शैक्षिकप्रबन्धने भौतिकसंसाधननि

विकिस्रोतः तः

बालके मनुष्ये च शारीरिक मानसिक आध्यात्मिक शक्तीनाम् उत्तमोत्तमसर्वाङ्गीणविकासः एव शिक्षा"।स्वविकासार्थम् अवसरः, अन्तर्निहितगुणानां विकासः,कौशलादीनां विकासः, योग्यताक्षमतादीनां विकासः इति शिक्षायाः उद्देश्यानि सन्ति, एषां उद्देश्यानां पूर्ति स्थानः विद्यालयः अस्ति। विद्यालयेषु प्रायः द्विप्रकारकाणि संसाधनानि भवन्ति - मानवीयसंसाधनम्,भौतिकसंसाधनम् च‌। भौतिकसंसाधनान्तर्गते कक्ष्याकक्षः, पुस्तकालयः, प्रयोगशाला, कार्यालयः, क्रीडाङ्गणं, छात्रावासः च।


कक्ष्याकक्षः  

विद्यालये कक्ष्याकक्षाणां समुच्चयो भवति । कक्ष्याकक्षाणां संरचना नियोजितां अपेक्ष्यन्ते। कक्ष्याकक्षाणां संरचनायाः कृते छात्रः संख्यानुगुणं निर्देशाः शिक्षाविभागेन प्रसार्यन्ते। सामान्यरूपेण कक्ष्याकक्षे 40 चत्वारिंशत्संख्याकानां छात्राणाम् उपवेशनव्यवस्था क्रियते।कक्ष्याकक्षे श्यामपट्टस्य शिक्षणोपकरणानाञ्च प्रर्दशनव्यवस्था अपेक्ष्यन्ते। कक्ष्याकक्षे द्वाराणां वातायतानानाञ्च एवं विधा व्यवस्था स्याद्येन वायुप्रकाशयोः प्राकृतिकव्यवस्था संरक्षेत्। स्वस्वस्थले गमनाय छात्राः सततं सौकर्यामनुभवेयुरिति व्यवस्था स्यात्। इतिहास-भूगोल-विज्ञानप्रभृतिविषयाणां शिक्षणाय विशिष्टानांकक्ष्याकक्षाणां व्यवस्था विधेया। तत्र तत्तद्विषयाणां

शिक्षणाय समुपयुक्तानां शिक्षणोपकरणानां प्रर्दशनाय समुचितं
स्थानं परिकल्पनीयम्। एतेन छात्राः लाभान्विताः
भवितुमर्हन्ति।


पुस्तकालयः

पुस्तकालयो हि कस्यचिदपि विद्यालयस्य प्राणभूतो भवति । पुस्तकालयं विना विद्यालयस्य कल्पनापि न सम्भवति । पुस्तकालयस्य कृते विद्यालये पर्यााप्तं स्थलं परिकल्पनीयम्। एतस्मिन्नेव वाचनालयस्यापि व्यवस्था विधेया। अत्र ग्रन्थानां स्थापनस्य संरक्षणस्य, प्रर्दशनस्य, पठनस्य, आदान-प्रदानस्य च

समुचिता व्यवस्था निर्मेया। पुंस्तकानां विशिष्टांशानां
प्रतिलिपीनामपि व्यवस्था करणीया। पाठ्यग्रन्थानां वितरणाय
पुस्तककोशः प्रचालनीयः। अत्र आवर्ष छात्राः पुस्तकेन लाभान्विताः

स्युरिति।


प्रयोगशाला

ज्ञानस्य परीक्षणं यावन्न भवति तावत्तस्य पुष्टिर्भवितुं न शक्नोति। विद्यालयेप्रयोगशालाः वैज्ञानिकविषयाणां हि विद्यालय स्तरे भवन्ति । तत्र पाठ्यक्रमे विद्यमानानां विषयावस्तुनां कृते प्रयोगशालायाः आवश्यकता भवति । प्रयोगाय समय-साररणी विनिर्मेया येन सर्वेछात्राः प्रयोगशालायाः समुचितं उपयोगं कुर्युारिति। प्रयोगशालायां प्रशिक्षितानां कर्माचारिणां व्यवस्थापि नूनमेव भवेत्। तत्र नूतनज्ञानस्य प्रवर्तनस्य सुविधाः भवेयुः। तत्र विविधानां वैज्ञानिकानां चित्राणि स्थापनीयानि‌। तेषां प्रयोगप्रक्रियां प्रर्दशितुं विस्तारकयन्त्राणि(PROJECTORS) भवेयुः। छात्रेभ्यः शिक्षकनिर्देशने प्रयोगाय स्वातन्त्र्यं देयम्।


कार्याालयः

विद्यालयस्य सञ्चालनं समुचितरीत्या विधातुं तत्र कार्याालयः विलसति।

तत्र छात्राणां प्रमाणपत्रादि अभिलेखानां शिक्षकसम्बद्धानाञ्च
अभिलेखानां सुव्यवस्था भवति । कार्याालये प्रपत्राणाम् अभिलेखानाञ्च

स्थापनाय समुचिता व्यवस्था स्यात्। अभिलेखाः सङ्गणकमाध्यमेन अद्यतनीयाः विधेयाः। गोपनीयतायाः परिपालनं नूनमेव विधेयम्। कार्याालये शिक्षाविभागसम्बद्धानां कार्यााणां निष्पादनं सत्वरं विधेयम्। छात्राणां लब्धाङ्कानां चरित्रप्रमाणपत्राणाम् स्थानान्तरणप्रपत्राणाञ्च निर्मितिः प्राथम्येन विधेया। छात्राणां सञ्चिताभिलेखास्तत्र संरक्षणीयाः‌। कार्याालयकर्मचारीणां कृते समुचिता उपवेशनादिव्यवस्था तत्र स्यात्। प्रदत्तानां स्थापनं कालक्रमेण विधेयम्। तस्य प्रमुखमुद्देश्यं भवति

शिक्षणसौकर्यस्थापनमिति ।
क्रीडाङ्गणम्

शिक्षायाः सर्वााङ्गीणविकासस्य लक्ष्यमवाप्तुं शारीरिकविकासः अपरिहार्याः। छात्राणां बहिः क्रीडायाः (Out Door) अन्तःक्रीडायाः कृते च (Indoor) क्रीडाक्षेत्राणि भवेयुः। छात्राणामभिरुचेिः क्षमतायाश्च अनुरूपं क्रीडायाः चयनं विधाय क्रीडाङ्गणानां व्यवस्थायाः उपयोगं छात्राः कुर्युः। क्रीडाङ्गणे

विविधानां क्रीडानां परिमापनपुरस्सरं निर्माणं विधेयम्। क्रीडोपकरणानां
समुचिता व्यवस्था स्यात्। क्रीडायां सुदक्षाणां प्रशिक्षकाणां व्यवस्था तत्र

भवेत्। विद्यालयीयशिक्षका नूनमेव छात्रान् क्रीडाङ्गणे प्रापयेत्। समयसारीणयां क्रीडाया: कृते समयो निर्धाारणीयः। विद्यालये क्रीडोपकरणानां सज्जीकरणं स्वच्छता च यथासमयं विधेया। क्रीडानां स्पर्द्धाानामायोजनं समये

समये करणीयम्। छात्राणां विकासाय तान् राज्यस्तरीयासु राष्ट्रीयासु स्पर्द्धाासु

भागग्रहणव्यवस्था स्यात्।