोकसंज्ञी स्मृतः । संप्रजान[न्], उत्थानसंज्ञामेव मनसि कुर्वन्, शय्यां कल्पयतीत्यनेन तृतीयं सम्यक्करणीयमाख्यातम् । यदुत असंक्लिष्टचित्तो मिद्धमवक्रामयति (क्रमते) । न संक्लिष्टचित्त इति । यत्पुनराह रात्र्याः पश्चिमे यामे लघु लघ्वेव प्रतिविबुध्य आवरणीयेभ्यो धर्मेभ्यश्चित्तं परिशोधयतीत्यनेन चतुर्थं सम्यक्करणीयमाख्यातम् । यदुत कालेन प्रतिविबुध्यति । नोत्थानकालमतिवर्तते । इति तत्र यदुक्तमालोकसंज्ञी स्मृतः, संप्रजानन्, व्युत्थानसंज्ञामेव मनसि [कुर्व]न् शय्यां कल्पयतीति । अतो द्ववाभ्यां कारणाभ्यामसंक्लिष्टचित्तो मिद्धमवक्रामयति । यदुत स्मृत्या, संप्रजन्येन, द्वाभ्यां पुनः कारणाभ्यां कालेन प्रतिविबुध्यते । नो तु कालमतिवर्तते । यदुतालोकसंज्ञया, उत्थानसंज्ञया च । कथं पुनः कृत्वा कुशलमालम्बनं परिगृह्य स्वपिति । संप्रजन्येन, तस्मात्, कुशलादालम्बनाच्च्यवमानं, (१११) संक्लिश्यमानं चित्तं लघु लघ्वेव सम्यक्प्रजानाति । एवमस्याभ्यां द्वाभ्यां कारणाभ्यामसंक्लिष्टचित्तस्य शय्या भवति । तत्रालोकसंज्ञया, उत्थानसंज्ञया च । न गाढं स्वपिति । नास्य दूरानुगतं तन्मिद्धपर्यवस्थानं भवति । इत्याभ्यां द्वाभ्यां कारणाभ्यां कालेन [प्रति]विबुध्यते (ति) । नोत्थानकालमतिवर्तते । अयं जागरिकानुयोगस्य समासार्थो (र्थः) [।] यश्च पूर्वको विस्तरविभागः, यश्चायं समासार्थः । इयमुच्यते पूर्वरात्रापररात्रं जागरिकानुयुक्ता ॥

संप्रजानद्विहारिता कतमा । यथापीहैकत्यः अभिक्रमप्रतिक्रमे संप्रजानद्विहारी भवति । आलोकितव्यवलोकिते, संमिंजित (साम्मिञ्जित)प्रसारिते, संघाटीचीवरपात्रधारणे । अशिते, पीते, खादिते, स्वादिते, निषण्णे, शयिते, जागृते, प्र[ल]पिते, तूष्णींभावे, निद्राक्लमविनोदने संप्रजानद्विहारी भवति ।

(११२)
तत्र कतमो [अ]भिक्रमः । प्रतिक्रमः कतमः । अभिक्रमप्रतिक्रमे सम्प्रजानद्विहारिता [कतमा] ।

तत्राभिक्रमः [।] यथापीहैकत्यो ग्रामम्वा उपक्रामति । ग्रामान्तरम्वा, कुलम्वा, [कुलान्तरम्वा, विहारम्वा], विहारान्तरम्वा [।]

तत्र प्रतिक्रमः । यथापीहैकत्यः ग्रामान्तराम्वा (ग्रामाद्वा) प्रतिनिवर्त्तते । ग्रामान्तराद्वा, कुलाद्वा, कुलान्तराद्वा, विहाराद्वा, विहारान्तराद्वा [।]

तत्र संप्रजानद्विहारिता (याः) ॥ अभिक्रम[मा]णे (णो) अभिक्रमामीति सम्यगेव प्रजानाति । अत्र मया अभिक्रमितव्यम् । अत्र मया पुनर्नाभिक्रमितव्यमिति । सम्यगेव प्रजानति । अयम्वा मे अभिसंक्रमणकालः अयं नाभिसंक्रमणकाल इति । सम्यगेव प्रजानाति । इदमस्योच्यते संप्रजन्यं [।] स चेत्तेन संप्रजन्येन (११३) समन्वागतः । अभिक्रममाणः प्रजानात्यभिक्रमामीति । यत्र चानेनाभिक्रमितव्यं भवति । तत्र चाभिक्रमति । कालेन चाभिक्रमति नाकालेन । यथा चाभिक्रमितव्यम् । यद्रूपया [च] य(र्य)या आचारेणाकल्पेन ईर्यापथेन तथा अभिक्रमतीयमस्योच्यते संप्रजानाद्विहारिता यदुताभिक्रमप्रतिक्रमः (मयोः) ।

तत्र कतमदालोकितं, कतमद्व्यवलोकितम् । कतमा आलोकितव्यवलोकित संप्रजानाद्विहारितः (ता) । तस्यास्य पूर्वपरिकी[र्त्तितेषु धमषु] अभिक्रमतः, प्रतिक्रमतश्च यदबुद्धिपूर्वकमच्छन्दपूर्वकम् । अ[न्तरे]ण चक्षुषा रूपदर्शनमिदमुच्यते आलोकितम् ।

यत्पुनरुपसंक्रान्तस्य बुद्धिपूर्वकं प्रयत्नपूर्वकं, कृत्यपूर्वकं चक्षुषा रूपदर्शनं, तद्यथा राज्ञा(ज्ञां) राज्या(जा)मात्राणां, नैगमानां, जानपदानाम्वा, ब्राह्मणानाम्वा, धनिनां, श्रेष्ठिनां, सार्थवाहानां, तदन्येषाम्बाह्यकानांलयनानां, मारुतानामवरकाणां, प्र(प्रा)सादानां, हर्म्यतलानामिति । यद्वा पुनरन्येषां लोकचित्राणां दर्शनमिदमुच्यते । व्यवलोकितम् ।

यत्पुनरालोकितं च व्यवलोकितं च स्वलक्षणतः (११४) सम्यगेव प्रजानाति । यथा आलोकि(कयि)तव्यं, यथा व्यवलोकयितव्यं तदपिसम्यगेव प्रजानाति । इदमस्योच्यते संप्रजन्यं [।] स तेन संप्रजन्येन समन्वागतः । सचेदवलोकयमानो जानात्यवलोकयामीति । यच्चावलोकयितव्यं व्यवलोकयितव्यं तदालोकयति व्यवलोकयति । यदा आलोकयितव्यं, व्यवलोकयितव्यम् । तदा आलोकयति, व्यवलोकयति [।] यथा आलोकयितव्यं व्यवलोकयितव्यं तथा आलोकयति, व्यवलोकयति । इयमस्योच्यते । संप्रजानद्विहारिता । यदुतालोकितव्यवलोकिते [।]

तत्र कतमत्संमिजि(सम्मिञ्जि)तं, कतमत्प्रसारितं, कतमा संमिजि(सम्मिञ्जि)तप्रसारिते संप्रजानद्विहारिता । स तथा आलोकयमानो, व्यवलोकयमानश्च । अभिक्रमपूर्वकं, प्रतिक्रमपूर्वकञ्च, यत्पादौ वा सम्मिंजयति, प्रसारयति । बाहू वा संमि(मिं)जयति । प्रसारयति । हस्तौ वा संमि(मिं)जयति, प्रसारयति । इत्यन्यतमान्यतमम्वा अंगप्रत्यंगं सम्मिञ्जियति । प्रसारयतीदमुच्यते । संमि(मिं)जित प्रसारितं [।] सचेत्संमि(मिं)जितप्रसारितं स्वलक्षणतः प्रजानाति संमि(मिं)जितव्यम् । प्रसारितव्यञ्च । सम्यगेव प्रजानाति । यादि च संमि(मिं)जि(जयि)तव्यं, यदा प्रसारि(रयि)तव्यं तदपि सम्यगेव प्रजानाति । यथा च संमि(मिं)जि(जयि)तव्यं, यथा (११५) प्रसारि(रयि)तव्यं, तदपि सम्यगेव प्रजानाति, इदमस्योच्यते संप्रजन्यम् ।

स तेन संप्रजन्येन समन्वागतः । स चेत्संमिज(सम्मिञ्ज)यमानः(यन्), प्रसारयमाणः(यन्) । जानाति । संमि(मिं)जयामि । प्रसारयामीति । यच्च संमि(मिं)जयितव्यं प्रसारयितव्यं संमि(मिं)जयति, प्रसारयति । यदा च संमि(मिं)जयितव्यं, प्रसारयितव्यं तदा संमि(मिं)जयति, प्रसारयति, इयमस्योच्यते । संप्रजानद्विहारिता यदुत संमिंजि(सम्मिञ्जि)त प्रसारिते ॥

तत्र कतमत्संघाटीधारणम् । कतमच्चीवरधारणं, कतमत्, पात्रधारणं, कतमा(मत्)सां(सं)घाटीचीवरपात्रधारणं (णे) । संप्रजानद्विहारिता ।

यत्तावदस्य ज्येष्ठं चीवरं षष्ठिखन्नम्वा (खण्डं वा) नवतिखन्नम्वा(खण्डं वा), द्विगुणसीवितम्वा, एकगुणसीवितम्वा इयमुच्यते सांघाटी (संघाटी) [।] तस्य प्रावरणं परिभोगः । सम्यगेव परिहरणं धारणमित्युच्यते ।

यत्पुनरस्य मध्यम्वा, कनीयो वा, आधिष्ठानिकम्वा ची[वरं] अतिरेकचीवरं वा । आधिष्ठानिकं वा । चीवरमतिरेकचीवरम्वा विकल्पनार्हं विकल्पयति (११६) तच्चीवरमित्युच्यते । तस्य प्रावरणं परिभोगः । सम्यगेव परिहरणं धारणमित्युच्यते । यत्पुनरस्याधिष्ठानानि कमा(र्मा)यसम्वा, मृन्मयम्वा भैक्षभोजनमिदमुच्यते । पात्रं, तस्य परिभोगः । सम्यगेव परिहरणं धारणमित्युच्यते ।

स चेत्पुनरयं तां सां (सं)घाटीं, चीवरं, पात्रं, धारणम्वा स्वलक्षणतः सम्यगेव प्रजानाति । यच्च सां (सं)घाटीचीवरपात्रधारणम् । कल्पिकं, अकल्पिकं वा, तदपि सम्यगेव प्रजानति । यदा च सां (सं)घाटीचीवरपात्रधारणं धारयितव्यं (कर्त्तव्यं) । तदा सम्यगेव प्रजानाति । यथा च धारयितव्यं, तदपि सम्यगेव प्रजानाति । इदमस्योच्यते । संप्रजन्यम् । स तेन संप्रजन्येन समन्वागतः । सचेत्सां (सं)घाटी(टीं), चीवरं, पात्रं धारयमाणो जानाति धारयामीति । यच्च धारयितव्यं तद्धारयति । यदा च धारयितव्यं तदा धारयति । यथा च धारयितव्यं तथा धारयतीयमस्योच्यते संप्रजानद्विहारिता । यदुत सां (सं)घाटीचीवरपात्रधारणे ।

तत्र कतमदशितम् । कतमत्पीतम् । कतमत्खादितम् । कतमत्स्वादितम् । कतमा अशितपीतखादितास्वादिते[षु] संप्रजानद्विहारिता । यः कश्चित्पिण्डपातपरिभोगः सर्वं तदशितमित्युच्यते । तस्य पुनर्द्विधा भेदः खादितं; स्वादितं च । तत्र खादितम् । मन्था (११७) वा, [अ]पूपा वा, ओदनकुल्माषम्वेति यद्वा पुनरन्यतमाभिसंस्कारिकमन्नं विकृतं भोज्यं प्राणसंधारणमिदमुच्यते खादितमशितमपीतम् ।

स्वादितं कतमत् । तद्यथा क्षीरं, दधि, नवनीतं, सर्पिस्तैलं, मधु, शो(फा)णितं, मान्सं (मांसं), मत्स्या, वल्लूरा, लवणं, वनफलम्वा, भक्ष(क्ष्य)प्रकारं वा इदमुच्यते स्वादितमशितमपि (पी)तम् ॥

यत्पुनः पीयते खण्डरसं(सो)वा, शर्करारसम्वा (सो वा), कांचिकम्वा, दधिमण्डम्वा । शुक्तम्वा, तक्रम्वा, अन्ततः पानीयमपि [।] इदमुच्यते पीतम् ।

स चेदशितपीतखादितास्वादितं स्वलक्षणतः सम्यगेव प्रजानाति । यच्चाशितव्यं, पातव्यं, खादितव्यं, स्वादि(दयि)तव्यं तदपि सम्यगेव प्रजानाति । यदा चाशितव्यं, पातव्यं खादितव्यं, स्वादि(दयि)तव्यं तदेव (तदपि) सम्यगेव प्रजानाति । यथा चाशितव्यं, पातव्यं, खादितव्यम् । स्वादि(दयि)तव्यम् । तदपि सम्यगेव प्रजानाति । इदमस्योच्यते संप्रजन्यं [।]

स तेन संप्रजन्येन समन्वागतः अशमानः (अशन्), पिबमानः (पिबन्), खादमानः (खादन्), स्वादयमानः (स्वादयन्) स चेज्जानाति । अश्नामि, पिबामि, खादामीति । यच्चाशितव्यं, पातव्यं, खादितव्यं, (११८) तदश्नातियावत्स्वादयति । यदा चाशितव्यं (याव)त्स्वादयितव्यम् । तदा अश्नाति, स्वादयति । यथा चाशितव्यंयावत्स्वादयितव्यं तथा [अ]श्नाति । यावत्स्वादयितव्यमि (यावत्स्वादयती)यमस्योच्यते यावत्संप्रजानद्विहारिता । यदुताशितपीतखादितास्वादिते[षु] [॥]

तत्र कतमद्गतं, कतमत्स्थितं, कतमन्निषण्णम् । कतमच्छयितम् । कतमज्जागृतम् । कतमद्भाषितं, कतमत्तू(मस्तू)ष्णीम्भावः । कतमा निद्राक्लमप्रतिविनोदना । कतमा गते, स्थिते, निषण्णे शयिते, जागृते, भाषिते, तूष्णीम्भावे, निद्राक्लमविनोदना[यां] संप्रजानद्विहारिता । यथापीहैकत्यश्चंक्रमे चंक्रम्यते(मते), सहधर्मिकाणां चोपसंक्रामति । अध्वानं वा प्रतिपद्यते । इदमस्योच्यते गतम् । यथापीहैकत्यश्चंक्रमे वा तिष्ठति, सहधार्मिकाणां वा पुरतस्तिष्ठति । आचार्याणामुपाध्यायानां गुरूणां गुरुस्थानीयानामिदमुच्यते स्थितम् । यथापीहैकत्यो मंचे, वा, पीठे वा, तृणसंस्तरणे वा, सन्निविशति वा, सन्निषीदति वा । पर्यङ्कमाभुज्य, ऋजुं कायं प्रणिधाय, प्रतिमुखां (खीं) स्मृतिमुपस्थाप्येदमुच्यते । निषण्णम् । यथापीहैकत्यो (११९) बहिर्विहारस्य पादौ प्रक्षाल्य, विहारं प्रविश्य, दक्षिणेन पार्श्वेन सिंहशय्यां कल्पयति । पादे पादमाधाय, मञ्चे वा, पीठे वा, तृणसंस्तरके(णे) वा, अरण्ये, वृक्षमूले वा, शून्यागारे वा [।] इदमुच्यते शयितम् ।

यथापीहैकत्यो दिवा चंक्रमनिषद्याभ्यामावरणीयेभ्यो धर्मेभ्यश्चित्तं परिशोधयत्येवं रात्र्याः प्रथमे यामे, पश्चिमे यामे [।] इदमुच्यते जागृतम् ।

यथापीहैकत्यस्तथा जागरिकानुयुक्तः अनुद्दिष्टांश्च धर्मानुद्दिशति । पर्यवाप्नोति । तद्यथा सूत्रं, गेयं, व्याकरणमिति । विस्तरेण पूर्ववत् । उद्दिष्टेषु च धर्मेषु वचसा परिचयं करोति । यदुत विस्तरेण स्वाध्यायक्रियया, परेषां वा विस्तरेण संप्रकाशयति । कालेन कालमालपति । प्रतिसंमोदय[ति वि]ज्ञैः सब्रह्मचारिभिस्सार्द्धं, तदन्यैर्वा गृहस्थैर्यावदेवोद्योजनं परिष्कारार्थमिदमुच्यते । भाषितम् ।

यथापीहैकत्यो यथाश्रुतानां, यथा पर्य[वा]तप्तानान्धर्माणाम्मनसा परिजितानां, एकाकी रहोगतो [अ]र्थं चि[न्तय]ति, तुलयत्युपपरीक्षते । प्रतिसंलीनो वा पुनः भवत्यध्यात्ममेव चित्तं स्थापयति । दमयति [।] शमयति । व्युपशमयति । एकोतीकरोति । (१२०) समाधत्ते [।] विपश्यनायाम्वा योगं करोत्ययमुच्यते तूष्णीम्भावः ।

यथापीहैकत्यः ग्रीष्मसमये प्रत्युपस्थिते, उत्तप्तग्रीष्मपरिदाहे काले वर्तमाने, उष्णन वा बाध्यते । श्रान्तो वा भवति । क्लान्तस्योत्पद्यते । अकाले निद्राक्लमः स्वपितुकामतः (ता) । अयमुच्यते निद्राक्लमः ।

स चेत्पुनरयं गतं यावन्निद्राक्लमविनोदनम् । तत्स्वलक्षणतः सम्यगेव प्रजानाति । यत्र च गन्तव्यं यावन्निद्राक्लमः प्रतिविनोदयितव्यः । तदपि सम्यगेव प्रजानाति । यदा च गन्तव्यम् । यावद्यथा निद्राक्लमः । प्रतिविनोदयितव्यः । तदपि सम्यगेव प्रजानाति । यथा च गन्तव्यं भवति । यत्र (यथा) च यावन्निद्राक्लमः । प्रतिविनोदयितव्यः तदपि सम्यगेव प्रजानाति । इदमस्योच्यते संप्रजन्यं [।]

स तेन संप्रजन्येन समन्वागतः । गच्छन् यावन्निद्राक्लमः (मं) प्रतिविनोदयन् स चेज्जानाति । (गच्छामि) गच्छामि यावत्(न्) निद्राक्लमं प्रतिविनोदयामि । यत्र च गन्तव्यं भवति । यत्र च यावन्निद्राक्लमः प्रतिविनोदयितव्यो भवति । तदा गच्छति । तदा यावन्निद्राक्लमं प्रतिविनोदयति । यथा च गन्तव्यं भवति । यथा यावन्निद्राक्लमः । प्रतिविनोदयितव्यो भवति । तथा गच्छति । तथा (१२१) यावत् । निद्राक्लमं प्रतिविनोदयतीयमस्योच्यते (।)[।]

संप्रजानद्विहारिताया[ः] कतमा आनुपूर्वो, कतमा च स्तुतिभावना, यथापीहैकत्यो यं यमेव ग्रामं वा निगमम्वोप[नि]श्रित्य विहरति । तस्यैवं भवति । मया खल्वयं ग्रामो वा, निगमो वा पिण्डायोप[सं]क्रमितव्यः । पिण्डाय चरित्वा, पुनरेव विहारं [प्रति]निष्क्रमितव्यं [।]

सन्ति(।) पुनरत्र कुलानि ग्रामे वा, नगरे वा, यानि मया नोपसंक्रमितव्यानि । तानि पुनः कतमानि । तद्यथा । घोषं(षः), पानागारं, वेश्यं, राजकुलं, चण्डालकठिनमिति । यानि वा पुनः कुलान्येकान्तेन प्रतिहतान्यप्रत्युदावर्त्तानि [।] सन्ति च पुनः कुलानि यानि मयोपसंक्रमितव्यानि । तद्यथा क्षत्रियमहासालकुलानि वा, ब्राह्मणमहासालकुलानि वा, नैगमकुलानि वा, जानपदकुलानि वा, धनिकुलानि वा, श्रेष्ठिकुलानि वा, सार्थवाहकुलानि वा मयोपसंक्रमितव्यानि, तानि नातिसायमुपसंक्रमितव्यानि । तानिविकालं, न च कार्यव्यग्रेषु दायकदानपतिषु, न (१२२) क्रीडारतिमण्डनयोगमनुयुक्तेषु, न ग्राम्यधर्माय प्रवृत्तेषु, न कुपितेषु [।] तथा चोपसंक्रमितव्यानि यथोपसंक्रमन्नहन्न भ्रान्तेन हस्तिना सार्धं समागच्छेयं, न भ्रान्तेन स्थेन, पुनः चण्डेनाश्वेन, न चण्डया गवा, न चण्डेन कुक्कुरेण, न गहनं, न कण्टकावाटं वा मर्देयम् । न श्वभ्रे, पल्वले, प्रपाते प्रपतेयम् । न स्यन्दिकायां, न गूथकठिल्लचन्द्रोपमश्च कुलान्युपसंक्रमेयम् । ह्रीमानप्रगल्भः व्यवकृष्य कायं, व्यवकृष्य चित्तं, न लाभकामो न सत्कारकामः । यथा स्वेन लाभेन सुचित्तः, सुमनास्तथा परस्याविप्रलाभेन सुचित्तः, सुमनाः अनन्योत्कर्षी, अपरपंसकः । अनुकम्पाचित्तो, दयाचित्तः । एवं च पुनरुपसंक्रमितव्यानि । तत्कुत एतल्लभ्यं प्रव्रजितेन परकुलेषु यद्ददतु मे परे, मा वा ददतु, यावत्त्वरितं मा धन्धमिति विस्तरेण [।] उपसंक्रम्य च मे [मया] प्रतिग्रहे मात्रा करणीया । न च लाभहेतोः कुहना करणीया । लपना, नैमित्तिकता, नैष्पेषिकता, लाभेन लाभनिश्चिकीर्षता करणीया(ः) । स च लाभः अरक्तेन परिभोक्तव्य[ः], असक्तेनागृद्धेनाग्रथितेनामूढितेन, अनध्यवसितेनाध्यवसायमापन्नेन [।] यानि च रूपाणि तत्रोपसंक्रमता उपसंक्रान्तेन वा द्रष्टव्यानि भवन्ति । तान्येकत्यानि द्रष्टव्यानि । तत्र यानि न द्रष्टव्यानि तेषु उत्क्षिप्तचक्षुषा भवितव्यम् । सुसंहृतेन्द्रियेण, यानि पुनर्द्रष्टव्यानि (१२३) तेषु सूपस्थितां स्मृतिमुपस्थाप्य [।]

कथं रूपाणि [पुना] रूपाणि नावलोकयितव्यानि । तद्यथा न नर्त्तको, न हासको, न लासक इति [।] यद्वा पुनरन्यच्चावरणजातं नृत्ते वा, गीते वा, वादिते वा प्रवृत्तं [।] तथा मातृग्रामो विशेषेण पुनः शिशुरुदारवर्णो र[ञ्जनी]य इति यानि च पुना रूपाणि दृष्टानि ब्रह्मचर्योपघातिभिः ब्रह्मचर्यान्तरायाय, पापकानां चाकुशलानाम्वितर्काणां समुदाचाराय सम्वर्त्तेरन् । तद्रूपाणि रूपाणि नावलोकयितव्यानि, न व्यवलोकयितव्यानि [।]

कथं रूपाणि पुना रूपाणि द्रष्टव्यानि । तद्यथा जीर्णम्वा, वृद्धम्वा, महल्लकम्वा, खुरु खुरु प्रश्वासकायं, पुरतः प्राभो(भा)रकायं दण्डभवष्टभ्य, प्रवेपमानकायेन आबाधिकम्वा, दुःखितम्बाढग्लानं, आध्मातपादमाध्मातहस्तमाध्मातोदरमाध्मातमुखं, पाण्डुकविवर्णं, दद्रूलम्वा, कच्छू(ण्डू)लम्वा, कुष्ठितम्वा, दुःखितहतगात्रम् । पक्वगात्रमुपहतेन्द्रियम् । मृतम्वा कालगतं, एकाहमृतम्वा, द्वाहमृतम्वा, सप्ताहमृतम्वा । काकैः कुररैः खाद्यमानं, गृद्धैः, श्वभिः, श्रृगालैर्विविधैर्वा तिर्यग्जातिगतैः प्राणिभिर्भक्ष्यमाणमर्ह्नियमाणम्वा, मंचे आरोप्योपरि वितानेन प्रसारितेन, पुन(र)ः पृष्ठतश्च महाजनकायेन रोदमानेन, क्रन्दमानेन, (१२४) तस्मा (स्या) वकीर्णप्रमुक्तकेशेन, तथा शोकजातं, दुःखजातम् । परिदेवजातम् । दौर्मनस्यजातं, उपायासजातं यन्मया द्रष्टव्यमित्येवं रूपाणि चान्यानि चैवंभागीयानि रूपाणि द्रष्टव्यानि । यानि ब्रह्मचर्यानुग्रहाय, कुशलानां च वितर्काणां समुदाचाराय(ं) सम्वर्त्तन्ते । न कायप्रचालकमुपसंक्रामितव्यं, न बाहुप्रचालकं, न शीर्षप्रचालकं, नोच्चग्मिकया न हस्तावलग्निकया, न सोड्ढक्किकया, नाननुज्ञातेन । ना (आ)सने निषत्तव्यम् । ना [अ]प्रत्यवेक्ष्यासनं, न सर्वकायं समवधाय, न पादे पादमाधाय, न सक्थि सक्थिना, नाभिसंक्षिप्य पादौ, नाभिविक्षिप्य पादौ, नोद्गुण्ठिकया कृ(वृ)तेन, नोच्च(द्ध?)स्तिकया, न वितस्तिकया, न पर्यस्तिकया, परिमण्डलं चीवरं प्रावृत्य, नात्युत्कृष्टं, नात्य[पकृ]ष्टं, न हम्धी(स्ति)शुण्डकं, न तालवृन्तकं, न नागफलकम् । न कुल्माषपिण्डिकं प्रावरितव्यं, नानागते खादनीये पात्रमुपनामयितव्यं, न च खादनीयभोजनीयस्योपरि कार[यितव्यं] । नानास्तीर्णे पृथिवीप्रदेशे प्रपाते प्राभो(भा?)रे पात्रं स्थापयितव्यं, सावदानं (ः) पिण्डपातं (तः) परिभोक्तव्यं (व्यः) । नो(न ओ)दनेन स्नापिकं प्रतिछा(च्छा)दयितव्यम् । न सूपिकेनोदेनमतित्तिनिकायोगमनुयुक्तेन (सूपिकेन, न ओदनेन, न (१२५) तित्तिनिकायोगमनुयुक्तेन) परिभोक्तव्यं, नातिस्थूलं, नातिपरीत्तं परिमण्डलयालोपमालोपयितव्यं (आलोप आलोपयितव्यः) । न हस्तावलेहकं (कः), न पात्रावलेहकं (कः) । न हस्तसंथूनकं (कः), न पात्रसंथूनकं(कः) । न कबडच्छेदकं (कः) पिण्डपातं (तः) परिभोक्तव्यं (व्यः) ॥ विहारगतेनापि मे (मया) तेभ्यः कुलेभ्यः प्रत्यागतेन, (प्रत्यागतेन) प्रतिनिष्क्रान्तेन, दिवा वा, रात्रौ वा, प्रातिपुद्गलिके चंक्रमे चंक्रमितव्यम् । न परक्ष्ये (परोक्षे) । अविश्वास्य, अप्रवारितेन, अनुद्दिष्टेन, श्रान्तकायेन, क्लान्तकायेन, नौद्धत्याभिनिगृहीते चित्ते कुशलपक्षप्रयुक्तेनामनसिकारानुगतेनान्तर्गतैरिन्द्रियैरबहिर्गतेन मानसेन, नातिद्रुतं, नातिचपलं, नैकान्तेन गमनप्रत्यागमनप्रतिसंयुक्तेन, कालेन कालं गच्छता, कालेन कालं तिष्ठता, तथा स्वे विहारे । स्वे परिगणे, स्वक्यां कुटिकायां, उद्देशिकायां, प्रातिपौद्गलिकायां, न परपक्ष्यायामविश्वास्यायामप्रवारितायां,
तथा मंचे वा, पीठे वा, तृणसंस्तरके (णे) वा, अरण्ये वा, वृक्षमूले वा, शून्यागारे वा, निषत्तव्यम् । पय(र्य)ङ्कमाभुज्य, ऋजुं कायं प्रणिधाय, प्रतिमुखां(खीं)स्मृतिमुपस्थाप्य, रात्र्या मध्समे यामे स्वपितव्यम् । दिवापूर्वकञ्च(श्च) यामं(मः) कुशलपक्षेणातिनामयितव्यं(व्यः) । एवं च पुनःस्वपितव्यं [।]।

(१२६)
आलोकसंज्ञिना स्मृतेन संप्रजा[ना]नेन, उत्थानसंज्ञामेव मनसि कुर्वता, रात्र्या[ः] पश्चिमे यामे लघुलध्वेव प्रतिविबुध्य, भाष्ये वा, स्वाध्यायक्रियायां वा योगः करणीयः । प्रहाणे वा, प्रतिसंलयने, धर्मचिन्तायां, लोकायताश्च मंत्रा विवर्जयितव्याः (।) चित्राक्षरश्चित्रपदव्यंजना, अनर्थोपसंहिता ये नाभिज्ञायै, न सम्बोधाय, न निर्वाणाय सम्वर्तन्ते । ये वा पुनर्धर्मास्तथागतभाषिता, गंभीरा, गंभीराभासा[ः], शून्यताप्रतिसंयुक्ता, इदंप्रत्यया(यता)प्रतीत्यसमुत्पादानुलोमास्ते सत्कृत्योद्गृ(द्ग्र)हीतव्याः । दृढञ्च, स्थिरञ्च, सूद्गृहीताश्च, न नाशयितव्याः । प्रतिपत्त्या[ः] सम्पादनार्थं, न लाभसत्कार हेतोः [।] ते च पुनर्धर्मा वचसा सुपरिजिताः कर्तव्याः । न च संगणिकया अतिनामयितव्यं, न कर्मारामतया, न भाष्यारामतया, कालेन च कालमुपस्थितया स्मृत्या विज्ञास्य(स्स)ब्रह्मचारिणः, आलपितव्याः, संलपितव्याः, प्रतिसंबोधयितव्याः, परिपृच्छन[जाती]येन च भवितव्यं, किंकुशलगवेषिणा ॥ अनुपलंभचित्तेन, मितवादिना, युक्तभाणिना, प्रशान्तभाणिना च ॥ परेषां धा(ध)र्म्यां कथां कथयित्वा त्वकामेन तूष्णींभावेन च ये पापका अकुशला वितर्का नातितर्कयितव्याः । न चायोनिशोधर्मचिन्तायुक्तेन ।

(१२७)
एवं रूपा अनेन बहवो धर्मा उद्गृहीता (१२८) भवन्ति । धृता, वचसा परिजिता, मनसा चान्वीक्षिता[ः] । दृष्ट्या सुप्रतिविष्टाः (विद्धाः) । एवं बहुश्रुतो भवति ।

(१२९)
कथमधिगन्ता भवति । लाभी भवत्यनित्यसंज्ञायाः, अनित्ये दुःखसंज्ञाया, दुःखेऽनात्मसंज्ञायाः, आहारे प्रतिकूलसंज्ञाया, विलोहितकसंज्ञाया, विक्षिप्तकसंज्ञाया, अस्थिसंज्ञायाः, शून्यताप्रत्यवेक्षणसंज्ञाया [।] लाभी भवति (।) प्रथमस्य ध्यानस्य, द्वितीयस्य, तृतीयस्य, चतुर्थस्याकाशानन्त्या यतनविज्ञानानन्त्यायतनाकिंचन्यायतननैवसंज्ञानासंज्ञायतनस्य, मैत्र्याः, करुणाया, उपेक्षाया, मुदितायाः, स्रोत आपत्तिफलस्य, सकृदागामिफलस्यानागामिफलस्य च, द्विविषयस्य, पूर्वेनिवासस्य, दिव्यस्य श्रोत्रस्य, च्युत्युपपादस्य, चेतःपर्यायस्यार्हत्त्वस्याष्टविमोक्षध्यायित्वस्य [।] शक्तो भवति । प्रतिबलश्च परेषां त्रिभिः प्रातिहार्यैरववदितुम् । ऋद्धिप्रातिहार्येण, आदेशनाप्रतिहार्येण, अनुशासनाप्रातिहार्येण [।] एवमधिगन्ता भवति ।
कथमनुकम्पको भवति । परेषामन्तिके कारुणिको भवति । दयापन्नः, अर्थकामो भवति । हितकामः, सुखकामः, स्पर्शकामः, योगक्षेमकामः [।] एवमनुकम्पको भवति ।

कथमप्रतिखिन्नमानसो भवति । व(र)तिसंदर्शको भवति । समादापकः, समुत्तेजकः संप्रहर्षकः, आज्ञासी चतसृणाम्पर्षदां, धर्मदेशनायै दक्षो भवत्यनलस, उत्थानसम्पन्नः । आरब्धवीर्य, आरब्धवीर्य (१३०) जातीयः [।] एवमपरिखिन्नमानसो भवति ।

कथं क्षमावान् भवति । आक्रुष्टो न प्रत्याक्रोशति । रोषितो न प्रतिरोषयति । वादितो न प्रतिवादयति । मण्डितो न प्रतिमण्डयति । [अनेन दानप्रत्यर्थादान(प्रत्यादान)समो भवति] प्रगाढेष्वपि बन्धनेषु, रोधनेषु, ताडनेषु, तर्जनेषु, छे(च्छे)दनेषु, आत्मापराधी भवति । कर्मविपाकञ्च प्रतिसरति । न परेषामन्तिके कुप्यति । नाप्यनुशयं वहति । इति विमानितो [अ]पि, विवर्णितो [अ]पि, विजुगुप्सितो [अ]पि, न विकृमिमापद्यते । नान्यत्रार्थायैव चेतयते क्षमश्च भवति । शीत[स्यो]ष्णस्य, जिघत्साया, पिपासाया, दंशमशकवातातपसरीसृपसम्पन्नानां, परतो दुरुक्तानां, दुरागतानां(नां), पतनपक्षाणां, शारीरिकाणां वेदनानां, दुःखानां, तीव्राणां, खराणां, कटुकानां, अ[मन]आपानां, प्राणहारिणीनां क्षमो भवत्यधिवासनजातीयः । एवंक्षमावान् भवत्य[सा]विति ॥

कथं विशारदो भवति । असंलीनचित्तः [।] पर्षदि धर्मं देशयति । अगद्गदस्वरः, असंप्रमुषितस्मृतिप्रतिभानः । न चास्य शारद्यहेतोः, शारद्यनिदानं (१३१) भयम्वा आजपति, समाविशति, नापि कम्पाभ्यां स्वेदो मुच्यते, रोगक्लमेभ्यो वा [।] एवं विशारदो भवति ।

कथं वाक्करणेनोपेतो भवति । पौर्या(र्यया)वाचा समन्वागतो भवति । वल्गून्यविस्प(वल्गुन्या, विस्प)ष्टया, विज्ञेयया, श्रवणीयया, अप्रतिकूलया, अनिश्रितया, (अ)पर्याप्तया [।] एवम्वाक्करणेनोपेतो भवति । कल्याणवादी ।

स एभिरष्टाभिः कारणैः समन्वागतश्चोदको भवति । स्मारकः, अववादकः, अनुशासको, धर्म देशकः ॥]

कथं चोदको भवति । यदुताधिशीले च शीलविपत्त्या, अध्याचारे आचारविपत्त्या, दृष्टेन, श्रुतेन, परिशंकया चोदयति । भूतेन, नाभूतेन, कालेन नाकालेनार्थोपसंहितेन नाना(न)र्थोपसंहितेन, श्लक्ष्णेन, न परुषेण, मित्रवत्तया, न द्वेषान्तरेण [।] एवं चोदको भवति ।

कथं स्मारको भवति । आपत्तिम्वा स्मारयति । धर्मं चा(वा)र्थम्वा [।]

कथमापत्तिं स्मारयति । यथापि तदापत्ति मध्यापद्यमानः स्मरति । तमेनं स्मारयति । आयुष्मन्नमुष्मिन्देशे, अमुष्मिन्, वस्तुनि, अमुष्मिन् (१३२) काले, एवं रूपं, चैवं कालमापन्न इत्येवमापत्तिं स्मारयति ।

कथं धर्मं स्मारयति । यथापि तच्छ्रुतानुद्गृहीतान् धर्मानेकाकी स्मरति । स्मर्तुमिच्छति । तद्यथा सूत्रं, गेयं, व्याकरणमिति विस्तरेण पूर्ववन्न स्मरति । तमेन (नं) स्मारयति । उत्स्मारणिकाम्वास्यानुप्रयच्छति । आपृच्छनपरिपृच्छनिकां वा, एवं धर्मान स्मारयति ।

कथं धर्म (अर्थं) स्मारयति । यथापि नथां (चार्थान्) विस्मारयति (विस्मरति) । तमेनं स्मारयति । पुनरपि प्रतिनवीकरोति । उत्तानी करोति । देशयति, संप्रकाशयति । यच्चापि कुशलमर्थोपसंहितं, ब्रह्मचर्योपसंहितम् । चिरक(कृ)तं, चिरभाषितमप्यनुस्मारयिता भवति । एवं स्मारको भवति ।

कथमववादको भवति । प्राविवेक्ये प्रतिसंलयने, योगे, मनसिकार(रे), शमथविपश्यनायां कालेन कालमानुलोमिकमववादं प्रवर्त्तयति । कालेन च कालं तत्प्रतिसंयुक्तां कथां करोति । तद्यथा चेतोविनिवरणसांप्रेयगामिनीं शीलकथाम्वा, प्रज्ञाकथाम्वा, विमुक्तिकथाम्वा, अल्पेच्छकथाम्वा, विमुक्तिज्ञानदर्शनकथाम्वा, संतुष्टिकथाम्वा, प्रहाणकथां, विरागकथां, निरोधकथां, अपचयकथां, असंसर्गकथां, इदंप्रत्यय[ता (१३३) प्र]तीत्यसमुत्पादानुलोमान् (मां) कथां करोति । एवमववादको भवति ।

कथमनुशासको भवति । धर्मेण, विनयेन, समनुशास्तुः शासने आचार्यो वा भवति । उपाध्यायो वा, सहधार्मिको वा, गुरुर्वा, गुरुस्थानीयो वा, अन्यतमान्यतमस्मिन्नधिकरणे अतिसृतं, व्यतिक्रान्तं विदित्वा । कालेन कालमवसादयति । दण्डकर्मम(र्मा)नुप्रयच्छति । प्रणामयति चैनम् । पुनरपि च धर्मेण समयेप्रतिसंस्तरसामीचीसंज्ञप्तिं प्रतिगृहणाति । संरोहकश्च भवति । करणीये चाकरणीये भाव्याचारानध्याचारानध्याचीर्णे (चरिते) अनध्याचीर्णे (चरिते) च शास्त्यनुशास्त्येवमनुशासको भवति ।

कथं च धर्मदेशको भवति । कालेन कालं पूर्वकालकरणीयां कथां करोति । तद्यथा दानकथां, शीलकथां, स्वर्गकथां, कामेष्वादीनव निःसरणं, व्यवदानपक्षान्धर्मान् विस्तरेण संप्रकाशयति । कालेन कालं चतुरार्यसत्यप्रतिसंयुक्तां कथां कथयति । दुःखं वा आरभ्य, समुदयम्वा, निरोधम्वा, फलम्वा, सपरिपाकाय (सत्त्वसंक्लेशाय?) वा, सत्व(त्त्व) व्यवदानाय वा, सद्धर्मस्य वा चिरस्थितये, युक्तैः पदव्यंजनैः, सहितैरानुलोमिकैरानुच्छविकैरौपायिकैः, (१३४) प्रतिरूपैः, प्रदक्षिणैर्निपकस्यांगसंभारैस्तां च पुनः कथां कालेन करोति । सत्कृत्यानुसन्धिमनुपतिताम् । हर्षयन्, रोचयन्ननु(यन्नु)त्साहयन्ननवसादयंश्च युक्तां, सहितां, अव्यवकीर्णां, यथाधार्मिकीं, यथापर्षन्मैत्रचित्तो, हितचित्तः, अनुकम्पाचित्तः । अनिश्रितो लाभसत्कारश्लोकेन चात्मानमुत्कर्षयति । न परान्पंस(पंस)यत्येवं धर्मदेशको भवति ।

यश्चैभिरष्टाभि(ः) (समन्वागतो) रंगैः समन्वागतो भवति । एवं च कालेन कालं चोदको भवति, स्मारकः । अववादानुशासकस्तस्मात्कल्याणमित्र[म्]इत्युच्यते । अयं तावत्कल्याणमित्रताया विस्तरविभागः [।]

समासार्थः पुनः कतमः [।] स चेदयं मित्रसुहृदनुकम्पकः आदित एव हितकामो भवति । सुखकामश्च [।] तच्च पुनर्हितसुखं यथाभूतं प्रजानाति । अविपर्यस्तो भवत्यविपरीतदृष्टिः, प्रतिबलश्च भवत्युपायकुशलः । यदुतास्यैव हितसुखस्य समुदागमायोसंहाराय दक्षश्च भवत्यनलस, उत्थानसम्पन्न, आरब्धवीर्यजातीयः । यदुत तमेव हितसुखोपसंहारमारभ्य [।] (१३५) एभिश्चतुर्भिः कारणैः सर्वाकारपरिपूर्णः (ं) । समासतः कल्याणमित्रो (त्रं) वेदितव्यः (व्यम्) । अयं च पुनः कल्याणमित्रतायाः समासार्थः ॥ यश्च पूर्वो विस्तरविभागः, यश्चायं समासार्थ इयमुच्यते कल्याणमित्रता ॥

सद्धर्मश्रवणचिन्तना कतमा । सद्धर्म उच्यते बुद्धैश्च बुद्धश्रावकैश्च सद्भिः सम्यग्गतैः सत्पुरुषैराख्यातः । देशित उत्तानो विवृतः । संप्रकाशितः । स पुनः कतमः । तद्यथा सूत्रं, गेयं, व्याकरणमिति विस्तरेण पूर्ववत् । द्वादशांगवचोगतं सद्धर्म इत्युच्यते ।

(१३६)
तत्र सूत्रं कतमत् । यत्तत्र तत्र भगवता तांस्तान् (तानि तानि) विनेयाचरितानि चारभ्य स्कन्धप्रतिसंयुक्ता वा कथा कृता, धातुप्रतिसंयुक्तावा कथा कृता, धातुसंगणसंयुक्ता वा, आयतनप्रतिसंयुक्ता वा । प्रतीत्यसमुत्पादप्रतिसंयुक्ता वा, आहारसत्यस्थिति [प्रति]संयुक्ता वा, श्रावकप्रत्येकबुद्धतथागतप्रतिसंयुक्ता वा । स्मृत्युपस्थानसम्यक्प्रहाणधि(र्धि)पादेन्द्रियबलबोध्यंगमार्गांगप्रतिसंयुक्ता । अशुभा, आनापानस्मृतिशिक्षावेत्यप्रसादप्रतिसंयुक्ता कथा कृता [।] सा च कथा संगीतिकारैः परिगृह्य शासनचिरस्थितये, यथा योगमनुपूर्वेण रचिता, अनुपूर्वेण समायुक्ता । प्रतिरूपैर्नामकायपदव्यंजनकायैर्यदुत तेषां तेषामर्थानां सूचनायै (१३७) कुशलानामर्थोपसंहितानां बुद्धचर्योपसंहितानामिदमुच्यते सूत्रं [।]

गेयं कतमत् । यस्यान्ते पर्यवसाने गाथा अभिगीता, यच्च सूत्रं नेयार्थमिदमुच्यते [गेयं] ।

व्याकरणं कतमत् । यस्मिंछ्रावके (यस्मिञ्छ्रावके)भ्यो [अ]भ्यतीतकालगतो (तौ)उपपत्तौ व्याक्रियते । यच्च सूत्रं नीतार्थमिदमुच्यते । व्याकरणं [।]

गाथा कतमा । या न गद्येन भाषिता । अपितु पादोपनिबन्धेन द्विपदा वा, त्रिपदा वा, चतुष्पदा वा, पंचपदा वा, षट्पदा वा इयमुच्यते गाथा ॥

उदाना कतमा । यत्पुद्गलस्य नाम गोत्रमपरिकीर्तयित्वा (कीर्त्त्य), उद्दिश्य भाषितमायत्याम्वा सद्धर्मस्थितये, (१३८) शासनस्थितये च । इयमुच्यते उदाना ॥

निदानं कतमत् । यत्पुद्गलस्य नामगोत्रम्परिकीर्तयित्वा (कीर्त्त्य) उद्दिश्य भाषितम् । यच्च विनयप्रतिसंयुक्तं सोत्पत्तिकं सनिदानं प्रातिमोक्षसूत्रमिदमुच्यते [निदानं] [।]

अवदानं कतमत् । यत्सदृष्टान्तकमुदाहतम् । येन दृष्टान्तेन यस्य प्रकृतस्यार्थस्य व्यवदानं भवतीदमुच्यते । अवदानम् ।

वृत्तं कतमत् । यत्किंचित्पूर्वयोगप्रतिसंयुक्तमिदमुच्यते वृत्तकम् ॥

जातकं कतमत् । यदतीतमध्वानमुपादाय तत्र तत्र भगवतः च्युत्युपपादेषु बोधिसत्त्वचर्या दुष्करचर्या । आख्याता [।] इदमुच्यते जातकम् ॥

वैपुल्यं कतमत् । यत्र बोधिसत्त्वानां मार्गो देश्यते । अनुत्तरायै सम्यक्संबोधये । दशबलानावरणज्ञानसमुदागमाय [।] इदमुच्यते वैपुल्यम् ॥

(१३९)
अद्भुताधर्माः कतमे । यत्र बुद्धानाञ्च, बुद्धश्रावकाणां च, भिक्षूणाञ्च, भिक्षुणीनाञ्च, शिक्षमाणानां, श्रामणेकी(री)णामुपासिकानां, साधारणासाधारणाश्च तदन्यप्रतिविशिष्टाश्चाश्चर्याद्भुतसम्मता गुणविशेषा आख्याता इमे उच्यन्ते अद्भुता धर्माः ॥

उपदेशाः कतमे [।] सर्वमातृका अभिधर्मः सूत्रान्तनिष्कर्षः । सूत्रान्तव्याख्यानमुपदेश इत्युच्यते ।

तच्चैतद्द्वादशांगवचोगतमस्ति सूत्रमस्ति विनयः, अस्त्यभिधर्मः । तत्र यत्तावदाह । सूत्रं गेयं व्याकरणं गाथोदानावदानवृत्तकजातकवैपुल्याद्भुतधर्मा इति । इदं तावत्सूत्रम् । यत्पुनराह । निदानमित्ययमुच्यते । विनयः । यत्पुनराह । उपदेशा इति । अयमुच्यते । अभिधर्मः ।

तच्चैतद्द्वादशां[गं श्रु]तं पिटकत्रयसंगृहीतम् । सद्भिः सम्यग्गतैर्देशितम् । सद्धर्म इत्युच्यते । तस्य श्रवणम् । सद्धर्मश्रवणं [।] तत्पुनः कतमत् । यथापीहैकत्यः (१४०) सूत्रधरो वा भवति । विनयधरो वा । मातृकाधरो वा, सूत्रविनयधरो वा, सूत्राभिधर्मधरो वा, विनयमातृकाधरो वा । इदमुच्यते सद्धर्मश्रवणम् । तत्पुनः । श्रवणं द्विविधम् । व्यंजनश्रम(व)णमर्थश्रवणं च ।

चिन्तना कतमा । यथापीहैकत्यस्तानेव यथाश्रुतान्धर्मानेकाकी रहोगतः । षडचिन्त्यानि स्थानानितद्यथा, आत्मचिन्तां, सत्त्वचिन्तां, लोकचिन्तां, सत्वा(त्त्वा)नां कर्मविपाकचिन्तां, ध्यायिनां ध्यायिविषयं, बुद्धानां बुद्धविषयं वर्जयित्वा स्वलक्षणतः । सामान्यलक्षणतश्च चिन्तयति ।

सा पुनः चिन्ता द्विविधा गणनाकारासह गणनायोगेन धर्मेण । तुलनाकारम(रा), युक्त्या गुणदोषपरीक्षणाकारा [च] [।] स चेत्स्कन्धप्रतिसंयुक्तां देशनां चिन्तयति । स चेदन्यतमान्यतमान्यतमां पूर्वनिविष्टां देशनां चिन्तयत्याभ्यां चिन्तयति । यथा पुनः कथमि तिरूपमुच्यते । दश रूपीण्यायतनानीति । यच्च धर्मायतनपर्यापन्नं रूपं स च रूपस्कन्धः, तिस्रो (१४१) वेदना वेदनास्कन्धः । षट्संज्ञाकायाः संज्ञास्कन्धः । षट्चेतनाकायाः चेतनास्कन्धः । षड्विज्ञानकाया विज्ञानस्कन्ध इत्येवं गणनासंख्याकारां स्कन्ध[गणनां] चिन्तयत्युत्तरोत्तरप्रभेदेन येन वा पुनरस्याः संख्यागणना कारायाश्चिन्ताया अप्रमाणः प्रवेशनयो वेदितव्यः ।

कथं युक्त्युपपरीक्षाकारया चिन्तया स्कन्धदेशनां चिन्तयति । चतसृभिर्युक्तिभिरुपपरीक्षते । कतमाभिश्चतसृभिर्यदुतापेक्षायुक्त्या, कार्यकारणयुक्त्या, उपपत्तिसाधनयुक्त्या । धर्मतायुक्त्या ॥

अपेक्षायुक्तिः कतमा । द्विविधा अपेक्षा उत्पत्यपेक्षा प्रज्ञप्त्यपेक्षा च । तत्रोत्पत्त्यपेक्षा यैर्हेतुप्रत्ययैः स्कन्धानां प्रादुर्भावो भवति । तस्यां स्कन्धोत्पत्तौ ते हेतवस्ते, प्रत्यया अपेक्ष्यन्ते । यैर्नामकायपदकायव्यंजनकायैः स्कन्धानां प्रज्ञप्तिर्भवति । तस्यां स्कन्धप्रज्ञप्तौ ते नामपदकायव्यंजनकाया अपेक्ष्यन्ते । इयमुच्यते स्कन्धेषूत्पत्त्यपेक्षा । प्रज्ञप्त्यपेक्षता (क्षा) च । या चोत्पत्त्यपेक्षा । या च प्रज्ञप्त्यपेक्षा सा युक्तिर्योग (१४२) उपायः । स्कन्धोत्पत्तये । स्कन्धप्रज्ञप्तये तस्मादपेक्षायुक्तिरित्युच्यते ।

कार्यकारणयुक्तिर्या [त]दुत्पन्नानां स्कन्धानां स्वेन हेतुना स्वेन प्रत्यर्येन तस्मिंस्तस्मिन् स्वकार्यकरणे विनियोगस्तद्यथा । चक्षुषा रूपाणि द्रष्टव्यानि । श्रोत्रेण शब्दा[ः] श्रोतव्याः । यावन्मनसा धर्मा विज्ञेया इति । रूपेण चक्षुषो गोचरे अवस्थातव्यम् । शब्देन श्रोत्रस्य, एवं याद्धर्मैर्मनस इति । यद्वा पुनरन्यदप्येवंभागीयम् । तत्र तत्र धर्माणामन्यो [अ]न्यं कार्यकारणे प्रतियुक्तिर्योग उपाय इयमुच्यते । कार्यकारणयुक्तिः ।

उपपत्तिसाधनयुक्तिः कतमा [।] अनित्या[ः] स्कन्धा इति, प्रतीत्यसमुत्पन्ना, दुःखा[ः], शून्या, अनात्मान इति त्रिभिः प्रमाणैरुपपरीक्षते यदु(त)ताप्तागमेन, प्रत्यक्षेणानुमानेन च [।] एभिस्त्रिभिः प्रमाणैरूपपत्तियुक्तैः सतां हृदयग्राहकैर्व्यवस्थापना (१४३) साधना क्रियते । यदुत स्कन्धानित्यताया वा, प्रतीत्यसमुत्पन्नताया वा, दुःखताया[ः], शून्यताया, इयमुच्यते उपपत्तिसाधनयुक्तिः ।

धर्मतायुक्तिः कतमा । केन कारणेन तथाभूता एते स्कन्धा[ः], तथाभूतो लोकसन्निवेशः केन कारणेन खरलक्षणा पृथिवी, द्रवलक्षणा आपः, उष्णलक्षणं तेजः[ः], समुदीरणलक्षणो वायुः, (।) अनित्याः, स्कन्धा[ः], केन कारणेन शान्तं निर्वाणमिति । तथा रूपणलक्षणं रूपम् । अनुभवलक्षणा वेदना, संजाननलक्षणा संज्ञा, अभिसंस्करणलक्षणाः संस्काराः, विजाननालक्षणं विज्ञानमिति । प्रकृतिरेषां धर्माणामियं स्वभाव एष ईदृशः । धर्मतैषा चैव चासौ धर्मता । सैवात्र युक्तिर्योग उपायः [।] एवं वा एतत्स्यात् । अन्यथा वा, नैव वा स्यात्, सर्वत्रैव च धर्मतैव प्रतिप्रसरणधर्मतैव युक्तिः । चित्तनिध्यायनाय, चित्तसंज्ञापनाय इयमुच्यते धर्मतायुक्तिः ।

एवं चतसृभिर्युक्तभिः स्कन्धदेशना उपपरीक्ष्यत इति । यावत्पुनरन्या काचिद्देशना इति या एवमाभ्यां द्वाभ्यामाकाराभ्यां गणनासंख्याकारा च युक्त्युपपरीक्षणाकारा च सम्यगुपनिध्यायना तस्यास्तस्या देशनायाइयमुच्यते । सद्धर्मश्रवणचिन्त[न्]आ ॥

(१४४)
अनन्तरायः कतमः [।] अनन्तरायो द्विविधः । अध्यात्ममुपादाय बहिर्धा च [।] तत्राध्यात्मं बहिर्धा चोपादायान्तराय(यं) वक्ष्यति । तद्विपर्ययेण [।] नन्तरायो वेदितव्यः ।

अध्यात्ममुपादायान्तरायः कतमः । यथापीहैकत्यः पूर्वमेव कृतपुण्यो भवति । सौकृतत्वात्पुण्यानां च लाभी भवति । कालेन कालमानुलोमिकां (कानां, केषु) जीवितपरिष्काराणां (रेषु) । यदुत चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां (रेषु) तीव्ररागो भवत्यायत (न)रागः । तीव्रद्वेषः आयत(न)द्वेषः । तीव्रमोह आयत(न)मोहः । पूर्वं वानेनाबाधसंवर्त्तनीयानि कर्माणि कृतानि भवन्ति । यद्धेतोराबाधबहुलो भवति । दृष्ट एव धर्मे विषमचारी भवति । यो (ये)नास्याभीक्ष्णं वातो वा कुप्यति, पित्तम्वा, श्लेष्मम्वा, विषूचिका वा काये सन्तिष्ठते । भोजनगुरुको भवति । बह्वर्थो, बहुकृत्यो, गणसन्निपातबहुलो भवति । कर्मारामो वा, भाष्यारामो वा, निद्रारागः (मः), संगणिकारामः । आत्मसंप्रग्राहकश्चपलः, प्रमत्तः कुदेशवासी वा । इत्येवंभागीया अन्तराया अध्यात्ममुपादाय वेदितव्याः ।

बहिर्धोपादायान्तरायाः कतमे [।] तथापि तदसत्पुरुषापाश्रयः । यतो न लभते कालेन कालमानुलोमिकीमववादानुशासनीं [।] (१४५) कुदेशे वा वसति । यत्रास्य वास(सं)कल्पयतो दिवा वाग्रविलोको (वोग्रो रवेरालोको) भवति । प्रभूतः, रात्रौ वा [।] उच्चशब्दो, महाशब्दोमहाजनकायस्य निर्घोषः । तीव्रकटुकश्च वातातपसंस्पर्शो, मनुष्यादपि भयमयमेवंभागीयो बहिर्धापाया(र्धोपादाया)न्तरायो वेदितव्यः । अयं तावद्विस्तरविभागस्या(गः) ॥

समासार्थः पुनः कतमः । समासतस्त्रिविधो [अ]न्तरायः । प्रयोगान्तराय[ः], प्राविवेक्यान्तराय[ः] । प्रतिसंलयना न्तरायश्च ।

तत्र प्रयोगान्तरायो येनान्तरायेण समव[हितेन] संमुखीभूतेनाशक्तो भवत्यप्रतिबलः सर्वेण सर्वं कुशलपक्षप्रयोगे [।] स पुनः कतमः । यदाबाधको भवति, बाढग्लानः, अभीक्ष्णमस्य वातो वा कुप्यते, पित्तम्वा, श्लेष्मम्वा (ष्म वा), विषूचिका वास्य काये सन्तिष्ठते [।] अपि त्वस्य दशति वृश्चिको वा, शतपदी वा, मनुष्यो वैनं विहेठयत्यमनुष्यो वा [।] न च लाभी भवति चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणामयमेवंभागीयः प्रयोगान्तरायो वेदितव्यः ।

प्राविवेक्यान्तरायः कतमः [।] यद्भोजनगुरुको भवति, बह्वर्थो, बहुकृत्यो, बहुकरणीयः, कर्मारामरतिं (१४६) रतो भवति । तेषु तेष्वितिकरणीयेषु प्रसृतमानसः । भाष्यारामो भवति । शक्तः प्रतिबलः सन् । प्राविवेक्यप्रहाणे, प्रतिसंलयने, भावनायामुद्देशम्वाध्यायमात्रकेन(ण) संतुष्टो निद्रारामो भवति । स्त्यानमिद्धपर्यवस्थितः, कुसीदजातीयो निद्रासुखं, पार्श्वसुखं, शयनसुखं च स्वीकरोति । संगणिकारामो भवति सार्धं गृहस्थप्रव्रजितैः । राजकथाम्वा करोति । चोरकथां वा, अन्नकथां वा, पानकथां वा, वस्तुकथां वा, वेश्याकथां वा, वीथीकथाम्वा जनपदमहामात्राख्यानकथाम्वा, समुद्राख्यानकथाम्वा [।] इत्येवं भागीयया अनर्थोपसंहितया कथया कालमतिनामयति । तत्र चाभिर(म)तो भवत्यभीक्ष्णेण(न) गणसन्निपातबहुलो भवति । तेषु तेष्वधिकरणेषु व्याक्षिप्तमानसो भवति । व्याकुलमानसः । संसर्गारामो भवति । गृहस्थप्रव्रजितानामसमवहितानां च वियोगं गच्छति । प्रपंचारामो भवति । प्रपंचरतः अवक्रमणीयेषु पूर्वंगमः, प्राविवेक्येषु निक्षिप्तधुरः । इदमेवंभागीयो (इम एवं भागीया) धर्माः प्रविवेकान्तरायो वेदितव्यः । यैः समवहितैः संमुखीभूतैर्न सुकरं भवत्यरण्यवनप्रस्थानि प्रान्तानि शयनासनान्यध्यावसितुम् । अरण्यानि वा वृक्षमूलानि (१४७) वा शून्यागाराणि वा [।]
प्रतिसंलयनान्तरायः कतमः [।] तद्यथा प्रतिसंलयनमुच्यते शमथो विपश्यना च । तत्रास्ति शमथान्तरायः । अस्ति विपश्यनान्तरायः । तत्र शमथान्तरायः प्र[भिन्नः] अदेशवासश्च । यथास्य प्रमत्तस्य स्त्यानमिद्धं वा चित्तं पर्यवनहति । शमथमात्रम्वा आस्वादयति । लीनत्वाय वा चित्तमुपनामयति । अन्धकारायितत्वं वा चेतसो भवति । यद्रूपेण चादेशवासेन । मनुष्यकृतो वा परतः संघट्टो भवति । येनास्य चित्तम्बहिर्धा विक्षिप्यते [।] अयं शमथान्तरायः । प्रतिसंलयनान्तरायो वेदितव्यः ।

विपश्यनान्तरायः कतमः । यदुतात्मसंग्राहश्चापल्यञ्च ।

तत्रात्मसंग्रहो यथापि तदहमस्म्युच्चकुलः प्रव्रजितः । अलीनः । अन्ये च न तथेत्यात्मानमुत्कर्षयति । संगृह्णाति । परांश्च पन्स(पंस)यति । एवमाढ्यकुलप्रव्रजितः, अदीनः, एवमभिरूपो दर्शनीयः, प्रासादिक, एवं बहुश्रुतः, सन्निचयः । एवमहमस्मिन् कल्याणवाक्यो वाक्करणेनोपेतः, अन्ये च भिक्षवो न तथेति । आत्मानमुत्कर्षयति । संप्रगृह्णाति । परांश्च पन्स(पंस)यति । स आत्मानं संप्रगृह्णात्येते भवन्ति । भिक्षवः, स्थविरा, रतिज्ञा, अभ्यवतीर्णब्रह्मचर्याः, (१४८) तान्न कालेन कालं परिपृच्छति । परिप्रश्नीकरोति । ते चास्य न कालेन कालमविवृतानि च स्थानानि विवृण्वन्ति । विवृतानि च स्थानानि विवृण्वन्ति । न च गम्भीरमर्थपदम् । साधु च सुष्ठु च प्रज्ञया प्रतिविध्य संप्रकाशयन्ति यावदेव ज्ञानदर्शनस्य विशुद्धये । एवमस्य स आत्मसंग्रहः ।

आन्तरायिको भवति । यदुत विपश्यनायाः [।] पुनरपरमल्पमात्रकस्यावरमात्रकस्य ज्ञानदर्शनमात्रकस्य स्पर्शविहारमात्रकस्य लाभी भवति । स तेन ज्ञानमात्रकेण । दर्शनमात्रकेणात्मानमुत्कर्षयति । संप्रगृह्णाति । स आत्मानं संप्रगृह्णंस्तावता संतुष्टो भवति नोत्तरि व्यायच्छते । एवमस्यान्तरायः कृतो भवति । आत्मसंप्रग्रहेण यदुत विपश्यनायाः (नया) [।] चपलो वा पुनः अनुपशान्तेन्द्रियो भवति । उद्धतेन्द्रियः, उन्नतेन्द्रियः । स दूषितचित्ती भवति । सुभाषितभाषी, दुष्कृतकर्मकारी, न स्थिरं धर्मांश्चिन्तयति । न दृढं चिन्तयति । येन विपश्यनां न पूरयति न विशोधयत्येवमस्य चापल्यम् । अन्तरायो भवति । यदुत विपश्यनाया इति ।

द्वौ धर्मौ शमथान्तरायौ । यदुत प्रमादः, आदेशवासश्च [।] द्वौ धर्मौ विपश्यनान्तरायौ यदुतात्मसंप्रग्रहश्चापल्यञ्च । इति यश्च शमथान्तरायः । यश्च विपश्यनान्तरायः । अयमुच्यते (१४९) प्रतिसंलयनान्तरायः ।

अयं च पुनरन्तरायस्य समासार्थ इति । यश्चायं समासार्थः । यश्च पूर्वको विस्तरविभागः । तदेकत्यमभिसंक्षिप्यान्तराय इत्युच्यते । अस्य चान्तरायस्य विपर्ययेणा[न]न्तरायो वेदितव्य इति । य एषामन्तरा[या]णामभावो विगमः असंगतिरसमवधार(चर)[ण]मयमुच्यते [अन]न्तरायः ॥

त्यागः कतमः । यद्दानमनवद्यं चित्तालंकारार्थं, (१५०) चित्तपरिष्कारार्थं, योगसंभारार्थं, उत्तमार्थस्य प्राप्तये ददाति ।

तत्र को ददाति [कस्मै ददाति कुत्र ददाति]केन च ददाति । कथं ददाति । कस्माद्ददाति । येनास्य (१५१) दानम[न]वद्यं भवति ॥ आह । दाता, दानपतिर्ददाति । अयमुच्यते दाता । यस्य स्वकं दीयते । तच्च दातुकामस्य, नादातुकामस्य, अयमुच्यते दानपतिः ।

तत्र कुत्र ददाति । आह । चतुर्षु ददाति । दुःखितायोग(प)कारिणे । इष्टाय, विशिष्टाय च ।

तत्र दुःखितायेति । कृपणा वा, अध्वगा वा, याचनका वा, अन्धा वा, बधिरा वा, अनाथा वा, अप्रतिसरणा वा, उपकरणविकला इति । ये वा पुनरन्ये [अ]प्येवंभागीया[ः ।]

उपकारिणः कतमे तद्यथा मातापितरं (रौ) आपायकपोषकं (कौ), सम्वर्धकमि(कावि)ति । ये वा पुनरटवीकान्तारादुत्तारयन्ति, दुर्भिक्षाद्वा, परचक्रभयाद्वा, बन्धनाद्वा । आबाधकाद्वा हितोपदेशकाश्चास्य भवन्ति । सुखोपदेशका, हितसुखोपसंहारका, उत्पन्नोत्पन्नेषु चाधिकरणेषु सहायकाः, सहनन्दिनः, सहशोका, आपत्सु चैवं न परित्यजन्ति इति ये वा पुनरन्ये [अ]प्येवंभागीया इम उपकारिणः ।

इष्टाः कतमे [।] ये संस्तुता[ः] । येषामस्यान्तिके भवति । प्रेम वा, गौरवम्वा, भक्तिवादो वा, आलप्तकाः, संस्तुतकाः सप्रियकाश्च भवन्ति । इति वा पुनरन्ये [अ]प्येवंभागीया इम उच्यते इष्टाः ॥

विशिष्टाः कतमे [।] ते श्रव(म)णब्राह्मणा[ः] (१५२) साधुरूपसम्मताः । अव्याबाध्याः अव्याबाध्यरताः, विगतरागाः, रागविनयाय प्रतिपन्नाः, विगतद्वेषा द्वेषविनयाय प्रतिपन्नाः । विगतमोहा, मोहविनयाय प्रतिपन्ना इति । ये वा पुनरन्ये [अ]प्येवं भागीया इम उच्यन्ते विशिष्टाः ॥

तत्र किं ददातीत्याह । समासतः सत्त्वसंख्यातमसत्व (त्त्व) संख्यातं च । वस्तु ददाति ।

तत्र सत्त्वसंख्यातम्वस्तु कतमत् । तद्यथा पुत्रदानं दासीदासकर्मकरपौ[रुषे]यहस्त्यश्वगवेडककुक्कुटस्त्रीपुरुषदारकदारिकमिति । यद्वा पुनरन्यदप्येवं भागीयं वस्तु । अध्यात्मम्वा पुनरुपादाय करचरणशिरोमान्स(मांस)रुधिरवसादीन्यनुप्रयच्छति । इदमपि पुरुषसंख्यातं दानं यत्र बोधिसत्त्वबोधाः संदृश्यन्ते । अस्मिंत्वर्थे नेदं दानमभिप्रेतम् । येषु तु सर्वेष्वस्यैश्वर्यं भवति । वशिता च प्रभविष्णुता च । अर्हति च तान्सत्वा (त्त्वा)न् परेषां प्रतिपादयितुम् । प्रतिपादयंश्चात्मानमनवद्यं करोति । न तद्धेतोस्तत्प्रत्ययं परे मनान्सि (नांसि) प्रदूषयन्ति । ये च सत्वा (त्त्वाः) परेषु प्रतिपादिता(ः)स्तेन व्यापादिता भवन्तीदमुच्यते अनवद्यं सत्व(त्त्व)वस्तुदानम् ॥

असत्त्वसंख्यातम्वस्तु कतमत् । तद्यथा धनवस्तु, (१५३) धान्यवस्तु । देश वस्तु ।

तत्र धनवस्तु तद्यथा मणिमुक्तावैडूर्यशंखशिलाप्रवाडा(ला)श्मगर्त्तपुसारगण्वजातरूपरजतलोहितिकादक्षिणावर्तमिति । यद्वा पुनरन्यदप्येवं भागीयं रत्नम्वा, हिरण्यम्वा, रूप्यम्वा, वस्त्रम्वा, भाण्डोपस्करं वा, गन्धजातं वा, माल्यजातम्वा, इदमुच्यते धनम् ।

धान्यं कतमत् । यत्किंञ्चिद्भोज्यं वा, पेयम्वा, तद्यथा यवा वा, शालिर्वा, गोधूमा वा, कोला वा, कुलत्था वा, तिला वा, माषा वा, इक्षुरसम्वा (सो वा), मृद्वीकारसम्वा (सो वा), इति यद्वा पुनरप्येवंभागीयमिदमुच्यते धान्यम् ॥

देशवस्तु कतमत् । तद्यथा क्षेत्रवस्तु गृहवस्त्वापणवस्तु, पुण्यशालाविहारप्रतिष्ठापनमिति । यद्वा पुनरन्यदप्येवंभागीयमिदमुच्यते देशवस्तु ।

तत्र यच्च सत्व (सत्त्व) संख्यातम्वस्तु इदं ददातीति ॥

केन ददतीति । या च अलोभसहगता चेतना, चित्ताभिसंस्कारो मनस्कर्म । यच्च तत्समुत्थापितं कायकर्म । वाक्कर्म दे[श]वस्तुपरित्यागाय, स्वसंताने वा [।] अनेन ददाति ।

(१५४)
तत्र कथं ददातीति । श्रद्धया ददाति । आगमदृष्टिः, फलदर्शी, सत्कृत्य ददाति । प्रणतचित्तः स्वहस्तं (हस्ताभ्यां) ददाति । अनपविद्ध[ः] कालेन ददाति । यदैतत्परेषामुपयोग्यं स्यात्पराननुपहत्य ददाति । धर्मेण, समयेन, असाहसेन, समुदानयित्वा (समुदानीय) शुचि ददाति । प्रणीतं कल्पिकं ददाति । येन न परे सावद्या भवन्ति । नात्मा [।] अभीक्ष्णं ददाति । विनीय सात्म[यन्मलं] सन्निधिमलं च दानं ददाति । पूर्वमेव दानात्सुमना ददच्चि(दंश्चि)त्तं प्रसादयति । दत्वा वा विप्रतिसारी भवति । एवं ददाति ।

कस्माद्ददाति । आह । कारुण्याद्वा ददाति । यदुत दुःखितेषु कृतज्ञताया (तया) ददाति । यदुत उपकारिषु प्रेम्णा, गौरवेण, भक्त्या ददाति । यदुत इष्टेषु लौकिकलोकान्तरविशेषप्रार्थनया ददाति । यदुत विशिष्टेषु [।] तस्मात् । ददातीत्युच्यते ।

एभिराकारैरतोऽस्य गृहिणो वा, प्रव्रजितस्य वा चित्तालंकारार्थं, चित्तपरिष्कारार्थम् । योगसंभारार्थमुत्तमार्थस्य प्राप्तये तद्दानमनवद्यं भवति । अयमुच्यते त्यागः ॥

(१५५)
श्रमणालंकारः कतमः [।] तद्यथैकत्यः श्राद्धो भवति । अशठः । अल्पाबाधः, आरब्ध[वीर्य]जातीयः प्राज्ञो [अ]ल्पेच्छः, संतुष्टः । सुपोषः, सुक(भ)रः, धुतगुणसमन्वागतः प्रासादिको, मात्रज्ञः । सत्पुरुषधर्मसमन्वागतः । पण्डितधर्मसमन्वागतः । पण्डितलिंगसमन्वागतः । क्षमः, सू(सु)रतः, पेशलश्च भवति ॥

कथं श्राद्धो भवति । प्रसादबहुलो भवति । अर्थकल्पनाबहुलः । विमुक्तिबहुलः छन्दिकश्च कुशलेषु धर्मेषु [।] स शास्तरि प्रसीदति । न कांक्षति । न विचिकित्सति । शास्तारं सत्करोति । गुरुकरोति । मानयति । पूजयति । सत्कृत्य, गुरुकृत्य, मानयित्वा, पूजयित्वा, निश्रित्य, विहरति । यथा शास्तर्येवं धर्मे । सब्रह्मचारिषु, शिक्षायामववादानुशासन्यां, प्रतिसंस्तरे अप्रमादे, समाधावेवं श्राद्धो भवति ।

कथमशठो भवति । रुजको भवति रुजकजातीयः । यथाभूतमात्मानमाविष्कर्त्ता भवति । (१५६) शास्तुरन्तिके, विज्ञानाञ्च, सब्रह्मचारिणामेवमशठो भवति ।

कथमल्पाबाधो भवति । अरोगजातीयः । समयासाधिन्या ग्रहण्या समन्वागतो भवति । नात्युष्णया, नातिशीतया, अव्याबाधा(ध)या, जातुसुखया ययास्याशितपीतखादितास्वादिता[नि] सम्यक्युखेन परिपाकं गच्छन्त्येवमल्पाबाधो भवति ।

कथमारब्धवीर्यजातीयो भवति । स्थामवान्विहरति । वीर्यवानुत्साही दृढपराक्रमः । निक्षिप्तधुरः कुशलेषु धर्मेषु दक्षश्च भवत्यनलस उत्थानसम्पन्नः [।] कर्त्ता भवति । विज्ञानां सब्रह्मचारिणां कायेन वैयापृत्यमेवमारब्धवीर्यो भवति ।

कथं प्राज्ञो भवति । द्विधा स्मृतिबुद्धिसम्पन्नो भवति । अधन्धे[न्द्रियः], अमूढेन्द्रियः, अनेडकः, प्रतिबलः, सुभाषितदुर्भाषितानां धर्माणामर्थमाज्ञातुमिति । सहजयापि बुद्ध्या समन्वागतो भवति । प्रायोगिकयापि बुद्ध्या समन्वागतो भवति । एवं प्राज्ञो भवति ।

कथमल्पेच्छो भवति । यावद्भिर्गुणैः समन्वागतो भवत्यल्पेच्छतामादिं कृत्वा तैः परतो ज्ञातुं न समन्वेषते । कश्चि(च्चि)न्मे(न्मां) परे न जानीयुः, अल्पेच्छ[ं] इति वा एवं गुणयुक्त इत्येवमल्पेछो भवति ।

(१५७)
कथं संतुष्टो भवति । इतरेतरेषु चीवरपिण्डपातेन, शयनासनेन तुष्टो भवति, संतुष्टः, स लब्ध्वा चीवरं लूहं वा, प्रणीतम्वा नोत्कण्ठति । न परितस्यति । लब्ध्वा च पुनः अरक्तः परिभुंक्ते । असक्त इति विस्तरेण पूर्ववत् । यथा चीवरमेवं पिण्डपातं (तः), शयनासनमेवं तुष्टो भवति ।

कथं सुपोषो भवति । आत्मा अस्यैकः पोष्यो भवति । न तु परे तद्यथा दारका वा, मनुष्या वेति । ये वा पुनरन्ये [अ]पि केचिद्येषामर्थाय या (या य)म्पर्येष्टिमापद्यते । परे चैवं दायकदानपतयो दुष्पोष्यमिति पश्ये (श्येयुः) (न् । र) एवं सुपोष्यो भवति ।

कथं सुभरो भवति । अल्पेनापि यापयति । लूहेनापि यापयत्येवं सुभरो भवति ।

कथं धुतगुणसमन्वागतो भवति । पिण्डपातिको भवति । सावदानपिण्डपातिकः । एकासनिकः, खलु पश्चाद्भक्तिकः । त्रैचीवरिको, नामतिकः, पान्सु (पांसु)कूलिकः । (१५८) आरण्यको, वृक्षमूलिकः आभ्यवकाशिकः । श्माशानिको, नैषद्यिकः । याथासंस्तरिकः [।] त एते पिण्डपातचीवरशयनासनमारभ्य द्वादशका[धुत]गुणा भवन्ति । त्रयोदशा (श) वा [।]

तत्र पिण्डपातिकत्वं भिद्यमानं द्विधा भवति । प्राप्तपिण्डपातिकश्च, सावदानपिण्डपातिक[त]या वेश्यानुवेश्यकुलानि भिक्षित्वा, पर्यटित्वा (पर्यट्य), यथालब्धं यथोपसम्पन्नं पिण्डपातं परिभुंक्ते, नो तु उच्चैः शुण्डां प्रणिधाय कुलानि उपसंक्रामति । अतो [अ]हं लप्स्ये, प्रणीतं खादनीयं, भोजनीयं, यावदाप्तं [।] तत्र पिण्डपातिकत्वमविशेषेणारभ्य द्वादश भवन्ति । प्रभेदं पुनः आरभ्य त्रयोदश(ः) [।]

तत्रैकासनिकत्वं कथमत् । एकस्मिन्नासने निषण्णोयावत्परिभोक्तव्यम् । तावत्परिभुंक्ते । व्युत्थितश्च पुनस्तस्मादासनान्न परिभुंक्ते । इदमुच्यते । एकासनिकत्वम् ॥

खलु पश्चाद्भक्तिकत्वं कतमत् । भोजनार्थं निषण्णस्तावत्(न्) न परिभुंक्ते । यावत्सर्वभोजनं प्रतीच्छति । यावता जानाति शक्ष्यामि यापयितुम् । यतश्च पुनर्जानीते न मे अत उत्तरि भोजनेन कृत्यं भविष्यतीति । ततः सर्वं परिहृत्यारभते । (१५९) प[रि]भोक्तुम् । एवं खलु पश्चाद्भक्तिको भवति ।

कथं त्रैचीवरिको भवति । त्रिभिश्च चीवरैर्यापयति, सांघाटिना वा, उत्तरासंगेन, अंतर्वासेन च । त्रयाणां चीवराणामतिरेकमुत्तरं न धारयत्येवं त्रै[चीव]रिको भवति ॥

कथं नामतिको भवति ॥ यत्किंचिच्चीवरं धारयति । त्रिचीवरम्वा, अतिरेकचीवरम्वा सर्व तदौर्णिकं धारयति । न त्वन्यं (न्यत्) [।] एवं नामतिकं धारयति ।

कथं पान्सु (पांसु)कूलिको भवति । यच्चीवरं परैर्मुक्तं भवति । उच्छिष्टं, रथ्यायाम्वा, वीथ्याम्वा, चत्वरे वा, श्रृंगाटके वा, पथि वा, उत्पथेवा, उच्चारसंसृष्टम्वा, प्रस्रावसंसृष्टम्वा, उच्चारप्रस्रावपूयरुधिरखेटाप्रक्षितं वा [।] ततो यदशुचि तदपीनय, सारमादाय, शोधयित्वा, सीवित्वा, विवर्णीकृत्य धारयत्येवं पान्सु(पांसु)कूलिको भवति ।

कथमारण्यको भवति । अरण्ये वनप्रस्थानि प्रान्तानि शयनासनानि अध्यावसति । यानि व्यवकृष्टानि ग्रामनिगमानामेवमारण्यको भवति ॥

कथं वृक्षमूलिको भवति । वृक्षमूले वासं (१६०) कल्पयति । [वृक्ष]मूलं निश्रित्य [।] एवं वृक्षमूलिको भवति ।

कथमाभ्यवकाशिको भवति । अभ्यवकाशे वासं कल्पयति । अनवकाशे विवृते द (दे)शे [।] एवमाभ्यवकाशिको भवति ।

कथं श्माशानिको भवति । श्मशाने वासं कल्पयति यत्र मृतमृतो जनकायः । अभिनिर्ह्रियत एवं श्माशानिको भवति ॥

कथं नैषद्यिको भवति । मंचे वा, पीठे वा, तृणसंस्तरे वा निषद्यया कालमतिनामयति । नो तु मंचा (म चं)वा, पीठं वा, कुड्यम्वा, (वृक्षमूलं) वृक्षमूलम्वा, तृणसंस्तरम्वा,पर्णसंस्तरम्वा, निश्रित्य पृष्ठ वा (पृष्ठं वा), पार्श्वम्वा ददात्येवं नैषद्यिको भवति ।

कथं याथासंस्तरिको भवति । यस्मिन् तृणसंस्तरे वा, पर्णसंस्तरे वा शय्यां कल्पयति । तृणसंस्तरम्वा, पर्णसंस्तरम्वा सकृत्यञ्चैव संस्कृतं भवति । तथैव शय्यां कल्पयति । नो तु पुनर्विकोपयति । अभिसंस्करोति चैवं य(या)थासंस्तरिको भवति ।

केनैते धुतगुणा उच्यन्ते तद्यथा ऊर्णा वा, कर्पासं वा, धुतं भवत्यसंवृत्तमिति । त[च्च त]स्मिन् (१६१) समये मृदु च भवति । लघु च, कर्मण्यं च, यदुत सूत्राभिनिर्हारे वा, तूलावहदे (ते?) (तूलाभिनिर्हारे) वा [।] एवमेव इहैकत्यस्य पिण्डपातरागेण पिण्डपाते चित्तं सक्तं भवति । संसक्तं चीवररागेण शयनासनरा[गेण] शयनासने चित्तं सक्तं भवति । संसक्तम् । स एभिर्धुतगुणैर्विशोधयति ऋजूकरोति । मृदुकर्मण्यमार्जवमास्रवम्विधेयं यदुत ब्रह्मचर्यवासाय तेनोच्यन्ते धुतगुणा इति ॥

तत्र पिण्डपातप्रहीणभोजनरागस्य प्रहाणाय एकासनिको भवति । प्रभूतभोजनरागस्य प्रहाणाय नामतिको भवति । प्रणीतचीवररागस्य प्रहाणाय नामतिको भवति । प्रणीतचीवररागस्य प्रहाणाय त्रैचीवरिको भवति । चीवरे मृदुसंस्पर्शरागस्य प्रहाणाय पान्सु(पांसु)कूलिको भवति । शयनासनरागश्चतुर्विधः । तद्यथा संस्पर्शरागः । प्रतिश्रयरागः । पार्श्वसुखशयनसुखरागः । आस्तरणप्रत्यास्तरणोपच्छादनरागः । तत्र संसर्गरागस्य प्रहाणाय आरण्यको भवति । प्रतिश्रयरागस्य प्रहाणाय वृक्षमूलिकः (१६२) आम्यवकाशिकः । श्माशानिको भवति । अपि च श्माशानिकत्वं मिद्धेन रागस्य प्रहाणाय भवति । पार्श्वसुखशयनासनसुखरागस्य प्रहाणाय नैषद्यिको भवति । आस्तरणप्रत्यास्तरणोपच्छाद[न]रागस्य प्रहाणाय याथासांस्तरिको भवत्येवं धुतगुण समन्वागतो भवति ।

कथं प्रासादिको भवति । प्रासादिकेनाति(भि)क्रमप्रतिक्रमेण समन्वागतो भवत्यालोकितव्यलोकितेन संजिमित (सांमिंजित)प्रसारितेन सांघाटीचीवरपात्रधारणेनैवं प्रासादिको भवति ।

कथं मात्रज्ञो भवति । इह श्राद्धा ब्राह्मणगृहपतयो व्यर्थं प्रचारयति । यदुत चीवर पिण्डपात शयनासनग्लानप्रत्ययभैषज्यपरिष्कारैस्तत्र प्रतिग्र[हेण] मात्रां जानाति । एवं मात्रज्ञो भवति ।

कथं सत्पुरुषधर्मसमन्वागतो भवति । उच्चकुलप्रव्रजितो वा सन्नाढ्यकुलप्रव्रजितो वा, अभिरूपो वा, दर्शनीयः, प्रासादिको, बहुश्रुतोपकरणेनोपेतः । अन्यतमान्यतमस्य वा ज्ञानमात्रस्य दर्शनमात्रकस्पर्शविहार सार्थकस्य लाभी सन्नेतेनात्मानमुत्कर्षयति । परांश्च पन्स (पंस)यति । धर्मानुधर्मप्रतिपन्नो भवत्येवं सत्पुरुषधर्मसमन्वागतो भवति ।

कथं पण्डितलिंगसमन्वागतो भवति । कर्मलक्षणो (१६३) बालः, कर्मलक्षणः पण्डितः । यथाकथमिति बालो दुश्चिन्तितचिन्ती भवति । दुर्भाषितभाषी, दुष्कृतकर्मकारी, पण्डितः पुनः सुचिन्तितचिन्ती भवति । सुभाषितभाषी, सुकृतकर्मकारी [।] एवं पण्डितलिंगसमन्वागतो भवति ।

कथं क्षमो भवति । आक्रुष्टो न प्रत्याक्रोशति । रोषितो न प्रतिरोषयति । वादितो न प्रतिवादयति । भण्डितो न प्रतिभण्डयति । स चायुष्मान् क्षमो भवति । शीतस्योष्णस्य जिघत्साया[ः], पिपासायाः, दंशकमशकवातातपसरीसृपसंस्पर्शानां(णां), परतो दुरुक्तानां, दुरागतानां, वचनपथानाम् । शारीरिकाणां वेदनानां, दुःखानां, तीव्राणां, खराणां, कटुकानां, अमन आपानां प्राणहारिणीनां क्षमो भवत्यधिवासनजातीयः । एवं क्षमो भवति ।

कथं (सू) सुरतो भवति । यथापि तन्मैत्रेण काय कर्मणा समन्वागतो भवति । मैत्रेण वाक्कर्मणा, मैत्रेण मनस्कर्मणा, शास्तुरन्तिके विज्ञानां च, सब्रह्मचारिणां, साधारणपरिभोगी च भवत्यपरिभोगी च । भवत्यप्रतिगुप्तभोजी । लाभैर्धार्मिकैर्धर्मप्रतिलब्धैः, पात्रगतैः, पात्रपर्यापन्नैः शीलसामान्यगतश्च भवति । दृष्टिसामान्यगतश्च । स एभिः षड्भिः संरजनीयैर्धर्मैः (संरंजनीयैर्धर्मैः) समन्वागतः प्रियकरणैर्गुरुकरणैर्स्थवादकरणैः सुखसंवास्यो भवति । अविहेठनजातीयः । (१६४) अभिनन्दन्ति चैनं विज्ञाः । सब्रह्मचारिणः । एकव्यवसायः । एवं सू (सु)रतो भवति ।

कथं पेशलो भवति । विगतभृकुटिर्भवत्युत्तानमुखवर्णः, स्मितसार्द्धंगमःपूर्वाभिभाषी । प्रियवादी । संग्रहशीलः । आत्तसन्तानः [ः ।] एवं पेशलो भवति ।

स एभिधर्मैः समन्वागतो धर्मकामो भवति । गुणकामः । न लाभसत्कारकीर्तिश्लोककामः । न स मारोपिकया मिथ्यादृष्ट्या समन्वागतो भवति । नाप्यप[वादि]कया [।] असन्तं धर्मं न समारोपयति । सन्तं धर्मं नापवदति । स यत्तद्भवति । कथितं काथेयं, चिवा(ह्ना)क्षरं, चिह्नपदव्यंजनं, लोकायतप्रतिसंयुक्तम् । तन्निरर्थकमिति । विदित्वा आरात्परिवर्जयति । [न ते]न दयते, न तेन प्रीयते, तेन चात्मदं [वा]न्यी (ची)वरं धारयति । गृहस्थैः सार्धं, संसर्गं परिवर्जयन्ति (यति) । क्लेशवर्द्धनं [।] आर्यैः सह [सं]सर्गं करोति । ज्ञानविशोधकं [।] न च मित्रकुलानिकरोति । प्रतिगृह्णाति । सामे ततो निदानं भविष्यत्यनेकपर्यायेण व्याक्षेपाद्व्यापारो वा, तेषाम्वा पुनर्विपरिणामादन्यथीभावादुत्पत्स्यन्ते शोकपरिदेवदुःखदौर्मनस्योपायासा इति । उत्पन्नोत्पन्नांश्च क्लेशोपक्लेशान्नाधिवासयति । प्रजहाति, (१६५) विनोदयति, व्यन्तीकरोति । सा (तन्) मे अतो निदानमुत्पद्यते दृष्टधार्मिकं वा दुःखं, साम्परायिकं वेति । श्रद्धोदयं च न विनिपातयति । अच्युतशीलः । अभ्रष्टव्रतः, श्रद्धादेयं परिभुङ्क्ते । न च श्रद्धादेयं प्रतिक्षिपति । न शिक्षां प्रत्याख्याति । आत्मदोषान्तरस्खलितगवेषी वा भवति । प्रतिच्छन्नकल्याणो विवृतपापकः । परदोषान्तस्खलितेषु नाभोगः संविद्य[ते] चापत्तिर्नापद्यते । जीवितहेतोरपि । आपन्नश्च लघु लघ्वेव यथाधर्मं प्रतिकरोति । इतिकरणीयेषु च दक्षो भवत्यनलसः, स्वयंकारी, न परतः कायपरिचर्यां पर्येषते । बुद्धानां च बुद्धश्रावकाणां च, अचिन्त्यमनुभावं, गंभीरां च देशनामधिमुच्यते । न प्रतिक्षिपति । तथागता एव जनकाः पश्यका (द्रष्टारो) नाहमिति । दृष्ट्वा न च स्वयं दृष्टिपरामर्शस्थायी भवत्यसमंजसग्राही, दुःप्रतिनिःसर्गमंन्त्री [।] स एभिर्गुणैर्युक्तः, एवं विहारी, एवं शिक्षमाणः, श्रमणालंकारेणालंकृतः शोभते, तद्यथा कश्चिदेव पुरुषः युवा, मननजातीयः, कामोपभोगी, स्नातानुलिप्तः । अववादवस्तुप्रावृतः । विविधैर्भूषणैरलंकृतः शोभते । तद्यथा हर्षैर्वा, केयूरैर्वा, अंगुलिमुद्रिकया वा, जातरूपरजतमालया (१६६) [वा ।] एवमेव स विविधैः श्रमणालंकारैर्गुणैरलंकृतो । भासते, तपति, विरोचते । तस्माच्छ्रमणालंकार इत्युच्यते । अयमुच्यते श्रमणालंकारः ॥

॥ उद्दानम् ॥

स्यादात्मपरसम्पत्तिच्छन्दः शीलेन्द्रियस्तथा ।
भोजनं चैव जागर्या संप्रजानद्विहारिता ॥
चैव तथा श्रवणचिन्तना (सद्धर्मश्रवणचिन्तना) ।

अनन्तरायस्त्यागश्च अलंकारेण पश्चिमः ॥

श्रद्धा अशठः अल्पाबाधवीर्य प्रज्ञा अल्पेच्छता संतुष्टिः सुपोषता [॥]
सुभरता धुतप्राणादिकमात्रता क्षान्ति[ः] सौरभ्यपेशला ॥

॥ योगाचारभूमौ श्रावकभूमिसंगृहीतायां प्रथमं योगस्थानम् ॥


(१६७)
(१६८)
(१६९)
इइ. द्वितीयं योगस्थानम्

लौकिकं चैव वैराग्यं तथा लोकोत्तरेण च ।
तयोश्चैव हि सम्भारो भूमिर्नैष्क्रम्यसंज्ञिता ॥

तत्र कति पुद्गला येस्यां नैष्क्रम्यभूमौ यथादेशितायां यथापरिकीर्त्तितायां निष्क्रामन्ति । कथं च पुद्गलानां व्यवस्थानं भवति । कतमदालम्बनम् । कतमोववादः । कतमा शिक्षा । कतमे शिक्षानुलोमिका धर्माः । कतमो योगभ्रंशः । कतमे योगाः [।] कतमो मनस्कारः । कति योगाचाराः । कतमद्योगकरणीयम् । कतमा योगभावना [।] कतमद्भावनाफलम् । कति पुद्गलपर्यायाः । कति माराः । कति मारकर्माणि । कथमारम्भो विफलो भवति ।

तत्र पुद्गलाः अष्टाविंशतिः । कतमे अष्टाविंशतिः । तद्यथा मृद्विन्द्रियः । तीक्ष्णेन्द्रिययः । उन्मदरागः । उन्मेदद्वेषः । उन्मदमोहः । उन्मदमानः । उन्मदवितर्कः । समप्राप्तो, मन्दरजस्कजातीयः । प्रतिपन्नकः [।] फलस्थः । श्रद्धानुसारी । धर्मानुसारी । (१७०) बुद्धाधिमुक्तो, दृष्टिप्राप्तः । कायसाक्षी । सकृद्भवपरमः । कुलंकुलः [।] एकवीचिकः । अन्तरा(य)परिनिर्वायी । उपपद्यपरिनिर्वायी । साभिसंस्कारपरिनिर्वायी । ऊर्ध्वं(र्ध्व)स्रोता[ः ।] समयविमुक्तः । अकोप्यधर्मा(ः) प्रज्ञाधिमुक्तः । उभयतोभागविमुक्तश्चेति ।

तत्र मृद्विन्द्रियः पुद्गलः कतमः । यस्य पुद्गलस्य मृदूनीन्द्रियाणि । धन्धवाहीनि । मन्दवाहीनि । ज्ञेये वस्तुनीति पूर्ववत् । स पुनर्द्विविधो वेदितव्यः । आदित एव मृद्विन्द्रियगोत्रः । अपरिभाषि(वि)तेन्द्रियश्च ।

तीक्ष्णेन्द्रियः पुद्गलः कतमः । यस्य पुद्गलस्येन्द्रियाणि अधन्धवाहीनि भवन्ति । अमन्दवाहीनि । ज्ञेये वस्तुनीति पूर्ववत् । स पुनर्द्विविधो वेदितव्यः । आदित एव तीक्ष्णेन्द्रियगोत्रः । परिभावितेन्द्रियश्च ॥

रागोन्मदः पुद्गलः कतमः । येन पुद्गलेन पूर्वमन्यासु जातिषु राग आसेवितो, भावितो, बहुलीकृतः स तेन हेतुना तेन प्रत्ययैनैतर्हि रंजनीये वस्तुनि तीव्ररागश्च, भवत्यायत(न)रागश्च । अयमुच्यते रागोन्मदः पुद्गलः ।

(१७१)
द्वेषोन्मदः पुद्गलः कतमः । येन पुद्गलेन द्वेषः पूर्वमन्यासु जातिषु आसेवितो, भावितो, बहुलीकृतः । तेन हेतुना तेन प्रत्ययेनैतर्हि द्वेषणीये वस्तुनि तीव्रद्वेषश्च भवत्यायतद्वेषश्च । अयमुच्यते । द्वेषोन्मदः पुद्गलः ।

मोहोन्मदः पुद्गलः कतमः । येन पुद्गलेन पूर्वमन्यासु जातिषु मोह आसेवितो, भावितो, बहुलीकृतः । तेन च हेतुना तेन प्रत्ययेन [।] एतर्हि मोहनीये वस्तुनि तीव्रमोहश्च भवत्यायत मोहश्चायमुच्यते मोहोन्मदः पुद्गलः ।

मानोन्मदः पुद्गलः कतमः । येन पुद्गलेन पूर्वमन्यासु जातिषु मान आसेवितो, भावितो, बहुलीकृतस्तेन हेतुना तेन प्रत्ययेन [।] एतर्हि मन्यनीये(माननीये)वस्तुनि तीव्रमानश्च भवत्यायतमानश्च ॥ अयमुच्यते मानोन्मदः पुद्गलः ।

वितर्कोन्मदः पुद्गलः कतमः । येन पुद्गलेन पूर्वमन्यासु जातिषु वितर्क आसेवितो, भावितो, बहुलीकृतस्तेन च हेतुना तेन च प्रत्ययेन एतर्हि वितर्क स्थानीये वस्तुनि तीव्रवितर्कश्च भवत्यायतवितर्कश्च [।] अयमुच्यते वितर्कोन्मदः । पुद्गलः ॥

समप्राप्तः पुद्गलः कतमः । येन पुद्गलेन पूर्वमन्यासु जातिषु रागो, द्वेषो, मोहो, मानो, वितर्को नासेवितो, भावितो, बहुलीकृतो, न चैते धर्मा (१७२) आदीनवतो दृष्टाः । विदूषिताः, सन्तीरिताः [।] स तेन हेतुना, तेन च प्रत्ययेन रंजनीये वा वस्तुनि, द्वेषणीये वा वस्तुनि, मन्यनीये (माननीये), वितर्कणीये [वा वस्तुनि] न तीव्ररागो भवति । नाप्यायतरागः । न चास्य समुदाचरति रागो, यदुत तेन वस्तुना [।] यथा राग एवं द्वेषो, मोहो, मानो, वितर्कः । अयमुच्यते समप्राप्तः पुद्गलः ।

मन्दरजस्कः पुद्गलः कतमः । येन पुद्गलेन पूर्वमन्यासु जातिषु न राग आसेवितो भवति, बहुलीकृतः । आदीनवतश्च बहुलं दृष्टो भवति । विदूषितः सन्तीरितः । स तेन हेतुना तेन प्रत्ययेनैतर्हि रंजनीये वस्तुनि समवहिते, संमुखीभूते, अधिमात्रे, प्रचुरे, उद्व(उल्व)णे रज्यं रागमुत्पादयति । मध्ये परीत्ते नैवोत्पादयति । यथा राग एवं द्वेषो, मोहो, मानो, वितर्का(र्को), वेदितव्याः (व्यः) । अयमुच्यते मन्दरजस्कः पुद्गलः ॥

प्रतिपन्नकः पुद्गलः कतमः [।] आह । प्रतिपन्नकाः पुद्गलाश्चत्वारः । तद्यथा स्रोत आपत्तिफलप्रतिपन्नकः । सकृदागामिफलप्रतिपन्नकः । अनागामिफलप्रतिपन्नकः । अर्हत्त्वफलप्रतिपन्नकः । अयमुच्यते (१७३) प्रतिपन्नकः पुद्गलः ॥

फलस्थ पुद्गलः कतमः । आह । स्त्रोत आपन्नः, सकृदागामी, (१७४) अनागामी अर्हन् । अयमुच्यते फलस्थः पुद्गलः ॥

(१७५)
श्रद्धानुसारी पुद्गलः कतमः । यः पुद्गलः परत अव(तोऽव)वादानुशासनीं पर्येषते । तद्वलेन च प्रतिपद्यते । यदुत फलस्याधिगमाय । नो तूद्गृहीतेषु धर्मेषु । पर्यवाप्तेषु, चिन्तितेषु, तुलितेषूपपरीक्षितेषु स्वयमेवशक्तो भवति । प्रतिबलः । तान् धर्मान् भावनाकारेणानुसर्त्तुम् । नान्यत्र पुद्गलानुसारिण्या प्रज्ञया प्रतिपद्यते । तस्माच्छ्रद्धानुसारीत्युच्यते ॥

धर्मानुसारी पुद्गलः कतमः । यत्पु(यः पु)द्गलो यथाश्रुतेषु धर्मेषु, पर्यवाप्तेषु, चिन्तितेषु । तुलितेषूपपरीक्षितेषु, स्वयमेव शक्तो भवति । प्रतिबलस्तान्धर्मान्भावनाकारेणानुसर्त्तम् ॥ नो तु परतोऽववादानुशासनीम्पर्येषते । यदुत फलस्याधिगमायायमुच्यते धर्मानुसारी पुद्गलः ।

श्रद्धाधिमुक्तः पुद्गलः कतमः । स श्रद्धानुसारी (१७६) पुद्गलः । यस्मिन्समये श्रामण्य[भाव]मधिगच्छति । स्पर्शयति (स्पृशति) । साक्षीकरोति । परतोववादानुशासनीमार्गस्य तस्मिन्समये श्रद्धाधिमुक्त इत्युच्यते ॥

दृष्टिप्राप्तः पुद्गलः कतमः । आह [।] स एव धर्मानुसारी पुद्गलो यस्मिन् समये श्रामण्यफलमधिगच्छति । स्पर्शयति (स्पृशति) । साक्षीकरोति । (१७७) परतोववादानुशासनीमार्गस्य तस्मिन्समये दृष्टिप्राप्त इत्युच्यते ॥

कायसाक्षी पुद्गलः कतमः [।] योयं पुद्गलः । अनुलोमप्रतिलोममष्टौ विमोक्षान्समापद्यते । व्युत्तिष्ठते च, कायेन च साक्षात्कृत्य [बहुलं] विहरति, न च सर्वेण सर्वमास्रवक्षयमनुप्राप्नोत्ययमुच्यते कायसाक्षी पुद्गलः ॥

सप्तकृद्भवपरमः पुद्गलः कतमः । योयं पुद्गलस्त्रयाणां संयोजनानां प्रहाणात्सत्कायदृष्टेः, शीलव्रतपरामर्शस्य, विचिकित्सायाः स्त्रोत आपन्नो भवति । अविनिपातधर्मा, नियतः संबोधिपरायणः । सप्तकृद्भवपरमः । सप्तकृत्वा देवांश्च, मनुष्यांश्च, (१७८) संबाध्य, संसृत्य दुःखस्यान्तं करोति । उभावपि स्त्रोत आपन्नौ पुद्गलौ वेदितव्यौ ।

तत्रैकवीचिकः पुद्गलः कतमः । यस्य सकृदागामिनः पुद्गलस्य अनागामिफलप्रतिपन्नकस्य कामावचराणां क्लेशानामधिमात्रमध्यदेशाः प्रहीणा भवन्ति । मृदुकाश्चैकावशिष्टा (चैका अवशिष्टा) भवन्ति । सकृच्च कामावचरमेव भवमभिनिर्वृत्य तत्रैव परिनिर्वाति । स पुनः सकृदागच्छतीमं लोकमयमुच्यते एकवीचिकः ॥

अन्तरापरिनिर्वायी पुद्गलः कतमः । आह । (१७९) अन्तरापरिनिर्वायिणः पुद्गलास्त्रयः । एकोन्तरापरिनिर्वायी पुद्गलः । च्युतमात्र एवान्तराभवाभिनिर्वृत्तिकाले अन्तराभवमभिनिर्वतयत्यभिनिर्वृत्ते[ः] समकालमेव परिनिर्वाति । तद्यथा परीत्तः शकलिकाग्निरुत्पन्नैव(न्न एव) परिनिर्वाति । द्वितीयोन्तरापरिनिर्वायी पुद्गलः । अन्तराभवमभिनिर्वर्त्तयत्यभिनिर्वृत्तेः (१८०) समकाला(कालम)न्तरा भवेत्तत्रस्थ एव कालान्तरेण परिनिर्वाति । नो तु येनोपपत्तिभवस्तेनास्याप्युपरतो भवति । तद्यथा अशुभानाम्वा अयःस्थालानाम्वा, दीप्ताग्निसंप्रतप्तानामयोघनैर्हन्यमानानामयःप्रपाटिका उत्पतत्येव(वं) परिनिर्वाति । तृतीयोन्तरापरिनिर्वायि (यी) पुद्गलः अन्तराभवमभिनिर्वर्त्त्य येनोपपत्ति भवस्तेनोपनमति । उपनतश्च पुनरनुपपन्न एव परिनिर्वाति । तद्यथा । अयस्प्रपाटिका उत्पत्य पृथिव्याम् । अपतितैवमभिनिर्वाति । त इमे त्रयोऽन्तराभवपरिनिर्वायिणः पुद्गलाः एकत्यमभि संक्षिप्य अन्तरापरिनिर्वायी पुद्गल इत्युच्यते ।

उपपद्यपरिनिर्वायी पुद्गलः कतमः । य उपपन्नमात्र एव परिनिर्वाति ॥

अनभिसंस्कारपरिनिर्वायी पुद्गलः कतमः । योनभिसंस्कारेणाप्रयत्नेनाखेदेन मार्गं संमुखीकृत्य (१८१) तत्रोपपन्नः परिनिर्वात्ययमुच्यते अनभिसंस्कारपरिनिर्वायी पुद्गलः ।

साभिसंस्कारपरिनिर्वायी पुद्गलः कतमः । योभिसंस्कारेण प्रयत्नेन खेदमार्गं संमुखीकृत्य तत्रोपपन्नः परिनिर्वात्ययमुच्यते साभिसंस्कारपरिनिर्वायी पुद्गलः ॥

ऊर्ध्वस्रोताः पुद्गलः कतमः । यः पुद्गलोऽनागामी । (१८२) प्रथमे ध्याने उपपन्नः स न तत्रस्थ एव परिनिर्वाति । अपि तु तस्माच्च्यवित्वा उत्तरोत्तरमभिनिर्वर्त्तयभ्य(न्या)वदकनिष्ठान्वा देवान्गच्छति । नैव संज्ञा । (।) नासंज्ञायतनाद्वा । अयमुच्यते उर्ध्वस्रोताः पुद्गलः ।

समयविमुक्तः पुद्गलः कतमः । यो मृद्विन्द्वियगात्रः (गोत्रः) पुद्गलः लौकिकेभ्यो दृष्टधर्मसुखविहारेभ्यः परिहीयते । चेतयति वा मरणाय । अनुरक्षते वा विमुक्तिमत्यर्थप्रमादभयापन्नयुक्तो भवति । यदुत एतामेव परिहाणिमधिपतिं कृत्वा तन्मात्रो वास्य कुशलपक्षो भवति । नो तु तेषां तेषां रात्रिंदिवसानां क्षणलवमुहूर्त्ताना (णा)मत्ययादत्यर्थं विशेषाय परैति । यावन्न तीव्रमभियोगं करोति । अयमुच्यते समयविमुक्तः पुद्गलः ॥

(१८३)
अकोप्यधर्मा पुद्गलः कतमः । एतद्विपर्ययेणा [को]ऽप्यधर्मा पुद्गलो वेदितव्यः ॥

प्रज्ञाविमुक्तः पुद्गल कतमः । यः पुद्गलः सर्वेण सर्वमास्रवक्षयमनुप्राप्नोति । नो त्वष्टौ विमोक्षान् कायेन साक्षात्कृत्योपसम्पद्य विहरति । अयमुच्यते प्रज्ञाविमुक्ति (क्तः) पुद्गलः [।]

[उभयतोभागविमुक्तः पुद्गलः] कतमः । यः पुद्गल सर्वेण सर्वमास्रवक्षयमनु प्राप्नोति । अष्टौ विमोक्षान्कायेनोपसम्पद्य विहरति । तस्य क्लेशावरणाच्च चित्तं मुक्तं भवति । विमोक्षावरणाच्चा[यमुच्य]ते उभयतोभागविमुक्तः पुद्गलः ॥

(१८४)
पुद्गलव्यवस्थानं कतमत् । एकादशभिः प्रभेदैः पुद्गलव्यवस्थानं वेदितव्यम् । कतमैरेकादशभिस्तद्यथा इन्द्रियप्रभेदेन, निकायप्रभेदेन, चरितप्रभेदेन [प्रणिधानप्रभेदेन प्रप्रिपत्प्रभेदेन मार्गफल प्रभेदेन] प्रयोगप्रभेदेन । समापत्तिप्रभेदेन उपपत्तिप्रभेदेन परिहाणि प्रभेदेना वरणप्रभेदेन च ॥

इन्द्रियप्रभेदेन तावत् । मृद्विन्द्रियस्ती (यती) क्ष्णेन्द्रियपुद्गलयोर्व्यवस्थानम् ॥

निकायप्रभेदेन सप्तविधपुद्गलव्यवस्थानम् । भिक्षु[र्]भिक्षुणी, शिक्षमाणा [श्रामणेरः] श्रामणेरी उपासक उपासिका च ॥

तत्र चरितप्रभेदेन सप्तानां पुद्गलानां व्यवस्थानम् । योयं रागोन्मदः पुद्गलः स रागचरितः [।] यो द्वेषोन्मदः स द्वेषचरितः । यो मोहोन्मदः स मोहचरितः । यो मानोन्मदः स मानचरितः । यो वितर्कोन्मदः स वितर्कचरितः । यः समप्राप्तः समभागचरितः । यो मन्दरजस्कः सो [मन्दचरितो] वेदितव्यः ॥

(१८५)
तत्र रागचरितस्य पुद्गलस्य कतमानि लिंगानि । इह रागचरितः पुद्गलः परीत्ते सर्वनिहीने रंजनीये वस्तुनि घनमधिमात्रं रागपर्यवस्थानमुत्पादयति । कः पुनर्वादो मध्यप्रणीते [।] तच्च पुनारागपर्यवस्थानं संतत्या चिरकालमवस्थापयति । दीर्घकालमनुबद्धो भवति (।) तेन पर्यवस्थानेन, रंजनीयैर्धर्मैरभिभूयते । नो तु शक्तो [अ]तिरंजनीयान्धर्मानभिभवितुं [।] स्निग्धेन्द्रियश्च भवत्यखरेन्द्रियः । कर्कशेन्द्रियः, अपरुद्धेन्द्रियः । नात्यर्थं परेषां विहेठनजातीयो यदुत कायेन, वाचा दुर्विवेज्यश्च भवति, दुःसंवेज्यश्च । हीनाधिमुक्तिकश्च भवति । दृढकर्मान्तः । स्थिरकर्मान्तः । दृढव्रतः । स्थिरव्रतः । महिष्ठश्च भवत्युपकरणेषु परिष्कारेषु लोलुपजातीयस्तद्गुरुकश्च, सौमनस्यबहुलश्च भवत्यानन्दीबहुलो विगतभृकुटिरुत्तानमुखवर्णः, स्मितपूर्वंगम इत्येवंभागीयानि रागचारितस्य पुद्गलस्य लिंगानि वेदितव्यानि ।

द्वेषचरितस्य पुद्गलस्य लिंगानि कतमानि । इह द्वेषचरितः पुद्गलः । द्वेषणीये वस्तुनि परीत्तेन प्रतिघवस्तुनिमित्तेन घनं,प्रभूतं प्रतिघपर्यवस्थानमुत्पादयति । कः पुनर्वादो मध्याधिमात्रे(ण) [।] तस्य च प्रतिघपर्यवस्थानस्य दीर्घकालं सन्ततिमवस्थापयति । चिरकालमनुबद्धो भवति । प्रतिघपर्यवस्थानेन । स द्वेषणीयैर्धर्मैरभिभूयते । नो तु द्वेषणीयान्धर्मान्छक्नो (ञ्छक्नो)ति (१८६) अभिभवितुम् । रुक्षेन्द्रियश्च भवति । खरेन्द्रियः, कर्कशेन्द्रियः परुषेन्द्रियश्च भवत्यत्यर्थं परेषां विहेठनजातीयो भवति । यदुत कायेन, वाचा । सुविवेन्य(ज्य)श्च भवति । सुसंवेज्यः । ध्वाङ्क्षो भवति मुखरः । प्रगल्भः अनधिमुक्तिबहुलः । न दृढकर्मान्तो, नस्थिरकर्मान्तः । न दृढव्रतो, न स्थिरव्रतः । दौर्मनस्यबहुलश्च भवत्युपायासबहुलः । अक्षमो भवत्यमहिष्ठः । विलोमनजातीयः । अप्रदक्षिणग्राही दुःप्रत्यानेय जातीय उपनाहबहुलः । क्रूराशंसश्चण्डश्च भवत्यादा[यी] प्रत्यक्षरवादी सोऽल्पमात्रमप्युक्तः सन्नभिषज्यते । कुप्यति । व्यापद्यते । मद्गु[ः] प्रतितिष्ठति । कोपं संज[न]यति । [वि]कृतभृकुटिश्च भवति । अनुत्तानमुखवर्ण[ः] परसम्पत्तिद्वेष्टा, ईर्ष्याबहुल इत्येवंभागीयानि [द्वेष]चरितस्य पुद्गलस्य लिङ्गानि वेदितव्यानि ॥

तत्र कतमानि मोहचरितस्य पुद्गलस्य लिङ्गानि । इह [मोह]चरितः पुद्गलः मोहस्थानीये वस्तुनि परीत्तं, घनं, प्रभूतं मोहपर्यवस्थानमुत्पादयति । प्रागेव मध्याधिमात्रे, दृढं च कालं तस्य मोहपर्यवस्थानस्य सन्ततिमवस्थापयति । तेन चानुबद्धो भवति । (१८७) स मोहनीयैर्धर्मैरभिभूयते । नो तु मोहनीयान् धर्मांच्छक्नोत्यभिभवितुं (धर्माञ्छक्नोत्यभिभवितुं) । बद्धे(धन्धे?)न्द्रियश्च भवति । जडेन्द्रियश्च भवति । मत्तेन्द्रियश्च, शिथिलकायकर्यान्त(न्तो)दुश्चिन्तितचिन्ती, दुर्भाषितभाषी, दुष्कृतकर्मकारी, अलसोऽनुत्थानसम्पन्नः । मन्दभागी, दुर्मेधो(धः) । मुषितस्मृतिः । असंप्रजानद्विहारी । वामग्राही, दुर्विवेज्यो, दुःसंवेज्यो, हीनाधिमुक्तिकः । जात एडमूको हस्तसंबाधिकः । अप्रतिबलः । सुभाषितदुर्भाषितानामर्थमाज्ञातुं प्रत्यय(प?)हायश्च भवति । परहायः परप्रणेय इत्येवं भागीयानि मोहचरितस्य पुद्गलस्य लिंगानि वेदितव्यानि ॥

तत्र कतमानि मानचरितस्य पुद्गलस्य लिंगानि । इह मानचरितः पुद्गलो मानस्थानीये वस्तुनि परीत्तेपि घनं मानपर्यवस्थानमुत्पादयति । कः पुनर्वादो मध्याधिमात्रे [।] तस्य च मानपर्यवस्थानस्य दीर्घकालं सन्ततिमवस्थापयति । तेन चानुबद्धो भवति । [कतमानि मानचरितस्य पुद्गलस्य लिंगानि [।] इह मानचरितः पुद्गलः मानस्थानीये वस्तुनि परीत्तेपिघनं मानपर्यवस्थानमुत्पादयति कः पुनर्वादो मध्याधिमात्रे । तस्य मानपर्यवस्थानस्य दीर्घकालं सन्ततिमवस्थापयति । तेन चानुबद्धो भवति] स मानस्थानीयैर्धर्मैरभिभूयते । (१८८) नो तु मानस्थानीयान्धर्माञ्छक्नोत्यभिभवितुम् । उद्धतेन्द्रियश्च भवत्युन्नतेन्द्रियश्चो[न्नतेन्द्रियश्च] कायमण्डनानुयुक्तश्च भवत्यधिमात्रमुन्नताञ्च वाचं भाषते, नावनतां, सातापिकगुरुस्थानीयानां च न कालेन कालं यथारूपामपचितिं कर्ता भवति । स्तब्धो भवति । अप्रणतकायो नाभि वादनवन्दनप्रत्युत्थानानां जालिसामीचीकर्मशील, आत्मप्रग्राहको भवत्यात्मोत्कर्षो परपंसकः । लाभकामः सत्कारकामः कीर्तिशब्दश्लोककामः ।ुत्प्लावनाभाण्डोनुविवेध्यश्च(ज्यश्च) भवति । दुःसंवेज्य उदाराधिमुक्तिश्च भवति । मन्दकारुण्यः [।] अधिमात्रं चात्मसत्त्वजीवपो[षपु]रुषपुद्गलदृष्टिमन्युबहलो भवति । उपनाही चेत्येवंभागीयानि मानचरितस्य पुद्गलस्य लिंगानि वेदितव्यानि ॥

तत्र कतमानि वितर्कचरितस्य पुद्गलस्य लिंगानि । इह वितर्कचरितः पुद्गलः वितर्क स्थानीये वस्तुनि परीत्तेपि घनपर्यवस्थानमुत्पादयति । तच्च पर्यवस्थानं दीर्घकालमवस्थापयति । तेन चानुबद्धो भवति । स वितर्कस्थानीयैर्धर्मैरभिभूयते । नो तु वितर्कस्थानीयान् धर्मां (र्माञ्) छक्नोत्यभिभवितुम् । अस्थिरेन्द्रियश्च भवति । चपलेन्द्रियः । (१८९) त्रं (चं)चलेन्द्रियः । व्याकुलेन्द्रियः । [अस्थिर]कायकर्मान्तः [।] छ(दु)रितवाक्कर्मान्ती, दुर्विवेज्यो दुःसंवेज्यः, प्रपंचारामः प्रपंचरतः । कांक्षाबहुलो, विचिकित्साबहुलः । छन्दिकश्च भवत्यस्थिरव्रतः । अनिश्चितव्रतः । अस्थिरकर्मान्तः [।] अनिश्चितकर्मान्तः [।] शंकाबहुलः, प्रमुषितस्मृतिः । विवेकानभिरतो, विक्षेपबहुलः । लोकचित्रेषु छन्दरागानुसृतः [।] दक्षोनलस इत्येवं भागीयानि वितर्कचरितस्य पुद्गलस्य लिंगानि वेदितव्यानि ॥ इदं चरितप्रभेदेन पुद्गलव्यवस्थानं वेदितव्यम् ॥

तत्र प्रणिधानप्रभेदेन पुद्गलव्यवस्थानम् । अस्ति पुद्गलः श्रावकयाने कृतप्रणिधानः [।] अस्ति प्रत्येकबुद्धयाने [।] अस्ति महायाने [।] तत्र योयं पुद्गलः । श्रावकयाने कृतप्रणिधानः सम्यक्छ्रावकगोत्रः स्यात्प्रत्येकबुद्धगोत्रः । स्यान्महायानगोत्रः । तत्रयोयं पुद्गलः प्रत्येकायां बोधौ कृतप्रणिधानः सोऽपि स्यात्प्रत्येकबुद्धगोत्रः, स्याच्छावकगोत्रः, स्यान्महायानगोत्रः [।] तत्र योयं पुद्गलो महायाने कृतप्रणिधानः सोऽपि स्याछ्रावकगोत्रः, स्यात्प्रत्येकबुद्धगोत्रः, स्यान्महायानगोत्रः । तत्र योयं श्रावकगोत्रः पुद्गलः प्रत्येकयाम्बोधौ, अनुत्तरायाम्वा सम्यक्संबोधौ कृतप्रणिधानः । स श्रावकगोत्रत्वादवश्यमन्ते काले तत्प्रणिधानं (१९०) व्यावर्त्यं श्रावकयानप्रणिधान एवावतिष्ठते । एवं प्रत्येकबुद्धयानगोत्रो महायानगोत्रो वेदितव्यः ।

तत्र भवत्येषां पुद्गलानां प्रणिधानसंभारः प्रणिधानव्यतिकरः । नो तु गोत्रसंभारो, गोत्रव्यतिकरः । अस्मिंस्त्वर्थे श्रावकयानप्रणिधाना[ः] श्रावकगोत्राश्चैते पुद्गला वेदितव्याः ॥ एवं प्रणिधानप्रभेदेन पुद्गलव्यवस्थानं भवति ॥

कथं प्रतिपत्प्रभेदेन पुद्गलव्यवस्थानं भवति । एषां यथोद्दिष्टानां यथापरिकीर्त्तितानां पुद्गलानां चतसृभिः प्रतिपद्भिर्निर्याणं भवति । कतमाभिश्चतसृभिः [।] अस्ति प्रतिपद्दुःखा धन्धाभिज्ञा । [अस्ति प्रतिपद्दुःखा क्षिप्राभिज्ञा] । अस्ति प्रतिपत्सुखा धन्धाभिज्ञा अस्ति प्रतिपत्सुखा क्षिप्राभिज्ञा ॥ तस्य मृद्विन्द्रियस्य पुद्गलस्य मौलध्यानलाभिनो या प्रतिपदियमुच्यते दुःखा धन्धाभिज्ञा । तत्र तीक्ष्णेन्द्रियस्य पुद्गलस्य मौलध्यानलाभिनो या प्रतिपदियमुच्यते दुःखा क्षिप्राभिज्ञा । तत्र मृद्विन्द्रियस्य पुद्गलस्य मौलध्यानलाभिनो या प्रतिपदियमुच्यते सुखा धन्धाभिज्ञा । तत्र तीक्ष्णेन्द्रिस्य पुद्गलस्य मौलध्यानलाभिनो या प्रतिपदियमुच्यते सुखा क्षिप्राभिज्ञा । एवं प्रतिपत्प्रभेदेन पुद्गलव्यवस्थानं वेदितव्यम् ॥

तत्र कथं मार्गफलप्रभेदेन पुद्गलव्यवस्थानं (१९१) वेदितव्यम् । तद्यथा । चतुर्णां प्रतिपन्नकानां स्त्रोत आपत्तिफलप्रतिपन्नकस्य सकृदागामिफलप्रतिपन्नकस्य अनागामिफलप्रतिपन्नकस्य, अर्हत्त(अर्हत्त्व)फलप्रतिपन्नकस्य, चतुर्णां फलस्थानां स्रोत आपन्नस्य, सकृदागामिनः । अनागामिनोर्हतश्च ये प्रतिपन्नकमार्गा वर्तन्ते । ते प्रतिपन्नकास्तेषां प्रतिपन्नकमार्गेण व्यवस्थानम् । येऽर्हत्फलश्रामण्यफलव्यवस्थितास्तेषां [मार्गफ]लव्यवस्थानमेवं मार्गफलप्रभेदेन पुद्गलव्यवस्थानं भवति ॥

कथं प्रयोगप्रभेदेन पुद्गलव्यवस्थानं भवति । तद्यथा श्रद्धानुसारिधर्मानुसारिणा [।] यः पुद्गलः श्रद्धानुसारेण प्रयुक्तः । स श्रद्धानुसारी, यो धर्मेषु परप्रत्ययविनयानुसारेण प्रयुक्तः स धर्मानुसारी । एवं प्रयोगप्रभेदेन पुद्गलव्यवस्थानं भवति ।

तत्र कथं समापत्तिप्रभेदेन पुद्गलव्यवस्थानं भवति । तद्यथा कायसाक्षिणः (साक्षी) अष्टौ विमोक्षान् कायेन साक्षात्कृत्योपसम्पद्य विहरति । न च सर्वेण सर्वमास्रवक्षयमनुप्राप्तो भवति । रूपी रूपाणि पश्यति । अध्यात्ममरूपसंज्ञां बहिर्धा रूपाणि पश्यति । शुभविमोक्षं कायेन साक्षात्कृत्योपसम्पद्य विहरति । आकाशानन्त्यायतनं, विज्ञानानन्त्यायतनं, आकिञ्चन्यायतनं, नैव संज्ञा नासंज्ञायतनं, संज्ञावेदयितनिरोधमनुलोमप्रतिलोमं (१९२) समापद्यते च, व्युत्तिष्ठते च । एवं समापत्तिप्रभेदेन पुद्गलव्यवस्थानं भवति ।

कथमुपपत्तिप्रभेदेन । पुद्गलव्यवस्थानं भवति । तद्यथा सप्तकृद्भवपरमस्य, कुलंकुलस्य, एकवीचिकस्यान्तरापरिनिर्वायिणः उपपद्यपरिनिर्वायिणः, ऊर्ध्वंस्रोतसश्च । एवमुपपत्तिप्रभेदेन पुद्गलव्यवस्थानं भवति ।

कथमपरिहाणिप्रभेदेन । पुद्गलव्यवस्थानं भवति । तद्यथा समयविमुक्तस्यार्हतः यो भव्यो दृष्टधर्मसुखविहारेभ्यः परिहाणाय, अपरिहाणिप्रभेदेन पुनर्व्यवस्थानम् ॥ अकोप्यधर्मकस्यार्हतः यो न भव्यो दृष्टधर्मसुखविहारेभ्यः परिहाणाय [।] एव मपरिहाणिप्रभेदेन पुद्गलव्यवस्थानं भवति ।

तत्र कथमावरणप्रभेदेन पुद्गलव्यवस्थानं भवति । तद्यथा प्रज्ञाविमुक्तस्योभयतोभागविमुक्तस्यार्हतः । तत्र प्रज्ञाविमुक्तोर्हन् क्लेशावरणविमुक्तो, न समापत्त्यावरणात् । उभयतोभागविमुक्तस्तु । अर्हन् । क्लेशावरणाच्च विमुक्तः, समापत्त्यावरणाच्च तस्मादुभयतोभागविमुक्त इत्युच्यते । एवमावरणप्रभेदेन पुद्गलव्यवस्थानं भवत्येभिस्त्रिभिर्भेदैर्ययोद्दिष्टैर्यथोद्दिष्टानां पुद्गलानां यथाक्रमं व्यवस्थानं वेदितव्यम् ॥

तत्रालम्बनं कतमत् । आह [।] चत्वार्यार्यालम्बनवस्तूनि । (१९३) कतमानि चत्वारि । व्याप्यालम्बनं, चरितविशोधमालम्बनं कौशल्यालम्बनं, क्लेशविशोधनं चालम्बनम् ।

तत्र व्याप्यालम्बनं कतमत् । आह । तदपि चतुर्विधम् । तद्यथा सविकल्पं प्रतिबिम्बं, निर्विकल्पं प्रतिबिम्बं, वस्तुपरीत्तता । कार्यपरिनिष्पत्तिश्च ।

तत्र सविकल्पं प्रतिबिम्बं कतमत् । यथापीहैकत्यः सद्धर्मश्रवणं वा अववादानुशासनीम्वा निश्रित्य, दृष्टम्वा, श्रुतम्वा, परिकल्पितं वोपादाय ज्ञेयवस्तुसभागं स विकल्पं प्रतिबिम्बं समाहितभूमिकै र्विपश्यनाकारैर्विपश्यति । विचिनोति । प्रविचिनोति । परिवितर्कयति । परिमीमान्सा (मांसा)मापद्यते ।

तत्र ज्ञेयम्वस्तु [।] तद्यथा अशुभा वा, मैत्री वा, (१९४) इदंप्रत्ययताप्रतीत्यसमुत्पादो वा, धातुप्रभेदो वा, आनापानस्मृतिर्वा । स्कन्धकौशल्यम्वा, धातुकौशल्यमायतनकौशल्यं, प्रतीत्यसमुत्पादकौशल्यं, स्थानास्थानकौशल्यम् । अधोभूमीनामौदारिकत्वम् । उपरिभूमीनां सातत्यं, समुदयसत्यं, निरोधसत्यं, मार्गसत्यमिदमुच्यते । ज्ञेयम्वस्तु ।
तस्यास्य ज्ञेयवस्तुनः अववादानुशासनीम्वा आगम्य, सद्धर्मप्र(श्र)वणं वा, तन्निश्रयेण समाहितभूमिकं मनस्कारं संमुखीकृत्य, तानेव धर्मानधिमुच्यते । तदेवं ज्ञेयम्वस्तुनि (स्त्वधि)मुच्यते । स तस्मिन् समये प्रत्यक्षानुभाविक इति वा[धि]मोक्षः प्रवर्त्तते । ज्ञेयंवस्तुनि (स्त्विति) च । तज्ज्ञेयम्वस्तु प्रत्यक्षीभूतं भवति । समवहितं, संमुखीभूतं, न पुनरन्यत्तज्जातीयं द्रव्यमपि त्वधिमोक्षानुभवः । स तादृशा(शो) मनस्कारानुभवः समाहितभूमिको, येन तस्य ज्ञेयस्य वस्तुनः अनुसदृशं तद्भवति (।) प्रतिभासं, येन तदुच्यते । ज्ञेयवस्तुभावं (-सभागं) प्रतिबिम्बिमिति । यदयं (दिमं) योग[ं] सन्तीरयंस्तस्मिन् प्रकृते, ज्ञेये वस्तुनि परीक्ष्य गुणदोषावधारणं करोति । इदमुच्यते सविकल्पं प्रतिबिम्बं [।]

निर्विकल्पं (।) प्रतिबिम्बं कतमत् । इहायं योगी प्रतिबिम्बान्निमित्तमुद्गृह्य न पुनः विचिनोति । (१९५) प्रतिविचिनोति । परिवितर्कयति । परिमीमान्सा (मांसा)मापद्यते । अपि तु तदेवालम्बनमसक्तञ्चार्थाकारेण तन्निमित्तं शमयति । अपि तु नवाकारया चित्तस्थित्या अध्यात्ममेव चित्तं स्थापयति । संस्थापयति । अवस्थापयत्युपस्थापयति । दमयति । शमयति । [व्युपशमयति] । एकोतीकरोति । समाधत्ते [।] तस्य तस्मिन्समये निर्विकल्पं तत्प्रतिबिम्बमालम्बनं भवति । यत्रासावेकांशेनैकाग्रां स्मृतिमवस्थापयति (।) तदालम्बनं, नो तु विचिनोति । परिवितर्कयति । परिसीमान्सा (मांसा)मापद्यते । तच्च प्रतिबिम्बं प्रतिबिम्ब मित्युच्यते । इतीमानि तस्य ज्ञेयवस्तुसभागस्य प्रतिबिम्बस्य पर्यायनामानि वेदितव्यानि ।

वस्तुपपन्नता (वस्तुपर्यन्तता) कतमा । यदालम्बनस्य यद्भाविकता यथावद्भाविकता । यथावद्भाविकता च ।

तत्र यावद्भाविकता कतमा । यस्मात्परेण रूपस्कन्धो (१९६) वा, वेदनास्कन्धो वा, संज्ञास्कन्धो [वा], संस्का[र]स्कन्धो वा, विज्ञानस्कन्धो वा, विज्ञानस्कन्धो वेति । सर्वसंस्कृतवस्तुसंग्रहः पंचभिर्धर्मैः सर्वधर्मसंग्रहो धातुभिरायतनैश्च सर्वज्ञेयवस्तुसंग्रहश्च । आर्यसत्यैरियमुच्यते यावद्भाविकता ॥

तत्र यथावद्भाविकता कतमा । या आलम्बनस्य भूतता । तथता च तसृभिर्युक्तिभिः । युक्त्युपेतता । यदुतापेक्षा (।) युक्त्या, कार्यकारणयुक्त्या । उपपत्तिसाधनयुक्त्या । धर्मतायुक्त्या च । इति या चालम्बनस्य यावद्भाविकता, या च यथावद्भावि[क]ता तदेकत्यमभिसंक्षिप्य वस्तुपर्यन्ततेत्युच्यते ।

तत्र कार्यपरिनिष्पत्तिः कतमा । यदस्य [योगिन]आसेवनान्वया[द्]भावनान्वयाद्बहुलीकारान्वयाच्छमथविपश्यनाया[ः] प्रतिबिम्बालम्बनो मनस्कारः । स परिपूर्यते, तत्परिपूर्या प्रतिबिम्बालम्बनो मनस्कारः । स परिपूर्यते । तत्परिपूर्या(श्)चाश्रयः परिवर्त्तते । सर्वदौष्ठुल्यानि च प्रतिप्रश्रभ्यन्ते । आश्रयपरिवृत्तेश्च प्रतिबिम्बमतिक्रम्य तस्मिन्नेव ज्ञेये वस्तुनि निर्विकल्पं प्रत्यक्षं ज्ञानदर्शनमुत्पद्यते । प्रथमध्यानसमापत्तुः, (१९७) प्रथमध्यानलाभिनः प्रथमध्यानगोचरे, द्वितीयतृतीयचतुर्थध्यानसमापत्तुः । चतुर्थध्यानलाभिनः । चतुर्थध्यानगोचरे, आकाशानन्त्यायतनविज्ञानानन्त्यायतनाकिंचन्यायतननैवसंज्ञानासंज्ञायतनसमापत्तुस्तल्लाभिनस्तद्गोचरे [।] इयमुच्यते कार्य परिनिष्पत्तिः ॥

तान्येतानि भवति । चत्वार्यालम्ब नवस्तूनि । सर्वत्रगानि सर्वेष्वालम्बनेष्वनुगतानि अतीतानागप्रत्युत्पन्नैस्सम्यक्संबुद्धैर्देशितानि । तेनैतद्बाह्यालम्बनमित्युच्यते । अपि चैतदालम्बनं शमथपक्ष्यं, विपश्यनापक्ष्यं, सर्ववस्तुकं, भूतवस्तुकं, हेतुफलवस्तुकं च । तेन तद्व्यापीत्युच्यते ।

यत्तावदाह । सविकल्पं प्रतिबिम्बमिति । इदमत्र विपश्यनापक्ष्यस्य [।] यत्पुनराह । वस्तुपर्यन्ततेति । इदमत्र सर्ववस्तुकताया भूतवस्तुकतायाश्च । यदाह । कार्यपरिनिष्पत्तिरिति । इदमत्र हेतुफलसम्बन्धस्य ।

यथोक्तम्भगवता । आयुष्मन्तं रेवतमारभ्य [।] एवमनुश्रूयते । आयुष्मान् रेवतो भगवन्तं प्रश्नमप्राक्षीत् । (१९८) कियता, भदन्त, भिक्षुर्योगा, [(गी) योगा]चार आलम्बने चित्तमुपनिबद्धः, कतमस्मिन्नालम्बने चित्तमुपनिबघ्नातीति । कथं पुनरालम्बनै(ने) चित्तमुपनिबद्धं सूपनिबद्धं भवति । साधु, साधु, रेवत, साधु खलु त्वं रेवत । एतमर्थं पृच्छति (सि) । तेन हि श्रृणु च, साधु च, मनसि कुरु, भाषिष्ये [।] इह, रेवत भिक्षुर्योगी योगाचारः चरितम्वा विशोधयितुकामः, कौशल्यम्वा कर्तुकामः । आस्रवेभ्यो वा चित्तं विमोचयितुकामः । अनुरूपे चालम्बने चित्तमुपनिबध्नाति । प्रतिरूपे च सम्यगेव चोपनिबघ्नाति । तत्र चानिराकृतध्यायी भवति ।

कथमनुरूपे आलम्बने चित्तमुपनिबघ्नाति । [स चे]द्रेवत, भिक्षुर्योगी योगाचारः (रो) रागचरित एव, स न शुभालम्बने चित्तमुपनिबघ्नाति । एवमनुरूपे आलम्बने चित्तमुपनिबघ्नाति । द्वेषचरितो वा पुनर्मैत्र्यां, मोहचरितो वा इदं प्रत्ययताप्रतीत्यसमुत्पादे, मानचरितो धातुप्रभेदे । स चेद्रेवत, स भिक्षुर्योगी योगाचारोवितर्कचरित एव आनापानस्मृतौ चित्तमुपनिबघ्नाति । एवं सोऽनुरूपे आलम्बने चित्तमुपनिबघ्नाति । स चेत्स, रेवत, भिक्षुः संस्काराणां स्वलक्षणे संमूढः, किन्तु कौशल्ये चित्तमुपनिबघ्नाति । (१९९) हेतुसंमूढो धातुकौशल्ये, प्रत्ययसंमूढ आयतनकौशल्ये, कामधातोर्वावैराग्यं कर्त्तुकामः, कामानामौदारिकत्वे, रूपाणां शान्तत्वे, रूपेभ्यो वा वैराग्यं कर्त्तुकामः । रूपाणामौदारिकत्वे आरूप्यशान्ततायां च चित्तमुपनिबघ्नाति । सर्वत्र वा सत्कायान्निर्वेक्षुकामो, विमोक्तुकामः, दुःखसत्ये(षु) समुदयसत्ये, निरोधसत्ये, मार्गसत्ये चित्तमुपनिबघ्नाति । एवं हि, रेवत, भिक्षुर्योगी योगाचारः । अनुरूपे आलम्बने चित्तमुपनिबघ्नाति । इह रेवत, भिक्षुर्यद्यदेव ज्ञेयं वस्तु निचेत्तुकामो भवति, प्रचेत्तुकामः । परिवितर्कयितुकामः । परिमीमान्स (मांस)यितुकामः । तच्च तेन पूर्वमेव दृष्टम्वा भवति । श्रुतम्वा । मतम्वा । विज्ञातम्वा [।] स तदेव दृष्टमधिपतिं कृत्वा, श्रुतं, मतं, विज्ञातमधिपतिं कृत्वा, समाहितभूमिकेनमनस्कारेण मनसिकरोति । विकल्पयत्यधिमुच्यते । स न तदेव ज्ञेयम्वस्तु समाहितं सम्मुखीभूतं पश्यत्यपि तु तत्प्रतिरूपकमस्योत्पद्यते । तत्प्रतिभासम्वा, ज्ञानमात्रम्वा, दर्शनमात्रम्वा, प्रतिस्मृतमात्रम्वा यदालम्बनमयं भिक्षुर्योगी योगाचारः सम्यगेवालम्बने चित्तमुपनिबघ्नाति । स चेदयं, रेवत, भिक्षुर्योगी योगाचार आलम्बने चित्तमुपनिबघ्नात्या (ति या)वद्(ज्) ज्ञेयं ज्ञातव्यं भवति । तच्च यथाभूत[मविपरीतचित्तं (त)मेवं हि, रेवत, (२००) भिक्षुर्योगी योगाचा]रः । सम्यगेवालम्बने चित्तमुपनिबघ्नाति । कथं च, रेवत, भिक्षुर्योगी योगाचार[ः] अनिराकृतध्यासी (यी) भवति । स चेत्स, रेवत, भिक्षुरेवमालम्बने सम्यक्प्रयुज्यमान[ः] सातत्यप्रयोगी च भवति । सत्कृत्यप्रयोगी च । कालेन च कालं शमथनिमित्तं भावयति । प्रग्रहनिमित्तमुपेक्षानि मित्तमासेवनान्वयाद्भावनान्वयाद्वहुलीकारान्वयात्सर्वदौष्ठुल्यानां प्रतिप्रश्रब्धेराश्रयपरिशुद्धिमनुप्राप्नोति । स्पर्शयति (स्पृशति) । साक्षात्करोति । ज्ञेयवस्तुप्रत्यवेक्षतया च आलम्बनपरिशुद्धिं, रागविरागाच्चित्तपरिशुद्धिमविद्या [वि]रागात्(।) ज्ञानपरिशुद्धिमधिगच्छति । स्पर्शयति (स्पृशति), साक्षात्करोति । एवं हि स, रेवत, भिक्षुर्योगी योगाचारः अनिराकृतध्यायी भवति । यतश्च रेवत, भिक्षुरस्मिन्नालम्बने चित्तमुपनिबध्नात्येवं चालम्बने चित्तमुपनिबध्नात्येवमस्य तच्चित्तमालम्बने सूपनिबद्धं भवति ।

॥ तत्र गाथा ॥

निमित्तेषु चरन्योगी सर्वभूतार्थवेदकः ।
बिम्बध्यायी साततिकः पारिशुद्धि विगच्छति ॥

(२०१)
तत्र यत्तावदाह ॥ निमित्तेषु चरन्योगी अनेन तावच्छमथनिमित्ते, प्रग्रहनिमित्ते, उपेक्षानिमित्ते सततकारिता चाख्याता ॥ यत्पुनराह । सर्वभूतार्थवेदक इति । अनेन वस्तुपर्यन्तता आख्याता ॥ यत्पुनराह । बिम्बध्यायी साततिकः । इत्यनेन सविकल्पं निर्विकल्पञ्च प्रतिबिम्बमाख्यातम् । यत्पुनराह । पारिशुद्धिं विगच्छतीत्यनेन कार्य[परि]निष्पत्तिराख्याता ॥ पुनरपि चोक्तं भगवता ॥

चित्तनिमित्तस्य कोविदः
प्रविवेकस्य (प्राविवेक्यस्य?) च विदन्ते रसम् ।
ध्यायी निपकः प्रतिस्मृतो
भुंक्ते प्रीतिसुखं निरामिषं [॥]

तत्र यत्तावदाह, चित्तनिमित्तस्य कोविद इत्यनेन सविकल्पं निर्विकल्पं च प्रतिबिम्ब[ं] निमित्तशब्देनाख्यातम् । वस्तुपपर्यन्तता कोविदशब्देन । यत्पुनराह । प्राविवेक्यस्य च विदन्ते रसमित्यनेनालम्बने सम्यक्प्रयुक्तस्य प्रहाणारामता भावनारामता चाख्याता । यत्पुनराह । ध्यायी निपक[ः] प्रतिस्मृत इत्यनेन शमथविपश्यनाया भावनासातत्यमाख्यातम् ॥ यत्पुनराह । भुंक्ते प्रीतिसुखं निरामिषमित्यनेन कायपरिनिष्पत्तिराख्याता ॥ तदेवं सत्येतद्व्याप्यालम्बनमाप्तागमविशुद्धं (२०२) वेदितव्यम् ॥ युक्तिपतितं च । इदमुच्यते व्याप्यालम्बनम् ॥

तत्र चरितविशोधनमालम्बनं कतमत् ॥ तद्यथा अशुभा [।] मैत्री । इदं प्रत्ययताप्रतीत्यसमुत्पादः । धातुप्रभेदः । आनापानस्मृतिश्च ।

तत्राशुभा कतमा । आह [।] षडविधा अशुभा । तद्यथा प्रत्यशुभता । दुःखाशुभता । अवराशुभता । आपेक्षिकी अशुभता । क्लेशाशुभता । प्रभंगुराशुभता च ।

(२०३)
तत्र प्रत्यशुभता कतमा । आह । प्रत्यशुभता अध्यात्मं चोपादाय, बहिर्धा चोपादाय वेदितव्या ॥

तत्राध्यात्ममुपादाय । तद्यथा- केशा, रोमाणि, नखा, दन्ता, रजो, मलं, त्वङ्मान्स(मांस)मस्थि, स्नायु[ः], सिरा, वृक्का (क्कं), हृदयं, प्लीहकं, क्लोमं, अन्त्रान्यण्त्रगुणा, आमाशयं (यः), पक्वाशयं(यः), मूत्रं, पुरीषमश्रु, स्वेदः, खेटा, शिंघाणकं, वसा, लसीका, मज्जामेदः, पित्तं, श्लेष्मा, पूयः, शोणितमस्तकं, मस्तकलुंगं, प्रस्रावः ।

तत्र बहिर्धा चोपादाय अशुभा (अशुभता) कतमा । तद्यथा विनीलकम्बा, विपूयकम्वा, विभद्रात्मकम्वा, व्याध्मात्म(त)कम्वा, विखादित(क)म्वा । विलोहितकम्वा । विक्षिप्तकम्वा । अस्थि वा । शंकलिकां (का) वा । उच्चारकृतम्वा, प्रस्रावकृतम्वा, खेटाकृतम्वा, शिंघाणककृतम्वा, रुधिरम्रक्षितम्वा, पूयम्रक्षितम्वा, गूथकठिल्लम्वा, स्यन्दनिका वा । इत्येवं भागीया बहिर्धोपादाय प्रत्यशुभता वेदितव्या ।

(२०४)
या चाध्यात्ममुपादाय । या च बहिर्धोपादायाशुभता । इयमुच्यते । प्रत्यशुभता ।

तत्र दुःखाशुभता कतमा । यद्दुःखवेदनीयं स्पर्शं प्रतीत्योत्पद्यते । कायिकचैतसिकमसातं वेदयितं वेदनागत मियमुच्यते । दुःखाशुभता ।

तत्रावराशुभता कतमा । यत्सर्वनिहीनम्वस्तु, सर्वनिहीनो धातुस्तद्यथा कामधातुः, यस्मात्पुनर्हीनतरश्चावरतरश्च, प्रतिक्रुष्टतरश्चासौ धातुर्नास्ति । इयमुच्यते अवराशुभता ।

आपेक्षिकी अशुभता कतमा । तद्यथा तदेकत्यम्वस्तु शुभमपि सदन्यच्छुभतरमपेक्ष्याशुभतः ख्याति । तद्यथा । आरूप्यानपेक्ष्य रूपधातुरशुभतः ख्याति । सत्कायनिरोधनिर्वाणमपेक्ष्य यावद्भवाग्रमशुभश्च (भ इति) संख्यां गच्छति । इयमेवं भागीयापेक्षिकी अशुभता [।]

त्रैधातुकावचराणि (।) सर्वाणि संयोजनबन्धना[न्य]नुशयोपक्लेशाशुभतेत्युच्यते (-शा अशुभतेत्युच्यते) ॥

तत्र प्रभंगुराशुभता कतमा । या पंचानामुपादानस्कन्धानामनित्यता, अध्रुवानाश्वासिकता, विपरिणामधर्मता इतीयमशुभता रागचरितस्य विशुद्धये । आलम्बनं तत्र रागस्तद्यथा । अध्यात्मं कामेषु (२०५) कामछन्दः (च्छन्दः), कामरागः, बहिर्धा कामेषु मैथुनछन्दः (च्छन्दः), मैथुनरागः । विषयछन्दः (च्छन्दः) । विषयरागः । रूपछन्दो (च्छन्दो) रूपरागः सत्कायछ(च्छ)न्दः सत्कायरागश्चेति । अयं पञ्चविधो रागः । तस्य पञ्चविधस्य रागस्य प्रहाणाय, प्रतिविनोदनाय । असमुदाचाराय । षड्विधा अशुभता आलम्बनम् । तत्राध्यात्ममुपादाय । प्रत्यशुभतालम्बनेन अध्यात्मं कामेषु काम[च्]छन्दात्कामरागाच्चित्तम्विशोधयति । बहिर्धोपादाय प्रत्यशुभतालम्बनेन बहिर्धा तैः रागाच्चतुर्विधा[द्] रागप्रतिसंयुक्ताद्वर्णरागसंस्थानरागस्पर्शरागोपचाररागप्रतिसंयुक्ताच्चित्तं विशोधयति ।

तत्र यदा विनीलकम्वा, विपूयकम्वा, विमद्रामकम्वा, व्याध्मात्मकम्वा, विखादितकं वा मनसि करोति । तदा वर्णरागाच्चित्तं विशोधयति । यदा पुनर्विलोहितकं वा मनसि करोति । तदा संस्थानरागाच्चित्तं विशोधयति । यदा पुनरस्थि वा शंकलिकाम्वा मनसि करोति । तदा स्पर्शरागाच्चित्तं विशोधयति । यदा विक्षिप्तकं मनसिकरोति तदा उपचाररागाच्चित्तं विशोधयति । अतएव भगवता बहिर्धोपादाय प्रत्यशुभता सा चतसृषु शिव पथिका[सु व्य]वस्थापिता । (२०६) या यैवानेन शिवपथिका दृष्टा भवति । एकाहमृता वा, सप्ताहमृता वा, काकैः कुररैः खाद्यमाना, गृध्रैः, श्वभिः, श्रृगालैः । तत्र तत्रेममेच (व) कायमुपसंहरति । अयमपि मे काय एवं भावी, एवं भूत, एवं धर्मतामनतीत इति । अनेन तावद्विनी लकमुपादाय यावद्विखादितकमाख्यातम् ।

यत्पुनराह । या अनेन शिवपथिका दृष्टा भवति । अपगतत्वङ्मान्स(मांस)शोणितम्वा सूपनिबद्धेत्यनेन विलोहितकमाख्यातम् ।

यत्पुनराह । यान्येव शिवपथिकास्थानानि पृष्ठीवंशो, हनुनक्रं, दन्तमाला, शिरःकपालं तथा भिन्नप्रतिभिन्नानि एकवार्षिकानि द्विवार्षिकानि (र्षिकाणि) । यावत्सप्तवाषि(र्षि)कानि (णि) श्वेतानि शंखनिभानि । कपोतवर्णानि पान्सु(पांसु)वर्णव्यतिमिश्राणि दृष्टानि भवन्तीत्यनेन विक्षिप्तकमाख्यातम् ।

एवं प्रत्यशुभतालंबनेन बहिर्धा प्रतिसंयुक्तेन मैत्रेन (ण) रागाच्चित्तं विशोधयति । तत्र दुःखताशुभतालम्बनेनावराशुभतालम्बनेन च । विषयप्रतिसंयुक्तात्कामरागाच्चित्तं विशोधयति । तत्रापेक्षाशुभतालम्बनेन रूपरागाच्चित्तं विशोधयति । तत्र क्लेशाशुभतालम्बनेन प्रभंगुराशुभतालम्बनेन च का[म]भवाग्रमुपादाय (२०७) सर्वस्मात्काय(म)रागाच्चित्तं विशोधयति । इदं तावद्रागचरितस्य चरितविशोधनेन सालम्बनं संभवं प्रत्येतदुच्यते । सर्वं सर्वाकारमशुभतालम्बनम् । संगृहीतं भवत्यस्मिंस्त्वर्थे प्रत्यशुभतै वाभिप्रेता । तदन्या त्वशुभता तदन्यस्यापि चरितस्य विशुद्धये । आलम्बनम् ॥

तत्र मैत्री कतमा । यो मित्रपक्षे वा, अमित्रपक्षे वा । उदासीनपक्षे वा । हिता[ध्या]शयमुपस्थाप्य मृदुमध्याधिमात्रस्य सुखस्योपसंहारायाधिमोक्षः । (२०८) समाहितभूमिकः । तत्र योयं मित्रपक्षः । अमित्रपक्ष उदासीनपक्षश्च [।] इदमालम्बनम् । तत्र यो हिताध्याशयः, सुखोपसंहाराय चाधिमोक्षः समाहितभूमिकः अयमालम्बक इति (।) यच्चालम्बनम् । यश्चालम्बकस्तदेकत्यमभिसंक्षिप्य मैत्रीत्युच्यते ।

तत्र यत्तावदाह मैत्रीसहगतेन चित्तेनेत्यनेन त्रिषु पक्षेषु मित्रपक्षे, अमित्र पक्षे, उदासीनपक्षे हितध्याशय आख्यातः ।

यत्पुनराह । अवैरेणासम्पन्नेनाव्याबाधेनेत्यनेन तस्यैव हिताध्याशयस्य त्रिविधं लक्षणमाख्यातम् ॥

तत्रावैरतया हिताध्याशयः सा पुनरवैरता द्वाभ्यां पदाभ्यामाख्याता(ः) । असमर्थतया अव्याबाधत[या च] तत्राप्रत्यनीकभावस्थानार्थेनासमर्थता । अपकाराविषष्टनार्थेन (श्भ्_स्ह्२०९) अव्याबाध्यता (अव्याबाधता) ।

यत्पुनराह । विपुलेन महद्गतेन प्रमाणेनेत्यनेन मृदुमध्याधिमात्रस्य सुखस्योपसंहार आख्यातः । कामावचरस्य, प्रथमद्वितीयध्यानभूमिकस्य वा, तृतीयध्यानभूमिकस्य वा [।] यत्पुनराह । अधिमुच्यस्यानि र्वो( )पसम्पद्य विहरतीत्यनेन सुखोपसंहाराधिमोक्षः । समाहितभूमिक आख्यातः । स पुनरेष सुखोपसंहारो हिताध्याशयपरिगृहीतः । आधिमोक्षिकः । मनस्कारानुगतः । अदुःखासुखिते मित्रपक्षे, अमित्रपक्षे, उदासीनपक्षे, सुखकामे वेदितव्यः । यस्तु दुःखितो वा, अदुःखितो वा पुनर्मित्रपक्षः । अमित्रपक्ष उदासीनपक्षो वा [।] तत्र यो दुःखितः स करुणाया आलम्बनम् । यः सुखितः स मुदिताया आलम्बनमियमुच्यते मैत्री [।] तत्र व्यापादचरितः पुद्गलः (श्भ्_स्ह्२१०) मैत्री भावयन् सत्त्वेषु यो व्यापादस्तं प्रतनु करोति । व्यापादाच्चित्तं परिशोधयति ॥

तत्रेदंप्रत्ययताप्रतीत्यसमुत्पादः कतमः । यत्त्रिष्वध्वसु संस्कारमात्रं, धर्ममात्रं, वस्तुमात्रं, हेतुमात्रं, फलमात्रं, युक्तिपतितं, यदुतापेक्षा युक्त्या, कार्यकारणयुक्त्या । उपपत्तिसाधनयुक्त्या च । धर्माणामेव धर्माहारकत्वम् । निष्कारकवेदकत्वं च । इदमुच्यते । इदंप्रत्ययताप्रतीत्यसमुत्पादालम्बनम् । यदालम्बनं मनसि कुर्वन्मोहाधिकः पुद्गलो मोहचरितः मोहं प्रजहाति । तनूकरोति । [मोह]चरिताच्चित्तं विशोधयति ॥

(श्भ्_स्ह्२११)
तत्र धातुप्रभेदः कतमः । तद्यथा षड्धातवः । पृथिवीधातुरब्धातुस्तेजोधातुर्वायुधातुराकाशधातुर्विज्ञानधातुश्च ।

तत्र पृथिवीधातुर्द्विविधः । आध्यात्मिको (श्भ्_स्ह्२१२) बाह्यश्च । तत्राध्यात्मिको यदस्मिन्काये अध्यात्मं प्रत्यात्मं खक्खटं खरतरमुपादत्तम् । बाह्यः पुनः पृथिवीधातुर्यद्बाह्यं खक्खटं खरगतमनु (मु?)पगतमनु (मु?)पादत्तम् ।

स पुनरध्यात्मिकपृथिवीधातुः कतमः । तद्यथा केशा, रोमाणि, नखा, दन्ता, रजो,मलं, त्वङ्मान्समस्थि, स्नायु[ः], सिरा, वृक्का(क्कं), हृदयं, प्लीहकं, क्लोममन्त्राण्यन्त्रगुणाः । आमाशयः । पक्वाशयः । यकृत्पुरीषमयमुच्यते आध्यात्मिकः पृथिवीधातुः ।

स पुनर्बाह्यः पृथिवीधातुः कतमः । काष्ठानि वा, लोष्ठानि वा, शर्करा वा, कठिल्ला वा, वृक्षा वा, पर्वताग्रा वा, इति वा पुनरन्योप्येवंभागीयः अयमुच्यते (श्भ्_स्ह्२१३) बाह्यः पृथिवीधातुः ॥

अब्धातुः कतमः । अब्धातुर्द्विविधः । आध्यात्मिको बाह्यश्च ।

तत्राध्यात्मिक कोप्धातुः(ब्धातुः) कतमः । यदध्यात्मं प्रत्यात्मं स्नेहः स्नेहगतम् । आपः अब्धातुमुपगतमुपादातुं (अब्धातुगतमुपगतमुपादत्तं) । तद्यथा अश्रु, स्वेदः । खेटः शिंघाणकः । बसा, लसीका, मज्जा, मेदः, पित्तं, श्लेष्मा, पूयः, शोणितं, मस्तकं, मस्तकलुंगं, प्रश्रावोय(स्रावोऽय)मुच्यते आध्यात्मिकोब्धातुः ।
बाह्योब्धातुः कतमः । यद्बाह्यमापः अप्गतं (अब्गतं), स्नेहः स्नेहगतमनु(तमु)पगतमनु(तमु)पादत्तम् । तत्पुनरुत्सो वा, सरांसि वा, तडागा (श्भ्_स्ह्२१४) वा, नद्यो वा,प्रस्रवणानि वा, इति यो वा पुनरन्योप्येवंभागीयोयमुच्यते बाह्योब्धातुः ॥

तेजोधातुः कतमः । तेजोधातुर्द्विविधः आध्यात्मिको बाह्यश्च ॥

तत्राध्यात्मिकस्तेजोधातुः कतमः । यदध्यात्मं प्रत्यात्मं तेजस्तेजोगतमूष्मा ऊष्मागतमुपगतमुपादत्तम् । तद्यथा यदस्मिन्काये तेजो येनायं काय आतप्यते । संतप्यते, परितप्यते । येन चाशितपीतखादितास्वादितं सम्यक्सुखेन परिपाकं गच्छति । यस्य चोत्सदत्वात्जारितो जारित इति संख्यां गच्छति ॥

बाह्यस्तेजोधातुः कतमः । यद्बाह्यं तेजस्तेजोगतमूष्मा(ष्म)गतमनु(मु)पगतमनु(मु)पादत्तम् । (श्भ्_स्ह्२१५) तत्पुनर्यन्मनुष्या अरणीसहगतकेभ्यो गोमयचूर्णेभ्यः समन्वेषते (न्ते) । यत्तूत्पन्नं ग्राममपि दहति । ग्रामप्रदेशमपि । नगरम्वा, नगरप्रदेशम्वा, जनपदम्वा, जनपदप्रदेशम्वा, द्वीपम्वा, कक्षम्वा, दावम्वा, काष्ठम्वा, तृणम्वा, गोमयम्वादहन् परैति । इति यो वा पुनरन्योप्येवंभागीयः ॥

तत्र वायुधातुः कतमः । वायुधातुर्द्विविधः । आध्यात्मिको बाह्यश्च ।

(श्भ्_स्ह्२१६)
तत्राध्यात्मिको वायुधातुः । यदप्यध्यात्मं प्रत्यात्मं वायुर्वायुगतम् । लघुत्वं समुदीरणत्वमुपगतमुपादत्तम् । स पुनः सन्त्यस्मिन् काये ऊर्ध्वंगमा वायवः, अधोगमा वायवः, पार्श्वशया वायवः । कुक्षिशया वायवः । पृष्ति(ष्ठि)शया वायवः । वाय्वष्ठीला(वाताष्ठीला) वायवः । क्षुरकपिप्पलकशस्त्रका वायवः । आश्वासप्रश्वासा वायवः । अंगप्रत्यं[गानुसारिणोवायवः]

बाह्यो वायुधातुः कतमः । यद्बाह्यं वायुर्वायुगतं लघुत्वं, समदीरणत्वम् । अनु(उ)पगतमनु(मु)पादत्तं [।] सन्ति बहिर्धा पूर्वा वायवो, दक्षिणा वायवः । उत्तरा वायवः पश्चिमा वायवः । सरजसो वायवः, अरजसो वायवः, [परीत्ता] महद्गता वायवः, विश्वा वायवो, वैरम्भा वायवः वायुमण्डलकवायवः [।] भवति च समयः यन्महान् वायुस्कन्धः समुदागतः वृक्षाग्रानपि पातयति । कुड्याग्रानपि पातयति । पर्वताग्रानपि पातयति । पातयित्वा निरुपादानो निग(निर्ग)च्छति । ये सत्त्वाश्चीवरकर्णिकेन वा पर्येषन्ते, तालवृन्तेन वा, विधमनकेन वा । इति वायुरन्योप्येवंभागीय[ः ॥]

(श्भ्_स्ह्२१७)
आकाशधातुः कतमः । यच्चक्षुः सौषिर्यम्वा, (श्भ्_स्ह्२१८) श्रोत्रसौषिर्यम्वा, घ्राणसौषिर्यम्वा, मुखसौषिर्यम्वा, कण्ठसौषिर्यम्वा । इति येन चाभ्यवहरति । यत्र वाभ्यवहरति । येन वाभ्यवह्रियते । यदधोभागेन प्रघरति । इति यो वा पुरनरप्योप्येवंभागीयः [?] अयमुच्यते आकाशधातुः ॥

विज्ञानधातुः कतमः [।] यच्चक्षुर्विज्ञानं श्रोत्रघ्राणजिह्वाकायमनोविज्ञानम् । तत्पुनश्चित्तं मनोविज्ञानं च । अयमुच्यते विज्ञानधातुः ॥

तत्र मानचरितः पुद्गल इमं धातुप्रभेदं मनसि कुर्वन् काये पिण्डसंज्ञां विभावयति । अशुभसंज्ञां च प्रतिलभते । न च पुनस्तेनोन्नतिं गच्छति । मानं प्रतनु करोति । तस्माच्चरिताच्चित्तं विशोधयति । अयमुच्यते धातुप्रभेदः । मानचरितस्य पुद्गलस्य चरितविशोधनमालम्बनम् ॥

(श्भ्_स्ह्२१९)
तत्रानापानस्मृतिः कतमा । आश्वासप्रश्वासालम्बना स्मृतिरियमुच्यते आनापानस्मृति[ः] ।

(श्भ्_स्ह्२२०)
तत्र द्वावाश्वासौ कतमौ ।
द्ववौ आश्वासोऽन्तराश्वासश्च ।
द्वौ प्रश्वासौ कतमौ ।
द्वौ प्रश्वासोन्तरप्रश्वासश्च ।

तत्र श्वासः यः प्रश्वाससमनन्तरमन्तर्मुखो वायुः प्रवर्त्तते । यावन्नाभीप्रदेशात् ।

तत्रान्तराश्वासो य उपरतेस्मिन्नाश्वासे न तावत्प्रश्वास उत्पद्यते । यदन्तरालविश्रामस्थानसहगत इत्वरकालीनस्तदनुसदृशो वायुरुत्पद्यते । अयमुच्यतेन्तराश्वासः ।

यथाश्वासोऽन्तराश्वासश्चैवं प्रश्वासोन्तर(न्तः)प्रश्वासश्च वेदितव्यः । तत्रायं, विशेषः । बहिर्मुखो वायुः प्रवर्तते बहि[ः] नाभीदेशमुपादाय । यावन्मुखाग्रान्नासिकाग्रा[त्]ततो वा पुनर्बहिः ।

द्वावाश्वासप्रश्वासनिदानौ [।] कतमौ द्वौ । तदाक्षे पकं च कर्म, नाभीप्रदेशसौषिर्यं च । ततो वा (श्भ्_स्ह्२२१) पुन[रुत्पन्नं]यत्कायसौषिर्यं [।] द्वावाश्वासप्रश्वासयोः संनिश्रयौ कतमौ । द्वौ कायश्चित्तं च । तत्कस्य हेतोः [।] कायसंन्नि(सन्नि)श्रिताश्चित्तसंन्नि(सन्नि)श्रिताश्चाश्वासप्रश्वासाः प्रवर्तन्ते । ते च यथायोगं स चेत्कायसंन्निश्रिता [एव] प्रवर्तेरन् । असंज्ञिसमापन्नानां, निरोधसमापन्नानामसंज्ञिसत्त्वेषु देवेषूपपन्नानां सत्त्वानां प्रवर्तेरन् । स चेच्चित्तसन्निश्रिता एव प्रवर्त्तेरन् । तेनारूप्यसमापन्नोपपन्नानां सत्त्वानां प्रवर्तेरन् । स चेत्कायसन्निश्रिताश्चित्तसन्निश्रिताः प्रवर्तेरन् । ते च न यथायोगं तेन चतुर्थध्यानसमापन्नोपपन्नानां, कललगतानाञ्चार्बुदगतानां, पेशीगतानां सत्त्वानां प्रवर्तेरन् । न च प्रवर्त्तते (तन्ते) । तस्मादाश्वासप्रश्वासात्कायसन्निश्रिताश्चि (तस्मादाश्वासप्रश्वासाः कायसन्निश्रिताश्चि)त्तसन्निश्रिताश्व प्रवर्त्तन्ते तेन यथायोगम् ।

द्वे आश्वासप्रश्वासयोर्गती [।] कतमे द्वे । आश्वासयोरधोगतिः । प्रश्वासयोरूर्ध्वगतिः ।

द्वे आश्वासप्रश्वासयोर्भूमी । कतमे द्वे । औदारिकं च सौषिर्यं, सूक्ष्मं च (।) सौषिर्यम् । तत्रौदारिकं सौषिर्यं नाभीप्रदेशमुपादाय । यावन्मुखनासिकाद्वारम् । मुखनासिकाद्वारमुपादाय (श्भ्_स्ह्२२२) यावन्नाभीप्रदेशसौषिर्यम् । सूक्ष्मसौषिर्यं कतमत् । सर्वंकायगतानि रोमकूपानि (पाः) ॥

चत्वार्याश्वासप्रश्वासानां पर्यायनामानि [।] कतमानि चत्वारि । वायव[ः], आनापानाः, आश्वासप्रश्वासाः । कायसंस्काराश्चेति । तत्रान्यैर्वायुभिः साधारणं पर्यायनामैकम् । यदुत वायुरिति । असाधारणानि तदन्यानि त्रीणि ।

द्वावपक्षालावाश्वाप्रश्वासप्रयुक्तस्य [।] कतमौ द्वौ । अशिथिलप्रयोगता च, सत्याभ्यवष्टब्धप्रयोगताच । तत्राशिथिलप्रयोगतया कौसीद्यप्राप्तस्य स्त्यानमिद्धम्वा चित्तं पर्यवनह (ह्य)ति, बहिर्धा वा विक्षिप्यते । तथाभ्यवष्टब्धप्रयुक्तस्य कायवैषम्यं चोत्पद्यते । चित्तवैषम्यम्वा । कथं कायवैषम्यमुत्पद्यते । बलाभिनिग्रहेणानाश्वासप्रश्वासानभिनिष्पीडयतः काये विषमा वायवः प्रवर्तन्ते । येस्य तत्प्रथमतस्तेषु तेष्वंगप्रत्यङ्गेषु स्फुरन्ति । ये स्फारकाय (स्फुरका) इत्युच्यन्ते । ते पुनः स्फुरका वायवो विवर्द्धमाना रुजका भवन्ति । येप्येतेष्वंगप्रत्यंगेषु रुजमुत्पादयन्ति । इदमुच्यते कायवैषम्यम् ॥ कथं चित्तवैषम्यमुत्पद्यते । चित्तम्वास्य विक्शिप्यते । प्राग[सौ] न वा दौर्मनस्योपायासेनाभिभूयते । एवं चित्तवैषम्यमुत्पद्यते ॥

(श्भ्_स्ह्२२३)
अस्या आनापानस्मृतेः पञ्चविधः प[रिचयो] वेदितव्यः । तद्यथा गणनापरिचयः, स्कन्धावतारपरिचयः । प्रतीत्यसमुत्पादावतारपरिचयः । सत्यावतारपरिचयः । षोडशाकारपरिचयश्च ।

तत्र गणनापरिचयः कतमः । समासतश्चतुर्विधो गणनापरिचयः । तद्यथा एकैकगणना [।] द्वयैकगणना [।] अनुलोमगणना । प्रतिलोमगणना च ॥

तत्रैकैकगणना कतमा ।यदा आश्वासः प्रविष्टो भवति । तदा आश्वास प्रश्वासोपनिबद्धया स्मृत्या एकमिति गणयति । यदा आश्वासे निरुद्धे प्रश्वास उत्पद्य निर्गतो भवति । तदा द्वितीयं गणयत्येवं यावद्दश गणयति । एषा हि गणना संख्या नातिसंक्षिप्ता नातिविस्तरा इयमुच्यते एकैकगणना ॥

द्वयैकगणना कतमा । यदा आश्वासः प्रविष्टो भवति, निरुद्धश्च । प्रश्वास उत्पन्नो भवति । निर्गतश्च तदा एकमिति गणयति । अनेन गणनायोगेन यावद्दश गणयति । इयमुच्यते । द्वयैकगणना । आश्वासं च प्रश्वासं चेदं द्वयमेकत्यमभिसंक्षिप्यैकमिति गणयति तेनोच्यते द्वयैकगणना ॥

अनुलोमगणना कतमा । अनयैवैकैकगणनया, द्वयैकगणनया वा, अनुलोमं यावद्दश गणयति । (श्भ्_स्ह्२२४) इयमुच्यते अनुलोमगणना ॥

प्रतिलोमगणना कतमा । प्रतिलोमं दश उपादाय, नवाष्टौ, सप्त, षट्, पंच, यावदेकं गणयति । इयमुच्यते प्रतिलोमगणना ।

यदा स एकैकगणनां निश्रित्य, द्वयैकगणनाम्वा, अनुलोमगणनायां, प्रतिलोमगणनायां च कृतपरिचयो भवति । न चास्यान्तराच्चित्तं विक्षिप्यते [।] अविक्षिप्तचित्तश्च गणयति । तदास्योत्तरगणनाविशेषो व्यपदिश्यते ।

कतमो गणनाविशेषः । एकैकगणनया वा, द्वयैकगणनया वा, द्वयमेकं कृत्वा गणयति । तत्र द्वयैकगणनया चत्वार आश्वासप्रश्वासा एकं भवति । एकैकगणनया पुनराश्वासप्रश्वासश्चैकं भवत्येवं यावद्दश गणयति । एवमुत्तरोत्तर वृद्ध्या यावच्छतमप्येकं कृत्वा गणयति । तदा शतैकगणनयानुपूर्वेण यावद्दश गणयति । एवमस्य गणनाप्रयुक्तस्य यावद्दशैकं कृत्वा गणयति । यावच्च दश परिपूरयति । तया दशैकगणनया न चास्योत्तराच्चित्तम्विक्षिप्यते । इयता तेन गणनापरिचयः कृतो भवति ।

तस्य च गणनाप्रयुक्तस्य स चेदन्तराच्चित्तं विक्षिप्यते तदा पुनः प्रतिनिवर्त्यादितो गणयितुमारभते । अनुलोमम्वा, प्रतिलोमम्वा [।] यदा चास्य गधयाच्चित्तं स्वरसेनैव बाहिमार्ग(स्वरसवाहिमार्गेणैव) (श्भ्_स्ह्२२५) समारूढमाश्वासप्रश्वासालम्बनोपनिबद्धमव्यवच्छिन्नं निरन्तरं, प्रवर्त्तमासे आश्वास(से) प्रवृत्तिग्राहकं, निरुद्धे आश्वासे प्रश्वासशून्यावस्थाग्राहकं, प्रवृत्ते प्रश्वासे प्रवृत्तिग्राहकं, निवृत्ते पुनर्निवृत्तिग्राहकं, अविकंप्यमविचलमविक्षेपाकारं, साभिरामं च प्रवर्त्तते । इयता गणनाभूमिसमतिक्रमो भवति ।

पुनस्तदा गणयितव्यं भवति । नान्यत्राश्वासप्रश्वासालम्बनं चित्तमुपनिबध्यते । आश्वासप्रश्वासा अनुगन्तव्याश्चा[भिलक्ष]यितव्याश्च सान्तराश्वासप्रश्वासाः सप्रवृत्तिनिवृत्त्यवस्थाः अयमुच्यते गणनापरिचयः ।

स खल्वेष गणनापरिचयो मृद्विन्द्रियाणां व्यपदिश्यते । तेषामेतद्व्याक्षेपस्थानं भवति । चित्तस्थितये चित्तनिरतये [।] अन्यथा गणनामन्तरेण तेषां स्त्यानमिद्धम्वा चित्तं पर्यवहेत्, बहिर्धा वा चित्तं विक्षिप्येत, गणनाप्रयुक्तेन तु तेषामेतन्न भवति ।

ये तु तीक्ष्णेन्द्रियाः पटुबुद्धयः तेषां पुनर्गणनाप्रयोगेण प्रियारोहता भवति । तत्रोपदिष्टा एवं गणनाप्रयोगं लघु लघ्वेव प्रतिविध्यन्ति । न च तेनाभिरमन्ते [।] ते पुनराश्वासप्रश्वासालम्बनां स्मृतिमुपनिबध्य यत्र च प्रवर्त्तन्ते, यावच्च प्रवर्त्तन्ते । यथा च प्रवर्त्तन्ते, (श्भ्_स्ह्२२६) यदा च प्रवर्त्तन्ते । तत्सर्वमनुप्रच्छत्युपलक्षयत्युपस्थितया स्मृत्या [।] अयमेवं रूपस्तेषां प्रयोगः ।

तस्य च प्रयोगस्यासेवनान्वयाद्भावनान्वयाद्बहुलीकारान्वयात्कायप्रश्रब्धिरुत्पद्यते, चित्तप्रश्रब्धिश्च । एकाग्रतां च स्पृशत्यालम्बनाभिरतिं च निर्गच्छति । य एवं कृतपरिचयो ग्राह्यग्राहकवस्तुमनसिकारेण स्कन्धानवतरति । ये चाश्वासप्रश्वासा यश्चैषामाश्रयकायस्तं मनसि कुर्वन् रूपस्कन्धमवतरति । या तेषामाश्वासप्रश्वासानां तद्ग्राहिकया स्मृत्या संप्रयुक्ता अनुभावना स वेदनास्कन्ध इत्यवतरति । या संजानना[स]संज्ञास्कन्ध इत्यवतरति । या चासौ स्मृतिर्या च चेतना, या च (।) तत्र प्रज्ञा । अयं संस्कार इत्युवतरति । यच्चित्तं, मनो, विज्ञानमयं विज्ञानस्कन्ध इत्यवतरति । या तद्बहुलविहारिता । एवं स्कन्धेष्ववतीर्णस्यायमुच्यते स्कन्धावतारपरिचयः ।

यदा चानेन स्कन्धमात्रं दृष्टं भवति । परिज्ञातं ससंस्कारमात्रं, वस्तुमात्रं, तदा स एषामेव संस्काराणां प्रतीत्यसमुत्पादमवतरति ।

कथं च पुनरवतरति । स एवं रूपमन्वेषते, पर्येषते, (श्भ्_स्ह्२२७) इतीये आश्वासप्रश्वासाः किमाश्रिताः, किंप्रत्ययास्तस्यैवं भवति । कायाश्रिता एते आश्वासप्रश्वासाः कायप्रत्ययाच्चि (श्चि)त्ताश्रिताश्चित्तप्रत्ययाश्च । कायः पुनश्चित्तं च किं प्रत्ययं च [।] स कायं (यः) चित्तञ्च जीवितेन्द्रियप्रत्ययमित्यवतरति । पूर्वकः संस्कारः [।] स पूर्वकं संस्कारमविद्याप्रत्ययमि (इ)त्यवतरति । इति हि अविद्याप्रत्यय(ः) पूर्वकः संस्कारः सर्वसंस्कारप्रत्ययं जीवितेन्द्रियं, जीवितेन्द्रियप्रत्ययः कायो, विज्ञानं च, कायचित्तप्रत्यया आश्वासप्रश्वासाः । तत्राविद्यानिरोधात्संस्कारनिरोधः । संस्कार निरोधाज्जीवितेन्द्रियनिरोधः । जीवितेन्द्रियनिरोधात्कायचित्तनिरोधः [।] कायचित्तनिरोधादाश्वासप्रश्वासनिरोधः । एवमसौ प्रतीत्यसमुत्पादमतवरति ।

स तद्बहुलविहारी प्रतीत्यसमुत्पा[दाका]रे कृतपरिचय इत्युच्यते । अयमुच्यते प्रतीत्यसमुत्पादावतारपरिचयः [।]

(श्भ्_स्ह्२२८)
स एवं प्रतीत्यसमुत्पादे कृतपरिचयो य एते संस्काराः प्रतीत्यसमुत्पन्नाः । अनित्या एत इत्यवतरति । अनित्यत्वादभूत्वा [च प्रति]विगच्छन्ति । पुनरेते अभूत्वा भवन्ति । भूत्वा च प्रतिविगच्छन्ति । ते जाति धर्माणो, जराधर्माणो, व्याधिधर्माणो, मरणधर्माणः । ये जातिजराव्याधिमरणधर्माणस्ते दुःखा, ये दुःखास्तेनात्मानः, अस्वतन्त्राः, स्वामिविरहिताः [।] एवं सोऽनित्यदुःखशून्यानात्माकारैर्दुःखसत्यमवतीर्णो भवति । या काचिदेषा[ं] संस्काराणामभिनिर्वृत्तिः । दुःखभूता, रोगभूता, गण्डभूता, सर्वासौ तृष्णाप्रत्यया(ः) । यत्पुनरस्या दुःखजनिकायास्तृष्णाया अशेषप्रहाणमेतच्छान्तमेतत्प्रणीतमेतत्तमेवं च मे जानत, एवं बहुलविहारिणस्तृष्णाया अशेषप्रहाणं भविष्यतीति । एवं हि समुदयसत्यं, निरोधसत्यं, मार्गसत्यमवतीर्णो भवति । स तद्बहुलविहारी यदा सत्यान्यभिसमागच्छति । अयमुच्यते सत्यावतारपरिचयः [।]

तस्यैवं सत्येषु कृतपरिचयस्य । दर्शनप्रहातव्येषु धर्मेषु प्रहीणेषु भावनाप्रहातव्या अवशिष्टा भवन्ति । येषां प्रहाणाय षोडशाकारपरिचयं करोति ।

(श्भ्_स्ह्२२९)
कतमे पुनः षोडशाकाराः । स्मृत आश्वासः (त (श्भ्_स्ह्२३०) आश्वसन्) स्मृत आश्वसिमीति शिक्षते । स्मृतः प्रश्वसन् प्रश्वसिमीति शिक्षते । दीर्घं ह्रस्वं सर्वकायप्रतिसम्वेदी । आश्वसन् सर्वकायप्रतिसंवेदी । आश्वसिमीति शिक्षते । सर्वकायप्रतिसंवेदी प्रश्वसन् । सर्वकायप्रतिसंवेदी प्रश्वसिमीति शिक्षते । प्रश्रभ्य कायसंस्कारानाश्वसन्प्रश्रभ्यकायसंस्कारानाश्वसिमीति शिक्षते । प्रश्रभ्य कायसंस्कारान् प्रश्वसन्, प्रश्रभ्य कायसंस्कारान् प्रश्वसिमीति शिक्षते । प्रीतिप्रतिसंवेदी सुखप्रतिसंवेदी शिक्षते । चित्तसंस्कारप्रतिसम्वेदी प्रश्रभ्य चित्तसंस्कारानाश्वसन्, प्रश्रभ्य चित्तसंस्कारानाश्वसिमीति शिक्षते । प्रश्रभ्य चित्तसंस्कारान् (श्भ्_स्ह्२३१) प्रश्वसन्, प्रश्रभ्य चित्तसंस्कारान् प्रश्वसिमीति शिक्षते । चित्तप्रतिसंवेदी । अभिप्रमोदयंश्चित्तं, समादधच्चित्तं, विमोचच्चित्तमाश्वसन् विमोचयन् चित्तं विमोचयतीति माश्वसिमीति शिक्षते । विमोचयंश्चित्तं प्रश्वसन् विमोचयंश्चित्तं प्रश्वसिमीति शिक्षते । अनित्यानुदर्शी, प्रहाणानुदर्शी, विरागानुदर्शी आश्वसन्निरोधानुदर्शी आश्वसिमीति शिक्षते । निरोधानुदर्शी प्रश्वसन्निरोधानुदर्शी प्रश्वसिमीति शिक्षते । कः पुनरेषां विभागः (।) आकाराणां [।] स शैक्षो दृष्ट(प्र)पवादो लाभीभवति । चतुर्णां स्मृत्युपस्थानानामाश्वा सप्रश्वासालम्बनं च (।) मनस्कारमारभते । अवशिष्टानां (श्भ्_स्ह्२३२) संयोजनानां प्रहाणाय [।] तेनाह स्मृतः । आश्वसन् स्मृत आश्वसिमीति शिक्षते । यदा आश्वासं वा प्रश्वासम्वा आलम्बते तदा दीर्घमाश्वसिमि प्रश्वसिमीति शिक्षते । यदा अन्तराश्वासमन्तरा(न्तः) प्रश्वासं वालम्बनीकरोति । तदा ह्रस्वमा[श्वसिमि] प्रश्वसिमीति शिक्षते । तथा हि आश्वासप्रश्वासा दीर्घाः प्रवर्त्तन्ते । अन्तराश्वासा अन्तर(न्तः) प्रश्वासाश्च हृस्वास्ते तथैव प्रवर्त्तन्ते । तथैवोपलक्षयति । जानाति । यदा सूक्ष्मसौर्षियगतानाश्वासप्रश्वासा विक्षेपानुप्रविष्टान् काये अधिमुच्यते । आलम्बनीकरोति । निरुद्धे च प्रश्वासेऽन्तर (न्तः) प्रश्वासे च । अनुत्पन्ने आश्वासेन्तराश्वासे च । प्रश्वासाश्वासशून्यां, तद्व्युपेतां, तद्व्यवहितां सितामवस्था मालम्बनी करोति ॥

तस्मिन् समये प्रश्रभ्य कायसंस्कारानाश्वसन्, प्रश्रभ्य, कायसंस्कारानाश्वसिमीति शिक्षते । प्रश्रभ्य कायसंस्कारान् प्रश्वसन्, प्रश्रभ्य कायसंस्कारान् प्रश्वसिमीति शिक्षते । अपि तु खलु तस्यासेवनान्वयाद्भाव नान्वयाद्बहुलीकरान्वयात् । ये खरा, दुःसंस्पर्शा, आश्वासप्रश्वासाः पूर्वमकृतपरिचयस्य प्रवृत्ता (श्भ्_स्ह्२३३) भवन्ति । कृतपरिचयस्य अन्ये च मृदवः सुखसंस्पर्शाः प्रवर्त्तन्ते । तेनाह । प्रश्रभ्य कायसंस्कारानाश्वसिमीति शिक्षते । स चैवमानापानस्मृतिप्रयोगेण च युक्तः स चेल्लाभी भवति । प्रथमस्य वा ध्यानस्य, द्वितीयस्य वा यस्मिन् समये प्रीतिप्रतिसंवेदी आश्वसन्, प्रीतिप्रतिसंवेदी (।) आश्वसि मीति शिक्षते । स चेत्पुनर्लाभी भवति । निष्प्रीतिकस्य तृतीयस्य ध्यानस्य [।] स तस्मिन् समये सुखप्रतिसंवेदी भवति ।

तृतीयध्यानादूर्ध्वमानापानस्मृतिसंप्रयोगो नास्ति । येन यावत्तृतीयध्यानात्परिकीर्तितं संगृहीतम् । तस्यैवं प्रीतिप्रतिसंवेदिनो वा, सुखप्रतिसंवेदिनो वा [।] स चेत्कदाचित्कर्ह (र्हि) चित्स्मृतिसंप्रमो षादुत्पद्यते । अस्मीति वा अयमहमस्मीति वा भविष्यामीति वा, न भविष्यामीति वा, रूपी भविष्याम्यरूपी भविष्यामि । संज्ञी, असंज्ञी । नैव संज्ञी, नासंज्ञी भविष्यामीत्येवं संमोहसंज्ञाचेतनासहगतमिञ्जितं मन्थितप्रपञ्चिता(तम)भिसंस्कृतं तृष्णागतमुत्पद्यते । य[त्]तदुत्पन्नं लघु लघ्वेव प्रज्ञया प्रतिविध्यति । नाधिवासयति । प्रजहाति । विनोदयति । व्यन्तीकरोति । एवं चित्तसंस्कारप्रतिसंवेदी प्रश्रभ्य चित्तसंस्कारानाश्वसिमीति (श्भ्_स्ह्२३४) [आश्वसन् प्रश्रभ्य चित्तसंस्कारानाश्वसिमीति] शिक्षते ।

स चेत्पुनर्लाभी भवति मौलानां प्रथमद्वितीयतृतीयध्यानानां स चावश्यमनागम्यस्य प्रथमध्यानसामन्तकस्य लाभी भवति । स तं नि (तन्नि)श्रित्योत्पन्नं स्वं चित्तं प्रत्यवेक्षते । सरागं वा, विगतरागम्वा, सद्वेषम्वा, विगतद्वेषम्वा, संमोहं (समोहं) विगतमोहं, संक्षिप्तं, लीनं, प्रगृहीतमुद्धतमनुद्धतं, व्युपशान्तमव्युपशान्तं, समाहितमसमाहितं, सुभावितमसुभावितं, विमुक्तं चित्तमविमुक्तं चित्तमिति यथाभूतं प्रजानाति । प्रतिसंवेदयति । तेनाह चित्तप्रतिसंवेदी ।

स यदा स्त्यान[मिद्ध]निवरणे चित्तं निश्रितं (।) भवति । अध्यात्मं संगमयतः यदान्यतमान्यतमेन प्रसादनीयेनालम्बनेन संदर्शयति । समादापयति । समुत्तेजयति । संप्रदीपयति । तेनाह [।] अभिप्रमोदयंश्चित्तं [।]

यदा [पुन]रौद्धत्यनिवरणेन कौकृत्यनिवरणेन निवृत्तं पश्यति । अभिसंप्रगृह्णत स्तदा अन्यतममान्यतमेन प्रसादनीयेनालम्बनेन संदर्शयत्यध्यात्ममवस्थापयति । शमयति, समाधत्ते । तेनाह समदधच्चितं (समादधंश्चित्तं) [।]

यदा च तच्चित्तमासेवनान्वयाद्भावनान्वयाद्(श्भ्_स्ह्२३५) बहुलीकरान्वयान्निवरणसमुदाचाराय दूरी कृतं भवति । निवरणेभ्यो विशोधितं (विमोचितं) [।] तेनाह [।] विमोचयच्चि(यंश्चि)त्तमाश्वसन् । विमोचयंश्चित्तमाश्वसिमीति शिक्षते ।

तस्य निवरणेभ्यो विमुक्तचेतसो मार्गभावनाया आन्तरायिकेभ्यः अनुशया [अ]वशिष्टा भवन्ति । प्रहातव्याः [।] स तेषां प्रहाणाय मार्गं संमुखीकरोति यदुत संस्कारानित्यतामेव साधु च, सुष्ठु च, योनिशः प्रत्यवेक्षते । तेनाह । अनित्यानुदर्शी । तेन च पूर्वं प्रथमद्वितीयतृतीयध्यानसन्निश्रयेणानागम्यसंनिश्रयेण वा पुनः शमथयोगः [।] ऋजुमेतर्हि अनित्यानुदर्शि(र्शी)विपश्यनायां योगं करोत्येवमस्य तच्चित्तं शमथविपश्यनापरिभावितं धातुषु विमुच्यते । यदुतानुशयेभ्यः ।

कतमे धातवः [।] यश्च प्रहाणधातुर्यश्च (श्भ्_स्ह्२३६) विरागधातुः, यश्चनिरोधधातुः । तत्र सर्वसंस्काराणां दर्शनप्रहातव्यानां प्रहाणात्प्रहाणधातुः । सर्वसंस्काराणां भावनाप्रहातव्यानां प्रहाणाद्विराग धातुः । सर्वोपधिनिरोधान्निरोधधातुः । स एवं त्रीन्धातून् शान्ततो मनसि कुर्वन्, क्षेमत, आरोग्यतः, शमथविपश्यनां भावयति । येनास्यासेवनान्वयाद्भावान्वयाद्बहुलीकारान्वयादवशिष्टेभ्यो भावनाप्रहातव्येभ्यः क्लेशेभ्यश्चित्तं विमुच्यते । तेनाह । प्रहाणानुदर्शी, विरागानुदर्शी, निरोधानुदर्शी आश्वसन्निरोधानुदर्शी आश्वसिमीति शिक्षते । एवमयं दर्शनभावनाप्रहातव्येषु क्लेशेषु । प्रहीणेष्वर्हन्भवति । क्षीणास्रवः नास्त्यस्यात उत्तरिकरणीयं भवति । कृतस्य वा परिचयः । अयमस्योच्यते षोडशाकारः परिचयः । यश्चायं पंचविधः परिचय इयमस्योच्यते । आनापानस्मृतिः । यत्र वितर्कचरितः पुद्गलः प्रयुज्यमानः प्रियारो हतया प्रयुज्यते । सव्यापारं चैतदालम्बनम् । सव्योक्षेपमध्यात्मं प्रत्यात्मं (श्भ्_स्ह्२३७) आसन्नासन्नं येनास्य तत्र प्रयुज्यमानस्य यो वितर्कसंक्षोभः स न भवति । त्वरितत्वरितं च चित्तमालम्बने सन्तिष्ठते । अभिरमते । संजायते । इदं पञ्च [विधं] (सं) वितर्कचरितस्य पुद्गलस्य चरितविशोधनमालम्बनम् ।

तत्र कौशलालम्बनं (कौशल्यालम्बनं) च [क]तमत्तद्यथा । स्कन्धकौशल्यं, धातुकौशल्यमायतनकौशल्यं, प्रतीत्यसमुत्पादकौशल्यं, स्थानास्थानकौशल्यम् । तत्र कतमे स्कन्धाः, कतमः (मत्) स्कन्धकौशल्यम् ॥ आह । पंच स्कन्धाः । रूपस्कन्धो वेदनास्कन्धः । संस्कारस्कन्धो विज्ञानस्कन्धश्च ॥

(श्भ्_स्ह्२३८)
तत्र रूपस्कन्धो यत्किंचिद्रूपं सर्वं तच्चत्वारि महाभूतानि । चत्वारि महाभूतान्युपादाय । (श्भ्_स्ह्२३९) तत्पुनरतीतानागतप्रत्युत्पन्नमाध्यात्मिकं वा, बाह्यम्वा, [औदारि]कम्वा, सूक्ष्म्वा, हीनम्वा, प्रणीतम्वा, दूरे वा, अन्तिके वा ।

तत्र वेदनास्कन्धः कतमः [।] सुखवेदनीयम्वा (श्भ्_स्ह्२४०) स्पर्शं प्रतीत्य, दुःखवेदनीयम्वा, अदुःखासुखवेदनीयम्वा [।] षडवेदनाकायाः । चक्षुः संस्पर्शजा वेदना [। श्रो]त्रघ्राणजिह्वाकायमनःसंस्पर्शजा वेदना ॥

तत्र संज्ञास्कन्धः कतमः [।] तद्यथा सनिमित्तसंज्ञा, अनिमित्तसंज्ञा, परीत्तसंज्ञा । महद्गतसंज्ञा । अप्रमाणसंज्ञा । नास्ति किञ्चिदित्याकिञ्चन्यायतनसंज्ञा । षट्संज्ञाकायाः ॥ चक्षुःसंस्पर्श[जा] संज्ञा ॥ श्रोत्रघ्राणजिह्वाकायमनःसंस्पर्शजा संज्ञा ॥ संस्कार[स्कन्धः] (श्भ्_स्ह्२४१) कतमः । षट्चेतना कायाः चक्षुः संस्पर्शजा (श्भ्_स्ह्२४२) चेतना, श्रोत्रघ्राणजिह्वकायमनः संस्पर्शजा चेतना [।] चेतनां च संज्ञा च स्थापयित्वा ॥ ये तदन्ये चैतसिका धर्माः ॥

तत्र विज्ञानस्कन्धः कतमः । यच्चित्तं मनोविज्ञानं [।] ते पुनः षड्विज्ञानकायाः । चक्षुर्विज्ञानं श्रोत्रघ्राणजिह्वकायमनोविज्ञानम् । सा चैषा वेदना संज्ञा संस्कारस्तच्चैतद्विज्ञानम् । अतीतानागतप्रत्युत्पन्नमाध्यात्मिकं (श्भ्_स्ह्२४३) वा बाह्यम्वा इति विस्तरेण पूर्ववत् ॥ इम उच्यन्ते स्कन्धाः ॥

स्कन्धकौशल्यं कतमत् । य एतान्यथोद्दिष्टान्धर्मान्नानात्मकतया च जानाति । बह्वात्मकतया च, न ततः परमुपलभते । विकल्पयति वा । इदमुच्यते समासतः स्कन्धकौशल्यम् ॥

तत्र कतमा नानात्मकता स्कन्धानामन्य एव रूपस्कन्धो (श्भ्_स्ह्२४४)ऽन्यो वेदनास्कन्ध एवम् । अन्यो यावद्विज्ञानस्कन्ध इयं नानात्मकता ॥

तत्र कतमा बह्वात्मकता । यो रूपस्कन्धो नेकविधो नानाप्रकारः । भूतलौकिकभेदेनानागतप्रत्युत्पन्नादिकेन च । प्रकारभेदेन [।] इयमुच्यते अनेकात्मकता । रूपस्कन्धस्यैवमवशिष्टानां स्कन्धानां यथायोगं वेदितव्यम् । किं च न तस्मात्परमुपलभते, विकल्पयति । स्कन्धमात्रमुपलभते । वस्तुमात्रं नो तु स्कन्धव्यतिरेकेणाह्वा(त्मा)नमुपलभते । नित्यध्रुवमविपरिणामधर्मकं, नाप्यात्मीयं किंचिदिदं नोपलभते । नो विकल्पयति तस्मात्परेण ।

तत्र कतमे धातवः । कतमद्धातुकौशल्यम् । आह । (श्भ्_स्ह्२४५) अष्टादश धातवः । चक्षुर्धातू रूपधातुश्चक्षुर्विज्ञानधातुः । श्रोत्रधातुः । शब्दधातुः । श्रोत्रविज्ञानधातुः । घ्राणधातुः । गन्धधातुः । घ्राणविज्ञानधातुः । जिह्वधातूरसधातुः । जिह्वविज्ञानधातुः । कायधातुः, स्प्रष्टव्यधातुः, कायविज्ञानधातुर्धर्मधातुर्मनो विज्ञानधातुरिमौच्यन्ते धातवः । यत्पुनरेतानष्टादशधर्मान्स्वकस्वकाद्धातोः स्वकस्वकाद्वीजात् । स्वकस्वकाद्गोत्राज्जायन्ते निर्वर्तन्ते प्रादुर्भवन्तीति । जानाति रोचयत्युपनिध्याति । इदमुच्यते धातुकौशल्यम् ॥ यदष्टादशानां धर्माणां स्वरुस्वकाद्धातोः प्रवृत्तिं जानाति । तदेवमेति हेतुप्रत्यकौशल्यमेतद्यदुत धातुकौशल्यम् ॥

तत्र कतमान्यायतनानि । कतमदायतनकौशल्यमाह । द्वादशयतनानि । चक्षुरायतनं, रूपायतनम् । (श्भ्_स्ह्२४६) श्रोत्रायतनम् । शब्दायतनम् । घ्राणायतनम् । गन्धायतनम् । जिह्वायतनम् । रसायतनम् । कायायतनम् । स्प्रष्टव्याय तनं, मन आयतनं, धर्मायतनं च । इमान्युच्यन्ते आयतनानि । कतमदायतनकौशल्यम् । तत्र चक्षुरधिपतिः रूपाण्यालम्बनं चक्षुर्विज्ञानस्य संप्रयोगस्योत्पत्तये [।] समनन्तरनिरुद्धं च मनः समनन्तरप्रत्ययः । (श्भ्_स्ह्२४७) तत्र श्रोत्रमधिपतिः । शब्द आलम्बनम् । समन[न्तर]निरुद्धं च मनः समनन्तरप्रत्ययः । श्रोत्रविज्ञानस्य स संप्रयोगस्योत्पत्तये [।] एवं यावन्मनः समनन्तरं तज्जो मनसिकारोधिपतिप्रत्ययो धर्मालम्बनं (धर्म आलम्बनं) मनोविज्ञानस्य संप्रयोगस्योत्पत्तये इति । त्रिभिः प्रत्ययैः समनन्तरप्रत्ययेन, आलम्बनप्रत्ययेनाधिपतिप्रत्ययेन च । षण्णां विज्ञानकायानां प्रवृत्तिर्भवति । ससंप्रयोगाना(णा)मिति । यदेवमाध्यात्मिकबाह्येष्वायतनेषु प्रत्ययकौशल्यमिदमुच्यते आयतनकौशल्यम् ॥

तत्र कतमः प्रतीत्यसमुत्पादः कतमः (मत्) (श्भ्_स्ह्२४८) प्रतीत्यसमुत्पादकौशल्यं [।] आह । अविद्याप्रत्ययाः संस्काराः, संस्कारप्रत्ययम्विज्ञानं, विज्ञानप्रत्ययं नामरूपम् । विस्तरेण यावदेवमस्य केवलस्य महतो दुःखस्कन्धस्य समुदयो भवत्ययमुच्यते प्रतीत्यसमुत्पादः । यत्पुरर्धर्मा एव धर्मानभिष्पन्दयति(न्ति) धर्मा एव धर्मान् परिष्पन्दयन्ति । संस्कारा एव धर्माणामाहारकाः तेन हेतुसमुत्पन्नत्वात्प्रतीत्यसमुत्पन्नत्वात्वादभूत्वा भवन्ति । भूत्वा च प्रतिविगच्छन्ति । तस्मादनित्या एते संस्कारा ये पुनरनित्यास्ते जातिधर्माणो, जरांधर्माणो, व्याधिधर्माणो, मरणधर्माणः, शोकपरिदेवदुःखादौर्मनस्योपायासधर्माणः । ते जरा धर्मित्वाद्यावदुपायासधर्मित्वात् । दुःखा, ये वा पुनर्दुःखा, अस्वतन्त्रा, दुर्बलास्ते अनात्मान इति । यदेभिराकारैः (श्भ्_स्ह्२४९) प्रतीत्यसमुत्पन्नेषु धर्मेषु अनित्यज्ञानं, दुःखज्ञानं, नैरात्म्यज्ञानम् । इदमुच्यते प्रतीतत्यसमुत्पादकौशल्यम् ॥

स्थानास्थानकौशल्यं पुनः प्रतीत्यसमुत्पाद एव वेदितव्यम् ॥ तत्रायं विशेषः [।] स्थानास्थानकौशल्येना विषमहेतुकतां जानाति । अस्ति कुशलाकुशलानां कर्मणां फलविपाकः । अकुशलानामनिष्ट इति ॥ यदेवं ज्ञानमिदमुच्यते स्थानास्थानकौशल्यम् ॥ तच्चैतत्पञ्चस्थानकौशल्यं समासतः स्वलक्षणकौशल्यं भवति । सामान्यलक्षणकौशल्यं च । तत्र स्कन्धकौशल्येन स्वलक्षणकौशल्यमाख्यातम् । अवशिष्टैः सामान्यलक्षणकौशल्यमिदमुच्यते कौशल्यालम्बनम् ॥

तत्र क्लेशविशोधनमालम्बनं कतमत् । आह । (श्भ्_स्ह्२५०) अधोभूमीनामौदारिकत्वं तद्यथा कामधातौ प्रथमध्यानस्य एवं यावन्नैव संज्ञानासंज्ञायतनस्य ।

तत्र कतमा औदारिकता । औदारिकता द्विविधा । स्वभावोदारिकता (स्वभावौदारिकता) संख्यौदारिकता च ।

तत्र स्वभावौदारिकता कामधातावपि पञ्च स्कन्धाः संविद्यन्ते । प्रथमे तु ध्याने ये कामावचरास्ते सादीनवतराश्च दुःखविहारत[राश्]च । अल्पकावस्थायितराश्च । हीनतराः प्रतिक्रुष्टतराश्च [।] इयमेषां स्वभावौदारिकता प्रथमे तु ध्याने [।] तथा तेन ते शान्ततराः प्रणीततरा इत्युच्यन्ते ।

तत्र संख्यौदारिकता कतमा । कामावचरो रूपस्कन्धः प्रभूततरः परिज्ञेयः । प्रहातव्य एवं यावद्विज्ञानस्कन्ध इयमुच्यते स्कन्धौदारिकता ॥ एवमुपरिमाभूमिषु स्वभावो (वौ) दारिकता संख्यौदारिकता च । यथायोगं वेदितव्याः (:) ।

इयं तूपरिमासु भूमिषु यावदाकिंचन्यायतना[त्]तदौदारिकत[रा]श्च वेदितव्याः सर्वा अधरिमा भूमयः । दुःखविहारत[रा]श्च अल्पायुष्कतराश्च, नैवसंज्ञानासंज्ञायतनं पुनः शान्तमेव उपरि श्रेष्ठतया भूमेरभावात् । यत्र समासत आदीनवार्थः । औदारिकतार्थः । यस्यां यस्यां भूमौ प्रभूततरमा(आ)दीनवं(वो) (श्भ्_स्ह्२५१) भवति । सा आदीनवतः । औदारिकेत्युच्यते । यस्यां लौकिकानां भूमावल्पतर मा(आ)दीनवं(वो) भवति । सा आदीनवतः शान्तेत्युच्यते । इदं लौकिकानां लौकिकेन मार्गेण क्लेशविशोधनमालम्बनं तथापि तस्याधरिमां भूमिमादीनवतः पश्यतः । रोगतः, अयोगक्षेमतः, उपरिमांच भूमिं शान्ततः [।] ये अधोभूमिकाः क्लेशा यावदाकिंचन्यायतनभूमिकाः, कामधातुमुपादाय ते प्रहीयन्ते । न त्वत्यन्ततः प्रहीयन्ते । ते पुनरेव ते प्रतिसन्धिका भवन्ति ।

लोकोत्तरेण वा पुनर्मार्गेण क्लेशविशोधनमालम्बनं चतुर्विधं, तद्यथा । दुःखसत्यं, समुदयसत्यं, निरोधसत्यं, मार्गसत्यञ्च ॥

तत्र दुःखसत्यं कतमत् । तद्यथा जातिर्दुःखं जरापि [दुःखं] व्याधिर्मरणमप्रियसंयोगः प्रियविनाभाव इच्छाविघातश्च । संक्षेपतः पञ्चोपादानस्कन्धा दुःखं [।]

(श्भ्_स्ह्२५२)
तत्र समुदय आर्यसत्यं तृष्णा पौनर्भविकी नन्दीरागसहगता तत्र तत्राभिनन्दिनी ॥

तत्र निरो[ध आ]र्यसत्यं यदस्या एव तृष्णाया अशेषप्रहाणम् ॥

(श्भ्_स्ह्२५३)
मार्गसत्यमार्याष्टांगो मार्गः [।]

तत्र कृष्णपक्षं शुक्लपक्षं चोपादाय हेतुफलव्यवस्थानेन चतुःसत्यव्यवस्थानम् ॥

तत्र दुःखसत्यं फलम् । समुदयसत्यं हेतुः । निरोधसत्यं फलम् । मार्गसत्यं हेतुः प्राप्तये, स्पर्शनायै । तत्र दुःखसत्यं व्याधिस्थानीयं तत्प्रथमतः परिज्ञेयम् । समुदयसत्यं व्याधिनिदानस्थानीयम् । तच्चान्तरम्परिवर्जयितव्यम् । निरोधसत्यमारोग्यस्थानीयम् । तच्च स्पर्शयितव्यं (स्प्रष्टव्यम्), साक्षात्कर्तव्यम् । मार्गसत्यं भैषज्यस्थानीयम् । तच्चासेवितव्यं, भावयितव्यम् । बहुलीकर्तव्यम् । भूतं चैतत्तथा अवितथा (-थम)विपरीतमविपर्यस्तं (श्भ्_स्ह्२५४) दुःखं दुःखार्थेन, यावन्मार्गो मार्गार्थेन तस्मात्सत्यमित्युच्यते । स्वलक्षणं च [न] विसम्वदति । तद्दर्शनाच्चाविपरीता बुद्धयः प्रवर्त्तन्ते । तेन सत्यमित्युच्यते [।]

कस्मात्पुनरेतान्यार्याणामेव सत्यानि भवन्ति । आर्या एतानि पश्यन्त्येव समानानि, सत्यता (तो) जानन्ति पश्यन्ति (।) यथाभूतं, बालास्तु न जानन्ति, न पश्यन्ति । यथाभूतं तस्मादार्यसत्यानीत्युच्यन्ते । बालानामेतद्धर्मतया सत्यं नावबोधेत (बुध्यते) । आर्याणां तूभयथा तत्र जानाति (ज्ञायते) ।

दुःखमिति जायमानस्य दुःखा वेदनोत्पद्येत (।) कायिक चैतसिकी, न तु ज[आ]तिरेव दुःखं, दुःखनिदानं सा, एवं यावदिच्छाविघातो दुःखमिति ॥

(श्भ्_स्ह्२५५)
इच्छाविघातनिदानं दुःखमुत्पद्येत । कायिकचैतसिकं, न त्विच्छाविघात एव (।) दुःखं, दुःखनिदानं पुनः स इति पेयालम् । संक्षेपतः पंचोपादानस्कन्धाः दुःखमित्येभिर्जात्यादिभिः पर्यायै[ः] । दुःखदुःखतैव परिदीपिता । तत्र विपणामदुःखता संस्कारदुःखता चावशिष्टा । सा पुनः पञ्चस्कन्धदुःखतया परिदीपिता भवति । तथा हि पंचोपादानस्कन्धास्त्रिवेदनापरिगतास्ते तथोक्तायाः दुखदुःखताया भाजनभूता[ः ।] या च नोक्ता विपरिणामदुःखता । संस्कारदुःखता च । साप्येष्वेव द्रष्टव्या ।

केन पुनः कारणेन भगवता दुःखदुःखतैव परिकीर्त्तिता । स्वशब्देन विपरिणामदुःखता, संस्कारदुःखता पुनः पर्यायेण [।] तथा हि दुःखदुःखताया (श्भ्_स्ह्२५६) मार्याणां बालानाञ्च तुल्या दुःखताबुद्धिः प्रवर्त्तते । संवेजिकात्यर्थं दुःखदुःखता पूर्वमकृतप्रज्ञानामेवं च देश्यमाने सुखमवतारो भवति । सत्येषु विनेयानां [।]

तत्र त्रिविधाया दुःखतायाः कथं व्यवस्थानं भवति । यत्तावद्दुःखं जातिर्दुःखं यावदिच्छाविघातो दुःखमित्यनेन साधिष्ठाना दुःखा वेदना आख्याता ॥ सा च दुःखदुःखता [।] इदं दुःखदुःखताया व्यवस्थानम् । ये वा पुनरेतद्विपक्षा धर्मास्तथा यौवनं जराया, व्याधेरारोग्यं, जीवितं मरणस्य, प्रियसंप्रयोगोऽप्रियसंप्रयोगस्य । अप्रियविनाभावः प्रियविनाभावस्य, इच्छासम्पत्तिरिच्छाविघातस्य, ये च दुःखायां वेदनायां प्रवृत्ताः क्लेशाः साधिष्ठाना, ये चारोग्यादिषु सुखस्थानीयेषु धर्मेषु तन्निर्जातायां च वेदनायां ये प्रवृत्ताः क्लेशा इयमुच्यते विपरिणाम दुःखता ॥

तत्र सुखा वेदना साधिष्ठाना अनित्यतया प[रि]णमन्ती । अत्यर्थीभावाधिपतेयं दुःखं विदधाति । क्लेशाः पुनः सर्वत्र प्रवृत्ताः पर्यवस्थानष(श) एव दुःखा भवन्ति । विपरिणामश्च स चेतसः तस्माद्विपरिणामदुःखतेत्युच्यते ॥ यथोक्तं भगवता- अवतीर्णविपरिणतेन चित्तेन मातृग्रामस्य हस्तिग्रहणं चेति विस्तरः ॥ यथा चोक्तं- काम[च्]छन्दपर्यवस्थितः । काम[च्]छन्दपर्यवस्थानप्रत्ययं तज्जं (श्भ्_स्ह्२५७) चतसिकं दुःखदौर्मनस्यं प्रतिसंवेदयते । एवं व्यापादस्त्यानमिद्धामौद्ध(मिद्धौद्ध)त्यकौकृत्यविचिकित्सापर्यवस्थितः । तदनेनागमेनाप्तेन परमाप्तेन क्लेशेषु दुःखार्तोपि लम्बते । विपरिणामार्थो(र्त्तो)पि । तेनोच्यते क्लेशविपरिणाम [दुःखते ति [।] इदं विपरिणाम]दुःखताया व्यवस्थानम् । संस्कारदुःखता पुनः । सर्वत्रगा उपादानस्कन्धेषु संक्षेपत आर्या च दुखदुःखता, या च क्लेशसंगृहीता विपरिणामधर्मता, ये (या) च साधिष्ठाना सुखा वेदना तां स्थापयित्वा, ये तदन्ये स्कन्धाश्च दुःखाः(दुःख)सहगतास्तन्निर्जातास्तदुत्पत्तिप्रत्यया स्तस्य चोत्पन्नस्य स्थितिभाजना इयमुच्यते संस्कारदुःखता ॥ ये स्कन्धा अनित्या उदयव्यययुतो(ताः) सोपादानास्त्रिवेदनाभिरनुषक्ता[ः] । दौष्ठुल्योपगता अयोगक्षेमपतिता अविनिर्मुक्ताः । दुःखदुःखताया विपरिणामदुःखताया अस्ववशवर्तिनश्च [।] इयमुच्यते संस्कारदुःखतया दुःखता [।] इदं संस्कारदुःखताया व्यवस्थानम् ।

तभ(त्र)तृष्णा प्रार्थनाभिलाषोभिनन्दनेति पर्यायाः [।] सा पुनः प्रार्थना त्रिभिर्मुखैः प्रवृत्ता(स्)तद्यथा पुनर्भवप्रार्थना, विषयप्रार्थना च । (श्भ्_स्ह्२५८) तत्र या पुनर्भवप्रार्थना मा पौनर्भविकी तृष्णा । विषयप्रार्थना पुनर्द्विविधा [।] प्राप्तेषु विषयेषु सौमनस्याध्यवसानसहगता, अप्राप्तेषु च विषयेषु संयोगाभिलाषसहगता [।] तत्र या प्राप्तेषु विषयेषु सौमनस्याध्यवसानसहगता नन्दीरागसहगतेत्युच्यते । या पुनरप्राप्तेषु विषयेषु संयोगाभिलाषसहगता तत्र तत्राभिनन्दिनीत्युच्यते ।

निरोधोपिद्विविधः । क्लेशनिरोधः, उपक्लेशनिरोधश्च ।

मार्गोपि द्विविधः । शैक्षश्चाशैक्षश्च । इदमालम्बनं क्लेशविशोधनं लोकोत्तरेण मार्गेण वेदितव्यम् । तेनाह चतुर्विधमालम्बनम् । व्याप्यालम्बनं, चरितविशोधनं, कौशल्यालम्बनं, क्लेशविशोधनं चेति ॥

तत्राववादः कतमः । चतुर्विधो [अ]ववादः । (श्भ्_स्ह्२५९) अविपरीताववादः । अनुपूर्वाववादः । आगमाववादः । अधिगमाववादश्च ॥

तत्राविपरीताववादः कतमः । यदविपरीतं धर्मसत्त्वं च देशयति । ग्राहयति । भूतं यदस्य निर्याति । सम्यग्दुःखक्षयाय । दुःखस्यान्तक्रियायै [।] अयमुच्यतेऽविपरीताववादः ।

अनुपूर्वाववादः कतमः । यत्कालेन धर्मं देशयति । उत्तानोत्तानानि [स्थानानि] तत्प्रथमतो ग्राहयति । वाचय[ति] । ततः पश्चाद्गंभीराणि प्रथमस्य वा सत्यस्याभिसमयाय तत्प्रथमतोऽववदते । (श्भ्_स्ह्२६०) ततः पश्चात्समुदयनिरोधमार्गसत्यस्य, प्रथमस्य ध्यानस्य समापत्तये तत्प्रथमतोववदते । ततः पश्चादन्यासां ध्यानसमापत्तीनामयमेवंभागीयोनुपूर्वाववादो वेदितव्यः ।

तत्रागमाववादो यथा तेन गुरूणामन्तिकादागमितं भवति । गुरुस्थानीयानां, योगज्ञानां, आचार्याणामुपाध्यायस्य वा, तथागतस्य वा, तथागतश्रावकस्य वा [।] तथैवानेनान्यूनमधिकं कृत्वा परानववदते । अयमुच्यते आगमाववादः ।

तत्राधिगमाववादः [।] यथानेन तेधर्मा अधिगता भवन्ति । स्पर्शिताः (स्पृष्टाः) साक्षात्कृता, एकाकिना व्यवकृष्टविहारिणा । तञ्चैव परेषां प्राप्तये । स्पर्शनायै साक्षात्क्रियायै । अववदते [।] अयमुच्यते अधिगमाववादः ।

अस्ति पुनः सर्वाकारपरिपूर्णोववादः । स पुनः कतमः [।] यस्त्रिभिः (यत्त्रिभिः) प्रातिहारर्यैववदति । ऋद्धिप्रातिहार्येण, आदेशनाप्रातिहार्येण । अनुशास्तिप्रातिहार्येण । ऋद्धिप्रातिहार्येण, (श्भ्_स्ह्२६१) अनेकविधमृद्धिविषयमुपदर्शयत्यात्मनि च बहुमानं ज[न]यति । परेषां यथा तेन बहुमानजाताः । श्रोत्रावधानयोगे मनसिकारे आदरजाता भवन्ति । तत्र [।] देशना प्रातिहार्येण चित्तचरितं समन्वेष्य अनुशास्तिप्रातिहार्येण यथेन्द्रियं, यथाचरितं, यथावतारंधर्मदेशनां देशयति । प्रतिपक्षे समनुशास्ति । तेनायं प्रातिहार्यत्रयसंगृहीतः परिपूर्णाववादो भवति ॥

तत्र शिक्षा कतमा । आह । तिस्रः शिक्षाः [।] अधिशीलं शिक्षा, अधिचित्तमधिप्रज्ञं शिक्षा ॥

तत्राधिशीलं शिक्षा कतमा । यथापि तच्छीलं (श्भ्_स्ह्२६२) वा (तच्छीलवान्) विहरतीति विस्तरेण पूर्ववत् ॥

तत्राधिशीलं (चित्तं) शिक्षा विविक्तं कामैर्विविक्तं पापकैरकुशलैर्धर्मैः सवितर्कं, सविचारं, विवेकजं, प्रीतिसुखं, चित्तैकाग्रता[ञ्]च, प्रथमं ध्यानं यावच्चतुर्थं ध्यानमुपसम्पद्य विहरति । इयमधिचित्तं, शिक्षा । अपि खलु सर्वे आरूप्यास्तदन्याश्च समाधिसमापत्तयः । अधिचित्तं शिक्षेत्युच्यते । अपि तु ध्यानानि निश्रित्य तत्प्रथमतः सत्याभिसमयोमा वक्रान्तिर्भवति । न तु सर्वेण सर्वं विना ध्यानैः तस्मात्प्रधानानि ध्यानानि कृत्वा अधिचित्तं शिक्षेत्युक्तानि ।

तत्राधिप्रज्ञं शिक्षा या चतुर्ष्वार्यसत्येषु यथाभूतं ज्ञानं [।]

(श्भ्_स्ह्२६३)
केन कारणेन तिस्र एव शिक्षा न तदूर्ध्वम् । आह । समाधिप्रतिष्ठार्थेन । ज्ञानसंनिश्रयार्थेन । कृत्यकरणार्थेन च [।] तत्र समाधिप्रतिष्ठार्थेनाधिशीलम् । शिक्षा । तथा हि शीलं प्रतिष्ठाय चित्तैकाग्रतां स्पृशति (॥) चित्तसमाधिं [॥] तत्र ज्ञानसन्निश्रयार्थेन अधिचित्तं शिक्षा । तथा हि समाहितचित्तस्यैकाग्रता । स्मृत्या ज्ञेये वस्तुनि यथाभूतं ज्ञानदर्शनं प्रवर्त्तते । तत्र कृत्यकरणार्थेन अधिप्रज्ञं शिक्षा । तथा हि सुविशुद्धेन ज्ञानदर्शनेन क्लेशप्रहाणं साक्षात्करोति । एष हि स्वार्थ ए[तत्] परमं कृत्यं यदुत क्लेशप्रहाणं [।] तत उत्तरिकरणीयं पुनर्नास्ति । तेन एतास्तिस्र एव शिक्षाः ।

काः पुनरासां शिक्षाणामानुपूर्वीषु विशुद्धशीलस्य विप्रतिसारः [।] अविप्रतिसारिणः प्रामोद्यं, प्रीतिः, प्रश्रब्धिः, सुखं, सुखितस्य चित्तसमाधिः [।] समाहितचित्तो यथाभूतं प्रजानाति । यथाभूतं पश्यति । यथाभूतं जानन्पश्यन्निर्विद्यते । निर्विण्णो (श्भ्_स्ह्२६४) विरज्यते । विरक्तो विमुच्यते । विमुक्तो [अ]नुपादाय परिनिर्वाति । एवमिमानि शीलानि भावितानि अग्रतायामुपनयन्ति । यदुतानुपादाय परिनिर्वाणमियमासां शिक्षाणामानुपूर्वी ।

तत्र केन कारणेनाधिशीलं शिक्षा अधिशीलमित्युच्यते । एवमधिचित्तमधिप्रज्ञमधिकारार्थेना(धिकारार्थेन) च ।

तत्र कथमधिकारार्थेना (ना अ)धिचित्तमधिकृत्य यच्छीलं सा अधिशीलं शिक्षा । अधिप्रज्ञमधिकृत्य यश्चित्तसमाधिः । सा अधिचित्तं शिक्षा ।

क्लेशप्रहाणमधिकृत्य यज्ज्ञानं दर्शनम् । सा अधिप्रज्ञं शिक्षा ।

या चाधिचित्तम् । या चाधिप्रज्ञं शिक्षा । एताः शिक्षाः अस्मिन्नेव शासने असाधारणा इतो बाह्यैरेवमधिकार्थेन [।]

अस्ति पुनरधिचित्तं शिक्षा या अधिप्रज्ञं शिक्षाया आवाहिका, अस्त्यधिप्रज्ञं शिक्षा या अधिचित्तं शिक्षाया आवाहिका । तद्यथा । आर्यश्रावकः । अलाभी मौलध्यानानां, शैक्षो, दृष्टपदः, ततः पश्चाद्भावनाप्रहातव्यानां क्लेशानां प्रहाणाय प्रयुज्यमान[ः] स्मृतिसंबोध्यंगं भावयति । इयमधिप्रज्ञं शिक्षा (।) अधिचित्तं (श्भ्_स्ह्२६५) शिक्षाया आवाहिका । अधिचित्तं पुनः शिक्षा अधिप्रज्ञाया आवाहिका पूर्वमेवोक्ता ॥ तत्र अस्त्यधिशीलं शिक्षा । नाधिचित्तं, नाधिप्रज्ञम् । अस्त्यधिशीलमधिचित्तं, नाधिप्रज्ञम् । न त्वस्त्यधिप्रज्ञं शिक्षा या विनाधिशीलेनाधिचित्तेन च । अतो यत्राधिप्रज्ञम् । शिक्षा । तत्र तिस्रः शिक्षा वेदितव्या[ः] ॥ इदं तावच्छिक्षाव्यवस्थानम् । तत्र योगिना योगप्रयुक्तेन शिक्षितव्यम् ।

तत्र त्रयः पुद्गलाः सत्यान्यभिसमागच्छन्ति । कतमे त्रयस्तद्यथा । अवीतरागः यद्भूयो वीतरागः, वीतरागश्च ।

तत्र सर्वेणसर्वमवीतरागः सत्यान्यभिसमागच्छन् सह सत्याभिसमयात्स्रोत (-येन स्त्रोत) आपन्नो भवति ।

यद्भूयो वीतरागः पुनः सकृदागामी भवति ।

वीतरागः सह सत्याभिसमयाद्(येना) नागामी भवति ।

(श्भ्_स्ह्२६६)
त्रीणीन्द्रियाणि । अनाज्ञातमाज्ञास्यामीन्द्रियम् । आज्ञेन्द्रियमाज्ञातवत इन्द्रियम् ।

एषामिन्द्रियाणां कथं व्यवस्थानं भवति । अनभिसमितानां (श्भ्_स्ह्२६७) सत्यानामभिसमयाय प्रयुक्तस्य अनाज्ञातमाज्ञास्यामीन्द्रियव्यवस्थानम् । अभिसमितवतः शैक्षस्याज्ञेन्द्रियव्यवस्थानम् । कृतकृत्यस्याशैक्षस्यार्हतः । आज्ञा[तावीन्द्रिय]व्यवस्थानम् ।

त्रीणि विमोक्षमुखानि । तद्यथा शून्यता [अ]प्रणिहितमानिमित्तेमेषां त्रयाणां विमोक्षमुखानां कथं व्यवस्थानं भवति । आह [।] द्वयमिदं संस्कृतमसंस्कृतञ्च ।

तत्र संस्कृतं त्रैधातुकप्रतिसंयुक्ताः पञ्चस्कन्धाः, [अ]संस्कृतं पुनः निर्वाणम् । इदमुभयं यच्च संस्कृतं, यच्चा संस्कृतमित्युच्यते ।

(श्भ्_स्ह्२६८)
यत्पुनरिदमुच्यते । आत्मा वा, सत्त्वो वा, जीवो वा, जन्तुर्वा, इदमसत् । तत्र संस्कृते दोषदर्शनादादीनवदर्शनादप्रणिधानं भवति । अप्रणिधानाच्चाप्रणिहितं विमोक्षमुखं व्यवस्थाप्यते । निर्वाणे पुनः तत्र प्रणिधानवतः प्रणिधानं भवति । शान्तदर्शनम् । प्रणीतदर्शनम् । निःसरणदर्शनं च । निःसरणदर्शनाच्च पुनरानिमित्तं विमोक्षमुखं व्यवस्थाप्यते । तत्रासत्यसम्विद्यमाने नैव प्रणिधानं भवति । तद्यथैवासत्तथैवासदिति । जानतः पश्यतः शून्यताविमोक्षमुखं व्यवस्थाप्यते । एवं त्रयाणां विमोक्शमुखानां व्यवस्थानं भवति ॥

तत्र कतमे शिक्षानुलोमिका धर्माः । आह दश शिक्षाविलोमा धर्माः । तेषां प्रतिपक्षेण दश शिक्षानुलोमिका [धर्मा] वेदितव्याः ।

तत्र कतमे शिक्षाविलोमाधर्मास्तद्यथा । मातृग्रामः । शिशुरुदारवर्णो रंजनीयः । शिक्षाप्रयुक्तस्य कुलपुत्रस्याधिमात्रमन्तरायकरः परिपन्थकः, सत्कायपर्यापन्नेषु संस्कारेषु नियन्तिरालस्यं, कौसीद्यम् । सत्कायदृष्टेः कबडंकाराहारमुपादाय रसरागः । लोकाख्यानकथास्वनेकविधासु बहुनानाप्रकारासु चित्रेषु (त्रासु) छ(च्छ)न्दरागानुनयः, धर्मचिन्ता, योगमनसिकारापक्षालः । स पुनः कतमस्तद्यथा (श्भ्_स्ह्२६९) रसेषु वा, सत्येषु वा, स्कन्धेषु वा [।] कर्मफले वा प्रहाणप्रयुक्तस्य च कायदौष्ठुल्यशैथिलिकस्य शमथविपश्यनापक्षालमनसिकारः । स्त्यानमिद्धेन वा चित्ताभिभवः । चित्ताभिसंक्षेपः । अन्वारब्धवीर्यस्य वा कायिकक्लमः । चैतसिक उपायासः । अतिलीनवीर्यस्य विशेषासंप्राप्तिः कुशलपक्षपर्यादानम् । लोभेन वा, यशसावा, प्रशंसया वा, अन्यतमान्यतमेन वा सुखलवमात्रत्वेन, नन्दीसौमनस्यमौद्धत्यमव्युपशमः । औद्विग्न्य मुत्प्लावितत्वम् । सत्कायनिरोधे निर्वाणे उत्त्रासश्ठ(ःस्त)म्भितत्वम् । अमात्रया प्रयोगः । अत्यभिजल्पः । धर्म्यामपि कथां कथयता विगृह्य कथामारभ्यानुयोगः । पूर्वदृष्टश्रुतानुभूतेषु विषयेष्वनेकविधेषु बहुनानाप्रकारेषु चित्तविसारः चित्ताक्षेपः । अनित्येषु च संस्का[रेषु] निध्यायितत्वं, इमे धर्माश्चिन्तायोगमनसिकारापक्षाला वेदितव्याः ।

ध्यान[समापत्ति]सुखास्वादनता, आनिमित्तं समापत्तुकामस्य संस्कारनिमित्तानुसारिता । स्पृष्टस्य शारीरिकाभिर्वेदनाभिः, दुःखामिर्यावत्प्राणहारिणीभिर्जीवितनियन्ति[ः] ।, जीविताशा तदाशानुगतस्य (श्भ्_स्ह्२७०) शोचना, क्लाम्यना, परिदेवना इति । इमे दश शिक्षाविलोमा धर्माः [।]
कतमे दश शिक्षापदानां विलोमानां धर्माणां प्रतिपक्षेण शिक्षानुलोमिका भवन्ति । तद्यथाशुभसंज्ञा, अनित्ये दुःखसंज्ञा । दुःखे अनात्मसंज्ञा । आहारे प्रतिकूलसंज्ञा । सर्वालोके अनभिरतिसंज्ञा । आलोकसंज्ञा । विरागसंज्ञा । निरोधसंज्ञा । मरणसंज्ञा । इतीमा दश संज्ञा[ः] । आसेविता भाविता बहुलीकृता दशविधस्य शिक्षापरिपन्थकस्य दशानां शिक्षाविलोमानां धर्माणां प्रहाणाय सम्वर्तन्ते ।

तत्र धर्मालोकः । अर्थालोकः । शमथालोको, विपश्यनालोकश्च । एतानालोकानधिपतिं कृत्वा आलोकसंज्ञा । अस्मिन्नर्थे अभिप्रेता । धर्मचिन्तायोगमनसिकारः । परिपन्थस्य प्रहाणाय ॥

तत्रापरे दश शिक्षानुलोमिका धर्मा वेदितव्याः । कतमे दश [।] तद्यथा पूर्वको हेतुः । आनुलोमिक उपदेशः । योनिशः प्रयोगः । सातत्यसत्कृत्यकारिता तीव्र[च्]छन्दता, योगबलाधानता, कायचित्तदौष्ठुल्यप्रतिप्रश्रब्ध(ब्धि)रभीक्ष्णप्रत्यवेक्ष[ण]ता । अपरितमना, निरभिमानता च ।

तत्र पूर्वको हेतुः कतमः । यः पूर्वमिन्द्रियपरिपाकः । (श्भ्_स्ह्२७१) इन्द्रियसमुदागमश्च । [तत्रानुलोमिक उपदेशः कतमः] य उपदेशोऽविपरीतश्चान(नु)पूर्विकस्य(श्च) ।

तत्र योनिशः प्रयोगः । यथैवा[व]वदितः (वोदितः) । तथैव प्रयुज्यते । तथा प्रयुज्यमानः सम्यग्दृष्टिमुत्पादयति ॥

तत्र सातत्यसत्कृत्यकारिता [।] षड्रूपेण प्रयोगेण अबन्ध्यञ्च कालं करोति । कुशलपक्षेण क्षिप्रमेव कुशलपक्षं समुदानयति ।

तत्र तीव्र[च्]छन्दता [।] यथापि तदुत्तरे विमोक्षे स्पृहामुत्पादयति । कदा स्विदहं तदायतनमुपसम्पद्य विहरिष्यामि । यदार्या आयतनमुपसंपद्य विहरन्तीति ।

तत्र योगबलाधानता [।] द्वाभ्यां कारणाभ्यां योगबलाधानप्राप्तो भवति । प्रकृत्यैव च तीक्ष्णेन्द्रियतया, दीर्घकालाभ्यासपरिचयेन च । तत्र कायचित्तदौष्ठु[ल्यं, प्रीतिः] प्रश्रब्धिर्यथापि तच्छ्रान्तकायस्य क्लान्तकायस्योत्पद्यते । कायदौष्ठुल्यं, चित्तदौष्ठुल्यम् । तदीर्यापथान्तरकल्पनया प्रतिप्रस्रम्भयति । अतिवितर्कितेनातिविचारितेनोत्पद्यते । कायचित्तदौष्ठुल्यं तदा [चात्म]चेतः शमथानुयोगेन प्रतिप्रश्रम्भयति । (श्भ्_स्ह्२७२) चित्ताभिसंक्षेपेण चित्तलयेन स्त्यानमिद्धपर्यवस्थानम् । चोत्पद्यते । कायचित्तदौष्ठुल्यं तदधिप्रज्ञं धर्मविपश्यनया, प्रसदनीयेन च मनस्कारेण प्रश्रम्भयति । प्रकृत्यैव वा प्रहीणक्लेशस्य क्लेशपक्षं कायचित्तदौष्ठुल्यमविगतं भवति । सदानुषक्तं तत्सम्यङ्मार्गभावनया प्रतिप्रश्रम्भयति ।

तत्राभीक्ष्णप्रत्यवेक्षा । अभीक्ष्णं शीलान्यारभ्य कुकृतं प्रत्यवेक्षते । सुकृतञ्च । अकृतं च प्रत्यवेक्षते, कृतं च । कुकृताच्चाकृताद्व्यावर्त्तते । सुकृताच्च कृतान्न प्रत्युदावर्त्तते । तथा क्लेशानां प्रहीणाप्रहीणानां मीमान्सा (मांसा) मनस्कारमधिपतिं कृत्वा अभीक्ष्णं प्रत्यवेक्षते । तत्र प्रहीणतां ज्ञात्वा पुनः पुनस्तमेव मार्गं भावयति ।

तत्रापरितमनाय (नया) तत्कालान्तरेण ज्ञातव्यम् । द्रष्टव्यं, प्राप्तव्यम् । तदजानतो [अ]पश्यतो, नाधिगच्छतः । परितमना उत्पद्यते, चैतसिकः क्लमः । चैतसिकोविघातः । तामुत्पन्नान्नाधिवासयति । प्रजहाति ।

निरभिमानता । अधिगमे प्राप्तौ । स्पर्शनायां निरभिमानो भवति । अविपरीतग्राही, प्राप्ते प्राप्त संज्ञी, अधिगते अधिगतसंज्ञी [।] इतीमे दश धर्माः शिक्षाकामस्य योगिनः ॥ आदिमध्यपर्यवसानमुपादाय शिक्षामनुलोमयति (न्ति), न विलोमयन्ति । तेनोच्यन्ते शिक्षानुलोमिका इति ।

(श्भ्_स्ह्२७३)
तत्र कतमो योग्रभंशः । आह । चत्वारो योगभ्रंशाः । कतमे चत्वारः । अस्ति योगभ्रंश आत्यन्तिकः । अस्ति तावत्कालिकः । अस्ति पारिहाणिकः । अस्ति मिथ्याप्रतिपत्तिकृतः ।

तत्रात्यन्तिको योगभ्रंशः । अयोगस्थानां पुद्गलानां वेदितव्यः । तस्यापरिनिर्वाणधर्मकत्वादत्यन्तपरिभ्रष्टा एव योगाद्भवन्ति ।

तत्र तावत्कालिकः । तद्यथा गोत्रस्थानां परिनिर्वाण धर्मकाणां प्रत्ययविकलानां, ते हि दूरमपि, परमपि गत्वा अवश्यमेव प्रत्ययानासादयिष्यन्ति । योगं च संमुखीकृत्य भावयित्वा परिनिर्वास्यन्ति । तेनैव तेषां तावत्कालिक एव भ्रंशो भवति ।

तत्र प्राप्तिपरिहाणिको योगभ्रंशः । यथापीहैकत्ये प्राप्तादधिगता[ज्]ज्ञानदर्शनस्पर्शविहारात्परिहीयन्ते ।

तत्र मिथ्याप्रतिपत्तिकृतो योगभ्रंशः । यथापीहैकत्येः । अयोनिशः प्रयुज्यमानो नाराधको भवति (।) योगस्य, नाराधयति (।) ध्याय्यं धर्मं कुशलं [।] यथापीहैकत्यः बहुक्लेशो भवति । प्रभूतरजस्कजातीयः । महाविज्ञानश्च भवति । महाबुद्धिः । महताया (महत्या) बुद्धया समन्वागतः । स श्रुतमुद्गृह्णाति । श्रुतं पर्यवाप्नोति । अल्पम्वा, प्रभूतं वा, अरण्ये वा पुनर्विहरति आगतागतानाञ्च गृहिप्रव्रजितानां, रुजकानां, रुजकजातीयानां धर्मदेशनया (श्भ्_स्ह्२७४) चित्तमाराधयति । कुहनानुचरितया च चेष्टया कायवाक्यप्रतिसंयुक्तया, तस्य तेन हेतुभावेन, तेन प्रत्ययेनोत्पद्यते । लाभसत्कारश्लोकः, स ज्ञातो भवति । महासुखो लाभी भवति । चीवरपिण्डपातशयनासन[ग्लानप्रत्य]यभैषज्यपरिष्काराणां, सत्कृतश्च भवति, गुरुकृतो, राज्ञां राजामात्राणां, यावत्सार्थवाहानां, अर्हत्सम्पत(द)ः । तस्यान्ता वर्त्तन्ते श्रावकाः, गृहिणः, प्रव्रजिताः । अपि अध्वादेन्तेषु ग्रेधं निगमयम्वा वर्त्तते (अप्यध्वान्तेषु ग्रामो निगमो वा वर्तते) वा [...]यतस्यैवं भवति । सन्ति ये श्रावका, गृहिप्रव्रजिता, ये मयि संभावनाजाता येषां महत्संस(म)तः ते चेद्या(न्मा)मुपसंक्रम्य योगे मनसिकारे शमथविपश्यनाया[ं] प्रश्नं पृच्छेयुः । तेषां चाहं पृष्टो व्याकुर्यां न जानामीत्येवं सति या संभावना सा च हीयेन्न (हीयेत, न) च स्यामर्हत्सम्मतः, यन्न्वहं स्वयमेव चिन्तयित्वा, तुलयित्वोपपरीक्ष्य योगं व्यवस्थापयेयम् । स एतमेवार्थमधिपतिं कृत्वा लाभसत्काराभिगृद्ध एकाकी रहोगतः स्वयमेव चिन्तयित्वा, तुलयित्वा, तुलयित्वोपपरीक्ष्य योगंव्यवस्थापयति । स चास्य योगो न सूत्रे भवति । न विनये संदृश्यते । धर्मतां च विलोमयति । मयेते(य एते) भिक्षवः । सूत्रधरा, विनयधरा, मातृकाधरास्तेषां तद्योगस्थानं (श्भ्_स्ह्२७५) विनिगूहति । न प्रकाशयति । येप्यस्य श्रावका भवन्ति । गृहिणः, प्रव्रजिताश्च, तानपि योगप्रतियुक्तये आज्ञापयति । तत्कस्य हेतोर्मा, मैव ते सूत्रधरा, विनयधरा, मातृकाधरा, एतद्योगस्थानं श्रुत्वा सूत्रेवतारयेयुः । तच्च नावतारये(तरे)द्विनये, संदर्शयेयुः । तच्च न संदृश्यते । धर्मतया उपपरीक्ष्येत । तच्च धर्मतां विरोधयेत् । ते च ततो निदानं प्रतीता भवेयुरप्रतीतवचनैश्च सां चोदयेयुः । अधिकरणानि चोत्पादयेयुः । एवमहं पुनरपि न सत्कृतः (।) स्यान्न गुरुकृतो, राज्ञां राजामात्राणां यावद्धनिनां श्रेष्ठिनां सार्थवाहानां, न च पुनर्लाभी स्यां चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणामिति । स तामेव लाभसत्कारकामतामधिपतिं कृत्वा अधर्मे धर्मसंज्ञी, विनिधाय संज्ञां रूपि[णी]मधर्मं धर्मतो दीपयति । संप्रकाशयति । तत्र येस्य दृष्ट्यनुमतमापद्यन्ते । तेप्यधर्मे । धर्मसंज्ञिनो भवन्ति । मन्दत्वान्मोहत्वात्ते अधर्मे धर्मसंज्ञिनो यथानुशिष्टा अपि, प्रतिपद्यमाना मिथ्याप्रतिपन्ना एव ते वेदितव्याः । अयमेवं रूपो मिथ्याप्रतिपत्तिकृतो योगभ्रंशस्सद्धर्मप्रतिरूपको ह्यसद्धर्मः सद्धर्मस्यान्तर्धानाय [।] इतीमे चत्वारो योगभ्रंशा ध्यायिना भिक्षुणा योगाचारेण परिज्ञेया वर्जयितव्याः ॥

तत्र योगः कतमः । आह [।] चतुर्विधो (श्भ्_स्ह्२७६) योगः । तद्यथा श्रद्धा, छन्दो, वीर्यं, उपायश्च ॥

तत्र श्रद्धा द्विविधाधिष्ठानाभिसंप्रत्ययाकारा प्रसादाकारा च ॥ धर्मयुक्तिविचारणाधिष्ठाना पुद्गलानुभावाधिमुक्त्यधिष्ठाना च ॥

छन्दोपि चतुर्विधः । तद्यथा प्राप्तये [।] यथापीहैकत्यः उत्तरे विमोक्षस्पृहामुत्पादयति । विस्तरेण पूर्ववत् । परिपृच्छायै । यथापीहैकत्यः स्पृहामुत्पादयति विस्तरेण पूर्ववत्परिपृच्छायै । आरामं गमनाय, विज्ञानां सब्रह्मचारिणां योगज्ञानामन्तिकमश्रुतस्य श्रवणाय, श्रुतस्य च पर्यवदानाय [।] संभारसमुदागमाच्छन्दः । यथापीहैकत्यः शीलसम्वरपारिशुद्धये, इन्द्रियं संवरपारिशुद्धये, भोजने मात्रज्ञतायां, जागरिकानुयोगे, संप्रजानद्विहारितायामुत्तरोत्तरां स्पृहामुत्पादयति । अनुयोगाच्छन्दः । या (यः) सातत्यप्रयोगतायां सत्कृत्यप्रयो[गता]यां च मार्गभावनायां स्पृहामुत्पादयत्यभिलाषं कर्तुकामतामित्ययं चतुर्विधश्छन्दः । (इत्ययं चतुर्विधश्छन्दः) यदुत प्राप्तये । परिपृच्छनायै । संभारसमुदागमाय । अनुयोगाय च ।

तत्र वीर्यमपि चतुर्विध[ं] तद्यथा श्र[वणा]य, चिन्तनायै, भावनायै । आवरणपरिशुद्धये च ।

(श्भ्_स्ह्२७७)
तत्र श्रवणाय वीर्यम् । यदश्रुतं शृण्वतः । पर्यवदापयतः । चेतसो [अ]भ्युत्साहः । अविन्यस्तप्रयोगता, एवं यथाश्रुतानां धर्माणामेकाकिनो रहोगतस्यार्थम् । चिन्तयतस्तुलयत उपपरीक्षमाणस्य । एवं प्रतिसंलयनप्रविष्टस्य कालेन कालं शमथविपश्यनां भावयत एवमहोरात्रानुयुक्तस्य चंक्रमनिषद्याभ्या[ं] निवरणेभ्यश्चित्तं विशोधयतः । यश्चेतसोभ्युत्साहः । अविन्यस्तयागता(प्रयोगता) [।] एवं यथाश्रुतानां धर्माणामेकाकिनो रहोगतस्यार्थं चिन्तयत आलयदीर्घता तत्र ।

उपायोपि चतुर्विधस्तद्यथा शीलसम्वरमिन्द्रियसंवरमधिपतिं कृत्वा सूपस्थितस्मृतिता । तथा चोपस्थितस्मृतेरप्रमादश्चेतस आरक्षा । कुशलानां धर्माणां निषेवणा । तथा वाप्रमत्तस्याध्यात्मं चेतःशमथयोगः । अधिप्रज्ञञ्च धर्मविपश्यना [।] स चायं योगश्चतुर्विधः । षोडशाकारो भवति । तत्र श्रद्धया प्राप्तव्यमर्थमधिपतिं संप्राप्नोति । प्राप्तिमभिसंप्रत्ययात्कर्तुकामतामुत्पादयति । कुशलेषु धर्मेषु [।] स एवं कर्तुकामः । अहोरात्रानुयुक्तो विहरति । उत्साही । दृढपराक्रमः । तच्च वीर्यमुपादाय परिगृहीतमप्राप्तस्य प्राप्तये, अनधिगतस्याधिगमाय । असाक्षात्कृतस्य साक्षात्क्रियायै । सम्वर्त्तते । तस्मादिमे चत्वारो धर्मा योग इत्युच्यते ।
(श्भ्_स्ह्२७८)
तत्र मनसिकारः कतमः । चत्वारो मनस्काराः कतमे चत्वारः । (संस्थापयतश्च धर्माः (धर्मान्) प्रविचिन्वतः । यावन्मनस्कारं न प्राप्नोति । तावदस्य बलवाहनो मनस्कारो भवति । बलादवष्टभ्य तच्चित्तमेकाग्रतायामवस्थापयति । तेनोच्यते । बलवाहन इति । सछिद्रवाहनो मनस्कारः कतमः) तद्यथा- बलवाहनः स(च्]छिद्रवाहनः, अनाभोगवाहनश्च ।

तत्र बलवाहनो मनस्कारः कतमः । तद्यथा आदिकर्मिकस्याध्यात्ममेव चित्तं स्थापयतः । संस्थापयतश्च । (श्भ्_स्ह्२७९) धर्मान् प्रविचिन्वतः । यावन्मनस्कारं न प्राप्नोति । तावदस्य बलवाहनो मनस्कारो भवति । बलादवष्टभ्य तच्चित्तमेकाग्रतायामवस्थापयति । तेनोच्यते बलवाहन इति ।

स[च्]छिद्रवाहनो मनस्कारः कतमः । यो लब्धमनस्कारस्य च लौकिकेन मार्गेण गच्छतो लोकोत्तरेण वा (यो) लक्षण प्रतिसंवेदी मनस्कारः । तथा हि समाधिस्तत्र चिन्तया व्यवथी(स्थी)यते । नैकान्तेन भावनाकारेण प्रवर्त्तते ।

तत्र नि[श्]छिद्रवाहनो मनस्कारः । लक्षणप्रतिसंवेदिनो मनस्कारादूर्ध्वं यावत् । प्रयोगनिष्ठान्मनसिकारात्तथानाभोगवाहनो मनस्कारः । यः प्रयोगनिष्ठाफलो मनस्कारः ॥

अपरे चत्वारो मनस्काराः तद्यथा आनुलोमिकः, प्रातिपक्षिकः, प्रसदनीयः, प्रत्यवेक्षणीयश्च [।]

तत्रानुलो[मिको] मनस्कारः । येनालम्बनं विदूषयति । सम्यक्प्रयोगं चारभते । नो तु क्लेशं प्रजहाति ॥

तत्र प्रातिपक्षिको येन क्लेशं प्रजहाति ।

तत्र प्रसदनीय येन लीनं चित्तं प्रग्राहकैर्निमित्तैरभिप्रमोच(द)यति । सं[प्रहर्ष]यति । प्रगृह्णाति । (श्भ्_स्ह्२८०) तत्र प्रत्यवेक्षणीयो मनस्कारः । तद्यथा मिमान्सा(मांसा)मनस्कारः । यमधिपतिं कृत्वा प्रहीणा प्रहीणतां क्लेशानां प्रत्यवेक्षते ।

तत्रालम्बनं मनसि कुर्वता कति निमित्तानि मनसि कर्त्तव्यानि भवन्ति । आह । चत्वारि । तद्यथा । आलम्बननिमित्तम् । परिवर्त्त(र्ज)नीयं निमित्तं [।] निषेवणीयं च निमित्तम् । तत्रालम्बननिमित्तं यत् । ज्ञेयवस्तुसभागं प्रतिबिम्बम् । प्रतिभासं (सः) ॥

तत्र निदाननिमित्तं तद्यथा समाधिसंभारोपचयः । अनुलोमिक उपदेशः । भावनासहगतः । तीव्र[च्]छन्दः, संवेजनीयेषु धर्मेषु संवेगः । विक्षेपाविक्षेपपरिज्ञा । अवधानं परतश्च । संघहा मनुस्य(ष्य) कृतो वा, को (अ)मनुष्य कृतो वा, शब्द कृतो वा, व्यापादकृतो वा । तथा विपश्यनापूर्वंगमः । अध्यात्मं चित्ताभिसंक्षेपः । उत्तप्ततराया विपश्यनायाः उत्तरत्र निदाननिमित्तं, तथा शमथपूर्वंगमा विपश्यना, उत्तप्ततरस्य शमथस्योत्तरत्र निदाननिमित्तम् ।

तत्र परिवर्जनीयनिमित्तं चतुर्विधम् । तद्यथा । लयनिमित्तं, औद्धत्यनिमित्तं, संगनिमित्तं, विक्षेपनिमित्तं च । तत्र लयनिमित्तं येनालम्बननिमित्तेन निदाननिमित्तेन चित्तं लीनत्वाय परैति । (श्भ्_स्ह्२८१) तत्रौद्धत्यं येनालम्बननिमित्तेन निदाननिमित्तेन चित्तमुत्पद्यते । तत्र संगनिमित्तं येनालम्बननिमित्तेन । निदाननिमित्तेन चित्तमालम्बने रज्यते ॥ संरज्यते । संक्लिश्यते । तत्र विक्षेपनिमित्तम् । येनालम्बननिमित्तेन निदाननिमित्तेन चित्तम्बहिर्धा विक्षिप्यते । तानि पुनर्निमित्तानि यथा समाहितायां भूमौ एभिर्मनस्कारैरालम्बनमधिमुच्यते ।

कत्यधिमोक्षा भवन्ति । आह [।] नवाधिमोक्षा स्तद्यथा । प्रभास्वरश्चाप्रभास्वरश्च । जड्ः, पटुः, परीत्तो, महद्गतः । अप्रमाणः । परिशुद्धः । अपरिशुद्धश्चेति ॥

(श्भ्_स्ह्२८२)
तत्र प्रभास्वरोधिमोक्षो य आलोकनिमित्ते सूद्गृहीते आलोकसहगतः ।]

तत्राप्रभास्वरोधिमोक्षः । तद्यथा आलोकनिमित्ते सूद्गृहीते अन्धकारसहगतः ।

तत्र जडोऽधिमोक्षः । यो मृद्विन्द्रियसन्तानपतितः ।

तत्र पटुरधिमोक्षो यस्तीक्ष्णेन्द्रियसन्तानपतितः ।

तत्र परीत्तोधिमोक्षः । यः परीत्तश्रद्धाछ(च्छ)न्दसमाधिः परीत्तालम्बनश्च । इति मनस्कारपरीत्ततया चालम्बनपरीत्ततया च परीत्तोधिमोक्षः ॥

तत्र महद्गतोधिमोक्षः । तत्र यो महद्गतः श्रद्धाच्छन्दसहगतो महद्गतम्वा आलम्बनमधिमुच्यते । योधिमोक्ष इति । मनस्कारमहद्गत[त]या चालम्बनमहद्गततया महद्गतोधिमोक्षः ।

तत्राप्रमाणोधिमोक्षः । अप्रमाण[ः] श्रद्धाछ(च्छ)न्दसहगतः । अनन्तम्वा अपर्यन्त[मालम्ब]नमधिमुच्यते । योऽधिमोक्ष इति । मनस्काराप्रमाणतया चालम्बनप्रमाणतया चाप्रमाणाधिमोक्षः ।

तत्र परिशुद्धोऽधिमोक्षः यः प्रभावितः, परिनिष्पन्नः पर्यवसानगतः ।

अपरिशुद्धो वा पुनर्यो न सुभावितो, न (श्भ्_स्ह्२८३) परिनिष्पन्नो न पर्यवसानगतः ।

तत्र कति योगस्य योगकरणीयानि । आह । चत्वारि । कतमानि चत्वारि । तद्यथा । आश्रयनिरोधः । आश्रयपरिवर्त्तः । आलम्बनपरिज्ञानम् । आलम्बनाभिरतिश्च ।

तत्रत्राश्रयनिरोधः प्रयोगमनसिकारभावनानुयुक्तस्य यो दौष्ठुल्यसहगत आश्रयः । सोऽनुपूर्वेण निरुध्यते । प्रस्रब्धिसहगतश्चाश्रयः परिवर्त्तते । अयमाश्रयनिरोधोयमाश्रय परिवर्तः । योगकरणीयम् ।

तत्रालम्बनपरिज्ञानमालम्बनाभिरतिश्च । अस्त्यालम्बनपरिज्ञानमालम्बनाभिरतिः । आश्रयनिरोधपरिवर्त्तपूर्वंगमम् । यदा चालम्बनपरिज्ञानमालम्बनाभिरतिमधिपतिं कृत्वा आश्रयो निरुध्यते । परिवर्त्तते च । अस्त्यालम्बनपरिज्ञानमालम्बनाभिरतिः । आश्रयविशुद्धिपूर्वंगमः । आश्रयविशुद्धिमधिपतिं (श्भ्_स्ह्२८४) कृत्वा सुविशुद्धमालम्बनज्ञानम् । कार्यपरिनिष्पत्तिकाले प्रवर्तते । अभिरतिश्च [।] तेनोच्यते चत्वारि योगस्य करणीयानीति ॥

तत्र कति योगाचाराः । आह त्रयस्तद्यथा । आदिकर्मिकः, कृतपरिचयः । अतिक्रान्तमनस्कारश्च ॥

तत्रादिकर्मिको योगाचारः । मनस्कारादिकर्मिकः । क्लेशविशुद्ध्यादिकर्मिकश्च ॥

तत्र मनस्कारादिकर्मिकः । तत्र प्रथमकर्मिक एकाग्रतायां यावन्मनस्कारं न प्राप्नोति । चित्तैकाग्रतां न स्पृशति ।

तत्र क्लेशविशुद्ध्यादिकर्मिकः । अधिगतेपि मनस्कारे क्लेशस्य चित्तं विमोचयितुकामस्य यल्लक्षणप्रतिसंवेदिनो मनस्कारस्यारम्भः प्रतिग्रहश्चाभ्यासः । अयं क्लेशविशुद्ध्यादिकर्मिकः ।

तत्र कृतपरिचयः कतमः । लक्षणप्रतिसंवेदिनं मनस्कारं स्थापयित्वा तदन्येषु षट्सु मनस्कारेषु प्रयोगनिष्ठापन्नेषु कृतपरिचयो भवति ।

तत्रातिक्रान्तमनस्काराः (रः) प्रयोगनिष्ठाफलमनस्कारे वेदितव्यः । अतिक्रान्तोऽसौ भवति । प्रमो(यो)गभावनामनस्कारम् । स्थितो भवति । भावनाफले [।] तस्मादतिक्रान्तमनस्कार इत्युच्यते ।

अपि च कुशलं धर्म[च्]छन्दमुपादाय । प्रयुज्यमानो (श्भ्_स्ह्२८५) यावन्निर्वेधभागीयानि कुशलमूलानि नोत्पादयति । तावदादिकर्मिको भवति । यदा पुनर्निर्वेधभागीयान्युत्पादयति । तद्यथा ऊष्मगतानि । मूर्धानः (मूर्ध्नः), सत्यानुलोमाः । क्षान्तयो(न्तीः) लौकिकानग्रधर्मान् । तदा कृतपरिचयो भवति । यदा पुनः सम्यक्त्वं न्याममवतरति । सत्यान्यभिसमागच्छति । अपरप्रत्ययो भवत्यनन्यनेयः । शास्तुः शासने तदातिक्रान्तमनस्कारो भवति । परप्रत्ययं मनस्कारमतिक्रम्यापरप्रत्यये स्थितः । तस्मादतिक्रान्तमनस्कार इत्युच्यते ।

तत्र योगभावना कतमा । आह । द्विविधा । संज्ञाभावना बोधिपक्ष्या भावना च ।

तत्र संज्ञाभावना कतमा । तद्यथा लौकिकमार्गप्रयुक्तः । (श्भ्_स्ह्२८६) सर्वास्वधरिमासु भूमिष्वादीनवसंज्ञा[ं] भावयति । [प्रहा]णाय वा पुनः प्रयुक्तः । प्रहाणधातौ, विरागधातौ निरोधधातौ, शान्तदर्शी प्रहाणसंज्ञां, विरागसंज्ञां, निरोधसंज्ञाञ्च भावयति । शमथाय वा पुनः प्रयुक्तः । ऊर्ध्वमधः संज्ञां शमथपक्ष्यां (श्भ्_स्ह्२८७) भावयति । विपश्यनायां प्रयुक्तः । पश्चात्पुनः संज्ञां विपश्यनापक्ष्यां भावयति । विपश्यनायां प्रयुक्तः । पश्चात्पुर इममेव कायं यथास्थितं यथाप्रणिहितमूर्ध्वं पादतलादधः केशमस्तकात्पूर्णं नानाविधस्याशुचेः प्रत्यवेक्षते । सन्त्यस्मिन्काये केशा रोमाणीति पूर्ववत् । तत्र पश्चात्पुनः । संज्ञी तथा तदेकत्येन प्रत्यवेक्षणानिमित्तमेव । साधु च, सुष्ठु च, सूद्गृहीतं भवति । सुमनसीकृतं, सूत्कृष्टम् । सुप्रतिविद्धम् । तद्यथा स्थितो निषण्णं प्रत्यवेक्षते । निषण्णो वा निपन्नम् । पुरतो वा गच्छन्तं, पृष्ठतो गच्छन्प्रत्यवेक्षते । सा खल्वेषा त्रैयध्विकानां संस्काराणां प्रतीत्यसमुत्पन्नानां विपश्यनाकारा प्रत्यवेक्षापरिदीपिता । तत्र यत्तावदाह- स्थितो निषण्णं (श्भ्_स्ह्२८८) प्रत्यवेक्षते । अनेन वर्तमानेन मनस्कारेण अनागतज्ञेयं प्रत्यवेक्षते । वर्तमानापि मनस्कारावस्था उत्पन्ना स्थितेत्युच्यते । अनागता पुनः ज्ञेयावस्था । अनुत्पन्नत्वादुत्पादाभिमुखत्वाच्च निषण्णेत्युच्यते । यत्पुनराह । निषण्णो वा निपन्नं प्रत्यवेक्षत इत्यनेन प्रत्युत्पन्नेन मनस्कारेणातीतस्य ज्ञेयस्य प्रत्यवेक्षणा परिदीपिता । प्रत्युत्पन्ना हि मनस्कारावस्था । निरोधाभिमुखा निषण्णेत्युच्यते । अतीता पुनः निरुद्धत्वाज्ज्ञेयावस्था निपन्नेत्युच्यते । यत्पुनराह । पुरतो वा गच्छन्तं प्रत्यवेक्षत इत्यनेन प्रत्युत्पन्नेन मनस्कारेण । अनन्तरनिरुद्धस्य मनस्कारस्य प्रत्यवेक्षा परिदीपिता । तत्र य उत्पन्नोत्पन्नो मनसिकारो [अ]नन्तरनिरुद्धः स पुरतो यायी [।] तत्र अनन्तरोत्पन्नः । अनन्तरोत्पन्नो मनस्कारः । नवनवोऽनन्तरनिरुद्धस्यानन्तरनिरुद्धस्य ग्राहकः । स पृष्ठतो यायी । तत्र शमथं च विपश्यनां च भावयन्स्तदुभयपक्ष्यामालोकसंज्ञां भावयति । इयं संज्ञाभावना ।

तत्र बोधिपक्ष्यभावना कतमा । यः षट्(सप्त)त्रिंशतां (श्भ्_स्ह्२८९) बोधिपक्ष्याणां धर्माणामभ्यासः । परिचयः । आसेवना बहुलीकार इयमुच्यते बोधिपक्ष्यभावना । तद्यथा चतुर्णां स्मृत्युपस्थानानां, चतुर्णां (श्भ्_स्ह्२९०) सम्यक्प्रहाणानां, चतुर्णा ऋद्धिपादानाम् । पञ्चानामिन्द्रियाणां, पंचानां बलानां, सप्तानां बोध्यंगानामामार्याष्टाङ्गस्य मार्गस्य [।]

कायस्मृत्युपस्थानस्य वेदनाचित्तधर्मस्मृत्युपस्थानस्य । अनुत्पन्नानां धर्माणां पापकानामकुशलानां धर्माणामनुत्पादाय [च्]छन्दं जनयति । व्यायच्छते, वीर्यमारभते । चित्तं प्रगृह्णाति । प्रदधाति । सम्यक्प्रहाणस्य(ण्णाय) । उत्पन्नानां पापकानामकुशलानां धर्माणां प्रहाणाय । अनुत्पन्नानां कुशलानां धर्माणामुत्पादाय । उत्पन्नानां कुशलानां धर्माणां स्थितये । असंमोषाय भावनापरिपूरये (य यो) भाववृद्धिविपुलतायै छन्दं व्यायच्छते । वीर्यमारभते । चित्तं प्रगृह्णाति, प्रदधातीति सम्यक्प्रहाणस्य छन्दसमाधिप्रहाणसंस्कारसमन्वागतस्य (।) ऋद्धिपादस्य, (श्भ्_स्ह्२९१) श्रद्धावीर्यचित्तमीमान्सा(मांसा) समाधिप्रहाणसंस्कारसमन्वागतस्य ऋद्धिपादस्य, वीर्यचित्तमीमान्सा(मांसा)समाधिप्रहाणसंस्कारसमन्वागतस्य ऋद्धिपादस्य, श्रद्धावीर्यस्मृतिसमाधिप्रज्ञेन्द्रियश्च श्रद्धास्मृतिसमाधिप्रज्ञाबलानां स्मृतिसंबोध्यंगस्य [।] सम्यग्दृष्टेः । सम्यक्संकल्पस्य, सम्यग्वाक्कर्मान्ताजीवानां, सम्यग्व्यायामस्य, सम्यक्स्मृतेः सम्यक्समाधेश्च ॥

तत्र कतमः कायः । कतमा काये कायानुपश्यना [।] कतमा (।) स्मृतिः [।] कतमा[नि] (।) स्मृतेरुपस्थानानि [।] आह । कायः पञ्चत्रिंशद्विधः । तद्यथा आध्यात्मिको, बाह्यश्च । इन्द्रियसंगृहीतः । (श्भ्_स्ह्२९२) अनिन्द्रियसंगृहीतश्च । सत्त्वसंख्याता (तो)ऽसत्त्वसंख्याता (त)श्च । दौष्ठुल्यसहगतः, प्रश्रब्धिसहगतश्च । भूतकायः, भौतिककायश्च । नामकायो, रूपकायश्च । नारकस्तैर्यग्योनिकः । पैतृविषयिकः । मानुष्यो, दिव्यश्च । सविज्ञानकः । अविज्ञानकं (को)वा । अन्तःकायो, बहिःकायश्च [।] विपरिणतो [अ]विपरिणतश्च ॥ स्त्रीकायः, पुरुषकायः, षण्ड(ढ)ककायश्च । मित्रकायः, अमित्रकायः । उदासीनकायश्च । हीनकायो, मध्यकायः, प्रणीतकायश्च, दह्नकायः, यून(युव)कायो, वृद्धकायश्च । अयं तावत्कायश्च प्रभेदः ।

तत्रानुपश्यना त्रिविधा । या कायमधिपतिं कृत्वा- श्रुतमयी वा प्रज्ञाभावनामयी वा [।] यया प्रज्ञया सर्वंकायं सर्वाकारं सम्यगेवोपपरीक्षते । संतीरयत्यनुप्रविशति । अनुवुप्यते ।

तत्र स्मृतिपदस्य कायमधिपतिं कृत्वा (॥) ये धर्मा उद्गृहीतास्तेषामेव च धर्माणां योर्थः (।) चिन्तितो, ये (श्भ्_स्ह्२९३) च भावनया साक्षात्कृता[ः] । तत्र व्यंजने, चार्थे च, साक्षाक्रियायां च यश्चेतसः असंमोषः सूद्गृहीता वा मे ते एते धर्मा न वेति ॥ सूपलक्षिता वा तत्र तत्र प्रज्ञया न वेति । सुसंस्पर्शिता[ः] (सुसंस्पृष्टाः) तत्र तत्र विमुक्त्या न वेति रुपस्थिता भवतीदं स्मृतेरुपस्थानम् । अपि च स्मृत्या रक्षायै स्मृतेरुपस्थानं विषयासंक्लेशायालम्बनोपनिबद्धाय (निबन्धनाय) च । तत्र स्मृत्या रक्षा यथोक्तं पूर्वमेवारक्षितस्मृतिर्भवति । निपकस्मृतिरिति । तत्र विषयासंक्लेशाय । यथोक्तं स्मृत्या रक्षितमानसः । समावस्थाचारको, न निमित्तग्राही । नानुव्यंजनग्राही । यावद्विस्तरेण रक्षति । मन इन्द्रियं मन इन्द्रियेण सम्वरमापद्यते । तत्रालम्बनोपनिबन्धाय । यथोक्तं चतुर्विधे आलम्बने स्मृतिमुपनिबध्नतः । तद्यथा व्याप्यालम्बने, चरितविशोधने, कौशल्यालम्बने, क्लेशविशोधने वा एभिस्त्रिभिराकारैर्या सूपस्थितस्मृतिता इदमुच्यते स्मृतेरुपस्थानम् ॥

तत्र वेदना कतमा [।] तद्यथा सुखा, दुःखा, (श्भ्_स्ह्२९४) अदुःखासुखा च वेदना । तत्र सुखापि कायिकी । दुःखाप्यदुःखासुखापि [।] यथा कायिकी । एवं चैतसिकी । सुखापि सामिषा, दुःखाप्यदुःखासुखापि । एवं निरामिषापि, एवं गर्ध(वा) श्रिते (ता), नैष्क्रम्याश्रिता वेदना, सुखापि दुःखाप्यदुःखाप्यदुःखासुखापि । सैषा एकविंशतिविधा वेदना भवति । नवविधा वा ॥

तत्र चित्तं कतमत् । तद्यथा- सरागं चित्तं, सद्वेषं, विगतद्वेषं, समोहं, विगतमोहं, संक्षिप्तं, विक्षिप्तं, लीनं, प्रगृहीतम् । उद्धतमनुद्धतं, व्युपशान्तमव्युपशान्तम् । समाहितमसमाहितं, सुभावितमसुभावितम् । सुविमुक्तं चित्तमसुविमुक्तं चित्तम् । तदेतदभिसमस्य विंशतिविधं चित्तं भवति ।

तत्र धर्माः कतमे [।] रागो, रागविनयश्च । (श्भ्_स्ह्२९५) द्वेषो, द्वेषविनयश्च । मोहो मोहविनयश्च । संक्षेपो, विक्षेपः । लयः, प्रग्रह, औद्धत्यमनौद्धत्यम् । व्युपशमः । अव्युपशमस्सुसमाहि[त]ता, न सुसमाहितता । सुभावितमार्गता, न सुभावितमार्गता । सुभावितमुक्तता, न सुभावितमुक्तता च । इतीमे कृष्णशुक्ल[पक्ष]व्यवस्थिता विंशतिधर्मा वेदितव्याः । संक्लेशव्यवदानपक्ष्ये (क्ष्याः) ।

तत्र सुखावेदना यत्सुखवेदनीयं स्पर्शं प्रतीत्योत्पद्यते [।] सातं, वेदितं, वेदनागतम् । सा पुनर्या पञ्चविज्ञानसंप्रयुक्ता । सा कायिकी । या मनोविज्ञानसंप्रयुक्ता सा चैतसिकी । यथा सुखवेदनीयमेवं (श्भ्_स्ह्२९६) दुःखवेदनीयमदुःखासुखवेदनीयं स्पर्शं प्रतीत्योत्पद्यते असातं, नैवसातं नासातं वेदितं [विगतरागं] । वेदनागतमिदमुच्यते दुःखा अदुःखासुखा वेदना । सा पुनर्या पञ्चविज्ञानकायसंप्रयुक्ता । सा कायिकी । या मनोविज्ञानसंप्रयुक्ता । सा चैतसिकी । या निर्वाणानुकूला[सा]नैर्वेधिकी । अत्यन्तनिष्ठतायै अत्यन्तविमलतायै । अत्यन्तब्रह्मचर्यपर्यवसानायै (य?) । सम्वर्त्तते । सा निरामिषा ॥ या पुनर्धातुपतिता, भवपतिता सा सामिषा [।] या पुन(ना) रूपारूप्य प्रतिसंयुक्ता, वैराग्यानुकूला वा, सा नैष्क्रम्याश्रिता । या पुनः कायप्रतिसंयुक्ता, न च वैराग्यानुकूला, सा गर्धाश्रिता ॥

तत्र सरागं चित्तम् । यद्रंजनीये वस्तुनि रागपर्यवस्थितं [।]

(श्भ्_स्ह्२९७)
विगतरांगं यद्रागपर्यवस्थानापगतं [।]
सद्वेषे(षं) य[द्]द्वेषणीये वस्तुनि द्वेषपर्यवस्थितम् ।
विगतद्वेषं यद्द्वेषपर्यवस्थानापगतम् ।
तत्र सम्मो(मो)हम् । यन्मोहनीये वस्तुनि [....]
तान्येतानि षट्चित्तानि चारसहगतानि वेदितव्यानि । तत्र त्रीणि संक्लेशपक्ष्याणि । त्रीणि संक्लेशप्रातिपक्षिकाणि ।

तत्र संक्षिप्तचित्तं यच्छमथाकारेणाध्यात्ममात्मनोपनिबद्धम् ।

विक्षिप्तम् । यद्बहिर्धा पञ्चसु कामगुणेष्वनुविसृतम् ।

तत्र लीनं चित्तम् । यत्स्त्यानमिद्धसहगतं, प्रग्रहीतं यत्प्रसदनीयेनालम्बनेन संप्रतिष्ठितं [।]

उद्धतं चित्तं यदति संप्रग्रहादौद्धत्यपर्यवस्थितमनुबद्धचित्तं यत्प्रग्रहकाले चाभिसंक्षेपकाले चोपेक्षा प्राप्तं [।]
तत्र प्रशान्तंचित्तं यन्निवरणेभ्यो विमुक्तमव्युपशान्तं पुनर्यदविमुक्तम् ।

तत्र समाहितं चित्तं यन्निवरणविमोक्षान्मौलध्यानप्रविष्टं, न सुसमाहितं यदप्रविष्टं [।]

तत्र सुभावितं चित्तं यदस्यैव समाधेर्दीर्घकालपरिचयान्निकामलाभी भवत्यकृच्छ्रलाभी । आशुसमापत्ता ।

(श्भ्_स्ह्२९८)
तत्र न सुभावितं चित्तमेतद्पिर्ययेण वेदितव्यम् ।

तत्र सुविमुक्तं चित्तं यत्सर्वतश्चात्यन्ततश्च विमुक्तं [।]

न सुविमुक्तम् । चित्तं यन्न सर्वतो ना(ना)प्यत्यन्ततो विमुक्तमितीमानि चतुर्दश चित्तानि (।) विहारगतानि वेदितव्यानि ।

तत्र निवरणभूविशुद्धा (द्धि)भूमिमारभ्य विहारगतान्यष्टौ चित्तानि वेदितव्यानि । विक्षिप्तं संक्षिप्तं यावद्व्युपशान्तमव्युपशान्तमिति । क्लेशविशुद्धिं पुनरारभ्य विहारगतानि षट्चित्तानि यावत्सुविमुक्तं चित्तं न सुविमुक्तमिति [।]

यत्पुनः सत्यध्यात्मं निवरणे अस्ति मे निवरणमिति जानाति । असति निवरणे नास्ति मे निवरणमिति जानाति । यथा चानुत्पन्नस्य विवरणस्योत्पादो भवति । तदपि यथा योत्पन्नस्य विगमो भवति । तदपि प्रजानाति । यत्र सति चक्षुःसंयोजने यावत्पुनः (न्मन) (श्भ्_स्ह्२९९) संयोजने अस्ति मे यावत्पुनः (मनः) संयोजनमिति । असति यावत्पुनः (न्मनः) संयोजने नास्ति मे मनः संयोजनमिति प्रजानाति । यथा चानुत्पन्नस्य यावन्मनः संयोजनस्योत्पादो भवति । तदपि प्रजानाति । यथा चोत्पन्नस्य निरोधो भवति । तदपि प्रजानाति । सत्यध्यात्मं स्मृतिसंबोध्यंगे अस्ति मे [स्मृति] संबोध्यंगमिति प्रजानाति । असति नास्ति मे प्रजानाति । यथा चानुत्पन्नस्य स्मृतिसंबोध्यंगस्योत्पादो भवति । तदपि प्रजानाति । यथा चोत्पन्नस्य स्थितिर्भवति । असंमोषो भावना (।) परिपूरिर्भूयो भाववृद्धिर्विपुलता तदपि प्रजानाति । सत्यध्यात्मं स्मृतिसंबोध्यंगमेवं धर्मविनयवीर्यप्रश्रब्धिसमाध्युपेक्षासंबोध्यंगं वेदितव्यमिति यदेवं स्वभावादीनवप्रतिपक्षाकारैः संक्लिष्टधर्मपरिज्ञानमिदं शरीरं धर्मस्मृत्युपस्थानस्य, यथा काये कायानुपश्यना स्मृत्युपस्थानपक्षमे (क्षए) वं वेदना[यां] यच्चित्ते (यावच्चिते) धर्मेषु यथायोगं वेदितव्यम् ।

तत्र कथमध्यात्मं काये कायानुदर्शी विहरति । कथं बहिर्धा कथमध्यात्मबहिर्धा [।] यदा अध्यात्मं प्रत्यात्मं सत्व(त्त्व)संख्याते काये कायानुपश्यी (दर्शी) विहरति । एवमध्यात्मं काये कायानुदर्शी विहरति । (श्भ्_स्ह्३००) कथं बहिर्धा कथमध्यात्मबहिर्धा [।] यदा अध्यात्मं प्रत्यात्मं, यदा बहिर्धा असत्त्वसंख्यातं रूपमालम्बनीकरोत्येवं बहिर्धाकाये कायानुदर्शी विहरति । यदा बहिर्धा (र्धो)परक्तं सत्त्वसंख्यातं रूपमालम्बनीकरोत्येवमध्यात्मबहिर्धा काये कायानुदर्शी विहरति ।

तत्राध्यात्मं रूपमुपादाय । सूक्ष्मं सत्त्वसंख्यातम् । या उत्पन्ना वेदना, चित्तं, धर्मास्तानालम्बनीकुर्वन् [।] अध्यात्मं वेदना[यां], चित्ते, धर्मेषु धर्मानुदर्शी विहरति । बाह्यमसत्त्वसंख्यातं रूपमुपादाय । या उत्पन्ना वेदना, चित्तं, धर्मास्तानालम्बनीकुर्वन् । बहिर्धा वेदनायां, चित्ते, धर्मेषु धर्मानुदर्शी विहरति । बहिर्धा बाह्यं रूपसत्त्वमुपादाय । या उत्पन्ना वेदना, चित्तं, धर्मास्तानालम्बनीकुर्वन्नध्यात्मबहिर्धा वेदनायां, चित्ते धर्मेषु धर्मानुदर्शी विहरति ॥

अपरः पर्यायः । इन्द्रियसंगृहीतं रूपमालम्बनीकुर्वन्, अध्यात्मं काये कायानुपश्यी (दर्शी) विहरति । अनिन्द्रियसंगृहीतम् । रूपगतमनुपादत्तमालम्बनीकुर्वन् बहिर्धा काये कायानुदर्शी विहरति । अनिन्द्रियसंगृहीतमेव । रूपमध्यात्ममुपगतमुपादत्तं रूपमालम्बनीकुर्वन्नध्यात्मबहिर्धा काये कायानुपश्यी (दर्शी) विहरति । [अनिन्द्रियसंगृहीतं रूपगतमनुपादत्तमालम्बनीकुर्वन् बहिर्धा काये कायानुदर्शी (श्भ्_स्ह्३०१) विहरति । अनिन्द्रियसंगृहीतमेव रूपमध्यात्ममुपगतमुपादत्तं रूपमालम्बनीकुर्वन्नध्यात्मबहिर्धा काये कायानुदर्शी विहरति] [।] एवं पूर्वं [ं] त्रिविधं रूपमुपादाय । यदु (यो)त्पन्ना वेदना, चित्तं, धर्मास्तान्यथायोगमालम्बनीकुर्वन् तथादर्शी विहरतीति वेदितव्यम् ।

अपरः पर्यायः । यत्समाहितभूमिकं प्रश्रब्धिसहगतं रूपमालम्बनीकरोत्येवमध्यात्मं काये कायानुदर्शी विहरति । यत्सूक्ष्ममेवाध्यात्मं समाहितभूमिकं दौष्ठुल्यसहगतं रूपमालम्बनीकरोति । एवं बहिर्धा काये कायानुपश्यी (दर्शी) विहरति । परदौष्ठुल्यसहगतं प्रश्रब्धिसहगतं च रूपमालम्बनीकुर्वनध्यात्मबहिर्धा काये । कायानुदर्शी विहरति । एवं तदुपादायोत्पन्ना वेदना, चित्तं, धर्मा यथायोगं वेदितव्याः ।

अपरः पर्यायः । अध्यात्मं भूतरूपमालम्बनीकुर्वन्नध्यात्मं काये कायानुदर्शी विहरति । बाह्यं भूतरूपमालम्बनी कुर्वन् बहिर्धा काये कायानुदर्शी विहरति । तच्च भूतरूपमुपादाय । यदुत्पन्नमिन्द्रियविषयसंगृहीतमुपादाय । रूपं चालम्बनीकुर्वन्नध्यात्मबहिर्धा काये कायानुदर्शी विहरति । एवं तदुपादाय या उत्पन्ना वेदना चित्तं धर्मास्तेपि यथायोगं वेदितव्याः । अपरः पर्यायः । यदा सविज्ञानकं कायमध्यात्ममालम्बननीकरोति । एवमध्यात्मं (श्भ्_स्ह्३०२) काये कायानुदर्शी विहरति । अविज्ञानकं रूपं सत्त्वसंख्यातम् । विनीलकादिष्ववस्थास्वालम्बनी कुर्वन्बहिर्धा काये कायानुदर्शी विहरति । अ(स)विज्ञानकस्य च रूपस्यातीते काले सविज्ञानतां [।] अविज्ञान[क]स्य च रूपस्यानागते काले अविज्ञानतां, तुल्यधर्मतां, समधर्मतामालम्बनीकुर्वन्नध्यात्मबहिर्धा काये कायानुदर्शी विहरत्येवं तदुपादाय, या उत्पन्ना वेदना, चित्तं, धर्मास्तेपि यथायोगं वेदितव्याः । अपरः पर्यायः [।] आत्मनः अन्त[ः] कायं केशरोमनखादिभिः आकारैरालम्बनीकुर्वन्नध्यात्मबहिर्धा काये कायानुदर्शी विहरति ॥ परेषामन्तः कायं केशरोमनखादिभिराकारैरालम्बनीकुर्वन्बहिर्धा काये कायानुदर्शी विहरत्यध्यात्मं चित्तं च बहिःकायविपरिणतं विनीलकादिभिराकारैः । बहिर्धा च बहिःकायं विपरिणतमविपरिणतं च । विनीलकादिभिराकारैस्तुल्यधर्मतया आलम्बनीकुर्वन् बहिर्धा काये कायानुदर्शी विहरति । तदुपादाय या उत्पन्ना वेदना, चित्तं, (श्भ्_स्ह्३०३) धर्मास्तेपि यथायोगं वेदितव्याः । इत्येवंभागीया काये वेदनाचित्तधर्मप्रभेदेनबहवः पर्याया वेदितव्याः । इमे तु कतिपयाः (ये)पर्यायाः । संप्रकाशिताः [।]

तत्र चतुर्णाम्विपर्यासानां प्रतिपक्षेण भगवता चत्वारि स्मृत्युपस्थानानि व्यवस्थापितानि । तत्राशुचौ शुचीति विपर्यासे प्रतिपक्षेण कायस्मृत्युपस्थानं व्यवस्थापितम् । तथा हि भगवता कायस्मृत्युपस्थानभावनायाम् । अशुभाप्रतिसंयुक्ताश्चतस्रः शिवपथिका देशिताः । या अस्य बहुलं कुर्वन्मनसिकुर्वतः । अशुचौ शुचीति विपर्यासः प्रहीयते । तत्र सुखे सुखमिति । विपर्यासप्रतिपक्षेण वेदनास्मृत्युपस्थानं व्यवस्थापितम् । वेदनानुदर्शी विहरन् । यत्किंचिद्वेदितमिदमत्र दुःखस्येति यथाभूतं प्रजानात्येवमस्य यो दुःखसुखे सुखमिति । विपर्यासः । स प्रहायते (श्भ्_स्ह्३०४) (प्रहीयते) । अनित्ये नित्यमिति विपर्यासः । प्रतिपक्षेण स्मृत्युपस्थानं व्यवस्थापितम् । तस्य सरागादिचित्तप्रभेदेन तेषां तेषां रात्रिंदिवसानामत्ययात्क्षणलवमुहूर्त्ताना (णा)मनेकविधानां बहुनानाप्रकारतां चित्तस्योपलभ्य यः अनित्ये नित्यमिति विपर्यासः [स] प्रहीयते । यत्रा[ना]त्मन्यात्मेति विपर्यासप्रतिपक्षेण धर्मस्मृत्युपस्थानं व्यवस्थापितम् । तस्य येषामात्मदृष्ट्यादिका[नां] संक्लेशानां सद्भावाद्येषां नानात्मदृष्ट्यादिकानां कुशलानां धर्माणामसद्भावात्स्कन्धेष्वात्म दर्शनं भवति । नान्यस्य, स्वलक्षणतः । सामान्यलक्षणतश्च धर्माधर्मानुदर्शिनो यथाभूतं पश्यतः । योनात्मन्यात्मेति विपर्यासः । स प्रहीयते ।

(श्भ्_स्ह्३०५)
अपरः पर्यायः । प्रायेण हि लोक एवं प्रवृत्तः । स्कन्धेषु स्कन्धमात्रं, धर्ममात्रं, यथाभूतमप्रजानन् यथा काये आश्रितः । यदाश्रितश्च सुखदुःख ज धर्माधर्माभ्यां संक्लिश्यते व्यवदा(दी)यते च । तत्रात्मन आश्रयवस्तुसंमोहापनयनार्थम् । कायस्मृत्युपस्थानं व्यवस्थापितम् । तस्यैवात्मनः अनुभवनवस्तुसंमोहापनयनार्थं वेदनास्मृत्युपस्थानं व्यवस्थापितम् । यत्रैव च ते चित्ते, मनसि, विज्ञाने, आत्मग्राहेण संमूढा, आत्मवस्तुसम्मोहापनयनार्थं धर्मस्मृत्युपस्थानं व्यवस्थापितम् ।

अपरः पर्यायः । यत्र च कर्म करोति । यदर्थं च करोति । यश्च कर्म करोति । (यदर्थं च करोति । यश्च [कर्म] करोति ।) (..) येन च (श्भ्_स्ह्३०६) करोति । तत्सर्वमेकत्यमभिसंक्षिप्य चत्वारि स्मृत्युपस्थानानि व्यवस्थापितानि । तत्र काये करोति । वेदनार्थम् । चित्तेन कुशलाकुशलैर्धर्मैः ।

अपरः पर्यायः । यत्र च संक्लिश्यते । विशुध्यते । यतश्च यश्च येन क्लिश्यते । विशुध्यते यतश्च यश्च येन संक्लिश्यते विशुध्यते च । तदेकत्यमभिसंक्षिप्य चत्वारि स्मृत्युपस्थानानि व्यवस्थापितानि । तत्र काये संक्लिश्यते, विशुध्यते च । वेदनाभ्यश्चित्तं धर्मैः संक्लिश्यते । विशुध्यते च ।

तत्र स्मृत्युपस्थानमिति [को]ऽर्थ आह । यत्र च स्मृतिमुपस्थापयति । येन च स्मृतिमुपस्थापयति । तदुच्यते स्मृत्युपस्थानम् । यत्र स्मृतिमुपस्थापयति । तदालम्बनस्मृत्युपस्थानं येन स्मृतिमुपस्थापयति । तत्र या प्रज्ञा स्मृतिश्च समाधिसंग्राहिका तत्स्वभावस्मृत्युपस्थानम् । तदन्ये तत्संप्रयुक्ताश्चित्तचैतसिका धर्माः । संसर्गस्मृत्युपस्थानम् । अपि [च] कायवेदनाधिपतेयो (श्भ्_स्ह्३०७) मार्गः समुत्पन्नः कुशलः सास्रवः । अनास्रवश्च [।] तत्स्मृत्युपस्थानम् । स पुनः श्रुतमयश्चिन्तामयो भावनामयश्च । तत्र श्रुतचिन्तामयः । सास्रव एव [।] भावनामयः स्यात्सास्रवः स्यादनास्रवः ॥

स एवं चतुर्षु स्मृत्युपस्थानेषु कृतपरिचय औदारिको(कौ)दारिकं विपर्यासमपीनय कुशलाकुशलधर्माभिज्ञः । तदनन्तरमनुत्पन्नानां पापकानामकुशलानां धर्माणामनुत्पादाय । उत्पन्नानां प्रहाणाय । अनुत्पन्नानां कुशलानां धर्माणामुत्पादाय । उत्पन्नानां स्थितय इति विस्तरेण पूर्ववद्यावच्चित्तं प्रगृह्णाति । प्रदधाति ॥

तत्र कतमे पापका अकुशला धर्मा[ः] [।] यत्कामावचरं क्लिष्टं कायकर्म, वाक्कर्म, मनस्कर्म, कायवाङ्मनोदुश्चरितसंगृहीतम् । येन तत्समुत्थापकाः क्लेशास्ते पुनर्ये असमवहिता, असंमुखीभूतास्ते उत्पन्ना, (श्भ्_स्ह्३०८) ये समवहिताः संमुखीभूतास्ते उत्पन्नाः [।] तत्र कुशला धर्मा ये तत्प्रातिपक्षिका धर्मादुश्चरितप्रातिपक्षिका, निवरणप्रातिपक्षिकाः, संयोजनप्रातिपक्षिका वा तेप्यनुत्पन्नास्तथैव वेदितव्याः । उत्पन्नाश्च पापका अकुशला धर्मास्तत्र यदा अनुत्पन्नानां पापकानामकुशलानां धर्माणामनुत्पादाय स्पृहामुत्पादयति । प्रणिधत्ते, सर्वेण सर्वं सर्वथा नोत्पादयिष्यामीत्येवं छन्दं जनयति । उत्पन्नान्वा पुनः समवहितान्सर्वेणसर्वं नाधिवासयिष्यामि प्रहास्यामि । प्रतिविनोदयिष्यामि य[द]नुत्पन्नेषु पापकेष्वकुशलेषु पूर्व मेवोत्पाद(।)स्पृहामुत्पादयति । प्रणिधत्ते [।] नाधिवासय(यि)तुकामो भवति । अयमुत्पन्नानां प्रहाणाय [च्]छन्दः [।]

ते पुनः पापका अकुशला धर्मा अतीतवस्त्वालम्बना वा, अनागतवस्त्वालम्बना वा, वर्तमानविषयालम्बना वा उत्पद्यन्ते, भवन्ति । येनोक्तविषयालम्बना[ः], प्रत्यक्षविषयालम्बनाश्च ये अतीतानागतावस्थालम्बनास्ते, ये चोक्तविषयालम्बना, ये वर्तमानविषयालम्बनास्ते प्रत्यक्षविषयालम्बना[ः ।]

तत्र परोक्षालम्बनानां पापकानामकुशलानां धर्माणामनुत्पादाय । उत्पन्नानां च प्रहाणाय । व्यायच्छते [।] प्रत्यक्षविषयालम्बननानां पुनः । (श्भ्_स्ह्३०९) अनुत्पन्नानामनुत्पादायोत्पन्नानां च प्रहाणाय वीर्यमारभते । तथा हि तेषां दृढतरेण वीर्यारंभेणानुत्पत्तिः । प्रहाणं वा भवति । अपि च मृदुमध्यानां समवस्थानामनुत्पन्नानामनुत्पादाय । उत्पन्नानां प्रहाणाय व्यायच्छते । अधिमात्राणां समवस्थानामनुत्पन्नानामनुत्पादाय । उत्पन्नानां च प्रहाणाय वीर्यमारभते । स चेदतीते आलम्बने चरति । तथा चरति । यथास्य तेनालम्बनेन क्लेशो नोत्पद्यते । स चेत्पुनः स्मृतिसंप्रमोषादुत्पद्यते नाधिवासयति । प्रजहाति । व्यन्तीकरोति । यथा अतीते आलम्बने एवमनागते [अ]पि वेदितव्यम् । एवमयमनुत्पन्नानां पापकानामकुशलानां धर्माणामनुत्पादायोत्पन्नानां च प्रहाणाय व्यायच्छत इत्युच्यते । स चेदयम्वर्त्तमाने आलम्बने चरति, तथा तथा चरति । यथा तेनालम्बनेन क्लेशो नोत्पद्यते । स चेत्पुनः स्मृतिसंप्रमोषादुत्पद्यते । उत्पन्नं नाधिवासयति । प्रजहाति । विनोदयति । व्यन्तीकरोति । एवमनुत्पन्नानां पापकानामकुशलानां धर्माणामनुत्पादाय । उत्पन्नानाञ्च प्रहाणाय वीर्यमारभत इत्युच्यते ।

सन्ति पापका अकुशला धर्मा ये संकल्पवशे (बले)नोत्पद्यन्ते । न विषयबलेन । सन्ति ये संकल्पबलेन च । विषयबलेन च । तत्र संकल्पबलेनोत्पद्यन्ते । तद्यथा विहरतः । अतीतानागतालम्बना ये उत्पद्यन्ते । (श्भ्_स्ह्३१०) तत्र संक्लेशवशे(ले)न च विषयबलेन चोत्पद्यते (न्ते) । तद्यथा चरतो वर्तमानेनालम्बनेनोत्पद्यन्ते । अवश्यं तत्रायोनिशः संकल्पो भवति । तत्र ये संकल्पबलेनोत्पद्यन्ते तेषामनुत्पन्नानामनुत्पादाय । उत्पन्नानां च प्रहाणाय । व्यायच्छते । तत्र ये विषयब[लेन] संकल्पब[लेन] चोत्पद्यन्ते । तेषामनुत्पन्नानामनुत्पादाय । उत्पन्नानाञ्च प्रहाणाय व्यायच्छ(ते) तत्र ये विषयबलेन संकल्पबलेन चोत्पद्यन्ते । तेषामनुत्पन्नानाममनुत्पादाय उत्पन्नानाञ्च प्रहाणाय वीर्यमारभते । तत्रानुत्पन्नानां कुशलानां धर्माणामनु(मु)त्पादाय छन्दं जनयतीति । ये कुशलाधर्मा अप्रतिलब्धा [अ]संमुखीभूतस्य (ताः) तेषां प्रतिलम्भाय संमुखीभावाय च स्मृति मुत्पादयति [।] चित्तं प्रणिधत्ते [।] तीव्रा प्रतिलब्धुकामता । संमुखीकर्तुकामता चास्य प्रत्युपस्थिता भवति । अयमनुत्पन्नानां कुशलानां धर्माणामुत्पत्तये ।

कृ(य)त्तु उत्पन्नानां च कुशलानां धर्माणां स्थितये, असंमोषाय, भावनापरिपूरये छन्दं जनयतीति । उत्पन्नाः कुशला धर्मा ये प्रतिलब्धास्संमुखीभूताश्च, तत्र प्रतिलंभाविगमं प्रतिलब्धां पारिहाणिमधिकृत्याह । स्थितय इति संमुखीभावादधन्धायितत्वमधिकृत्याहासंमोषायेति । तेषामेव च कुशलानां (श्भ्_स्ह्३११) धर्माणाम्प्रतिलब्धानां सम्मुखीभूतानामासेवनान्वयात्परिनिष्पत्तिं निष्ठागमनमधिकृत्याह । भावनापरिपूरये इति । तत्र च स्पृहामुत्पादयति । चित्तं प्रणिधत्ते । तीव्रा चास्य स्थितिकामता असम्मोषकामता । भावनापरिपूरिकामता प्रत्युपस्थिता भवति । अयमुच्यते । उत्पन्नानां कुशलानां धर्माणां स्थितये असंमोषाय भावनापरिपूरये [च्]छन्दः । तत्र व्यायच्छत इति । प्रतिलब्धानां संमुखीभावाय वीर्यमारभते । अप्रतिलब्धानां प्रतिलम्भाय [।]

तत्र व्यायच्छते । उत्पन्नानां स्थितये, असंमोषाय, वीर्यमारभते । भावनापरिपूरये, अपि च मृदुमध्यानां कुशलानां धर्माणामनुत्पन्नानामुत्पादाय, उत्पन्नानां च स्थितये । असंमोषाय व्यायच्छते । अधिमात्राणां कुशलानां धर्माणामनुत्पन्नानामुत्पादाय, उत्पन्नानां च यावद्भावनापरिपूरये वीर्यमारभते ।

तत्र चित्तं प्रगृह्णाति । यदा तच्चित्तं शमथभावनायामेकाग्रतायां प्रयुक्तं भवति । अनुत्पन्नानां पापकानामकुशलानां धर्माणामनुत्पादाय । एवं विस्तरेण यावदुत्पन्नानां कुशलानां धर्माणामनुत्पन्नानामुत्पादाय । उत्पन्नानाञ्च यावद्भावनापरिपूरये वीर्यमारभते । तत्र चित्तं प्रगृह्णाति । यदा तच्चित्तं शमथभावनायामेकाग्रतायां प्रयुक्तं भवति । अनुत्पन्नानां (श्भ्_स्ह्३१२) पापकानामकुशलानां धर्माणामनुत्पादाय । एवं विस्तरेण यावदुत्पन्नानां कुशलानां धर्माणां स्थितये । असंमोषाय भावनापरिपूरये । तच्च तथा अध्यात्ममभिसंक्षिप्तं लीनत्वाय परैति । लीनत्वाभिशंकि चैवं पश्यति । तदा अन्यतमान्यतमेन प्रग्राहकेन (ण) निमित्तेन प्रसदनीयेन प्रतिगृह्णाति । संहर्षयत्येवं चित्तं प्रगृह्णाति ।

कथं प्रदधाति । पुनरुद्धतमौद्धत्याभिशंकि वा प्रग्रहकाले पश्यति । तदा पुनरप्यध्यात्ममभिसंक्षिपति । शमथाय प्रणिदधाति । तान्येतानि भवन्ति । चत्वारि सम्यक्प्रहाणानि । कृष्णपक्ष्याणां धर्माणामनुत्पन्नानामनुत्पादाय । उत्पन्नानां च प्रहाणाय [च्]छन्दो व्यायामो वीर्यारम्भः । चित्तप्रग्रहः । प्रदधनमिमे द्वे सम्यक्प्रहाणे शुक्लपक्ष्याणां धर्माणामनुत्पन्नानामुत्पादाय [।]

विस्तरेण द्वे सम्यक्प्रहाणे वेदितव्ये । तद्यथा कृष्णपक्ष्याणां तत्रैकं सम्वरणप्रहाणं यदुत्पन्नानाम्पापकानामकुशलानां धर्माणां प्रहाणाय [च्]छन्दं जनयतीति विस्तरेण । द्वितीयं प्रहाणप्रहाणं यदनुत्पन्नानामनुत्पादाय [च्]छन्दं जनयतीति विस्तरेण, उत्पन्नं हि संवरयितव्यम् । पापकं च वस्तु । अनुत्पन्नं च यत्तदसमुदाचारतः प्रहीणमेवं तदसंमुखीभावतः प्रहातव्यमिति कृत्वा । प्रहीणस्य प्रहाणं प्रहाणप्रहाण[ं] ।

(श्भ्_स्ह्३१३)
तत्र भावनाप्रहाणमेकं यदाह । अनुत्पन्नानां कुशलानां धर्माणामुत्पादायेति विस्तरेण यावच्चित्तं प्रगृह्णाति, प्रदधातीति । तथा हि कुशला धर्मा आसेव्यमाना, भाव्यमाना, अप्रतिलब्धाश्च प्रतिलभ्यन्ते । प्रतिलब्धाश्च सम्मुखीक्रियन्ते ।

तत्रानुरक्षणाप्रहाणमेकम् । यदाह । उत्पन्नानां कुशलानां धर्माणां स्थितये । विस्तरेण यावच्चित्तं प्रगृह्णाति । प्रदधाति । तथा हि प्रतिलब्धेषु संमुखीकृतेषु च । कुशलेषु धर्मेषु यावत्प्रमादवर्जना अप्रमादनिषेवणा च । सा कुशलानां धर्माणां स्थितये, असम्मोषाय, भावनापरिपूरये । एवमनुत्पन्नाः कुशला धर्मा अनुरक्षिता भवन्त्ययं तावत्सम्यक्प्रहाणानां विस्तरविभागः ।

समासत(सार्थ)ः पुनः कतमः । आह । कृष्णशुक्लपाक्षिकस्य त्यागात्पुनर्वस्तुनः । प्राप्तये पूर्वमेव स्पृहायुक्तेन भवितव्यम् । पर्यवस्थानप्रहाणाय च । अस्त्याशयसम्पत्प्रयोगसम्पच्च । परिदीपिता भवति । तत्रास्या (स्त्या)शयसम्पत् । छन्दजननतया, प्रयोगसम्पत्पुनः व्यायामवीर्यारम्भचित्तप्रग्रहाप्रमादधनैः । एतावच्च योगिना करणीयम् । यत्प्रहातव्यस्य वुस्तनः प्रहाणाय, प्राप्तव्यस्य वस्तुनः प्राप्तये पूर्वमेव स्पृहाजातेन भवितव्यं, पर्यवस्थानप्रहाणाय, वीर्यमारब्धव्यमनुशयप्रहाणाय च, कालेन कालं शमथप्रग्रहोपेक्षानिमित्तानि (श्भ्_स्ह्३१४) भावयितव्यानि । पर्यवस्थानप्रहाणानुशयप्रहाणाय च ये प्रातिपक्षिका धर्माः कुशलास्ते समुदानयितव्याः । तच्चैतत्सर्वं चतुर्भिः सम्यक्प्रहाणैः परिदीपितं भवत्ययं समासार्थः ॥

तत्र चत्वारः समाधयः, तद्यथा छन्दसमाधिः । वीर्यसमाधिः, चित्तसमाधिः, मीमांसासमाधिश्च ।

(श्भ्_स्ह्३१५)
तत्र छन्द(समाधि)मधिपतिं कृत्वा यः प्रतिलभ्यते समाधिरयं छन्दसमाधिः । वीर्यं, चित्तं, मीमांसामधिपति कृत्वा प्रतिलभ्यते (प्रतिलभ्यते) समाधिरयं [...........] मीमान्सा (मांसा) समाधिः । यदा (श्भ्_स्ह्३१६) तावदयं छन्दमेव केवलं जनयति । छन्दजातश्च तान्पापकानकुशलान्धर्मान् स्वभावतो, निदानत, आदीनवतः, प्रतिपक्षतश्च । सम्यगेवोपनिदध्याति । एकाग्रां स्मृतिं प्रवर्त्तयति । एवं कुशला[न्]धर्मास्स्व (धर्मान्स्व)भावतो निदानतश्च । अकुशलतो निःसरणतः सम्यगेवोपनिदध्या (धा)ति । एकाग्रां स्मृतिमवस्थापयति । तद्बहुलाकारामेकाग्रतां स्पृशति । समवस्थानसमुदाचारदूरीकरणयोगेन । न त्वस्याप्यनुशयमुत्पादयति । पापकानामकुशलानां धर्माणामयमप्युच्यते । छन्दाधिपतेयः । स (सा) अतीता (ते) वा, अनागतप्रत्युत्पन्ने वा पुनरालम्बने पापकाकुशलाधर्मास्थानीये (लधर्मस्थानीये) मृदुमध्याधिमात्रक्लेशसमवस्थानीये, अनुत्पन्नस्य वा अनुत्पादाय, उत्पन्नस्य वा प्रहाणाय, व्यायच्छमानो वीर्यमारममाणः । तत्रालम्बने विचरत्यन्तस्य वालम्बनस्य स्वभावतो निदानतः प्रतिपक्षतश्च । सम्यगुपनिध्यायतः । एकाग्रां स्मृतिमुपस्थापयतो यत्तद्बहुलविहारिणश्चित्तैकाग्रता उत्पद्यते । समवस्थानदूरीकरणयोगेन त्वस्याप्यनुशयमुद्घातयति । पापकानामकुशलानां धर्माणामयं वीर्याधिपतेयः । समाधि[ः ।] लीनम्वा पुनश्चित्तं प्रगृह्णतः । प्रगृहीतं चित्तं समादधतः । कालेन च कालमध्युपेक्षितः । यत्पापकानामकुशलानान्धर्माणां (श्भ्_स्ह्३१७) पापकाकुशला(ल) धर्मस्थानीयान्वयात्कुशल[त]ः । कुशलान्धर्मान् कुशलाकुशलस्थानीयांश्च धर्मान् स्वभावतो, निदानत, आदीनवतः, अनुशंसतः, प्रतिपक्षतो, निःसरणतः, सम्यगुपनि (द)ध्यायतः । एकाग्रतां स्मृतिमुपस्थापयतः । तद्बहुलविहारिणो या उत्पद्यन्ते चित्तस्यैकाग्रताः विस्तरेण यावदयम् । चित्ताधिपतेयः समाधिः ।

तत्र ये पापकाकुशला (ल)धर्मस्थानीया धर्मा भवन्ति । अयोनिशो मनसिकुर्वतः । त एव कुशलधर्मस्थानीया भवन्ति । योनिशो मनसिकुर्वतः । तस्यैवं समवस्थानेषु दूरीकृतेषु । समवस्थानप्रतिपक्षे च । समाधिप्रमुखेषु धर्मेष्वनुत्पन्नेषु ते पापका अकुशला धर्मा धर्म मुदा हरन्ति । तस्यैवं भवति । किं सतः सम्विद्यमानान्पापकानकुशलान्धर्मान्न प्रतिसंवेदयाम्याहोस्विदसतः । असंविद्यमानान्यन्व(न्न्व)हं परिमीमान्से (मांसये) यम् । स मीमान्सा(मांसा)मनस्कारमधिपतिं कृत्वा प्रहीणाप्रहीणतां मीमान्स(मांस)ते सम्यगेवोपनिध्यापयति । तद्बहुलविहारी च स्पृशति] चित्तस्यैकाग्रतां येन च निरभिमानो भवति । पर्यवस्थानमात्रकाच्य(च्च)चित्तं विमुक्तं, (श्भ्_स्ह्३१८) न तु सर्वेण सर्वंमनुशयेभ्यः । तत्प्रतिपक्षाश्च मे समाधिप्रमुखाः कुशला धर्मा[श्]च प्रतिलब्धा, भाविता, न त्वनुशयप्रातिपाक्षिका इति यथाभूतं प्रजानाति । अयमस्योच्यते मीमान्सा (मांसा)समाधिः ।

स तं चतुर्विधं समाधिमधिपतिं कृत्वा पर्यवस्थानेषु दूरीकृतेषु । सर्वेण सर्वमनुशयसमुद्घाताय पापकानामकुशलानां धर्माणां, तत्प्रातिपाक्षिकाणाञ्च कुशलानां (।) धर्माणां समुदागमाय [च्]छन्दं जनयति । व्यायच्छत इति विस्तरेण चतुर्भिः सम्यक्प्रहाणैः प्रयुज्यते । तथा प्रयुज्यमानस्य तथभूतस्याष्टौ प्रहाणसंस्कारा भवन्ति । ये [अ]स्यानुशयसमुद्घाताय च प्रवर्त्तन्ते । समाधिपरिपूरये च तद्यथा- छन्दः (श्भ्_स्ह्३१९) कदाचित्समाधिं परिपूरयिष्यामि । अनुशयांश्च प्रहास्यामि । पापकानामकुशलानां धर्माणां व्यायामो यावत्प्रतिपक्षभावनायामविन्यस्तप्रयोगया, श्रद्धायामविन्यस्तयोगस्य (श्भ्_स्ह्३२०) विहरतः । उत्तरे [अ]धिगमे श्रद्द्धानता । अभिसंप्रत्ययः ।

तत्र प्रश्रब्धिः । यच्छ्रद्धाप्रमादपूर्वंगमं प्रामोद्यं, प्रीतिः, प्रीतमनसश्चानुपूर्वा पापकाकुशला धर्मपक्षस्य दौष्ठुल्यस्य प्रतिप्रश्रब्धिः ।

तत्र स्मृतिर्या नवाकारा नवाकारायाश्चित्तस्थितेः शमथपक्ष्यायाः संग्राहिका ।

छंदसंप्रजन्ये । या विपश्यनापक्ष्या प्रज्ञा । तत्र चेतनायाश्चित्ताभिसंस्कारः । प्रहीणाप्रहीणतो मीमान्स(मांस) मानस्य यश्चित्ताभिसंस्कारः शमथविपश्यनानुकूलः कायकर्म वाक्कर्म समुत्थापयति ।

तत्रोपेक्षया अतीतानागतप्रत्युत्पन्नेषु पापकाकुशलाधर्मास्थानीयेषु चरतः चित्ताभिसंक्लेशश्चित्तंगमता । आभ्यां द्वाभ्यां कारणाभ्यां प्रहीणतामनुशयानां परिच्छिनत्ति जानाति । यदुत विषयविपरोक्षया चेतनया विषयविपरोक्षया चा(चो)पेक्षया । इमे [अ]ष्टौ प्रहाणसंस्कारा भवन्ति । ते चैतेष्टौ (स चैषोऽष्ट) प्रहाणसंस्कारयोगो भवत्यनुशयसमुद्घाताय । तत्र छन्द(च्छन्द)श्च, एत(ष) एव यो व्यायामः इदं वीर्यं, याश्रद्धा सा शुद्धा, या च प्रश्रब्धिर्या च स्मृतिर्यच्च संप्रजन्यम् । या च चेतना, या चोपेक्षा । अय (इदं ?)मुपादाय । तदिदं सर्वमभिसमस्य ये च पूर्वकाश्छन्दसमाधयः । ये च इमे प्रहाणसंस्काराः प्रहीणेष्वनुशयेषु, (श्भ्_स्ह्३२१) परिक्षिप्ते समाधौ, छन्दसमाधिप्रहाणसंस्कारसमन्वागत ऋद्धिपाद इत्युच्यन्ते(ते) । वीर्यचित्तमीमान्सा (मांसा) समाधिप्रहाणसंस्कारसमन्वागत ऋद्धिपाद इत्युच्यते ।

केन कारणेन ऋद्धिपाद इत्युच्ते । आह । तद्यथा । यस्य पादः सम्विद्यते सो [अ]भिक्रमप्रतिक्रम(म)पराक्रमसमर्थो भवति । एवमेव यस्यैते धर्माः संविद्यन्ते । एष च समाधिः संविद्ययते । परिपूर्णः [।] स एवं परिशुद्धे चित्ते, पर्यवदाते, अनंगणे, विगतोपक्लेशे, ऋजुभूते कर्मण्यस्थिते, आनिंज्यप्राप्ते, अभिक्रमप्रतिक्रमसमर्थो भवति । लोकोत्तराणां धर्माणां प्राप्तये, स्पर्शनायै । एषा हि परा ऋद्धिः, परा समृद्धिः । यदुत लोकोत्तरा धर्मास्तेनोच्यन्ते (ते?) ऋद्धिपाद इति ॥

स एवं समाधिप्रतिष्ठितः । समाधिं निश्रित्य । (श्भ्_स्ह्३२२) [अधि]चित्तं शिक्षा[या]मधिप्रज्ञं शिक्षायां योगं करोति । तत्रास्य योगं कुर्वतः । परेषां चाधिगमे शास्तुः श्रावकाणां च यो [अ]भिसंप्रत्ययः । प्रसादः, श्रद्धानता । समापत्त्यर्थेन श्रद्धेन्द्रियमित्युच्यते । कुत्र पुनरस्याधिपत्यम् । आह । लोकोत्तरधर्मोत्पत्तिप्रमुखानां वीर्यस्मृतिसमाधिप्रज्ञानामुत्पत्तये आधिपत्यम् । ये [अ]पि ते वीर्यादयः तेषामपि लोकोत्तरधर्मोत्पत्तये आधिपत्यम् । यावत्प्रतिपत्तये आधिपत्यम् । यावत्प्रज्ञया लोकोत्तरधर्मोत्पत्तये । आधिओपत्यम् । तैनैतानि श्रद्धादीनि पंचेन्द्रियाणि भवन्ति ।

या पुनः पूर्वेणापरं विशेषाधिगमं सजानतः (संजानतः) । तदनुसारेण तदुत्तरलोकोत्तरधर्माधिगमायाभिसंप्रत्ययः, प्रसादः, श्रद्दधानता । सा अनवमृद्यनार्थेन श्रद्धाबलमित्युच्यते । केन पुनर्न (श्भ्_स्ह्३२३) शक्यते । अवमृदितुम् । असंहाया(र्या)सा श्रद्धा देवेन वा, मारेण वा, ब्रह्मणा वा । केनचिद्वा पुनर्लोके, सहधर्मेण क्लेशपर्यवस्थानेन वा तेन सा अनवमृद्येत्युच्यते । तत्प्रमुखास्तत्पूर्वंगमा ये वीर्यादयस्तेपिबलानीत्युच्यन्ते । तैः स बलैर्बलवान् सर्वं मारबलं विजित्य प्रयुज्यते । आस्रवाणां क्षयाय । तस्माद्बलानीत्युच्यन्ते ।

तत्र यश्च(यच्च) श्रद्धेन्द्रियं, यच्च श्रद्धाबलं चतुर्ष्वेतदवेत्य प्रसादेषु द्रष्टव्यम् । तत्कस्य हेतोः । योऽसौ सम्यक्त्वन्यामावक्रान्तस्यावेत्य प्रसादः । स तद्धेतुकस्तत्प्रत्यस्तन्निदानः । तस्माद्धेतुफलसम्बन्धेन तस्यास्तदधिपतिफलमिति कृत्वा । तत्र द्रष्टव्यमित्युक्तं भगवता । न तु तच्छरीरतां तल्लक्षणतां [।] तत्र वीर्येन्द्रियं चतुर्षु सम्यक्प्रहाणेषु द्रष्टव्यम् । (तत्कस्य हेतोः) यानि (तानि) कतमानि । सम्यक्प्रहाणानि यानि दर्शनप्रहातव्यक्लेशप्रहाणाय प्रायोगिकाणि सम्यक्प्रहाणानि, तान्यत्र सम्यक्प्रहाणान्यभिप्रेतानि तानि ह्यत्यन्ततायै पापकानामकुशलानां धर्माणां प्रहाणाय सम्वर्त्तन्ते ॥

तत्र स्मृतीन्द्रियं चतुर्षु स्मृत्युपस्थानेषु द्रष्टव्यमितीमानि (श्भ्_स्ह्३२४) चत्वारि स्मृत्युपस्थानान्यविशेषविशेष विपर्यासप्रहाणाय सम्वर्त्तन्ते ।

तत्र समाधीन्द्रियं चतुर्षु (स्था) ध्यानेषु द्रष्टव्यम् । यानि ध्यानान्यगामितायां प्रायोगिकानि (णि) तत्र प्रज्ञेन्द्रियं चतुर्ध्वार्यसत्येषु द्रष्टव्यमिति । यत्सत्यज्ञानं चतुर्ध्णामार्यसत्यानामभिसमाय सम्वर्त्तन्ते (ते) । श्रामण्यफलप्राप्तते, प(य)पेन्द्रियाणि । एवं बलानि वेदितव्यानि । स एषामिन्द्रियाणामे तेषां च बलानामासेवनान्वयाद्भावनान्वयादबहुलीकारान्वयान्निर्वेधभागीयानि कुशलमूलान्युत्पादयति । मृदुमध्याधिमात्राणि । तद्यथा ऊष्मगतानि । मूर्धगतानि । मूर्धानः सत्यानुलोमाः क्षान्तयः लौकिकान(द)ग्रधर्मात्तद्यथा । कश्चिदेव पुरुषः अग्निना अग्निकायं कर्त्तुकामः । अग्निनार्थी अधरारण्यामुत्तरारणिं प्रतिष्ठाप्यास [-]न्नुत्सहते, घटते, व्यायच्छते । तथोत्सहतो, घटतो, व्यायच्छतश्च । तत्प्रथमतोऽधरारण्यामूष्मा जायते । सैव (श्भ्_स्ह्३२५) चोष्मा । अभिवर्धमाना ऊर्ध्वमागच्छति । भूयस्या मात्रया अभिवर्द्धमाना [।] निरर्च्चिषमग्निं पातयत्यग्निपतनसमनन्तरमेव चार्चिर्जायते । यथा अर्च्चिषा उत्पन्नया (नेन) जातया (तेन) संजातया (तेन) अग्निकायं करोति । यथा अभिमन्थन व्यायाम एवं पञ्चानामिन्द्रियाणामासेवना द्रष्टव्या । यथा अधरण्या तत्प्रथमत एव ऊष्मगतं भवति । एवमूष्मगतानि द्रंष्टव्यानि । पूर्वंगमानि । निमित्तभूतानि । अग्निस्थानीयानामनास्रवाणां धर्माणां क्लेशपरिदाहकानामुत्पत्तये । यथा तस्यैवोष्मण ऊर्ध्व[मा]गमनमेवं मूर्धानोद्रष्टव्याः ।

यथा धूमप्रादुर्भाव एवं सत्यानुलोमाः क्षान्तयो द्रष्टव्याः ॥ यथाग्नेः पतनं निरर्च्चिष एवं लौकिका अग्रधर्मा द्रष्टव्याः ।

यथा तदनन्तरमर्च्चिषः (।) उत्पाद एवं लोकोत्तरा अनास्रवा धर्मा द्रष्टव्या (।) ये लौकिका अग्रधर्मसगृहीतानां पञ्चानामिन्द्रियाणां समनन्तरमुत्पद्यन्ते । ते पुनः कतमे आह । सप्तबोध्यंगानि । योऽसौ यथाभूतावबोधः । सम्यक्त्वन्यामावक्रान्तस्य (श्भ्_स्ह्३२६) पुद्गलस्यैतान्यंगानि [।] स हि यथाभूतावबोधः । सप्तांगपरिगृहीतः । त्रिभिः शमथपक्ष्यैः त्रिभिर्विपश्यनापक्ष्यैरेकेनोभयपक्ष्येण [।] तस्माद्बोध्यंगानीत्युच्यन्ते ।

तत्र यश्च धर्मविनयः । यच्च वीर्यं, या च प्रीतिरितीमानि त्रीणि विपश्यनापक्ष्याणि । तत्र या च प्रश्रब्धिर्यश्च समार्धिया चोपेक्षा इतीमानि त्रीणि शमथपक्ष्याणि [।] स्मृतिरभयपक्ष्या(स्) सर्वत्रगेत्युच्यते । स तस्मिन् समये तत्प्रथमतो बोध्यंगलाभाच्छैक्षो भवति । प्रातिपदः [।] दर्शनप्रहातव्याश्चास्य क्लेशाः प्रहीणा भवन्ति । भावनाप्रहातव्याश्चावशिष्टाः [।] (श्भ्_स्ह्३२७) स तेषां प्रहाणाय त्रिस्कन्धमार्याष्टंगं मार्गं भावयति ।

तत्र या च सम्यग्दृष्टिर्यश्च सम्यक्संकल्पः, यश्च सम्यग्व्यायामः । अयं प्रज्ञास्कन्धः ।

तत्र ये सम्यक्कर्मान्ताजीवाः । अयं शीलस्कन्धः ।

तत्र या च सम्यक्स्मृतिः, यश्च सम्यक्समाधिरयं समाधिस्कन्धः ।

केन कारणेनार्याष्टांगो मार्ग इत्युच्यते । आह । आर्यस्य शैक्षस्य दृष्टपदस्यायं मार्ग इयं प्रतिपदष्टाभिरंगैः संगृहीता(ः) ॥ अपरिशेषः । सर्वक्लेशप्रहाणाय विमुक्तिसाक्षात्क्रियायै तेनोच्यते आर्याष्टांगो मार्गः ।

तत्र यश्च बोध्यंगकाले तत्त्वावबोधः (॥) प्रतिलब्धः, प्रतिलभ्य च यत्तस्यैव प्रज्ञया व्यवस्थानं करोति ॥ यथाविगतस्यावबोधस्य, तदुभयमेकत्यमभिसंक्षिप्य सम्यग्दृष्टिरित्युच्यते । तां सम्यग्दृष्टिमधिपतिं कृत्वा । यन्नैष्क्रम्यसंकल्पं संकल्पयत्यव्यापादसंकल्पमविहिन्सा(हिंसा)संकल्पमयमुच्यते सम्यक्संकल्पः । स चेत्तावद्वितर्केषु चित्तं क्रामति । स एवं रूपाद्वितर्काद्वितर्कयति [।] स चेत्पुनः कथायां चित्तं (श्भ्_स्ह्३२८) क्रामति । सम्यग्दृष्टिमधिपतिं कृत्वा तेने(न) कुशलात्संकल्पां (लसंकल्पां) धर्म्यां कथां कथयति । सास्य भवति सम्यग्वाक् ।

स चेच्चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैरतीथी(र्थी)भवति । तत्पर्येषणाम्वापद्यते । सोऽभिक्रमः । प्रतिक्रमे संप्रजानम्वि(द्वि)हारी भवत्यालोकितव्यवलोकिते [।] तस्मिंजित (संमिंजित) प्रसारिते । सांघटीचीवरपात्रधारणे, अशितपीतखादितास्वादिते । विहारगतो वा पुनः पर्येषितेषु चीवरादिषु गते, स्थिते, निषण्णे । यावन्निद्राक्लम[प्रति]विनोदने संप्रजानद्विहारी भवति । अयमस्योच्यते सम्यक्कर्मान्तः । स तच्चीवरं यावद्भैषज्यपरिष्कारं धर्मेण पर्येषते । यावन्मिथ्या [..........] धर्मविवर्जितः सोऽस्य भवति । सम्यगाजीवः ।

ये पुनर्विरतिसंगृहीताः । सम्यक्कर्मान्ताजीवाः । ते अनेन पूर्वमेव मनस्कारलाभाद्बोध्यंगैरेव सह लब्धा भवन्ति । योप्यापकान्तानि शीलान्युच्यन्ते । केन कारणेन दीर्घ कालं ह्येतदार्याणां सतां सम्यग्गतानामिष्टं कान्तं प्रियं मन आपं कच्चिदहं तद्वाग्दुश्चरितस्य, कायदुश्चरितस्य, मिथ्याजीवस्याकरणम् । (श्भ्_स्ह्३२९) सम्वरं प्रतिलभेयम् । यदस्य दीर्घरात्रमिष्टम् । कान्तं प्रियं मन आपं तदनेन तस्मिन्समये प्रतिलब्धं भवति । तस्मादापकान्तमित्युच्यते । तथा हि स लब्धेष्वापकान्तेषु शीलेषु, न संप्रजा[ना]नो मृषां वाचं भाषते । न संविध्य प्राणिनं (।) जीविताद्व्यपरोपयति । नादत्तमादत्ते [।] न (।) कामेषु मिथ्या चरति । न चाधर्मेण चीवरादीनि पर्येषते । इति तान्यापकान्तानि शीलान्यधिपतिं कृत्वा मार्गभावनाकाले यावत्प्रवर्तते । यच्च कायकर्म यश्चाजीवः तेपि सम्यग्वाक्कर्मान्ताजीवा इत्युच्यन्ते ।

तस्य सम्यगदृष्टिसम्यक्संकल्प (ः ।) वाक्कर्मान्ताजीवसन्निश्रयेण भावनाप्रयुक्तस्य । यच्छन्दो (यश्छन्दो), वीर्यं, व्यायामो, निष्क्रमः, पराक्रमस्थाम आरंभः । चेतसः संप्रग्रहः । सातत्यमयमुच्यते । सम्यग्व्यायामशमथः । यच्चत्वारि स्मृत्युपस्थानान्यधिपतिं कृत्वा अविपर्यायसंगृहीता स्मृतिः नवाकारा नवाकारचित्तस्थितिसंग्राहिका [।] इयमुच्यते सम्यक्स्मृतिः । सम्यक्समाधिश्च ।

(श्भ्_स्ह्३३०)
तदेतत्सर्वमभिसमस्य आर्याष्टांगो मार्गश्चारकरणीये च विहारकरणीये चावस्थितः ।

तत्र सम्यग्वाक्कर्मान्ताजीवाः चारकरणीये [।]

विहारकरणीयं पुनर्द्विविधम् । शमथो विपश्यना च [।] तत्र या सम्यग्दृष्टिः । यश्च सम्यक्संकल्पः । यश्च सम्यग्व्यायाम इयं विपश्यना ।

तत्र या च सम्यक्समृतिर्यश्च सम्यक्समाधिस्यं शमथः । एवं परिशुद्धान् सम्यग्वाक्कर्मान्ताजीवान्निश्रित्य शमथविपश्यनां भावयति । कालेन कालं निरवशेषसंयोजनप्रहाणं साक्षात्करोत्यग्रफलमर्हत्त्वं, प्राप्नोति । प्राकर्षिकश्च (कञ्च) भावनामार्गः (र्गं) [।] कालान्तराभ्यासेन क्लेशान् प्रजहाति । ज्ञानमात्रप्रतिबद्धवस्तुदर्शनमार्गः ज्ञानोत्पत्तिमात्रेण क्लेशान् प्रजहात्यनेन कारणेन वाक्कर्मान्ताजीवा भावनामार्गे व्यवस्थापिताः ।

इति य एवमेषामनया आनुपूर्व्या सप्तत्रिंशतां बोधपक्ष्याणां धर्माणामभ्यासः, परिचयः । इयमुच्यते बोधिपक्ष्या भावना ।

(श्भ्_स्ह्३३१)
तत्र भावनाफलं कतमत् । आह । चत्वारि श्रामण्यफलानि । स्रोत आपत्तिफलं, सकृदागामिफलम् । अनागामिफलमग्रफलमर्हत्त्वम् ।

तत्र कतमच्छ्रामण्यम् । कतमत्फलम् । आह । मार्गः, क्लेशप्रहाणं फलम् । अपि च पूर्वोत्पन्नस्य मार्गस्य पश्चादुत्पन्नो मार्गः । फलं, मध्यो, विशिष्टो (श्भ्_स्ह्३३२) वा, पुनः [।] तत्र केन कारणेन चत्वारि व्यवस्थापितानि । आह । चतुर्विधक्लेशप्रहाणप्रतिपक्षतया । तद्यथा निर्वस्तुकानां क्लेशानामपायगमनहेतुभूतानां प्रहाणात्प्रतिपक्षोत्पादाच्च स्रोत आपत्तिफलं व्यवस्थापितम् । त्रयाणां तु संयोजनानां प्रहाणाद्व्यवस्थापितम् । भगवता त्रिषु पक्षेषु, गृहिपक्षे, दुराख्यातधर्मविनय पक्षे च, त्रयाणां संयोजनानां मार्गोत्पत्तये विवृद्धाकरत्वात् । तत्र गृहिपक्षे सत्कायदृष्टिः । यया यमादित एव न प्रयुत्यत इत्यादित उ[त्]त्रासिका सत्कायदृष्टिः । दुराख्यातेधर्मविनये शीलव्रतपरामर्शः । उच्चलितस्यापि मिथ्याप्रतिपादयति । येनार्यमार्गो नोत्पद्यते । स्वाख्याते धर्मविनये विचिकित्सातश्चोच्चलितश्च भवति । न च मिथ्याप्रतिपन्नः । अपि स्वाभ्यासात्तस्य यावद्यथाभूतदर्शनं न भवति । ज्ञेयवस्तुनि तावत्कांक्षा विमतयो विबन्धकरा भवन्ति । मार्गस्योत्पत्तये । अनेन तावत्कारणेन स्रोत आपत्तिफलव्यवस्थानम् ॥

(श्भ्_स्ह्३३३)
तस्यास्य स्रोत आपन्नस्य परं सप्त भवा अवशिष्टा भवन्ति । स चास्यजन्म प्रबन्धः । यदा जन्मप्राबन्धिकान्क्लेशान्प्रजहाति । देवभवसंगृहीतान्मनुष्यसंगृहीतांश्च [।] येषां प्रहाणात्परमेकं देवभवमभिनिर्वर्त्तयत्येकं मनुष्यभवं [।] तस्मिन्समये सकृदागामिफलं व्यवस्थाप्यते ।

यदा तु देवभवमेव केवलमभिनिर्वर्त्तयति । इह प्रत्यागमजन्मिकं क्लेशं प्रहाय तदा अनागामिफलं व्यवस्थाप्यते ॥ सर्वभवोपपत्तिसंवर्त्तनीयक्लेशप्रहाणादग्रफलमर्हत्त्वफलं व्यवस्थाप्यते ।

(श्भ्_स्ह्३३४)
तत्पुनः सकृदागामिफलं त्रयाणां संयोजनानां प्रहाणाद्रागद्वेषमोहानां च । तनुत्वाद्भगवता व्यवस्थापितम् । पंचानामवरभागीयानां संयोजनानां प्रहाणादनागामिफलम् । पर्यादाय सर्वक्लेशप्रहाणादर्हत्त्वफल मिदमुच्यते भावनाफलम् ।

तत्र ये रागद्वेषमोहमानवितर्कचरितेषु (ताः) पुद्गलेषु (लाः) पूर्वं [तैः] तावच्चरितविशोधने आलम्बने चरितं विशोधयितव्यम् । ततः पश्चाच्चित्तस्थितिमधिगच्छन्ति । तेषां प्रतिनियतमेव तदालम्बनमवश्यं तैस्तेनालम्बनेन प्रयोक्तव्यम् । समभागचरितस्य तु यत्र प्रियारोहिता । तत्र तेन प्रयोक्तव्यं केवलं चित्तस्थितये । न तु चरितविशुद्धये । यथा समभागचरित एवं मन्दरजस्को वेदितव्यः । अयं त्वेषां विशेषो रागादिचरितः प्रयुज्यमानश्चिरेणाधिगन्ता भवति । समभागचरितो नातिचिरेण, मन्दरजस्कस्तु आशु त्वरित त्वरितं चित्तस्थितमधिगच्छति । तत्रोक्तानि पूर्वं रागचरितानां पुद्गलानां लिंगानि ।

समभागचरितस्य पुद्गलस्य मन्दरजस्कस्य च कतमानि लिंगानि । आह । समभागचरितस्य पुद्गलस्य सर्वाणि तानि लिंगानि संविद्यन्ते । यानि रागादिचरितानां, तानि रागा[दी]नि तु नाधिमात्राणि, न प्रधानानि । तथा रागादिचरितानां समप्राप्तानि (श्भ्_स्ह्३३५) भवन्ति प्रत्ययेषु सत्सु न प्रज्ञायन्ते । तत्र मन्दरजस्कस्य पुद्गलस्य लिंगानि । अनावृतो भवत्यादिशुद्धसंभारसंभृतः । प्रसादबहुलो मेधावी पुण्यवान् गुणान्वितश्च भवति ।

तत्र त्रीण्यावरणानि । कर्मावरणम् । क्लेशावरणम् । विपाकावरणम् ।

तत्र कर्मावरणम् । पञ्चानन्तर्याणि कर्माणि । यच्चान्यदपि किंचित्कर्माणि (कर्म) । सांचेतनीयम् । गुरुकर्म, विपक्वविपाकम् । मार्गोत्पत्तये । निबद्धकारकम् । तत्र क्लेशावरणम् । तीव्रक्लेशता । आयतक्लेशता च । या दृष्टे धर्मे चरितविशोधनेनालम्बनविशोधनेन न शक्यते विशोधयितुम् ।

तत्र विपाकावरणं यत्रार्यमार्गस्य अप्रवृत्तिरप्रसाद उपपत्त्यायतने [।] तत्र वा विपाकमभिनिर्वर्त्तयति । यत्र वा आर्यमार्गस्य प्रवृत्तिः । तत्रोपपत्रो जातो भवत्येडमूको हस्तसंबाधिकः अप्रतिबलो भवति । सुभावितदुर्भावितानां धर्माणामर्थमाज्ञातुम् । तत्रादिशुद्धिः, (श्भ्_स्ह्३३६) शीलं च सुविशुद्धं दृष्टिश्च ऋज्वी [।] तत्र शीलं सुविशुद्धम् । दशभिः कारणैर्वेदितव्यम् । तत्र दृष्टि तृप्तिता जाता श्रदधां(द्धा) संप्रयोगात् । अधिमुक्तिसंप्रयोगाद्धि तमार्या [अ]शाठ्यतया सुचिन्तित धर्मार्थस्य निःकांक्षनिर्विचिकित्साप्रयोगनिर्याणतया या दृष्टिः श्रद्धया संप्रयुक्ता । अस्माद्धर्म विनयादसंहार्यादधिमुक्त्या च संप्रयुक्ता बुद्धानां बुद्धश्रावकाणां च । अनित्यमनुभव[न]मनित्यानि चोपपत्त्यायतना नि । गंभीरां च देशनां, अव्याकृतवस्तु चाधिमुच्यते । नो[त्]त्रसति, न संत्रासमा पद्यते । विगतमायाशाठ्या च या दृष्टिः यया ऋजुको भवति । ऋजुकजातीयः । यथानुशिष्टश्च प्रतिपद्यते । यथाभूतं चात्मानमाविष्करोति । धर्माणां वानित्यतामारभ्यं, दुःखतां, शून्यतामनात्मतामर्थः सुविचिन्तितोभवति । सुतुलितः सूपपरीक्षितः । यद्धेतोरयं निःकाङ्क्षो भवति । निर्विचिकित्सः । द्वेधा पथा गतो विशेषाय परैति । इतीयं चतुराकारा दृष्टिर्यथोद्दिष्टा । दृष्टिऋजुतेत्युच्यते । तत्र संभारसंभृतताविस्तरेण संभारः । पूर्वमेव निर्दिष्टः समासतः । पुनश्चर्विधो भवति । पुण्यसंभारो, ज्ञानसंभारः, पूर्वको, दृष्टधार्मिकश्च ।

(श्भ्_स्ह्३३७)
तत्र पुण्यसभारो येनाप्येतर्हि आनुलोमिकाः परिष्काराः प्रादुराभवन्ति । प्रदक्षिणाः । कल्याणमित्राणि च प्रतिलभते । अनन्तरायश्च प्रयुक्तस्य भवति ।

तत्र ज्ञानसंभारः । येन मेधावी भवति, प्रतिबलः । सुभाषितदुर्भाषितानां धर्माणामर्थमाज्ञातुं [।] लाभी भवति । आनुलोभिकाया धर्मदेशनायाः, अर्थदेशनायाः, अववादानुशासन्याः ।

तत्र पूर्वको येनैतहि (र्हि) प[रि]पक्वानीन्द्रियाणि लभते । पूर्वकुशलमूलोपचयात् । तत्र दृष्टधार्मिकस्तद्यथा । कुशलो धर्मछ(च्छ)न्दः । तथा परिपक्वेन्द्रियस्य शीलसम्वर, इन्द्रियसम्वर इति विस्तरेण पूर्ववत् ।

तत्र प्रसादबहुलता [।] न शास्तरि कांक्षति । न विचिकित्सति । प्रसीदत्यधिमुच्यते । यथाशास्तर्येवं धर्मे, शिक्षायामिति विस्तरेण पूर्ववत् ।

तत्र मेधा यया आशु धर्ममुद्गृह्णाति । चिरेण धर्ममर्थं च न विस्तारयति । आशु धर्ममर्थं च प्रतिविध्यति ।

(श्भ्_स्ह्३३८)
तत्र कृतपुण्यता । यया अभिरूपो भवति । दर्शनीयः । प्रासादिको दीर्घायुर्भवत्यादेयवाक्यो, महेशाख्यो, ज्ञातो भवति । महापुण्यो, लाभी चीवरादीनाम् । स सत्कृतो, गुरुकृतश्च । राजादीनाम् ।

तत्र गुणान्वित इति । गुणा अल्पेच्छतादयो वेदितव्याः । यथोक्तं श्रमणालंकारे तैरयं प्रकृत्यैव समन्वागतो भवति । इतीमान्येवं भागीयानि मन्दरजस्कस्य पुद्गलस्य लिंगानि वेदितव्यानि ॥

तत्र षट्पुद्गलपर्यायाः । तद्यथा श्रमणो, ब्राह्मणो, ब्रह्मचारी, भिक्षुर्यति[ः], प्रव्रजितश्चेति ।

तत्र चत्वारः श्रमणाः । मार्गजिनः । मार्गदेशिकः । मार्गजीवी । मार्गदूषी च ।

तत्र यः सुगतः स मार्गजिनः । यो धर्मवादी स मार्गदेशिकः । तत्र यः प्रतिपन्नः । स मार्गजीवी । यो मिथ्याप्रतिपन्नः स मार्गदूषी ।

सुगतश्चोच्यते । योशेषं रागद्वेषमोहक्षयमनुप्राप्तः । धर्मवादी । यो रागद्वेषमोहविनयाय धर्मं देशयति । सुप्रतिपन्नो यो रागद्वेषमोहविनयाय (श्भ्_स्ह्३३९) प्रतिपन्नः । दुःशील[ः], पापधर्मा, मिथ्या प्रतिपन्नः ।

अपि च । शैक्षाशैक्षा मार्गजिना इत्युच्यन्ते । दर्शनभावनाप्रहातव्यानां क्लेशानां विजयात्तत्र तथागतो बोधिसत्त्वश्चायत्यां बोधाय प्रतिपन्नाः । श्रावकाश्च सूत्रधरा, विनयधरा, मातृकाधराश्च । ये सांकेतिकं धर्मविनयं धारयन्ति । धर्मनेत्रीं प्रवर्त्तयन्ति । इम उच्यन्ते मार्गदेशिकाः । तत्र ये पृथग्जनकल्याणका आत्महिताय प्रतिपन्ना शज्जिनः (मार्गदेशिकाः) । कौकृतिकाः शिक्षाकामाः । अप्राप्तस्य प्राप्तये अनधिगतस्याधिगमाय आसाक्षात्कृतस्य साक्षात्क्रियायै प्रयुक्ता, भव्याश्च प्रतिबला, यावदसाक्षात्कृतस्य साक्षात्क्रियायै [।] इम उच्यन्ते मार्ग जीविनः । अप्येषामूष्मा येने[य]मस्य आर्यस्य प्रज्ञेन्द्रियस्योत्पत्तये, न मृता जीवन्तीत्युच्यते । तेनोच्यन्ते मार्गजीविन इति । तत्र योयं पुद्गलो दुःशीलः पापधर्मा यावदब्रहमचारी [ब्रह्मचारी] (रि) प्रतिज्ञः । अयमुच्यते मार्गदूषी दूषितोनेन मार्गो भवति मूलत आदितः । येनायमभव्यो भवत्यप्रतिअबलः । अभाजनभूतो मार्गस्योत्पत्तये । सत्यां संविद्यमानायां मार्गदेशनायां सति संविद्यमानेधिगमे [।] (श्भ्_स्ह्३४०) तस्मान्मार्गदूषीत्युच्यते ।

इदं च सन्धायोक्तं भगवता । इह कतमः श्रमणः । इह यावच्चतुर्थः । शून्याः परप्रवादाः । श्रमणैब्रह्मिणैश्च । यत्रार्याष्टांगो मार्गः प्रज्ञायते । तत्र प्रथमश्रमणस्तत्र यावच्चतुर्थ इति ॥

तत्र (य) त्रयो ब्राह्मणाः । तद्यथा जातिब्राह्मणः । संज्ञाब्राह्मणः । प्रतिपत्तिब्राह्मणश्च । तत्र जातिब्राह्मणः । योयं जातिब्राह्मणः कुलजातो, योनिजो, मातृसम्भूतः । उत्पन्नो मातृतः, पितृतः । तत्र संज्ञाब्राह्मण इति लोके नाम भवति, संज्ञा, समाज्ञा, प्रज्ञप्तिर्व्यवहारः । प्रतिपत्तिब्राह्मणः । योत्यन्तनि(न्तं) भवति कृतार्थः । वाहिता भवन्त्यनेन पापका अकुशला धर्माः । (श्भ्_स्ह्३४१) यथोक्तं न कार्यं ब्राह्मणस्यास्ति । कृतार्थो ब्राह्मणः स्मृत इति ।

तत्र त्रयो ब्रह्मचारिणः । तद्यथा विरतिसमादायी । तदन्तरप्रहायी, तदत्यन्तप्रहायी च । तत्र विरतिसमादायी । यो ब्रह्मचर्या[त्]पुनर्धर्मात्प्रतिविरतो भवति । समादत्तशिक्षः । तत्र तदन्तरप्रहायी यो लौकिकेन मार्गेण कामवीतरागः पृथग्जनः । तत्र तदत्यन्तप्रहायी । तद्यथानागामी । अर्हत्वात्पुनः (अर्हन्वा पुनः) ॥

तत्र पञ्च भिक्षवः । भिक्षतीति भिक्षुः । प्रतिज्ञाभिक्षुः । संज्ञाभिक्षुः । भिन्नक्लेशत्वाद्भिक्षुः । ज्ञप्तिचतुर्थेन कर्मणोपसम्पादितो भिक्षुः ॥

तत्र त्रयो यतयः । दौःशील्यसंयमाद्यतिः । योकुशलाद्वाक्कायकर्मणः प्रतिविरतः । विषयसंयमाद्यतिः । य इन्द्रिये गुप्तद्वारः । आरक्षितस्मृतिः । निपकस्मृति[ः ।] विस्तरेण पूर्ववत् । क्लेशसंयमाद्यतिः । यस्य दर्शनप्रहातव्याः क्लेशाः प्रहीणा उत्पन्नोत्पन्नञ्च । वितर्कं व्यापादविहि[तं]वितर्कमभिध्याव्यापाददृष्टिमिथ्यादृष्टिक्रोधोपनाहम्रक्षप्रदाशादीन्यापायिकानि स्थानानि नैरयिकानि(णि) । दुर्गतिगामी[नि] (।) अश्रमणकारकाण्युत्पन्नोत्पन्नानि नाधिवासयति । प्रजहाति । विशोधयति । व्यन्तीकरोति । सोऽयं द्विविधः क्लेशसंयमो भवति । (श्भ्_स्ह्३४२) पर्यवस्थानसंयम, उभयसंयमश्च ॥

तत्र द्वौ प्रव्रजितौ । स्वारव्यातधर्मविनयो, दुराख्यातधर्मविनयश्च । तत्र स्वाख्यातधर्मविनयः । भिक्षुर्भिक्षुणी, शिक्षमाणा, श्रामणेर[ः], श्रामणेरी । अपि च प्रव्राजयत्यात्मनः पापकानकुशलान् धर्मान् स प्रव्रजित इत्युच्यते । परमार्थतः । तत्र दुराख्यातधर्मविनयः । तद्यथा तीर्थिक[ः], परिव्राजो (व्राड्), निर्ग्रन्थो वा, परिव्राजकोपाण्डुरोग इति । यो वा पुनरप्येवंभागीयः । तेनाहं (ह) श्रमणो, ब्राह्मणो, ब्रह्मचारी, भिक्षुर्यतिः, प्रव्र [........................................] र-च । कालप्रभेदः दीर्घकालभावितमार्गो, न दीर्घकालभावितमार्गश्च । इतीमे चत्वारः प्रभेदाः कथंनिदानानि भवन्ति । यद्वा संप्र [.........................................] ज्ञ उपायज्ञ[ः] कुशल इत्यर्थः । सातत्यपक्षे प्रयोगो (गः) साततिको निपक्व इत्युच्यते । दीर्घकालभावितभावित [...........................................] त्रयेण भेदेन । योगप्रयोगकालभेदेनाप्तानां पुद्गलानां व्यवस्थानं यस्तावद्पुद्गलः अपरिपक्वेन्द्रियः । स तावदुपायज्ञोपि साततिकोपि कृतपरिचयोपि नाराधको भवति । (श्भ्_स्ह्३४३) ध्याय्यस्य धर्मस्य कुशलस्य । तत्र परिपक्वेन्द्रियश्च [...............................] ज्ञो भवति । परिपक्वेन्द्रियो भवति । उपायज्ञो न क्षिप्राभिज्ञो भवति । तत्र परिपक्वेन्द्रियो, भवत्युपायज्ञो, न साततिको, न कृतपरिचयः । न तावत्कृतस्वार्थो भवति । कृतकृत्यः । यश्च परिपक्वेन्द्रियो भवत्युपायज्ञः । साततिकः, कृतपरिचयश्च भवत्येवं स आराधको भवति । क्षिप्राभिज्ञश्च । कृतस्वकार्यश्च भवति कृत्यकृत्यः ॥

तत्र चत्वारो माराः संबहुलानि मारकर्माणि । (श्भ्_स्ह्३४४) वेदितव्यानि योगिना । योगप्रयुक्तेन । ते च परिज्ञाय परिवर्जयितव्याः । तत्र चत्वारो माराः । तद्यथा- स्कन्धमारः, क्लेशमारः, मरणमारः । देवपुत्रमारश्च । पंचोपादानस्कन्धाः स्कन्धमारः । त्रैधातुकावचराः क्लेशाः । तेषां तेषां सत्त्वानाम् । तस्मात्तस्मात्सत्त्वनिकायाः य(याद्य)न्मरणं कालक्रिया (श्भ्_स्ह्३४५) मरणमारः । योप्यकुशलपक्षप्रयुक्तस्य स्कन्धक्लेशमृत्युसमतिक्रमाय कामधातूपपन्नो देवपुत्रः । निश्चयप्राप्तः अन्तरायमुपसंहरति । व्याक्षेपकरणे । अयमुच्यते देवपुत्रमारः । तत्र यत्र च म्रियते । यश्चासौ मृत्युर्येन च मृत्युं नमयति, क्रामयत्यन्तरायिकेन वस्तुना [।] इत्येतदधिकृत्य चत्वारो मारा व्यवस्थापिताः ।

तत्र पञ्चसूपादानस्कन्धेषु जातेषु वर्द्धमानेषु म्रियते । क्लेशां(शान्)जनयत्यायत्यां जातश्च म्रियते । च्युतिश्च च्यवनता सत्वानां जीवितेन्द्रियनिरोधः । कालक्रिया स्वभाव एव मृत्युः । देवपुत्रमारश्च मरण समतिक्रमाय प्रयुक्तस्यान्तरायमुपसंहरति । येन नैव वा शक्नोति मरणधर्मतां समतिक्रमितुम् ॥ कालान्तरेण वा समतिक्रामति । तत्रावशगतो मारस्य भवति लौकिकमार्गवीतरागः पृथग्जनः ॥ इहस्थस्तत्रोपपन्नो वा, [अ]वशगतः । पुनर्यः अवीतरागः ।

तत्र यो वीतरागः (।) एव हस्तगतो यथाकामं करणीयः । वीतरागो वा पुनर्बद्धो मारबन्धनैः । अपरिमुक्तो मारपाशैर्यस्मात्स पुनरप्यागन्ती(न्ता) इमां (मं) धार्न्तुम् (धातुम्) ।

तत्र मारकर्माणि । यस्य कस्यचित्कर्मणो धर्मच्छन्दः समुत्पन्नो नैष्क्रम्योपसंहितः । कामग्रेधमधिपतिं (श्भ्_स्ह्३४६) कृत्वा प्रवर्त्तन्ते । वेदितव्यं मारकर्मै तदिति । इन्द्रियैर्गुप्तद्वारस्य विहरतः । यस्य रंजनीयेषु रूपेषु सहगत्वरसम्प्रष्टव्यधर्मेषु निमित्तग्राहितायामनुव्यंजनग्राहितायां चित्तं प्रस्कन्दति । वेदितव्यं मारकर्मैतदिति । एवं भोजनेषु मात्रज्ञस्य विहरतः प्रणीतेषु रसेषु छन्दरागमनुनयेन चित्तं प्रस्कन्दति । भक्तवैषम्ये एवं पूर्वरात्रापररात्रं जागरिकायो गमननुयुक्तस्य विहरतः । निद्रासुखे, शयनसुखे, पार्श्वसुखे चित्तं प्रस्कन्दति । वेदितव्यं मारकर्मैतदिति । तथा संप्रजानद्विहारिणो विहरतः । अभिक्रमप्रतिक्रमादिषु शिशुमुदारवर्णं रंजनीयं मातृग्रामं दृष्ट्वा अयोनिशो निमित्तग्राहेण चित्तं प्रस्कन्दति । लोकचित्राणि वा दृष्ट्वा चित्तं प्रस्कन्दति । बह्वर्थतां(तायां), बहुकृत्यतायां, चित्तं प्रस्कन्दति । तद्यथा गृहस्थप्रव्रजितैः संसर्गारामतायां, पापमित्रैः सह एकव्यवसितायां, दृष्ट्यनुमते चित्तं प्रस्कन्दति । वेदितव्यं मारकर्मैतदिति ॥ तथा बुद्धे, धर्मे, संघे, दुःखे, समुदये, निरोधे, मार्गे । इहलोके, परलोके कांक्षा विमतय उत्पद्यन्ते । वेदितव्यं मारकर्मैतदिति । अरण्यगतो वा, वृक्षमूलगतो वा, शून्यागारगतो वा, महान्तम्भयभैरवं पश्यत्यु[त्]त्रासकरं रोमहर्षणम् । ब्राह्मणवेषेण, वा मनुष्यवेषेण वा, अमनुष्यवेषेण वा, कश्चिदुपसंक्रम्यायोनिशः (।) (श्भ्_स्ह्३४७) शुक्लपक्षाद्विच्छिन्दयति । कृष्णपक्षे च समादापयति । वेदितव्यं मारकर्मैतदिति । यदा लाभसत्कारे चित्तंप्रस्कन्दति । मात्सर्ये महेच्छतायाम् । असन्तुष्टौ, क्रोधोपनाह (।) कुहनालपनादिषु । श्रमणालंकारविपक्षेषु धर्मेषु चित्तं प्रस्कन्दति । वेदितव्यं मारकर्मैतदिति । इतीमान्येवंभागीयानि मारकर्माणि वेदितव्यानि तानि चतुर्णां माराणां यथायोगम् ॥

तत्र चतुर्भिःकारणैः सम्यक्प्रयुक्तस्याप्यारंभो विफलो भवति । तद्यथा इन्द्रियसमुदागमेन । अनुलोमाववादेन । समाधिदुर्ब्बलतया च । इन्द्रियाणि चेन्न समुदागतानि । आनुलोमिकश्चाववादो भवति । समाधिश्च केवलवान् । एवमस्यारम्भो विफलो भवति । इन्द्रियाणि चेन्न समुदागतानि भवन्ति । अववादश्च नानुलोमिको भवति । समाधिश्च बलवान् भवति । एवमारम्भो विफलः । इन्द्रियाणि चेत्समुदागतानि । स अववादश्चानुलोमिको भवति । समाधिश्च दुर्बलो भवत्येवारंभा(वमारम्भो) विफलः । इन्द्रियाणि चेत्समुदागतानि भवन्ति । आनुलोमिकश्चाववादो भवति । समाधिश्च दुर्ब्बलो भवत्येव[मा]रम्भो विफलः । इन्द्रियाणि चेत्समुदागतानि भवन्ति । आनुलोमिकश्चाववादः । समाधिश्च बलवानेवम(श्भ्_स्ह्३४८)स्यारम्भः सफलो भवत्येभिस्त्रिभिः कारणैर्विफलो भवति । त्रिभिरेव कारणैः सफलः ॥ उद्दानम् ॥

पुद्गलास्तद्व्यवस्थानमथो आलम्बनेन च ।
अववादश्च शिक्षा च तथा शिक्षानुलोमिका[ः] [॥]
योगभ्रंशश्च योगश्च मनस्कारश्च योनिशः ।
करणीयं भावना च फलं पुद्गलपर्यायः ॥
मारश्च मारकर्माणि आरम्भो विफलो भवेत् ॥
॥ योगाचारभूमौ श्रावकभूमिसंगृहीतायां द्वितीयं योगस्थानम् ॥


(श्भ्_स्ह्३४९)
(श्भ्_स्ह्३५०)
(श्भ्_स्ह्३५१)

इइइ. तृतीयं योगस्थानम्

एवं कृते पुद्गलव्यवस्थाने, आलम्बनव्यवस्थाने, यावद्भावनाफलव्यवस्थाने आत्मकामेन पुद्गलेन स्वार्थमनुप्राप्तुकामेन आदिकर्मिकेन (ण) । तत्प्रथमकर्मिकेन(ण) योगज्ञ, आचार्यो वा, उपाध्यायो वा, पुरुषो, गुरुस्थानीयो वा, चतुर्षु स्थानेषु स्मृतिमुपस्थाप्य उपसंक्रमितव्यः । अभिज्ञाभिप्रायेण, नोपालम्भचित्ततया, सगौरवेण, न समानस्तम्भतया । किंकुशलगवेषिणा । नात्मोद्भावनार्थम् । आत्मानं परांश्च कुशलमूलेन योजयिष्यामीति । न लाभसत्कारार्थमेवं च पुनरुपसंक्रम्य कालेनावकाशं कृत्वा, एकांसमुत्तरासंगं कृत्वा, दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य, नीचतरमेवासने निषद्य, सप्रतीशेन योग आयाचितव्यः । अहमस्मिं (स्मि) योगेनार्थी, योगमादिक्ष्वानुकम्पामुपादाय ।

इत्येवञ्च पुनरायाचितेन योगिना योगज्ञेन स आदिकर्मिकः, तत्प्रथमकर्मिकः योगमनसिकारे प्रयोक्तुकामः । (श्भ्_स्ह्३५२) श्लक्ष्णश्लक्ष्णैर्वचनपथैरुद्वेजयितव्यः । संप्रहर्षयितव्यः । प्रहाणे चानुशंसो वर्णयितव्यः । साधु, साधु, दुर्मुख, यस्त्वां (स्त्वं)प्रमादापगतायां प्रजायां, विषयनिम्नायां, विषयाध्यवसितायामप्रमादाय प्रयोक्तुकामः । अपायधारकप्रविष्टायामपायधारकान्निर्गन्तुकामः । रागद्वेषमोहविगतबन्धनायां बन्धनानि क्षेप्तुकामः । संसारमहादावीदुगमार्गप्रविष्टानां(यां) निस्तर्त्तुकामः । क्लेशकुशलमूलमहादुर्भिक्षप्राप्तायां कुशलमूलसुभिक्षमनुप्राप्तुकामः । क्लेशतस्करमहाभयानुगतायाम् । निर्वाणं क्षेममनुप्राप्तुकामः । क्लेशमहाव्याधिग्रस्तायां परममानो निर्वाणमनुप्राप्तुकामः । चतुरोत्मा(घा)नुस्रोतोपहतायामोघानुतर्त्तुकामः । महाविद्यानुकारप्रविष्टायां महाज्ञानालोकमनुप्राप्तुकामः । अन्य(त्र)त्वमायुष्मन्नेवं प्रयुज्यमानः । समोहं च राष्ट्रपिण्डं परिभोक्ष्यते । शास्तुर्वचनकरो भविष्यसि । अनिराकृतध्यायी, विपश्यनया समन्वागतः । बृंहयिता शून्यागाराणां स्वकाययोगमनुयुक्तः । अविगर्हितो विज्ञैः । सब्रह्मचारिभिस्तुल्यहिताय प्रतिपन्नः । परहिताय, बहुजनहिताय, लोकानुकम्पायै, (श्भ्_स्ह्३५३) अर्थाय, हिताय, सुखाय देवमनुष्याणामित्येवंभागीयैः श्लक्ष्णैर्वचनपथैः । संहर्षयित्वा (संहर्ष्य) प्रहाणे चानुशंसं दर्शयित्वा, चतुर्षु परिपृच्छास्थानीयेषु धर्मेषु परिप्रष्टव्यः । कश्चि(च्चि)दायुष्मानेकान्तेन बुद्धशरणं गतो, धर्मं, संघं, नो चेतोबहिर्धान्यं शास्तारं वा, दक्षिणीयम्वा संजानाति, कच्चित्ते आदिपरिशोधिताद्ब्रह्मचर्यस्य भावनायै शीलं च ते सविशुद्धं, दृष्टिश्च ऋज्वी कच्चित्ते आर्यसत्यानामुद्देशविभंगमारम्य धर्मः श्रुतश्चोद्गृहीतश्च । अल्पो वा, प्रभूतो वा, कच्चित्ते निर्वाणा धिमुक्तं चित्तम् । निर्वाणाभिप्रायश्च प्रव्रजितः ।

सचेत्पृष्ट ओमिति प्रजानाति । तत उत्तरि चतुर्षु स्थानेषु चतुर्भिः कारणैः समन्वेषितव्यः । प्रणिधानतः समन्वेषितव्यः । गोत्रत, इन्द्रियतः । चरिततश्च समन्वेषितव्यः कथया, चेष्टया, चेतः पर्यायस्थानेन पर्येषितव्यः ।

तत्र कथं पृच्छया प्रणिधानतः समन्वेषितव्यः । एवं परिप्रष्टव्यः । कुत्रायुष्मान् कृतप्रणिधान (श्भ्_स्ह्३५४) इति । श्रावकयाने, प्रत्येकबुद्धयाने महायाने [।] (श्भ्_स्ह्३५५) स यत्र यत्र कृतप्रणिधानो भविष्यति । त चै(त्रै)वात्मानं व्याकरिष्यति । एवं पृच्छया प्रणिधानतः समन्वेषितव्यः ।

कथं पृच्छया गोत्रमिन्द्रियं चरितं च [।] समन्वेषितव्यम् । स एवं परिप्रष्टव्यः । आयुष्मानात्मनो गोत्रम्वा, इन्द्रियम्वा, चरितं वा [।] किं गोत्रोहम् । कीदृशानि मे इन्द्रियाणि मृदूनि, मध्यानि, तीक्ष्णानि, किं रागचरितः । अथ द्वेषचरितः । एवं तावद्वितर्कविचारित (विचारचरित) इति । स चेत्स प्राज्ञो भवति । पू(पौ)र्वापर्येण चामुनो गोत्रमिन्द्रियं, चरितञ्चोपलक्षितं भवति । निमित्तीकृतं [।] तञ्चै(च्चैव)व व्याकरोति । स चेत्पुनर्युक्तो भवति । न चानेन पौर्वापर्येण यावन्निमित्तीकृतं भवति । ततश्चरितं चोपलक्षितं भवति । स पृष्टो न व्याकरोति । तस्य तत उत्तरकालं कथया तावत्त्रीणि समन्वेषितव्यानि । तस्य पुरस्ताच्छ्रावकयानप्रतिसंयुक्ता (श्भ्_स्ह्३५६) कथा करणीया । चित्रैर्गमकैधुरैर्वचनपथैःस तस्यां कथायां कथ्यमानायां स चेच्छ्रावकगोत्रो भवत्यत्यर्थं तया कथया प्रीयते । हृष्यते, आनन्दीजातः, सौमनस्यजातो भवति । (न) प्रसीदति नाधि (अधि)मुच्यते । महायानप्रतिसंयुक्तायाम्वा पुनः कथायां कथ्यमानायां यो महायानगोत्रः सोऽत्यर्थं प्रीयते । हृष्यते । यावत्प्रसीदत्यधिमुच्यते । श्रावकप्रत्येकबुद्धस्तु न तथा । स चेत्पुनः मृद्विन्द्रियो भवति । सोऽत्यर्थञ्च प्रीयते । धर्मस्य चार्थस्य चोपलक्षणाय । उद्ग्रह्णाय, प्रतिवेधाय च । मध्येन्द्रियो न, तीक्ष्णेन्द्रियस्तु । आशु धर्म चोपलक्षयत्युद्गृह्णाति । प्रतिविध्यति गम्भीरायामपि कथायां कथ्यमानायाम् । स चेत्पुनारागचरितो भवति । स प्रसदनीयायां कथायां कथ्यमानाया मत्यर्थं प्रसीदति रमते । का (या)व त(द्)ध्यानं प्रविशति । चाप्ता च मग्रु (अश्रु?) प्रपातं च स्निग्धसन्तानतां, मृदुचित्ततां, द्रवचित्ततां चोपदर्शयति । सचेद्द्वेषचरितो भवति । निर्वेधिकायां कथायां कथ्यमानायां निर्वाणप्रतिसंयुक्तायां निरामिषमु[त्]त्रस्य संत्रासमापद्यते । यथा मृद्विन्द्रियस्योक्तं तथात्रापि वेदितव्यम् । स चेत्स धर्मानुचरितो भवति । जानात्यर्थं शुश्रूषते । न श्रोत्रमवदधाति । न तथा प्रज्ञाचित्तमुपस्थापयति । (श्भ्_स्ह्३५७) आवर्जितोऽपि न तथा सानुकारमनुप्रयच्छति । स चेत्पुनर्विचरितो (र्विचारानुचरितो) भवति । तस्य स्ववहितस्यापि चित्तं विक्षिप्यते । दुर्गृहीतग्राही भवति । न दृढं गृह्णाति । न स्थिरं, उद्गृहीतञ्च नाशयति । न पुन[ः] कय(थ)या परिपृच्छन कश्च भवति । एवं कथया । गोत्रमिन्द्रियं चरितं च समन्वेषितव्यम् । कथं चेष्टया [।] यानि पूर्वोक्तानि लिंगानि । श्रावकगोत्रस्य, रागचरितानां च पुद्गलानां तानि चेष्टेत्युच्यते । तया च चेष्टया यथायोगं गोत्रमिन्द्रियं चरितं च समन्वेषितव्यम् ।

तत्र कथं चेतःपर्यायज्ञानेन गोत्रेन्द्रियचरितानि समन्वेषितव्यानि । यथापि स योगी योगज्ञो लाभी भवति चेतः पर्यायज्ञानस्य [।] स तेन परचित्तज्ञानेन गोत्रमिन्द्रियं, चरितं च यथाभूतं प्रजानाति । (श्भ्_स्ह्३५८) एतानि चत्वारि स्थानान्येभिश्चतुर्भिः कारणैस्समन्वेष्य पञ्चसु स्थानेषु विनयते । तद्यथा समाधिसंभाररक्षोपचये, प्राविवेक्ये, चित्तैकाग्रतायाः(यां), आवरणविशुद्धौ, मनस्कारभावनायां च । तत्र समाधिसंभाररक्षोपचयः यावता शीलसम्वरेण समन्वागतो भवति । तत्र
चाप्रमादविहारी भवत्यपपरिणाय बुद्धानुशिष्टस्य च बुद्धानुज्ञातस्य पुद्गलस्य, शीलस्कन्धस्य शिक्शापदप्रतिपत्त्या वीर्यं न स्रन्स (स्रंस)यति । एवमयमविगताच्छीलप्रतिसम्वराच्छि क्षामार्गान्न परिहीयते । अनधिगतं च शिक्षामार्गमधिगच्छति । यथा शीलसम्वर एवमिन्द्रियसम्वरः, भोजने मात्रज्ञता, पूर्वरात्रापररात्रं जागरिकानुयोगः, संप्रजानद्विहारिता, एवं यावच्छ्रमणालंकार इति । यस्य यस्य संभारपरिगृहीतस्य धर्मप्रविभागस्य लाभी भवति । स तं वा रक्षत्युत्तरि (रं) च प्रविभागस्य पारिपूरये । यथोक्ताद्भूराधिककसमुदाचाराय [च्]छन्दजातो विहेरयु(रेत्) मु(मू)कजात आरुब्धवीर्यश्चायमुच्यते समाधिसंभाररक्षोपचयः । स एवं हानभागीयांश्च धर्मान् विरज्यति, शेषभागीयांश्च धर्मान् प्रतिषेवमाणः प्रविविक्तविहारी भवति ।

(श्भ्_स्ह्३५९)
प्राविवेक्यं कतमत् । या स्थानसम्पदीर्यापथसम्पत् । तत्र स्थानसम्पत्तद्यथा । अरण्यम्वा, वृक्षमूलम्वा, शून्यागारम्वा-तत्र पर्वतकन्दरं वा, गिरिगुहा वा, पलालपुंजानि वा शून्यागारमित्युच्यते । तत्र वनप्रस्थं वृक्षमूलमित्युच्यते । तत्राभ्यवकाशं, श्मशानं, प्रान्तश्च शयनासनमरण्यमित्युच्यते । तदिदमभिसमस्य स्थानं वेदितव्यम् । यदुतारण्यवृक्षमूलशून्यागारपर्वतगिरिगुहापलालपुंजाभ्यवकाशश्मशानवनप्रस्थानि प्रान्तानि शयनासनानि । स्थानसम्पत्पुनः पञ्चविधा । इह स्थानमादित एवाभिरूपं भवति । दर्शनीयं प्रासादिकमारामसम्पन्नं, वनसम्पन्नं, पुष्करिणीसम्पन्नं, शुभं, रमणीयं, नोत्कूलनिकूलं, न स्थाणुकण्टकधानम् । न बहुपाषाणशर्करकपालम् । यत्रास्य दृष्टवा चित्तमभिप्रसीदति । वासाय, प्रहाणाय, प्रयोगाय । हृष्टचित्तः । प्रमुदितचित्तः । प्रहाणं प्रदधाति इयं प्रथमा स्थानसम्पत् । पुनरयं (रिदं) न दिवा अल्पविलोकं भवति । रात्रावल्पशब्दवन्यनिर्घोषमल्पदंशमशकवातातपसरीसृपसंस्पर्शमियंद्वितीया स्थानसम्पत् । यत्पुनरपरं सिंहव्याघ्रद्वीपितस्करपरचक्रमनुष्यामनुष्यभयभैरवापगतंभवति । यत्र विश्वस्तो निःशंकितमानसः । सुखं स्पर्शं विहरति । इतीयं तृतीया स्थानसम्पत् । (श्भ्_स्ह्३६०) पुनरपरं ये ते आनुलोमिका जीवितपरिष्काराश्ची वरादयः । ते [अ]त्राल्पकृच्छ्रेण सम्पद्यन्ते । येनायं पिण्डकेन न क्लाम्यति । यत्रासम्विधान इयं चतुर्थी स्थानसम्पत् । पुनरपत्रं(रं) कल्याणमित्रपरिगृहीतं भवति । तद्रूपा अत्र विज्ञाः सब्रह्मचारिणः प्रतिवसन्ति । येस्याकृतानि नोत्तानीकुर्वन्ति । गंभीरं चार्थपदं प्रज्ञया प्रतिविध्य सुष्ठु च प्रकाशयन्ति । ज्ञानदर्शनस्य विशुद्धये । इयं पञ्चमी स्थानसम्पत् ।

तत्र कतमा ईर्यापथसम्पत् । दिवा चंक्रमेण वातिनामयति । निषद्य यावता एवं रात्र्याः प्रथमं यामं, मध्यमे न (च) यामे दक्षिणेन पार्श्वेन (ण) शय्यां कल्पयति । पश्चिमे च यामे लघुलघ्वेवोत्तिष्ठते । चंक्रमनिषद्यया वातिनामयति । तस्मिन्निदं सम्पन्ने शयनासने, तथा बुद्धानुज्ञाते मञ्चे वा, पीठे वा, तृणे वा, संस्तरणे वा निषीदति । पर्यङ्कमाभुज्य तु । केन कारणेन पञ्च कारणानि समनुपश्यन् संपिण्डितेन कायेन प्रश्रब्धिरुत्पद्यते । प्रश्रब्ध्युत्पत्तये अनुकूलोयमीर्यापथ (श्भ्_स्ह्३६१) इति । तथा चारिका [का]लं निषद्ययाशक्तो व्यतिनामयितुम् । ना चास्यानेनेर्यापथेन कायक्लेशो भवति । तथा असाधारणोयमीर्यापथोन्यतीर्थिकैः । परप्रवादिभिः । तथा परे अनेनेर्यापथेन निषण्णं दृष्ट्वा अत्यर्थमभिप्रसीदन्ति बुद्धैश्च बुद्धश्रावकैश्चायमीर्यापथो निषेवितश्चानुज्ञातश्च [।] इमानि पंचकारणानि । संपश्यति निषीदति । पर्यङ्कमाभुज्य ऋजुं कायं प्रणिधाय ।

तत्र कतमा कायसंज्ञता । कायस्य स्पष्टोच्छ्रितप्रणिहितता । चित्तेन न निःशोच्येन कुहनापगतेनार्जवेन । तत्र ऋजुना कायेन प्रगृहीतेन स्त्यानमिद्धं चित्तं न पर्यादाय तिष्ठति । निष्कुहकेन चित्ते बहिर्धा विक्षेपो न पर्यादाय तिष्ठति । प्रतिमुखां (खीं) स्मृतिमुपस्थाप्य ।

तत्र कतमा प्रतिमुखा(खी) स्मृतिः । यामुपस्थापयति योनिशो मनसिकारसंप्रयुक्ता स्मृतिः प्र[ति]मुखे (खी)त्युच्यते । सर्वकृष्णपक्षप्रमुखतया, प्रतिविलोमतया । अपि च समाधिनिमित्तालम्बना प्रतिभालम्बना स्मृतिः प्रतिमुखे (खी) त्युच्यते । सर्वसमाहितभूमिकालम्बनप्रमुखतया इयमुच्यते ईर्यापथसम्पत् ।

(श्भ्_स्ह्३६२)
व्यपकर्षः कतमः । आह । द्विविधः कायव्यपकर्षः । चित्तव्यपकर्षश्च । तत्र कायव्यपकर्षो यो गृहस्थप्रव्रजितैः सार्धमविहारिता ॥ तत्र चित्तव्यपकर्षः यः क्लिष्टमव्याकृतं च मनस्कारं च वर्जयित्वा । समाहितभूमिकं वा समाधिसंभारप्रायोगिकं वा मनस्कारं भावयति । कुशलमर्थोपसंहितमयमुच्यते चित्तव्यपकर्षः । तत्र स्थानसम्पत्या चेयमीर्यापथसम्पत् । यश्चायं कायव्यकर्षः । यश्च चित्तव्यपकर्षः (यश्चित्तव्यपकर्षस्)तदेकत्यमभिसंक्षिप्य प्राविवेक्यमित्युच्यते ।

तत्रैकाग्रता कतमा । आह । पुनः पुनः स्मृतिसभागालम्बना प्रवाहानवद्यरतियुक्ता । चित्तसन्ततिर्या सा समाधिरित्युच्यते । कुशलचित्तैकाग्रतापि [।] किं पुनः पुनरनुस्मरति । आह । ये धर्मा उद्गृहीता[ः] श्रुता, या चाववादानुशासनी प्रतिलब्धा भवति । गुरुभ्यस्तामधिपतिं कृत्वा समाहितभूमिकनिमित्तं संमुखीकृत्य तदालम्बनां प्रवाहयुक्तां स्मृतिमनुवर्त्तयति । (श्भ्_स्ह्३६३) उपनिबध्नाति । तत्र कतमत्सभागालम्बनम् । यत्किंचित्समाहितभूमिकमालम्बनमनेकविधम् । बहुनानाप्रकारम् । येनालम्बने चित्तं परं समाहितमिदमुच्यते । सभागमालम्बनं [।] कस्यैतत् । सभागं [।] आह । क्षयस्य वस्तुनः प्रतिरूपकमेतत्तस्मात्सभागमित्युच्यते । या पुनरभिक्षयाकारानिछिद्रा (निश्छिद्रा) निरन्तरा स्मृतिः प्रवर्तते । तेनालम्बनेन सततं च सत्कृत्य चेयं प्रवाहयुक्तता । यत्पुनस्तस्मिन्नेवालम्बने अभिरतस्यासंक्लिष्टविहारिता । वाहिमार्गता स्मृतिरियमवद्यरतियुक्तता । तेनाह पुनः पुनरपरानुस्मृतिसभागालम्बनप्रवाहानवद्यरतियुक्ता चित्त सन्ततिः । समाधिरिति सा खल्वेषा एकाग्रता शमथपक्ष्या विपश्यनापक्ष्या च । तत्र या नवाकारायां चित्तसंतथौ (स्थितौ) वा [सा] शमथपक्ष्या, या पुनश्चतुर्विधे प्रज्ञाधारे सा विपश्यनापक्ष्या ।

तत्र नवाकारा चित्तस्थितिः कतमा । इह भिक्षुरध्यात्ममेव चित्तं स्थापयति । संस्थापयति । अवस्थापयत्युपस्थापयति । दमयति । शमयति । (श्भ्_स्ह्३६४) व्युपशमयति । एकोतीकरोति । समाधत्ते [।]

कथं स्थापयति । सर्वबाह्येभ्य आलम्बनेभ्यः प्रतिसंक्षिप्याध्यात्ममविक्षेपायोपनिबघ्नाति । यत्तत्प्रथमोपनिबद्धो विक्षेपाय इयं स्थापना ।

कथं संस्थापयति । तत्प्रथमोपनिबद्धं यदेव चित्तं तद्ब[ल]मौदारिकमसंस्थितमपरिसंस्थितं तस्मिन्नेवालम्बने प्रवर्द्धनयोगेन प्रसादयोगेन साभिनिग्रहं सूक्ष्मीकुर्वनभिसंक्षिपन् संस्थापयति ।

कथमवस्थापयति । स चेच्चित्तमेव स्थापयतः । स्मृतिसंप्रमोषाद्बहिर्धा विक्षिप्यते । स पुनरपि तथैव प्रतिसंहरन्ति (ति) । एवमे(म)व स्थापयति ।

कथं दमयति । यैर्निमित्तैरस्य तच्चित्तं विक्षिप्यते । तद्यथा गत्वरसंस्प्रष्टव्यनिमित्तै रागद्वेषमोहस्त्रीपुरुषनिमितैश्च [।] तत्रानेन पूर्वमेवादीनवसंज्ञोद्गृहीता भवति । तामधिपतिं कृत्वा तेषु निमित्तेषु तस्य चित्तस्य प्रसरं न ददाति । एवं दमयति ॥

कथं शमयति । यैर्वितर्कैः कामवितर्कादिभिः । यैश्चोपक्लेशैः । काम[च्]छन्दनिवरणादिभिः । तस्य चेतसः संक्षोभो भवति । तत्रानेन पूर्वमेवादीनवसंज्ञोद्गृहीता भवति । तामधिपतिं कृत्वा तस्य चेतसः । तेषु वितर्कोपक्लेशेषु । प्रसरं न ददात्येवं शमयति ।

(श्भ्_स्ह्३६५)
कथं व्युपशमयति । स्मृतिसम्प्रमोषात्तदुभयसमुदाचार [रे] सत्युत्पन्नोत्पन्नान् वितर्कोपक्लेशान्नाधिवासयति । प्रजहाति । एवं व्युपशमयति ।

कथमेकोतीकरोति । साभिसंस्कारं निच्छि(श्छि)द्रं निरन्तरं समाधिप्रवाहमा (म)वस्थापयत्येव मेकोतीकरोति ।

कथं समाधत्ते । आसेवनान्वयाद्भावनान्वयाद्बहुलीकारान्वयादनाभोगवाहनम् । स्वरसवाहनम् । मार्गं लभते । येनानभिसंस्कार (रे)वा (णा) नाभोगेनास्य चित्तसमाधिप्रवाहः । अविक्षेपे प्रवर्त्तते । एवं समाधत्ते ।

तत्र षड्विधबलैर्नवाकारा चित्तस्थितिः सम्पद्यते । तद्यथा श्रुतचिन्ताबलेन । स्मृतिबलेन । वीर्यबलेन । (श्भ्_स्ह्३६६) परिचयबलेन च ।

तत्र श्रुतचिन्ताबलेन तावत् । यच्छ्रुतं, या चिन्ता [ता]मधिपतिं कृत्वा चित्तमादित आलम्बने स्थापयति । तत्रैव च । प्रबन्धयोगेन संस्थापयति । तत्रोपनिबद्धं चित्तं स्मृतिबलेन प्रतिसरन्नवस्थापयति । उपस्थापयति । ततः संप्रजन्यबलेन निमित्तवितर्कोपक्लेशेषु प्रसरमननुप्रयच्छन् दमयति । शमयति । वीर्यबलेन । तदुभयसमुदाचारं च नाधिवासयति । एकोतीकरोति । परिचय बलेन समाधत्ते [।]

तत्र नवाकारायां चित्तस्थितौ चत्वारो मनस्कारा वेदितव्याः । बलवाहनः स[च्]छिद्रवाहनो निछि(श्छि)द्रवाहनः । अनाभोगवाहनश्च । तत्र स्थापयतः, संस्थापयतो बलवाहनो मनस्कारः । अवस्थापयत, उपस्थापयतो, दमयतः, शमयतः, व्युपशमयतः, सच्छिद्रवाहनो मनस्कारः । एकोतीकुर्वतो निछि(श्छि)द्रवाहनो मनस्कारः । समादधतः । अनाभोगवाहनो मनस्कारो भवति । एवमेते मनस्कारायां चित्तस्थितौ शमथपक्ष्या भवन्ति । यः पुनरेवमध्यात्मं चेतःशमथस्य लाभी विपश्यनायां प्रयुज्यते । तस्यैत एव चत्वारो मनस्कारा विपश्यनापक्ष्या भवन्ति ॥

(श्भ्_स्ह्३६७)
चतुर्विधा विपश्यना । कतमा । भिक्षुर्धर्मान् विचिनोति । प्रविचिनोति । परिवितर्कयति । परिमीमान्सा(मांसा)मापद्यते । यदुताध्यात्मं चेतःशमथं निश्रित्य [।]

कथं च विचिनोति । चरितविशोधनं वा आलम्बनम् । कौशल्यालम्बनं वा, क्लेशविशोधनं वा । यावद्भाविकतया विचिनोति । यथावद्भाविकतया । प्रविचिनोति । सविकल्पेन मनस्कारेण प्रज्ञासहगतेन । निमित्तीकुर्वन्नेव परिवितर्कयति । सन्तीरयत्यधिमीमांसामापद्यते ।

सा खल्वेषा विपश्यना त्रिमुखी षड्वस्तुप्रभेदालम्बना वेदितव्या(ः) । कतमानि त्रीणि (।) मुखानि [।] विपश्यना यन्निमित्तमात्रानुचरिता । विपश्यना पर्येषणानुचरिता, पर्येषि ता च । प्रत्यवेक्षणानुचरिता ।

तत्र निमित्तमात्रानुचरिता [।] येन (यया) (श्भ्_स्ह्३६८) श्रुतमुद्गृहीतम् । धर्ममववादस्यासमाहितभूमिकेन मनस्कारेण मनसि करोति । न चिन्तयति । न तुलयति । नोपपरीक्षते । इयन्निमित्तमात्रानुचरिता भवति ।

यदा पुनश्चिन्तयति । तीरयति तुलयत्युपपरीक्षते । तदा पर्येषणानुचरिता भवति ।

यदा पुनस्तीरयित्वा उपपरीक्ष्य यथा व्यवस्थापितमेव प्रत्यवेक्षते । तदा प्रत्यवेक्षणानुचरिता भवतीयं त्रिमुखा (खी) विपश्यना ।

कतमानि षड्वस्तुप्रभेदालम्बनानि । स पर्येषमाणः । षड्वस्तूनि पर्येषते । अर्थं, वस्तु, लक्षणं, पक्षं, कालं, युक्तिञ्च पर्येष्यन्नेतान्येव (पर्येषमाण एतान्येव) प्रत्यवेक्षते ।

कथमर्थं पर्येषते । अस्य भाषितस्यायमर्थो [अ]स्य भाषितस्यायमर्थ (त) इत्येवमर्थं पर्येषते ।

कथं वस्तु पर्येषते । द्विविधं वस्तु [।] आध्यात्मिकं बाह्यञ्च [।] एवं वस्तु पर्येषते ।

कथं लक्षणं पर्येषते । द्विविधम् । स्वलक्षणं सामान्यलक्षणं च । एवं लक्षणं पर्येषते ।

(श्भ्_स्ह्३६९)
कथं पक्षं पर्येषते । द्विविधः पक्षः कृष्णपक्षः शुक्लपक्षः [।] कृष्णपक्षं दोषतः । आदीनवतः । शुक्लपक्षं पुनर्गुणतोऽनुशंसतश्चैवं [पक्षं] पर्येषते ।

कथं कालं पर्येषते । त्रयः कालाः [।] अतीतोऽनागतो वर्तमानश्च । एवमेतदभूदतीतेध्वनि एवमेतद्भविष्यति । अनागतेध्वनि । एवमेतदेतर्हि । प्रत्युत्पन्नेध्वनीत्येवं कालं पर्येषते ।

कथं युक्तिम्पर्येषते । चतस्रो युक्तयः ।[।] अपेक्षायुक्तिः, कार्यकारणयुक्तिः, उपपत्तिसाधनयुक्तिर्धर्मतायुक्तिश्च ॥ तत्रो (त्रा) पेक्षायुक्त्या संवृतिं च संवृतितः । परमार्थं च परमार्थतः । निदानं च निदानतः । पर्येषते । काय (र्य) कारणयुक्त्या कारित्रं धर्माणां पर्येषते । अयन्धर्मः, इदं कारित्रं, अयमिदं कारित्र इति [।] उपपत्तिसाधनयुक्त्या त्रीणि प्रमाणानि पर्येषते । आप्तागममनुमानं प्रत्यक्षं च [।] किमस्ति (।) अत्रात्मा, नास्तीति किं प्रत्यक्षमुपलभ्यते न वेति, किमनुमानेन प्रयुज्यते न वेति । तत्र धर्मतायुक्तया तथाभूततां धर्माणां प्रसिद्धधर्मतामचिन्त्यधर्मतामवस्थितधर्मतामधिमुच्यते, न चिन्तयति । न विकल्पयत्येवं युक्तिम्पर्येषते ।

(श्भ्_स्ह्३७०)
इयं षड्वस्तुप्रभेदालम्बना(नि) त्रिमुखा (खी)विपश्यना समासतः । अनया सर्वविपश्यनासंग्रहः ।

केन पुनः कारणेन षट्प्रभेदा व्यवस्थापिता[ः ।] आह । त्रिविधमवबोधमधिकृत्य भाषितार्था (न)वबोधम्वस्तुपर्येषन्ततावबोधम् । यथाभूतावबोधं च । तत्रार्थपर्येषणया भाषितार्थावबोधः । वस्तुपर्येषणया, स्वलक्षणपर्येषणया च वस्तुपर्येषन्ततावबोधः । तत्र सामान्यलक्षणपर्येषणया, पक्षपर्येषणया, कालयुक्तिपर्येषणया यथाभूतावबोधः । एतावच्च योगिना ज्ञेयम् । यदुत भाषितस्यार्थः, ज्ञेयस्य वस्तुनः यावद्भाविकता । यथावद्भाविकता च । तत्राशुभो (भे) प्रयुक्तो योगी षड्वस्तूनि पर्येषते । आह [।] अशुभाधिपतेयं धर्मं श्रुतमुदगृहीतमधिपतिं कृत्वा समाहितभूमिकेन मनस्कारेणैवमर्थप्रतिसंवेदी भवति । अशुभया अशुभ्येतत्प्रतिरूपमेत्प्रतिक(घ)मेतद्दुर्गन्धमामगन्धमिति । (श्भ्_स्ह्३७१) एभिराकारैरेवंभागीयैस्तस्यैवाशुभाधिकृतस्य धर्मस्य पूर्वश्रु तस्यार्थप्रतिसंवेदना [।] एवमशुमतयार्थं पर्येषते ।

कथं वस्तु पर्येषते [।] स एवमर्थप्रतिसंवेदी तामशुभतां द्वयोर्भावयोर्व्यवस्थापितां पश्यत्यध्यात्मम्बहिर्धा च ।

कथं स्वलक्षणं पर्येषते । अध्यात्मं तावदन्तः कायगतामशुभतां प्रत्यशुभतामधिमुच्यते ॥ सन्त्यस्मिन्काये केशरोमाणि विस्तरेण यावन्मस्तकं मस्तकलुंगं प्रश्राव (प्रस्राव) इति । तां पुनरनेकविधामन्तः कायगतामशुभतां द्वाभ्यां धातुभ्यां संगृहीतामधिमुच्यते । पृथिवीधातुना, अब्धातुना च [।] तत्र केशरोमाण्युपादाय । यावद्यकृत्पुरीषा पृथिवीधातुरधिमुच्यते । अश्रुद्वेदनामुपादाय यावत्प्रस्रावादब्धातुमधिमुच्यते । बहिर्धा वा पुनर्बाह्यगतामशुभतां विनीलकादिभिराकारैरधिमुच्यते । तत्र विनीलकमधिमुच्यते । यदनेन मृतकुणपं स्वयं वा दृष्टं भवति । पुरतो वा श्रुतं परिकल्पितं वा, पुन[ः] स्त्रिया वा, पुरुषस्य वा, मित्रस्य वा, अमित्रस्य वा, उदासीनस्य वा । हीनम्वा, मध्यम्वा, प्रणीतम्वा, दह्रस्य वा, मध्यस्य वा, वृद्धस्य वा [।]

तत्र निमित्तमुद्गृह्य एकाहमृतं प्रगडितशोणितमयं प्राप्तपूयभावं विनीलकमित्यधिमुच्यते । द्व्यहमृतं (श्भ्_स्ह्३७२) प्राप्तपूयभावम् । असंजातकृमिविपूयकमित्यधिमुच्यते । सप्ताहमृतं संजातकृमि आध्मातं च विमद्रामकं व्याध्मातकमित्यधिमुच्यते काकैः कुरलै(रै)ः खाद्यमानं गृद्धैः श्वभिः श्रृगालैर्विखादिकमित्यधिमुच्यते । विरवादितम्वा पुनरपगतत्वङ्मान्सशोणितं स्नायुमात्रोपनिबद्धं विलोहितकमित्यधिमुच्यते । दिशोदिशमंगप्रत्यंगेषु विक्षिप्तेषु विश्लेषितेषु समान्से(मांसे)षु निर्मान्से (मांसे)षु किंचिच्छिष्टमान्से(मांसे)षु विक्षिप्तकमित्यधिमुच्यते ॥ अन्यतो वा हस्तास्थीन्यन्यतः पादास्थीन्यन्यतो जान्वस्थीन्यूर्वस्थीनि, बाह्वस्थीनि, प्रबाह्वस्थीनि । पृष्ठा(ष्ठी) वंशः । हनुनक्रं दन्तमाला मध्यतः । शिरस्कपालं दृष्ट्वान्यास्थीन्यधिमुच्यते । यदा पुनः सम्बद्धमरिक्षकरंकमविशीर्णं मनसि करोति । केवलं निमित्तग्राही भवति । न तु तस्यांग प्रत्यंगेषु व्यंजनग्राही । एवं शंकलिकामधिमुच्यते । यदा [त्वनु] व्यंजनग्राही भवति । तदास्थिशंकलिकामधिमुच्यते । अपि च द्वे शंकलिके देहशंकलिका, प्रत्यंगशंकलिका च । तत्र देह शंकलिका श्रोणीकटाहमुपादाय । पृष्ठीवंशो यावत्, यत्र शिरस्कपालं प्रतिष्ठितम् । प्रत्यंगशंकलिका सम्बद्धानि बाह्वस्थीनि च सम्बद्धानि । तत्र या देहशंकलिका च । तत्र देहशंकलिका श्रोणीकटाहमुपादाय । (श्भ्_स्ह्३७३) पृष्ठीवंशो यावत्यत्र शिरस्कपालं प्रतिष्ठितम् । प्रत्यंगशंकलिकासम्बद्धानि बाह्वस्थीनि । ऊरुजंघास्थीनि च । तत्र या देहशंकलिका । सा शंकलिकैवोच्यते । या पुनः प्रत्यंगशंकलिका सा अस्थिशंकलिकेत्युच्यते ।

अपि च द्वौ शंकलिकायानिमित्तग्राहौ चित्रकृतायाः पाषाण काष्ठशादकृताया वा । भूतशंकलिकाया वा । अभूतशंकलिकाया वा । निमित्तं मनसिकरोति । तदाशंकलिकामेवाधिमुच्यते नास्थिशंकलिकाम् । यदा पूनर्भूतशंकलिकाया निमित्तं मनसि करोति । तदास्थिशंकलिकामेवाधिमुच्यते । नास्थिशंकलिकाम् । (यदा पुनर्भूतशंकलिकाया निमित्तं मनसि करोति । तदास्थिशंकलिकामधिमुच्यते) । स खल्वेष बाह्याया वर्णनिभाया उपादायरूपगतायास्त्रिविधो (।) विपरिणामः । स्वरसविपरिणामः । परकृतस्तदुभयपक्ष्यश्च ।

तत्र विनीलकमुपादाय । यावद्व्याध्मातकाः (कात्) स्वरसविपरिणामः । तत्र विखादितकमुपादाय यावद्विक्षिप्तकात्परकृतो विपर(रि)णामः । तत्रास्थिका (वा), शंकलिका वा इत्ययमुभयपक्ष्यो विपरिणाम इति । य एवं यथाभूतं प्रजानाति । (श्भ्_स्ह्३७४) बहिर्धा अशुभतामाकारत एवं बहिर्धा अशुभतायाः स्वलक्षणं पर्येषते ।

कथमशुभताया[ः] (।) सामान्यलक्षणं पर्येषते । यथा चाध्यात्मं बहिः कायस्याशुभावर्णनिभया अपरिणता यावद्बहिर्धा बहिः कायस्याशुभा वर्णनिभा विपरिणता अध्यात्मिकया अशुभया वर्णनिभा समानधर्मतां तुल्यधर्मतामधिमुच्यते । इयमपि मे शुभा वर्णनिभा एवं धर्मिणीति । येऽपि केचित्सत्त्वा अनया शुभया वर्णनिभया समन्वागतास्तेषामपि साशुभायामेवं धर्मिणी तद्यथेयम्बाह्या ॥ एवं सामान्यलक्षणं पर्येषते ।

कथं पक्षं पर्येषते । तस्यैवं भवति । यदाह मस्या (अनयाशुभया वर्णनिभया एतामशुभमता (तां) यथाभूतमप्रजानन्नध्यात्मं वा बहिर्धा वा शुभायां वर्णनिभायां संरागमुत्पादयामि विपर्यास एव कृष्णपक्षसंगृहीतः । निःसरणधर्मः सदुःखः सविघातः सोपद्रवः सपरिदाहः । अतोनिदाना उत्पद्यन्ते । आयत्यां जातिजराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासाः । या पुनरस्यां शुभायाम्वर्णनिभायाम् । अशुभधर्मतानुगता यथाभूतानुपश्यना शुक्लपक्ष्या [।] एष धर्मः अदुःखः । अविघातः । यावदतो निदाना उपायासा निरुध्यन्ते । तत्र योयं (श्भ्_स्ह्३७५) कृष्णपक्षसमयो नाधिवासयितव्यः । प्रहातव्यो विशोधयितव्यः । शुक्लपक्ष्यः पुनरनुत्पन्न उत्पादयितव्यः । उत्पन्नस्य च स्थितिर्वृद्धिर्वैपुल्यता (विपुलता) करणीया । एवं पक्षं पर्येषते ।

कथं कालं पर्येषते । तस्यैवं भवति । येयमध्यात्मं [अ]शुभा वर्णनिभा सेयम्वर्त्तमानमध्वानमुपादाय या पुनरियं बहिर्धा अशुभा वर्णनिभा इयमपि वर्तमान (ता)मेवाध्वानमुपादाय । अतीतं पुनरध्वानमुपादाय । शुभा बभूव । सैषा तावदतीतमध्वानमुपादाय शुभा सती तद्यथा मे एतर्हि । वर्तमानमध्वानमुपादाय । एवमानुपूर्व्या एतर्हि वर्तमानमुपादाय अशुभा संवृत्ता, सा मे इयं [अ]शुभा वर्णनिभा वर्त्तमानमध्वानमुपादायाशुभा सती । अनागते [अ]ध्वन्यशुभा न भविष्यतीति । नेदं स्थानं विद्यते । तद्यथैषा बाह्या एव[ं] वर्तमानमध्वानमुपादाय । इति ह्यतीतानागतप्रत्युत्पन्नेष्वध्वसु अयमपि मे काय एवंभावी, एवंभूत, एतां च धर्मतामनतीत इत्येवं कालं समन्वेषते ।

कथं युक्तिं समन्वेषते । तस्यैवं भवति । नास्तीति स कश्चिदात्मा वा, सत्त्वो वाध्यात्मं वा, बहिर्धावोपलभ्य[मानः] यः शुभो वा स्यादशुभो वा [।] (श्भ्_स्ह्३७६) अपि च रूपमात्रमेतत्कण्डवरमात्रमेतद्यत्रेयं संज्ञा समाज्ञा प्रज्ञप्तिर्व्यवहारः । शुभमिति वा अशुभमिति वा । अपि च-

आयुरूष्माथ विज्ञानं (।) यदा कायं जहत्यमी [।]
अपविद्धस्तदा शेते यथा काष्ठमचेतनम् ॥

तस्यास्य मृतस्य कालगतस्यानुपूर्वेण विपरिणता इमा अवस्थाः प्रज्ञायन्ते । यदुत विनीलकमितिवा यावदस्थिशंकलिकाया वा अयमपि मे कायः । पूर्वकर्मक्लेशविद्धः । मातापित्र्यशुचिसंभूत ओदनक(कु)ल्माषोपचितः । येन हेतुना, येन निदानेन इयं तावत्कालिकी शुभा वर्णनिभा । प्रज्ञायते । अन्तःकायः पुनर्नित्यं नित्यकालमध्यात्मं च बहिर्धा चाशुभा एवं संवृतिपरमार्थनिदानतः । अपेक्षायुक्तिं पर्येषते । तस्यैवं भवतीयमशुभता । एवमासेविता भाविता बहुलीकृता कामरागप्रहाणाय सम्वर्तते । कामरागश्च प्रहातव्यः । एवं कार्यकारणयुक्त्या समन्वेषते । तस्यैवं भवत्युक्तं हि भगवता । अशुभा आसेविता भाविता बहुलीकृता कामरागप्रहाणाय सम्वर्त्तत इत्ययं तावन्मे आप्तागमः । प्रत्यात्ममपि मे ज्ञानदर्शनं प्रवर्त्तते । अहमस्मि यथा यथा अशुभतां भावयामि, मनसि करोमि । तथा कामरागपर्यवस्थानमनुत्पन्नं च नोत्पद्यते । उत्पन्नं च प्रतिविगच्छति । आनुलोमिकोप्येष विधिरस्ति । (श्भ्_स्ह्३७७) कथमिदानीम्विपक्षं धर्मं मनसिकुर्वतः । तद्विपक्षालम्बनेन क्लेश उत्पद्यते । एवमुपपत्तिसाधनयुक्त्या पर्येषते । तस्यैवं भवति । प्रसिद्धा धर्मता खल्वेषा अचिन्त्यधर्मता । यदशुभा भावना कामरागस्य प्रहाणप्रतिपक्ष इति । सा च चिन्तयितव्या । न विकल्पयितव्या । अधिमोक्तव्या । एवं धर्मतायुक्त्या अशुभताम्पर्येषते । इयं तावदशुभाप्रयुक्तस्य त्रिमुखी षड्वस्तुप्रभेदालम्बना विपश्यना ।

कथं मैत्रीप्रयुक्तो विपश्यन्षड्वस्तूनि पर्येषते । मैत्र्यधिपतेयं धर्ममधिपतिं कृत्वा हितसुखाध्याशयगतस्य सर्वेषु सुखोपसंहाराधिमोक्षलक्षणा मैत्रीत्येतमर्थप्रतिसम्वेद्यर्थं पर्येषते । स एवमर्थप्रतिसंवेदी पुनर्विचिनोतीत्ययं मित्रपक्षोयममित्रपक्षोयमुदासीनपक्षः । सर्व एते पक्षाः परसन्तानपतितत्वाद्वाह्यं वस्त्वित्यधिमुच्यते । मित्रपक्षं वा अध्यात्मममित्रोदासीनपक्षं बहिर्धा एवं च वस्तुनि मैत्रीं समन्वेषते ।

स पुनर्विचिनोति । य एते त्रयः पक्षाः अदुःखा सुख(ता)ः । सुखकामास्ते सुखिता भवन्त्विति । तत्रोपकारलक्षणं मित्रम् । अपकारलक्षणममित्रम् । तदुभयपरीतलक्षणमुदासीनपक्षं (ण उदासीनपक्षः) । ये पुनरेते अदुःखासुखिताः पक्षाः सुखकामास्तेषां (श्भ्_स्ह्३७८) त्रिविधा सुखकामता प्रज्ञायते । एके कामसुखमिच्छन्त्येके रूपावचरं सप्रीतिकमेके निष्प्रीतिकम् । तत्र ये कामसुखेन विहन्यन्ते । अमित्रं तदुभयविपरीतलक्षणा(णं)तेन कामसुखिनो भवन्त्वनवद्येन [।] एवं सप्रीतिकेन निष्प्रीतिकेन च सुखेन वेदितव्यम् । एवं स्वलक्षणतो मैत्रीं समन्वेषते ।

स पुनः प्रविचिनोति । यश्च मित्रपक्षो, यश्चामित्रपक्षो, यश्चोदासीनपक्षः । तुल्यचित्तता तु मया करणीयेति । समचित्तता । तत्कस्य हेतोः । यस्तावन्मित्र[पक्ष]स्तत्र मे न दुष्करः । सुखोपसंहारः । योप्ययमुदासीनपक्षः । तत्रापि ये (मे) नातिदुष्करः । यस्त्वयममित्रपक्षः । (तत्रायममित्रपक्षः ।) तत्रातिदुष्करः । तत्र तावन्मया सुखोपसंहारः करणीयः । कः पुनर्वादः । मित्रपक्षे वोदासीनपक्षे वा । तत्कस्य हेतोः । नात्र कश्चिद्यः आक्रोशते वा, आक्रुश्यते वा । रोषयति वा, रोष्यते वा । भण्डयति वा, भण्ड्यते वा । ताडयति वा, ताड्यते वा । अन्यत्राक्षराण्येतानि रवन्ति । शब्दमात्र[ं] माषमात्रमेतदपि च तथा संभूतोयं कायो रूपी औदारिकश्चातुर्महाभूतिको यत्र मे स्थितस्येमे एवं रूपाः स्पर्शाः क्रामन्ति । यदुत शब्दसंस्पर्शा वा । (श्भ्_स्ह्३७९) पाणिलोष्ठदण्डशस्त्रसंस्पर्शा वा अय[ं] मे कायः । अनित्य, एतेपि स्पर्शा ये ते अपकारकास्तेप्यनित्याः । अपि च । सर्व एव सत्त्वा जातिजराव्याधिमरणधर्माणस्ते प्रकृत्यैव दुःखिता स्तन्मे प्रतिरूपं स्यात् । यद्यहं प्रकृतिदुःखितेषु सत्त्वेषु भूयो दुःखोपसंहारमेव कुर्यां, न सुखोपसंहारं तदमित्रो (त्रं) मित्रस्य कुर्याद्यदेते सत्त्वा आत्मनैवात्मनः कुर्वन्ति ।

अपि चोक्तं भगवता । नाहं तं सुलभरूपं समनुपश्यामि । योनेन दीर्घस्याध्वनोत्ययान्माता वा भू[त्] पिता वा, भ्राता वा, भगिनी वा, आचार्यो वा, उपाध्यायो वा, गुरुर्वा, गुरुस्थानीयो वेति । तदनेनापि पर्यायेणामित्रपक्ष एव[ं] मे [अ]मित्रपक्षः । न चात्र कस्यचित्परिनिष्पत्तिः, मित्राभित्रभावो, मित्रोपि (त्रमपि) च कालान्तरेणामित्रो (त्रं) भवति । अमित्रो (त्रम)पि मित्रीभवति । तस्मान्न सर्वसत्त्वेषु समचित्तता । समतादृष्टिः करणीया । तुल्यश्च हिताशयः, सुखाध्याशयः, सुखोपसंहारः । सुखोपसंहाराधिमोक्ष इति । एवं सामान्यलक्षणेन मैत्रीं समन्वेषते ।

स पुनः प्रविचिनोति । यो मे पापकारिषु सत्त्वेषु व्यापादः मरण एष धर्म इति विस्तरेण पूर्ववत् । यो वा पुनरयमेतर्ह्यव्यापादः अ (म)रण एष धर्म इति विस्तरेण पूर्ववत् । यो वा पुनरयमेतर्ह्यव्यापादः (श्भ्_स्ह्३८०) एवं मैत्र्या(ः) कृष्णशुक्लशुक्लपक्षं पर्येषते ।

स पुनः प्रविचिनोति । ये तावदतीतमध्वानमुपादाय सुखकामाः सत्त्वाः ते अतीताः, तेषां किं पुनः सुखोपसंहारं करिष्यामः । ये पुनर्वर्त्तमानाः सत्त्वास्ते वर्त्तमानमध्वानमुपादाय । यावदनागतादध्वनो नित्यकालं सुखिनो भवन्ति (न्ती) त्येवं मैत्र्या(ः)कालं पर्येषते ।

स पुनः प्रविचिनोति । नास्ति कश्चिदात्मा वा, सत्त्वो वा य एष सुखकामो वा स्यात् । यस्य वा सुखमुपसंह्रियते । अपि तु स्कन्धमात्रमेतत्संस्कारमात्रकमेतद्यत्रैषा संज्ञा संज्ञप्तिर्व्यवहारः । ते पुनः संस्काराः कर्मक्लेशहेतुका इत्येवमपेक्षायुक्त्या मैत्रीम्पर्येषते । प्रसिद्धधर्मता खल्वेषा [अ]चिन्त्यधर्मता यन्मैत्रीव्यापादभावना प्रहाणाय सम्वर्त्तत इत्येवं धर्मतायुक्त्या मैत्रीम्पर्येषते ।

(श्भ्_स्ह्३८१)
तत्र कथमिदं प्रत्ययता प्रतीत्यसमुत्पादालम्बना विपश्यनाप्रयुक्तार्थं पर्येषते । तदधिपतेयं धर्ममधिमतिं कृत्वा तेषां तेषां धर्माणामुत्पादात्ते ते धर्मा उत्पद्यन्ते, तेषां तेषां धर्माणां निरोधात्ते ते धर्मा निरुध्यन्ते [।] नास्त्यत्र धर्मी कश्चिदीश्वर, कर्ता स्रष्टा, निर्माता धर्माणां, न प्रकृतिर्न पुरुषान्तरं, प्रवर्त्तको धर्माणामित्येवमर्थप्रतिसंवेदी अर्थं पर्येषते । (श्भ्_स्ह्३८२) पुनः पुनः प्रविचिनोति । द्वादशभवांगानि । अध्यात्मबहिर्धा अधिमुच्यते । एवं वस्तु पर्येषते । पुनः प्रविचिनोति । अविद्या यत्त(त्)पूर्वान्ते अज्ञानमिति विस्तरेण यथा प्रतीत्यसमुत्पादविभंगे एवं स्वलक्षणं पर्येषते [।] पुनः (॥) प्रविचिनोति । एवं प्रतीत्यसमुत्पन्नाः संस्काराः सर्व एते अभूत्वा भावाद्, भूत्वा (श्भ्_स्ह्३८३) च प्रतिविगमात्पूर्वापर्येणानित्या जातिजराव्याधिमरणधर्मकत्वात् । दुःखा अस्वतन्त्रत्वादन्तः पुरुषानुपलम्भाच्च शून्या अनात्मानश्च ॥ एषां च सामान्यलक्षणं पर्येषते । स पुनः प्रविचिनोति । यो (य) एष्वनित्येषु दुःखशून्यानात्मकेषु संस्कारेषु यथाभूतं प्रतिसम्मोहः । मरण एष धर्मः कृष्णपक्ष्य[ः ।] असम्मोहः । पुनः शुक्लपक्ष इति विस्तरेण [।] एम्पक्षं समन्वेषते ।

स पुनः प्रविचिनोति । अस्ति कर्मास्ति विपाकः । कारकस्तु नोपलभ्यते । यः कर्त्ता वा प्रतिसंवेदको वा स्यान्नान्यत्र धर्मसंकेतात् । तेष्वेवाविद्याप्रत्ययेषु (श्भ्_स्ह्३८४) संस्कारेषु यावज्जातिप्रत्यये जरामरणे संज्ञा प्रज्ञप्तिर्व्यवहारः कारको वेदक इत्येवं नामा, एवं जात्य, एवं गोत्र, एवमाहार, एवं सुखदुःख प्रतिसंवेदी, एवं दीर्घायुरेवंचिरस्थितिक, एवमायुः पर्यन्त इति ।

अपि च द्विविधमेतत्फलम् । द्विविधो हेतुरात्मभावफलं च, विषयोपभोगफलं च । आक्षेपकश्च हेतुरभिनिर्वर्त्तकश्च [।] तत्रात्मभावफलं यदेतद्विपाकजं षडायतनं विषयोपभोगफलं यो (या) इष्टानिष्टकर्माधिपतेया षट्स्पर्शसंभवा वेदना [।]

तत्राक्षेपको हेतुर्द्विविधे फले सम्मोहासम्मोहपूर्वकाश्च पुण्यापुण्यानिंज्याः, संस्कारपरिगृहीतं च (।) पुनर्भवविज्ञानांकुरप्रादुर्भावाय तद्बीजं, विज्ञानपरिगृहीतं पौनर्भविकनामरूपबीजं षडायतनबीजं स्पर्शवेदनाबीजमिति । य एवमायत्यां जातिसंज्ञकानां विज्ञा[न]नामरूपषडायतनस्पर्शवेदनानामुत्पत्तये । आनुपूर्व्या पूर्वंमेव बीजपरिग्रहः । अयमाक्षेप [को] हेतुः ।

(श्भ्_स्ह्३८५)
यत्पुनरविद्यासंस्पर्शजांवेदना वेदयमानस्तदालम्बनया तृष्णया पौनर्भविकीं तॄष्णामुत्पादयति । तृष्णापक्ष्यं मोहपक्ष्यं चोपादानम् । परिगृह्णाति । यद्बलेन यत्सांमुख्येन तत्कर्म विपाकदानदान समर्थं भवत्ययमभिनिर्वृत्तिहेतुः । इमं च द्विविधं हेतुमधिपतिं कृत्वा एवमस्य त्रिविधः दुःखतानुपक्षस्य केवलस्यास्य दुःखस्कन्धस्य समुदयो भवतीति । एवमपेक्षायुक्तिं पर्येषते ।

इदं प्रत्ययता प्रतीत्यसमुत्पादः । आसेवितो भावितो मोहप्रहाणाय सम्वर्तते । आप्तागमोप्येष प्रत्यात्मिक आनुमानिकोप्येष विधिः । प्रसिद्धधर्मताप्येष ते (षेति) एवं कार्यकारणयुक्तिमुपपत्तिसाधनयुक्तिं धर्मतायुक्तिञ्च पर्येषते ॥

तत्र कथं धातुप्रभेदालम्बनविपश्यनाप्रयुक्तमर्थं पश्यन पर्येषते । गोत्रार्थो, धात्वर्थः, संज्ञार्थो, हेत्वर्थः । प्रकृत्यर्थ इत्येवमर्थप्रतिसम्वेदी अर्थं पर्येषते । पृथिव्यादीन्षड्धातून्न (न) ध्यात्मबहिर्धाधिमुच्यमानो वस्तु (श्भ्_स्ह्३८६) पर्येषते । खरलक्षणा पृथिवी । यावत्समुदीरणलक्षणो वायुः विजाननलक्षणं विज्ञानम् । सौषिर्यलक्षणारूपगतास्फुटालक्षणश्चाकाशधातुरित्येवं स्वलक्षणं पर्येषते । सर्व एते धातवः । अनित्यतया समसमाः । यावन्निरात्मतयेत्येवं सामान्यलक्षणं पर्येषते । इति यः पिण्डसंज्ञिनो धातुनानात्वमजानानस्या[ने]न कायेन नानाधातुकेन उन्नतिर्मन्य (न्वा) ना मरण एष धर्मः कृष्णपक्ष्यः विपर्ययाच्छुक्लपक्ष्य इत्येव[ं] पक्षं पर्येषते ।

अतीतानागतप्रत्युत्पन्नेष्वध्वसु षड्धातून्प्रतीत्य मातुः कुक्षौ गर्भस्यावक्रान्तिर्भवति । एवं कालं पर्येषते ।

तद्यथा तृणं वाप्रतीत्य, काष्ठम्वा चाकाशं परिवारितमगारो [अ]गार इति संख्यां गच्छत्येवमेव षड्धातूनुपादाय । अस्थि च प्रतीत्य स्नायु[श्] च । त्वङ्मान्स(मांस) शोणितं चाकाशे परिवारिते संज्ञा प्रज्ञप्तिर्व्यवहारो भवति । कायः काय इति । पौराणाश्च कर्मक्लेशाः स्वबीजं चैषां निदानमित्येवमपेक्षायुक्तिम्पर्येषते । धातुप्रभेद आसेवितो भावितो (तः) स्त्यानप्रहाणाय (श्भ्_स्ह्३८७) सम्वर्तते । आप्तागमोप्येष प्रत्यात्मज्ञानमनुमानिकोप्येष विधिः प्रसिद्धधर्मताचिन्त्यधर्मतेत्येवं कार्यकारणयुक्तिमुपपत्तिसानयुक्तिं धर्मतायुक्तिं च पर्येषते ॥

कथमानापानस्मृत्यालम्बननिचयप्रयुक्तार्थं पर्येषते । आश्वासप्रश्वासालम्बनोपनिबद्धा चित्तस्यासंप्रमोषोभिलपनता । आनापानस्मृतिरित्येवं पर्येषते । अध्यात्ममुपलभ्यते । आश्वासप्रश्वसाः कायप्रतिबद्धत्वाद्बाह्यायंतनसंगृहीताश्चेत्येवं वस्तु पर्येषते । द्वावाश्वासौ यश्च वायुः प्रविशति । य (स) आश्वासो [यश्च] निष्क्रामति । स नि[ः]श्वासः [।] अमी दीर्घा आश्वासप्रश्वासा, अमी ह्रस्वा इमान्सर्वकायेन प्रतिसंवेदयामि । इमान्नि(नि)त्येवं स्वलक्षणं पर्येषते । निरुद्धे आश्वासेप्रश्वास उत्पद्यते । निरुद्धे आश्वासे (प्रश्वासे) आश्वासः । आश्वासप्रश्वासप्रवृद्धिप्रतिसम्बद्धं च (॥) जीवितेन्द्रियमयं च कायः सविज्ञानक इत्यनित्या आश्वासप्रश्वासा महाश्रवणेत्येवं (णा इत्येवं) सामान्यलक्षणं पर्येषते । एवमाश्वासप्रश्वासेष्वनुपस्थितस्मृतेः यो वितर्ककृतः संक्षोभश्चेतसः मरण(धर्म) एषधर्मः कृष्णपक्ष्यः । विपर्ययाच्छुक्लपक्ष्य (श्भ्_स्ह्३८८) इति । विस्तरेणत्येवं पक्षं पर्येषते ।

अतीतानागत प्रत्युत्पन्नेष्वध्वस्वा [श्वासप्र]श्वासप्रतिबद्धः कायः कायचित्त (ः) प्रतिबद्धाश्चाश्वासप्रश्वासा इत्येवं कालं पर्येषते । नान्यत्र कश्चिद्य आश्वसिति प्रश्वसिति वा अस्य चैते आश्वासप्रश्वासाः । अपि तु हेतुसमुत्पन्नेषु, प्रतीत्यसमुत्पन्नेषु संस्कारेष्वियं संज्ञा । प्रज्ञप्तिर्व्यवहारः इत्येवमपेक्षायुक्तिं पर्येषते । आनापानस्मृतिरासेविता भाविता वितर्कोपच्छेदाय संवर्त्तते । आप्तागमोऽप्येष, प्रत्यात्मज्ञानानुसारिकोऽप्येष विधिः । प्रसिद्धधर्मताचिन्त्य धर्मतेत्येवं कार्यकारणयुक्तिमुपपत्तिसाधनयुक्तिं धर्मतायुक्तिम्पर्येषते ।

एवं चरितविशोधनेनालम्बनेन षड्वस्तूनि पर्येष्य, अध्यात्मं चित्तं पुनः पुनः शमयतः (यन्), पुनः पुनरेतदेव यथापर्येषितम् । विपश्यनाकारैः पर्येषते ।तस्य शमथं निश्रित्य विपश्यना विशुध्यते । विपश्यनां निश्रित्य शमथो वैपुल्यतां(विपुलतां) गच्छति । कौशल्यालम्बने च । क्लेशाविशोधने च या विपश्यना [।]

षड्वस्तुकर्मितां पश्चाद्वक्ष्मामि स्वस्थाने ।

तत्र नवविधः शुक्लसंगृहीतः (।) प्रयोगस्तद्विपर्ययेण (श्भ्_स्ह्३८९) च नव विधः कृष्णपक्षसंगृहीतो योगिना वेदितव्यः । तद्यथा [अ]नुरूपप्रयोगता, अभ्यस्तप्रयोगता, अविपरीतप्रयोगता । अशिथिलप्रयोगता । कालप्रयोगता । उपलक्षणप्रयोगता । असंतुष्टप्रयोगता । अविधुरप्रयोगता । सम्यक्प्रयोगता च । अनया नवविधया शुक्लपक्षसंगृहीतया त्वरितत्वरितं चित्तं समाधीयते । विशेषाय च समाधेः परैति । यावती चानेन भूमिर्गन्तव्या भवत्यनुप्राप्तव्या तां लघु लघ्वेवागन्ता भवत्यधन्धायमानः । कृष्णपक्षसंगृहीताभिर्नवविधाभिः प्रयोगताभिर्न त्वरितत्वरित[ं] चित्तं समाधीयते । नापि समाधिविशेषाय परैति । यावती चानेन भूमिर्गन्तव्या भवत्यनुप्राप्तव्या । तत्र धन्धायते गमनाय ।

कतमानुरूपप्रयोगता (च) । स चेद्रागचरितोऽशुभायां चित्तमुपनिबघ्नाति । द्वेषचरितो मैत्र्यां, यावद्वितर्कचरित आनापानस्मृतौ, समभागचरितः मन्दरजस्कः पुनः यत्रालम्बने प्रियारोहता भवति । तेन प्रयुज्यते । इयमनुरूपप्रयोगता [।]

कतमा अभ्यस्तप्रयोग (प्रयोग)ता । अभ्यासोऽनेन कृतो भवति यो अन्ततः परीत्तोऽपि न (श्भ्_स्ह्३९०) सर्वेण सर्वमादिकर्मिक एव भवति । तथा ह्यादिकर्मिकस्यानुरूपेऽप्यालम्बने न प्रयुक्तस्य निवारणानि नाभीक्ष्णं समुदाचरित(रन्ति) । कायचित्तदौष्ठुल्यं च । येनास्य तत्(च) चित्तं समाधीयते । इयमभ्यस्तप्रयोगता । तत्र कतमा अशिथिलप्रयोगता । सातत्यप्रयोगी भवति । सत्कृत्यप्रयोगी च । स चेत्पुनर्व्युत्तिष्ठते ।
समाधेः पिण्डपातहेतोश्च [गु]रुगौरवोपस्थानहेतोर्वा । ग्लानोपस्थानार्थम्वा, सामीचीकर्मणो वा अन्यस्यैवंभागीयस्येतिकरणं यस्यार्थाय स तन्निम्नेन चेतसा तत्प्रवणेन तत्प्रास्तारेण (भारेण) च सर्वं करोति । लघुलघ्वेव च कृत्वा, परिप्राप्य, पुनरेव प्रयुज्यते । नियम्य प्रतिसंलयनाय स चेद्भिक्षुभिक्षुण्युपासक क्षत्रियब्राह्मणपर्षद्भिः सार्धं समागच्छति । न चिरं संसर्गेणातिनामयति । मितं च संलपति । न च भाष्यप्रबन्धमुत्थापयति । नान्यत्र व्यपकर्षति । एवं च पुनरारब्धवीर्यो भवति । यन्न्वहमद्यैव प्राप्तव्यमधिगच्छेयम् । तत्कस्य हेतोः । बहवो मे प्रत्यया मरणस्य- वातो वा मे कुप्येत, पित्तम्वा, श्लेष्मम्वा(श्लेष्म वा), भुक्तं वा विषम्येत, येन मे विषूचिका काये सन्तिष्ठेत । अहिर्वा मे (मां) दशेत(त्) । वृश्चिको वा शतपदी वा [।] मनुष्यादपि मे भयमित्येतानि स्थानानि नित्यकालस्य (श्भ्_स्ह्३९१) न- करोत्यप्रमत्तश्च विहरत्येवं च पुनरप्रमत्तो विहर[ति ।] अपि बत जीवेयं सप्ताहं षट्पञ्चचतुस्त्रिद्विरे (द्वये)काहयाममर्धयाममपि मुहूर्तमपि अर्धमुहूर्तमपि [।] अहो बत जीवेयं यावत्पिण्डपातं परिमुञ्जेयम् । यावदाश्वसित्वा (स्य)प्रश्वसेयम् । यावच्च जीवेयं तावद्योगमनसिकारेण शास्तुः शासने योगमापद्येयम् । य इ(दि)यता मया बहुकृत्यं स्याद्यदुत शास्तुः शासने इतीयमशिथिलप्रयोगता ।

तत्र कतमा । अविपरीतप्रयोगता । कालेन कालं शमथनिमित्तं प्रग्रहनिमित्तमुपेक्षानिमित्तं भावयति । शमथं च जानाति । शमथनिमित्तं च । शमथकालञ्च [।] विपश्यनां विपश्यनानिमित्तं विपश्यनाकालं, प्रग्रहं प्रग्रहनिमित्तं, प्रग्रहकालम् । उपेक्षामुपेक्षानिमित्तमुपेक्षाकालञ्च ।

तत्र शमथः नवाकारा चित्तस्थितिः । निर्निमित्तञ्च तच्चित्तं तत्र भवति, निर्विकल्पं, शान्त प्रशान्तं, शमथस्थितं, निष्केवलं, तेनोच्यते शमथ इति । तत्र शमथनिमित्तं द्विविधमालम्बननिमित्तं, (श्भ्_स्ह्३९२) निदाननिमित्तञ्च । ज्ञेयवस्तुसभागं प्रतिबिम्बमालम्बननिमित्तम् । येनालम्बनेन तच्चित्तं शमयति, शमथपरिभाविते चेतसि उत्तरत्र शमथस्य पारिशुद्धये । यो विपश्यना प्रयोग इदं निदानं (न)निमित्तं [।] शमथकालः कतमः । आह । उद्धते चित्ते ऊर्ध्वम्वाभिशंकिनि शमथस्य कालो भावनायै । तथा विपश्यनापरिभाविते चित्ते इति करणीयव्याक्षेपोपहते शमथकालो भावनायै । तत्र विपश्यना चतुराकारात्रिमुखी षड्वस्तुप्रभेदालम्बनव्यवचारा ॥

तत्र विपश्यनानिमित्तं द्विविधमालम्बननिमित्त[ं] निदाननिमित्तञ्च । तत्रालम्बननिमित्तं विपश्यनानिमित्तं [शमथ]पक्ष्यं ज्ञेयवस्तुसभागं प्रतिबिम्बमालम्बननिमित्तं येनालम्बनेन प्रज्ञां व्यवचारयति । तत्र निदाननिमित्तं विपश्यनापरिभाविते चेतसि उत्तरत्र विपश्यनापरिशुद्धये चेतः शमथबिम्बयोगः [।]

तत्र विपश्यनाकालः शमथपरिभाविते चेतसि आदित एव चाज्ञेयवस्तुयथाभूतावबोधाय विपश्यनायाः कालो भावनायै ।

तत्र प्रग्रहः कतमः । यान्यतमान्यतमेन प्रसदनीयेनालम्बनेनोद्गृहीतेन (श्भ्_स्ह्३९३) चित्तसंहर्षणा संदर्शना समादापना [।] तत्र प्रग्रहनिमित्तं येन च प्रसदनीयेनालम्बनेन निमित्तेन चित्तं प्रगृह्णाति । यस्य वीर्यारम्भः तदानुलोमिकस्तत्र प्रग्रहकालः लीनं चित्तं लीनत्वाभिशंकिनि प्रग्रहस्य कालो भावनायै ।

तत्रोपेक्षाकतमा । या आलम्बने असंक्लिष्टचेतसः चित्तसमता शमथविपश्यनापक्षे । प्रस(श)ठस्वरसंवाहिता । कर्मण्यचित्तस्य च कर्मण्यता, चित्तस्यानुप्रदानमनाभोगक्रिया । तत्रोपेक्षानिमित्तम् । येन चालम्बनेन चित्तमध्युपेक्षते । या च तस्मिन्नेवालम्बने वीर्योद्रेकाप्रतिकायता । तत्रोपेक्षाकालः शमथविपश्यना पक्षालयौ (लौ)द्धत्यविनिर्मुक्ते चेतसि (श्भ्_स्ह्३९४) उपेक्षायाः कालो भावनायै । इयं कालप्रयोगता ।

तत्र कतमा उपेक्षा लक्षणा (उपलक्षण)प्रयोगता [।] तान्येव निमित्तानि सुगृहीतानि भवन्ति । सुसंलक्षितानि येषां सूद्गृहीतत्वात् । यदा आकांक्षते । तदा व्युत्तिष्ठते समाधिगोचरं (।) प्रतिबिम्बमुत्सृज्य समाहितभूमिकाप्राकृतालम्बनमनसिकारेण [।] इयमुपलक्षणाप्रयोगता ।

तत्र कतमा असंतुष्टप्रयोगता । असंतुष्टो भवति कुशलै-कुशलैर्धमैः । अप्रतिवा (भा)णि(णी) च । प्रहासैरुत्तरं प्रणीततरं स्थानमभिप्रार्थयमानोरुपी बहुलं विहरतीति । नाल्पमात्रकेना (णा)वरमात्रकेना(णा)न्तरा विषादमापद्यते । अत्युत्तरे करणीये । इयमसंतुष्टप्रयोगता ।

तत्र कतमा अविधुरप्रयोगता । शिक्षापदसमादानम्वा न खण्डीकरोति, न छि(च्छि)द्रीकरोति । न च शिशुमुदारवर्णं रंजनीयं मातृग्रामं दृष्ट्वा निमित्तग्राही भवत्यनुव्यंजनग्राही, भोजने च समकारी भवति । जागरिकानुयुक्तश्चाल्पार्थोल्पकृत्योल्पव्यासकः । चिरकृतचिरभाषितमनुस्मर्त्ता भवत्यनुस्मारयिता । इत्येवंभागीया धर्मा अविधुरप्रयोगतेत्युच्यते । अनुकूला एते धर्माश्चित्तैकाग्रतायाः । अविदूरा, न च चित्तक्षेपाय सम्वर्त्तन्ते । तेन बहिर्धा व्यासंगाय, नाध्यात्मचित्ताकर्मण्यतायै । (श्भ्_स्ह्३९५) इयमुच्यते अविधुरप्रयोगता ।

तत्र सम्यक्प्रयोगता कतमा । अधिमुच्याधिमुच्यालम्बनस्य विभावनया सम्यक्प्रयोग इत्युच्यते । स चेदशुभाप्रयुक्तो भवत्यशुभां चाशुभाकारैर्मनसिकरोति । निमित्तमात्रानुसारिण्या विपश्यनया [।] तेन मनसिकारस्तदालम्बनो मुहुर्मुहुर्विभावयितव्यो, मुहुर्मुहुः संमुखीकर्तव्यः ।

विभावना पुनः पञ्चविधा अध्यात्मचित्ताभिसंक्षेपतः । अस्मृत्यमनसिकारतः । तदन्यमनसिकारतः । प्रतिपक्षमनसिकारतः । आनिमित्तधातुमनसिकारतश्च । तत्र नवाकारचित्तस्थित्या विपश्यना पूर्वंगमया अध्यात्मं चित्ताभिसंक्षेपतः । सर्वनिमित्तवैपुल्येन आदितः । अविक्षेपायोप निबध्नतोऽस्मृत्यमनसिकारतः । समाहितभूमिकादालम्बनालम्बनान्तरं समाहितभूमिकमेव मनसिकुर्वतस्तदन्यमनसिकारतः । शुभताप्रतिपक्षेणाशुभांता (भतां) यावद्वितर्कप्रतिपक्षेण आनापानस्मृतिम् । रूपप्रतिपक्षेणाकाशधातु[ं] मनसि कुर्वतः प्रतिपक्षमनसिकारतः । सर्वनिमित्तानाममनसिकारादानिमित्तस्य च धातोर्मनसिकारादानिनिमित्तधातुमनसिकारतः । अपि च । व्याप्य तदालम्बनं विभावनालक्षणं व्यवस्थापितमस्मिंस्त्वर्थे अध्यात्मं निमित्ताभिसंक्षेपतः । अस्मृत्यमनसिकारतश्चाभिप्रेता । (श्भ्_स्ह्३९६) तत्रादिकर्मिके(ण) तत्प्रथमकल्पिको (कर्मिकेण) आदित एव चित्तं न कञ्चि(क्वचि)दालम्बने उपनिबन्धितव्यम् । अशुभायाम्वा, तदस्मिन्वा, नान्यत्र विक्षेपायैव । कच्चिन्मे चित्तं निर्निमित्तं, निर्विकल्पं शान्तं, प्रशान्तमविचलमविकम्प्यमनुत्सुकं, निर्व्यापापारमध्यात्ममभिरमत इति । तथा प्रयुक्त उत्पन्नोत्पन्नेषु सर्वबाह्यनिमित्तेषु अस्मृत्यमनसिकारं करोति । इयमस्यास्मृत्यमनसिकारेणालम्बनविभावना [।]

स तत्र योगं कुर्वन् प्रतिगृह्णाति, स निर्मिमित्ते चालम्बने सविकल्पमशुभादिके चरति । कथं च पुनश्चरति । निमित्तमात्रानुसारिण्या विपश्यनया पर्येषणाप्रत्यवेक्षणानुचारिण्या [।] न चैकांशेन विपश्यनाप्रयुक्तो भवति । पुनरेव विपश्यनानिमित्तं (।) प्रत्युदावर्त्य तदेवालम्बनं शमथाकारेण मनसि करोति । तेन तदालम्बनं तस्मिन्समये मुक्तं भवति, नोद्गृहीतम् । यस्मात्तदालम्बनः शमथो वर्तते । तस्मान्न मुक्तः । यस्मान्न निमित्तीकरोति । न विकल्पयति । तस्मान्नोद्गृहीतमेवमध्यात्ममभिसंक्षेपतः । आलम्बनं विभावयति । (श्भ्_स्ह्३९७) तत्र विपश्यनानिमित्तमुद्गृहीतवतः । पुनर्ज्ञेयवस्तुनिमित्तालम्बनं स चेदयमेकांशेनालम्बनमधिमुच्यते । न पुनः पुनर्विभावयेत् । नास्याधिमोक्ष उत्तरोत्तरः । परिशुद्धः, पर्यवदातः । प्रवर्तते । यावज्ज्ञेयवस्तुप्रत्यक्षोपगमाय । यतश्च पुनः पुनरधिमुच्यते । पुनः पुनर्विभावयति । ततोस्योत्तरोत्तरोधिमोक्षः । परिशुद्धतरः, परिशुद्धतमः प्रवर्तते । यावज्ज्ञेयवस्तुप्रत्यक्षोपगमाय । तद्यथा चित्रकरश्चित्रकरान्तेवासी वा तत्प्रथमश्चित्रकर्मणि प्रयुक्तः स्यात् । स आचार्यस्यान्तिकाच्छिक्षापूर्वगमं रूपकमादाय दृष्ट्वा दृष्टवा प्रतिरूपकं करोति । कृत्वा कृत्वा विभावयति, विनाशयति । पुनरेव च करोति । य यथा यथा भङ्क्त्या भङ्क्त्या करोति । तथा तथास्योत्तरं रूपकं परिशुद्धतरं पर्यवदाततरं ख्याति । एवं हि सम्यक्प्रयुक्तः कालान्तरेणाचार्यसमतां गच्छति । तत्प्रतिविशिष्टताम्वा [।] सचेत्पुनरभं(नर्भं?) क्त्या तद्रूपकं तस्यैवोपरिष्टात्पौनःपुन्येन कुर्यात् । न जन्वन्धस्य तद्रूपकपरिशुद्धिं निगच्छेदेवमिहापि नयो वेदितव्यः । तत्र यावदालम्बनमधिमुच्यते । तावद्विभावयति । न त्ववश्यं यावद्विभावयति । तावदधिमुच्यते । परीत्तमधिमुच्यते, परीत्तमेव विभावयति । एवं यावन्महद्गतप्रमाणम् । परीत्तं पुनर्विभावयित्वा (भाव्य) (श्भ्_स्ह्३९८) कदाचित्परीत्तमेवाधिमुच्यते । कदाचिन्महद्गतमेव । प्रमाणमेवं महद्गते । प्रमाणे वेदितव्यम् । तत्र रूपिणां धर्माणां यन्निमित्तं प्रतिबिम्बं, प्रतिभासं(सः) तदौदारिकं निर्माणसदृशमरूपिणाम्वा पुनर्धर्माणां नामसंकेतपूर्वकं यथानुभावाधिपतेयम् । प्रतिभासमियमुच्यते । सम्यक्प्रयोगता । सैषा नवविधा शुक्लपक्ष्या शमथविपश्यनानुलोमा प्रयोगता वेदितव्या । एवं पर्यायेण नवाकारैव विलोमता । स एष कृष्णशुक्लपक्षव्यवस्थानेनाष्टादशविधप्रयोगो भवतीयमुच्यते एकाग्रता ॥

तत्रावरणविशुद्धिः कतमा । आह । चतुर्भिः कारणैरेवं सम्यक्प्रयुक्तो योगी आवरणे स्वञ्चित्तं परिशोधयति । स्वभावपरिज्ञानेन, निदानेनादीनवपरिज्ञानेन, प्रतिपक्षभावनया च ।

तत्र कतम आवरणस्वभावः । आह । चत्वार्यावरणानि । परितमना, निवरणं, वितर्कः । (श्भ्_स्ह्३९९) आत्मसंप्रग्रहश्चेति । तत्र परितमना या नैष्क्रम्यप्राविवेक्यप्रयुक्तस्य क्लिष्टा उत्कण्ठा, अरतिः । स्पृहणा, दौर्मनस्यमुपायासः । तत्र निवरणं कामच्छन्दादीनि पञ्चनिवरणानि । तत्र वितर्कः कामवितर्कादयः । क्लिष्टा वितर्काः । तत्रात्मसंप्रग्रहो यदणुमात्रेका (णा)वरमात्रेकेन (ण) ज्ञानदर्शनस्पर्शमात्रकेना(णा)त्मानं संप्रगृह्णाति । अहमस्मि लाभी, अन्ये च न तथेति । पूर्ववद्विस्तरेण वेदितव्यमयमावरणस्वभावः ।

तत्र परितमना यावत्षण्निदानानि । तद्यथा पूर्वकर्माधिपत्या, व्याधिपरिक्लेशाद्वा आश्रयदौर्बल्यम् । अतिप्रयोगः । अर्धप्रयोगः । आदिप्रयोगः । क्लेशप्रचुरता । विवेकानभ्यासश्च निवरणस्य, वितर्काणामात्मसंप्रग्रहस्य निवरणस्थानीये, अवितर्कस्थानीये, स्वात्मसंप्रग्रहस्थानीयेषु धर्मेष्वयोनिशोमनसिकारो बहुलीकारनिवरणवितर्कसंप्रग्रहाणां निदानं (श्भ्_स्ह्४००) यदशुभताममनसि कृत्य शुभतां मनसिकरोत्ययमत्रायोनिशः । एवं मैत्रीं [ं] मनसिकृत्य, प्रहाय नैमित्त (त्ति) [की]मालोकसंज्ञा[ं] मनसिकृत्यान्धकारनिमित्तं शमथममनसिकृत्य, ज्ञातिजानपदामरवितर्कं पौराणक्रीडितहसितरसितपरिचारितम् । इयं (दं) प्रत्ययता प्रतीत्यसमुत्पादममनसिकृत्य, त्रैयघ्विकेष्वहमिति वा, ममेति वा, अयोगविहितां संज्ञां मनसि करोत्ययमत्रायोनिशस्त(शः) ।

तत्रादीनवः कतमः । अस्मिन्नावरणे सति संविद्यमाने चतुर्विधेप्यनधिगतं नाधिगतात्परिहीयते । योगप्रयोगाद्भ्रश्यते । संक्लिष्टविहारी च भवति, दुःखविहारी च भवत्यात्मा चैतमववदति । परतश्चाववादंलभते । कायस्य च भेदात्परं मरणादपायेषूपपद्यते । अयमत्रादीनवः ।
तत्र प्रतिपक्षः कतमः । तत्र परितमना या समासतोऽनुस्मृतयः । प्रतिपक्षः अनुस्मृतिमनसिकारेणायं चित्तं संहषयित्वा (संहर्ष्य) उत्पन्नां परितमनां प्रतिविनोदयत्यु(त्यनु)त्पन्नां च नोत्पादयति । तत्र यच्च कायदौर्बल्यं, यश्चाप्रतियोगो, यश्चादिप्रयोगः । तत्र वीर्यसमता प्रतिषे(वे)धः । प्रतिपन्नः योर्धप्रयोगः [।] तत्र शुश्रूषा, परिपृच्छा प्रतिपक्षः । या क्लेशप्रचुरता तस्या (श्भ्_स्ह्४०१) यथायोगमशुभाद्यालम्बनप्रयोगः । प्रतिपक्षः । योऽनभ्यासस्तस्यैवंविधं प्रतिसंख्यानं प्रतिपक्षः । पूर्वं मे (मया)विवेकाभ्यासो न कृतो, येन मे एतर्हि विवेकप्रयुक्तस्य परितमना उत्पद्यते [।] स चेदेतर्हि न करिष्याम्यभ्यासः (सं) एवमायति[ः] पुनर्भव एवंरूपो भविष्यति । प्रतिसंख्याय मया अरतिस्त्यक्तव्या । रतिः करणीयेत्येवमिष्टानां निवरणादीनामयोनिशोमनसिकारविपर्यर्येण योनिशोमनसिकारभावना प्रतिपक्षो वेदितव्यः ।

तत्र स्वभावं परिज्ञाय आवरणतः, संक्लेशतः, तावच्छमथबाहुल्यं [।] सा खल्वेषा विपश्यना ज्ञेया (श्भ्_स्ह्४०२) कृष्णपक्षतः । परिवर्जनीयमेतदिति । निदानपरिवर्जनाच्च पुनरस्य परिवर्जनेति । निदानं पर्येषते । अपरिवर्जनाच्च पुनरस्य परिवर्जनीयस्य को दोष इत्यत आदीनवं पर्येषते । परिवर्जितस्य चायत्यां कथमनुत्पादो भवतीत्यतः प्रतिपक्षं भावयत्येवमनेनावरणेभ्यश्चित्तं परिशोधितं भवति ।

स तत्र यावद्देशनाबाहुल्यं विपश्यनानुलोमिकं तावद्विपश्यनाबाहुल्यं, यावद्विवपश्यना बाहुल्यं नान्यादनन्ता वेदितव्या । यदुत एभिरेव त्रिभिर्मुखैः षण्णां वस्तूनामेकैकश्या (स्या अ)नन्ताकारप्रवेशनयेन, यथा च यथा विपश्यना सम्यक्प्रयुक्तस्य पृथुवृद्धिवैपुल्यतां (विपुलतां) गच्छत्यभ्यासपारिशुद्धिबलमधिपतिं कृत्वा, तथा, तथा, शमथपक्षस्यापि कायचित्तप्रश्रब्धिजनकस्य पृथुवृद्धिवैपुल्यता (विपुलता) वेदितव्या । तस्य यथा यथा कायः प्रश्रभ्यते, चित्तं च, तथा तथालम्बनचित्तैकाग्रतायाश्च यदुताश्रय[ं] विवर्द्धयते । यथा चित्तैकाग्रता विवर्धते तथा तथा कायः प्रश्रभ्यते, चित्तं च, इत्येतौ द्वौ धर्मावन्योन्यं निर्वृतावन्योन्यं प्रतिबद्धोयदुत चित्तैकाग्रता, प्रत्यक्षज्ञानोत्पत्तिः ।

तत्र कियता अशुभा प्रतिलब्धो(धा) भवति । कियता यावदानापानस्मृतिः प्रतिलब्धा भवतीति । (श्भ्_स्ह्४०३) पेयालमतश्चास्य योगिनः अशुभाप्रयोगस्यासेवनान्वयात्भावनान्वयाद्बहुलीकारान्वयाच्चरतो वा, विहरतो वा, विषयसंमुखीभावे [अ]पि निमित्तप्रत्यवेक्षणयापि प्रकृत्यैवानभिसंस्कारेण बहुतराशुभतासंप्रख्यानम् । यथापि तत्सुभावितत्वादशुभायाः कामरागस्थानीयेषु धर्मेषु चित्तं [न] प्रस्कन्दति । न प्रसीदति । नाधिमुच्यते । उपेक्षा संतिष्ठते । निर्वित्प्रतिकूलता वेदितव्यं(या) । योगिनानुप्राप्तो (प्तं)मे, अशुभाप्राप्तं मे, भावनाफलमियता अशुभा प्रतिलब्धा भवति । विपर्ययेण [अ]प्रतिलब्धा वेदितव्या । यथा अशुभा एवं मैत्री, इदंप्रत्ययताप्रतीत्यसमुत्पादः । धातुप्रभेदः । आनापानस्मृतिश्च वेदितव्या । तत्रायं विशेषः बहुतरं मैत्रचित्तता ख्याति । न प्रतिघनिमित्तम् । व्यापादस्थानीयेषु धर्मेषु चित्तं न प्रस्कन्दतीति विस्तरः । बहुतरमनित्यता, दुःखता, नैरात्म्यं ख्याति, न नित्यसुखसत्त्वाय दृष्टिसहगतं सम्मोहनिमित्तं मोहपर्यवस्थानीयेषु धर्मेषु । चित्तं (न)प्रस्कन्दतीति (श्भ्_स्ह्४०४) विस्तरः । बहुतरं नानाधातुकता [त]देकधातुकता कायपि(चि)त्तप्रभेदसंज्ञा ख्याति । न त्वेव पि (चि)त्तसंज्ञा, मानपर्यवस्थानीयेषु धर्मेषु चित्तं न प्रस्कन्दतीति विस्तरः । बहुतरा अध्यात्ममुपशमसंज्ञा । शमथसंज्ञा । ख्याति । न त्वेव प्रपञ्चसंज्ञा वितर्कपर्यवस्थानीयेषु धर्मेषु चित्तं न प्रस्कन्दतीति विस्तरः ।

तत्र नियता(तं)शमथश्च विपश्यना चोभे मित्रीभूते समयुगम्वर्त्तेते । येन युगनद्धवाहीमार्ग इत्युच्यते । आह । यो लाभी भवति नवाकारायां (श्भ्_स्ह्४०५) चित्तस्थितौ नवमस्याकारस्य यदुत समाहिततायाः [।] स च तं परिनिष्पन्नम् । समाधिं निश्रित्य अधिप्रज्ञं धर्मविपश्यनायां प्रयुज्यते । तस्य तस्मिन्समये धर्मान्विपश्यतः [।] स्वरसवाहन एव मार्गो भवत्यनाभोगवाहनः । अनभिसंस्कारेण विपश्यना परिशुद्धा, पर्यवदाता, शमथानुयोग(ता) कल्प(ल्पि)ता परिगृहीता प्रवर्त्तते । यथैव शमथमासते [ते] नोच्यते शमथश्चास्यविपश्यना चोभे मित्रीभूते समयुगम्वर्त्तेते । शमथविपश्यनायुगनद्धवाही च मार्गो भवतीति ॥ अनन्तरोद्दानम् ॥

निमित्तग्राहपर्येष्टिः प्रत्यवेक्षामुखानुगा ।
अर्थतस्तु लक्षणौः पच्छैः (पक्षैः) कालैश्च सह युक्तिभिः ॥
अनुरूपं तथाभ्यासमाशैथिल्यं विपर्ययः ।
(अनुरूपस्तथाभ्यास आ शैथिल्याद्विपर्ययः)
कालोपलक्षणा तुष्टिरवैधुर्यं प्रयोगता ॥
सम्यक्प्रयोगता चैव नवाधारा द्विधा मता ।
स्वभावतो निदानाच्च तथादीनवदर्शनात् ॥
प्रतिभाविता चैव शुद्धिरावरणस्य हि ॥

तत्र मनस्कारभावना कतमा [।] आहादिकर्मिकस्तत्प्रथमकर्मिक एवं व्यापिनि लक्षणे व्यवस्थापिते एकाग्रतायामा (आ)वरणविशुद्धेश्च मिथ्याप्रयोगं च (श्भ्_स्ह्४०६) वर्जयति । सम्यक्प्रयोगे च शिक्षते । स तत्प्रथमत एकाग्रतां प्रहाणाभिरतिं चाधिगमिष्यामीति चतुर्भिर्मनस्कारैः प्रयुज्यते । कतमैश्चचतुर्भिश्चित्तसन्ता पनीयेन मनस्कारेण, चित्ताभिष्यन्दनीयेन, प्रश्रब्धिजनकेन, ज्ञानदर्शनविशोधकेन च मनस्कारेण [।]

तत्र चित्तसन्तापनो मनस्कारः कतमः [ः] [।] आह । येनायं मनस्कारेण । संवेजनीयेषु धर्मेषु चित्तं सम्वेजयत्ययं चित्तसन्तापनो मनस्कारः ।

तत्र कतमश्चित्ताभिष्यन्दनो मनस्कारः । येनायं प्रसदनीयेन मनस्कारेण चित्तमभिप्रमोदयत्ययं (।) चित्ताभिष्यन्दनो मनस्कारः ।

तत्र कतमः प्रश्रब्धिजनको मनस्कारः । आह । येनायं मनस्कारेण कालेन कालं चित्तं सम्वेजनीयेषु धर्मेषु संवेजयित्वा (संवेज्य) कालेन कालमभिप्रमोदनीयेषु धर्मेषु चित्तमभिप्रमोदयित्वा (मोद्याध्यात्मं शमथयति । निर्निमित्तायाम् । निर्विकल्पकतायामेवं स्थापयत्येकाग्रां स्मृतिं प्रवर्त्तयति येनास्य हेतुना, (श्भ्_स्ह्४०७) येन प्रत्ययेन कायचित्तदौष्ठुल्यप्रतिपक्षेण कायचित्तह्लादनकरी कायप्रश्रब्धिश्चित्तप्रश्रब्धिश्चोत्पद्यते । अयमुच्यते प्रश्रब्धिजनको मनस्कारः ।

तत्र ज्ञानदर्शन विशोधनो मनस्कारः कतमः । येन मनस्कारेण कालेन कालं चित्तेन तथाध्यात्मं संशयमिति (संशमयति) तेन पुनः पुनरभीक्ष्णमधिप्रज्ञं धर्मविपश्यनायां योगं करोति । यदुत तमेवाध्यात्मं चेतःशमथं निश्रित्य [।] अयमुच्यते ज्ञानदर्शनविशोधनो मनस्कारः ।

कतमः कालेन कालं संवेजनीयेषु धर्मेषु चित्तं सम्वेजयत्येवमस्य तच्चित्तं तप्तं भवति । सन्तप्तमुद्विग्नं संविग्नं यदुतास्रवस्थानीयेषु च धर्मेषु । सर्वसंवेजनीयानि स्थानानि । कतमानि । आह [।] चत्वारि । तद्यथा आत्मविपत्तिः, परविपत्तिश्च, वर्तमाने समवहिते संमुखीभूते योनिशो मनसिकारान्वयात्सम्वेजनीयं स्थानं भवति । तत्रात्मसम्पत्तिः । परसम्पत्तिश्च । अभ्यतीते क्षणे निरुद्धे विगते विपरिणते योनिशो मनसिकारान्वयात्सम्वेजनीयं (श्भ्_स्ह्४०८) स्थानं भवति । स कालेन कालमभिप्रमोदनीयेषु धर्मेषु चित्तमभिप्रमोदयति । तस्याभिप्रमोदयतः । एवमस्य तच्चित्तं स्निग्धं भवत्यार्द्रं च, द्रवञ्चाच्छं च, प्रसन्नं च ।

तत्राभिप्रमोदनीयाः धर्माः कतमे ॥ आह । त्रिविधा[ः] अ (चत्वारोऽभिप्रमोनाधिष्ठानं, रत्नानि, शिक्षापदपारिशुद्धिः । आत्मनि च । विशेषाधिगमसंभावनाजातस्य चेतसो [अ]संकोचः । स एवं रत्नान्यनुसरंश्चित्तमभिप्रमोदयति लाभा मे सुलब्धाः । यस्य मे शास्ता तथागतोर्हन् सम्यक्संबुद्धः । लाभा मे सुलब्धा यो (अ)हं स्वाख्याते धर्मविनये प्रव्रजितः । लाभा मे सुलब्धाः । यस्य मे सब्रह्मचारिणः शीलवन्तो गुणवन्तः पेशलाः । कल्याणधर्माणः । भद्रकं मे मरणं भविष्यति । भद्रिका कालक्रिया, भद्रको [अ]भिसंपरायः । एवं चत्वार्यनुस्मरंश्चित्तमभिप्रमोदयति ।

कथं शिक्षापदपारिशुद्धिं शीलपारिशुद्धिमनुस्मरत(रं)श्चित्तमभिप्रमोदयति । लाभा मे सुलब्धा[ः] सो [अ]हं शास्तरि तथागते [अ]र्हति सम्यक्संबुद्धे, तस्य च स्वाख्याते धर्मविनये, तत्र च सुप्रतिपन्ने श्रावकसंघे, अहमेभिः सब्रह्मचारिभिः शीलसामान्यगतः । शिक्षासामान्यगतो, मैत्रकायवाङ्मनस्कर्मान्तः, दृष्टिसामान्यगतः । साधारणपरिभोगी [।] एवं शिक्षापदपारिशुद्धिं, (श्भ्_स्ह्४०९) शीलपारिशुद्धिमनुस्मरन्(रं)श्चित्तमभिप्रमोदयति । यदुत विप्रतिसारपूर्वकेण प्रामोद्येन ।

तत्र कथमात्मनः अधिगमसंभावनामधिष्ठाय भव्यो [अ]हमस्म्येव[ं] परिशुद्धशीलः । प्रतिबलश्च भाजनभूतश्च । एभिः सब्रह्मचारिभिः शीलसामान्यगतो, दृष्टिसामान्यगतः, सद्भिः सामान्यगतैः (सम्यग्गतैः) सत्पुरुषैः, भव्यो [अ]हमस्म्येवंभूत, एवं प्रतिपन्नो, दृष्ट एव धर्मे अप्राप्तस्य प्राप्तये, अनधिगतस्याधिगमाय, आसाक्षात्कृतस्य साक्षात्क्रियायै । इति प्रामोद्यमुत्पादयत्येवमात्मनो [अ]धिगमसंभावनाधिष्ठानेन चित्तमभिप्रमोदयति ।

अपि च । यदनेन पूर्वेणापरमारब्धवीर्येण विहरता विशेषाधिगमः कृतो भवति । तदनुस्मरन्नुत्तरि च विशेषाधिगममभिश्रद्ध्यादधं श्चित्तमभिप्रमोदयत्ययमपरः । संवेजनीयेषु धर्मेषु चित्तमभिसंतापयन्नास्रवमास्रवस्थानीयेभ्यो धर्मेभ्यश्चित्तं विमुखी करोति । विगुणी करोति । प्रातिमुख्येनावस्थापयति । विश्लेषयत्यभिप्रमोदनीयेषु धर्मेष्वभिप्रमोदयन्नमिष्यन्दयन्नैष्क्रम्यप्रविवेकजेषु धर्मेषु सस्नेहं चित्तमभिमुखीकरोत्युपश्लेषयति । रमयति । संयोजयत्येवमस्य तच्चित्ते(त्तं) याभ्यां द्वाभ्यां धर्माभ्याम् । सर्वकृष्णपक्षविमुखं सर्वकृष्ण(शुक्ल)पक्षाभिमुखं च (श्भ्_स्ह्४१०) प्रवर्त्तते । यदुत संवेगप्रहर्षाभ्यां यतश्चित्तमेवं कृष्णपक्ष विमुखं च । कृत्वा चित्तसन्तापनीयेन मनस्कारेण शुक्लपक्षाभिमुखं कृत्वा, अभिष्यन्दनीयेन मनस्कारेण कालेन कालमध्यात्मं च प्रदधाति । यदुत चेतःशमथेन प्रश्रब्धिजनकेन मनस्कारेण कालेन कालं धर्मान्विचिनोति । प्रविचिनोति । परिवितर्कयति । परिमीमान्स(मांसा)मापद्यते । ज्ञानदर्शनविशोधके(ने)न मनस्कारेण [।] एवमस्य तच्चित्तं कालेन कालं शमथविपश्यनापरिगृहीतम् । सर्वाकारसर्वगुणहेतूपकृतः (तं) तेषां तेषां रात्रिदिवसानामत्ययात् । क्षणलवमुहूर्त्तानां (णां) [।] विशेषाय परैति ।

तद्यथा जातरूपरजतं दक्षेण कर्मारेण वा, कर्मा[रा]न्तेवासिना वा कालेन कालं यदा संतापितं च भवति । विगतमलकषाये भावे नाभिष्यन्दितं च भवति । तत्र तत्रालंकारकर्मणा मृदुकर्मण्यतायोगेनाभिमुखीकृतं भवति । तमेनं दक्षः कर्मारो वा, कर्मा[रा]न्तेवासी वा तदुपमेन शिल्पज्ञानेन कर्मान्तवस्तुना यत्रेष्टा(म)लंकारविकृतिस्तत्र परिणमयत्येन (व)मेव योगिना यदा तच्चित्तमभिध्यादिमलकषाये विमुखीभावेनोद्वेजितं च भवति । क्लिष्टदौर्मनस्यविमुखीभावेन चाभिप्रमोदितं भवति । (श्भ्_स्ह्४११) तमेनं योगी यत्र यत्र नियोजयति । शमथपक्षे वा विपश्यनापक्षे वा तत्र तत्र सूपश्लिष्टं च भवति । सुलग्नं चाविकलं चाविकम्प्यं च । यथाभिप्रेतार्थसम्पत्तये च परैति ।

तत्र कथमादिकर्मिकः तत्प्रथमकर्मिको मनस्कारभावनायां विनियुज्यते । यथायं विनियुज्यमानः प्रतिपद्यमानश्च स्पृशति । तत्प्रथमतः प्रहाणाभिरतिं चित्तस्यैकाग्रताम् । इह योगज्ञो योगप्रयुक्ते नादिकर्मि(तमादिकर्मि)कः (कं) । तत्प्रथमत एवमववदते । एहि, त्वं, भद्रमुख, त्रीणि निमित्तोद्ग्राहकानि (णि) कारणानि निश्रित्य यदुत दृष्टम्वा श्रुतम्वा, चिन्तानुमानाधिपतेयं वा । परिकल्पं पञ्च निमित्तान्युद्गृह्णीष्व [।] सम्वेजनीयं, प्रसदनीयमादीनवनिमित्तमालोकनिमित्तं वस्तुरूपणानिमित्तञ्च [।] स चेत्स योगप्रयुक्त आदिकर्मिको रागचरितो भवत्यशुभाविनेयः कथं स पञ्चानां निमित्तानामुद्ग्रहणाया[व]बोध्यते । एवम[व]बोध्यते । एहि, त्वं, भद्रमुख । यं यमेव ग्रामम्वा निगमम्वोपनिश्रित्य विहरसि । स चेदन्यत्र ग्रामे, निगमे वान्यतमं पुरुषम्वा, स्त्रियम्वा आबाधिकं श्रृणोषि । दुःखितम्बाढग्लानं, मृतम्वा कालगतं, पुरुषम्वा स्त्रियम्वा [।] अपि तु तस्य पुरुषस्य वा, स्त्रिया वान्यतमान्यतमं मित्रामात्यज्ञातिसालोहितं, (श्भ्_स्ह्४१२) परचक्रकृतम्वा तद्ग्रामपर्यापन्नस्य जनकायस्य भोजनव्यसनमग्निदाहकृतम्वा, उदकापहरणकृतम्वा, कुविहितप्रविणाशकृतम्वा, कुप्रयुक्तकर्मान्तप्रलुज्यनाकृतम्वा, अप्रियदायादाधिगमकृतम्वा, कुलांगार विप्रणाशकृतम्वा [।] नो चेच्छृणोषि । अपितु प्रत्यक्षं पश्यसि । नो वान्यस्मिं (स्मिन्) ग्रामनिगमे, नो च तस्मिन्नेव ग्रामनिगमे, न परेषाम (रैर)पि त्वात्मनैव स्पृष्टो भवसि । शारीरिकाभिर्वेदनाभिर्दुःखाभिस्तीव्राभिरिति विस्तरेण पूर्ववत् ।

सर्वं दृष्ट्वा श्रुत्वा चैवं चित्तं संवेजय । दुःखो बतायं संसारः, कृच्छ्र आत्मभावप्रतिलब्धो यत्रेमा एवं रूपात्ममश्च (रूपा आत्मनश्च) परेषाञ्च विपत्तय उपलभ्यन्ते । यदुतारोग्यविपत्तिरपि, जातिविपत्तिरपि, भोगविपत्तिरपि, व्याधिर्व्याधिधर्मता च । मरणं, मरणधर्मता च । अपि चैकेषां शीलविपत्तिरपि, दृष्टिविपत्तिरपि यतो निदानं सत्त्वा दृष्टे च धर्मे दुःखविहारिणो भवन्ति । सम्पराये च दुर्गतिगामिनः । याश्च सम्पत्तयो दृष्टधर्मसुखविहाराय, अभिसम्पराये च, सुगतिगमनाय ता अप्यनित्या[ः], तासामपि अनित्यता प्रज्ञायते । विपत्तिश्चेत्संमुखीभूता, विमुखीभूता तस्मिन्समये सम्पत्तिः । असंमुखीभूतायामपि विपत्तौ दुर्लभा सम्पत्तिर्विनाशधर्मिणी च, एवं च पुनश्चित्तमुद्वेजयित्वा(ज्य) साधु च, (श्भ्_स्ह्४१३) सुष्ठु च, योनिशः प्रदधत्स्व । अनाश्वास्यमेतत्स्थानमविश्वास्यम् । यत्संसारे मे संसरतः, अपरिनिर्वृतस्याविमुक्तचेतसः एता विपत्तिसम्पत्तयो, न मे संमुखीभावं, विमुखीभावं च गच्छेयुः । न वा अतोनिदानं मे दुःखमुत्पद्यते (द्येत) । तीव्रं, खरं, कटुकमनालापमलभ्यमेतत्स्थानं तस्मादेतत्सर्वार्थमधिपतिं कृत्वा प्रहाणरतिरतेन मे भवितव्यमप्रमत्तेन, एवं बहुलविहारिणो मे अप्येवास्यानर्थस्याक्रिया स्यादित्येवं योनिशः प्रदधत्स्व, एवं त्वं संवेजनीयं निमित्तमुद्गृह्य, पुनः प्रसदनीयं निमित्तमुद्गृह्णीष्व [।] एवं च पुनरुद्गृह्णीष्व [।] आत्मनः शीलानि प्रत्यवेक्षस्व । किं परिशुद्धानि मे शीलान्यपरिशुद्धानि [वा], या (यो) मे स्मृतिसंप्रमोषाद्वा, अनादराद्वा क्लेशप्रचुरतया वा, अव्युत्पन्नतो वास्ति कश्चिच्छिक्षाव्यतिक्रमः । व्यतिक्रान्ते वा, मे (मया) शिक्षा[ं] यथाधर्मं प्रतिकृत्याध्याशयेन च पुनरकरणाय चित्तमुत्पादितम् । कश्चि(कच्चि)न्मे कर्तव्यं कृतमकर्त्तव्यञ्च (व्यं वा) । न कृतं समासतः । कच्चिदध्याशयसम्पन्नो [अ]स्मि प्रयोगसम्पन्नश्च । यदुत । शिक्षापदेषु । एवं न ते प्रत्यवेक्षमाणेन । स चेत्परिशुद्धः शीलस्कन्धः, न पुनस्ते चेतना करणीया । कच्चिन्मेविप्रतिसाः र उत्पद्येतापि तु धर्मंतैवेयम् । यदेवं विशुद्धशीलस्याविप्रतिसार (श्भ्_स्ह्४१४) उत्पद्यते । एवं चाविप्रतिसारिणा न चेतना करणीया, कच्चिन्मे प्रामोद्यमुत्पद्येत । अपि तु धर्मतैवेयं यदविप्रतिसारिणः प्रामोद्यमुत्पद्यते । अनेन तावदेकेन प्रामोद्याधिष्ठानेन द्वयाविप्रतिसारपूर्वकं प्रामोद्यमुत्पादयितव्यः (म्) । उत्पाद्य परेण संप्रहर्षाधिष्ठानेन मानसं संप्रहर्षय । स चेत्पुनर्भवसि पूर्वेणापरं परीत्तस्यापि विशेषाधिगमे प्रीतिर्जनयितव्या, भव्योहमस्मि, प्रतिबलः । एवं परिशुद्धशीलो भगवतः शिक्षासु सुप्रतिष्ठितः । दृष्टे धर्मे प्राप्तस्य प्राप्तये, अनधिगतस्याधिगमाय । असाक्षात्कृतस्य साक्षात्क्रियायै । अनेनाप्यधिष्ठानेन मानसं संप्रहर्षय ॥ स चेत्पुनर्लाभी भवति पूर्वेणापरं परचित्तस्यापि विशेषाधिगमस्य [।] स त्वं तमधिपतिं कृत्वा परेषां च परिपूर्णे विशेषाधिगमे यदुत तथागते, तथागतश्रावकेषु वा, आत्मनश्चोत्तरिविशेषाधिगमसंप्रत्ययजातो मानसं संप्रहर्षय इति (।) य एभिराकारैर्मनसस्ते स प्रहर्ष इति । य एभिराकारैः स पूर्वप्रमुदितस्यैतर्हि
प्रीतिमनस्कतेत्युच्यते ।

एवं प्रसदनीयं निमित्तमुद्ग्राहयत्युद्ग्राहयित्वा (ह्य) पुनस्समनुशास्ति । एहि, त्वं, भद्रमुख, संवेजनीयेन निमित्तेन संतापितचित्तः, प्रसदनीयेन चित्तेनाभिष्यन्दितचित्तः प्रहायाभिध्यादौर्मनस्यं (स्ये) लोके बहुलं विहरिष्यसि । यत्र च यत्रालम्बने प्रयोक्ष्यसे ॥ (श्भ्_स्ह्४१५) शमथपक्षे, विपश्यनापक्षे वा, तत्र तत्रालम्बने चित्तं स्थितं भविष्यति । अध्यात्मं सुसंस्थितं, कायचित्तप्रश्रब्धिचित्तैकाग्रताश्च प्रतिलप्स्यसे [।] एवं कृष्णपक्षविमुखीभूतः शुक्लपक्षाभिमुखीभूतस्य यदुत संवेगाभिष्यन्दनतया सर्वं पुनरस्यादीनवनिमित्तमुद्गृह्णीष्व यदुत निमित्तेभ्यो विपक्षेभ्यभ्यश्चोपक्लेशेभ्यश्च [।]

तत्र निमित्तानि रूपनिमित्तादीनि दश, वितर्काः कामवितर्कादयोऽष्टौ, उपक्लेशाः कामच्छन्दादयः (।) पञ्च । एवञ्च पुनस्तेष्वादीनवमुद्गृह्णीष्व । इतीमानि निमित्तानि व्यापारकारकानि(णि) चित्तस्य । इतीमे वितर्का औन्मुक्तसंक्षोभकारकाश्चित्तस्य [।] इतीमे उपक्लेशा अनुपशमकारकाश्चित्तस्य । यश्च चित्तस्य व्यापारो निमित्तकृतः । यश्चोन्मुक्तसंक्षोभो वितर्ककृतः । यश्चानु(नू)पक्लेश [उपक्लेश]कृतः दुःखाविहार एष चित्तस्य, तस्मादिमे निमित्तवितर्कोपक्लेशाः दुःखा अनार्या अनर्थोपसंहिताश्चित्तविक्षेपसंक्षोभकरा[ः ।] एवमादीनवनिमित्तमुद्गृह्य चित्तैकाग्रतायां चित्तस्थितौ, चित्ताविक्षेपः (पे) षड्भिराकारैर्निमित्तमुद्गृहाण, यदुत निमित्तसंज्ञया निर्निमित्ते वाव्यापारसंज्ञया, निर्विकल्पसंज्ञया, निर्विकल्पे चानौत्सुक्यासंक्षोभसंज्ञया, उपशमसंज्ञया, (श्भ्_स्ह्४१६) उपशमे(न) निष्परिदाह नैर्वृत्याशुभसंज्ञया [।] एवं निमित्तमुद्गृह्य पुनरपरं चालोकनिमित्तमुद्गृहाण [।] यदुत प्रदीपाद्वा, अग्निस्कन्धप्रभासाद्वा, सूर्यमण्डलाद्वा, चन्द्रमण्डलाद्वा निमित्तमुद्गृह्य, श्मशानाद्युपसंक्रम्य, विनीलकाद्वा निमित्तमुद्गृहाण । यावदस्थी (स्थि)नाम्वा, अस्थिशंकलिकानाम्वा, नो चेच्छ्मशानादपि तु चित्रकृताद्वा, काष्ठश्मशानकृताद्वा निमित्तमुद्गृहाण, उद्गृह्य शयनासनासनमुपसंक्रम, उपसंक्रम्यारण्यगतो वा, वृक्षमूलगतो वा, शून्यागारगतो वा, मंचे वा, पीठे वा, तृणसंस्तरके वा निषीद [।] पर्यङ्कमाभुज्य, पादौ प्रक्षाल्य, ऋजुं कायं प्रणिधाय, प्रतिमुखां (खीं) स्मृतिमुपस्थाप्य, निषद्य तत्प्रथमत एकाग्रतायां चित्ताविक्षेपे स्मृत्युपनिबद्धं कुरु, तत्र च षट्संज्ञां (ः) निर्विकल्पसंज्ञामुपसंशमसंज्ञां निर्व्यापारसंज्ञामनौत्सुक्यासंक्षोभसंज्ञान्निष्परिदाहनैर्वृत्याशुभसंज्ञाम् । तत्र च ते विक्षेपाविक्षेपपरिज्ञावधानं प्रत्युपस्थितं भवतु । येन विक्षेपाविक्षेपपरिज्ञावधानेन तथा तथा निमित्तवितर्कोपक्लेशेषु विक्षेपञ्च परिजानीष्व, चित्तैकाग्रता[या]ञ्च षट्संज्ञाभावनानुगतायामविक्षेपं [।] तत्र च विक्षेपाविक्षेपे (पयोः) तथा तथावहितो भव यथा ते एकाग्रतोपनिबद्धा, अध्यात्मं चेतःशमथोपनिबद्धा सर्वा चित्तसन्ततिश्चित्तधारा पौर्वापर्येण (श्भ्_स्ह्४१७) निर्निमित्ता प्रवर्तेत । निर्विकल्पा उपशान्ता [।] स चेत्पुनः संप्रमोषा[त्]स्मृतिसंप्रमोषात्तथा शमथप्राप्ते चेतसि निमित्तवितर्कोपक्लेशानभ्यासदोषादाभासमागच्छन्ति । सुखमादर्शयन्ति । आलम्बनीकुर्वन्ति । तेषूत्पन्नोत्पन्नेषु स्मृत्यमनसिकारः कर्तव्यः । यदुत पूर्वदृष्टमेवमधिपतिं कृत्वा एवं तदालम्बनम[नु]स्मृत्यमनसिकारेण विभावितम् । विश्वस्तमनाभासगतायामवस्थापितं भविष्यति । तच्चैतद्, भद्रमुख, सूक्ष्ममालम्बनम् । दुःप्र(दुष्प्र)तिविध्यमस्य ते प्रतिवि(वे)धाय तीव्र[च्]छन्दश्च व्यायामश्च करणीय[ः ।]

इदं चालम्बनं सन्धायोक्तं भगवता । जनपदकल्याणी जनपदकल्याणीति भिक्षवो महाजनकायः सन्निपतेत । अथ पुरुष आगच्छेदबालजातीयः । तं कश्चिदेव[ं] वदेदिदं ते भोः, पुरुष, तैलपात्रपूर्णं समतित्तिकमनभिषेक्यमन्तरा च जनकायः सन्निपतेत । सा खलु जनपदकल्याणीम(अ)न्तरा च (श्भ्_स्ह्४१८) महासमाजम् । परिहर्त्तव्यमयं च ते उत्क्षिप्तासिको वधकपुरुषः पृष्ठतः पृष्ठतः समनुबद्धः । स चेत्त्वमस्मात्तैलपात्रादेकबिन्दुमपि पृथिव्यां निपातयिष्यसि ततस्ते उत्क्षिप्तासिको बधकपुरुष उच्छिन्नमूलं शिरः प्रपातयिष्यति । किं मन्यध्वे भिक्षवः अपि नु स पुरुषः अमनसिकृत्वा तैलपात्रममनसिकृत्वा तैलपात्रममनसिकृत्वा उत्क्षिप्तासिकं बधकपुरुषं जनपदकल्याणी[ं] मनसि कुर्यान्महाजनसमाजम्नो, नो, भदन्त, तत्कस्य हेतोस्तथा हि तेन पुरुषेणो[त्क्षि]प्तासिको वधकपुरुषः पृष्ठतः पृष्ठतः समनुबद्धो दृष्टः । तस्यैवं स्यात्[।] स चेदहमस्मात्तैलपात्रादेकबिन्दुमपि पृथिव्यां पातयिष्यामि । अतो मे उत्क्षिप्तासिको बधकपुरुषः उच्छिन्नमूलं शिरः प्रपातयिष्यति । नान्यत्र स पुरुषः अमनसिकृत्य(त्वा) जनपदकल्याणी[ं] महासमाजम्वा । तदेव तैलपात्रं सर्वचेतसा समन्वाहृत्य सम्यगेव परिहरेदेवमेव भिक्षवः । ये केचिच्चत्वारि स्मृत्युपस्थानानि सत्कृत्य भावयन्ति । गुरुकृत्य सर्वचेतसा समन्वाहृत्यते मे (त इमे) श्रावका इति [।] तत्र जनपदकल्याणीति काय[च्]छन्दाद्युपक्लेशपर्यवस्थानीयानान्धर्माणामेतदधिवचनम् । परमप्रधाना नृत्तगीतवादित इति वितर्कप्रपञ्चसंक्षोभस्थानीयानां धर्माणामेतदधिवचनम् । महासमाज इति । रूपनिमित्तादीनां दशानां निमित्तानामेतदधिवचनम् । (श्भ्_स्ह्४१९) अबालभागीयः पुरुष इति । योगाचारस्याधिवचनम् । तैलपात्रमिति । शमथोपनिबद्धस्य चित्तस्य एतदधिवचनम् । कायचित्तप्रश्रब्धिस्नेहनार्थेन उत्क्षिप्तासिको बधकपुरुष इतिनिमित्तवितर्कोपक्लेशेषु पूर्वोद्गृहीतस्यादीनस्यैतदधिवचनं [।] सत्कृत्य विहरति । न चैकबिन्दुमपि पृथिव्यां पातयतीति विक्षेपाविक्षेपपरिज्ञानावधानपरिगृहीतस्य शमथमार्गस्यैतदधिवचनम् । येनायं सर्वो (सर्वां) चित्तसन्ततिं चित्तधारां निर्मिमित्तां निर्विकल्पामुपशान्तां वीर्यबलेन निरन्तरां पौर्वापयेण प्रवर्त्तयति । न चैकचित्तमुत्पादयति । निमित्तालम्बनम्वा वितर्कोपक्लेशालम्बनम्वा ॥

तमेनमेवं शमथप्रयुक्तमादिकर्मिकं योगी समनुशास्ति । यावत्ते, भद्रमुख, एवं शमथमार्गप्रयुक्तस्य एवमुपायपरिगृहीतं स्मृतिसंप्रजन्यसहगतं साभिरामं चित्तं भवति । तावत्ते शमथमार्ग एव भावयितव्यः । स चेत्पुनरनभ्यासमोषान्न रमते सोपायं च तदालम्ब तस्मान्निर्विकल्पादालम्बनाद्व्युत्थाय सविकल्प आलम्बने स्मृत्युपनिबद्धं कुरुते । यदेव ते पूर्वोद्गृहीतमशुभनिमित्तं तदेव मनसि कुरु तत्प्रथमतो निमित्तमात्रानुसारिण्या विपश्यनया यदुत विनीलकम्वा, विपूयकम्वा, यावदस्थिशंकलिकाम्वा ॥ तथा प्रयुक्तश्च तत्प्रथमव(त) एकं विनीलकमधिमुच्यस्व, (श्भ्_स्ह्४२०) यावदेकामस्थिशंकलिकां यतश्चात्र कृतपरिचयो भवसि । प्रभास्वरश्च तेधिमोक्षः प्रवर्तते । तदालम्बनन्द्वौ तदा द्वौ, त्रीणि, चत्वारि, पंच, दश, विंश, त्रिंशच्चत्वारिंशत् । पञ्चाशद्विनीलकशतंविनीलकसहस्रं, यावत्सर्वा दिशो विदिशश्च । प्रमाणाकारेण पूर्वा[ं] निरन्तरा[म]धिमुच्यस्व । येषां न स्यादवकाशः अन्ततो दण्डविष्टम्भनकोटीमात्रमपि [।] यथाविनीलकानामेवं यावद स्थिशंकलिकानां सर्वमेवमधिमुक्तिमनस्कारं निश्रित्य भूतमनस्कारमवतर, एवं च पुनरवतर, यावन्त्येतानि विनीलकानि मयाधिमुक्तानि यावदस्थिशंकलिका अतो [अ]प्रमाणवराणि मे पूर्वान्तभारभ्य, तत्र तत्र भवगतिच्युत्युपपादेषु, मृतस्य कालगतस्य यानि विनीलकानि निर्वृत्तानि, यावदस्थिशंकलिकानिर्वृत्याम् । येषां पूर्वा कोटिर्न प्रज्ञायते, निवर्तमानानां, ताः स चेत्कश्चित्संहरेत्संहृताश्च न विनश्येयुः, न च पूतीभवेयुः । नास्ति स पृथिवीप्रदेशो यत्र तेषामवकाशः स्यात् । एककल्पिका नामपि, तावद्यावदस्थिशंकलिकानां स चेत्कश्चित्संहारको भवेत् । तासां स्यात्संहृतानां विपुलपार्श्वपर्वतसमा राशिः । यथा पूर्वस्यान्तर (पूर्वान्त)मारभ्यैवम परान्तमपि यावत्(।) दुःखस्यान्तं न (श्भ्_स्ह्४२१) करिष्याम्येवं हि त्वमभियुक्षि (युंक्ष्व) । मनस्कारं निश्रित्य भूतमनस्कारमवतीर्णो भविष्यसि (भव) । न चैतानि विनीलकानि यावदस्थिशंकलिका [या] विपश्यनाप्रयुक्तेन सकृद्विपश्यितव्या[नि], नान्यत्रैकं विनीलकमधिमुच्य पुनश्चित्तं शमयितव्यं तावच्च तद्विनीकमधिमोक्तव्यः (व्यं) यावत्तस्मेना (स्मिन्ना)लम्बने साभिरामप्रभास्वरं नोपायासेन पर्यवनह्यते । न तावात्कालकरणीयं भवति । तस्मिन् समये अध्यात्मं सा(सं?) शमयितव्यं यथा विनीलकमेवं यावदस्थिशंकलिकैका एवं यावदप्रमाणा अनेनैव नयेन वेदितव्या[ः] । चित्तमध्यात्मं संशमयित्वा (संशम्य) विमोक्तव्यास्ततः सर्वपश्चादप्रमाणानि विनीलकान्यप्रमाणा यावदस्थिशंकलिका अध्यात्मं चित्ताभिसंक्षेपेण विभावयत्यनाभासगतायां स्थापयति । न च तानि निमित्तान्युत्सृजति ॥ सविकल्पानि नापि च कल्पयति । नान्यत्र तदालम्बनमेव निर्निमित्तं निर्विकल्पमुपशान्तं चित्तमवस्थापयति ।

स पुनश्चोपदिश्यते, यत्ते भद्रमुख, पूर्वमेवालोकनिमित्तमुद्गृहीतं, तत्त्वं शमथपक्षप्रयोगे [अ]पि मनसि कुरु, विपश्यनापक्षप्रयोगे [अ]पि, आलोकसहगतेन (श्भ्_स्ह्४२२) चित्तेन, सप्रभाससहगतेन, प्रभास्वरेणानन्धकारेण शमथविपश्यनां भावय । एवं च ते शमथविपश्यनामार्गे आलोकसंज्ञां भावयतः । स चे दादित एव अविस्पष्टोधिविमोक्षो भविष्यत्यालम्बने सम्य[गा]भासः । स तेन हेतुना, तेन प्रत्ययेन, भावनाभासाद्विशिष्टता भविष्यति । प्रचुराभास(ग)ता च । स चेत्पुनरादित एव विस्पष्टो भविष्यति । प्रचुराभासः । स भूयस्या मात्रया विस्पष्टतरतां प्रचुराभासतरताञ्च गमिष्यति । स त्वमेतत्सम्वेगनिमित्तेन सूद्गृहीतेन, प्रसदनीयनिमित्तेन, शमथनिमित्तेन, विपश्यनानिमित्तेन, लोकनिमित्तेन, सूद्गृहीतेन कालमध्यात्मं चित्तं संशयमयन्कालेन कालं धर्मान्विचिन्वन्ति(चिन्वन्), निमित्तमात्रानुसारिण्या विपश्यनया स्मृत्युपस्थानेष्ववतर । यदुताशुभाप्रयोगमेवाधिपतिं कृत्वा, एवं च पुनर्विचिन्वन् बहिर्धा षट्त्रिंशतो (त्)द्रव्याणि कायात्केशादि प्रसावपर्यन्ता (न्तं) निमित्तमुद्गृह्य अध्यात्ममेतानि सर्वाणि अशुचिद्रव्याण्यधिमुच्याध्यात्मंचित्तं संशमय (स्व), इदं ते भविष्यत्यध्यात्मं कायेन कायानुपश्यनायाः यदुतात्मनोऽन्तः कायमारभ्य, स त्वं पुनरपि बहिर्धा अशुभानिमित्तेनोद्गृहीतेन विनीलकं चाधिमुच्यस्व, यावदस्थि वा शंकलिकाम्वा, (श्भ्_स्ह्४२३) परीत्तेन वाधिमोक्षेण, महद्गतेन वा [अ]प्रमाणेन वाधिमुच्याधिमुच्याध्यात्मं चित्तं संशमय, इदं ते भविष्यति । बहिर्धा कायेन कायानुपश्यनाया, यदुत परसान्ततिकं बहिःकायमारभ्य, स त्वं पुनरप्यात्मनः अन्तःकायेऽशुभतापरिभावितेन चेतसाश्चाशुभतापरिभावितेन चेतसा परकाये चान्तर्बहिश्चाशुभतापरिभावितेन चेतसात्मानं घ्रि(म्रि)यमाणमधिमुच्यस्व, मृतम्वा पुनः श्मशाने [अ]भिनिर्ह्रियमाणमभिनिर्हृतम्वा, श्मशाने च्छोरितम् । छोरितम्वा विनीलकावस्थं, विपूयकावस्थं, यावदस्थिशंकालिकावस्थमधिमुच्यस्व, इदं ते भविष्यत्यध्यात्मबहिर्धा काये कायानुपश्यनायाः स[त्]त्वं, पुनरपि चत्वारोऽरूपिणः स्कन्धाः श्रुतचिन्ताधिपतेयेन परिकल्पनिमित्तग्राहेण त्रिषु भागेष्वधिमुच्यस्व शमथपक्ष्ये, विक्षेपपक्ष्ये, विपश्यनापक्ष्ये च । यदाध्यात्मं चित्तमभिसंक्षिपसि तत्र निर्मिमित्तनिर्विकल्पोपशमाकारा निर्व्यापारानुत्सुकासंक्षोभनिःपरिदाह नैर्वृत्यसुखसंज्ञाकारा अविक्षेपालम्बना वेदनादयश्चत्वारो [अ]रूपिणः स्कन्धाः । प्रतिक्षणं प्रतिक्षणमन्योऽन्यतया नवनवनिष्पुराणतया प्रवर्तन्त इत्यधिमुच्यस्व, इदं ते भविष्यत्यध्यात्मबहिर्धा वेदनासु, चित्ते, धर्मेषु, धर्मानुपश्यनायाः सत्त्वम् । ये पूर्वं विषयोपादाना, विषयालम्बना असमाहितभूमिपतिता अभ्यपतिताः (श्भ्_स्ह्४२४) क्षीणा, ये चैतर्हि स्मृतिसंप्रमोषाच्चित्तक्षेपे सत्युत्पद्यन्ते निमित्तवितर्कोपक्लेशालम्बनाधिपतेया वेदनादयश्चत्वारो [अ]रूपिणः स्कन्धास्तेषामा(या)पायिकतां तावत्कालिकतामित्वरप्रत्युपस्थायितां, सादीनवतां, सध्रुवतामनाश्वासिकतामपरिमुच्यस्व । इदं ते भविष्यति । बहिर्धा वेदनाचित्तधर्मानुपश्यनायाः सत्त्वं, पुनरपि विपश्यनानिमित्तमुद्गृह्य सनिमित्ते संकल्पे मनस्कारे स्थितः
। ये सविकल्पसनिमित्तालम्बनाधिपतेया अध्यात्ममुत्पद्यन्ते । वेदनादयचत्वारो [अ]रूपिणः स्कन्धास्तेषां प्रतिक्षणं नवनवतां निष्पुराणतामन्योऽन्यतां पूर्ववदधिमुच्यस्व । इदं ते भविष्यति बहिर्धा वेदनायां, चित्ते, धर्मेषु धर्मानुपश्यनायाः [सत्त्वं] । एवं हि त्वमशुभाप्रयोगमधिपतिं कृत्वा चत्वारि स्मृत्युपस्थानान्यवतीर्णो भविष्यसि । स्मृत्युपस्थाने, प्रयोगे [अ]पि च । ते कालेन कालं शमथविपश्यनायां प्रयोक्तव्यम् । स त्वमेवमुपस्थितया स्मृत्या चतुर्षु स्मृत्युपस्थानेषु यं यमेव ग्रामं वा, निगमं बोपनिश्रित्य विहरसि, स त्वं तमेव ग्रामं वा, निगमं वा । तन्नित्येन चित्तेन, तत्प्रवणेन, तत्प्राभो(भा)रेण आलम्बनमालम्बननिमित्तमुत्सृजता पिण्डाय प्रविश । चण्डस्य हस्तिनश्चण्डस्याश्वस्य, चण्डस्य गोश्चण्डस्य कुररस्य, अहिश्वभ्रस्थाणुकण्टकपल्वलप्रपातस्यन्दिकगूथकठल्लपापिके या चर्या शयनासनपरिवर्जना [।] (श्भ्_स्ह्४२५) अरक्षितस्ते आत्मा भवति । येषु च ते विषयनिमित्तेष्विन्द्रियाणि प्रेरयितव्यानि तेष्वनाभोगतया असंवृतानीन्द्रियाणि भवन्तु । येषु वा पुनर्निमित्तेष्विन्द्रियाणि प्रेरयितव्यानि । तेषु तेषूपस्थिता स्मृतिः । भवतु, यदुत क्लेशासमुदाचाराय । स त्वमेवं सुरक्षितेन कायेन, सुसंवृतैरिन्द्रियैः, सूपस्थितयास्मृत्या, तद्गतेन मानसेन मात्रया पिण्डपातं परिभुंक्ष्व । मितभागी(णी) च भव, सार्धं गृहस्थप्रव्रजितैर्युक्तका(भा)णी, कालभाणी, आर्जवभाणी । प्रशान्तभाणी । अधर्म्या च ते [त्वया] कथा सर्वेण सर्वं परिवर्जयितव्या । धर्म्यामपि ते [त्वया] कथा[ं] कथयता न विगृह्य कथा करणीया । तत्कस्य हेतोः [।] विगृह्य कथासंरम्भानुयोगमनुयुक्तस्य पुरुषपुद्गलस्य विहरतः कथाबाहुल्ये चित्तं सन्तिष्ठते । तथा बाहुल्ये सत्यौद्धत्यमौद्धत्ये सत्यव्युपशमः । अव्युपशान्तचित्तस्याराच्चित्तं समाधेर्भवति । न त्वमेवंचारी त्वरितत्वरितमनुत्सृष्टेनालम्बनेन मे [अ]द्यशमथविपश्यनायां यथोद्गृहीतेनैव निमित्तेन प्रतनुकारितयावा, अन्तकारितया च । योगं कुरु, ते (स त्वम्) अग्निमथनप्रयोगेण च सातत्यसत्कृत्यप्रयोगतया प्रततकारी भव, एवं तु पुनश्चितं प्रणिधत्स्व । स चेद्यावदायुर्जम्बूद्वीपे सर्वेषां जंबूद्वीपकानां मनुष्याणामभूत्तत्सर्वमभिसमस्तं ममैकस्यैतर्हि (श्भ्_स्ह्४२६) स्यात् । सो [अ]हं तावदप्रमाणेनायुषा प्रमाणयोगप्रयोगेण च सातत्यसत्कृत्यप्रयोगतया प्रततकारी भवा[मि] [।] एवं च पुनश्चित्तं प्रणिधत्स्व । स चेद्यावदायुर्जबूद्वीपे मनसिकारे शमथविपश्यनायां योगं न रिंचयं(यन्) यदुतास्यैव योगप्रयोगस्य महाफलतां महानुशंसतां च विदित्वा प्रागेवास्मिन् परि(प्रणि)धत्ते [।] आयुषीत्वरे जीविते दूरमपिगत्वा वर्षशति(त)के परिगण्यमानमौन्तिके [।]

एवं हि त्वं यथानुशिष्टः प्रततकारी वात्यन्तकारी च । यस्यार्थे प्रहाणमुपगतस्तस्यार्थस्याबाधको भविष्यसि । तत्प्रथमत[स्त]म्प्र[क्ष्य]सि । मृदुकां कायप्रश्रब्धिं चित्तैकाग्रतां ततश्चोत्तरि विपुलालौकिकलोकोत्तरां सम्पदमारागयिष्यति(सि) ।

एवमयमादिकर्मिकस्तत्प्रथमकर्मिकः । अशुभाप्रयुक्तो योगज्ञेनाचार्येण चोद्यमानः सम्यग(क्) चोदितो भवत्येवं च प्रतिपद्यमानः । सम्यक्प्रतिपन्नो भवति । यथा [अ]शुभाविनेयो [अ]शुभायां, तथा मैत्र्यविनेयादयो [अ]पि आनापानस्मृतिपर्यवसानाय यथायोगं वेदितव्यास्तत्रायं विशेषः । तदन्येष्ववतरणमुखेषु तं विभावयिष्यामि । तत्र मैत्रीभावनाप्रयुक्तेनादिकर्मिका(ण)बहिर्धा मित्रपक्षादुदासीनपक्षाच्च (श्भ्_स्ह्४२७) निमित्तमुद्गृह्य प्रतिरूपशयनासनगतो हि सुखाध्याशयगतेन मनस्कारेण समाहितभूमिकेन पूर्वमेकं मित्रमधिमोक्तव्यमेकममित्रमेकमु(क उ)दासी नं (नः), तेषु च त्रि[षु] पक्षेषु तुल्यं हितसुखाध्याशयगतेन मनस्कारेणोपसंहारश्च करणीयः । सुखिता भवन्त्येते सुखकायाः सत्त्वा यदुतानवद्यकामसुखेन, अनवद्यसप्रीतिकसुखेन, अनवद्यनिष्प्रीतिकसुखेन । ततः पश्चाद्द्वे मित्राणि, त्रीणि, चत्वारि, पञ्च, दश, विंश, त्रिंशत्पूर्ववद्यावत्सर्वा दिशो विदिशश्च मित्रामित्र (त्रैः) पूर्णा अधिमुच्यन्ते । निरन्तरा यत्र नास्त्यन्तरमन्ततो दण्डकोटीविष्कम्भनमात्रमपि यथा मित्रपक्षेणैवममित्रोदासीनपक्षेण वेदितव्यम् । स च मैत्रीप्रयोगं च न जहाति । नान्यत्र भावयन्नेव मैत्रीं स्मृत्युपस्थानेष्ववतरति । कथं पुनरवतरत्यधिमुच्यमानो [अ]वतरति । यथाहमप्यन्येषां मित्रसम्मतो [अ]मित्रसम्मतश्चोदासीनसम्मतश्च [।] अहमपि सुखकामो दुःखप्रतिकूलः । इदमस्याध्यात्मं काये कायानुपश्यनायाः [सत्त्वम्] । एते [अ]पि सत्त्वाः परेषां मित्रभूता, अमित्रभूता, उदासीनभूताश्च, यथा मे ते [अ]पि सुखकामाः दुःखप्रतिकूला इदमस्य बहिर्धा कायानुपश्यनायाः [सत्त्वं], यथाहं तथैते सत्त्वा, यथा मे आत्मनः सुखमेषणीयं सत्त्वानामात्मसमतयात्मतुल्यतया (श्भ्_स्ह्४२८) एषां सत्त्वानां मयाभिहितसुखोपसंहारकरणाय इतीदमस्याध्यात्मबहिर्धा काये कायानुपश्यनायाः [सत्त्वम्] । चत्वारि चैतानि स्मृत्युपस्थानानि, संभिन्नस्कन्धालम्बनतया संभिन्नालम्बनं स्मृत्युपस्थानं भवति । रूपनिमित्तन्तु योगी उद्गृह्य वर्णसंस्थाननिमित्तं, विज्ञप्तिनिमित्तं च मित्रामित्रोदासीनपक्षाद्(क्षेभ्यो)ऽधिमुच्यते । तेनेदं कायस्मृत्युपस्थानमेव व्यावस्थाप्यते । सोऽधिमुक्तिमनस्कारं निश्रित्य, भूतमनस्कारमस्यावतरत्येवं च पुनरधिमुच्यमानो [अ]वतरति । यावदप्रमाणाः सत्त्वा एते मया (अ)धिमुक्ता । हितसुखगतेनाध्याशयेन । अतो [अ]प्रमाणतराः सत्त्वा ये ममपूर्वान्तमारभ्य मित्रामित्रोदासीनपक्षतया [अ]भ्यतीता ये मम मित्रतां गत्वा अमित्रतामुपगता, अमित्रतां गत्वा मित्रतां चोदासीनतां तोप(चोप)गतास्तदनेन पर्यायेण सर्व एव सत्त्वास्समसमा, नास्त्यत्र काचिन्मित्रता वा, अमित्रता वोदासीनता वा, परिनिष्पन्नेत्यनेनैव पर्यायेण तुल्यहितसुखोपसंहारता च करणीया । यथा पूर्वान्तमारभ्य एवमपरान्तमप्यारम्य, सत्यां संसृतौ संसारे येपि च मया सत्त्वाः पूर्वान्तमारभ्य तन्मैत्रेण चित्तेनानुकम्पिताः । किं (श्भ्_स्ह्४२९) चापि ते [अ]भ्यतीता अपितु तानेतर्ह्यनुकम्पे यदुत चित्तनिष्कालुष्य(कलुष)तामव्यापन्नतामुपादाय । सुखिता बत ते सत्त्वा, भूता भविष्यन् (अभूवन्), ये, [अ]पि च न भूता अनागते [अ]ध्वनि सुखिता भवन्तु । एवं भूतमनस्कारानुप्रतिष्ठस्य मैत्रीविहारिणः यः पुण्याभिष्यन्दः कुशलाभिष्यन्दः । तस्याधिमोक्षिकमैत्रीविहारगतः पुण्यस्कन्धः । शतिमामपि कलां नौपेति । सहस्रिमामपि । संख्यामपि, कलामपि । गणनामप्युपनिषदमपि नोपैति [।] शेषं पूर्वत् ॥

तत्रेदंप्रत्ययताप्रतीत्यसमुत्पाद आदिकर्मिकः श्रुतचिन्ताधिपतेयेन परिकल्पितं न निमित्तमुद्गृह्णात्यन्येषां सत्त्वानामज्ञानम् । सम्मोहो येनेमे प्रत्यक्षमनित्यं नित्यतो [अ]वगच्छन्ति प्रत्यक्षमशुचि शुचितः, दुःखं सुखतः, निरात्मकतामात्मतः । विपर्यस्ता एते सत्त्वा विपर्यास हेतोर्दृष्टे धर्मे, वेदनासु सम्पराये चात्मभावाभिर्निवृत्तौ, तृष्यन्ति, तृषिताश्च जातिमूलकानि कर्माणि कृत्वा एवमायत्यां कर्मक्लेशहेतु [............] केवलं संदुःखमभिनिर्वर्तयन्त्येवं निमित्तमुद्गृह्याध्यात्ममधिमुच्यते । अयमपि केवलो दुःखस्कन्ध एवमेव संभूत इति । ये चात्मभावा नानन्ता[ः] पर्यन्ताः पूर्वान्तमारभ्य येषामादिरेव न प्रज्ञायते । (श्भ्_स्ह्४३०) तेऽप्येवंभूता, एषामपि सत्त्वानामतीतानागतप्रत्युत्पन्नाः सर्व एवात्मभावा दुःखस्कन्धसंगृहीता एवमेवाभिनिर्वृत्ताः । आयत्यां नोत्पद्यन्ते । स खल्वयमियं(दं)प्रत्ययताप्रतीत्यसमुत्पादमनस्कारः सर्वभूतमनस्कार एव नास्त्याधिमोक्षिकः । यदि न पुनरात्मनो वर्तमानान् स्कन्धान् प्रतीत्यसमुत्पन्नान्मनसिकरोति । तदाध्यात्मं काये यावद्धर्मेषु धर्मानुदर्शी विहरति । यदा च पुनः परेषां वर्तमानान्स्कन्धान् प्रतीत्यसमुत्पन्नान्मनसि करोति । तदाध्यात्मबहिर्धा काये यावद्धर्मेषु धर्मानुदर्शी विहरति । यदात्मनश्च परेषां चातीतानागतान् [स्कन्धान्] प्रतीत्यसमुत्पन्नान्मनसि करोति । तदाध्यात्मबहिर्धा काये यावद्धर्मेषु धर्मानुदर्शी विहरति । शेषं पूर्वत् ।

तत्र धातुप्रभेदप्रयोगप्रयुक्त आदिकर्मिको बहिर्धापृथिवीकाठिन्यनिमित्तमुद्ग्रह्य, तद्यथा भूपर्वततृणवनशर्करकठिल्लमणिमुक्तिवैडूर्यशिलाप्रवालादिकेभ्यश्चाध्यात्मं काठिन्यमधिमुच्यते । बहिर्धा अप्स्वब्धातोर्न्नि(र्नि)मित्तमुद्गृह्य, तद्यथा नदीप्रस्रवणतडागकूपादिभ्य[ः], तथा महतो [अ]ग्निस्क स्क[न्धस्य]ब्धौ वादित्यकिरणसंतापिता भूराविष्टेभ्यो (श्भ्_स्ह्४३१) [वा] सर्वेभ्यः । उदाराग्निसंप्रतापितेभ्यो वा प्रश्रयेभ्यश्च नो बहिर्धा वायुस्कन्धात्पूर्वदक्षिणपश्चिमोत्तरेभ्यो वायुभ्यो यावद्वायुमण्डलेभ्यः । ये देशा [अस्त्यादेस्तारणीया] वायुगतेन सच्छिद्राः, सुशिराः, सावकाशाः, तस्मादाकाशधातोर्निमित्तमुद्गृह्णात्यध्यात्ममब्धातुं, तेजो धातुं वायुधातुमाकाशधातुमधिमुच्यति(ते) । श्रुतचिन्ताधिपतेयेन च परिकल्पितेन [।] एवं विज्ञानधातोर्निमित्तमुद्गृह्णाति । चक्षुराध्यात्मिकमायतनमपरिभिन्नं चेद्भवति । रूपमाभासगतम् । न च तज्जो मनस्कारः प्रत्युपस्थितो भवति । न तज्जस्य चक्षुर्विज्ञानस्य प्रादुर्भावो भवति । विपर्ययाद्भवति । एवं यावन्मनोधर्मान्मनोविज्ञानं वेदितव्यम् ।

एवं निमित्तमुद्गृह्याप्येषां सर्वेषां विज्ञानानामस्मिन् काये चातुर्महाभूतिके बीजं धातुर्गोत्रं प्रकृतिरित्यधिमुच्यते । तान्येतानि चत्वारि महाभूतानि तत्प्रथमतो [अ]ङ्गप्रत्यंगो(गतो) [अ]र्थं विनाप्यधिमुच्यते [।] ततः पश्चात् । सूक्ष्मतरावयव प्रभेदानाधिमुच्यते । एवं यावद्गतायनप्रविष्ट[स्]तु[टि]समतया, एवं यावच्छनैः शनैः परमाणुशो [अ]धिमुच्यते । स एकैकमंगावयवप्रमाणपरमाणुसञ्चयसन्निविष्टमधिमुच्यते । (श्भ्_स्ह्४३२) कः पुनर्वादः सर्वकायमयं(यम् । अयं) धातुप्रभेदप्रयुक्तस्य चार्थप्रभेदपर्यन्तः रूपिणां ताबद्धातूनामाकाशधातोः पुनः । यत्पुनरस्य तस्मिन् प्रयोगे शमथविपश्यनाभावनायां विक्षेपाविक्षेपपरिज्ञावधानमिदमस्य संप्रजन्यस्य स्मृतिसमतायाश्च [।] यत्पुनः संवेगनिमित्तं, प्रसदनीयं च निमित्तं सूद्गृहीतं भवतीदमस्याभिध्यादौर्मनस्य विनयस्य, तस्यैवमातापिनो विहरतो यावत्(द्) द्वितीयलोके [अ]भिध्यादौर्मनस्यं पूर्वमेव सम्यक्प्रयोग[स]मारम्भकाले । सूक्ष्मचित्तप्रश्रब्धिर्दुरुपलभ्या प्रवर्त्तते । या तत्र शमथम्वा भावयतो, विपश्यनाम्वा प्रस्वस्थचित्तता, प्रस्वस्थकायता । चित्तकाय कर्मण्यता । इयमत्र कायचित्तप्रश्रब्धिः । तस्य सैव सूक्ष्मा चित्तैकाग्रता चित्तकायप्रश्रब्धिश्चाभिवर[ं] नी औदारिकां सूपलक्ष्यां चित्तैकाग्रतां कायप्रश्रब्धिमावहति । यदुत हेतुपारं पर्यादानयोगेन, न तस्य, न चिरस्येदानीमौदारिकीचित्तकायप्रश्रब्धिश्चित्तैकाग्रता च । सूपलक्ष्योत्पत्स्यतीति । यावदस्या पूर्वनिमित्तं पूर्व निर्गौरवप्रतिभासमुत्पद्यते । न चैतद्वाधलक्षणम् । तस्यानन्तरोत्पादाद्यत्प्रहाणरतिविवन्धकारी (रि)णां क्लेशानां पक्ष्यं चित्तं(त्त)दौष्ठुल्यं तत्प्रहीयते । तत्प्रतिपक्षेण च चित्तकर्मण्यता (श्भ्_स्ह्४३३) चित्तप्रश्रब्धिरुत्पद्यते । तस्योत्पादात्कायप्रश्रब्ध्युत्पादानुकूलानि वायूर्ध्व [मु]क्तानि महाभूतानि कायेऽवक्रमन्ति । तेषामवक्रमणहेतोर्यत्कायदौष्ठुल्यं तद्विगच्छति । प्रहाणरतिरिव[दक]रक्लेशापक्ष्यकायप्रश्रब्ध्या च तत्प्रतिपक्षिकया सर्वकायः पूर्यते । स्यादा [............] ध्याति ।

ततः प्रथमोपनिपाते चित्तौष्ठिल्यं (चित्तदौष्ठुल्यं) चित्तसुमनस्कारप्रामोद्यसहगतालम्बनसाभिरामता च । चित्तस्य तस्मिन् समये ख्याति । तस्योर्ध्वं योऽसौ तत्प्रथमोपनिपाती प्रश्रब्धिवेगः । स शनैः शनैः परिश्लथतरो भवति । छायेवानुगता प्रश्रब्धिः काये च प्रवर्त्तते । यच्च तदौद्धिल्यं(द्धत्यं) चेतसस्तदप्यवहीयते । प्रशान्ताकारचित्तसालम्बने शमथो यस्तच्च(यस्स)प्रवर्त्तते । तत ऊर्ध्वमयं योगी आदिकर्मिकः समनस्कारो भवति । [स]मनस्कार इति च संख्यां गच्छति । तत्कस्य हेतोः । रूपार्थानुरोधेन समाहितभूमिको मनस्कारः परीत्तस्तप्रथमतः प्रतिलब्धो भवति । तेनोच्यते समनस्कार इति ।

तस्यास्य समनस्कारस्यादिकर्मिकस्येमानि लिंगानि भवन्ति । परीत्तमनेन रूपावचरं चित्तं प्रतिलब्धं भवति । परीत्ता कायप्रश्रब्धिश्चित्तप्रश्रब्धिश्चित्तैकाग्रता, भव्यो भवति प्रतिबलः । क्लेशविशोधनालम्बनः (श्भ्_स्ह्४३४) प्रयोगेऽस्य, स्तिग्वा(मा)चास्य चित्तसन्ततिः प्रवर्त्तते । शमथोपगूढाच्चरितं तदानेन विशोधितं भवति । स चेद्रंजनीये विषये चरति, न तीव्रं रागपर्यवस्थानमुत्पादयति । अल्पमात्रेकणावरमात्रकेण च । प्रतिपक्षसन्निश्रयेणाभोग मात्रकेणाशक्तो [अ]तिप्रतिविशोद(ध)यितुम् । यथा रंजनीये एवं द्वेषणीये, मोहनीये मानस्थानीये, वितर्कस्थानीये वेदितव्यम् । निषण्णस्य चास्य प्रतिसंलयने चित्तं प्रतिदधतस्त्वरितत्वरितं चित्तं प्रश्रभ्यते ॥ कायश्च [।] कायदौष्ठुल्यानि च नात्यर्थं बाधन्ते । न चात्यर्थं निवरणसमुदाचारो भवति । न चात्यर्थमुत्कण्ठा रतिपरितमनासहगता[ः] संज्ञामनसिकाराः समुदाचरन्ति । व्युत्थितस्यापि मनस[श्] (व्युत्थितमनसोऽपि) चरतः । प्रश्रब्ध(ब्धि)मात्रा काचिच्चित्ते, काये, (चित्ते) चानुगता भवतीत्येवं भागीयानि [स]मनस्कारस्य [आदिकर्मिकस्य] लिंगानि निमित्तान्यवदातानि वेदितव्यानि ॥

। पिण्डोद्दानम् ॥

उपसंक्रमणं या च हर्षणा पृच्छनैषणा ।
विनियोगरक्षोपचयः प्राविवेक्यभवैकता ॥
आवरणशुद्धयुत्कृष्टेह मनस्कारस्य भावना ॥

॥ योगाचारभूमौ श्रावकभूमिसंगृहीतायां तृतीयं योगस्थानं समाप्तम् ॥

(श्भ्_स्ह्४३५)
(श्भ्_स्ह्४३६)
(श्भ्_स्ह्४३७)

इव्. चतुर्थं योगस्थानम्

तत्र लब्धमनस्कारस्य योगिनः । एवं परीत्तप्रहाणरतिप्रविष्टस्य तदूर्ध्वं द्वे गती भवतः । अनन्ये । कतमे द्वे तद्यथा । लौकिकी च लोकोत्तरा च ।

तत्रायमादिकर्मिको योगाचारः । समनस्कारः । लौकिकया वा गत्या गमिष्यामि । लोकोत्तरया वेति । तमेव मनस्कारं बहुलीकरोति । यथा यथा बहुलीकरोति । तथा तथा सा प्रश्रब्धिश्चित्तैकाग्रता च । तेषां तेषां रात्रिदिवसानामत्ययात्पृथुवृद्धिवैपुल्यतां गच्छति । यदा चास्य दृष्टिस्थिरः खरश्च मनस्कारः संवृत्तो भवति । परिश्रब्धश्चालम्बनाधिमोक्षः । प्रवर्तते । शमथविपश्यनापक्ष्याच्च निमित्तान्युद्गृहीतानि भवन्ति । तदा स लौकिकेन मार्गेण गन्तुकामस्तत्र च प्रयोगमारभते लोकोत्तरेण वा मार्गेण [।]

तत्र कति पुद्गलाः । ये दृष्टे धर्मे लौकिकेनैव (श्भ्_स्ह्४३८) मार्गेण पृ(ग)च्छन्ति । न लोकोत्तरेण । आह । चत्वारस्तद्यथा सर्व इतो बाह्यकः । इह धार्मिकोऽपि मन्दः । पूर्वशमथचरितस्तथा भूयोऽप्यपरिपक्वकुशलमूलः । बोधिसत्त्वस्यायत्यां बोधिमनुप्राप्तुकामः । नो तु दृष्ट एव धर्मे (।) अमी चत्वारः पुद्गला दृष्ट एव धर्मे लौकिकमार्गयानि(यि)नो भवन्ति ।

तच्च लौकिकमार्गगमनं द्विविधम् । सक[ल]बन्धनानाञ्च पृथग्जनानां, विकलबन्धनानां च । शैक्षाणाम् ।

तत्पुनः कतमत् । कामानामौदारिकतां पश्यतः, प्रथमे च ध्याने समापत्त्युपपत्तिक्लेशान्ततां पश्यतस्तत्कामवैराग्यगमनमेवं यावत् । आकिञ्चन्यायतनवैराग्यं वेदितव्यम् । तथा असंज्ञिसमापत्तिः । (श्भ्_स्ह्४३९) ध्यानसमापत्तिसन्निश्रयेन ष[ड्वि]ज्ञानानां पञ्चानामभिनिर्हारः ।

तत्र कामवैराग्याय प्रयुक्तो योगी सप्तभिर्मनस्कारैः । कामवैराग्यमनुप्राप्नोति । कतमे पुनस्ते सप्त मनस्काराः । आह । लक्षणप्रतिसंवेदी, आधिमोक्षिकः, प्राविवेक्यो, रतिसंग्राहकः । मीमान्सा(मांसा)मनस्कारः । प्रयोगनिष्ठः, प्रयोगनिष्ठाफलश्च ।

तत्र लक्षणप्रतिसंवेदी मनस्कारः कतमः । आह । येन मनस्कारेण कामानामौदारिकलक्षणं प्रतिसंवेदयते । प्रथमे च ध्याने शान्तलक्षणम् । कथं च पुनरौदारिकलक्षणं प्रतिसंवेदयति । आह । कामानां षड्वस्तूनि पर्येषमाणः अर्थन्य स्वूलक्षणं (अर्थं, स्वलक्षणं, सामान्यलक्षणं) । पक्षं कालं युक्तिञ्च ।

तत्रौदारिकार्थं तावत्पर्येषते । इतीमे कामाः सादीनवा, बहूपद्रवा, बह्वीतिका, बहूपसर्गा इति । या एषु कामेषु बह्वादीनवता । यावद्बहूपसर्गता । अयमौदारिकार्थः । तत्र वस्तु पर्येषते । अस्त्यध्यात्मं कामेषु काम(च्)छन्द इति ।

तत्र स्वलक्षणं पर्येषते । अमी क्लेशकामाः । अमी वस्तुकामाः । ते पुनः सुखस्थानीया, दुःखस्थानीया, (श्भ्_स्ह्४४०) अदुःखसुखस्थानीयाश्च । सुखस्थानीयाः कामरागाधिष्ठानाः । संज्ञाचित्तविपर्यासाधिष्ठानाः । दुःखस्थानीया[ः] पुनर्द्वेषाधिष्ठानाः क्रोधोपनाहाधिष्ठानाः । अदुःखासुखस्थानीयाः म्रक्षप्रदाशमायाशाठ्याह्रीक्यम(क्या)नपत्राप्याधिष्ठाना दृष्टिविपर्यासाधिष्ठानाश्च । एवममी कामाः प्रदुष्टवेदनानुगताश्च, प्रत्यस्तक्लेशानुगताश्चैवं कामानां स्वलक्षणं पर्येषते ।

तत्र कथं सामान्य लक्षणं (।) पर्येषते । सर्व एते कामा जातिदुःखतया, जरादुःखतया (या)वदिच्छाविघातदुःखतया समसममनुबद्धाश्चानुशक्ताश्च । येऽपिकामोपभोगिनो महत्यां कामसम्पदिवर्त[न्]ते । तेऽपि जात्यादिधर्मतया अविनिर्मुक्तास्तावत्कालिकी सा तेषां सम्पत् । एवं सामान्यलक्षणं पर्येषते ।

कथं पक्षं पर्येषते । कृष्णपक्षपतिता एते कामाः । अस्थिकंकालोपमा, मान्सपेश्युपमास्तृणोल्कोपमाः । अंगारकर्षूपमाः । आशीविषोपमाः । स्वप्नोपमाः । याचिकालंकारोपमाः । तृणफलोपमाश्च । पर्येषमाणा अपि सत्वाः (त्त्वाः) कामान् पर्येषणाकृतं (।) दुःखं प्रतिसंवेदयन्ति । आरक्षाकृतं, स्नेहपरिभ्रंशकृतमातृप्तिकृतमस्वातन्त्र्यकृतं, दुश्चरितकृतं, (श्भ्_स्ह्४४१) च दुःखं प्रतिसंवेदयन्ति । पूर्ववदेव तावत्सर्वं वेदितव्यम् ।

तथा कामान्प्रतिषेवतः । पंचादीनवा उक्ताः । भगवता अल्पास्वादाः कामाः बहुसु(दुः)खा, बह्वादीनवाः [।] कामान्खलु प्रतिषेवमाणस्य नास्त्यलं ताव(त्) तृप्तिता च पर्याप्तिता वा, अनेन पर्यायेण कामा विगर्हिता बुद्धैः बुद्धश्रावकैश्च सद्भिः सम्यग्गतैः, सत्पुरुषैः [।]

कामान्खलु प्रतिषेवमाणस्य संयोजनान्युपचयं गच्छन्ति । नास्ति चास्य किंचित्पापकमकुशलं कर्माकरणीयं वदामि । इतीमे कामा अतृप्तिकारका[ः] साधारणा, अधर्मविषमचर्याहेतवः । कामतृष्णाविवर्धकाः, सतां विवर्जनीयाः, क्षिप्रम्विषयगामिनः, प्रत्ययाधिपा, प्रमादभूमयो, रिक्ता, अनित्यास्तुच्छा, मृषामोषधर्माणो, मायोपमाः, बाललापनाः । ये च दृष्टधार्मिकाः (।) कामाः, ये च सांपरायिकाः, ये च दिव्याः, ये च मानुष्यकाः । मा[र]मारभ्यैष गोचरो, मारस्यैष निवापो यत्रेमेऽनेकविधाः पापका अकुशला धर्मा मानसाः संभवन्ति । यदुताभिध्या, व्यापादा[ः], संरम्भो वा, ये वा पुनरान्तरायिका भवन्त्यार्यश्रावकस्याशिक्षमाणस्यानेकपर्यायेण कृष्णपक्षपतिता एते कामा यद्भूयसा [।] एवम्पक्षं पर्येषते ।

(श्भ्_स्ह्४४२)
अतीतानागतप्रत्युत्पन्नेष्वध्वसु अनित्यं नित्यकालं (म)ध्रुवं ध्रुवकालमे ते कामाः । एवं बहूपद्रवाः, बहूपसर्गा, बह्वादीनवा इत्येवं कालम्पर्येषते ।

कथं युक्तिं पर्येषते । महता संरम्भेण, महत्या पर्येष्ट्या, महता परिश्रमेण विविधैर्विचित्रैः शिल्पकर्मस्थानैः कामाः संह्रियन्ते । निर्वर्त्यन्ते, उपचीयन्ते [।] ते पुनः सूपचिता अपि, सुनिर्वर्तिता अपि । यावदेष बहिर्धा परिग्रहवस्तुनः माता(तृ)पितृपुत्रदारदासीदासकर्मकरपौरुषेयमित्रामात्यज्ञातिसालोहितानाम् । अस्य वा पुनः कायस्याध्यात्मिकस्य रूपिण औदारिकस्य चातुर्महाभूतिकस्यौदनकल्माषोपचितस्य नित्योत्सदनस्नपनपारिमर्दनभेदन(च्)छेदन विकिरणविध्वंन्स(ध्वंस)न धर्मेण उत्पन्नोत्पन्नदुःखमात्रप्रतीकाराय सम्वर्तन्ते । क्षुद्दुःखप्रतीकाराय भोजनम् । शीतोष्णदुःखप्रतीघाताय । ह्रीकोपनप्रतिच्छादनाय (।) च वस्त्रं [।] निद्राक्लमदुःखप्रतीघाताय च शयनासनम् । चंक्रमस्थानदुःखप्रतिघाताय च । व्याधिदुःखप्रतिघाताय च (।) ग्लानभैषज्यमिति दुःखप्रतीकारभूता एते कामा इति । नैते रक्तेन परिभोक्तव्याः । न सक्तेन नान्यत्र व्याधिग्रस्तेनैवातुरेण व्याधिमात्रोपशमाय भैषज्यमाप्तागमोऽप्येषः । तथैते कामाः एवं चैवं चौदारिकाः । प्रत्यात्ममपि मे ज्ञानदर्शनं (श्भ्_स्ह्४४३) प्रवर्तेत । आनुमानिकोऽप्येष विधिः । प्रकृतिश्चैषा कामानामनादिकालिका प्रसिद्धधर्मता अचित्त (-चिन्त्य?)धर्मता । सा न चिन्तयितव्या(ः) । न विकल्पयते (यितव्ये)त्येवं युक्तिम्पर्येषते ।

स एवं कामानामौदारिकलक्षणं प्रतिसंवेज्य यदुत षड्भिर्वस्तुभिः प्रथमे ध्याने शान्तलक्षणं प्रतिसंवेदयति नास्त्येतत्सर्वश औदारिकत्वं (।) प्रथमे ध्याने यदेतत्कामधातावित्यनेनौदारिकलक्षणं प्रतिसंवेदयते । प्रथमे च ध्याने शान्तलक्षणमयमुच्यते लक्षणप्रतिसंवेदी मनस्कारः । स खल्वेष मनस्कारः । श्रुत चिन्ताव्यवकीर्णोवेदितव्यः ।

स एवं कामान्परिज्ञाय प्रथमं ध्यानं प्रथमं ध्यानं यथावत्पर्येष्टौ(ष्यौ)दारिकशान्तलक्षणेन श्रुतं च चिन्तां च व्यतिक्राम्यैकान्तेन भावनाकारेणैवाधिमुच्यते । तन्निमित्तालम्बनामेव शमथविपश्यनां भावयति । भावयंश्च यथा यथा तामौदारिकशान्ततां पुनः पुनरधिमुच्यतः । इत्युपपद्यते । [आ]धिमोक्षिको मनस्कारः ।

त(य)स्यासेवनान्वयाद्भावनान्वयाद्बहुलीकारान्वयात्तत्प्रथमतः क्लेश(ः)प्रहाणाय मार्ग उत्पद्यते । क्लेशप्रहाणाय च मार्गे समुत्पन्ने यस्तद्भगवतो मनस्कारः । अयमुच्यते प्राविवेक्यः ।

स तत्प्रथमतः कामावचरक्लेशादिप्रहेयप्रहाणात्तत्पक्ष्ये (श्भ्_स्ह्४४४) दौष्ठुल्यापगमाच्च । तदूर्ध्वं प्रहाणारामो भवति । विवेकारामः । तस्मिंश्च प्रहाणानुशंसदर्शीपरीत्तप्रविवेकप्रीतिसुखसंस्पृष्टः कालेन कालं प्रसदनीयेन मनस्कारेण । संप्रहर्षयति । संवेजनीयेन मनस्कारेण संवेजयति । यावदेव स्त्यानमिद्धौद्धत्यापगमाय (।) अयमुच्यते । रतिसंग्राहको मनस्कारः ।

तस्य तथा प्रहाणारामस्य भावनारामस्य सम्यक्प्रयुक्तस्य सतः कुशलपक्षप्रयोगोपस्तम्भकामप्रतिसंयुक्तं क्लेशकर्मपर्यवस्थानं चरतो वा विहरतो वा न समुदाचरति । तस्यैवं भवति । किं सन्तमेवाहं कामेषु काम(च्)छन्दं प्रतिसम्वेदयाम्याहोस्विदसन्तम्परिमीमान्सयितुकामः । अन्यतमान्यतमं प्रसदनीयं शुभनिमित्तं मनसि करोति । तस्याप्रहीणत्वात्सर्वेण सर्वमनुशयस्य तन्निमित्तं मनसि कुर्वतः सेवनानिम्नं चित्तं भवति । सेवनाप्रवणम् । सेवनाप्राभो(भा)रं नापेक्षापत्तियुतेन निर्विजुगुप्सा(प्रति) वा निःप्रतिकूलता । तस्यैवं भवति । न मे सम्यग्विरक्तं विमुक्तं चित्तं यदुत कामेभ्यः, संस्काराभिनिगृहीतं मे चित्तं वारिवद्धृतं [।] धर्मताभिनिगृहीतं (।) य[न्]न्वहं भूयस्या मात्रया तस्यानुशयस्याशेषप्रहाणाय भूयस्या मात्रया प्रहाणारामो विहरेयम् । भावनारामः । अयमुच्ते मीमान्सामनस्कारः ।

(श्भ्_स्ह्४४५)
स भूयस्या मात्रया प्रहाणारामो विहरति । भावनारामः । शमथविपश्यनायुक्तः । पौनःपुन्येन च मीमान्सते । तस्य प्रतिपक्षं च भावयतः कालेन कालं प्रहीणाप्रहीणतां मीमान्समानस्य सर्वेभ्यः कामावचरेभ्यः क्लेशेभ्यश्चित्तं विसंयुज्यते । तावत्कालिकयोगेन (।) न त्वत्यन्ताद्बीजसमुद्धातो भवति । तस्मिंश्च समये प्रयोगध्यानप्रयोगमार्गपर्यवसानगतः । सर्वक्लेशप्रातिपक्षिको मनस्कारः । समुत्पन्नो भवत्ययमुच्यते प्रयोगनिष्ठो मनस्कारः (।)

तस्य च समनस्कारप्रत्ययं तद्धेतुकं प्रथमं ध्यानं समापद्यते । मौलप्रथमध्यानसहगतो यो मनस्कारः । अयमुच्यते प्रयोगनिष्ठाफलो मनस्कारः ।

तत्र प्राविवेक्ये मनस्कारे वर्तमानो, रतिसंग्राहके च विवेकजेन प्रीतिसुखेन कायं प्रतिप्रीणयति । कदाचित्केनचित्प्रतनुकसंमुखीभावयोगेन प्रायोगनिष्ठामनस्कारकालस्यारति[ः] । कदाचित्कदाचित्ध्यानविपुलतरसंमुखीभावेन प्रयोगनिष्ठाफले पुनर्मनस्कारे वर्तमानस्य नास्ति किञ्चिदस्या(स्य) भवति । स्मारणीयं सर्वतः कायाद्युत(द्यदुत) विवेकजेन प्रीतिसुखेन स तस्मिं(स्मिन्) समये विविक्तैः कामैः विविक्तं पापकैरकुशलैर्धर्मैः सवितर्कसविचारं विवेकजं प्रीतिसुखं प्रथमं ध्यानं पंचा[ङ्]गमुपसम्पद्य विहरति । कामावचरप्रतिपक्षभावनाफले स्थितः कामवैराग्य[ता]मनुप्राप्त (श्भ्_स्ह्४४६) इत्युच्ते ।

तत्र लक्षणप्रतिसंवेदिना मनस्कारेण [।] यत्प्रहातव्यं तत्सम्यक्प्रजानाति । प्रहातव्यस्य च प्रहाणाय प्राप्तव्यस्य च प्राप्तये चित्तं प्रणिधत्ते । आधिमोक्षिकेण च मनस्कारेण प्रहाणाय प्राप्तये च सम्यक्प्रयोगमारभते । प्राविवेक्यमनस्कारेणाधिमात्रज्ञ शां(तां)जहाति । रतिसंग्राहकेण स क्लेशप्रकारं जहाति । मीमान्सामनस्कारेण प्राप्तिनिरभिमानतायां चित्तमवस्थापयति । प्रयोगनिष्ठेन मृदुं क्लेशप्रकारं जहाति । प्रयोगनिष्ठाफलेनैषां क्लेशप्रकाराणां भावितानां सुभावितानां भावनाफलं प्रत्यनुभवति ।

अपिच यश्च लक्षणप्रतिसंवेदी मनस्कारः । यश्चाधिमोक्षिकः । अयमुच्यते आनुलोमिको मनस्कारोऽपि दूषणाप्रतिपक्षसहगतः । यश्च प्राविवेक्यो मनस्कारः, यश्च प्रयोगनिष्ठोऽयं प्रातिपक्षिको मनस्कारः । प्रहाणप्रतिपक्षगवतः (-क्षगतः) [।] तत्र यो रतिसंग्राहको मनस्कारः (।) अयं प्रातिपक्षिकश्च प्रसदनीयश्च [।]

तत्र यो मीमान्सामनस्कारः अयं प्रत्यवेक्षणामनस्कारः । इत्युच्यते । एवं सति षट्षु मनस्कारेषु चत्वारो मनस्काराः प्रविघ्ना वेदितव्याः । तद्यथा आनुलोमिकः । प्रातिपक्षिकः । प्रसदनीयः । प्रत्यवेक्षणीयश्चेति ।

(श्भ्_स्ह्४४७)
यथा प्रथमध्यानसमापत्तिः सप्तभिर्मनस्कारैरेवं द्वितीयतृतीयचतुर्थध्यानसमापत्तिः । आकाशविज्ञानाकिंचन्यायतननैवसंज्ञानासंज्ञायतनसमापत्तिः सप्तभिरेव (श्भ्_स्ह्४४८) मनस्कारैः । तत्र येन वितर्केष्वौदारिकलक्षणं प्रतिसम्वेदयते । अवितर्कश्च द्वितीयध्याने शान्तलक्षणं स लक्षणप्रतिसंवेदी मनस्कारः । द्वितीयध्यानसमापत्तये [।] तत्र ध्यानसमापन्नः । प्रथमध्यानलाभी वितर्केष्वौदारिकताम्पश्यति । यः समाहितभूमिकोऽप्युग्रालम्बनभारी तत्प्रथमोपनिपातितया चालम्बने औदारिको मनोजल्पः । अयम्बितर्कस्तदनुबन्धानुचारी व्यग्रचार्येवालम्बने सूक्ष्मतरो मनोजल्पः विहारः । एते पुनर्वितर्कविहा(चा)राश्चै तसिकाश्चेतस्युत्पद्यमाना उत्पद्यन्ते । सहभुवः संप्रयुक्ता[ः] । एकालम्बनवृत्तयः । एवमेते अध्यात्ममुत्पद्यन्ते ।

बाह्यायतनसंगृहीताश्च । सर्व एव चातीता, अनागतप्रत्युत्पन्ना, हेतुसमुत्पन्नाः, प्रतीत्यसमुत्पन्नाः, आकायिकास्तावत्कलिकाः । इत्वरप्रत्युपस्थायिनश्चित्तसंक्षोभकरा, इंजका अप्रशान्ताकारेण वर्तन्ते । उपरिमां भूमिमारभ्य दुःखविहारानुगतत्वात्कुष्णपक्ष्या कामविवेकप्रीतिसुखमेवानुशंसानुगता भूमिश्चैषा तादृशी प्रकृत्या यत्र स्थितस्य नित्यं नित्यकालं, ध्रुवं ध्रुवकालं, सवितर्कः, सविचारः, चित्तप्रचारः प्रवर्तते । न शान्तप्रशान्त इत्येवमादिभिराकारैर्वितर्केष्वौदारिकलक्षणं प्रतिसंवेदयते ।

(श्भ्_स्ह्४४९)
सर्वशो नास्त्येतदौदारिकलक्षणमवितर्केद्वितीये ध्याने इत्यतः शान्तं द्वितीयं ध्यानमस्यौदारिकत्वस्यापगमात् । शेषो(षे) मनस्कारा द्वितीयध्यानसमापत्तये यथा(पि) योगं पूर्ववद्वेदितव्यम् । एवं भूमौ भूमौ यावन्नैवसंज्ञानासंज्ञायतनसमापत्तये यथायोगं सप्त मनस्कारा वेदितव्याः ।

औदारिकलक्षणं पुनः सर्वास्वधरिमासु भूमिषु यावदाकिंचन्यायतनात्समासेन द्विविधं वेदितव्यम् । दुःखतरं विहावितो(रिता) चाधर्मू(धोभू)मीनामप्रशान्तविहारिता च । अल्पायुष्कतरा च । इत्येतद्द्विविधमौदारिकलक्षणम् । षड्भिर्वस्तुभिर्यथायोगं पर्येषते । यस्या यस्या भूमेर्वैराग्यं कर्त्तुकामो भवत्युपरिष्टाच्च यथायोगं शान्तलक्षणम् । यावत्प्रयोगनिष्ठाफलान्मनस्कारात्तत्र विविक्तं कामैरिति ।

द्विविधाः कामाः क्लेशकामा वस्तुकामाश्च [।] (श्भ्_स्ह्४५०) कामवितर्कोऽपि द्विविधः । संप्रयोगविवेक आलम्बनविवेकश्च [।] विविक्तं पापकैरकुशलैर्धर्मैरिति । उपक्लेशाः कामहेतुका अकुशला धर्मास्तद्यथा कायदुश्चरितं, वाग्दुश्चरितं, मनोदुश्चरितम् । दण्डादानं शस्त्रादानम् । कलहभण्डनविग्रहविवादशाठ्यवञ्चननिकृतिमृषावादाः सम्भवन्ति । तेषाम्प्रहाणाद्विविक्तं पापकैरकुशलैर्धर्मैरवितर्कविचारेष्वदोषदर्शनात्स्वभूमिकैर्वितर्कविचारैः कामप्रातिपक्षिकैः कुशलैः [।] सवितर्कं सविचारं प्रयोगनिष्ठो मनस्कारः कामविवेकं (कः) तस्यानन्तरमुत्पन्नं(न्नः) । तद्धेतुकं (कस्) तत्प्रत्ययं (यस्) तेनाह विवेकजमीप्सिताभिलषितार्थसंप्राप्तः, प्रीतौ वा दोषदर्शनात् । सर्वदौष्ठुल्यापगमाच्च विपुलप्रश्रब्धि चित्तकायकर्मण्यतया प्रीतिसुखमनुपूर्वेण गणयतः । तत्प्रथमतश्च कामधातूच्चलितात्प्रथमं सम्यगालम्बनोपनिध्यानादेकाग्रस्मृत्युपनिबन्धाद्ध्यानं प्रयोगनिष्ठाफलत्वादुपसम्पद्य । उत्तरत्र च भावनाबहुलीकारनिष्पादनात्[।] (श्भ्_स्ह्४५१) निकामलाभी, अकृच्छ्रलाभी, अकिसर(अकृत्स्न?)लाभी, तथा ध्यानसमापत्त्या रात्रिमतिनामयति । दिवसमपि यावदाकांक्षमाणः सप्तरात्रिंदिवसानि तेनाह विहरतीति । सवितर्कसविचारविविक्तेभ्यश्चित्तम्व्यावर्तयित्वा (त्तं व्यावर्त्य) अवितर्काविचारसमाधिनिमित्तेषूपनिबध्नाति । व्यग्रचारिण आलम्बनाद्विवेच्य अव्यग्रचारिण्यालम्बने एकधर्मतया शान्तं प्रसन्नं चित्तं प्रवर्त्तते । व्यवस्थापयति । तेनाह वितर्कविचाराणां व्युपशमादध्यात्मसंप्रसादनात्सभावनाभ्यासात्तस्यैवावितर्काविचारस्य समाधेः, वितर्कविचारस्य समाधेः, स[च्]छिद्रसान्तरामवस्थामतिक्रम्य निश्छिद्रनिरन्तरामवस्थां प्राप्नोति । तेनाह चेतस एकोतीभावात्सर्वेण सर्वं वितर्कविचारप्रहाणादवितर्कमविचारं प्रयोगनिष्ठो मनस्कारः समाधिस्तस्यानन्तरं तद्धेतुकं तंत्प्र(कस्तत्प्र)त्ययमुत्प(यौत्प)द्यत इति । तेनाह समाधिजमीप्सितानिन्दितार्थप्राप्तेः प्रीतौ वा दोषदर्शनात् । स संप्रहर्षगतं दौर्मनस्यगतं वितर्कविचारप्रथमध्यानक्लेशपक्षसर्वदौष्ठुल्यापगमात्तत्प्रातिपक्षिकप्रश्रब्धिचित्तकायकर्मण्यतासुरवानुगत्वात् । प्रीतिसुखमनुपूर्वेण गणयतो द्वितीयं भवत्येवं सर्वं पूर्ववद्वेदितव्यम् ।

प्रीतिनिमित्तेषु दोषं पश्यति । तेनाह प्रीतेर्विरागात्[।] (श्भ्_स्ह्४५२) तस्मिंश्च समये द्विविधोऽस्य चित्तक्षोभकरः अपक्षालोऽधिगतो भवति । निःप्रीतिके तृतीयध्याने चित्तं प्रदधतः । द्वितीये च ध्याने वितर्कविचाराः, एतर्हि च प्रीतिः, तेनाह उपेक्षको विहरति । एतौ हि द्वौ धर्मौ चित्तसंक्षोभकरौ । निरन्तराया उपेक्षाया विघ्नकारकौ । तत्र प्रथमे ध्याने वितर्कविचारा भवन्ति । येन निरन्तरोपेक्षा न प्रवर्त्तते । द्वितीये ध्याने प्रीतिर्भवति । येनात्रापि निरन्तरोपेक्षा न प्रवर्त्तते । तेनायं ध्यायी प्रथमद्वितीयेषु(ययोः) ध्यानेषु(नयोः) नास्ति, तेन तृतीये ध्याने उपेक्षको विहरतीत्युच्यते । स उपेक्षकस्सन्स्तथा(स्संस्तथा) तथोपस्थितस्मृतिर्विहरति । यथा यथा ते प्रीतिसहगताः संज्ञामनसिकाराः समुदाचरन्ति । स चेत्पुनरभावितत्वात्तृतीयस्य ध्यानस्य स्मृतिसंप्रमोषात्कदाचित्कर्हिचित्चित्ते प्रीतिसहगताः संज्ञामनसिकाराः समुदाचरन्ति । तां(तान्) लघु लघ्वेव (श्भ्_स्ह्४५३) प्रज्ञया प्रतिविध्यति । सम्यगेव प्रजानाति । उत्पन्नोत्पन्नांश्च नाधिवासयति । प्रजहाति विनोदयति । व्यन्तीकरोति, चित्तमध्युपेक्षते । तेनाह स्मृतः संप्रजाना[न] इति । तस्य तस्मिन्समये एवमुपेक्षकस्य विहरता स्मृतस्य संप्रजन्य स्यासेवनान्वयाद्बहुलीकारान्वयात्प्रीतिसहगतं प्रहीयते । तच्चित्तौद्धत्यकरं, निःप्रीतिकं, शान्तं, प्रशान्तं चेतसि वेदितमुत्पद्यते । प्रीतिप्रातिद्वन्द्व्येन तस्मिन् समये रूपकायेन, मनःकायेन वेदित सुखं च प्रश्रब्धिसुखं प्रतिसम्वेदयते । तृतीयाच्च ध्यानात् । अधस्तद्रूपं सुखं नास्ति नापि निरन्तरा उपेक्षा तृतीया[द्]ध्यानादूर्ध्वं यदप्युपेक्षोपलभ्यते । न तु सुखम् । तत्राधः सुखोपेक्षाभावादूर्ध्वं च सुखाभावात् । इदं तदायतनं यदुत तृतीयं ध्यानं यत्तदार्या आचक्षते । यत्प्रतिलम्भविहारिणं पुद्गलमधिकृत्य स्मृतिमां(मान्) सुखविहारी तृतीयं ध्यानमुपसंपद्य विहरतीति आर्याः पुनः वृद्धाश्च वृद्धश्रावकाश्च ।

तत्रातुल्यजातीयत्वात् । प्रतिपक्षस्य सुखस्य प्रहाणप्रतिपक्षानाख्यातः (क्षोऽनाख्यातः) । यदेव तत्प्रतिपक्षकृतं सुखप्रहाणं तदेवाख्यातम् । कः पुनरसौ प्रतिपक्षः । यदुतोपेक्षा स्मृतिसम्प्रजन्यञ्च । तस्य च निषेवणाभ्यासात्तृतीयध्यानाच्चलितो यत्र (श्भ्_स्ह्४५४) तृतीयध्यानभूमिसुखं तत्प्रजहाति । तेनाह । सुखस्य च प्रहाणात्पूर्वमेव च सौमनस्यदौर्मनस्ययोरस्त(ङ्)गमात् । तत्र चतुर्थध्यानसमापत्तिकाले तस्मिन् समये स ध्यायी सुखदुःखव्यतिक्रममनुप्राप्नोति । तेन यश्(च्)च पूर्वप्रहीणं, यश्चै(च्चै)तर्हि प्रहीयते । तस्य संकलनं कुर्वन्नेवमाह । सुखस्य च प्रहाणात्(द्), दुःखस्य च प्रहाणात्, पूर्वमेव च सौमनस्यदौर्मनस्ययोरस्त[ङ्]गमात् । तन्न चतुर्थध्यानसमापत्तिकाले सुखस्य च प्रहाणाअद्द्वितीयध्यानसमापत्तिकाले दुःखस्य, तृतीयध्यानसमापत्तिकाले सौमनस्यस्यास्तङ्गमात्, प्रथमध्यानसमापत्तिकाले दौर्मनस्यस्य, अस्ति तावत्सुखदुःखस्य(योः) प्रहाणाददुःखासुखैवास्य वेदना, न विशिष्टा भवति । तेनाह । अदुःखासुखा तस्मिन् समये प्रथमं ध्यानमुपादाय सर्वे अधोभूमिकाः अपक्षालाः प्रहीणा भवन्ति । तद्यथा वितर्कविचाराः, प्रीतिराश्वासप्रश्वासाः । तेषां च प्रहाणाद्या तत्रोपेक्षा । स्मृतिश्च सा परिशुद्धा भवति । पर्यवदाता, येनास्य एतच्चित्तं चतुर्थध्यानसमापन्नस्यानिंज्यं सन्तिष्ठते । सर्वेञ्जितायतनम् । (श्भ्_स्ह्४५५) तेनाह । उपेक्षास्मृतिपरिशुद्धमिति [।] तत्र चतुर्थमिति पूर्ववद्वेदितव्यम् ॥ यथाप्रमाणादिषु स्थानेषु ॥
तत्राकाशाधिमोक्षस्य वर्णसंज्ञा नीलपीतलोहितावदातादिप्रतिसंयुक्ततामसातामसातया निर्विरागतया च समतिक्रान्तो भवति । तेनाह । रूपसंज्ञानां (श्भ्_स्ह्४५६) समतिक्रमादनाभासगमनहेतोर्या अनेकविधा बहुनानाप्रकारा वर्णप्रचयहेतुका आवरणसंज्ञा सा (या) सा विगता भवति । तेनाह । प्रतिघसंज्ञानामस्त[ङ्]गमात्, तासाम्वा पुनर्विगमहेतोर्या औपचयिकीसंज्ञास्तेष्ववशिष्टेषु विशिष्टेषु संघातेषु प्रवृत्तास्तद्यथा भोजनपानवस्त्रालंकारगृहोद्यानवनसेनापर्वतादिसंज्ञा[ः] । तेषु सर्वेण सर्वमाभोगोऽप्यस्य न प्रवर्तते । तेनाह । नानात्वसंज्ञानाममनसिकारात् । स एवं रूपप्रतिघनानात्वसंज्ञा भावयित्वा अनन्ताकारेणाकाशाधिमुक्तो भवति । तेनाह । अनन्तमाकाशम(शंस)सामन्तकमतिक्रम्य प्रयोगनिष्ठान्मनसिकारादुच्चप्रयोगनिष्ठाफलं मौलं समापद्यते । तेनाह । आकाशानन्त्यायतनमुपसम्पद्य विहरति । तस्य यावन्मौलं न समापद्यते । तस्याकाशमालम्बनं समापन्नस्य पुनस्तच्च तदन्ये च स्कन्धाः स्वभूमिकाः सामन्तके पुनरधोभूमिका अपि स्कन्धाः ।

(श्भ्_स्ह्४५७)
समयेन विज्ञानेनानन्तमाकाशमधिमुच्यते । तदेव विज्ञानमनन्ताकाराकाशाधिमोक्षिकम् । विज्ञानानन्त्यायतनं समापत्तुकामः । आकाशानन्त्यायतनसंज्ञां व्यावर्त्य । तदेव विज्ञानमनन्ताकारेणाधिमुच्यते । ससामन्तके मौलमाकाशानन्त्यायतनं समतिक्रम्यते । तेनाह । सर्वश आकाशानन्त्यायतनं समतिक्रम्यानन्तं विज्ञानमिति । स विज्ञानानन्त्यायतनमिति सामन्तकं समतिक्रम्य यावत्प्रयोगनिष्ठान्मनसिकरान्मौलप्रयोगनिष्ठाफलं समापद्यते । तेनाह । विज्ञानानन्त्यायतनमुपसम्पद्य विहरतीति ।

स विज्ञानानन्त्यायतनादुच्चलितो विज्ञानात्परेणालम्बनं समन्वेषमाणो न पुनर्लभते (।) किञ्चन प्रतिसंयुक्तं रूपि वा, अरूपि वा [।] स तदालम्बनमलभमानः ससामान्तकमौलं विज्ञानानन्त्यायतनं [स]मतिक्रम्य नास्ति किञ्चिदन्यदा लम्बनमधिमुच्यते । सो [अ]किञ्चनसंज्ञाधिमुक्त एव भवति । स तस्य संज्ञाधिमोक्षस्य बहुलीकारान्वयादाकिंचन्यायतनसामन्तकं समतिक्रम्य यावत्प्रयोगनिष्ठा(न्) मनसिकारान्मौलं प्रयोगनिष्ठाफले समापद्यते । तेनाह । सर्वशो विज्ञानानन्त्यायतनं समतिक्रम्य नास्ति किञ्चिदित्याकिञ्चन्यायतनमुपसंस्पृश्य (-सम्पद्य) विहरतीति ।

(श्भ्_स्ह्४५८)
तेनाह । संज्ञी यदुताकिञ्चन्यायतनादुच्चलितः । आकिञ्चन्यसंज्ञायामौदारिकसंज्ञी आदीनवसंज्ञी आकिञ्चन्यायतनसंज्ञां व्यावर्त्तयति । तेन पूर्वमाकिञ्चन्यायतनसमापत्तिकाले [अ]किञ्चनसंज्ञासमतिक्रान्ता, एतर्ह्यकिंचनसंज्ञा समतिक्रान्ता भवति । तेनाह संज्ञी यदुत किञ्चनसंज्ञाया वा, अकिञ्चनसंज्ञाया वा, अकिञ्चनसंज्ञा वा, न च पुनः सर्वेण सर्वं सास्य संज्ञा निरुद्धा भवति । तद्यथा आसंज्ञि[के]वा, निरोधसमापत्तौ वा, नान्यत्र सूक्ष्मा सा संज्ञा निमित्तालम्बने प्रवर्तते । नैव संज्ञा नासंज्ञा [।] एवं तदायतनाधिमुक्तः ससामन्तकमौलमाकिञ्चन्यायतनं समतिक्रम्य नैव संज्ञानासंज्ञायतनसामन्तकस्य या वत्प्रयोगनिष्ठान्मनसिकारात्प्रयोगनिष्ठाफलं मौलं समापद्यते । तेनाह । सर्वश आकिञ्चन्यायतन[ं] समतिक्रम्य नैव संज्ञानासंज्ञायतनमुपसम्पद्य विहरतीति ॥

तत्र ध्यानसमापत्तिकाले अधो रसातलप्रवेशवत् । कायसंप्रख्यानलिंगम् । आरूप्यसमापत्तिकाले आकाशात्पतनवत् । तत्र शमथाकालेनाध्युपेक्षणात्सम्यक्प्रयोगः । तत्र द्वे अचित्तिके समापत्ती असंज्ञा(ज्ञि)समापत्तिर्निरोधसमापत्तिश्च । (श्भ्_स्ह्४५९) तत्रासंज्ञासमापत्ति[ं] संज्ञाविमुखेन मनस्कारेण पृथग्जन एव समापद्यते, निरोधसमापत्तिं पुनरार्य एव ।

तत्र द्वाभ्यां मनस्काराभ्यामनयोः समापत्त्योः समापत्तिप्रवेशो भवति । तद्यथा संज्ञाविमुखेन मनस्कारेणासंज्ञा(ज्ञि)समापत्तेः, नैवसंज्ञानासंज्ञोच्चलितेनालम्बनसन्निरुद्धेन च मनस्कारेण निरोधसमापत्तेः [।] (श्भ्_स्ह्४६०) तत्र संज्ञारोगः, संज्ञागण्डः, संज्ञाशल्यः (मं), एतच्छान्तमेतत्प्रणीतं यदुतासंज्ञिकमिति । संज्ञाविमुखं मनस्कारं परिगृह्योत्पन्नोत्पन्नामसंज्ञास्मृत्यमनसिकारानु (रमनु)चरेति (रति) [।] तस्य भावनान्वयात्प्रयोगमार्गे सचित्तिकावस्था भवति । समनस्कारसमापन्नस्य च पुनश्चित्तं न प्रवर्तत इति । स एवं निःसरणसंज्ञा पूर्वकेण मनस्कारेण शुभकृत्यवीतरागस्य, बृहत्फलेभ्यो वीतरागस्य, चित्तचैतसिकानां धर्माणां निरोध इयमुच्यते [अ]संज्ञ (ज्ञि)समापत्तिः । एवं च पुनरस्याः प्राप्तिर्भवति ॥

तत्र नैव संज्ञानासंज्ञायतनलाभी आर्यः परेण शान्तेन विहारेण विहर्त्तुकामः नैव संज्ञानासंज्ञायतनाच्चित्तमुच्चा लयति । तच्चित्तमुच्चलितमालम्बनं न लभते । अलभमानं निरुध्यते । न प्रवर्त्तत इति । य एवमाकिञ्चन्यायतनवीतरागस्य शैक्षस्यार्हतो वा विहारसंज्ञापूर्वकेण मनस्कारेण चित्तचैतसिकानां धर्माणां निरोध इयमुच्यते निरोधसमापत्तिरेवं च पुनरस्याः प्राप्तिर्भवति ॥

तत्र ध्यानसन्निश्रयेण पंचानामभिज्ञानामभिनिर्हारो भवति । कथं च पुनर्भवति । यथापि तद्ध्यायी लाभी भवति । परिशुद्धस्य ध्यानस्य [।] स तत्परिशुद्धं ध्यानं निश्रित्य यो [अ]नेनाभिज्ञाधिपतये(पतेयो) धर्म[ः] श्रुतो भवत्युद्गृहीतः, पर्यवाप्तः, (श्भ्_स्ह्४६१) यदुत ऋद्धिविषयम्वारभ्य, पूर्वेनिवासदिव्यश्रोत्रच्युत्युपपादचेतः पर्यायम्वा तमेव मनसि कुर्वन् समाहितभूमिकेन मनस्कारेणार्थप्रतिसंवेदी च भवति । धर्मप्रतिसंवेदी च । तस्यार्थप्रतिसंवेदिनो धर्म(ः) प्रतिसंवेदिनस्तथास्तथा (स्तथा तथा) चित्तान्यभिसंस्कुर्वतो बहुलीकारान्वयाद्भवति । स कालो भवति समयो यदस्य भाज(व)नाफलाः (ः) पंचाभिज्ञा उत्पद्यन्ते ॥

(श्भ्_स्ह्४६२)
अपि च तस्या(स तथा)र्थ प्रतिसंवेदी, धर्मप्रतिसंवेदी सर्वाभिज्ञानिर्हाराय द्वादशसंज्ञा भावयति । तद्यथा लघु संज्ञा[ं] । मृदुसंज्ञा[ं] । आकाशधातुसंज्ञाम् । कायचित्तसम[व]धानसंज्ञामधिमुक्तिसंज्ञां, पूर्वानुभूतचर्यानुक्रमानुस्मृतिसंज्ञां नानाप्रकारशब्दसन्निपातनिर्घोषसंज्ञामवदातरूपनिमित्तसंज्ञां, क्लेशकृतरूपविकारसंज्ञा[म]धिमोक्षसंज्ञाममिभ्वायतनसंज्ञां कृत्स्नायतनसंज्ञाञ्च ।

तत्र लघुसंज्ञायां लघुकमात्मानमधिमुच्यते । तद्यथा तूलपिन्धुर्वा, कर्पासपिन्धुर्वा [।] वायुमण्डलके वा स तथा [अ]धिमुच्यमानः तत्र प्रेरयत्याधिमोक्षिकेणैव मनस्कारेण [।] तद्यथा मञ्चात्पीठान्मञ्चे । एवं मञ्चात्तृणसंस्तरकान्मञ्चे । तत्र मृदुसंज्ञा । मृदुकं कायमधिमुच्यते । तद्यथा कौशयम्वा, कच्चम्वा, पद्गम्वा, [।] इतीयं मृदुसंज्ञाया लघुसंज्ञाया[ः] पोषिका, अनुग्राहिका [य]या अनुगृह्यमाणा लघुसंज्ञा पृथुवृद्धिवैकल्यतां (विपुलतां) गच्छति । तत्राकाशधातुसंज्ञा यया संज्ञया लघुतां च मृदुतां चात्मनोऽधिमुच्यते । स चेत्क्वचिद्गन्तुकामो भवति । तत्र यदन्तरालं विवन्धचरं रूपिगतं गमनाय तदाकाशमधिमुच्यते [।] आधिमोक्षिकं (केन) च (श्भ्_स्ह्४६३) मनस्कारेण । तत्र चित्तकायसमवधानसंज्ञा यया चित्तम्वा काये समवदधाति । कायम्वा चित्ते, येनास्य कायो लघुतरश्च भवति, मृदुतरश्च, कर्मण्यतरश्च, प्रभास्वरतरश्च [।] चित्तान्वयश्चित्त प्रतिबन्धश्चित्तं निश्रित्य वर्त्तते । तत्राधिमोक्षिकसंज्ञा यया संज्ञया भू(दू)रगमासन्ने [अ]धिमुच्यते, आसन्नं दूरे, अणु स्थूलं, स्थूलमणु, पृथिवी आपः, आपः पृथिवी एवमेकैकेन महाभूतेनान्योन्यं करणीयम् । विस्तरेण तथानिर्मितं चाधिमुच्यते, रूपनिर्मितं वा, शब्दनिर्मितं वा [।]

इत्याभिः पञ्चसंज्ञाभिः भावनाया परिनिष्पन्नाभिरनेकविधमृद्धिषयं प्रत्यनुभवत्येको भूत्वा बहुधात्मानमुपदर्शयति । यदुताधिमोक्षिकया नैर्माणिकया(क्या)संज्ञया तत्र बहुधा पुनरात्मानमुपदर्शयन्चै(यंश्चै)की भवति । यदुत निर्माणान्तर्धायिकया [अ]धिमुक्तिसंज्ञया तिरःकुड्यं, तिरःप्राकारमसज्जमानेन (श्भ्_स्ह्४६४) कायेन गच्छति । येन गच्छति । (येन गच्छति) । पृथिव्यामुन्मज्जनिमज्जनं करोति । तद्यथोदके, उदके भिद्यमानेन स्रातसा गच्छति । तद्यथा पृथिव्यामाकाशे पर्यङ्केनाक्रामति । तद्यथा पक्षी शकुनि[ः], इमौ वा सूर्याचन्द्रमसावेवं महर्धिकौ महानुभावौ पाणिना आमार्ष्टि । परामार्ष्टि । यावद्ब्रह्मलोकात्कायेन वशे वर्त्तयति । लघुमृद्वाकाशधातुचित्तकायसमवधानसंज्ञया परिगृहीतया अधिमुक्तिसंज्ञया सर्वमेतत्करोति । यथायोगम्वेदितव्यम् । तत्र द्विविधाब्रह्मलोकस्य कायेन वशे वर्तना, गमनेन च (।) वशे वर्त्तयति । यथैवाधिमुक्त्या वा, ब्रह्मलोकादधश्चर्तुकामता भूतानां तदेकत्यस्य चोपादायरूपस्य [।]

तत्र पूर्वानुभूतचरितानुक्रमानुस्मृतिसंज्ञा यया कुमारकभावमुपादाय यत्रास्य स्मृतिः प्रवर्त्तते । न व्याहन्यते । यत्रार्य गतो भवति, स्थितो, निषण्णुः(ण्णः), (श्भ्_स्ह्४६५) शयितो विस्तरेण सर्वां पूर्वानुभूतां चर्यामौदारौदारिकौदारिकतया अनुपरिवाटिकया अव्युत्क्रमन्ति(न्ते) । कया समनुस्मरन्संजानाति । तस्या भावनान्वयाद्भावनाफलमनेकविधं पूर्वेनिवासं समनुस्मरति यावत्सन्सा(संसा)रं सोद्देशं विस्तरेण [।] तत्र नानाप्रकारशब्दसन्निपातनिर्घोषसंज्ञा [।] यस्मिन् ग्रामे वा, निगमे वा श्रेण्याम्वा, पूगे वा, पर्षदि वा, आयतविशाले वा गृहे, अववरके वा, नानाप्रकारस्य जनकायस्य सन्निषण्णस्य सन्निपतितस्य यो व्यतिमिश्रो, विचित्रो, निर्घोषो निश्चरित । यः कलकलशब्द इत्युच्यते । महत्या वा नद्या वह[न्]त्या निर्घोषः, तत्र निमित्तमुद्गृह्य या संज्ञाभावना यया समाहितभूमिकेन मनसिकारेणार्यानार्येषु शब्देषु, दिव्यमानुष्यकेषु, दूरान्तिकेष्वाभोगं वारयति । तस्यास्य बहुलीकारान्वयाद्भावनाफलं दिव्यं श्रोत्रं प्रतिलभते । येन दिव्यमानुष्यकां [कान्] शब्दां (ब्दान्) शृणोति । येऽपि दूरे, येऽप्यन्तिके [।] तत्रावभासरूपनिमित्तसंज्ञा [।] पूर्ववदालोकनिमित्तमुद्गृह्य तदेव निमित्तं मनसि करोति । इयमवभासरूप निमित्तसंज्ञा [।] तस्या भावनान्वयाद्(श्भ्_स्ह्४६६) भावनाफलं च्युत्युपपादज्ञानं प्रतिलभते । येन दिव्येन चक्षुषा विशुद्धेन विस्तरेण यावत्कायस्य भेदात्स्वर्गतौ स्वर्गलोके देवेषूपपद्यन्ते(ते) । तत्र क्लेशकृतरूपविकारसंज्ञा । यया रक्तद्विष्टमूढानां क्रोधोपनाहप्र[यु]क्तपरिदाहाह्रीक्यानपत्राप्यक्लेशोपक्लेशपर्यवनद्धचित्तानां सत्त्वानां रूपावस्थामुपलक्षयति । परि[च्]छिनत्ति [।] एवं रूपारक्तस्य रूपावस्था भवति । रूपविकृतिः । तद्यथा उद्धतेन्द्रियता, स्मितमुखता [।] एवं रूपा द्विष्टस्य रूपावस्था भवति । रूपविकृतिः । तद्यथा मुखविवर्णता सगद्गदस्वरता । कृतभृकुटिता । एवंरूपा मूढस्य पर्यवस्था भवति । रूपविकृतिः । तद्यथा मूकता अर्थनिध्यप्तावप्रतिपद्यनता (दनता) प्राकृताप्राकृता वा वाग्व्याहारता [।] इत्येभिराकारैरेवं भागीयैर्यावदाह्रीक्यानपत्राप्यपर्यवस्थितस्य (श्भ्_स्ह्४६७) या रूपावस्था भवति । रूपविकृतिः । ततो निमित्तमुद्गृह्य मनसि करोति । तद्यथा बहुलीकारान्वयाद्भावनाफलं चेतःपर्यायज्ञानमुत्पद्यते । येन परसत्त्वानां परपुद्गलानां वितर्कितं विचारितं मनो मनसा यथाभूतं प्रजानाति ।

तत्र विमोक्षाभिभ्वायतन-कृत्स्नायतनसंज्ञाभावना पूर्ववद्वेदितव्या । तद्यथा समाहितायां भूमौ । यया भावनया आर्यामृद्धिमभिनिर्हरति । वस्तुपरिणामिनी[ं] नैर्माणिकीमाधिमोक्षिकीम् । तद्यथा अरणा प्रणिधिज्ञानम् । चतस्रः प्रतिसम्विदः तद्यथा धर्मप्रतिसंविदर्थ प्रतिसंविन्निरुक्तिप्रतिसम्वित्प्रतिभानप्रतिसम्वित्[।]

(श्भ्_स्ह्४६८)
तत्रार्यायाश्चानार्याया ऋद्धेरयं विशेषः । आर्यया ऋद्ध्या यद्यदेव वस्तु परिणामयति । यद्यदेव निमित्तं निर्मिणोति । तत्तथैव भवति । नान्यथा । सर्वेण तेन कार्यं शक्यते कर्तुम् । अनार्यया न पुनर्न तथैव भवत्यपि तु । मायाकारकस्यैव संदर्शन मात्रकं ख्याति । एवमाभिर्द्वादशभिः संज्ञाभिर्बहुलीकारान्वयाद्यथायोगं स पञ्चानामभिज्ञानामार्याणां च गुणानामपृथग्जनसन्धारणानां यथायोगमभिनिर्हारो वेदितव्यः ।

तत्र प्रथमे ध्याने मृदुमध्याधिमात्रपरिभावितेन यथायोगं ब्रह्मकायिकानां, ब्रह्मपुरोहितानां, महाब्रह्मणां देवानां सभागतायामुपसम्पद्यते [।] द्वितीये ध्याने मृदुमध्याधिमात्रभाविते यथायोगं परीत्तानामाभास्वराणां च देवानां सभागतायामुपसंपद्यते । तृतीये ध्याने मृदुमध्याधिमात्रभाविते यथायोगं परीत्तशुभानां, सप्रमाणशुभानां, शुभकृत्यानां च देवानां सभागतायामुपसंपद्यते । चतुर्थे ध्याने मृदुमध्याधिमात्रभाविते यथायोगमनभ्रकानां, पुण्यप्रसवानां, बृहत्फलानां च देवानां सभागतायामुपसम्पद्यते । स चेत्पुनरनागामी अनास्रवेण ध्यानेन चतुर्थेन सास्रवं, व्यवकीर्णं (श्भ्_स्ह्४६९) भावयति । तस्मिं(स्मिन्) मृदुमध्याधिमात्राधिमात्रतराधिमात्रतमभाविते यथायोगं पञ्चानां शुद्धावासानां देवानां स(ह)भागतायामुपसम्पद्यते । तद्यथा अदहे(ह्रे)ष्वतापेषु, सुदर्शनेषु, अकनिष्ठेषु [।] आकाशविज्ञानाकिञ्चन्यनैवसंज्ञानासंज्ञायतने मृदुमध्याधिमात्रभाविते आकाशविज्ञानाकिञ्चन्यनवसंज्ञानासंज्ञायतनोपगानां देवानां सभागतायामुपसम्पद्यते [।] अरूपिणश्च देवास्तस्मात्तेषां स्थानान्तरकृतो भेदो नास्ति, विहारकृतस्तु विशेषो भवति । असंज्ञिसमापत्त्यां भावितायामसंज्ञिसत्त्वानां देवानां सभागतायामुपसम्पद्यते ।

तत्र कतमानि वीतरागस्य लिंगानि । आह । स्थिरकायकर्मान्तो भवत्यचलेन्द्रियः [।] न चास्येर्यापथ आशु पर्यादीयते । एकेनापीर्यापथेन चिरं कालमतिनामयत्यपरितस्यमानः । न ताशु(सु)ईर्यान्तरं स्पृहयति । मन्दभाणी च भवति, प्रशान्तभाणी च [।] न संगणिकारामो, न संसर्गारामो, धीरा चास्य वाग्(क्)प्रवर्तते । चक्षुषा रूपाणि दृष्ट्वा रूपप्रतिसम्वेदी भवति । न रूपरागप्रतिसम्वेदी । एवं शब्दगन्धरसस्प्रष्टव्यप्रतिसंवेदी भवति । नो तु (श्भ्_स्ह्४७०) यावत्स्प्रष्टव्यरागप्रतिसंवेदी । विशारदश्च भवति । गम्भीरबुद्धिर्विपुलप्रश्रब्धिचित्तकायोपगूढः ॥ अनभिध्यालुरविक्षोभ्यः । क्षमावान्न चास्य कामवितर्कादयः पापकाश्चित्तं क्षोभयन्ति । इत्येवं भागीयानि वीतरागलिंगानि वेदितव्यानीत्ययं तावत्लौकिकमार्गगमनस्य विभागः ॥

अथ लोकोत्तरेण मार्गेण गन्तुकामो भवति तस्य चत्वार्यार्यसत्यान्यारभ्य सप्त मनस्कारा अनुपूर्वेणोत्पद्यन्ते । लक्षणप्रतिसंवेदी[दि]मनस्कारादयः प्रयोगनिष्ठाफलपर्यवसाना यावदर्हत्त्वप्राप्तेः । तत्र चतुर्णामार्यसत्यानां सोद्देशविभंगानां श्रमणेनोद्गृहीतयोगाचारः । सुभावितमनस्कारो वा, मौलध्यानारूप्यलाभी वा, चतुर्भिराकारैर्दुःखसत्यस्य लक्षणं प्रतिसंवेदयते । तद्यथानित्याकारेण, दुःखाकारेण, अनात्माकारेण च । चतुर्भिराकारैः समुदयसत्यस्य तद्यथा हेतुतः, समुदयतः, प्रभवतः, प्रत्ययतश्च [।] चतुर्भिराकारैर्निरोधसत्यस्य लक्षणं प्रतिसम्वेदयते । तद्यथा निरोधतः, शान्ततः, प्रणीततो, निःसरणतश्च [।] चतुर्भिराकारैर्मार्गसत्यस्य लक्षणं प्रतिसम्वेदयते । तद्यथा मार्गतो, न्यायतः प्रतिपत्तितो, नैर्याणिकतश्च । सोऽस्य भवति लक्षणप्रतिसंवेदी मनस्कारः ॥

(श्भ्_स्ह्४७१)
तत्र दशभिराकारैर्दुःखसत्यं परीक्षमाणश्चतुर आकाराननुप्रविशति । कतमैर्दशभिस्तद्यथा । विपरिणामाकारेण, अविनाशाकारेण, वियोगाकारेण, सन्निहिता [।] कारेण, धर्मताकारेण । संयोजनबन्धनाकारेण, अनिष्टाकारेण, अयोगक्षेमाकारेण, अनुप(कारेण)लम्भाकारेण, अस्वातन्त्राकारेण च । एतान्पुनर्दशाकारानुपपत्तिसाधनयुक्त्या उपपरीक्षते ।

तत्रागमस्तावद्यथोक्तं भगवता सर्वसंस्कारा अनित्याः [।] ते पुनः संस्काराः समासतः सत्त्वलोकश्च भाजनलोकश्च ॥ उक्तञ्च भगवता सत्त्वलोकमधिकृत्य, पश्याम्यहं, भिक्षवो, दिव्येन चक्षुषा विशुद्धेनातिक्रान्तमानुष्यकेण सत्वांश्च्यवमानांश्चोत्पद्यमानांश्च (श्भ्_स्ह्४७२) विस्तरेण यावत्कासस्य भेदात्सुगतौ स्वर्गलोके देवेषूपपद्यन्ते । इत्यनेन तावत्पर्यायेण इत्यनेन तावत्पर्यायेण भगवता चक्षुष्मता प्रत्यक्षदर्शिना सत्त्वलोकस्यानित्यता व्याख्याता । उक्तंचभगवता, भवति, भिक्षवः, स समयो यद्दीर्घस्याध्वनोऽत्ययादनुपूर्वेण यावत्सप्तानां सूर्याणां लोके प्रादुर्भावो भवति । (श्भ्_स्ह्४७३) तद्यथा सप्तसूर्योपमे सूग्रे(त्रे)यावदस्याः खलु महापृथिव्याः सुमेरोश्च पर्वत राजस्य । यावच्च ब्रह्मलोकाद्भाजनलोकस्य दग्धस्य ध्मातस्य मषिरपि न प्रज्ञायते । छायिकावशिष्टमपि न प्रज्ञायते [।] अनेन पर्यायेण भगवता भाजनलौकिक(लोक)स्थानित्यता आख्यातायं(तेमं) तावदाप्तागमं निश्रित्यायं योगी श्रद्धाधिपतेयं सर्वसंस्कारानित्यतायां निश्चयं प्रतिलभते ॥

स एवं निश्चयं प्रतिलभ्य, श्रद्धाधिपत्येन पुनः पुनः प्रत्यक्षतामपि, परोक्षतामपरप्रत्ययां (यतां) चानित्यता(यां) समन्वेषते । कथञ्च पुनः समन्वेषते । आह । द्विविधं वस्तु व्यवस्थापयति । आह । आध्यात्मिकम्बाह्यं च । तत्राध्यात्मिकम्वस्तु यत्षडायतनं, बाह्यम्वस्तु (स एवं निश्चयं प्रतिलभ्य श्रद्धाधिपत्येन पुनः पुनः प्रत्यवेक्षतामविपरोक्षतामपरप्रत्ययता(ं) चानित्यतां(यां) समन्वेषते । आह । द्विविधं वस्तु व्यवस्थापयति । आध्यात्मिकम्बाह्यञ्च । तत्राध्यात्मिकम्वस्तु यत्षडायतनं बाह्यम्वस्तु) षोडशविधम् । तद्यथा पृथिवीवस्तु [तद्यथा] ग्रामनिगमगृहापणादयः । आरामवस्तु तद्यथा तृणौषधिवनस्पतयः । पर्वतवस्तु तद्यथा चित्राः (श्भ्_स्ह्४७४) पर्वतसन्निवेशाः । उत्ससर(स)स्तडागनदीप्रस्रवणवस्तु [।] क्षेत्रवस्तु कोशसन्निधिवस्त्रालंकारनृत्तगीतवादितगन्धमाल्यविलेपनमाण्डोपस्कारलोकास्त्रीपुरुषपारिचर्यावस्तूनि च तान्येतानि भवन्ति । षोडशवस्तूनि [।]

स एवमाध्यात्मिक[ं] बाह्यं वस्तु व्यवस्थापयित्वा (व्यावस्थाप्य) [आ]ध्यात्मिकस्य तावद्वस्तुनः प्रत्यक्षाधिपतेयेन मनस्कारेण विपरिमाणा(णामा)कारेण विपरिणामानित्यतां समन्वेषते । तत्र [पञ्चद]शविध आध्यात्मिकस्य वस्तुनो विपरिणामः । अष्टौ विपरिणामकरणानि ।

तत्र कतमः [पञ्चद]शविधो विपरिणामः । आध्यात्मिकस्य वस्तुनस्तद्यथावस्थाकृतो, वर्णकृतः, संस्थानकृतः, सम्पत्तिविपत्तिकृतः । अंगसाकल्यवैकल्यकृतः, [परिश्रमकृतः], परोपक्रमकृतः, [शीतोष्णकृतः] । ईर्यापथकृतः, [स्वयंकृतः], संक्लेशकृतो(तः), [कृषिकृतः], मरणकृतो, विनीलकादि कृतः, सर्वेण सर्वमसंप्रख्यानपरिक्षयकृतो विपरिणामः ।

तत्राष्टौ विपरिणामकारणानि । कतमानि [।] आह । तद्यथा कालपरिवासः, परोपक्रम उपभोगः, (श्भ्_स्ह्४७५) ऋतुविपरिणामः, अग्निदाहः, उदकक्लेदः, वायुशोषः, प्रत्ययान्तरसंगतिश्चेति ॥

तत्र कालपरिवासो नाम येषां भावानां रूपिणां स्वस्थानेऽप्युपन्यस्तकानां कालान्तरेण जर्जरतो पलभ्यते । जीर्णता रूपविकृतिः ॥

तत्र परोपक्रमो नाम यथापि तत्परो विविधानि रूपाणि विविधैः प्रहरणैः विविधैरुपक्रमविशेषैः विचित्रां विकृतिमापादयति ।

तत्रोपभोगो नाम यथापि तत्प्रतिस्वामिनो विविधं रूपमुपभुंजाना उपभोगविधिपतित्वा (गमधिपतिं कृत्वा वि)कृतिमापादयन्ति ।

तत्र ऋतुविपरिणामो नाम तद्यथा हेमन्ते तृणौषधिवनस्पतीनां पाण्डुत्वं, शीर्णत्वं प्रजायते । ग्रीष्मवर्षासु पुनः संपूर्णत्वं, हरितता च । तथा फलसमृद्धिः, पुष्पसमृद्धिः, पत्रसमृद्धिः, विपत्तिश्च तेषामेव [।]

तत्राग्निदाहो नाम यथापि तदग्निर्मुक्तो ग्रामनिगमराष्ट्रराजधानीर्दहन् परैति ।

तत्रोदकक्लेदो नाम तथापि तन्महानुदकस्कन्धः समुदागतो (ग्रामनिगमराजराष्ट्रधानीं दहन् परैति । तत्रोदकक्लेदो नाम तथापि तन्महानुदकस्कन्धः समुदागतो) ग्रामनिगमराजराष्ट्रधानी[ः] प्लावयन् परैति ॥

(श्भ्_स्ह्४७६)
तत्र वायुशोषो नाम तथापि तन्महता वायुस्कन्धेनार्द्राः पृथिवीप्रदेशा लघु लघ्वेव शुष्यन्ति । तथार्द्राणि वस्तून्यार्द्राः सस्यजातयः ।

प्रत्ययान्तरसमुद्गमो नाम तद्यथा सुखवेदनीयं स्पर्शं प्रतीत्य सुखां वेदनां वेदयमानस्य सुखवेदनीय(ः)स्पर्शसमुद्गमः । [एवं दुःखां वेदनां वेदयमानस्य सु(दुः)ख वेदनीय(ः) स्पर्शसमुद्गमः] अदुःखासुखां वेदनां वेदयमानस्यासुखवेदनीयस्य वादुःखवेदनीयस्य वा स्पर्शस्य समुद्गमः । तथा रक्तस्य प्रतिघनिमित्तसमुद्गमः यस्य समुद्गमाद्रागपर्यवस्थानं च विगच्छति । प्रतिघपर्यवस्थानं चोत्पद्यते (।) एवं द्विष्टस्य मूढस्य विसभागः । क्लेशोत्पत्तिनिमित्तः समुद्गमो वेदितव्यः । तद्यथा चक्षुर्विज्ञाने संमुखी भूते शब्दविषयसमुद्गमः । गन्धरसस्प्रष्टव्याः । धर्मनिमित्त समुद्गमो येन विषयान्तरेण विसभागान्युत्पद्यन्ते । इतीमान्यष्टौ विपरिणामकारणानि [।] या काचिद्विपरिणतिर्भवति । रूपिणाम्वा, अरूपिणाम्वा, धर्माणां सर्वो(र्वा) सौ एभिरष्टाभिर्नात उत्तरि नातो भूयः ।

(श्भ्_स्ह्४७७)
तत्राध्यात्मिकस्य वस्तुनः कथमवस्थाकृतं विपरिणामम्पर्येषते । इहानेचा(ना)त्मनो [वा] परेषाम्वा दह्रावस्थामुपादाय यावज्जीर्णावस्था दृष्टा भवति । तां पूर्वेणापरां विसदृशां (शीं), व्यतिभिन्नां, विपरिणतां, संस्कारसन्ततिं दृष्ट्वास्यैवं भवति । अनित्या बत(ते) मे संस्कारा[स्] तथाप्येषां प्रत्यक्षत एवेयं पूर्वणापरा विकृतिरुपलभ्यते ।

तत्र कथं सुवर्णकृता(नां) विपरिणामानित्यतां पर्येषते । इहानेनात्मनो (स तथात्मनो) वा, परेषां वा, या पूर्वं(ताम) स्व(सु)वर्णता(तां), सुच्छविता(तां), त्वग्वर्णता (ताम्) । पश्चाच्च दुर्वर्णतां दुश्छवितां रुक्षतां रुक्षवर्णतां च । पश्यति [।] दृष्ट्वा च पुनरेव प्रत्युदावर्त्त्यापरेण समयेन तामेव सुवर्णतां पर्यवदातत्वग्वर्णतां च पश्यति । तस्यैवं भवत्यनित्या बत(ते)मे संस्काराणा(रास्तेषा)मियमेवं रूपा प्रत्यक्षतो वर्णविकृतिरुपलभ्यते ।

तत्र कथं [सं]स्थानकृतां विपरिणामानित्यतां पर्येषते । यथा वर्ण उक्त एवं कृशस्थूलतया संस्थानं वेदितव्यं सम्पत्तिर्विपत्तिश्च । तद्यथा ज्ञातिसम्पत्तिर्वा, भोगसम्पत्तिर्वा, शीलदृष्टिसम्पत्तिर्वा [।] एतद्विपर्ययेण विपत्तिस्त (त्तिः [।] त)त्कथमंगप्रत्यंगविपरिणामानित्यतां (श्भ्_स्ह्४७८) पर्येषते । इहानेनात्मनो वा, परेषाम्वा या पूर्वं सुवर्णता, सुच्छविता, पर्यवदातत्वग्वर्णता दृष्टा भवति । प(प्र)तिसम्पत्तिर्वा भोगसम्पत्तिर्वा शीलदृष्टिसम्पत्तिर्वा (।) एतद्विपर्ययेण विपत्ति स्(ः) [।]

तत्कथमंगप्रत्यंगविपरिणामानित्यतां पर्येषति(ते) । इहानेनात्मनो वा, परस्य वा, पूर्वमपि (वि)कलांगता दृष्टा भवति । सोपरेण समयेन विकलताम्पश्यति राजतो वा, चोरतो वा, मनुष्यतो वा, अमनुष्यतो वा [।] दृष्ट्वा च पुनरस्यैवं भवति । अनित्या बत(ते)मे संस्कारा इति पूर्ववदे(त्[।]) ।

(एव)मात्मनः परेषां च श्रान्तकायतां, क्लान्तकायतां धावतो वा, प्लवतो वा, लंघयतो वा, अभिरु(रो)हतोवा, विविधं वाक्कर्म द्रुतं कुर्वतः । सोपरेण समयेन विगतक्लमश्रमतां पश्यति । तस्यैवं भवत्यनित्या बतेमे संस्कारा इति पूर्ववत् । एवम्परिश्रमकृतां विपरिणामानित्यताम्पर्येषते ॥

एवमात्मनो वा परेषाम्वा परोपक्रमेण कायविकृतिं पश्यति । तद्यथा लताभिर्वा ताडितस्य, कशाभिर्वा, (श्भ्_स्ह्४७९) वैत्रैर्वा वर(त)त्राभिर्वा [।] तथा विविधैर्दशमशकसरीसृपसंस्पर्शैः [।] अपरेण वा पुनः समयेन तां विकृतिं न पश्यति । दृष्ट्वा च पुनरस्यैवं भवत्यनित्या बत(ते)मे संस्कारा इति पूर्ववदित्येवं परोपक्रमकृताम्विपरिणामानित्यताम्पर्येषते ॥

तथात्मानं वा, परम्वा, शील(त)काले प्रत्युपस्थिते अविशदकायं, संकुचितकायं, शीतपर्यवस्थानपर्यवस्थितमुष्णाभिलाषपरिगतं पश्यति । उष्णकाले वा पुनः प्रत्युपस्थिते अविशदकायं, संकुचितकायं शीतपर्यवस्थानपर्यवस्थितविशदगात्रप्रस्विन्नगात्रं सन्तप्तगात्रमुच्छ्रष्य वचनं तृषापरिगतम् । शीतसंस्पर्शाभिलाषिणं पश्यति । दृष्ट्वा च पुनः प्रत्युदावर्त्त्य पुनः शीतकाले पूर्वोक्तैरेवाकारैः पश्यति । दृष्ट्वा च पुनरस्यैवं भवति । अनित्या बत(ते)मे संस्कारा इति पूर्ववदेव[ं] शीतकृतां विपरिणामानित्यतां पर्येषते ।

स पुनरध्यात्मम्वा (रात्मनो वा) [परे]षाम्वा चंक्रमस्थाननिषद्यशयानैरीर्यापथैरन्यतमान्यतमेनेर्यापथेन आत्मानम्वा परम्वा पश्यति । पुनस्तेनैवमेकदा अनुगृह्यमाणं पश्यति । दृष्ट्वा च पुनरस्यैवं भवत्यनित्या (श्भ्_स्ह्४८०) बतेमे संस्कारा इति पूर्ववत् । एवमीर्या पथकृतां विपरिणामानित्यतांपर्येषते ॥

कथं स्पर्शकृताम्विपरिणामानित्यताम्पर्येषते । सुखवेदनीयेन स्पर्शेन स्पृष्टः, सुखवेदनीयं स्पर्शं प्रतीत्योत्पन्नां सुखां वेदनां वेदयमानः । सुखा[ं] वेदनावस्थामात्मनः परि[च्]छिनत्ति । यथा सुखदेवनावस्था[ं] एवं दुःखासुखासु(दुः)खवेदनावस्थां [।] तस्य पूर्वां पर्येषणा आसां वेदनानां नवनवतानिःपुराण पुराणतामापायिकतां तावत्कालिकतामित्वरप्रत्युपास्थायितमन्यथीभावं दृष्ट्वा, दृष्ट्वैवं भवति । अनित्या बतेमे संस्कारा इति पूर्वत् ॥

तत्र कथं क्लेशकृतां विपरिणामानित्यतां व्यवचारयति । सरागं चित्तमुत्पन्नं परिजानाति । विगतरागं सद्वेषम्विगतद्वेषम् । समोहं विगतमोहमन्यतमान्यतमेन वा उपक्लेशेनोपक्लिष्टं चित्तमुपक्लिष्टमिति परिजानाति । अनुपक्लिष्टम्वा पुनरनुपक्लिष्टमिति परिजानाति । तस्य पू(पौ)र्वापर्येणैभिः क्लेशोपक्लेशैरवतीपर्णविपरिणताविपरिणतांचित्तसन्ततिं दृष्ट्वैवं भवत्यनित्या बतेमे संस्कारा इति । तथा ह्येषां प्रत्यक्षतः संक्लेशकृतो विपरिणामौपलभ्यते ॥

तत्र कथं व्याधिकृतां विपरिणामानित्यतां व्यवचारयति । इहानेनैकदात्मा च परे च दृष्ट्वा(ष्टा) (श्भ्_स्ह्४८१) भवन्त्यरोगिणः, सुखिनो, बलवन्तः । सोऽपरेण समयेन पश्यत्यात्मानम्वा, परम्वा, आबाधिकं, दुःखितं, बाढग्लानं, स्पृष्टं शारीरिकाभिर्वेदनाभिः दुःखाभिस्तीव्राभिरिति विस्तरेण पूर्ववत् ।

तत्र कथं क्लेशकृतां विपरिणा[मा]नित्यतां व्यवचारयति । इहानेनैकदात्मा च परे च दृष्ट्वा (दृष्टा) भवन्त्यरोगिणः, सुखिनो, बलवन्तः । सोऽपरेण समयेन पश्यत्यात्मानम्वा, परम्वा, आबाधिकं, दुःखितं, बाढग्लानं, स्पृष्टं शारीरिकाभिर्वेदनाभिः । स पुनरपरेण समयेन पश्यत्यरोगिणं, सुखितं, बलवन्तं, दृष्ट्वा च पुनरस्यैवं भवत्यनित्या बत(ते)मे संस्कारा इति पूर्ववत् ॥

तत्र कथं मरणकृतां विपरिणामानित्यतां व्यवचारयति । इहायं जीवितं पश्यति ध्रियन्तं, तिष्ठन्तं, यापयन्तं, सोऽपरेण समयेन मृतं कालगतं पश्यति । विज्ञानशून्यं कलेवरं दृष्ट्वा च पुनरस्यैवं भवतीति विस्तरेण पूर्ववत् ॥

तत्र कथं [वि]नीलकादिकृतां विपरिणामानित्यतां व्यवचारयति । सोऽपरेण समयेन ताम(तद)स्थिशंकलिकावस्थानं पश्यति । स तदेव मृतकलेवरं विनीलकावस्थमेकदा पश्यति । एकदा विपूयकावस्थमेनं विस्तरेण यावस्थिशंकलिकावस्थं दृष्ट्वास्यैवं भवत्यनित्या बत(ते)मे संस्कारा इति विस्तरेण (श्भ्_स्ह्४८२) पूर्ववत् ॥

तत्र कथमसंख्या(य) न परिक्षयकृताम्विपरिणामानित्यतां व्यवचारयति [।] सोऽपरेण [समयेन] ताम(तद)प्य[स्थि]शंकलिकावस्थानं पश्यति । सर्वेण सर्वं नष्टा(ष्टो) भवति, विध्वस्ता(स्तो), विशीर्णः । सर्वेण सर्वं चक्षुषो [अ]नाभासगता, दृष्ट्वा च पुनरस्यैवं भवत्यनित्या बत(ते)मे संस्कारास्तथा ह्येषां पौर्वापर्येण प्रत्यक्षत एवायमेवं रूपो विकार उपलभ्यते । विपरिणामः ।

एवं तावत्प्रत्यक्षाधिपतेयेन मनस्कारेणाध्यात्मिकस्य वस्तुनः [पंच] दशभिराकारैर्विपरिणामानित्यतां व्यवचारयति । व्यवचारयित्वा(व्यवचार्य) षोडशविधस्य बाह्यस्य वस्तुनो विपरिणामानित्यतां व्यवचारयति । येऽनेन पृथिवीप्रदेशा नाभिसंस्कृताः पूर्वं दृष्टा भवन्ति । गृहवस्त्वापणवस्तुपुण्यशालादेवकुलविहारवस्तुप्रकारैः पश्चाच्चाभिसंस्कृतान्पश्यत्यनभिसंस्कृतान्पश्यत्यनन्दिनवान्सुकृतान्सूपलिप्तान् (।) सोऽपरेण समयेन जीर्णान् पश्यति । जर्जरानलूनविलूनां (नान्) च्छीर्णान् छ(क्ष)तितपतितान् खलु छिद्रानग्निना वा दग्धानुदकेन वापह्रतां(हृतान्) । दृष्ट्वा च पुनरस्यैवं भवति । अनित्या बत(ते)मे संस्काराः [।] तथाप्येः(ह्ये)षां पौर्वापर्येणायमेवंरूपः प्रत्यक्षो विकारो (श्भ्_स्ह्४८३) विपरिणाम उपलभ्यते । एवं पृथिव्यां विपरिणामानित्यतां व्यवचारयति । एवं तृणौषधिवनस्पतय आरामोद्यानानि च समृद्धपत्रपुष्पफलानि पश्यति । हरति तानि (हरितानि) प्रासादिकान्यभिरम्याणि [।] अपरेण स समयेनोच्छुष्काणि पश्यति । विगतपत्रपुष्फलानि (।) अग्निदाहेन वा दग्धानि (वा,) तथा पर्वतान्येकदा समृद्धपाषाणानि पश्यत्येकदा निर्लुठितपाषाणानि पतित श्रृंगाणि, पतितकूटानि, उत्कूलनिकूलान्यग्निना दग्धानि, उदकाभिष्यन्दितानि, तथा उत्ससरस्तडाक(ग)नदीप्रस्रवणकूपादीन्येकदा, समृद्धोदकानि पश्यत्येकदा परिक्षीणोदकानि, सर्वेण वा सर्वं विशुष्काणि खिलीभूतानि कोटराणि । तथा कर्मान्तानेकदा सम्पद्यमानान्पश्यत्येकदा विपद्यमानां (नान्) [पश्यति ।] तद्यथाकृषिकर्मान्तान्नौकर्मान्तान्सम्यग्व्यवहारकर्मान्तान् विविधांछिल्प (विधाञ्छिल्प)स्थानकर्मान्तान्, तथा कोशसन्निधीनां विचित्राणां नानाप्रकाराणामेकदा आचयं पश्यत्येकदा अपचयम् । तथा भोजनपानं च एकदा[न]भिसंस्कृता(न्ना)वस्थं पश्यत्येकदाभिसंस्कृतावस्थमेकदा लालाविसरविक्लिन्नमेकदा यावदुच्चारप्रस्रावावस्थं [पश्यति] । (श्भ्_स्ह्४८४) तथा विविधानि यानान्येकदा सुमण्डितानि स्वलंकृतान्यभिनवानि पश्यत्येकदा विगतालंकाराणि । विगतमण्डनानि, जर्जराणि । तथा वस्त्राणामेकदा अभिनवतां पश्यत्येकदा पुराणताम् । प्रक्षीणतामेकदा शुद्धतामेकदा मलिनताम् । तथालंकाराणामेकदानभिसंस्कृततामेकदाभिसंस्कृततामेकदा सारतामेकदाभिन्न-प्रभिन्नताम्विक्षीणतां पश्यति । तथा नृत्तगीतवादितानां प्रत्युत्पन्नप्रयोगविचित्रभूय[स्]समुद्गता[ं] भवभंगताम्पश्यति । तथा गन्धमाल्यविलेपनानां प्रत्यग्रसुगन्धाम्लानतां पश्यति । अपरेण समयेन नातिसुगन्धदुर्गन्धम्लानविशुष्कतां पश्यति । तथा भाण्डोपस्काराणामनभिसंस्काराभिसंस्कारसारभग्नतां पश्यति । तथा आलोकानुकारयोः संभवविभवताम्पश्यति । तथा स्त्रीपुरुषचर्यासम्भवविभवतां पश्यति । अस्थिरतां [।] दृष्ट्वा च पुनरस्यैवं भवत्यनित्या बत(ते)मे संस्कारास्तथा ह्येषां बाह्यानां संस्काराणां, षण्णां च परिग्रहवस्तूनां, दशानाञ्च कायपरिवाराणां प्रत्यक्षता, विकारो, विपरिमाणोऽयमीदृश उपलभ्यते । सर्वत्रचैतत्पेयालं वेदितव्यम् ॥

एभिरष्टाभिर्विपरिणामकारणैः पूर्वनिर्दिष्टैरस्याध्यात्मिकबाह्यस्य वस्तुनो यथायोगं प्रत्यक्षाधिपतेयेन मनस्कारेणैवं विपरिणामाकारेणानित्यतां व्यवचारयति । (श्भ्_स्ह्४८५) यथानेन सा विपरिणामानित्यता प्रत्यक्षं दृष्टा भवत्यनुभूता, अपरप्रत्ययश्च तस्यां भवत्यनन्यनेयः । तथैवानुस्मरन् व्यवचारयति । निश्चितश्च भवति । तेनोच्यते प्रत्यक्षाधिपतेयो मनस्कार इति ।

स एवं प्रत्यक्षाधिपतेयेन मनस्कारेण विपरिणामानित्यतां व्यवहा(चा)रयित्वा(व्यवचार्य) येषां रूपिणां संस्काराणां सती सम्विद्यमाना क्षणोत्पन्नभग्ना विनीलता(विलीनता) नोपलभ्यते । तत्र प्रत्यक्षाधिपतेयं मनस्कारं निश्रित्यानुमानं करोत्येवञ्च पुनरनुमानं करोति । क्षणोत्पन्नभग्नविलीनानामेषां संस्काराणामियं पूर्वेणापरा विकृतिर्युज्यते । न तु तथैवावस्थितानां, इति हि क्षणिकाः संस्कारास्तेषु तेषु प्रत्ययेषु सत्सु तथा तथोत्पद्यन्ते । उत्पन्नाश्चानपेक्ष्य विनाशकारणं स्वरसेन विप(न)श्यन्ति ।

(श्भ्_स्ह्४८६)
यानि पुनरेतानि विपरिणामकारणानि तान्यन्यथोत्पत्तये सत्य(म्व)र्त्तन्ते विकृताया उत्पत्तेः कारणीभवन्ति । न तु विनाशस्य [।] तत्कस्य हेतोः [।] सहैव तेन विनाशकारणेन विनष्टानां संस्काराणां यस्माद्विसदृशा (शी) प्रवृत्तिरुपलभ्यते । न तु सर्वेण सर्वमप्रवृत्तिरेव [।] येषाम्वा पुनः संस्काराणां सर्वेण सर्वमप्रवृत्तिरुपलभ्यते । तद्यथा क्वाथ्यमानामसामन्ते सर्वेण सर्वम्परिक्षयो भवति अग्निनिर्दग्धानां च लोकभाजनानां मसिरपि न [प्र]ज्ञायते । छायिका च । शिष्टमपि न प्रज्ञायते तेषामप्युत्तरोत्तरकरणपर्यादानादन्ते सर्वेण सर्वमभावो भवति । न त्वग्निनैव क्रियते [।] तस्माद्विपरिणामकारणान्येतान्यष्टौ यथोक्तानि स्वरसेनैव तु विनाशो भवति । स एवमानुमानिकमनस्कारेण संस्कारेणाक्षणोत्पन्नभग्नविलीनतायां निश्चयं प्रतिलभ्य पुनरप्यप्रत्यक्षपरलोकासंस्कारप्रवृत्तावनुमानं करोति ॥

एवं च पुनरनुमानं करोति । सन्ति सत्वा (त्त्वा) ये अवर्णा अपि, दुर्वर्णा अप्युपलभ्यन्ते, उच्चकुलीना अपि, आद्यकुलीना अपि, दरिद्रकुलीना अपि, अल्पेशाख्या अपि, दीर्घायुषो (ष) आदेयवाक्या अपि, अनादेयवाक्या अपि, तीक्ष्णेन्द्रिया अपि [।] (श्भ्_स्ह्४८७) तदेतत्सत्व(त्त्व)वैचित्र्यं सति कर्मवैचित्र्ये युज्यते [।] नासति । यद्रूपैः सत्त्वैर्यद्रूपं पूर्वमेव भूतं (कृतं?) कुशलाकुशलं चित्रकर्म कृतमुपचितं, तेन हेतुना, तेन प्रत्ययेन तेषामिदमात्मभाववैचित्र्यमभिनिर्वृत्तम् ॥

न चैतदीश्वरनिर्माणहेतुकं युज्यते । स चेदीश्वरनिर्माणहेतुकं स्यात्तदीश्वरप्रत्ययमेव वा स्यादन्येन वोपादानेनेश्वरो निर्मिमीत । स चेदीश्वर प्रत्ययमेव स्यात्तेनेश्वरस्यैषाञ्च संस्काराणां यौगपद्यं स्यात् । अथ पूर्वमीश्वरः पश्चात्संस्कारा, नेश्वरप्रत्ययाः संस्कारा भवन्ति । अथेश्वरस्य प्रणिधानं निर्माणकारणं, नेश्वर एव । तेन समीच्छा सहेतुका (की) वा स्यान्निर्हेतु का (कीं) वा [।] यदि सहेतुका ईश्वरहेतुकैव च तेन पूर्वकेण दोषेण तुल्यतया न युज्यते । अथान्यहेतुका (की) तेनेच्छा प्रयत्नः । (श्भ्_स्ह्४८८) प्रणिधानमीश्वरविनिर्मुक्तान्यधर्महेतुका तथा सर्वेऽपि संस्कारा धर्महेतुका एव भविष्यन्ति । किमीश्वरेण वृथा कल्पितेनेत्येवमादिना आनुमानिकेन मनस्कारेणैवंभागीयेन, परलोकेन संस्कारप्रवृत्तौ निश्चयं प्रतिलभते ।

स एवं त्रिःप्रकारमनस्काराधिपत्येन श्रद्धाधिपतेयेन प्रत्यक्षाधिपतेयेनानुमानाधिपतेयानां(याम्) नित्यतां व्यवचारयति । तत्र या पूर्व पञ्च [विधा]नित्यता पञ्चाकारभावनानुगता उद्दिष्टा, तत्र विपरिणामाकारनिर्दिष्टा, विनाशाकारा च ।

विसंयोगाकारा अनित्याकारा (अनित्यता) कतमा । आह । अध्यात्ममुपादाय बहिर्धा च वेदितव्या ॥ तत्राध्यात्ममुपादाय यथापि तदेकत्यः पूर्वम्परेषां स्ता(स्वा)मी भवत्यदासः अप्रेष्यः । अपरकर्मकरः । सोऽपरेण समयेन स्वामिभावमदासभावं विहाय परेषां दासभावमुपगच्छति । स्वामिभावाद्विसंयुज्यते । तथा सन्तः सम्विद्यमाना भोगा अविपरिणता, अविनष्टा राज्ञा(ः) अपह्रियन्ते । चोरैर्वा, अप्रियैर्वा, दायादै[रित्य]नित्यता वेदितव्या । तत्र धर्मताकारानित्यता (श्भ्_स्ह्४८९) यथापि तस्या एव विपरिणामानित्यतायाः विनाशानित्यतायाः । वर्तमानेऽप्यध्वन्यसमवहितायाः अनाभोगे (गते)ऽध्वनि भाविन्या धर्मतां प्रतिविध्यत्येवं धर्माण एते संस्कारा अनागतेऽध्वनि एवंभागीया इति । एषु सन्निहिताकाराय (रया?) इत एव विपरिणामानित्यतां, विनाशानित्यतां, विसंयोगानित्यतां समवहितां संभुरवीभूतामाकारयति ।

स एवमाध्यात्मिकबाह्यानां संस्काराणां पञ्चविधायामनित्यतायामेभिः पञ्चभिराकारैर्यथायोगं मनसिकारबाहुल्यादुपपत्तिसाधनभावनाधिपत्याच्च निये(र्मे)यं प्रतिलभ्य तद[न]न्तरं दुःखाकारमवतरति । तस्यैवं भवति । य एते संस्कारा अनित्यास्तेषामनित्यतां (ता) जातिधर्मतो युज्यते । इति ह्येत एव संस्कारा जातिधर्माणः जातिश्च दुःखा, यदा(या) जातिरेव[ं] जरा व्याधिर्मरण[ं], विप्रियसंप्रयोगः, प्रियविनाभाव, इच्छाविघातश्च वेदितव्यः । एवं तावदनिष्टा(त्या)कारेण दुःखाकारमवतरति ।

स ये सुखवेदनीयाः स्कन्धाः, सास्रवाः, सोपादानास्तेषु संयोजनबन्धनाकारेण दुःखाकारमवतरति । (४९०) तथा हि ते (तस्य) तृष्णासंयोजनस्याकारेऽधिष्ठानं, तृष्णासंयोजनं च जातिजराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासबन्धनस्य, रागद्वेषमोहबन्धनस्य चाधिष्ठानम् ।

तत्रायोगक्षेमामारेण अदुःखासुखस्थानीयेषु स्कन्धेषु दुःखाकारमवतरति । तथा ह्यदुःखासुखास्थानीयाः स्कन्धाः सोपादाना दौष्ठुल्यसहगता अबीजानुगता अविनिर्मुक्ता दुःखदुःखतया, विपरिणामदुःखतया च । अनित्या, निरोधधर्माणः ।

एवमयं योगी सुखस्थानीयेषु संस्कारेषु, सुखायाञ्च वेदनायां विपरिणामदुःखतामवतीर्णो भवति । यदुत संयोजनबन्धनाकारेण दुःखवेदनास्थानीयेषु संस्कारेषुदुःखायां वेदनायां दुःखदुःखतामवतीर्णो भवति । यदुतानिष्टाकारेण अदुःखासुखस्थानीयेषु संस्कारेषु(ष्व) दुःखासुखायाञ्च वेदनायां संस्कारदुःखतामवतीर्णो भवति । यदुतायोगक्षेमाकारेण [।]

तस्यैवं भवति । संयोजनबन्धनाकारमनिष्टाकारं योगक्षेमाकारं चाधिपतिं कृत्वा तिसृषु वेदनासु यत्किञ्चिद्वेदयितमिदमत्र दुःखस्येत्येवमयमनित्याकारपूर्वकेण मनस्कारेण दुःखाकारमवतीर्णो भवति । तस्यैवं भवतीन्द्रियमात्र(त्रं)सह(सः) उपलभते, विषयमात्रम् । तज्जमनुभवमात्रम् । चित्तमात्र हता आत्मेति (हतात्मेति) । नाममात्रम् । दर्शनमात्रमुपचारमात्रम् । (श्भ्_स्ह्४९१) नात उत्तरि नातो भूयः ।

तदेवं सति स्कन्धमात्रमेतन्नास्त्येषु स्कन्धेषु नित्यो, ध्रुवः, शाश्वतः स्वाभूतः । कश्चिदात्मा वा, सत्वो(त्त्वो) वा, योऽसौ जायेत वा, हीयेत वा, म्रियते (येत) वा, तत्र वा (तत्र वा) तत्र कृतकृतानां कर्मणां फलविपाकं प्रतिसम्वेदयेत । इति हि (श्भ्_स्ह्४९२) शून्या एते संस्काराः, आत्मविरहिता इत्येवमनुपलम्भाकारेण शून्याकारमवतरति । तस्यैवं भवति । ये पुनरेते संस्काराः स्वलक्षणेनानित्यलक्षणेन, दुःखलक्षणेन युक्तास्तेऽपि प्रतीत्यसमुत्पन्नतया अस्वतन्त्रा, येऽस्वतन्त्रास्तेऽनात्मान इत्येवमस्वतन्त्राकारेणानात्माकारमवतरति । एवं पुनर्योगिना दशाकारं गृहीतैश्चतुर्भिराकारैर्दुःखसत्यलक्षणं प्रतिसंवेदितं भवति ॥

तत्रानित्याकारः पञ्चभिराकारैः संगृहीतः । तद्यथा विपरिणामाकारेण, विसंयोजनाकारेण, सन्निहिताकारेण, धर्मताकारेण [।]

दुःखाकारस्त्रिभिराकारैः संगृहीतः । संयोजनबन्धनाकारेण अनिष्टाकारेण अयोगक्षेमाकारेण च [।]

शून्याकार एकेनाकारेण संगृहीतो यदुतानुपलंभाकारेण [।]

अनात्माकार एकेनाकारेण संगृहीतो यदुतास्वतन्त्राकारेण ।

स एवं दशभिराकारैश्चतुराकारानुप्रविष्टो (श्भ्_स्ह्४९३) दुःखलक्षणां प्रतिसंवेद्य, अस्य दुःखस्य को हेतुः, कः समुदयः, प्रभवः, प्रत्ययः इति । यस्य प्रहाणादस्य दुःखस्य प्रहाणं स्यादित्येभिश्चतुर्भिराकारैस्समुदयसत्यस्य लक्षणं प्रतिसंवेदयति । तृष्णाया दुःखक्षेमकत्वाद्धेतुतः, आक्षिप्याभिनिर्वर्तकत्वात्समुदयानयनात्समुदा[न]यतः । अभिनिर्वृत्तिर्दुःखितत्वात्प्रभवत्वात्प्रभवतः । पुनरायत्यां दुःखबीजपरिग्रहत्वादनुक्रमेण च । दुःखसमुदयानयनात्प्रत्ययतः । अपरः पर्यायः । उपादानहेतुकस्य च भवस्य समुदागमाद्भवपूर्विकाया जातेः प्रभवत्वात्, जातिप्रत्ययतां, जाति च (तेश्च) जराव्याधिमरणशोकादीनामभिनिर्वृत्तेः । हेतुतः समुदयतः, प्रभवतः, प्रत्ययतः । यथायोगं वेदितव्यम् । अपरः पर्यायः [।] यः क्लेशानुशय आश्रय[ः] पुनर्भवामभिनिर्वृत्तये हेतुस्तज्जस्य च पर्यवस्थानस्य यथायोगं वेदितव्यं [।] अपरः पर्यायः [।] यः क्लेशानुशय आश्रयस्तृष्णानुशयादिकः । स आयत्यां पुनर्भवाभिनिर्वृत्तये हेतुस्तज्जस्य च पर्यवस्थानस्य यथायोगं समुदयः, प्रभवः, प्रत्ययश्च [।]

तत्र पौनर्भविक्यास्तृष्णायाः समुदाननात्समुदयतः । सापुन[ः] पौनर्भविकी तृष्णा नन्दीरागसहगतायास्तृष्णायाः (श्भ्_स्ह्४९४) प्रभवो भवति सा पुनर्नन्दीरागसहगता तृष्णा प्रभूता, तत्र तत्राभिनन्दिन्यास्तृष्णायाः प्रत्ययो भवत्येवमस्यानुशयगतां त्रिविधपर्यवस्थागतां च तृष्णामागम्यायति[ः] । पुनर्भवस्याभिनिर्वृत्तिर्भवति प्रादुर्भावः । तेनाह हेतु[तः], समुदयतः, प्रभवतः, प्रत्ययतश्च । एवमयं योगी एभिश्चतुर्भिराकारैस्समुदयसत्यलक्षणं प्रतिसम्वेदयते ।

समुदयसत्यलक्षणं प्रतिसंवेद्य अस्य समुदयसत्यस्याशेषोपरमन्निरोधं निरोधत आकारयति । दुःखसत्यस्याशेषोपरमेच्छातः, अग्रत्वाच्छ्रेष्ठत्वात्तदन्तरत्वात्प्रणीततः, नित्यत्वान्निस्सरणतः । एवमयं चतुर्भिराकारैः निरोधसत्यस्य लक्षणं प्रतिसंवेदयति । प्रतिसम्वेद्य ज्ञेयपरिमार्गणार्थेन, भूतपरिमार्गणार्थेन चतुर्भिर्दुःखैरनुप्रवर्तनार्थेन । निर्वाणगमनायैकायनार्थेन मार्गं मार्ग[तो], न्यायतः, प्रतिपत्तितो, नैर्याणिकतश्च आकारयति । स एवं चतुर्भिराकारैर्मार्गत्यस्य लक्षणं प्रतिसम्वेदयते । अयमस्योच्यते चतुर्ष्वार्यसत्येष्वध्यात्मं प्रत्यात्मं लक्षणप्रतिसंवेदी (यते । अयमस्योच्यते । चतुर्ष्वार्यसत्ये[षु]) मनस्कारः ॥

स एवं प्रत्यात्मिकान् स्कन्धान् प्रत्ययेनोपपरीक्ष्य (श्भ्_स्ह्४९५) व्यवचारयित्वा (व्यवचार्य) विपरोक्षकान् विसभागधातुकान् । स्कन्धाननुमानतः पराहन्ति । तेप्येवं धर्माणः तेऽप्येवंनयपतिता इति । यत्किञ्चित्संस्कृतं सर्वत्र सर्वशः [एवं तदेवं प्रतिसंवेदी मनस्कारः । प्रत्ययेनोपपरीक्ष्यव्यवचारयित्वा(चार्य) विपरोक्षान् विसभागधातुकान् स्कन्धाननुमानतः पराहन्ति । तेऽप्येवं धर्माणस्तेऽप्येवं नयपतिता इति यत्किञ्चित्संस्कृतं सर्वत्र सर्वश] एवं तदेवंप्रकृतिकं, तस्य च निरोधः । शान्तः, मार्गो, नैर्याणिको यस्तत्प्रहाणाय तस्य यदा विपक्षोक्तेषु प्रत्यात्मिकेषु स्कन्धेषु सत्यज्ञानम् । यच्च विपरोक्षेषु विसभागधातुकेष्वनुमानज्ञानम् । तद्धर्मज्ञानान्वयज्ञानयोरुत्पत्तये बीजस्थानीयं भवति । स चायं लक्षणप्रतिसंवेदी मनस्कारः श्रुतचिन्ताव्यवकीर्णो वेदितव्यः ।

यदा तेषु सत्येष्वयं योगी एवं सम्यक्(ग्)व्यवचारणान्वयादिभिः षोडशभिराकारैश्चतुर्ष्वार्यसत्येषु निश्चयः [-यं] प्रतिलब्धो भवति । यदुतोपपत्तिसाधनयुक्त्या, यदुत यावद्भाविकतां वा, तदा श्रुतचिन्तामयं मनस्कारं समतिक्रम्य व्यवतीर्णवर्त्तिनमेकान्तेन भावनाकारेणाधिमुच्यते । सो [अ]स्य भवत्याधिमोक्षिको मनस्कारः । सत्यालम्बनश्चैकान्तसमाहितश्च [।] स तस्यान्वया[द्]द्वे सत्ये अधिकृत्य दुःखसत्यञ्च (श्भ्_स्ह्४९६) समुदयसत्यञ्च अपर्यन्तं ज्ञानं प्रतिलभते । येनानित्यमनित्यमित्यनित्यापर्यन्तमधिमुच्यते ॥

एवं दुःखापर्यन्ततां शून्याकाया[रा]पर्यन्ततां, संक्लेशापर्यन्तामपायगमनापर्यन्ततां सम्पत्ति(त्त्य) [पर्यन्त]नां(तां), विपति[त्त्य]पर्यन्ततां, स व्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासा पर्यन्ततां [।] तत्रापर्यन्तेति नास्ति संसारं(रः) सन्स(संस)रत, एषां धर्माणामन्तो नास्ति पर्यन्तः । यावत्सन्सा(संसा)रभाविन एते धर्माः, सन्सा(संसा)रस्य वाशेषोपरमादेषामुपरमो, नास्ति अन्यथोपरम इत्येवं सर्वभवगतिच्युत्युपपादेभ्यः अप्रणिहा(हिता)कारेणासन्निश्रयाकारेण, प्रातिकूल्याथि(धि)कारेणासन्निश्रयाकारेण [।] प्रातिकूल्याधिकारेणाधिमुच्यमान आधिमोक्षिकमनस्कारं भावयति । स एवं सर्वभावोपपत्तिभ्यः । चित्तमुद्वेजयित्वा (-मुद्वेज्य) । उत्त्रास्य । उ(त्)त्रासयित्वा (स्य) [अ]ध्याशयेन निर्वाणेऽप्यन्यतमान्यतमेनाकारेण प्रणिदधाति । तस्य दीर्घरात्रं तच्चित्रं(त्तं)रूपरतं शब्दगन्धरसस्प्रष्टव्यरतमा(तमा)चितमुपचितं (रूपशब्दगन्धरसस्प्रष्टव्यरतमा(तमा)चितमुपचितम् ।) रूपशब्दगन्धरसस्प्रष्टव्यैः । येनाध्याशयेनापि निर्वाणं प्रदधते । (श्भ्_स्ह्४९७) न प्रस्कन्दति, न प्रसीदति । न संतिष्ठते । न विमुच्यते, न प्रत्युदावर्त्तते (।) मानसं, शान्तधात्वनभिलक्षिततया । परितमनामुपादाय, स पुनः पुनस्तच्चित्तमुद्वेजयत्यु[त्]त्रासयति । दुःखसत्यात्समुदयसत्यादुद्वेज्यो[ज्]त्रास्य पुनः पुनरध्याशयतो निर्वाणे प्रणिदधाति । तथाप्यस्य न प्रस्कन्दति । तत्कस्य हेतोस्तथा ह्यसौ [औ]दारिको [अ]स्मि मानोऽभिसमयाय विबन्धकरः । स मनस्कारानुप्रविष्टः सान्तरव्यन्तरो वर्तते । अहमस्मि संस्कृ(सृ)तवानहमस्मि संसरिष्यामि । अहमस्मि परिनिर्वास्यामि, अहमस्मि(न्) परिनिर्वाणाय कुशलान्धर्मान् भावयामि । अहमस्मिदुःखं दुःखतः (।) पश्यामि, समुदयं समुदयतो, निरोधं निरोधतः । अहमस्मि मार्गं मार्गतः पश्यामि । अहमस्मि शून्यं शून्यतोऽप्रणिहितमप्रणिहिततः । आनिमित्तमानिमित्ततः पश्यामि ममैते धर्मास्तद्धेतोस्तत्प्रत्ययस्य तच्चित्तं न प्रस्कन्दत्या(त्य)ध्याशयम्वाध्याशयतो [अ]पि निर्वाणम(त)स्मिमानं निर्ब(विब)न्धका(क)रं विबन्धकार इति लघु लघ्वेव प्रज्ञया प्रतिविध्य, स्वरसानुप्रवृत्तौ मनस्कारमुत्सृज्य, बहिर्धा ज्ञेयालम्बनाद्व्यावर्त्य, मा(म)नस्कारप्रविष्टां, (श्भ्_स्ह्४९८) मनस्कारानुगतां, सत्यव्यवचारा(र)णामारभते । स उत्पन्नोत्पन्नं चित्तं निरुध्यमानमनन्तरोत्पन्नेन चित्तेन भज्यमानं पश्यति । प्रवाहानुप्रबन्धयोगेन । स तथाचित्तेन चित्तमालम्बनीकरोत्यवष्टभते । यथास्य योऽसौ मनस्कारानुप्रविष्टोऽस्मिमानो विपक्ष(बन्ध)करः स तस्यावकाशः । पुनर्भवव्युत्पत्तये ॥

तथा प्रयुक्तोऽयं योगी यत्तस्याश्चित्तसन्ततेः अन्योन्यतां नवनवतामापायिकतां तावत्कालिकतामित्वरप्रत्युपस्थायिताञ्च पौर्वापर्येण पश्यतीदमस्या [अ]नित्यताया यत्तस्याश्चित्तसन्ततेः उपादानस्कन्धानुप्रविष्टतां पश्यतीदमस्य दुःखतायास्तत्र यच्चित्तं धर्मं नोपलभते । इदमत्र शून्यतायास्तत्र यस्या एव चित्तसन्ततेः प्रतीत्यसमुत्पन्नतामस्वतन्त्राम्पश्यतीदमस्यानात्मताया[ः ।] एवं तावद्दुःखसत्यमवतीर्णो भवति ।

(श्भ्_स्ह्४९९)
तस्यैवं भवतीयमपि मे चित्तसन्ततिः । तृष्णाहैतुकी, तृष्णासमुदया, तृष्णाप्रभवा, तृष्णाप्रत्यया [।] अस्या अपि चित्तसन्तेतेर्यो निरोधः सोऽपि शान्तः । अस्या अपि यो निरोधगामी मार्गः । स नैर्याणिक इत्येवमपरीक्षितमनस्कारपरीक्षायोगेन सूक्ष्मया प्रज्ञया न तान्यार्यसत्यान्यवतीर्णो भवति । तस्यैवमासेवनान्वयाद्भावनान्वयात्तस्याः समसमालम्ब्यालम्बकाज्ञानमुत्पद्यते । येनास्यौदारिकत्वास्मिमानो निर्वाणाभिरतये विबन्धकरः समुदाचरतः । प्रहीयते । निर्वाणे चाध्यायतश्चित्तं प्रदधतः प्रस्कन्दति । नप्रत्युदावर्तते(यति) (।) मानसम् । परितमनामुपादाय । अध्याशयतश्चाभिरतिं गृह्णाति । तथाभूतस्यास्य मृदुक्षान्तिसहगतं समसमालम्ब्यालम्बकज्ञानं तदूष्मगतमित्युच्यते । यन्मध्यक्षान्तिपरिगृहीतं तन्मूढे(ढमि)त्युच्यते । यदधिमात्रक्षान्तिसंगृहीतं तन्मध्यानुलोमा क्षान्तिरित्युच्यते ॥

स एवम्बिबन्धकरमस्मिमानं प्रहाय निर्वाणे चाध्याशयरतिं परिगृह्ययोऽसावुत्तरोत्तरश्चित्तपरिक्षयाभिसंस्कारः । तमभिसंस्कारं समुत्सृज्य अनभिसंस्कारतायां निर्विकल्पचित्तमुपनिक्षिपति । तस्य तच्चित्तं तस्मिन् समये निरुद्धमिव ख्याति । न च तं (तन्) निरुद्धं भवत्यनालम्बनमिव ख्याति । न च तदालम्बनं भवति । तस्य तच्चित्तं प्रशान्तं विगतमिव (श्भ्_स्ह्५००) ख्याति । न च तद्विगतं भवति । न च पुनस्तस्मिं(स्मिन्) समये मधुकरमिद्धावष्टब्धमपि तच्चित्तं निरुद्धमिव ख्याति । न च तन्निरुद्धं भवति । यत्तदेकत्यानां [मन्दानां] मोमूहानामभिसमया [या]भिमानाय भवतीदं पुनश्चित्तमभिसमयायैव, न चिरस्येदानीं सम्यक्त्वं(त्त्व) (।) न्यामावक्रान्तिर्भविष्यतीति । यदि यमीदृशी चित्तस्यावस्था भवति । तस्य तत्सर्वपश्चिमनिर्विकल्पंचित्तं यस्यानन्तरं पूर्वविचारितेषु सत्वेष्वध्यात्ममाभोगं करोति । ते लौकिका अग्रधर्माः ।

तस्मात्परेणास्य लोकोत्तरमेव चित्तमुत्पद्यते । न लौकिकं [।] सीमा एषा लौकिकानां संस्काराणां, पर्यन्त एषस्तेनोच्यन्ते लौकिका अग्रधर्मा इति । तेषां समनन्तरपूर्वाविचारितानि सत्या[न्या]भ्र(व्र)जति । आभोगसमनन्तरं यथापूर्वानुक्रमः [।]

विचारितेषु सत्येषु अनुपूर्वेणैव निर्विकल्पप्रत्यक्षपरोक्षेषु ॥ निश्चयज्ञानं प्रत्यक्षज्ञानमुत्पद्यते । तस्योत्पादात्त्रैधातुकावचराणां दर्शनप्रहातव्यानां क्लेशानां पक्ष्यं दौष्ठुल्यसन्निश्रयसन्निविष्टं तत्प्रहीयते । तस्य प्रहाणात्सचेत्पूर्वमेव कामेभ्यो वीतरागो भवति । सह स(ग?)त्याभिसमयात् । तस्मिन्समये (श्भ्_स्ह्५०१)ऽनागामीत्युच्यते । तस्य तान्येव लिंगानि वेदितव्यानि । यानि पूर्वमुक्तानि वीतरागस्यायन्तु विशेषः । अयमौपपादुको भवति । तत्र परिनिर्वायी । अनागन्ता पुनरिमं लोकं [।]

स चेत्पुनर्यद्भूयो वीतरागो भवति । सह गत्या अभिसमयात्सकृदागामी भवति ।

सचेत्पुनरवीतरागो भवति । स भूयस्स तस्य दौष्ठुल्यस्य प्रतिप्रश्रब्धेः स्रोत आपन्नो भवति । ज्ञेयेन ज्ञानं समागतं भवति । प्रत्यक्षतया । तेनोच्यते [अ]भिसमयतः । तद्यथा क्षत्रियः क्षत्रियेण । सार्धं सम्मुखीभावं तदन्वभिसमयागत इत्युच्यते । एवं ब्राह्मणादयो वेदितव्याः ।

तस्येमानि लिंगानि चत्वारि ज्ञानान्यनेन प्रतिलब्धानि भवन्ति । सत्त्वचारविहारमनसिकारेषु तीरयतो धर्ममात्रज्ञानमनुच्छेदज्ञानमशाश्वतज्ञानम् । प्रतीत्यसमुत्पन्नसंस्कारमायोपमज्ञानविषयोऽपि चास्य चरतः, सुतीव्रमपि क्लेशपर्यवस्थानम् । यद्यपि स्मृतिसंप्रमोषादुत्पद्यते । तदप्यस्याभोगमात्राल्लघु लघ्वेव विगच्छति । तथा अगन्ता भवत्यपायां (यान्) न संचिध्यणिक्षां (विध्य[ति] शिक्षां) व्यतिक्रामति । च तिर्यग्योनि(कृतं) गतं प्राणिनं जीविताद्व्यपरोपयति । (श्भ्_स्ह्५०२) न शिक्षां प्रत्याख्याय हानायार्वत्तते । अभव्यो भवति पञ्चानामानन्तर्याणां कर्मणां करणतायै । न स्वयंकृतसुखदुःखं पर्येति, न परकृतं, न स्वयंकृतं च परकृतं च, न स्वयंकारापरकाराहेतुसमुत्पन्नम् । न इतो बहिर्धान्यं शास्तारं पर्येषते । न दक्षिणीयम् । न परेषां श्रमणब्राह्मणानां सुखावलोकको भवति । सुखपरीक्षकः । नान्यत्र दृष्टधर्माः, प्राप्तधर्मा, पर्यवगाढधर्मा, तीर्णकांक्षस्तीर्णविचिकित्सः, अपरप्रत्ययोऽनन्यनेयः, शास्तुः शासने धर्मेषु वैशारद्यप्राप्तः । स न कौतूहलमंगलाभ्यां शुद्धिं प्रत्येति । नाप्यष्टमं भवमभिनिर्वर्त्तयति । चतुर्भिरवेत्यप्रसादैः समन्वागतो भवति । तस्य यावल्लौकिकेभ्योऽग्रधर्मेभ्य अधिमोक्षिको मनस्कारः सत्यान्यभिसमितवतः दर्शनप्रहातव्येषु क्लेशेषु प्रहीणेषु प्राविवेक्यो मनस्कारः, प्रहाणाय च ।

(श्भ्_स्ह्५०३)
अत ऊर्ध्वं यथाप्रतिलब्धं मार्गं भावयतोऽभ्यस्यतः कामावचराणामधिमात्रमध्यानां क्लेशानां प्रहाणात्सकृदागामी भवति । तस्यापि यानि स्रोत आपन्नस्य लिंगानि । सर्वाणि वेदितव्यानि । अयञ्च विशेषो यद्विषयेऽधरक्लेशस्थानीयेषु अधिमात्रपर्यवस्थानीयेऽपि बद्धं क्लेशपर्यवस्थानमुत्पादयत्याशु चापनयति । सकृच्चेमं लोकमागम्य दुःखस्यान्तं करोति । अनागामी । अनागामिलिंगानि च पूर्वोक्तानीत्येव तत्र सर्वो भावनामार्गः प्रत्यवेक्ष्य प्रत्यवेक्ष्य मीमान्सा(मांस) मनस्कारेण प्रहीणाप्रहीणतां यथाप्रतिलब्धमार्गाभ्यामप्रभावितः ।

तत्र भावनायाः कतमः स्वभावः [।] कतमत्कर्म । कतमः प्रकारभेदः । यः समाहितभूमिकेन मनस्कारेण लौकिकलोकोत्तरेणैषां कुशलानां संस्कृतानां धर्माणामभ्यासः । परिचयः, सातत्यसत्कृत्य क्रिया । चित्तसन्ततेस्तन्मयता चोपनय[न]मयमुच्यते भावना स्वभावः ।

तत्र भावनाया अष्टविधं कर्म । एकत्यान्धर्मान्भावयन् प्रतिलभते । एकत्यान्धर्मान्भावनया निषेवते । एकत्यान्धर्मान्विशोधयत्येकत्यान्धर्मान्प्रतिविनोदयत्येकत्यान्धर्मान् परिजानाति । एकत्यान्धर्मान्प्रजहात्येकत्यान् (श्भ्_स्ह्५०४) धर्मान् प्रजहात्येकत्यान् धर्मान् साक्षात्करोत्येकत्यान्धर्मान्दूरीकरोति । तत्र ये तावदप्रतिलब्धा धर्माः कुशला वैशेषिकास्तान् प्रतिलभते । एकत्या(त्ये) धर्माभावनया लब्धाः, संमुखीभूताश्च वर्त्त[न्]ते । तान्निषेवते । तत्र ये प्रतिलब्धा, न च संमुखीभूतास्ते तज्जातीयैर्धर्मैर्निषेव्यमाणौ(णै)रायत्यां संमुखीक्रियमाणा[ः], परिशुद्धतरा[ः], पर्यवदाततराश्चोत्पद्यन्ते तत्र ये स्मृतिसंप्रमोषा(त्) क्लिष्टा(न्)धर्मान्समुदाचरन्ति । तान्कुशलधर्माभ्यासबलेनाधिवासयति । प्रजहाति । विनोदयति । व्यन्तीकरोत्यनुत्पन्नानेव वा प्रहातव्यान्धर्मान्रोगतः परिजानाति । विदूषयति । शल्यतो, गण्डतः, अघतः, अनित्यतो, दुःखतः, शून्यतो, [अ]नात्मतश्च परिजानाति । विदूषयति । तस्य परिज्ञानाभ्यासादानन्तर्यमार्ग उत्पद्यते । क्लेशानां प्रहाणाय, येन प्रजहाति । प्रहीणे च पुनर्विमुक्तिं साक्षात्करोति । यथा च यथोपरिमां भूमिमाक्रमते । तथा तथा अधोभूमिकाः प्रहाणाधर्मा दूरी भवन्ति । यावन्निष्ठागमनादिदं भावनीयमष्टविधं कर्म वेदितव्यम् ॥

तत्र भावनायामे (या ए)कादशविधः प्रकारभेदो (श्भ्_स्ह्५०५) वेदितव्यः तद्यथा शमथभावना, विपश्यनाभावना, [पूर्ववदेव तत्र] लौकिकमार्गभावना, लोकोत्तरमार्गभावना, मृदुमध्याधिमात्रभावना, प्रयोगमार्गभावना, आनन्तर्यविमुक्तिविशेषमार्गभावना [।]

तत्र शमथभावना नवाकारायाश्चित्तस्थित्या[ं](ञ्चित्तस्थित्यां) पूर्ववत् ।

विपश्यनाभावना पूर्ववदेव । तत्र लौकिकमार्गभावना[य]दधोभूमिकानामौदारिकदर्शनतया उपरिभूमीनां च शान्तदर्शनतया, यावदाकिञ्चन्यायतनवैराग्यगमनं [।]

तत्र लोकोत्तरमार्गभावना दुःखं वा दुःखतो मनसिकुर्वतः, यावन्मार्गम्वा मार्गतो मनसिकुर्वतः । यदनास्रवेण मार्गेण सम्यग्दृष्ट्यादिकेन यावन्नैवसंज्ञा नासंज्ञायतनवैराग्यगमनं [।]

तत्र मृदुमार्गभावना ययौदारिकानधिमात्रान् क्लेशान्प्रजहाति । तत्र मध्यमार्गभावना यया मध्यान् क्लेशान् प्रजहाति । तत्राधि[मात्र]मार्गभावना यया मृदुं क्लेशप्रकारं प्रजहाति । सर्वम्पश्चात्प्रहेयम् ।

तत्र प्रयोगमार्गभावना यया प्रयोगमारभते क्लेश प्रहाणाय । तत्रानन्तर्यमार्गभावना यया प्रजहाति । (श्भ्_स्ह्५०६) तत्र विमुक्तिमार्गभावना यया समनन्तरप्रहीणे क्लेशविमुक्तिं साक्षात्करोति । तत्र विशेषमार्गभावना ययास्त (यया त)त ऊर्ध्वं यावदन्यभूमिकस्य क्लेशप्रयोगमारब्धव्यं नारभते । निष्ठागतो वा नारभते । इत्ययमेकादशविधो भावनायाः प्रकारभेदो वेदितव्यः ।

तस्यैवं भावनाप्रयुक्तस्य कालेन च कालं क्लेशानां प्रहीणाप्रहीणतां मीमान्स(मांस)तः (मानस्य?) कालेन कालं संवेजनीयेषु धर्मेषु चित्तं सम्वेजयतः, कालेनकालमभिप्रमोदनीयेष्वभिप्रमोदयतः सोऽस्य भवति [रति]संग्राह[को] मनस्कारः । तस्यास्य रतिसंग्राहकस्य मनस्कारस्यासेवनान्वयाद्भावनान्वयाद्बहुलीकारान्वयान्निरवशेषभावनाप्रहातव्या[ः] क्लेशप्रहाणाय सर्वपश्चिमः शैक्षो वज्रोपमः समाधिरुत्पद्यते । तस्योत्पादात्सर्वे भावनाप्रहातव्याः क्लेशाः प्रहीयन्ते ।
केन कारणेन वज्रोपम इत्युच्यते । तद्यथा (श्भ्_स्ह्५०७) वज्र[ं] सर्वेषां तदन्येषां मणिमुक्तावैडूर्यशंखशिलाप्रवाडा(ला)दीनां मणीनां सर्वसारं सर्वदृढं तदन्यान्विलिखति । न त्वन्यैर्मणिभिर्विलिख्यते । एवमेवायं समाधिः सर्वशैक्षसमाधीनामग्र्यः, श्रेष्ठः सर्वसारः सर्वक्लेशानभिभवति । न च पुनरुत्पत्तिक्लेशैरभिभूयते । तस्माद्वज्रोपम इत्युच्यते ।

तस्य वज्रोपमस्य समाधेः समनन्तरं सर्वक्लेशपक्ष्यं दौष्ठुल्यबीजसमुद्धातादत्यन्ततायै चित्तमधिमुच्यते । (श्भ्_स्ह्५०८) गोत्रपरिशुद्धिं चानुप्राप्नोति [।] सर्व दौष्ठुल्य क्लेशोन्धक्षयाय ज्ञानमुत्पद्यते । हेतुक्षयाच्चायत्यां दुःखस्य सर्वेण सर्वमप्रादुर्भावायानुत्पाद ज्ञानमुत्पद्यते । स तस्मिन् समयेऽर्हन् भवति । क्षीणास्रवः, कृतकृत्यः, कृतकरणीयोऽनुप्राप्तस्वकार्यः परिक्षीणभवसंयोजनः सम्यगाज्ञासुविमुक्तचित्तः । दशभिरशैक्षैर्धर्मैः समन्वागतः । अशैक्षया सम्यग्दृष्ट्या सम्यक्संकल्पेन यावदशैक्षया सम्यग्विमुक्त्या सम्यग्ज्ञानेन [।] स्वचित्तवशवर्ती च भवति । विहारे च मनसिकारे च । समयेन येन कांक्षते । विहारेणार्येण वा, दिव्येन वा, ब्राह्मेण वा, तेन तेन विहरति । यं यमेवाकांक्षते धर्मं मनसि कर्त्तुं कुशलमर्थोपसंहितम् । लौकिकं वा लोकोत्तरम्वा, तं तमेव मनसि करोति ।

तत्रार्यो विहारः शून्य[ता]विहारो(र [आ])निमित्तविहारोऽप्रणिहितविहारो निरोधसमापत्तिविहारश्च । दिव्यो विहारो ध्यानारूप्यविहारः । ब्राह्मो विहारो मैत्रीकरुणामुदितोपेक्षाविहारः । अत्यन्तनिर्मलोभवत्यत्यन्तविमलोऽत्यन्तब्रह्मचर्यपर्यवसानः । निर्गत इवासि उत्क्षिप्त परि............................................. इत्यपि पंचांगप्रहीणषडंगसमन्वागतः (ए)कारक्त............................................... (श्भ्_स्ह्(५०९) शे(श्रे)-त्तु(त्र)(क्षेत्र?) धर्माश्रयः । प्रणुन्नः प्रत्ये...............................................प्रवियु(मु)क्त चित्तः, सुविमुक्तप्रज्ञः केवलो उक्षि..........च्च...........लि पुरुष इत्युच्यते । प श्चितु.............समन्वागतो भवति । पा लं दृष्ट्वा चैवं सुमनाः ।

भवति सुष्ठुमनाः उपेक्षको भवति स्मृतः सम्प्रजा[ना]नः । एवं श्रोत्रेण शब्दान्, घ्राणेन गन्धान्, जिह्वया रसान्, कायेन स्प्रष्टव्यान्, मनसा धर्मान् विज्ञाय । मे व........तदूर्ध्व । उपेक्षको विहरति स्मृतः संप्रजा[ना]नः । स तस्मिन् समये अपरिशेषरागक्षयं प्रतिसंवेदयति । स क्षयाद्रागद्वेषमोहानां यत्त्यागं (यस्त्यागः), तन्न करोति...........

समचित्तश्च भवति वासी चन्दनकल्पः सेन्द्रो पित्र्याणां देवानां मान्यश्च पूज्यश्च मार्गकाशेषधातुप्रतिष्ठिते च भवति तीर्णः पारगतोऽन्तिमादेहधारीत्युच्यते । पूर्वकर्मक्लेशाविद्धानां पञ्च स्कन्धानां स्वरसं..........नानु पादानात्वा, निरुपधिशेषनिर्वाणधातौ (प्रविष्टः।प्रविशति)

......परिनिर्वृतो भवति । यथा न संसृतो (तौ) नान्यत्र यद्दुःखं तन्निरुद्धं तव्युपशान्तं तच्छीतीभूतं भव इं गतम् । शान्तं शान्तमिदं पदम् । यदुत सर्वोपधिप्रतिनिःसर्वसंज्ञाक्षयो विरागो निरोधो निर्वाणं तस्येमानि लिंगान्येवं भागीयानि वेदितव्यानि । (श्भ्_स्ह्५१०) पञ्च स्थानान्यु..........भिक्षुः क्षीणास्रवः प्रति । वि विने । क्त मन्यमसं तथा

प्रापयितुं मन्ददा त्र म ब्रह्मचर्यं मैथुनं धर्मं प्रतिषेवितुम् । संप्रजाना(नो) मृषापभाषितुमभव्यः मन्दविकारेण कामान्परिभोक्तुम् । तथा भव्यः स्वयं कृतं सुखं दुःखं प्रत्येतुम् । पूर्ववद्यावत्स्वयंकायकारोऽहेतुसमुत्पन्नमुग्रदुःखं प्रणीतममव्याय कृतस्तुभिः(तिः) । सत्रासं मांसं भक्ष्य(व्य).........

ऽअन्यतामान्यतम्वा भयभैरवं........संत्रासमापत्तु रयमसौ वज्रोपमः समाधिरयं प्रयोगनिष्ठो मनस्कारः यः पुनरग्रफलार्हत्त्वसंगृहीतमनस्कारोऽयं प्रयोगनिष्ठाफलो मनस्कारः । एभिः सप्तभिर्मनस्कारैर्लोकोत्तरेण मार्गेणात्यन्तनिष्ठाता।प्रा पा तः-त

इत्ययमुच्यते सा।मो ध क सर्वेषां सम्यक्संबुद्धानां सश्रावकसंयुक्तानां निर्देशस्थानीयानां साक्षात्का[र]स्थानीयानां तद्यथा सर्वनामकायपदकायव्यंजनकायकाव्यमनु शास्त्राणि ॥ मातृका ॥

॥ उद्दानम् ॥

लक्षणप्रतिसंवेदी स्यात्तथैवाधिमोक्षिकः ।
प्राविवेक्यरतिग्राही तद्व्यामीमान्स(मांस)कः ॥
पुनः प्रयोगनिष्ठा कृत्युत्तरतत्फलः पश्चिमो भवेत् ।
(श्भ्_स्ह्५११)
मनस्कारश्च, ध्यानानामारूप्याना(णां) विभागता ॥
समापत्ती(त्तिर)अभिज्ञाश्च उपपत्तिश्च लिङ्गता ।
सत्यानां व्यवचारश्च प्रतिवेधस्तथैव च ॥
भावनाया विभङ्गश्च निष्ठा भवति पश्चिमा ॥

॥ श्रावकभूमौ चतुर्थं योगस्थानम् ॥
॥ समाप्ता श्रावकभूमिः ॥

"https://sa.wikisource.org/w/index.php?title=श्रावकभूमिः&oldid=387560" इत्यस्माद् प्रतिप्राप्तम्