शृङ्गारशतकम् (नरहरिविरचितम्)

विकिस्रोतः तः
शृङ्गारशतकम्
नरहरिः
१८९७

कविवरनरहरिविरचितं
शृङ्गारशतकम् ।

शब्दब्रह्ममयी चकास्ति मुरली यत्राद्भुता मोहिनी
यत्रास्ते शुकनारदादिनिहितं प्रेमैव पीताम्बरम् ।
यत्राद्वैतसमाधिमग्नमनसं निद्रामयी श्यामता
गोपीलोचनचुम्बितं नरहरेः क्षेमाय धामास्तु तत् ॥ १ ॥

ये केचित्सुधियः सदुक्तिनिधयः संतुष्टवाग्देवता-
स्तेषां काव्यरसामृतानि वदने नित्यं वसन्त्येव हि ।
तेऽपि श्रोत्रपुटेन वाङ्मयरसं पातुं सतृष्णाः सदा
तस्मादेष रसाधिको नरहरेः काव्यश्रमः सार्थकः ॥ २ ॥

कालिन्दीजलकेलिकौतुकवती नीलाञ्जनश्यामला
चञ्चत्केकिकलापकोमलतनुर्गौराङ्गि वेणी तव ।
वाचाटैः कविभिस्त (स्त्व)दीयसुषमा बाले कथं वर्ण्यतां
वाग्गिमश्रेणिशिरोमणिर्नरहरिर्यद्वर्णने मुह्यति ॥ ३ ॥

बाले वीत(चीन)पटाञ्चलेन पिहिता भीमा प्रलम्बा भृशं
श्यामाङ्गी मणिमण्डिता फणवती वेणी भुजंगी तव ।
दष्टोऽयं तरुणस्तया नरहरिस्त्वं मञ्जुहासामृतै-
रेनं जीवय सत्वरं शिवशिव प्राणानसौ त्यक्ष्यति ॥ ४ ॥

मुक्तामण्डितकर्णशुक्तिरुचिरे विम्बोष्ठरत्नाकरे
पर्यन्तस्थितनीलकुन्तलवने लावण्यकल्लोलिनि ।
चार्वङ्ग्या मधुरस्मितामृतनिधौ शोभासमुद्रे मुखे
वत्तु(चक्षु)र्मीनमनोहरे नरहरेश्चेतो निमग्नं सखि ॥ ५ ॥

दंपत्योर्ननु मौनमेव सुदृढं नामग्रहो न द्वयो-
र्वीडा हन्त विलोकने नरहरे तत्रापि तिर्यग्गतिः ।
सांमुख्ये मुखमावृणोति वनिता भ्रूभङ्गिनी सर्वदा
प्रत्यक्षो रण एव केलिसमये वैरं नु तत्प्रेम नु ॥ ६ ॥

स्मेरास्ये कलया कयापि तरुणे लीलारसप्रार्थके
नम्रास्या करवारिजेन वलयं व्यावर्तयत्यङ्गना ।
मत्कण्ठे मृदुसुन्दरे सवलयं बाहुं निधेहीत्यमुं
भावं तस्य महाकविर्नरहरिर्जानाति नान्यो जनः ॥ ७ ॥

रक्तान्येव रदक्षतानि वदने गात्रेऽपि रक्ता पटी
रक्तान्येव नखक्षतानि हृदये रक्ताः कटाक्षोर्मयः ।

रक्तोऽयं सविशेषमेव दयितो नित्यानुरक्ता वधू-
र्यूनो रागरसात्मकं नरहरे रागाद्वयं दृश्यते ॥ ८ ॥

मानो मुक्तिमुपागतः प्रथमतः पश्चान्मिलच्चेतसो-
र्मौनं मुक्तिमुपागतं नरहरे मुक्तिं गता कञ्चुकी ।
नीवी मुक्तिमुपागता रतिरसे मुक्तिं गताः कुन्तला
मुक्तिक्षेत्रमिदं महत्परिचितं मुक्तेः सुखं रागिणा ॥ ९ ॥

आलापे मधुरस्मितानि तनुते गृह्णाति कण्ठस्थलीं
तल्पं कल्पयति स्वयं नरहरे सुस्निग्धमालोकते ।
आश्लेषे मृदुसीत्कृतानि कनुते(?) चाटूनि रम्ये रते
क्रीतोऽहं कतिधा न किं तदपि मां क्रीणाति लीलाशतैः ॥१०॥

अग्रे नृत्यति हावभावचतुरं नेत्रद्वयं चञ्चलं
पार्श्वे कङ्कणकिङ्किणीप्रभृतयो वादित्रमातन्वते ।
गायन्ति भ्रमराः सपुष्पकबरीसौरभ्यलुब्धा इमे
रामे शंसति कौतुकं नरहरेस्तौर्यत्रिकं ते तनुः ॥ ११ ॥

कान्तिः पावकसंनिभापि सुखदस्पर्शा यथा चन्द्रिका
वक्त्रा(क्त्रे) वाक्यपरम्परा नरहरे पीयूषधारानिधिः ।
अत्यन्तं कठिनौ तथापि हृदयानन्दाय वक्षोभवौ
दृक्पाता निशिताः शरा इव परं पुष्पाञ्जलिश्रेणयः ॥ १२ ॥

दूरीकृत्य दुकूलमन्त(म्ब)रवरं गाढान्धकारे गृहे
संश्लिष्टैव दुकूलकोमलतनुः सर्वात्मना सुन्दरी ।
गात्रं नाम दुकूलमेव सुदृशस्तेनामुना हेतुना
संभ्रान्तस्य दुकूलगो नरहरेर्नास्तं गतः संशयः ॥ १३ ॥

केचित्क्रूरकटाक्षबाणनिहताः संपातिता भूतले
केचिद्भाषणमाधुरीहृतधियस्तिष्ठन्ति मोहं गताः ।
ये केचित्प्रपलायितुं कृतधियो जालेन ते यन्त्रिता
बालेयं स्मरदेवता नरहरे आखेटकं खेलति ॥ १४ ॥

अक्षान्मुञ्चति वल्लभे वलयति स्निग्धान्कटाक्षानियं
दायं स्थापयितुं नतस्य वदनं संस्तूय संचुम्बति ।
सारीं मारयति प्रिये रसभृता भावेन सीत्कारिणी
नारी सारसलोचना नरहरे सारीफलैः खेलति ॥ १५ ॥

चित्रे कौशलमागता कृतवती पत्रे प्रियस्याकृतिं
प्राणेशस्य मुखं निपीय सुखदं भूयोऽपि संचुम्बति ।
उद्भिन्ने मकरध्वजे मुहुरियं कण्ठग्रहायाकुला
संतापेन समन्विता नरहरे संमूर्छिता दृश्यताम् ॥ १६ ॥

विश्लेषज्वरपीडितान्नरहरे संतापयत्युच्चकै-
र्दुःखं यान्ति यथा यथा विरहिणो मारस्तथा मोदते ।
वामाङ्गीकृतशैलराजतनयं पश्यन्भवं भस्मसा-
ज्जातोऽयं स्वयमेव भूतपतिना नायं कृतो भस्मसात् ॥ १७ ॥

न्यस्ताः कङ्कतिकापथि प्रणयिना भूयोऽपि कृष्टाश्च ते
निम्नत्वं न हि यान्त्यमी नरहरे हर्षं गताः कुन्तलाः ।
वेणी नाम कथं घटेत रमणी बन्धाय जातोद्यम-
स्तत्प्रेम्णा शिथिलीकृते भुजयुगे बन्धः कथं सिध्यतु ॥ १८ ॥

नेयं पश्यति मां तथापि सदयं संपश्यति भ्रूयुगं
मौने तिष्ठति मानिनी तदधरः संभाषते मां प्रति ।
गाढाश्लेषविधिं करोतु न वधूर्वक्षस्तु रोमाञ्चितं
हासं नैव तनोतु हे नरहरे नीवी हसत्युच्चकैः ॥ १९ ॥

वामाङ्गीवदने विलोचनमृगद्वन्द्वं मया वीक्षितं
तेनैतन्मुखचन्द्र एव सुमते सत्यो मृगाङ्कः किल ।
चन्द्रे नास्ति मृगस्ततो नरहरिस्तर्कान्वितं भाषते
चन्द्रे चन्द्रपदप्रसङ्गवशतो जाता मृगाङ्कप्रथा ॥ २० ॥

वामांसे लुलितः किरन्परिमलं बन्धश्लथः कुन्तलो
निद्रापाटलघूर्णिते स्मरसुखध्यानालसे लोचने ।

बिम्बोष्ठो नवलाञ्छनः सरभसं रोमाञ्चितावङ्कितौ
वक्षोजौ नखलेखया नरहरेरानन्दमातन्वते ॥ २१ ॥

भास्वत्कुन्तलभारसौरभमिलद्भृङ्गालिझङ्कारकै-
र्लीलान्दोलितबाहुकङ्कणरणत्कारप्रकारैरपि ।
उद्दामस्मरकेलिकौतुकचलन्मञ्जीरमञ्जुस्वनैः
सीत्कारैर्मुदुसुन्दरं नरहरे बालारतं राजते ॥ २२ ॥

कोणे क्वापि दिशोर्भृशं नरहरे तारुण्यलक्ष्मीभृतो
वक्षस्यम्बुधरस्य संभ्रमवतीमुद्वीक्ष्य विद्युल्लताम् ।
तत्कालस्मरलोलकाञ्चनतनुर्धन्योरसि प्रेयसी
गङ्गावारितरङ्गिता हिमरुचो लेखेव सा खेलती ॥ २३ ॥

गम्भीरोऽपि समुत्सुको गुरुजनः शोभां नवामीक्षितुं
यात्यायाति मुहुर्मुहुर्नरहरे स्मेरः सखीनां गणः ।
वेषः सर्वरहस्यभावपिशुनो जाताः प्रकाशा दिशः
सिद्धिं यातु कथं मनोहरतनोः केलीगृहान्निर्गमः ॥ २४ ॥

चातुर्येण चकोरचञ्चलदृशा नूनं दृशां विभ्रमैः
सान्द्रस्नेहरसालसैर्नरहरे रागी वशं प्रापितः ।
शय्याभूषणभोजनेषु विरसः संयोगचिन्तातुरः
सर्वा विस्मृत एव देहरचनां शून्यं मनो वर्तते ॥ २५ ॥

आदर्शे वदनं प्रियस्य वदनं संयोज्य संवीक्षितं
सद्यः संमिलितं स्मितैर्नरहरे हर्षादुभाभ्यामपि ।
प्राणेशस्तु गतो विदेशमधुना मत्पातकैर्दारुणै-
रादर्शस्य किमु प्रयोजनमिति द्वेषेण दूरीकृतः ॥ २६ ॥

त्वं मां मुञ्च दयां विधेहि विरहेत्यालप्य वामभ्रुवा
विश्लेषाय समर्पिता नरहरे स्थूलाश्रुमुक्तावली ।
मूर्खः प्राणपतिर्विदेशरसिको धाम स्मरत्येव न
प्राणानेव जिघृक्षुरेष स कथं दानादिना शाम्यति ॥ २७ ॥

ज्वालाभिर्ज्वलितं जगत्त्रयमिदं मध्यं दिने मूर्छिता
यान्त्यायान्ति न मानुषा नरहरे चण्डो रविर्दीप्यते ।
कासारे किमु चक्रवाकमिथुनं विश्लिष्टमालोक्यते
कौमुद्यामिति संस्थिता विरहिणी व्यामोहमाविन्दति ॥ २८ ॥

संलापावसरे स्फुटं नरहरे दृष्टं शिरश्चालनं
दंपत्योर्वचने कदाचन मुदा हुंकारमाख्याति च ।
तेनायं पिशुनस्तृतीयमुचितं नैव द्वयोरावयो-
र्दूरीकृत्य सखीजनं वनितया दीपोऽपि निर्वापितः ॥ २९ ॥

पूर्वे तु स्नपितं विलोकनसुधाधाराशतैः शीतलैः
पश्चाच्चन्दनचर्चितं नरहरे मुक्ताक्षतैरर्चितम् ।
पुष्पैः पूजितमेव शंभुयुगलं किंतु स्फुरत्पाणिजै-
र्दत्ताश्चन्द्रकलाः शिवप्रियतमास्तत्पूजनं पूजनम् ॥ ३० ॥

अस्या नीलसरोजरम्यनयने नीलं यथैवाञ्जनं
जात्या चन्दनशीतले स्तनतटे श्रीखण्डलेपो यथा ।
गात्रे काञ्चनपत्रसुन्दरतरे भूषा यथा काञ्चनी
बिम्बोष्टेऽपि तथा न किं नरहरे ताम्बूलरागप्रभा ॥ ३१ ॥

कुर्वन्नेव महोत्सवं नरहरे कामाधिकैः संभ्रमैः
कामिन्यै मिलनस्य पृच्छति सुखं प्राणेश्वरः कौतुकी ।
वक्तुं नार्हति लज्जया परवशा संमीलयन्ती दृशौ
कर्णे तस्य तु किङ्किणीकलरवस्तस्याः सुखं शंसति ॥ ३२ ॥

नाथं नन्दयितुं सखे नरहरे माणिक्यमञ्चे स्थिता
वीणां वादयति स्म विस्मयमयीं जेगीयमानाङ्गना ।
गाने स्नेहसमन्वयः समधिको वीणाक्वणे नास्त्यसौ
तुल्यत्वे सति तारतम्यमनयोः सुज्ञेन विज्ञायते ॥ ३३ ॥

लावण्यैकनिधे विनोदजलधे मीनाक्षि मन्दस्मिते
नानाविभ्रमनायके नरहरिर्दासानुदासस्तव ।

आज्ञाकारिणि किंकरे परिसरे प्राणान्तपर्यन्तिनी
दुष्प्रेक्षा दृढमानबन्धरचना रामे किमर्थं कृता ॥ ३४ ॥

उच्चैर्मन्दिरमुज्ज्वलं समुदितः पूर्णः पुरश्चन्द्रमाः
प्रेमार्द्रस्तरुणः सखे नरहरे रूपाधिका नायिका ।
पर्यङ्के स्फुटफेनदुग्धधवले मञ्जुस्मितालंकृता
लीलाः साधु निपीय हर्षजलधौ मग्नः सखीनां गणः ॥ ३५ ॥

पूर्वं चारु निरीक्ष्य पाणिकमलेनामृश्य संबोधितः
पश्चात्खेलनलीलया मृदुपदैः सस्नेहमध्यापितः ।
क्रीडापञ्जरयन्त्रितो नरहरिर्नक्तं यथा लालितः
क्रीडापञ्जरयन्त्रितो वनितया कीरस्तथा लालितः ॥ ३६ ॥

चन्द्रे लोचनगोचरे सुखनिधे सा निश्चिनोत्यामनं
कञ्चुक्या हृदि संवृतप्रणयिनं निःसंशयं श्लिष्यति ।
कीरे कुर्वति संकथां प्रियतमं संभाषते संभ्रमैः
पद्मं चुम्बति चेन्मुखं नरहरेश्चुम्बत्यसौ तन्मयी ॥ ३७ ॥

तेना.."त्वय'
.......
स्य कवेरिवोक्तिरबला किं ते रसं दास्यति ।
संप्राप्तानुनया विलासरसिका शृङ्गारहाराञ्चिता
साहित्येन समन्वि[ता] नरहरेर्वाणीव सा सेव्यताम् ॥ ३८ ॥

जानाम्येव यथा सुखं सुखनिधेः सांनिध्यतो लभ्यते
तादृङ् नास्ति सुखं सखे नरहरे लोकेशलोकेऽपि न ।
किंतु प्राञ्जलिरेष नम्रनयनो विज्ञापनामाचर-
न्कान्तश्चाटुचमत्कृतानि तनुते मानस्तदर्थो मम ॥ ३९ ॥

अथ स्रग्धरा-
केयं काश्मीरगौरी सकुसुमयमुनावर्तकान्तालकान्त-
ग्रन्थिः पूर्णेन्दुवक्त्रा नवमृगनयना पक्वबिम्बाधरश्रीः ।
मन्दस्मेरा सुपीनस्तनभरविनमन्मुष्टिमेयोदरश्रीः
श्रोणिप्राग्भारगुर्वी नरहरिहृदयानन्दिनी मन्दमेति ॥ ४० ॥

भाले कस्तूरिकाभो वदनसरसिजे नीलचैलाव(नाञ्च)लाभः
कण्ठे काचव्रजाभः कुचकलशयुगे कञ्चुकीसंगमाभः ।
श्रोणीशैलेऽम्बुदाभो नरहरिमनसि प्रेमपाशप्रकाशो
लक्ष्मीं धत्ते नवीनां दिशि दिशि लुलितः कामिनीकेशपाशः ॥ ४१ ॥

रक्ताम्भोजं हसद्भिः करचरणतलैर्लोचनश्यामपद्मा
हेमाम्भोजाभिरामं मुखमनुदधती बालरोलम्बलक्ष्मीम् ।
नीरक्रीडानुरक्तस्मरनिहितघटद्वन्द्ववक्षोभवाङ्का
पुण्यैरालोकितेयं नरहरिहृदयानन्दिनी रूपवापी ॥ ४२ ॥

चन्द्रश्रीतस्करं तन्मुखमथ नयने तस्करे मीनकान्तेः
कुन्दश्रीतस्करेयं रदरुचिरधरस्तस्करो बिम्बभासः ।
बिल्वश्रीतस्करौ द्वौ वपुरपि निखिलं तस्करं हेमलक्ष्म्या
वस्त्रैराच्छादितोऽयं कलय नरहरे तस्कराणां समूहः ॥ ४३ ॥

अथ मन्दाक्रान्ता-
तामुत्तुङ्गस्तनभरनमन्मध्यभागामरालै-
रासिञ्चन्तीं नयनवलनैः कामिकामाङ्कुरालीम् ।
पूर्णप्रेम्णा रहसि मिलितामुच्चरोमाञ्चरम्यां
कामप्यतः(न्तः) कविनरहरे कामिन(नीं) कामयामि ॥ ४४ ॥

नासाभित्तिश्रवणविवरैर्वारितं दीर्घभावा-
न्नेत्रद्वन्द्वं चतुरचपलं कस्य नाकर्षणाय ।
...स्ताम्रं दशनवसनं कं न कुर्याद्वशं वा
हासोल्लासः[...] नरहरे कस्य नो विस्मयाय ॥ ४५ ॥

नम्रं कृत्वा मुखहिमरुचिं पद्मपत्रेक्षणायाः
संपश्यन्त्याः स्फुरितमधुरं नीविवन्धं स्मितेन ।
लीलारङ्गं कविनरहरौ याचमाने नितान्त-
स्तूष्णीं भावः कथयति सखे लालसं खेलनेषु ॥ ४६ ॥

अथार्याः-
चौरसुजनप्रसङ्गे बन्धश्चौरस्य नरहरे नियतः ।
मदनमहीपतिराज्ये चौरैः सुजना निबध्यन्ते ॥ ४७ ॥

तृष्णातरलितचक्षुः पश्यति सरसीं यथा पथिकः ।
एवं यदि सरसी स्यान्नरहरिरुपमां ब्रवीतु दम्पत्योः ॥ ४८ ॥

रमणगृहं प्रति रमणं नयनं नयति स्म नम्रनयनायाः ।
नयनेन नयनमस्या नयनपदं नरहरे भजति ॥ ४९ ॥

आ ईषन्ननुवाणीमाननमङ्गीचकार परिरम्भे ।
तेनैवाननमस्या आननमिति नरहरिर्वदति ॥ ५० ॥

परिपूर्णचन्द्रलक्ष्म्या यदास्यते मुख्यमास्यं तत् ।
तव तन्वि तादृगास्यं नरहरिरन्यत्र लक्षणां वदति ॥ ५१ ॥

नरहरिहृदय इवास्या विनिमज्जन्त्या रसाधिके सरसि ।
दर्शितरङ्गतरङ्गः प्रससार निरन्तरः स्नेहः ॥ ५२ ॥

त्वं हावभावसहिता नरहरिकवितेव मञ्जुलं वदसि ।
श्लेषे न कुरु विलम्बं श्लेषो हि सुखार्णवः सुमुखि ॥ ५३ ॥

चन्दनघनमलयद्वयसौरभलाभाय भुजगवनितेयम् ।
मृदु चलति नाभिकुहरान्नरहरिराख्याति रोमराजिरिति ॥ ५४ ॥

सुखमिति वक्तुं युक्ते मुखमिति स लिपेर्विपर्यासः ॥ ५५ ॥

नरहरिकरेण गलिते नीवीबन्धे सुवर्णवर्णायाः ।
हरभस्मितोऽपि मदनो जन्म नवीनं पुनः प्राप ॥ ५६ ॥

क्षीणतया न हि खिद्यति नरहरिरभ्यागतः स्वगृहे ।
परिचेष्यते कथं मामिति वनिता दुःखिता भवति ॥ ५७ ॥

पञ्जरयन्त्रितचञ्चलचकोरचर्याञ्चितं चक्षुः ।
भवनगवाक्षगताया नरहरिरवलोक्य विस्मयं विशति ॥ ५८ ॥

अथ प्रहर्षिणी-
बिम्बोष्ठे करच[र]णे सुरक्तवर्णा रोमालीचिकुरकटाक्षकृष्णकान्तिः ।
अत्यच्छा स्मितविषये विमोहनीयं निर्णीता नरहरिणा मुकुन्दमाया ॥ ५९ ॥

बध्नन्ती करकमलेन केशपाशं पश्यन्ती मणिमुकुरे मुखारविन्दम् ।
मीनाक्षी कुटिलकटाक्षखड्गधारानिक्षेपान्नरहरिमञ्जसा जघान ॥ ६० ॥

चार्वङ्ग्या नरहरिराहतो विहारे मञ्जीरक्वणितवता पदाम्बुजेन ।
संसिक्तः स तु सुधयैव मोदमानः प्रागल्भ्यं द्विगुणमवाप खेलनेषु ॥ ६१ ॥

धम्मिल्लस्थलविगलत्प्रसूनजाला कस्तूरीतिलकलसद्विशालभाला ।
एकान्ते नरहरिसंगमे रसाला बाला [सा] मदनकलाविलासशाला ॥ ६२ ॥

अथ मालती-
निरवधिरतिरङ्गप्रेमरोमाञ्चिताङ्गी
कतिपयरदरेखारम्यबिम्बाधरश्रीः ।
स्फुरति हरिणनेत्रा हारिहावा हसन्ती
नरहरिसुखमूर्तिस्तस्करा चित्तवृत्तेः ॥ ६३ ॥

नरहरिकविराजव्याजतः शारदेयं
कथयति बत भावं कामिनी कुन्तलानाम् ।
तरुणशकुनिहिंसा कर्महेतोः किलेयं
[स]विषशरकिरातव्यातता वागुरन्ति ॥ ६४ ॥

किमपि नयनशोभा नाम पानीयमस्या
लसति नयनयुग्मे कृष्णसारेक्षणायाः ।
नरहरिकविरेवं वक्ति कृत्वा विचारं
किमु सरिति न तावत्सागरे सप्तमेऽपि ॥ ६५ ॥

कलय कनकवल्लीतुल्यभासोऽङ्गनायाः
कुटिलतरकटाक्षप्रेरणाशृङ्खलाभिः ।
जिगमिषुरपि यत्र क्वापि कामं विलासी
नरहरिकविराजो नागराजो निरुद्धः ॥ ६६ ॥

अमलकमलशोभाखण्डने पण्डितेयं
तुहिनकिरणलक्ष्मीजित्वरी तुण्डकान्तिः ।
नरहरिकविराजः कामलोलः कदाहं
मधुरमधरमस्याः केलिकाले पिबेयम् ॥ १७ ॥

दशति मृदु धुनीते कुन्तलं मञ्जुवाणी
धयति मधुरमोष्ठं रम्यरोमाञ्चितेन ।
रचयति रचनाभिर्भावसंभाविताभि-
र्नरहरिपरिरम्भे संभ्रमं सारसाक्षी ॥ ६८ ॥

झगिति न कितवानां संभवैः संभ्रमानां
नरहरिकविचेतश्चेतसा चन्द्रमुख्याः ।
नयननलिनपाली संप्रनालीसमेतं
सलिलमिव सरस्योः सामरस्यं समेति ॥ ६९ ॥

सविनयमनुवारं वच्मि कृत्वा विचारं
नरहरिपरिहारं मा कृथा दुःखभारम् ।
हृदि कुरु नवहारं मुञ्च कोपप्रकारं
कुरु पुलिनविहारं सुभ्रु संभोगसारम् ॥ ७० ॥

अथ पृथ्वी-
सहैव हरिनामभिर्ननु न पाठितामप्यसौ
प्रियावचनमाधुरीं किल पपाठ कीरः सुधीः ।
न सन्ति कति पक्षिणो नरहरे शुकः केवलं
लभेत कथमन्यथा वचनमाधुरीमीदृशीम् ॥ ७१ ॥

यदा नरहरिस्तया ललितहासमङ्गीकृतो
विलासरसरञ्जितैः स्मरतरङ्गितैरक्षिभिः ।
दृगन्तकुसुमोत्करैः सकुतुकं सखीभिः कृतं
तदैव करतालिकागणझणत्कृतैर्मङ्गलम् ॥ ७२ ॥

काव्यमाला।

अथ वसन्ततिलकम्- वेणीधृतां नरहरिः कविनायकोऽपि श्यामच्छविं न किल वर्णयितुं समर्थः । यद्गौरवेण कनकद्रवगौरगात्री श्यामापदं शिरसि चन्द्रमुखी बिभर्ति ॥ ७३ ।। कर्णान्तदीर्घनयना नयनाभिधाने द्वे दीर्घिके नरहरे रसपूरपूर्णे । लज्जाभिधां ललितनावमिहाधिरूढो रत्या समं विहरते मदनो विनोदी ॥ ७४ ॥ एकार्णवे भवति नाम वरावरस्य श्रीकेशवौ रहसि केलिरसं भजेते । एकार्णवे हि तमसोऽपि घने निशीथे लीलारसं नरहरे तरुणौ भजेते ॥ ७५ ॥ आलक्ष्य दर्पणतले दयितेन दत्तं बिम्बाधरान्तरदनक्षतचारुभावम् । चन्द्रानना नरहरे प्रणयप्रमोदा- दिन्द्रासनस्थितिसुखानि तिरस्करोति ॥ ७६ ।। मन्दोदरी मदनताण्डवपण्डितेन तुण्डेन कुण्डलवता रदखण्डितेन । रागारुणा नरहरे रतिरङ्गरम्यं रामा रसेन रमणं रमयांचकार ॥ ७७ ॥ लीला विधाय रतिराजरसाभिरामां लीलान्तरं नरहरौ ननु याचमाने । भ्रूभङ्गरङ्गरुचिरं वनितावितीर्णं ताटङ्कताण्डवसुखं कथयामि कस्मै ॥ ७८ ॥ प्रक्षीणमध्यविशदस्तनतुङ्गभावा कन्दर्पदर्पदरमन्थरलोचनश्रीः । शृङ्गारशतकम् । हेमाचलस्थलविशालनितम्बबिम्बा बिम्बाधरा नरहरेर्हृदयं धिनोति ॥ ७९ ॥ अत्यन्तचीनवसनेन पिधाय कायं निद्रां गता समणिभूषणभूषिताङ्गी । प्रत्यक्षतोऽपि परमां रुचिमावहन्ती चन्द्रानना नरहरेर्नयने जहार ॥ ८० ॥ मञ्जीरमुग्धमरुणं चरणारविन्दं मन्दं निधाय वदनं परिवर्तयन्ती। आलोकितुं नरहरिं भ्रमराभिरामै- र्नेत्रैरियं निभृतमातुरतां व्यनक्ति ॥ ८१ ॥ स्निग्धेन लोचनयुगेन यथा रतान्ते दृष्टस्तया नरहरिः स्मरकेलिदक्षः । एणीदृशा किल तथैव कटाक्षितोऽसौ पुष्पाञ्चितो विलुलितो घनकेशपाशः ॥ ८२ ॥ कण्ठे निधेहि नवचम्पकदामरम्यं तुङ्गौ स्तनौ मम विलेपय चन्दनेन । एवं वचो नरहरिं प्रति तेऽनुरूपं रूक्षस्य हन्त वचसः सखि नावकाशः ॥ ८३ ॥ सौन्दर्यकुण्डमबले तव नाभिकुण्डं रोमावली परिसरे मृदुशादूलश्रीः । पातुं गतं नरहरेर्नयनद्वयं चे- नैवागतं सुतनु तर्हि निमग्नमेव ॥ ८४ ॥ पातुं क्षमो नहि पुरो विहितापराधः केशप्रसाधनविधानपरो बभूव । व्यावृत्य सापि झटिति स्मरबाणनुन्ना जग्राह तं नरहरेः करपञ्जरेण ॥ ८५ ॥ ५० काव्यमाला। स्वैरं निपीय वदनं मदनाभिरामं लीलारसेन चिबुकं स्पृशति प्रवीणे । स्वीयं वपुर्नरहरे सकलं समर्प्य नानृण्यमाप सुमुखी सुखदस्य तस्य ।। ८६ ॥ यूना प्रणम्य चरणौ शिरसा गृहीतौ संचुम्बितौ नयनयोरपि योजितौ च । जाता प्रसादसुमुखी चरणान्तरेण जग्राह यन्नरहरेः सघनः प्रसादः ॥ ८७॥ निद्रां गतापि नयनप्रियमेव कृष्णं निम्नादरान्नरहरे हृदि लालयन्ती । स्वप्नेऽपि जागरकथामनुभूय राधा न स्वप्नजागरविभेदमुरीचकार ॥ ८८॥ प्राणाधिके झटिति संमुखमागते सा चैलाञ्चलेन हि बभूव कृतावधाना। लज्जाञ्चलेन विदधे वदनं तथेयं रागी यथा नरहरे पिहितं विवेद ॥ ८९ ॥ श्रीकालिदासकवितासुकुमारमूर्ते बाणस्य वाक्यमिव मे वचनं गृहाण । श्रीहर्षकाव्यकुटिलं त्यज मानबन्धं वाणी कवेर्नरहरेरिव संप्रसीद ॥ ९० ॥ धम्मिल्लबन्धमवलोक्य सुगन्धसिन्धुं विद्यावतो नरहरेरुदितो वितर्कः । साकं विचित्रसुमनोभिरुदारकेश्या बद्धानि किं नु सुमनांसि रतिप्रियाणाम् ॥ ९१ ॥ धम्मिल्लबन्धमवलोक्य विलासवत्याः

किं राहुरेष इति संवलितः क्षणेन ।

चन्द्रानना वदनचन्द्रघनप्रसादै-
र्दूरीकृतो नरहरेर्मनसो वितर्कः ॥ ९२ ॥
चन्द्राननावदनचन्द्रविलोकनेन
चन्द्रोऽयमेव जगतीति हृदि प्रवृत्तः ।
लीलाचलन्नयनखञ्जनदर्शनेन
दूरीकृतो नरहरेर्मनसो वितर्कः ॥ ९३ ॥
बालाविलोचनमृगद्वयदर्शनेन
जातोऽपि कोमलमृगद्वयपक्षपाती।
कन्दर्पकेलिचतुरेण निरीक्षणेन
दूरीकृतो नरहरेर्मनसो वितर्कः ॥ ९४ ॥
मन्दस्मितामृतमहारसपूरपूर्णे
वामाघरे नरहरेरुदितो वितर्कः ।
अस्याः सरोरुहदृशः किमु भालवर्ती
सिन्दूरपूरतिलकः प्रतिबिम्बितोऽयम् ॥ ९५ ॥
शोणेऽधरे नरहरेः कवितारसेन
स्यात्पद्मराग इति संवलितो वितर्कः ।
पीते तदैव किल तत्र सुधारसाले
दूरीकृतो मधुरतागुणसेवनेन ॥ ९६ ॥
वक्षोभवे नरहरेर्मनसो वितर्को
जातोऽपि हेमकलशद्वयपक्षपाती।
दूरीकृतो झटिति लोलविलोचनाया-
श्चन्द्रार्धसुन्दरनखक्षतलक्षणेन ॥ ९७ ॥
नास्त्येव नूनमुदरं किमु किंचिदस्ती-
त्येवंविधस्तरलितोभयपक्षपातः ।
रोमावलीं कलयता करपल्लवेन
दूरीकृतो नरहरेरुदितो वितर्कः ॥९८ ॥

स्वैरं निपीय रुचिरां तनुरोमराजीं
चित्ते भृशं नरहरेरुदितो वितर्कः
अत्यन्तभास्वरतया वयुषोऽङ्गनाया
वेणी विनीलविषयः प्रतिबिम्बितोऽयम् ॥ ९९ ॥
किं वा मृदूनि कुसुमानि किमु प्रिया स्या-
देवंविधः कुसुमतल्पगतस्य यूनः ।
उत्तुङ्गपीनकठिनस्तनमर्दनेन
दूरीकृतो नरहरेर्मनसो वितर्कः ॥ १०० ॥
हस्तावलोकनविधौ स्फुरितोऽपि दैवा-
दुत्फुल्लकोकनदयुग्मकृतावधानः ।
रत्नाङ्गुलीयनखराजिनिरीक्षणेन
दूरीकृतो नरहरेर्मनसो वितर्कः ॥ १०१ ॥
जङ्घाद्वये जघनसुन्दरदर्शनाया
रम्भाद्वयं किमु भवेदिति संप्रवृत्तः ।
स्पर्शन कामसुखदेन विनोदभाजा
दूरीकृतो नरहरेर्मनसो वितर्कः ॥ १०२ ॥
संचारचारुचरणद्वयसंनिधाने
हंसद्वयं किमु भवेदिति संप्रवृत्तः ।
हंसवनप्रजयिहंसकसि(शि)ञ्जितेन
दूरीकृतो नरहरेरुदितो वितर्कः ॥ १०३ ॥
ताटङ्करत्नरचनामवलोक्य रम्या-
मेवंविधो नरहरेरुदितो वितर्कः ।
कन्दर्पशास्त्रपठितानि वसन्ति मन्ये
रत्नानि विभ्रमविलासरसात्मकानि ॥ १०४ ।।
लोका वदन्ति सखि रत्नललन्तिकेयं
तुङ्गस्तनान्तरगता हृदि राजतीति ।

ताम्बूलचर्वणरसप्रतिबिम्बरूपं
तर्काधिक नरहरेर्मतमन्यदेव ॥ १०५ ॥
कि मानवीयमथवा स्मरदेवतेय-
मेवंविधो मनसि ते लसितो वितर्कः ।
तत्खण्डनं नरहरे न तवास्ति युक्तं
सत्यं हि सा सुवदना स्मरदेवतैव ॥ १०६ ॥
शाटी लसत्कुसुमचित्रवतीं वसाना-
मालोकितुर्नरहरेरुदितो वितर्कः ।
रङ्गस्थलीं गमयितुं कुसुमायुधेन
क्षिप्तैर्विचित्रकुसुमैरिव संवृताङ्गी ॥ १०७ ॥
अध्यापितः करतले कलितः किलायं
कीरस्त्वया कुवलयाक्षि कुतूहलेन ।
अध्यापनेन जनिता स्वरमाधुरीदं
तत्वं परं नरहरिः सखि वेद नान्यः ॥ १०८ ॥
पाणौ स्थितो नरहरे मुकुरोऽङ्गनायाः
कर्तुं छलेन वदनं ननु सद्वितीयम् ।
तेनैव हन्त मुखकान्तिपराजितेन
विस्पष्टमेव कथितं मुखमद्वितीयम् ॥ १०९ ॥
भाले विधाय तिलकं तव कुङ्कुमेन
कण्ठे निधाय दयिते नवरत्नम(मालाम्) ।
नीराजनां नरहरिर्वितनोति नेत्रै-
रद्यापि किं न कुरुषे सुमुखि प्रसादम् ॥ ११० ॥
कण्ठे लगन्तमधरामृतपानलोलं
लीलाकुलं नरहरि प्रति संभ्रमेण ।
दूरे भवेति वचनं यदुवाच वामा
मन्ये तदेव निकटे भवलक्ष्यतुल्यम् ॥ १११ ॥

अथ प्रान्ते शिखरिणी-
तया मुक्तः श्वासस्तदभिमुखमाधाय वदनं
तदन्यासंपर्कं स्वकृतमपि सस्मार दयितः ।
हिया नम्रे तस्मिन्कृतवति नतिं मानसमयीं
प्रसादं कुर्वाणा सखि नरहरे साम विदधे ॥ ११२ ।।
अलिश्यामं व्योम स्फुटमृगमदः प्रच्छदपट-
परिस्तीर्णास्ताराः सखि नरहरे ताः सुमनसः ।
अनल्पोऽयं तल्पः सरसरमणी किंच रजनी
कलानाथो नाथः कलय समयोऽयं रसमयः ॥ ११३ ॥
चमत्कारं कुर्वन्प्रतिपदमलंकारसहितः
पदन्यासो यस्याः प्रकृतिमधुरो भावरुचिरः ।
निदानं तादृश्या गतिगमकवित्रां(१) बलभृतः
समुद्रः पद्मायाः सरसकविताया नरहरिः ॥ ११४ ॥
श्रृङ्गारशतकशतकं यदपि निरुक्तं पुरातनैः कविभिः ।
तदपि तुलां नारोहति नरहरिशृङ्गारशतकस्य ॥ ११५ ॥

इति श्रीकविवर]नरहरि[विरचितं] शृङ्गारशतकम् ।