शैक्षिकप्रविधेः उपयोगिता

विकिस्रोतः तः

'1'- अध्यापकस्य कृते शैक्षिकप्रविधेः उपयोगिता

शैक्षिकप्रप्रविधेः उपयोगिता प्रत्येकस्य कृते भिन्न-भिन्नरूपेण दृश्यते । यथा - अध्यापकस्य कृते , छात्रस्य कृते , समाजिकस्य कृते च । सर्वप्रथमं द्रष्टव्यं यत् अध्यापकः कथं शैक्षिकप्रविधिं प्रयोक्तुं शक्यते । शिक्षकस्य कृते आवश्यकमस्ति कक्षायां बालकानां व्यवहारानुकूलनम् । अतः शैक्षिकप्रविधिसम्पन्नः शिक्षकः स्वस्य छात्राणां च व्यवहारं सम्यक्तया अवगम्य अपेक्षितं परिवर्तनं कर्तुं शक्यते । अनेन प्रविधिना शिक्षकः विषयवस्तु संरक्षितुं प्रभवेत् अपि च विविधयन्त्राणामुपागमानां प्रयोगे समर्थः भवेत्। शैक्षिकप्रविधिना कठिनं नवीनमपि विषयं सारल्येन रुचिरतया प्रस्तोतुं शक्यते । अस्मिन् क्रमे विविधयन्त्राः उपयुज्यन्ते । यथा - रेडियो , टेपरिकार्डर , PPT , सङ्गणकादीनाञ्च प्रयोगः भवति । दृश्यश्रव्योपकरणानां प्रयोगेण पाठनं प्रभावयुक्तं भवति । शैक्षिकप्रविधिः न केवलं कौशले सहायककारः अपि तु ज्ञानक्षेत्रेऽपि सहायकः । ई- पुस्तकालयमस्मिन् उत्कृष्टतरं वर्तते । क्षेत्रीयप्रभावयुक्तस्य शिक्षकस्य उच्चारणशैल्याः परिष्करणमपि शौक्षिकप्रविधिना सम्भवः । पुनः पुनः अभ्यासेन वर्णोच्चारणं शुद्धं भवति । प्रशिक्षणकाले नवागन्तुकानां कृते सुगमतया विषयवस्तुनः सम्प्रेषणे शैक्षिकप्रविधिः उपयुज्यते ।

2 - छात्रस्य कृते शैक्षिकप्रविधेः उपयोगिता -

अधिगमसिद्धान्तानां प्रभावपूर्णविधयः ज्ञायन्ते शैक्षिकप्रविधिना अधिगमकाले अधीतविषयं दृढीकर्तुं विभिन्नप्रक्रियाणामध्ययनं करोति । प्रविधिप्रयोगेण चक्षुश्रोत्रोभयोरपि संयुक्तं भवति । येन तत् ज्ञानं दीर्घकालं यावत् तिष्ठति पुनश्च ई लानिंग माध्यमेन छात्रः अध्यापकापेक्षां विनापि स्वतः पठितुं शक्यते । "इन्टर्नेट" , "शैक्षणिक App" इत्यादयः तस्य सहायतां कुर्वन्ति । शिक्षणस्य अधिगम्य च प्रक्रियायाः वैज्ञानिकं व्यावहारिकं विश्लेषणं कृत्वा सुमार्गं प्रददाति । उच्चारणशुद्धता छात्रस्यापि आनयति ।

3 - समाजिकस्य कृते शैक्षिकप्रविधेः उपयोगिता -

समाजिकानां कृते अनौपचारिकरीत्या अध्ययनार्थं बहूपयोगी शैक्षिकविधेः उपयोगः क्रियते । अद्यत्वे दिवसे प्रायः सर्वेषां हस्ते दूरवाणी , गृहे दूरदर्शनं , ध्वनिमुद्रणयन्त्राणि भवन्ति । अतः शिक्षाक्षेत्रे एषां प्रयोगेण शिक्षणाधिगमः शीघ्रं सम्भवः । ये औपचारिकरीत्या पठितुं न शक्नुवन्ति पुनः सीमितसंसाधनयुक्तजनाः तेषां कृते जनसंचारशिक्षायाः प्रचारः प्रसारः जायते । ते Eduset माध्यमेन विविधानां शैक्षणिक कार्यक्रमाणां प्रदर्शनम् अनुभवन्ति । अतः अद्यतने शैक्षिकप्रविधिः शिक्षकस्य ज्ञानं कौशलञ्च वर्धयति । छात्राणां कृते सुगमतामानयति । समाजे ज्ञानस्य प्रचारार्थं सञ्चयार्थं विकासार्थं च मार्गमुपदिशति ।