शृङ्गारामृतलहरी (सामराजदीक्षितविरचिता)

विकिस्रोतः तः
शृङ्गारामृतलहरी
सामराजदीक्षितः
१९३८

श्रीसामराजदीक्षितविरचिता

शृङ्गारामृतलहरी ।

सिन्धुसुताकुचकुङ्कुमपाटलवक्षःस्थलं किमपि ।
उपवीणितं च निगमैः सटाजटालं महः कलये ॥ १ ॥
नरहरिविन्दुपुरंदरजनुपा विदुपाथ सामराजेन ।
शृङ्गारामृतलहरी विरच्यते रसिकजीवातुः ॥२॥

तत्र तावद्रसो विचार्यते।

स्थायिभावो रसः।

ननु स्थायित्वव्यपदेशतया रसस्य नैरन्तर्यापत्तिः । मैवम् । विरुद्वाविरुद्धभावानभिभाव्यतया स्थायित्वव्यपदेशो, न तु नित्यतया ।

 उक्तं च भरतेन-

'विरुद्धा अविरुद्धा वा यं तिरोधातुमक्षमाः ।
आनन्दाङ्कुरबीजोऽसौ भावः स्थाथिपदास्पदम् ॥

 केचित्तु स्थायिवृत्तिरूपः सूक्ष्मोऽन्तःकरणपरिणामविशेषोऽन्तःकरणात्मा धर्मधर्मिणोरभेदादित्याहुः । वस्तुतस्तु-आनन्दरूपप्रकाशमानं स्थायिभावावच्छिन्नं चैतन्यं रसः । स्थायिभावावच्छिन्नपदेन चित्स्वरूपं ब्रह्मैव 'रसो वै सः, रसं ह्येवायं लब्ध्वानन्दी १३२ काव्यमाला । भवति' इति श्रुतेः । आनन्दप्रकाशत्वं तु भग्नावरणत्वमिति बोध्यम् । तेनावरणसत्त्वे न रसोद्बोधः । आवरणं त्वज्ञानमेव । विषयान्तरासक्तिरिति यावत् । अत एवोक्तं 'चर्व्यमाणतैकप्राण' इति । तथा च पानकरसन्यासेन मुहुर्मुहुश्चर्व्यमाणो ब्रह्मानन्दास्वाद इव प्रादुर्भवन्नलौकिकचमत्कारी भग्नावरणतया स्वप्रकाशरूपो रस आविर्भवति' । चर्वणा चानन्दाभिव्यक्तिः ॥ ननु कथं विषयान्तरव्यासक्तावपि न सेति चेत् । न । विभावादिज्ञानाभावात् । अत एवोक्तम्-'विभावादिजीवितावधिः' इति । भावयति वासयति ( इति) भावो वासना तेन विगलितवासनेषु न रसप्रसङ्गः । ननु चिदानन्दोद्बोधः कथमन्तःकरणवृत्तिविशेषः स्थायिभावाभिव्यक्तावेवेति चेत् । न । इदमवधेयम् । वेदान्तमते ज्ञानत्वावच्छिन्न आत्मभाननैयत्यात् काव्येऽपि ‘विभावादिभिर्व्यक्तः स्थायी' ।तस्यामभिव्यक्तावन्तःकरणवृत्तिरूपायामात्मापि चैतन्यानन्दस्वरूपो भासते । आत्ममनोयोगरूपात्मभानसामग्रीसत्त्वात् । तथा च पर्यवसितमेवान्तःकरणवृत्तिविशेषस्थायिभावाभिव्यक्तावानन्दरसोद्बोध इति । तत्र च विभावादिसंभेदोऽप्यावश्यकः ।

उक्तं च भरतेन । 'स्वादः काव्यार्थसंभेदो ब्रह्मानन्दसमुद्भवः' इति । काव्यार्थो विभावादिः, संभेदो ज्ञानम् । उक्तं च विभावानुभावव्यभिचारिसंयोगाद्रसनिष्पत्तिः' इति । तथा चालम्बनोद्दीपनभेदाद्विभावो द्विविधः । तत्रालम्बनानि ललनादीनि, उद्दीपनान्युद्यानादीनि, अनुभावाः कटाक्षादयः, व्यभिचारिणो निर्वेदादयः । अत्र केचित् 'सरलेनैव कृशोदरि विलोचनेनास्ति हस्तगा जगती । क्रूरारालेन पुनः कठिने किं काङ्क्षसे यूनाम्' इत्यादौ कटाक्षादीनामुद्दीपनत्वप्रतीतेः कथशृङ्गारामृतलहरी । १३३ मनुभावरूपतेति चेत्, नायिकानिष्ठकटाक्षस्य नायिकानिष्ठरसेऽनुभावकतया नायकनिष्ठरसे तु तस्योद्दीपनत्वेऽपि नानुपपत्तिलेशोऽपि । रसत्वं च रसो रस इत्यनुभवसाक्षिको जातिविशेषः । स्तम्भादिकारणतावच्छेदकतया रसत्वजातिसिद्धिरित्यन्ये । आदिपदाद्भरतोक्ताः स्वेदरोमाञ्चप्रमुखा अवगन्तव्याः।

'स्तम्भः स्वेदोऽथ रोमाञ्चः स्वरभङ्गोऽथ वेपथुः । वैवर्ण्यमश्रुप्रलय इत्यष्टौ सात्त्विका मताः ॥' इति ।

ते यथा-- 'रोमाञ्चः कुचयोः स्वरच्युतिरथो वाचां प्रपञ्चे पदे स्तम्भः स्वेदपरम्परापरिचिता गण्डस्थली सुभ्रुवः वैवर्ण्यं वदनेऽश्रु लोचनयुगे बिम्बाधरे वेपथु- र्मालिन्यं हृदये तदद्य विषयः प्रायो हरिर्नेत्रयोः ॥'

तत्प्रत्येकोदाहरणे वेपथुस्तम्भौ यथा- 'यूयं यात पदं न याति पुरतः प्रादुर्भवत्कम्पया वक्षोजद्वयभारखिन्नतरयाक्रान्तं भृशं जङ्घया । आवासोऽप्यतिदुर एव शनकैर्यास्येऽहमित्येकया तस्थे सस्मितमाकलय्य तरुणं कुञ्जोदरे बालया ॥'

'शृङ्गारवीरकरुणारौद्रहास्यभयानकाः । बीभत्साद्भुतसंज्ञौ चेत्यष्टौ नाट्ये रसाः स्मृताः ॥'

केचित्तु- 'नासी खेलनरागि पीतवसने बद्धादरं शैशवे नाभूश्चन्द्रमुखीसुखं गिरिधरे रञ्जि क्षणं यौवने । १३४ काव्यमाला । नादास्तान्तिमदब्जनाभचरणे बुद्धिं परं वार्द्धके चेतश्चिन्तय चक्रपाणिचरणावन्तेऽपि खेदं जहि ॥'

इत्यादिप्रतिपाद्यो निर्वेदस्थायिकः शान्तोऽपि नवमो रस इति प्राहुः । प्रपञ्चस्तु प्रकृतेऽनुपयुक्तत्वादुपेक्ष्यः । तत्र शृङ्गारत्वं तु रतिप्रकर्षे सति रसत्वसाक्षाद्व्याप्यजातिमत्त्वम् सत्यन्तकृत्यं स्पष्टम् । विशेष्यदलं च भावसंकरेऽतिव्याप्तिवारणाय । निरुक्तिस्तु ।

'शृङ्गं हि मन्मथोद्भेदस्तदागमनहेतुकः । पुरुषप्रमदाभूमिः शृङ्गार इति गीयते ॥'

स च संभोगविप्रलम्भ भेदाद्विधा । संभोगलक्षणं तु विप्रलम्भभिन्नत्वे सति रतिप्रकर्षत्वम् ।

स्वरूपमुक्तं कारिकाकृता-

'अनुरक्तौ निषेवेते यत्रान्योन्यं विलासिनौ । दर्शनस्पर्शनाद्यैश्च संभोगोऽयमुदाहृतः ॥'

तत्र दर्शनं त्रिविधम् साक्षाच्चित्रस्वप्नभेदात् । साक्षाद्दर्शनं यथा--- 'विस्रस्तनीविविशदीकृतरोमराजिं राजीवलोचनयुगं परिमीलयन्तीम् । बाहू मुहुर्वलितकंधरमुत्क्षिपन्तीं शातोदरीं त्यजति न क्षणमक्षि मेऽद्य ॥'

स्पर्शनं निधुवनं यथा- 'न्युब्जीभूतः कनकशिखरी ह्रादिनी बद्धमूला खेलत्येषा वियति विसृत्येष ताराकदम्बम् । भूयः खिन्नं गिलति तमसा वृन्दमिन्दं सरोजं चुम्बत्येनं कुसुमधनुषः सृष्टिरन्यापि धन्या ॥'

रतिप्रकर्षे सति इष्टानाप्तिर्विप्रलम्भः । शृङ्गारामृतलहरी । १३५ तदुक्तम्- 'भावो यदा रतिर्नाम प्रकर्षमधिगच्छति । नाधिगच्छति चाभीमं विप्रलम्भस्तदोच्यते ॥'

'संभोगेऽतिव्याप्तिवारणाय विशेष्यदलं, सत्यन्तं च करुणेऽतिव्याप्तिवारणाय । वस्तुतस्तु सत्यन्तपदादानेऽपि प्राप्तियोग्यत्वस्याभीष्टविशेषणात् 'आशाबन्धः श्लथीभूतश्चिन्तादिव्यभिचारकः । विरहाकरुणाभीष्ट' इत्युक्ते करुणेऽभीष्टस्य प्राप्तियोग्यत्वाभावान्न करुणेऽतिव्याप्तिः । सच अभिलाषविरहेर्ष्याप्रवासशापहेतुकः पञ्चधा । तत्र यूनोरन्योन्यप्रातीच्छा अमिलाषः ।

यथा--- 'दरविकसितपुण्डरीकपर्षन्निबिडविडम्बनदक्षमक्षि तस्याः । अलसवलितमुल्लसत्प्रमोदं कथमपि मन्मथमन्थरं मयि स्यात् ॥'

देशैक्येऽपि गुर्वादिपारतन्त्र्यान्निरोधो विरहः । तज्जो यथा---

'केनापि त्वयि कारणेन सुतनोर्नोपागते देहली- मद्यासीद्यदकाण्ड एव चरितं तस्याः किमाचक्ष्महे । पाटीरैर्गरलायितं सुमनसां वृन्दैः स्फुलिङ्गायितं चन्द्रेणापि दिवाकयितमहो हारैर्भुजङ्गायितम् ॥'

यूनोः प्रेमानुबन्धाद्विनाकारणे कोप ईर्ष्या स च मानः । 'अस्तस्रस्तो गगनसरसीसारसः शीतरश्मि- स्तारा हारा अपि विगलिताः कण्टतो यामवत्याः । जज्ञे चैतन्नमुचिरिपुदिक्चुम्बि मार्तण्डबिम्बं मानग्रन्थिस्तदापि यतते त्वां न मोक्तुं कृशाङ्गि ॥' 1३६ काव्यमाला । प्रवासो देशान्तरस्थितिस्तद्धेतुको यथा--- 'चैत्रे नेत्रे वितरति रुजं कन्दली भूरुहाणां सूचीवेधं, श्रवसि तनुते काकली कोकिलानाम् । सेर्ष्यं कार्श्यं दिशति विशिखैः पञ्चभिः पुष्पधन्वा तन्व्यास्तापं सृजति बिसिनीपत्रपर्यङ्कशय्या ॥'

शापो मुन्यादिकोपस्तद्धेतुको यथा कालिदासस्य-'त्वामालिख्येत्यादि ।'

तत्र शृङ्गारस्य प्रथमगणितत्वात्तदालम्बनभूतत्वान्नायका निरूप्यन्ते । ननु शृङ्गारस्य कथं प्राथमिकत्वमिति चेत् न । 'शृङ्गारवीरकरुण' इत्यादि भरतोक्तेरिति गृहाण । न च तेनोक्तं कथमस्य तत्त्वं वैपरीत्ये किं नियामकमिति वाच्यम् । निखिलादिभूतस्य तत्रभगवतो विष्णोरस्याधिदैवतत्वात् । ननु तदालम्बनभूतत्वं तु नायिकानामपि; तत्कुत एतेषामादावमिधानमिति चेत् न । सूचीकटाहन्यायेन तेषां प्रथमनिरूपणेऽपि न क्षतिः । ते तु त्रिविधाः पत्युपपतिवैशिकभेदात् । तत्र विधिवत्पाणिग्राहित्वे सति प्रेमवान्पतिः । सत्यन्तकृत्यं स्पष्टम् । विधिवत्पाणिग्राहिणि परमहिलासक्ते चोपपतावतिव्याप्तिनिरासाय विशेष्यदलम् । अनारतपरदारविहारी उपपतिः । बहुलवेश्योपभोगनिरतो वैशिकः।

क्रमेणोदाहरणानि- 'चण्डं चण्डगभस्ते-मा किर किरणं समीर चर मन्दम् । गन्तुं हतकेन मया समं कृशाङ्गी समीहते विपिनम् ॥' 'मुषितरदपदं नकारशोभि श्लथकुसुमाकुलकुन्तलं नितान्तम् । प्रणयभयविलोललोचनान्तं पुरसुदृशां परिचुम्बनं समीहे ॥' शृङ्गारामृतलहरी । १३७ 'मन्दाक्षावरणव्ययप्रकटितप्रेमप्रपञ्चं मदा- घूर्णल्लोचनमुन्मदस्तनतटं साटोपहासं मुहुः । आशासे स्फुटहावभावमधुरं हालाविलासस्फुर- द्वाक्यं वारमृगीदृशां प्रतिदिनं रम्यं परीरम्भणम् ॥'

तेतु प्रत्येकमनुकूलशठधृष्टदक्षिणभेदाच्चतुर्धा । परंतु पत्यावनुकूलस्योपपत्तौ शठत्वस्य वैशिके शठत्वादीनां नैयत्यमितरेषां गौणता । तत्र नायिकानुरक्तो नायक अनुकूलः । यथा---

तनवै नलिनीदलैः समीरं-------------------------। रचये निचयेन पल्लवानां हिमकल्पं तव किं कृशाङ्गि तल्पम् ॥

कामिनीविषयककपटपटुः शठः ।

यथा---- "एतत्ते हृदि लक्ष्म सुन्दरि भृशं सामुद्रिकं दृश्यते श्रेयोऽह्नाय किमप्यनेन भविता वामाक्षि संलक्ष्यते । धूर्तः पाणितलेन पङ्कजदृशो वक्षःस्थलीमामृशन् साकूतं मुपितस्मितं कुचतटीमामर्दयंस्तुष्यति ॥'

तर्जनेऽपि प्रश्रयवान्धृष्टः । तदुक्तम्-

'कृतागा अपि निःशङ्कस्तर्जितोऽपि न लज्जितः । भूयः प्रश्रयवानेति धृष्टः स परिकीर्तितः ॥'

यथा- 'निषिद्धोऽसौ वाग्भिर्गरलकलुषाभिः सखि मुहु- र्मुहुर्दृष्टः कोपारुणतरलया हन्त कुदृशा । पराचीमूतायाः शिथिलयति बन्धं मम पुन- र्विविक्तं कञ्चुक्याः किमथ करवै धृष्टतरुणैः(णः) ॥' १३८ काव्यमाला । सकलमहिलासमरागो दक्षिणः । तदुक्तम्-

'सर्वासां नायिकानां यः समरागः स दक्षिणः' ।

यथा-----

'एकां चुम्बत्येकां श्लिष्यत्यपरां प्रसाधयत्यन्याम् । रमयति समानरागो रासरसे गोपिकारमणः ॥'

चतुरमानिनोः शठ एवान्तर्भावः । तत्र वचनचेष्टाव्यङ्ग्यवृत्तिभेदादाद्यो द्विधा । वचनव्यङ्गववृत्तान्तो यथा---

'अटवीमटवीं निशासु यान्त्यास्तटवीचीलुलितां कलिन्दसूनोः । तव सुन्दरि संगचारिणा वा भवितव्यं मुक्तेन कस्य पुंसः ॥'

द्वितीयो यथा-- 'वितन्वाने रदपदं नवे माकन्दापल्लवे । कान्ते हरिणशावाक्षी निनिन्द करमालिनम् ॥'

मानी यथा-- 'अपसर मम न स्पृशेः शरीरं प्रणयरुषा ननु भाषिते मयैतत् । शिवशिव शिबिरं विहाय यातः कथयत किं करवाणि जीवितेशः ॥'

एते चोत्तममध्यमाधमभेदात्त्रिधा । यत्तूत्तमत्वादयो भेदा वैशिकस्यैव नेतरयोरित्याहुः । तन्न मनोहरम् । उत्तमव्तादिकं तु विजातीयचेष्टानिबन्धनम् । तस्याश्च सर्वसाधारणत्वमपि वक्तुं युक्तम् । न च चेष्टायां वैजात्यविशेषणे गौरवमिति वाच्यम् । तस्य प्रामाणिकत्वादित्यनवद्यम् । तत्र कोपशीलायामपि प्रियायामनुराग्युत्तमः । कोपशीलायां प्रियायां दूरत एव मनोभावग्राही मध्यमः । कामकलिगु कृपाहीनोऽधमः ।

तत्राद्यो यथा- 'शोणः कोणस्तव नयनयोर्वाक्प्रपञ्चः समुद्रो भीमा भ्रूस्ते तदपि तनुषे तापमापत्सरूपम् । शृङ्गारामृतलहरी । १३९ भूयो भूयाः सखि मम तनोर्बाहुदा तापशान्त्यै प्रीत्यै तेऽहं सुमुखि रचये मौक्तिकीं हारयष्टिम् ॥'

मध्यमो यथा- यद्यपि मुषितविलासं वदनं नयनं च शोणमलसाक्ष्याः। मकरी कुचयोः कबरीधूपः सायं विलोक्यते तदापि ॥'

अधमो यथा- 'शिरीषसुकुमारां मां कृत्याकृत्यमजानतः । नलिनीं कुञ्जरस्येव कथं पातयसे करे ॥'

एते च त्रयः प्रोषिता भवन्ति ।

पतिः प्रोषितो यथा---

'दोलायितश्रवणकुण्डलयुग्मबन्ध- गण्डस्थलीलुलितकुन्तलघर्मबिन्दोः । हारालिवेल्लितशताभिहतोदरायाः किंचित्स्मरामि मृगशावकलोचनायाः ॥'

उपपतिः प्रोषितो यथा---

'लीलाभिरुल्लिखति जातु मयि स्तनाङ्क- मम्मोजसुन्दरमुखी सनिषेधभीतिः । हन्ताद्य तत्स्मरति दग्धमनः सहास- कोपत्रुटद्भ्रुकुटि यज्जलजैर्जघान ॥'

वैशिकः प्रोषितो यथा---

"मदिरामधुरामोदाधरपानरसालसाम् । कदा मदागमोत्तुङ्गस्तनी लप्स्येऽहमङ्गनाम् ॥'

अनभिज्ञो नायको नायकाभास एव । १४० काव्यमाला । स यथा--

'साकूतस्मितगण्डशोभि मुदितप्रेमप्रपञ्चं मुहुः शून्ये सद्मनि पद्मपत्रसुदृशा भूयो दृशामीक्षितः । स्वैरं चोल्लिखितो नखैः शरसस्वैर्देवस्य चेतोभुवो मातः किं करवै न वेत्ति नृपशुस्तैस्तैरनङ्गेङ्गितैः ॥' केचित्त्वनुकूलस्यापि विक्रमादेर्दाक्षिण्यदर्शनाद्दक्षिणत्वेनापि स्थितस्य कृष्णादेः शठत्वदर्शनादानुकूल्यादयोऽवस्था एवं न स्वभाव इत्याहुः । नैतत् । अन्यसंभोगचिह्नितत्वादिधर्माणां योषितामुद्भावने रसाभासापत्तेर्दुर्वारत्वान्न नायकेष्वष्टविधभेदाक्षेपः । अनुकूलत्वादिना नायकभेदाद्विशेष इति । यत्तु प्रच्छन्नप्रकाशभेदादेतेषां द्वैविध्यमूचुस्तदेतदानुकूल्यमन्यत्र प्रच्छन्नमिति संगमनीयम् । एते च दिव्यादिव्यदिव्यादिव्यभेदात्त्रिविधाः । दिव्याः शंकरादयः, अदिव्या अर्जुनादयः, दिव्यादिव्याः कृष्णादयः । तेषां च नर्मसचिवा विटचेटविदूषकाद्या ज्ञेयाः । उक्तं च---

'शृङ्गारेऽस्य सहाया विटचेटविदूषकाद्याः स्युः । भक्ता नर्मसु निपुणाः कुपितवधूमानभञ्जनाः शुद्धाः ।' इति । यद्यप्येतेन पीठमर्दः शृङ्गारे सचिवः कुपितवधूप्रसाधकश्चेत्युक्तं कैश्चित् । तत्परास्तम् । तथापि प्राचां लेखानुरोधाद्वर्ण्य॑ते । आदिपदान्मालाकारताम्बूलिकादयः । तत्र कुपितस्त्रीप्रसाधकः पीठमर्दः । कामतन्त्रकलाकोविदो विटः । यूनोः संधानकरश्चेटः । विकृतवचनाद्यैर्हास्यकारी विदूषकः । मालाकारताम्बूलिकौ प्रसिद्धौ । क्रमेणोदाहरणानि-

'जहिहि सुतनु मौनमस्तु मुद्रा ननु कलकण्ठकुटुम्बिनीमुखेषु । अयमपि लभतां विलोचनान्तःस्रवदमृतद्रवनिर्भराभिषेकम् ॥' शृङ्गारामृतलहरी । १४१ 'धीरं धीरं वहति सुतनो मारुतो दाक्षिणात्य- श्चापं धुन्वत्यलिकुलरुतैर्हुंकृतैः पुष्पधन्वा । डिण्डीघोषं रचयति पिकः शोधयन्मानिनीनां चेतः स्थास्नुः क्षणमपि कथं मानसे मानबन्धः ॥' 'शून्ये सुपर्वसद्मनि मेलितयोर्वीक्ष्य वदनमथ यूनोः । यातं कुसुमानयनच्छलेन सहसा सहचरेण ॥' "सद्यः शारदशर्वरीश्वरमुखीमानीय तल्पान्तिकं तैस्तैर्मन्मथचेष्टितैर्नरपतिर्यावन्निनीषुः क्षपाम् । अब्रह्मण्यमिति श्रुते स चकितं कौक्षेयहस्तोऽभ्यगा- त्किं किं वेत्ति विदूषकेण भणितं वाञ्छाम्यहं मोदकान् ॥" अथ नायकोपाचरणवृत्तयः । 'तद्व्यापारात्मिका वृत्तिश्चतुर्धा परिकीर्तिता । कौशिक्यारभटी चैव भारती सात्वती तथा ॥' तत्र कौशिकीस्वरूपं तु 'गीतनृत्यविलासाद्यैर्मृदुः शृङ्गारचेष्टितैः' । करणे तृतीया । तथा च मृदुपदेन संबन्धाच्छृङ्गाराप्रधानेत्यर्थोऽवगम्यते । तृतीया चोपलक्षणम् । तथा च शृङ्गारचेष्टितोपलक्षितेत्यर्थ इति केचित् । तन्न । उपलक्षितस्य व्यर्थत्वात् । सा च 'नर्मतः स्फुञ्जतः स्फोटतद्गर्भैश्चतुरङ्गिका' । चतुर्विधेत्यर्थः । तत्र स्फुञ्जो नर्मस्फुञ्जः एवमग्रेऽपि । विदग्धक्रीडननर्मप्रियोपच्छन्दनार्थकम् । प्रियावशीकरणफलकमित्यर्थः । तत्त्रिधा । शुद्धसशृङ्गारसभयसहास्यभेदात् । क्रमेणोदाहरणानि---


१. 'धूनोति' इति भवेत् । १४२ काव्यमाला । 'करवाणि वरोरु यत्नतो मृगनाभीतिलकं तवालिके । उदयं क्षितिमण्डले यथा मिहिकांशोर्मनुते जनः क्षणम् ॥' 'मकरीमिषेण तस्याः कपोलफलकेऽलिखन्मुखं नैजम् । अभिदर्शयंश्च मुकुरं जहास शनकैर्युवा कश्चित् ॥' 'पातुं षट्पदतरुणस्त्वदधरमम्भोजलोचने भ्रमति । इति भीता मुहुरबला सहासमालिङ्गयत्कान्तम् ॥' तत्र शुद्धस्य भेदाभावात्सशृङ्गारस्य भेदमाह----आत्मोपक्षेपसंभोगमानैः शृङ्गार्यपि त्रिधा । शृङ्गारि(रं) शृङ्गारहास्यमित्यर्थः । स्वानुरागमात्रनिवेदकं, संभोगेच्छानिवेदकं, माननिवेद्रकं चेति त्रिधा ।

'नर्मस्फुञ्जः सुखारम्भो भयतो नवसंगमे । नर्मस्फोटः स्वभावानां सूचकोऽल्परसोत्सवैः ॥' 'छिन्ननेत्रपरीवारि नर्मगर्भोऽर्थहेतवे । अङ्गैः सहास्यनिर्हास्यैरेभिरेषा त्रिकौशिकी ॥' नर्मभेदाः सहास्या इतरे निर्हास्या इत्यर्थः । एतैरङ्गैरुपलक्षिता कौशिकीति भावः । एतदुदाहारणानि काव्यनाटकादिषु वेदितव्यानि । इह प्रपञ्चभयान्नोदाहृतानि । इति कौशिकी ।

सात्वत्यादीनां तु वीराद्युपयोगित्वान्नेह वर्णनमुचितमिति ता उपेक्षिताः।

अथ शृङ्गारस्योभयनिष्ठत्वे नायिकाप्रपञ्चो रच्यते । तल्लक्षणं तु कामवत्त्वम् । न च मुग्धायामव्याप्तिः । भीतेः सुरतप्रातिकूल्येऽपि कामसत्त्वात् । एतेन अज्ञातयौवनां मुग्धाभेदं वदतो भानुकरस्य लेखः परास्तः । कामासत्त्वेऽनायिकत्वापत्या कामसत्त्वेऽज्ञातयौवनात्वन्याधातादुभयतःपाशारज्जोर्दुर्वारत्वात् । वस्तुतस्तु कामिमनोवृत्तिविहाराश्रशृङ्गारामृतलहरी । १४३

यित्वमिति लक्षणे न दोषगन्ध इति सुस्थम् । सा तु त्रिधा । स्वीया, परकीया, सामान्यवनिता चेति । तत्र पतिभिन्नाननुरक्ता स्वीया । यत्तु शीलादिमत्त्वमेव लक्षणमातन्वते । तन्न । बोधानुबन्धि स्वीयाया अधीरत्वानापत्तेः । अस्याः पतिपरिचर्यापरपुरुषानिरीक्षणादयश्चेष्टाः ।

यथा- 'यातायातकुतूहले नयनयोः सीमानमातन्वता नेत्रान्तं मधुरस्मितेऽधरतलं वाचि प्रियस्य श्रुतिम् । चित्तस्यापि गतागतेषु विधिना कान्तप्रतीकावलीं मन्दाक्षप्रसरे कुलाम्बुदृशां नाकारि सीमा कुतः ॥'

सा त्रिविधा । मुग्धा, मध्या, प्रगल्भा चेति । स्वीयाया एवं त्रैविध्यदर्शनात्परकीयासामान्यवनिते न मुग्धे, किंतूभयविधे एवेति सूचितम् । अदश्च संजाघटीति गुणानुरागाद्द्रव्यलोभाद्वा न भवति मुग्धाया [न च वयःकामाया] अन्यत्रानुरागः । न च शकुन्तलादीनां विवाहात्प्राक् परकीयाणामप्यनुरागदर्शनात्तत्रापि मुग्धात्वस्वीकार आवश्यक इति वाच्यम् । शकुन्तलादीनामुदितयौवनानां मध्यात्वमेव न तु मुग्धात्वम्, सुयोगं विनातिकालेन तस्यापगमात् । तत्र प्रथममवतीर्णनवयौवना मुग्धा । सा च ज्ञातयौवनाज्ञातयौवनभेदाद्द्विधा । एषैव नवोढेत्युच्यते । विश्रब्धनवोढा तु मध्यैवेत्येके । मुग्धाया आद्यावस्था नवोढा दरविश्रब्धा मुग्धैव विश्रब्धनवोढत्यन्ये । अस्याश्च रतिवामत्वकोपमृदुत्वादयश्चेष्टाः क्रमेणोदाहरणानि । यथा---

'रोमालीवेभ(त्र)धारी प्रथममथ वयो मङ्गलाशंसि कुम्भ- द्वन्द्वं वक्षोजरूपं मदननरपतेर्हन्त जैत्रस्य यातम् । १४४ काव्यमाला ।

अद्य श्वो वा सुकेश्याः वयमपि च पदं मीनकेतुः शरीरे कर्तेत्युत्प्रेक्ष्य भूयो भयचकितमितः शैशवं गन्तुमीहे(मैच्छत्)॥'

अपि च-- 'दृष्टिः शान्तमपाङ्गमेत्य नितरामारात्परावर्तते द्वित्राण्येव पदानि हन्त तरलं मन्दं पुनर्गच्छति । यूनां धैर्यपयोनिधेश्वुलुकने कुम्भोद्भवा काप्यसौ स्वल्पैरेव दिनैर्दशा वरतनोरन्या वरीवर्तते ॥'

'वृद्धिं यति नितम्बो जठरं तनुतामुपैति किं करवै । उद्धूनं मम हृदयं देहि किमप्यौषधं मातः ॥'

'(परि)पश्यति हृदि भूयो जीवातुं प्राणनाथस्य । कुचयुग्ममम्बुजाक्षी निधिमिव लब्धं दरिद्रजनः ॥'

'हस्ते धुता(न)ञ्चयति प्रतीकान्पृष्टा कथंचिन्न ददाति वाचः । मन्दाक्षभीतिप्रचुरा नताङ्गी नाङ्गीकरोति प्रियचेष्टितानि ॥' 'विश्वासभीतिचञ्चलमञ्चलमक्ष्णः प्रिये तनोत्येकम् । अपरं लीलाललितं कृत्रिमपुत्रे मृगीनयना ॥'

समानलज्जामदना मध्या । सा चोद्यतयौवना । तस्याश्च धैर्ये वक्रोक्तिरधैर्ये परुषवागित्यादयश्चेष्टाः ।

यथा--- 'कामः प्रेरयति प्रिये प्रणयिनीं दृष्टिं परं पक्ष्मलां व्रीडां वारयति व्रजत्यथ वचः कामाज्ञया वल्लभम् । लज्जाखण्डितमेति तन्न वदनात्कन्दर्पमन्दाक्षयो- र्वैषम्ये सति रङ्कुशावकदृशोर्दोलायतीवान्तरम् ॥'

पतिमात्रानुरक्ता सती विविधकलाकलापकोविदा प्रगल्भा । सत्यन्तं शृङ्गारामृतलहरी । १४५

सामान्यबनितायामतिव्याप्तिनिरासाय विशेप्यदलदानान्न मध्यायामतिव्याप्तिः । अस्याश्च रतिप्रीतिरानन्दात्संमोहः ।

आद्या यथा--- 'कृत्वा काम सुरतमहोत्साहं तं प्रेयांसं सा जिगमिषुमारात्प्रातः । बाला भूयो वलयितबाहुक्रोडे धृत्वास्वाप्सीन्मुकुलितनेत्रा जोषम् ॥'

द्वितीया यथा--- 'रचितविविधकाकूक्तिप्रचारे पुरस्ता- त्प्रणयिनि सखि धन्या मानभाजः पुरन्ध्र्यः । स्पृशति मम तु नीवीं नैव जाने स्वमस्मि- न्न च मनसिजकेलिं न प्रियं किं करोमि ॥'

मुग्धाया अत्यन्तं मानासत्वेन लज्जाप्राधान्येन च वक्रोत्यादेरसंभवात्प्रत्येकमवस्थायां मध्याप्रगल्भे त्रिविधे । धीराधीराधीराधीरा चेति । व्यङ्ग्यकोपप्रकाशा धीरा । अव्यङ्ग्यकोपप्रकाशाधीरा । व्यङ्ग्याव्यङ्ग्यकोपप्रकाशा धीराधीरा । मध्याधीरायास्तु कोपस्य वक्रोक्तिर्व्य॑ञ्जिका । अधीरायाः परुषवाक् । धीराधीरायाश्च वचनरुदिते कोपस्य प्रकाशके । प्रौढाधीराया रतौदास्यम् । अधीरायास्तर्जनताडनादि । धीराधीरायास्तु तदुभयं कोपस्य व्यञ्जकमिति दिक् । धीरादिभेदाः स्वीयाया एव न परकीयाया इति प्राचीनाः । न च धीरादिभेदानां माननियतत्वात्परकीयास्वपि तत्संभवात्संभव इति वाच्यम् । गुणानुरागद्रव्यलोभादनुरक्तयोः परकीयासामान्यवनितयोर्मानासंभवान्न धीरादिभेदास्तयोः । जातस्यापि मानस्य प्रणयनाशकत्वेन दुःसाध्यत्वाद्रसाभासोऽनुभवसिद्ध एवेति संप्रदायविदः।

१. चतुर्दशगु. ४६ काव्यमाला ।

मध्या धीरा यथा--- 'परिचितभिप(क्तत्त)[क्कृत्य स्यालं मधौ मदनाशुगै- र्मुषति सुदृशां मानं वासन्तिकापरिमोदिते । दयित भवतः क्षुण्णाङ्गस्यापि केतककण्टकै- र्भ्रमणमुचितं श्वासोत्कम्पाधरस्य वनालिषु ॥'

मध्याधीरा यथा------ 'दग्ध्वा नयने भूयः कुलटायाः कितव नन्वराङ्कैः । विकटैरटितैर्विट किं निर्दय हृदयं ममादहसि ॥'

मध्या धीराधीरा यथा--- 'कान्त भाग्यवतां वक्षो यक्षकर्दमर्दितम् । इत्युदीर्य दधौ बाला दृशं बाप्पतरङ्गिणीम् ॥'

प्रौढा धीरा यथा-- 'नोरीकरोषि नयनाञ्चलतोऽपि तल्प-- मद्यास्ति ते मुषितहास्यमिहास्यपद्मम् । नैनं भुजिप्यमुररीकुरुषे कृशाङ्गि वाचापि साचिमुखि कोपविधिः क एषः ॥'

प्रौढाधीरा यथा--- 'समीक्ष्य लाक्षारसभाविताङ्गं कर्णान्तविश्रान्तविलोचना माम् । अभर्सयञ्चञ्चलतारकेण महाश्मरश्मिच्छुरिणा करेण ॥'

प्रौढा धीराधीरा यथा----- 'मयि काकुवाचि सुदती समुल्लसत्स्मितशोभिगण्डयुगलाभवत्क्षणम् । अथ तल्पभाजि नवविद्रुमस्त्रवत्तटिनीसरोजसदृशं दृशं दधौ ॥'

एते च धीरादिपड्भेदा ज्येष्ठाकनिष्ठाभेदाद्द्विधा । परिणीतत्वे सति शृङ्गारामृतलहरी । १४७

भर्तुरधिकस्नेहा ज्येष्ठा । परिणीतत्वे सति भर्तुर्न्यूनस्नेहा कनिष्ठा । अन्ये तु मुग्धाया नेमौ भेदाविति जल्पन्ति । तन्न मन्यामहे । ज्येष्ठत्वकनिष्ठत्वे च नायकाधिकन्यूनस्नेहनिबन्धने; ते च न मुग्धायामिति वक्तुमशक्यत्वात् । ननूपक्रमोपसंहारविरोधः । उक्तयुक्त्या मुग्धायां मानस्य खण्डितत्वेन धीरत्वाद्यसंभवात्, एतेषामेव च षण्णां ज्येष्ठत्वादिभेदभेद्यत्वान्न तस्यां तत्संभवः । न च ज्येष्ठत्वादिकं न धीरादिनियतं किंतु भर्तृप्रतियोगिकाधिकन्यूनस्नेहनिवन्धनमित्युक्तमिति वाच्यम् । एते च षडिति लेखनवैयर्थ्यापत्तरिति चेत् । न । धीरत्वादिकमवस्था स्वभावो वा । नान्यः । माननियतत्वानापत्तेः, मुग्धायां तत्संभवापत्तेश्च । आद्य इष्टापत्तेः । न च ज्येष्ठात्वकनिष्ठात्वयोरवस्थाने एकस्या एव तत्तत्कालोपाधित्वेन तत्तञ्चष्टाश्रयत्वेन च तन्निमित्तीभूतभर्तृनिष्ठक्रियाजन्यत्वेन च खण्डितात्वविप्रलब्धात्वकलहान्तरि[ता त्वादीनि यथा तथा एकस्या एव ज्येष्ठत्वकनिष्ठत्वापत्तिरिति वाच्यम् । ज्येष्ठत्वादेस्तथात्वस्य भर्तृप्रतियोगिकाधिकन्यूनस्नेहनिबन्धनत्वेनेष्टत्वात् । न चैवमेते च षडिति लेखनवैयर्थ्यमिति वाच्यम्; धीरादिषट्वस्याविवक्षितत्वात् । यद्वा चकारो भिन्नक्रमस्तनैते धीरादि षट् मुग्धाभेदाश्चति । तथा च जृम्भते मुग्धायामपि ज्येष्ठात्वकनिष्ठात्वविलसितमिति संक्षेपः । इतरे तु उक्तभेदानां प्रच्छन्नप्रकाशभेदाद्द्वैविध्यमूचिरे । तन्न सुन्दरम् ; प्रच्छन्नस्वीयेत्यादिवाक्यस्य दुर्बलत्वात्, धीरादिषु धीरत्वादिभेदातिरेकेण प्रच्छन्नत्वादिभेदासंभवाच्च । क्रमेणोदाहरणानि यथा-----

'एकत्र स्थितयोस्तयोः कलयतोः क्रीडां सरोजस्थयोः(?) स्वैरं स्वैरमुपेत्य कोऽपि तरुणो लीलावतामग्रणीः ।


१. 'सरोजस्थले' इति स्यात्. १४८ काव्यमाला ।

एकस्या वदने निधाय वसनं हेलामिपात्सादरं धन्यां चुम्बति शारदेन्दुवदनामन्यां मुहुर्नागरः ॥'

'अङ्गाङ्गानि ममासि शारदनिशानाथानने किं रुषा त्वं मे कण्ठचरा सुधाधरतले प्राणाः क्रुधा किं मुधा । इत्थं मन्मथकेलिकौलभवनेनाहूय कंसारिणा नीते कोपकषायिते प्रियतमे स्मित्वा प्रमोदास्पदम् ॥'

'मेदिन्यां निपतितमङ्गनामथैकां प्राणेशोऽवचितुम्योजयत्प्रसूनम् । चूडाग्रस्थितकुसुमोच्चिचीषुमन्या- मालम्बन्वलयितबाहुरालिलिङ्ग ॥'

गूढपरपुरुषानुरागा परकीया । गूढपददानान्न वेश्यायामतिव्याप्तिः । सा द्विधा परोढा कन्यका च । परकीयात्वं पराधीनत्वम् । तेन न कन्यायामव्याप्तिः। तस्याश्च पित्रधीनत्वात् । ननु दमयन्त्यादेः पुरा परकीयात्वे पुनश्च स्वीयात्वे स्वीया परकीयेति भेदवैषम्यापत्तिरिति चेत् । न । प्रधानापकर्षेण काव्यनाटकादौ प्रधानरसे परोढानिबन्धनत्वस्यानुचितत्वात् । तदुक्तम्--'नान्योढाङ्गिरसे क्वचित् ।' न ह्येतद्भेदकथनवैयर्थ्यमिति वाच्यम् । 'कामकलाशिक्षायै स्वरक्षायै चारोहति मदने यायात्परयोषितम् ।' इति कामशास्त्रानुरोधेन तद्वर्णनसंभवादिति संक्षेपः।

परोढा यथा--- 'अद्याकारि विलोचनातिथिरसौ दामोदरः सुन्दर- स्तिग्मद्योतिसुतातटे विरचयन्वंशीस्वनं मोहनम् ।


१. अपीति युक्तं प्रतिभाति. शृङ्गारामृतलहरी । १४९

तेनानङ्गतरङ्गितानि निभृतं कुञ्जोदरे वीरुधा- मीहे किं करवाणि हा परवशां वृत्तिं विधाता व्यधात् ॥'

कन्या यथा- 'तपस्या कस्यासीत्परिणतवती कस्य भगवा- ननङ्गः संतुष्टः सुकृतविटपी कस्य फलितः । इयं यस्मै वत्सा[प्रस्ता]रितकमललोलालिसदृशा दृशा भूयो भूयः स्पृहयति धरित्रीशतनया ॥'

गुप्ताविदग्धालक्षितामुदिताकुलटानुशयानानां परकीयायामेवान्तर्भावः । गुप्ता द्विविधा । वृत्तसुरतगोपना वर्तिष्यमाणसुरतगोपना चेति । वृत्तसुरतगोपनत्ववर्तिष्यमाणसुरतगोपनत्वयोर्धर्मयोरेकत्वासंभवान्न त्रैविध्यम् ।

गुप्ता यथा--- 'निन्दन्तु प्रतिवेशिनो मम जनाः श्वश्रूश्चिरं क्रुध्यतां नाहं भानुसुतातटे सखि पुनर्यास्ये बतैकाकिनी । बन्धूकप्रसवप्रकाममधुरच्छाये मदीयाधरे भ्रामंभ्राममसौ न कृष्णमधुपः कां कां व्यधाद्वा विधाम् ॥'

द्वितीया यथा- 'शैवलपिच्छिलदृषदं मामेव प्रेषयत्यसौ वापीम् । भङ्क्ष्यति मे वलयाली प्रतिवेशिनि साक्षिणी भूयाः ॥'

विदग्धा द्विविधा---क्रियाविदग्धा वाग्विदग्धा चेति । क्रियाविदग्धा यथा--- 'जिगमिषति प्राघुणिके द्वित्राः स्थित्वा कथंचिदिह रात्रीः । मार्जारमस्य मार्गे मुमोच निभृतं कुरङ्गाक्षी ॥' १५० काव्यमाला ।

वाग्विदग्धा यथा--- प्रसरति बहु झञ्झामारुतश्चारु तोयं कलयति जलवाहः पान्थ किं प्राह गत्यै । गमय गतसमीरे निर्गताम्भःप्रचारे रुचिरतरमगारे ध्वान्तमिश्रां तमिश्रा[स्रा म् ॥

लक्षिता यथा--- 'निह्नोतु जह्नुतनया तटकुञ्जवृत्तं वृत्तान्तमम्बुजमुखी निभृतं सखीषु । त्रासार्ततोषपरिवर्तितचित्तवृत्ति- रस्यास्तनोति विशदानि विचेष्टितानि ॥'

मुदिता यथा--- 'याता याता जनकभवनं श्रीपतेरुत्सवार्थी प्राणिग्राही क्वचिदपि गतो देवरः क्वाप्युपेतः । श्रुत्वा सुभ्रूः परिजनमुखादेतदब्जायताक्षी रोमाञ्चानां कुचचकलशयोः कञ्चुकं संचकार ॥'

कुलटा यथा- 'नाकार्षीः कुलटाजनस्य मदनक्रीडासु दन्तावला- नुन्मत्तांस्तु तुरङ्गमानपि कथं हा हन्त नैवाकरोः । त्रैलोक्यस्थितपूरुषानपि ममाभाग्येन नाचीकरः किं धातः करवाणि कस्य कथये व्यर्था जनिर्मेऽजनि ॥'

वर्तमानस्थानविघटनेन भाविस्थानाशङ्कया स्वानधिष्ठितस्थानस्य भर्तुरधिष्ठानेनानुशयाना भवति ।


१. 'भार्यास्तु भ्रातृवर्गस्य यातरः स्युः परस्परम्' इति कोषः. शृङ्गारामृतलहरी । १५१

प्रत्येकमुदाहृतयो यथा--- 'नीते हालिकसार्थैश्चरमावस्थां शनैश्च शणवाटे । जाता पलाण्डुपाण्डुस्तस्या गण्डस्थली सुतनोः ॥'

'गोदावरी तटनिविष्टविलोलनेत्रे स्वेदैरलं कलय नाथगृहे निवासम् । तत्रापि पत्रचयचर्चितवल्लिवेलं वेश्मानि सन्ति न कृशोदरि या कियन्ति ॥'

उड्डीनकारण्डवचक्रवाककोलाहलाकर्णनतः कृशाङ्ग्याः । मार्तण्डरश्मिग्लपितेन्दुबिम्बशोभाममुप्या वदनं बभार ॥'

वस्तुतस्तुस्त्वेते भेदाः परकीयाया एव; न स्वीयाया इत्यप्रयोजकमेव; अविशेषात् । निमित्ताभावस्य शपथानिर्णेयत्वं तु कुलटात्वं निमित्ताभावादेव न भवतीति दिक्(?)। बि(त्तमात्रो)[त्तो पाधिकसकलपुरुषानुरागा सामान्यवनिता । वित्तमात्रोपाधिरिति तु संपातपाती लेखः । वसन्तसेनाकामकन्दलादेर्वित्तमात्रोपाधिं विनाप्यनुरागदर्शनात् । तथा च कचिद्वित्तोपाधिको रागः कचिच्च कामुकत्वादिति दोषः । तदुक्तम्-'वित्तमात्रं समालोक्य सा रागं दर्शयेद्बहिः' । तथा--'एषापि मदनायत्ता क्वापि स्यादनुरागिणी' इति । अग्निमित्रेऽनुरक्तायामैरावत्यां नाव्याप्तिशङ्कापि; वित्तोपाधेः सत्वात् । वस्तुतस्तु प्रकटसकलपुरुषानुरागित्वमेव लक्षणम् । वित्तोपाधिककामित्वादिकं तु स्वरूपकथनम् । अतएव न कुलटायाः सामान्यवनितायामन्तर्भावः । एतेन वेश्याया रसालम्बनाभावतया शृङ्गारा(ना)लम्बनत्वेन नायिका निरूप्यते सा त्रिविधेति भानुकरः प्रत्युक्त इत्युच्छृङ्खललेखः परास्तस्तस्यासत्वेऽनायि१५२ काव्यमाला ।

कत्वापत्तेः । न चेष्टापत्तिः, कामिमनोवृत्तिविहाराश्रयित्वस्य लक्षणस्य सत्वात्, नायिकात्वेन महाकविभिर्व्यपदिश्यमानत्वाच्च । सा यथा---

'एकं चुम्बितुमीहते पुरवधूर(न्यां)[न्यं] समालिङ्गितुं (केचि)[कंचि]न्मज्जयति प्रसह्य मदनक्रीडासुधावीचिषु । साकूतस्मितशोभिगण्डमपरं भूयः समुद्वीक्षते कं कं नाम नरं न रञ्जयति वा चामीकरालिप्सया ॥'

एता अन्यसंभोगदुःखिता वक्रोक्तिगर्विता मानवत्यश्चेति तिस्रो भवन्ति । प्रेमगर्वितायाः वक्रोक्तिगर्वितायामन्तर्भावान्न चतुर्विधत्वम् । अन्यसंभोगदुःखितत्ववक्रोक्तिगर्वितत्वयोर्धर्मयोः सर्वत्र संभवः । परकीयासामान्यवनितयोरुक्तयुक्त्या मानासंभवान्मान[वत्]त्वं स्वीयाया एवेति तत्वदर्शिनः ।

अन्यसंभोगदुःखिता यथा- 'यातायास्तव केतकीवनपथाद्भिन्ना तनुः कण्टकैः प्रायो नीचतरस्य माननविधावामृष्टरागोऽधरः । उत्कीर्णः कबरीभरोऽस्य पदयोर्मौलौ[लेर्मु]मुहुर्लोलनात् खेदं नो[द्व]ह तिष्ठ नागमदसौ चेन्मा व्यलीकं गमः ॥'

वक्रोक्तिगर्विता द्विधा--सौन्दर्यगर्विता प्रेमगर्विता च । आद्या यथा--- 'अङ्गदरचनां प्रमदाः समदाः कुर्वन्तु रमणतोषाय । अपसारितनेपथ्यां जीवातुं मां प्रियो मनुते ॥'

द्वितीया यथा--- 'अन्यास्ताः सखि योषितः सहवरं लावण्यलीलाग्रहाः सेवाभिः प्रचुराभिरुन्मिषदुरुप्रेमाणमातन्वते । शृङ्गारामृतलहरी । १५३

अस्माकं तु समीरणं वितनुते चेलाञ्चलैरादरा- द्वीटीमाननपङ्कजे विसृजति प्राणेश्वरः किं क्रिये ॥'

मानवती यथा । प्रियागराधसूचिका चेष्टा मानः । स च लघुर्मध्यो गुरुश्चेति त्रिधा । तत्र पराङ्गनादर्शनजन्मा भूषणदानाद्यपनेयो लघुः । गोत्रस्खलनादिजन्मा शपथादिकष्टापनेयो मध्यमः । परस्त्रीसंगमजन्मा चरणपातादिकष्टतरापनेयो गुरुः । असाध्यस्तु रसाभासः ।

लघुर्यथा- 'पश्यत्यन्यकुटुम्बिनीं प्रियतमे रोषैरलं सुव्रते मल्लीकाननचारिषट्पदयुवा शक्यो निरोद्धुं कुतः । स्यात्ते गण्डतटेऽथ कण्टकचिते स्वेदाम्बुभिः पिच्छ[च्छि ले स्थातुं सुन्दरि वेपिनि स्तनतटे शक्यो नु मानः कथम् ॥'

मध्यो यथा--- 'लीलाविलासमधुराक्षि मया द्वितीया कामालसेन तव साध्वभिधा व्यधायि । चेदन्यथाद्भुतपयोधरशातकुम्भ- शम्बूकृशोदरि भृशं समुपस्पृशेयम् ॥'

गुरुयथा--- 'वक्षो वीक्ष्य ममैणशावकदृशा कस्तूरिकाचर्चितं यारद्यावकशोणकोणकलुषे कोपात्कृते लोचने । तावन्नैजकिरीटकोटिविलसद्रत्नाङ्कुरोस्त्रैर्मया पादद्वन्द्वपयोजयोर्वरतनोः क्लृप्तैव नीराजना ॥'

रसाभासो यथा-- 'दत्तान्याभरणानि नुत्तमनिलैर्घर्माम्बु तालोत्थितै रेणुस्त्वत्पदयोः सरोजवदने संमार्जितो मूर्धजैः १५४ काव्यमाला ।

काकूक्तिप्रवणेन च प्रणयिना स्वागः प्रमाणीकृतं एतेनापि न याति हन्त कियता मानस्तवापैष्यति ॥'

एताश्च सर्वा अपि प्रत्येकमवस्थाभिरष्टविधाः-वासकसज्जा, विप्रलब्धा, खण्डिता, उत्का, कलहान्तरिता, अभिसारिका, स्वाधीनपतिका, प्रोषितपतिका चेति । मुग्धाया लज्जाप्राधान्यान्मानाभावाच्च नैते भेद; इति कश्चित् । वस्तुतस्तु खण्डितात्वप्रयो(जिक)[जकं] परभोगचिह्नितप्रियागमनमतो मुग्धायामपि तत्संभवः । इतरेयां तु सख्यादिप्रकरणकृतचेष्टादिना संभव इति । तत्र प्रियागमनावसरे आत्मानं मण्डयति रतिसामग्रीं च सज्जीकरोति सा वासकसज्जा । तदुक्तम्----'मुदा वासकसज्जा स्वं मण्डयत्येष्यति प्रिये ।' एतेन योगसत्त्वात् लक्षणसत्त्वाच्चागमिष्यत्पतिकाप्यत्रैवान्तर्भवतीत्यपि सूचितम् ।

स्वीया वासकसज्जा यथा-- 'अमार्जि शयनस्थली सह तया प्रतीकैर्निजै- रधूपि भवनं क्रमाच्चिकुरधोरणीभिः सह । अगुम्फि बहुलावली सह मनोरथैरुद्गतै- रबन्धि वलभीगृहे सह विलोचनैस्तोरणम् ॥'

परकीया बासकसज्जा यथा... 'शुश्रूषाभिरकारि लोचनयुगं निद्रातिथि प्रेयसो- र्नीताः कज्जलकेतवोऽपि चरमावस्थां कथंचित्तया । उन्मीलन्नवकाकलीकलकलैः संकेतयन्त्या मुहुः प्रेयांस्तल्पतले सरोरुहदृशा भूयः परामृश्यते ॥'

सामान्यवनिता वासकसज्जा यथा--- 'यास्यति दास्यति कुचयोरेकामेकावलीं दयितः । इति तौ वारवधूटी कस्तूरीभिः परिष्कुरुते ॥' शृङ्गारामृतलहरी । १५५

संकेतनिकेतने कपटवचनादिना वञ्चिता विप्रलब्धा । स्वीया विप्रलब्धा यथा--- 'वयस्यावाक्यविश्वासादेत्य कुञ्जं कृशोदरी । दधौ शून्यतरां दृष्टिमवीक्ष्य रतिदीक्षितम् ॥'

परकीया विप्रलब्धा यथा-- 'अवमत्य गुरून्सखीरपृष्ट्वा हतदूतीवचनेन काननेऽगाम् । नयनातिथितामियाय नाथो बत नाथः करवाणि किं विधातः ॥'

सामान्यवनिता विप्रलब्धा यथा--- 'इह सुन्दरि तावदास्यतां विपुलं यावदुपानये वसु । इति केनचिदापणाङ्गना कितवेन प्रसभेन वञ्चिता ॥'

अन्यसंभोगचिह्निते प्रेयसीर्ष्याकुला खण्डिता । स्वीया खण्डिता यथा--- 'अभिदर्शयितुं निजामभिख्यां परिधायांशुकमागतोऽसि तस्याः । श्रवसी परिनिर्वृते पुरा मे नयनद्वन्द्वमदोऽपि निर्ववार ॥'

परकीया खण्डिता यथा------ 'रात्रिजागरविघूर्णितेक्षणं वीक्ष्य कान्तमरविन्दलोचना । उद्बभार बत लोकशङ्कया बाष्पनिर्झरमतन्त्रपक्ष्मणा ॥'

सामान्यवनिता खण्डिता यथा----- 'अन्यस्यै द्रविणमदाः कथं मदर्थे नीतं तद्द्विगुणमुपाहरेति भूयः । बाष्पाम्बुस्नुतनयनापणाङ्गनासौ कान्तस्य द्रुतमुरसो जहार हारम् ॥' १५६ काव्यमाला ।

भर्तुरनागमने कारणं चिन्तयन्ती संतापव्याकुला उत्का । स्वीया उत्का यथा--- 'सुचारु वान्यासु सुलोचनासु प्रसह्य नीतो दवितो तु तामिः । अनागमं चेतसि चिन्तयन्ती प्राणेश्वरस्येन्दुमुखीति तस्थौ ॥'

परकीया उत्का यथा- 'आगच्छन्विनिवारितः प्रियतमः किंवा वयस्यैर्जनै- रानेतुं न गता किसु प्रियसखी दग्धो नु पुष्पायुधः । प्रेयःकोकिलकाकलीकलकलप्रोद्बुद्धमीनध्वजे नायातः परिणीतवामनयनादाक्षिण्यकः किं वने ॥'

सामान्यवनिता उत्का यथा---- 'नायातः किममू विलोक्य मदनव्यापारदीक्षागुरु- र्हन्ताभ्यामफलीकृतोऽद्य विपुलद्रव्योपलब्ध्युद्यमः । उत्त्कैतत्पतितं पयोधरयुगं वाराङ्गना कञ्चुकी- बन्धादुन्नमितुं तनोति विपुलद्रव्यागमोत्कण्टिता ॥'

चाटुप्रवणं प्रणयिनमवमत्य परितापवती कलहान्तरिता । स्वीया कलहान्तरिता यथा---- 'मम मन्दभाग्यवशतो विचारणा- मवधीरणासु दयितस्य नाकरोः । अयि दुग्धचित्त तनुषेऽतिवेदनं परिदेवनं किमिति हन्त संप्रति ॥'

परकीया कलहान्तरिता यथा- 'नाकारि कर्णपथमालिजनस्य शिक्षा न क्षालितो गुरुवचोभिरपि स्वपन्थाः । शृङ्गारामृतलहरी । १५७

व्रीडाविडम्बनमकार्यममुष्य हेतोः सोऽयं मया हतधिया कलहान्निरस्तः ॥'

सामान्यवनिता कलहान्तरिता यथा--- केलिष्वपि प्रणयतो मयि मानवत्यां रत्नैरकारि किल दुर्दिनमेव येन । तस्मिन्मया प्रियतमे कलहं सृजन्त्या हा वञ्चितं हतधिया निजभागधेयम् ॥'

कामार्ता सती स्वयमभिसरति पतिमभिसारयति वा साभिसारिका । स्वीयाभिसारिका यथा--- 'नीलं चोलमुपाकृतं जलघरध्वान्तैर्जटालेऽम्बरे शम्पासंपतने चिराय दधिरे क्लृप्तानि गात्राण्यपि । अङ्घ्रिः स्थापित एवं शिञ्जितभिया पाथोदसंगर्जिते कष्टं पौर्वसमीरणेन विदधे व्यक्तोदयश्चन्द्रमाः ॥'

परकीयाभिसारिका यथा--- फणिफणमणिरश्मिदर्शिताध्वा कृततिमिरोचितवेषमम्बुजाक्षी । परभयपरिमन्थरं निशासु स्तनभरभङ्गुरमध्यमेति कान्तम् ॥'

सामान्यवनिताभिसारिका यथा- 'चलच्चोलं दोलन्मणिखचितताटङ्कयुगलं चलन्नेत्रं पत्रावलिललितगण्डस्थलमलम् । रणद्भूषं पुष्यद्विपुलवसुलोभं सुमदनं द्रुतं केलीकुञ्जं व्रजति कृतिनो वारवनिता ॥'

ज्योत्स्नाभिसारिका यथा--- 'सान्द्रां चन्द्रे विसृजति निजां चन्द्रिकां सर्वगन्त्रीं तन्वाने च त्रिभुवनतले मुग्धदुग्धाब्धिलक्ष्मीम् । १५८ काव्यमाला ।

कृत्वा भूषामुचितविषयैर्वल्लभं का यियासु- र्मल्लीमाल्यैर्वितरति भृशं केशपाशं सुकेशी ॥'

दिवाभिसारिका यथा--- '----ते मुदिरेधी-रि प्रसर्पति वैद्युते(?) वनभुवि मिलत्पशाङ्काङ्कायां जने गतिमन्थरे । स्तिमितवसनं यूनोरग्रे मिषादभिसर्पतोः प्रसरति परीरम्भारम्भः सकण्टकगण्डयोः ॥'

प्रियाभिसारणादभिसारिका यथा----- 'येनावगच्छति न मे लघुतां तनोति कारुण्यमेति च पुरा रभसेन कान्तः । दूति प्रपञ्चचतुरासि तथा विधेयं प्रेमोपहासविषयं न यथा प्रयाति ॥'

नैतदन्तर्भावः । अभिसारिकात्वं न प्रियाभिसरणेनेत्यपि कश्चित् । अनारताज्ञाकरप्रिया स्वाधीनपतिका ।

स्वीया स्वाधीनपतिका यथा----- 'तनवै बहुशो निषेधवाचः करवै यद्यपि नीविरोधनानि । मनुते नयनाधिदेवतां मां तदापि प्राणासमः कुतो न हेतोः ॥'

परकीया स्वाधीनपतिका यथा--- 'तामरसोदरनयनाः सन्त्येव हि बहुमताः स्वीयाः । छायेव मां न मुञ्चति दृष्टिर्दयितस्य किमिह न निदानम् ॥'

सामान्यवनिता स्वाधीनपतिका यथा--- 'कति कति न कुरङ्गीलोचनाः सन्ति यासां दिशति वचनभङ्गी कामसङ्गीतलीलाम् । शृङ्गारामृतलहरी । १५९

वितरति मम वित्तं मन्मथोन्मत्तचित्तं तदपि सखि समानं वल्लभः किं निदानम् ॥'

कार्यतो दूरदेशस्थिते प्रेयसि संतापव्याकुला प्रोषितपतिका । दूर इत्युपलक्षणम् । कार्यत इतिपदस्य नायिकाज्ञातकार्यादित्यर्थेनोत्काविप्रलब्धयोर्नातिव्याप्तिः । स्वीया प्रोषितपतिका यथा--- 'हलाहलाकारि पटीरमद्य हाला विलासं तनुते कृशानोः । कथं नु कारीषकृपीटयोनेस्तुल्यास्तुषारांशुकरा भवन्ति ॥'

परकीया प्रोषितपतिका यथा--- 'सद्यः पाटलताभिया शशिमुखी गृह्णाति वीटीं न वा श्रीखण्डैस्तनुते तनोर्वरतनुः सा पाण्डुतानिह्नवम् । बाष्पं मुञ्चति कर्णकेतकरजःपातच्छलान्नेत्रयो- रानन्दाभिनयेन गोषयति च द्रागुद्गतं गद्गदम् ॥'

सामान्यवनिता पोषितपतिका यथा----- 'इभ्यस्तादृग्वल्लभश्चेदिह स्यात्किं किं द्रव्यं हा मया नार्जितं स्यात् । स्सारं सारं बाष्पधारामुदारां हाहाकारं वारनारी बभार ॥'

ननु 'प्रस्थानं वलयैः कृतम्' इत्यादि महाकविप्रयोगानुसारेण प्रवत्स्यत्पतिका नवमी नायिका भवितुमर्हतीति चेन्नैवम् । योजनशतं योजनादिकमिवाल्पमुत्प्रेक्षितं, विप्रलम्भजनकत्वेन सजातीयभेदमवगणय्य स्वतन्त्रेच्छेन महर्षिणा ऐक्यविवक्षणात् । तदुक्तम्--'प्रवत्स्यत्पतिकाप्यत्रैवान्तर्भवति तत्त्वतः' इति । किंच प्रवासो नाम स्वावच्छिन्नदेशविभागोत्तरदेशसंयोगानुकूलं कर्म, नतूत्तरदेशसंयोग एव । मार्गं गच्छत उत्तरदेशसंयोगाभावेऽपि प्रवासित्वानाकल्पनापतेः । तथा च १६० काव्यमाला ।

तादृशकर्मणः प्रवत्स्यत्यपि सत्वाद्युक्त एव प्रोषितेऽन्तर्भावः । किंच प्रवत्स्यत्पतिकायाः पृथगवस्थाभेदस्वीकारे नायिकायाश्चतुश्चत्वारिंशदधिकशतभेदापत्तिः । नचेष्टापत्तिः । अष्टाविंशत्यधिकशतभेदशंसिनः प्राचां लेखस्य वैफल्यापत्तेः । अदोपि प्राचां संपातायातसांकर्यभेदादधिकभेददर्शनात् मुग्धापरकीययोर्यथायथावस्थायोगेन न्यूनभेददर्शनाच्च । एतेन प्रवत्स्यत्पतिकामवस्थान्तरं वदतोऽष्टाविंशत्यधिकशतभेदांश्च शंसत: कस्यापि लेखः परास्तः । प्रवत्स्यत्पतिका यथा--- 'गन्तुं निश्चितचेतसि प्रियतमे नोऽजृम्भि नेत्राम्बुभि- र्बालाया न समुच्छ्रितं बहुतरं वाच्यं प्रपञ्चैरपि । दृष्ट्या कातरया रयाद्धनयुतामाकाशवीथीमथो वीक्ष्य प्राणसमान्तरा तु गमनव्यापारतो वारितम् ॥

यथा वा- 'शृण्वञ्छृण्वन्कोकिलालापलीलाः पश्यन्पश्यन्किशुकभ्रान्तभृङ्गान् । पञ्चप्राणैर्मामकीनैः सुहृद्भिः क्रीडन्भूयो नाथ याया विदेशम् ॥'

अहितेऽपि प्रेयसि हितकारिण्युत्तमा यथा--- 'शोणं नारचि लोचनं न च मनागूचे कठोरं वचो याते मय्यरबिन्दसुन्दरदृशा तल्पान्तिकं सारसि । श्रीखण्डद्रवसेकशीतलतरश्चक्रे जलार्द्रो मरु- त्सृक्वप्रान्तसुधासवर्णहसितैः प्रेमावलक्षीकृतः ॥'

हिताहितकारिणि प्रियतमे हिताहितकारिणी मध्यमा यथा- 'पर्यङ्कपर्यन्तमुपेयुषि द्राक्प्राणेश्वरे सागसि शोणभाजः । मया पदान्तस्पृशि पुण्डरीकस्पर्धिष्णवोऽस्मिन्दधिरे दृगन्ताः ॥' शृङ्गारामृतलहरी । १६१

हितकारिण्यपि प्रियतमे अहितकारिण्यधमा । एषैवाकारणकोपना चण्डीत्यभिधीयते । यथा--- नान्यां पश्यति यो हि चित्तकुमुदस्यानन्दसंदोहदां त्वामिन्दीवरसुन्दराक्षि मनुते पीयूषरश्मेः कलाम् । तस्मिंल्लोचनमार्गमागतवति प्रेयस्यनागस्यपि व्यर्थं विद्रुमभङ्गभङ्गिसहशा क्रूरे दृशा क्रुध्यसि ॥'

प्रत्येकमासां त्रयो भेदा ग्रन्थविस्तरभयान्नोदाहृता ग्रन्थान्तरादुन्नेयाः । आसां साहित्यः सखी दूती चटी चेति । दास्यादीनामत्रैवान्तर्भावः । स्वयं दूत्यास्तु नायिकात्वेन सहायत्वाभावात् वाग्विदग्धायामन्तर्भाव इत्यपरे । तत्र पार्श्वचारित्वे सति विश्वासकारिणी सखी । तस्याश्च मण्डनशिक्षोपालम्भपरिहासादीनि कर्माणि । मण्डनं यथा--- 'निसर्गनीलोत्पलकान्तिहारि विडम्बये कज्जलतः किमक्षि । इत्थं सखीं मण्डनतः पराचीं साचीकृतास्या सुमुखी न्यविक्षत् ॥'

शिक्षा यथा--- 'यासि विकर्तनसूनोस्तटभुवि वंशीस्वनं श्रोतुम् । किंतु सरन्ति सरंहो वनिताधरपानलोलुपा मधुपाः ॥'

उपालम्भो यथा- 'तव सुभग सहस्रं सन्ति पङ्केरूहाक्ष्यः प्रणयतरलचेतास्त्वं ततो नापराधः स्मितसहचरतिर्यग्भ्रूविभङ्गप्रणाली दिशति सहचरीणां पञ्चतां पङ्कजाक्ष्याः ॥'

परिहासो यथा--- 'आर्यावर्तस्तव हृदि मुक्ताहारः स्थितोऽस्त्ययं मुक्तौ । हिमविन्ध्यशैलयोरिव कुचयोरन्तः करेण वा कस्य ॥'

११ चतुर्दशगु. १६२ काव्यमाला ।

सख्याः परिहासवत्प्रियाया अपि परिहासो यथा----- 'निजोरसि प्रेयसि सस्मितेऽस्मिन्हस्तं पुरस्तन्वति पङ्कजाक्ष्याः । संबद्धमुष्ट्याथ तयापि नूनं सहासमङ्गुष्ठनटोऽभ्यनर्ति ॥'

प्रियापरिहासवत् प्रियस्यापि परिहासः । स यथा- 'धन्येन चामीकरशङ्करोऽयमभ्यर्चितः सुन्दरि किंशुकेन । इति स्वदत्तं नखलक्ष्म कान्ते स्तुवत्यसावानमिताननासीत् ॥'

दूत्यव्यापारपारङ्गमा दूती । साच पत्रहरत्वसंदेशहरत्वनिसृष्टार्थत्वधर्मैस्त्रिधा । निसृष्टार्थत्वलक्षणमुक्तं भरतेन--'स्त्रियः पुंसोऽथ वा ज्ञात्वानुरागं स्वमनीषया । साधयेत्कार्यशेषं या निसृष्टार्थेति तां विदुः ॥' तस्यास्तु विरहावस्थानिवेदनं संघट्टनं चेति कर्म । उपालम्भोऽपि दूतीकर्मेत्येके । तस्य विरहावस्थाकथनेऽन्तर्भाव इत्यन्ये । तत्र विरहकथनं यथा- 'त्वद्विश्लेषे मृगाङ्कं पिकरजितकुहूभाषितैर्भीषयन्ती मूर्छत्येवाब्जपत्रप्रतिभटनयना हन्त तेषां रुतेषु । किं ब्रूमोऽकाण्ड एव प्रलपति दयित प्राणनाथेति भूयो जिह्वेति व्यस्तवाचः सुभग समुदितां तां तनुस्थामवस्थाम् ॥'

संघट्टनं यथा--- 'क्रीडामपाकुरु तिरस्कुरु भीतिमारा- दाराधये मनसिजं मदनालसाक्षि । कुञ्जोदरे दरचलन्मरुति प्रतीक्षां दामोदरस्तव तनूदरि संतनोति ॥'

अथासामलंकाराः । 'यौवने सत्त्वजाः स्त्रीणामलंकारा दशाष्ट च । भावो हासश्च हेला च त्रयस्तत्र शरीरजाः ॥ शृङ्गारामृतलहरी । १६३

शोभा कान्तिश्च दीप्तिश्च माधुर्यं च प्रगल्भता । औदार्यं धैर्यमित्येते सप्त भावाः स्वभावजाः ॥ लीलाविलासो विच्छित्तिविभ्रमः किलकिञ्चितम् । मोट्टायितं कुट्टमितं विव्योको ललितं तथा ॥ विहृतं चेति विज्ञेया दश हावाः शरीरजाः ॥'

तल्लक्षणानि- 'निर्विकारात्मकात्सत्त्वाद्भावस्तत्राद्यविक्रिया । आद्यविक्रियेषत्कटाक्षादिः । अल्पालापः स शृङ्गारो हावोऽक्षिभ्रूविकासकृत् ॥ भ्रूविकासकृदितिपदान्नातिविकारः पूर्वस्मिन्निति सूचितम् । 'स एव हेलासु व्यक्तः शृङ्गाररससूचकः ।'

स एव हाव एव । तत्र 'रूपयौवनलालित्यभोगाद्यैरङ्गभूषणम् ।'

'अकुङ्कुममकेसरं ललितमण्डनं तन्नृणा- मचन्दनमचन्द्रकं हृदयशैत्यसंदोहदम् । वयः किमपि मान्मथं विजयशस्त्रमत्यद्भुतं विना कनकमङ्गदं वरतनोस्तनौ जृम्भते ॥'

'शोभा प्रोक्ता सैव कान्तिर्मन्मथाप्यायितद्युतिः' । मदनविस्तारिता द्युतिरित्यर्थः ।

यथा- 'त्रिभुवनमानसहंसी युवनयनचकोरपौर्णमासीयम् । कस्य न वा कुसुमेषोर्नटशाला हरति मानसं बाला ॥'

कान्तिरेवातिविस्तीर्णा दीप्तिरित्यभिधीयते । लावण्यस्यात्रैवान्त१६४ काव्यमाला ।

र्भावः । नच माधुर्यमप्यत्रैवान्तर्भवतीति वाच्यम् । प्राचां लेखेषु भिन्नतया परिगणितत्वात् । वस्तुतस्तु अल्पभेदाच्छोभादीप्तिकान्तिमाधुर्याणामैक्यमेव |--- नामानुरोधाल्लिख्यते । दीप्तिः यथा----

'परिपाकः सुकृतानां यूनां चेतोवशीकरणमन्त्रः । त्रिभुवननयनाकर्षणमस्या दीप्तिः समुल्लसति ॥'

सर्वावस्थाविशेषेषु माधुर्यं रमणीयता यथा--- 'सा मण्डनं विनैव स्रवति वरोरुर्वयस्य लावण्यम् । जातु सितापि सुधायास्तनोति किं वा रसोत्कर्षम् ॥'

निःसाध्वसत्वं प्रागल्भ्यं यथा--- 'आलिङ्गनैरुरसिजप्रथिमादिभिर्द्राग भ्रूभङ्गभङ्गुरविलोचनवेल्लितैश्च । सस्मेरहासलपनैर्लपनैर्भुजिष्य- मातन्वते हृदयवल्लभमिन्दुमुख्यः ॥'

औदार्यं विनयः । स यथा--- 'न परुषाक्षरमुल्लपितं पुनर्भ्रुकुटियुग्ममकारि न भङ्गुरम् । मयि कृतागसि केवलमेतया विनतया भुवि संदधिरे दृशः ॥'

मुक्तात्मश्लाघना धैर्यं मनोवृत्तिरचञ्चला । यथा--- 'दहतु दहतु सद्यः शर्वरीशः शरीरं वितरतु रुजमारान्मानसे मीनकेतुः । कथय कथमथाहं हन्त तस्यानुरागा- त्कुलमहह कलङ्कक्लान्तमेतत्करोमि ॥'

अथ हावाः । तत्र लीला--- 'अङ्गैर्वेषैरलंकारैः प्रेमनिर्वचनैरपि । प्रीतिप्रयोजितैर्लीलां प्रियस्यानुकृतिं विदुः ॥' शृङ्गारामृतलहरी । १६५

प्रीतिप्रयोजितैरित्यनेन परिहासानुकरणे नातिव्याप्तिः । यथा---- 'वेणीबन्धकपर्दमौक्तिकलतास्वर्लोककल्लोलिनी सिन्दूरस्फुटभालनेत्रहुतभुक्श्रीकण्ठभस्माञ्चिता । पातु व्यालवती मृणालवलयैर्वैडूर्यकण्ठाङ्गद- व्यावल्गद्रुचिनीलकण्ठसुषमा गौरी गिरीशाकृतिः ॥'

अथ विलासः । तत्त्वं चेष्टदर्शनसमानकाली[ने]न्द्रियविकारविशेषवत्त्वम् ।

तदुक्तम्-- यानस्थानासनादीनां मुखनेत्रादिकर्मणाम् । विशेषेषु विकारः स्यादिष्टसंदर्शनादिना ॥'

यथा-- 'सदसि सहचरीणामुल्लसत्पाणिवीणा सकलरसधुरीणा गातुमारब्धुमैच्छत् । मयि गतवति तत्र प्रोल्लसत्पद्मपत्र- प्रतिभटपटुनेत्रप्रेङ्खितान्याविरासन् ॥'

यथा वा- 'भाषणभूषणगमनैरनुकुरुते मे सखीषु सा याता । याति मयि तत्र तावद्बभूव तेष्वेव किमपि वैजात्यम् ॥'

अथ विच्छित्तिः तत्त्वं स्वल्पीयसा भूषणेन शोभातिशयपोषकत्वम् । तदुक्तम्---- 'स्तोकायाकल्परचना विच्छित्तिः कान्तिपोषकृत् ।' इति । १६६ काव्यमाला ।

यथा-- सितं धौतं बासो वयुषि नयने कज्जलविधि- र्नवा वीटी वक्रे चरणयुगलेऽलक्तकरसः । कपोले पत्राली वनहरिणपारिप्लवदृशां न भूषा पोषाय स्मरणजनुषः किं प्रभवति ॥'

अथ विभ्रमः । तत्त्वं व्युत्क्रमकल्पिताकल्पादिमत्वम् । तदुक्तम्--- 'अस्थाने भूषणादीनां विन्यासो विभ्रमः स्मृतः ।'

यथा-- 'याते त्वय्यरविन्दसुन्दरदृशा भालेऽञ्जनं श्रोत्रयो- र्लाक्षारञ्जनमेणनाभिरचना बिम्बाधरे चारचि । काञ्ची किंच गलेऽथ मौक्तिकलताहारो नितम्बे पदे केयूरं कचधोरणीधिषणया बद्धश्च चेलाञ्चलः ॥'

अथ किलकिञ्चितम् । तत्त्वं भावास्कन्दितधर्मवत्त्वम् । न च भावसंकरेऽतिव्याप्तिः, तत्र भावानामनैयत्यात् । प्रकृते तु 'क्रोधाश्रुभीतिहर्षादेः संकरः किलिकिञ्चितम्' इत्यभिहितत्वान्नियमः । अविशेषादनयोः पर्यायतेत्यपि कश्चित् । क्रोधादिचतुष्टयवृत्तिहावत्वसाक्षाद्व्याप्यजातिमत्त्वमित्यवगतिः । तथा च न दोषगन्धोऽपि । यथा---

'अरुणतरललोचनं सुकेश्याः स्रवदुरुबाष्पपयःप्रसन्नगण्डम् । अकलितविशदस्वभावहृद्यं स्मरमधुरं किमपि स्मरामि तस्याः ॥'

अथ मोट्टायितम् । तदुक्तम्---- 'सद्भावभाविते चित्ते ललनस्य कथादिषु । मोट्टायितमिति प्राहुः कर्णकण्डूयनादिकम् ॥' शृङ्गारामृतलहरी । १६७

यथा-- 'तव सुभग गुणानां वर्णनाकर्णनायां कलयति कमलाक्षी कर्णकण्डूयनानि । अथ कथमपि कुञ्चल्लोचनं जृम्भमाणा रचयति भुजवल्लीवेल्लितैस्तोरणानि ॥'

अथ कुट्टमितम् । तत्त्वं च कामचेष्टादौ निषेधपूर्वकशिरःकम्पादिशालित्वम् । तदुक्तम्---

'आनन्दान्तं कुट्टमितं कुप्येत्केशाधरग्रहे ।' इति ।

यथा- 'सकचग्रहमब्जलोचनायाः कुचकूले नखरं ददत्यभीष्टे । न न मेति रुजेव मन्दमन्दं सशिरःकम्पमुदीरितं मुखेन ॥'

अथ विव्चोकः । तत्त्वं च गर्वातिशयादवधीरिताभीष्टत्वम् । चण्डकोपेऽतिव्याप्तिवारणाय गर्वेति । तदुक्तम्--

विव्वोकस्त्वतिगर्वेण वस्तुनीष्टेऽप्यनादरः ।'

यथा---- 'अवलेपलेपलोलितलोचनवृत्तिश्विराय मच्चेतः । कृन्तत्यभीष्टवस्तुन्यवहेला कापि पद्मदृशः ॥'

अथ ललितम् । तत्त्वं च सौकुमार्यव्यञ्जकचेष्टावत्त्वम् । तदुक्तम्-

'सुकुमारतयाङ्गानां विन्यासो ललितं स्मृतम् ॥'

यथा- मनो यूनां मा भूद्दलितमिति पादान्तरचरं किमु क्षोणीपृष्ठे रचयति पदं कोमलतया । भुजं मल्लीवल्लीकुसुमचयनेऽपि श्रमवशं कुरङ्गाक्षी कण्ठप्रणयिनमभीष्टस्य कुरुते ॥' काव्यमाला। अथ विहृतम् । तवं चासदृशश्चेष्टावत्त्वम् । तदुक्तम्-- वक्तव्यकालेऽनुक्तं यद्रीडया विहृतं हि तत् ।। यथा---- दूरायातेन मया वार्ता वार्तानुशंसिनी पृष्टा । नाचष्ट किं तु विदधे जलप्लुते लोचने सुमुखी ।। यथावा- 'न वृणोषि सुरानभूञ्शिवादीन्न च दैत्यान्कतरस्तवास्ति चित्ते । गुरुणेति मुहुर्निरुध्य पृष्टे विहतं सागरजन्मनोऽवतान्नः ।।" एषां स्वातत्र्येणैव रसोपकारकत्वं न पारतवन्त्र्येणेति वामनमतम् । तत्तु वामनमेव । नथाहि । किं नाम स्वातन्त्र्यम् । रसप्रकृतिकत्वमुत व्यभि- चारित्वम् । नाद्यः । तेषां स्थायिभावभूतायां रतावनन्तर्भावात् । किंच व्यभिचारित्वं रसान्तरसंचरणशालिन्यम् । तच्चैषां शृङ्गारोपयोगितया- नुपपन्नम् , सामानाधिकरण्येन तदुपयोगित्वमिति परमार्थः । तत्त्वं च जातिविशेष इत्येके । जात्यभाव इत्यपरे ! परे तु हावत्वभावत्वमख- ण्डोपाधिरित्यङ्गीचक्रुः । लीलादिवृत्तिसंयोगोपाधिधर्मवत्त्वमिति रहस्यम् । अथ विप्रलम्भे दशावस्था भवन्ति । ताश्चाभिलाषचिन्तास्मृतिगु- णकीर्तनोद्वेगप्रलापोन्मादन्याधिजडतानिधनानि । तत्र सङ्गेच्छाभिला- षः। यथा- 'ग्वञ्जनगलननयना नयनैर्भूयश्च चर्करीति तव । नीराजनं शरीरे तथापि तस्याः सरीसरीति रतिः ॥ दर्शनप्रकारकजिज्ञासा चिन्ता ! यथा---- 'गतागतैः सेह मया प्रतोली सेव्या सुधासूतिसरोरूहाक्षी । सचन्द्रसारङ्गमदं प्रवाहं कुर्वीत वातायनवीक्षितेन ।' शृङ्गारामृतलहरी । प्रियाचेष्टाबद्धसंस्कारजन्यं ज्ञानं स्मृतिः । यथा--- एकेन पुष्पकबरीं कबरीं करेण नीवीं श्लथां तदितरेण च धारयन्तीम् । वक्षोजसीम्नि नखरक्षतमीक्षमाणां सीत्कारशोभिवदनां ललनां स्मरामि ।' चिरकालिकप्रियप्रशंसाप्रतिपादनं गुणकीर्तनम् । यथा---- "गुम्फः कार्तिककृत्तिकापरिवृढस्यन्दत्सुधासंनिभो वाचां किंच मिलन्मिलिन्द्रपटलोहासक्षमे चक्षुषी । सा वैसारिणकेतनस्य विलसल्लीलाविलासालयो जात्यवर्णसुवर्णकान्तिरतुलन्यासास्ति तस्यास्तनुः ।। विरहकालीना हेयताबुद्धिरुद्वेगः । यथा--- 'सिक्ता मुहुश्चन्दनवारिणा द्रागान्दोलिता धीरतरं जलार्द्रा । शयादलानामपि कन्दलीनां तापाय हा पातकमिन्दुमुख्याः ।। मनोविकृतिजन्यप्रियाश्रयकर्तव्यव्यवहारः प्रलापः । यथा-- किं वदिष्यति मामिन्दीवरसुन्दरलोचना । किं करिष्यति कुन्दाग्रसुदती दर्शनान्नु मे ॥ विरहकालीनमनोवृत्तिजन्यप्रियाश्रितवितथव्यापार उन्मादः । स च कायिको वाचनिकश्चेति द्विविधः । आद्यो यथा-- "आशासु कोऽपि तरुणो भ्रमवीक्षितायाः कृत्वा सरोरुहदृशो मुहुरङ्कपालीम् । संमार्जयन्नलिककोमलघर्मबिन्दू- नुत्कण्टकः कलयति स्म मनोजलीलाम् ।। १७० काव्यमाला ।

द्वितीयो यथा- शीतांशो वदनद्युतिं वरतनोस्त्वं हर्तुमाकाङ्क्षसे त्वं पारीन्द्र विलग्नकान्तिपटलीमेण त्वमक्ष्णोः श्रियम् । बद्धो वाञ्जलिरेष पेशलमिदं नैवास्ति युष्मादृशां तद्यूयं व्रजत प्रयात विषयं नो मार्गणानां मम ॥'

विरहजनितशरीरतान्तिर्व्याधिः । यथा--- 'आधिस्तनोति सुतनोस्तनुतानवानि व्याधिर्दिशत्यविरतं विषमामवस्थाम् । नो तादृशानि दुरितानि पुराकृतानि धन्वी पुरः सरति यत्कुसुमायुधोपि ॥'

अपिच- 'नापैति या नागरचित्रपन्था (?) गुडूचिकाक्षौद्रभवौषधेन । नासत्यतामेत्य नवीनयोगैर्हरे हराम्भोजदृशस्त्वमार्तिम् ॥'

विरहजन्यकायचेष्टाविरहो जडता । यथा-- 'यादव यादव किं वा ब्रूमः सुदृशो बतावस्थाम् । उच्चरिते तव नामनि जीवति सुदतीतिजानीमः ॥'

निधनस्य विरहादमङ्गलत्वाच्च न तद्वर्ण्यम् । आलम्बनविभावानुक्त्वा प्रसङ्गादुद्दीपनविभावा निरूप्यन्ते । ये रसमुद्दीप्य विभावयन्ति त उद्दीपनविभावाः । तेषां च रसं प्रत्युद्दीपनत्वेन कारणत्वम् । ते च ऋतुचन्द्रमलयानिलाद्या वेद्याः ।

ऋतुषु वसन्तो यथा- 'गुञ्जद्द्विरेफमधुरे कलकण्ठकण्ठ- पीयूषपानचतुरे कुसुमाकरेऽसिन् । शृङ्गारामृतलहरी । १७१

खेलत्ययं युवजनेषु नितान्तरक्तो मन्दं मृगाक्षि मृगयां मुदितो मनोभूः ॥'

ग्रीष्मो यथा--- 'शिरीषसंसर्गसुगन्धिशीतसमीरणेऽसिन्सुभगावगाहे । सिते पटीरे इव पङ्किलाङ्के पयोधरे पद्मदृशां मनोभूः ॥'

वर्षा यथा--- 'सौदामिनीकनकदामविभूषिताङ्गी कादम्बिनी गजघटेव मनोजराजः । आसारपातविशदीकृतदानपूरा- न्न.......कस्य मनसो मुदमादधाति ॥'

शरद्यथा-- 'यातं सज्जनचित्तवद्विमलतामम्भः प्रसन्नं नभः कालुष्यं गुरुशिक्षयेव न मनागम्भोधराः संदधुः । चेतांसीव सरांसि हंसललितान्यासन्भृशं योगिनां जातं किं विशदं न वेति विशति स्त्रीणां मनो मन्मथः ॥'

हेमन्तो यथा- 'ह्रसति दिवसो मानैः साकं सरोरुहचक्षुषां व्रजति रजनी वृद्धिं प्रेमप्रपञ्चरसैः सह । भवति च रुचिः सार्धं चित्ते चकोरचमूचयैः स्वपिति तरुणैश्चेतोजन्मा समं कुचभूमिषु ॥'

शिशिरो यथा- 'व्रणयन्नधरं प्रकम्पयंस्तनुमङ्गं च सृजन्सकण्टकम् ।

असहन्कुचपत्त्रवल्लरीं शिशिरः पद्मदृशां प्रियागमः ॥'

चन्द्रो यथा--
 "प्राचीभालविशेषकं सुचपकं दिक्सुन्दरीणामिदं
  क्रीडाकन्दुकमिन्दुलोकसुदृशां काश्मीरपङ्काङ्कितम् ।
 मानोन्मूलनकार्मणं रतिपतेः कालार्भकक्रीडनं
  यामिन्याः करभोरु पश्य पुरतः सौभाग्यमुज्जृम्भते ॥'

मलयानिलो यथा---
 'भृङ्गश्रेणीकृपाणीसरसिरुहवनीधूलिभिर्धूसराङ्गः
  पम्पासंपातकम्पस्खलितगतिरलं माधवीमल्लिकासु ।
 मन्दं मन्दं विसर्पन्मलयगिरिदरीगह्वरेभ्यो दुकूलं
  कर्षन्कर्णाटकान्ताकुचकलशगतं वाति मत्तः समीरः ॥'

अनुभावा व्यभिचारिभावाश्च ग्रन्थान्तरेषूह्याः । इह ग्रन्थगौरवान्न लिखिताः ।

इति श्रीमत्कविकुलतिलकनरहरिविस्कुलोत्तंसश्रीसामराजदीक्षितविरचिता शृङ्गारामृतलहरी समाप्ता ।