श्यामलादण्डकम् (कालिदासविरचितम्)

विकिस्रोतः तः
श्यामलादण्डकम्
कालिदासः
१९२९

महाकविश्रीकालिदासकृतं

श्यामलादण्डकम् ।

माणिक्यवीणामुपलालयन्तीं मदालसां मञ्जुलवाग्विलासाम् ।
माहेन्द्रनीलोपलकोमलाङ्गीं मातङ्गकन्यां सततं स्मरामि ॥


जय मातङ्गतनये जय नीलोत्पलद्युते ।
जय संगीतरसिके जय लीलाशुकप्रिये ।।

 जय जननि सुधासमुद्रान्तरुद्यन्मणिद्वीपसंरूढबिल्वाटवीमध्यकल्पद्रुमा- कल्पकादम्बकान्तारवासप्रिये कृत्तिवासःप्रिये सर्वलोकप्रिये । सादरारब्ध- संगीतसंभावनासंभ्रमालोलनीपस्रगाबद्धचूलीसनाथत्रिके सानुमत्पुत्रिके ।शेखरीभूतसीतांशुरेखामयूरवावलीबद्धसुस्निग्धनीलालकश्रेणिशृङ्गारिते लोक- संभाविते । कामलीलाधनुःसंनिभभ्रूलतापुष्पसंदोहसंदेहकृल्लोचने वाक्सुधा- सेचने । चारुगोरोचनापल्ककेलीललामाभिरामे सुरामे रमे । प्रोल्लसद्बालिका- मौक्तिकश्रेणिकाचन्द्रिकामण्डलोद्भासिलावण्यगण्डस्थलन्यस्तकस्तूरिकापत्ररे- खासमुद्भूतसौरभ्यसंभ्रान्तभृङ्गाङ्गनागीतसान्द्रीभवन्मन्द्रतन्त्रीखरे सुस्वरे भास्वरे । वल्लकीवादनप्रक्रियालोलतालीदलाबद्धताटङ्कभूषाविशेषान्विते सिद्धसंगानिते । दिव्यहालामदोद्वेलहेलालसञ्चक्षुरान्दोलनश्रीसमाक्षिप्तक- र्णैकनीलोत्पले पूरिताशेषलोकाभिवाञ्छाफले श्रीफले ।खेदबिन्दूल्लसद्भा-. ललावण्यनिष्यन्दसन्दोहसंदेहकृन्नासिकामौक्तिके सर्व विश्वात्मिके कालिके । मुग्धमन्दस्मितोदारवक्त्रस्फुरत्पूगताम्बूलकर्पूरखण्डोत्करे ज्ञानमुद्राकरे सर्वसं- पत्करे पद्मभाखरकरे । कुन्दपुष्पद्युतिस्निग्वदन्तावलीनिर्मलालोकसंमेलनस्मे- रशोणापरे चारुवीणाधरे पक्कविम्बाधरे ॥१॥

 सुललितनवयौवनारम्भचन्द्रोदयोद्वेललावण्यदुग्धार्णवाविर्भवत्कम्बुबिब्यो- कभृत्कंधरे सत्कलामन्दिरे मन्थरे । दिव्यरलप्रभाबन्धुरच्छन्नहारादिभू- षासमुद्द्योतमानानवद्यांशुशोमे शुभे । रत्नकेयूररश्मिच्छटापल्लवप्रोल्लसद्दोर्ल- ताराजिते योगिभिः पूजिते । विश्वदिङ्मण्डलव्यापिमाणिक्यतेजःस्फुर- त्काङ्कणालंकृते विश्रमालंकृते साधकैः सत्कृते । वासरारम्भवेलासमुज्जृम्भमा- नारविन्दप्रतिद्वन्द्विपाणिद्वये संततोद्यद्दये अद्वये । द्विव्यरत्नोमिकादीविति- स्तोमसंध्यायमानाङ्गुलीपल्लवोधन्नखेन्दुप्रभामण्डले संनताखण्डले चित्प्रभा- मण्डले प्रोल्लसत्कुण्डले । तारकाराजिनीकाशहारावलिस्मेरचारुस्तनाभोग- भारानमन्मध्यवल्लीबलिच्छेदवीचीसमुल्लाससंदर्शिताकारसौन्दर्यरत्नाकरे वल्लकीभृत्करे किंकरश्रीकरे । हेमकुम्भोपमोत्तुङ्गवक्षोजमारावनम्रे त्रिलोकाव- नम्रे । लसद्वृत्तगम्भीरनाभीसरस्तीरशैवालशङ्काकरश्यामरोमावलीभूषणे म- ञ्जुसंभाषणे । चारुशिञ्जत्कटीसूत्रनिर्भर्त्तिसतानङ्गलीलाधनुःशिञ्जिर्नीडम्बारे दिव्यरत्नाम्बरे । पद्मरागोल्लसन्मेखलाभात्वरश्रोणिशोभाजितखर्णभूगृत्तले च- न्द्रिकाशीतले ॥ २ ॥

 विकसितनवकिंशुकाताम्रदिव्यांशुकच्छन्नचारूरुशोभापराभूतसिन्दूरशो- णायमानेन्द्रमातङ्गहस्तार्गले वैभवानर्गले श्यामले । कोमलस्निग्धनीलोपलोत्पा- दितानातूणीरशङ्काकरोदारजङ्घालते चारुलीलागते । नम्रदिक्पालसीमन्ति- नीकुन्तलस्निग्धनीलप्रमापुञ्जसंजातदूर्वाङ्कुराशङ्कसारङ्ग संयोगरिङ्क्षनखेन्दुःबले प्रोज्वले निर्मले । प्रह्वदेवेशलक्ष्मीशभूतेशतोयेशवाणीशकीनाशदैत्येशयक्षे- शवाय्वग्निकोटीरमाणिक्यसंघृष्टवालातपोद्दामलाक्षारसारुण्यतारणलक्ष्मीगृती- ताङ्घ्रिपद्मे सुपद्मे उमे ॥ ३ ॥

 सुरुचिरनवरत्नपीठस्थिते सुस्थिते । रत्नपद्मासने रत्नसिंहासने शxx पना- द्वयोपाश्रिते । तत्र विनेशदुर्गाबटुक्षेत्रपालैrयुते । मतमातङ्गकन्यासमूहान्विते मञ्जुलामेनकाद्यङ्गनामानिते भैरवैरष्टभिर्वेष्टिते । देवि वामादिभिः शक्तिभिः सेविते । धात्रिलक्ष्म्यादिशक्त्यष्टकैः संयुते । मातृकामण्डलैर्मण्डिते । यक्ष- गन्धर्वसिद्धाङ्गनामण्डलैरर्चिते । पञ्चबाणात्मिके । पञ्चबाणेन रत्या न संभा- विते । प्रीतिभाजा वसन्तेन चानन्दिते । भक्तिभाजां परं श्रेयसे कल्पसे । योगिनां मानसे द्योतसे । छन्दसामोजसा भाजसे । गीतविद्याविनोदाति - तृष्णेन कृष्णेन संपूज्यसे । भक्तिमञ्चेतसा वेधसा स्तूयसे । विश्वहृद्येन बा - द्र्येन विद्याधरैर्गीयसे ॥४॥

 श्रवणहरणदक्षिणक्काणया वीणया किंनरैर्गीयसे । यक्षगन्धर्वसिद्धाद्गानाम- ण्डलैरर्च्यसे । सर्वसौभाग्यवाञ्छावतीभिर्वधूभिः सुराणां समाराध्यसे । सर्ववि- द्याविशेषात्मकं चाटुगाथासमुच्चारणं कण्ठमूलोल्लसद्वर्णराजित्रयं कोमलश्या- मलोदारपक्षद्वयं तुण्डशोहातिदूरीभवत्किशुकं त्रं शुकं लालयन्ती परिक्रीडसे । पाणिपद्मद्वयेनाक्षमालामपि स्फाटिकीं ज्ञानसारात्मकं पुरतकं चाङ्कुशं पाश- माबिम्रती येन संचिन्त्यसे तस्य बातxxxx भारती निxxxx। येन वा यावकामाकृतिर्भाव्यसे तस्य वश्या भवन्ति स्त्रियः पूरुषाः । येन वा शातकुम्भद्युतिर्भाव्यसे सोऽपि लक्ष्मीसहस्त्रैः परिक्रीडते। किं न सिद्ध्येद्वपुः श्यामलं कोमलं चन्द्रचूडान्वितं तावकं ध्यायतः । तस्य लीलासरो वारि- घिस्तस्य केलीवनं चन्दनं तस्य भद्रासनं भूतलं तस्य गीर्देवता किंकरी तस्य चाज्ञाकरी श्रीः स्वयम् । सर्वतीर्थात्मिके सर्वमन्त्रात्मिके सर्वतन्त्रा- त्मिके सर्वयन्त्रात्मिके सर्वशवत्यात्मिके सर्वपीठात्मिके सर्वतत्त्वात्मिके सर्व- विद्यात्मिके सर्वयोगात्मिक सर्वनादात्मिके सर्वशब्दात्मिक सर्वविश्वात्मिके सर्वदीक्षात्मिके सर्वसर्वात्मिके सर्वगे पाहि मां पाहि मां पाहि मां देवि तुभ्यं नमो देवि तुभ्यं नमो देवि तुभ्यं नमः ॥ ५ ॥

माता मरकतश्यामा मातङ्गी मदशालिनी ।
कटाक्षयतु कल्याणी कदम्बवनवासिनी ॥

इति महाकविश्रीकालिदासकृतं मामलादण्डक समाप्तम् ।