सामग्री पर जाएँ

शृङ्गारवैराग्यतरङ्गिणी

विकिस्रोतः तः
शृङ्गारवैराग्यतरङ्गिणी
सोमप्रभाचार्यः
१९३७

श्रीसोमप्रभाचार्यविरचिता

क्षृङ्गारवैराग्यतरङ्गिणी।

सुखबोधिका वृत्त्या समेवा।


   श्रीपार्श्वनाथ प्रणिपत्य भक्त्या पुरि स्थितं श्रीकलवर्धिकायाम् ।

   शृङ्गारवैराग्यतरङ्गिणी या व्याख्यानत्रो व्याक्रियते सत्रा सा ॥

श्रीसोमप्रभाचार्या वैराग्यवासमा शृङ्गार दूषयस्तः शृङ्गारवैराग्यतरङ्गिगीनानानं अन्धं कर्तुकामाः नीरूप निन्द्यामिति प्रतिपादयन्त ऊचुः--

धर्मारामवानिधूमलहरीलावण्यलीलाजुष-
 स्तन्वङ्ग्या यमितान्वि[] लोक्य तदही वालाकिमुत्कण्ठसे ।
व्यालान्दर्शनतो[]ऽपि मुक्तिनगरप्रस्थानविनक्षमा-
 न्मत्वा दूरममून्विमुञ्च कुशलं यद्यात्मनो वाञ्छसि ॥ १ ॥

अहो इयाश्चर्य । तन्वयाः । तनुः सूक्ष्ममङ्गं यस्याः सा तन्वगी। तस्याः स्त्रिया यमितान्बाद्वान्वालान्केशान्विलोक्य दृष्ट्वा किमुत्कण्ठसे किमुत्कण्ठों


करोषि । कथंभूतान्याला धर्मारामदयानिधूमलहरोनावण्यलीलाप्रः । धर्म मुबारामो बन तन यो दवामिदावानलस्तस्य या धूमलहरी धूमनेणिवस्था यल्लावायं श्यामलं तस्य लीला भन्ने सेवन्त इति लपलानुषस्तान्' । अधी प्रीतिसेवनयोर्धातुः । दवानिधूमपसिदशानिलयः । अथ वैराग्यरसेन कार दृष्यति--रे मनुष्य, यदि स्वमात्मनः स्वस्थ कुशल कल्याण बान्छसि तदा मूचालाव्यालापानमत्वा कृष्णवर्णत्वालन्यायमानत्वाचः सर्पसादृश्य वालानां युक्तमेव । दूरं विभुञ्च । दूरतस्त्यजेत्यर्थः । सर्प हवा यथा दूरमेव पलायते तथा त्वमपि दूर पलायवेत्यर्थः । किंभूतान्बालान् । दर्शनतोऽपि मुक्तिनगरप्रस्थानविनक्षमान् । मुक्तिरेन नगर तत्र यत्तास्थानं गमन तन्त्र विद्याप नियं कर्तुं क्षमा समर्थन्तान् । सर्पस्य दर्शनादेवं गमने विधानमुत्पत्तिरिति, शनशाने प्रसिद्धन् । तन्वया. अमितावालान्यालाना जीहि । बथाहि षार्थोऽयम-सकार इला: Mar: संयुक्खा वा बाला या भवन्तीति युक्तक्षेत्र वालाला ज्यालयम् । इन्हें शार्दूलविक्रीडितं नाम छन्दः । इति प्रथमधार्थसंकोचः ॥

ये केशा लसिताः सरोरुहद्दशा चारित्रचन्द्रप्रभा-
 भ्रंशाम्भोदसहोदरास्तव सखे चेतश्चमत्कारिणः
क्लेशान्मूर्तिमतोऽ[]वगम्य नियतं दूरेण तानुभुजे--
 नों चेत्कष्टपरम्परापरिचितः शोच्या दशावेज्यसि ॥ २ ॥

 हे सखे, सरोरुहासा सरोकहाणि कमलानीय दशो नेत्राणि यास ताः सरोरुहदृशस्त्रासां स्त्रीणों में लसिता देदीप्यमानाः देशास्त्रवः चेतचमत्कारिपाश्चितप्रासंतिकारिणः । वर्तन्त इति शेषः । किभूताः केशाः । चारित्रचन्द्रप्रभाशाम्भोदलहोदरा: । चारित्रमेन चन्भमा ज्योत्सा संस्था अंशे नाशने अम्भोदो मेधस्तस्य सहोदराः सदृशाः । केशान थामत्वादरमोदसधशत्वम् । तान्केशान्मूर्तिमंतश्रक्षुरिन्द्रियास्यान्लेशान् । नियत निश्चयेनानगम्य खुट्टा दूरेण दूरादेव त्वमुत्सृजेस्त्यजेः । मो चेदिति यदि न वचसि तदा त्वं शोच्या सोचनीयाँ दशामवस्यामेष्यसि प्राप्स्यसि । किंभूतस्त्वम् । कष्टपरम्परापरि


चिसः कष्टानां या परम्परा श्रेणिस्त्रया परिचितो युक्तः । स्त्रीणां केशान्केशाअज्ञात्वा ताजेत्यर्थः । केशाः क्लेशाः कथं स्युरिति प्रशे लसिताः लेन लकाहेग सिता बद्धाः केशाः केशा भवन्तीत्यर्थः ॥

शुद्धबोधशशिखण्डनराहुचण्डा-
 श्चित्तं हरन्ति तव बक्रकचाः कृशाङ्या
ते निश्चितं सुकृतमर्त्यविवेकदेह-
 निरिणे ननु नवक्रकचाः स्फुरन्ति ॥ ३ ॥

 हे पुमन्, कशाकशाः कृशं सुरुममा यस्याः सा तथा ये वकचा वक्रकेशात चित्तं हरन्ति । तच घेतसि चमत्कारमुत्पादयन्तीत्यर्थः १.कथंभूता वककचा: । शुद्धबोधश शिखण्डनराडचण्डाः ! शुद्धबोधो निर्मज्ञानं स एवं आशी तस्य खण्डनेऽर्थात्कदलने राहुरिव चण्डाः शूराः शुद्धबोधशशिखण्डनराहुचण्डाः । फलितार्थस्तु राहुर्यथा चन्द्र बासीकरोति तथा एते चकना ज्ञाननाशका इत्यर्थः । ननु निश्चितं ते वक्रकचाः सुकृतमीविवेकदेहनिर्दारणे । सुकृतमेव मत्यन्तस्य यो चिक एव देहस्तन निदारणे नवकचा नवाश्च ते कचाच नवकचाः । नूतनकरपाणि । ऋकचे पुनपुंसकम् । करपत्रंच' इति नामकोषः । स्फुरन्ति स्फुरद्रूपा वर्तन्ले इत्यर्थः । अन्न ककंचाः नवकंचा इति भिचश्लेष एवं चमत्कारः । वसन्ततिलकाछन्दः ॥

अलंकृतं कुन्तलभारमस्या विलोक्य लोकः कुरुते प्रमोदम् ।
वैराग्यवीरच्छिदुरं दुरन्तममुं न किं पश्यसि कुन्तभारम् ॥ ४ ॥

 अस्या नायिकायाः कुन्तलसार बदकेशसमूहम् । “कुन्तला; संयता स्युः इति कोषः । विलोक्य लोकः प्रमोद हर्षं कुरुते । कथंभूत कुन्तलभारम् । अलंकृत पुष्पादिना संस्कृतम् । अमु कुन्तल भार कुन्तभारम् । कुन्तः प्रासोऽथ मुद्रः इति नामकोषः । किं न पश्यसि । कथंभूत कुन्तभारम् । वैराग्यमेव वीरः सुभटस्तस्य छिदुरचनेदनशीलस्तम् । युनः कथंभू कुम्तभारम् । दुरन्तम् । दुष्टमन्तं प्रान्तः यस्य तम् । अन्तें तीक्ष्णत्वादु सह'मित्यर्थः । कुन्ताभार: कुन्तभारः कथं सात न विद्यतेला लकारे यस्य सोऽलस्त अलं कृतं विहितम् । काररहितः अन्तलपारः कुन्तभारः स्यादेवेत्यर्थः । उपेन्द्रनशानाम छन्दः ।

कस्तूरिकातिलकित तुलिताष्टमीन्दु
 चित्ते चिनिन्तयसि सौख्यानिमित्तमेकम् ।
वामब्रुवां यदलिकं तदही अलीक-
 मित्यात्ययवः परया प्र[] वदन्ति रूपम् ॥ ५ ॥

 आमभूयो श्रीणां अदालक ललाटमेक्रमद्वितीय सौंपानिमित्त सुखकारणं चित्र विचिन्लयसि । कथंभूतमलिकम् । कस्तूरिकातिलकितम् । तिलक मालं यस सिलकितम् । कस्तूरिकन्या लिलकितम् । पुनः कथंभूतमलिकम् । तुलिमाटभीन्दु । सुलितोऽष्टम्या इन्दुर्थेन सन्त । अष्टमीबन्दसत्यमित्यर्थः अहो इत्याश्चर्यः । तदाक्षिक परा अन्यथा आल्या नाना अस्वीकमिति चदन्ति सुधाः । गोधिळलाटाक्षिके वाली अवधामनिया इति नामकोषः । अलिक अलीकमित्युभयं नाम ललाटस्य । अलीक पावचः । अलिक अलीक मिथ्या जानीहोत्यर्थः ।

न भूरियं पङ्कजलोचनायाश्चकास्तिः शृङ्गाररसैकपात्रम् ।
भूः किं त्वसौं साधुतरा प्रसूते निब[]न्धनं मोहविषद्रुमत्स्व ॥६॥

 पङ्कजलोचनायाः कमलाक्ष्या. इयं भून चकान्ति न शोभते । कथंभूता भ्रूः । शृङ्गाररसैकपात्रं शाररसस्त्र एकमद्वितीय पाने स्थानम् । अजहल्लिअत्याचपुंसकतम् । कि स्वसो भूः साबुतरा अतिशथैन साध्वी - साधुतरा। तरतति वदावः । श्रेतरा भूः भूयिः सा मोहविषद्रुमस्य मोह एव विषदुमस्तस्य निबन्धनं आविर्भाचे प्रसूते उत्पादयति । भ्रमः कथमिनि प्रश्ने सा प्रसिद्धा ! धुतरा ३ धुनो तो रो रेफ्रो यस्सा ईदृशी भूभूर्भवतीत्यर्थः । इन्द्रवज्रानाम छन्दः ॥

[]वकुवलयदामश्यामलान्दृष्टिपाता-
 स्कृतपरमंदनाशान्विक्षिपत्यायनाक्षी


इति वहसि मुदं किं मोहराजप्रयुक्ता-
 न्प्रशमभटवधार्थ विधमून्द्रष्टिपातान् ॥ ७ ॥

 आयताक्षी । आयते विस्तीर्णे अक्षिणी यस्याः सा एवंविधा सामुद्रिश्य शिताकटाक्षाविक्षिपति प्रयुते । किविशिष्टादृष्टिपातान् । नंदकुवलयदामझ्यामलान् । नजानि यानि कुवलयानि तेषां दाम माला. तद्वच्छयामला: कृष्णासाश्यामलान् । घुनः किं विशिष्टान्दृष्टिपातान् । कृतपरमदुलाशान्कृतः परमदस्य नाशो यैस्तान् । इति मुदं इर्ष किं वहसि पासोधि । अमून्दृष्टिपातभा शमः शान्तिभावः स एव भदस्तस्य वधार्थम् । मोहराजप्रयुतान् । मोह एवं राजा मोहराजः । 'राजाहासखिभ्यष्टच्' समासान्तः । तेन प्रयुतान् ऋष्टिपातान् सरवारिपातान् । 'तरवारिरपि द्वौ च ऋष्टिरिटी अखण्डको' इति नामकोषः । विद्धि जानीहि । इंष्टिपातान् ऋष्टिपातान जानीहि । तरकथा । कृतपरमदवाशान् । कृतः परमः सर्वात्मना दख: दकारस्य नाशो यत्र ते कृतपरमदनाशास्तान् । दृष्टिपातशब्दे दकारनाशे ऋष्टिपात इति स्यादेव । मालिनीनाम छन्दः ॥

तस्याः कोपपदं यदाननमहोरात्रं स्मरन्नात्मनः
 संतापं वितनोषि काननमहो ज्ञात्वा सखे तत्यजेः
[] तस्मिन्वसता मनोभवमहासपेण दृष्टः पुमा-
 न्कार्याकार्यविवेकशून्यहृदयः क[]स्को न संजायते ॥ ८ ॥

 है सखे, तस्याः स्त्रिया यत् आनन मुखं अहोरात्र स्मरन् स्मृतिविधयं कुर्वन् वं मात्मनः स्वस्य संतापं वितनोषि विस्तारयलि । कथंभूतं आननम् । कोअपर्द कोपस्य पदं स्थानं तत् आनन अहो इति खेडे काननं वनं ज्ञात्वा स्वं त्योः । एतस्मिन्कानने बसता स्थितिः कुर्वता मलाभवमहासण मनोभवः कामः स एव महासर्पस्तेन पुमान् दृष्टः सन् कस्कः । सर्वस्य द्वे इति द्वित्वम् । कस्कादिस्वास्सत्वम् । कार्याकार्यविवेकशून्यहृदयः । कार्य चाकार्य


च कार्याकार्ये तयोदिवेकरतेन शून्य हृदयं यस स तथा न “संजायते । सर्वविषेण मूच्छितः पुमान् शून्यहृदयो भवति । अयं तु महालयेण वाहतस्य कि

वाच्यम् । आनन्द काननं कथामति प्रश् । आनन कोपपदं कः ककार उपपद अस्य तदा काननं खादेवेसर्थः ॥

साकारमालोक्य सुखं तरुण्याः किं मुग्धबुद्धे मुदभादधासि ।
इदं हि चित्तभ्रमनाटकस्य विचक्षणैरामुखमाचचक्षे ॥ ९ ॥

 हे मुग्धबुद्धे, मुग्धा चुद्धियस्य तसंबोधनम् । तरूण्या मुखें आलोक्य किं मुदं हर्ष आदधासि धारयति । कथंभूत मुखम् । साकारम् । आकारण चित्तभ्रमनाटकस्य चित्तश्रम मुब नाकं तस्य आमुखमाधारम्भ आचचो इत्यत्रः कर्मणि लिट् । मुखम् । आमुल स्वित्थम्----साकार आकारेण सह पर्ने मानं मुख आमुख स्यादित्यर्थः ॥

कामज्वरातुरमते तवं सर्वदास्यं
वामध्रुवां यदि कथंचिदवासुमिच्छा।
यत्रं विनाप्यखिल[]जन्मपरम्परामु
तज्जातमेव भक्तो ननु सर्वदास्यम् ॥ १० ॥

 हे कामज्वरातुरमते । कामज्वरेण आतुरा मतिर्थस्थः तत्संबोधन है कामज्वरातुरमते । सर्वदा सर्वसिल्काले अदि तव वामध्रुवां स्त्रीणां आस्य सुख कथंचित्केनापि प्रकारेण अवार्ड प्रातुमिच्छा वर्तते तदा ननु निश्चित थत्रं दिनापि अखिलजन्मपरम्परासु । जन्मनः परम्पराः श्रेणयः । अखिला या 'जन्यपरम्परास्तातु । 'भवतस्तव सर्वदास्यम् । दासस्य भाको दास्यं सर्वेषां नृत्यत्वं जातमेवः । स्त्रीमुखदत्तचित्तस्य तव सर्वजनानां दासत्वं जातमेव । "अन्न पच्छे उभयत्र सर्वदास्यमिति सदस्यः भिन्नार्थत्वमेव चित्रम् । वसन्ततिलका नाम च्छन्दः ॥

तस्याः साधुरदं विलोक्य वदनं या संश्रयत्यञ्जसा
 मुक्त्वा मुक्तिपथं हहा प्रविशति भ्रान्त्या सदुर्ग वनम् ।


[१०]चात्यन्तमचारुवचवसतियेनात्र रागादिभि-
 क्ष्चौरैर्धर्मघनापहाकरणात्कष्टं न कि प्रा[११]प्यते ॥ ११ ॥

 यः पुमान् तस्याः स्त्रिया बदनं मुखं साधुरदं साधवः समीचीना. रदा यस्मिन् तत् तथा दिलोक्य असा वेगेल संश्रयति आश्रयति सं घुमान् हहा इति खेदे । मुक्तिपथ मुक्तिमार्ग मुक्त्वा भ्रान्त्या भ्रमेण दुर्ग दुःखेन गमनाह वनं प्रविशति । तदने अत्यन्तं अन्तमतिकान्तम् । अनमाणमित्यर्थः । कथंभूतः सः । अचाकमावसतिः । न चारचार बद्धा वसतिर्येन सः । चेन व प्रविशता पुरुवे अन्न बने कोकिन प्राप्यते । कस्मात् । समादिमिआरधनापहारकरणात । धर्म एव धनं. धर्मधनं तस्यापहारः हरण तस्वं करण मात् । चौराह धनमपहत्व वनं प्रविशन्ति तदा कष्ट स्पष्टमेव । तत्र वदनं कथं बनामति प्रश्ने । यः साधुः अदं न विद्यते इकारी असिन् तद् अदम् । दकाररहितं वदनं धनं स्यादेव ॥

यियाससि भवोदधेयदि तट तदेणीहशा-
 महीनमधरं घर परिहरेः परं दूरतः
[१२]हास्फलनतोऽन्यथा विशदवासनानौस्तव
 ब्रजिष्यति विशीर्णता न भविता ततो वान्छितम् ॥१२॥

 है अनन् यदि त्वं भवोदधेः संसारसमुद्र तट पार सियाससि यातुमिच्छसि । याते: सचन्तामध्यमपुस्पैकवचनरूपम् । तदा एणीदशा एणों हरिणी तखा देश इव शो याला तास्तासा अधरै धरः पर्वत दूरसो दूरपर व परिहरेः । किंभूतमधरम् । अहीने परिपूर्ण अभ्लादिना । अन्यथा यदि परिसि नहि इह पर्वले स्लनतः संघटना तब विशवासना निर्मलालमों औध की विशालता भङ्गता प्रजियति । ततस्त्वद्वान्छित न भक्षिता न भविष्यति । यथा समुद्रमध्ये पर्वतास्फलनानादि मायां वाछिस में भवेत्तथेत्यर्थः । अब कयामिति की उत्तर । भहीन र अकारण हीन


अधरं पर स्थादेव'। साजुमार्वती धरः । धरः शैलस्योदयः" इति कोषः । पृथ्वीनाम च्छन्दः ॥

न भातीदं मातः स्फुरदसणरजौधकिरण-
 प्रतानं तन्वयातरलतरलं कुण्डलयुगम्
दम दु[१३] ग्ध पुंसामिह विरहसं[१४] योगदशयों-
 उर्बलच्छोकानगज्वलनयु[१५] गिर्द कुण्डयुगलम् ॥ १३ ॥

 है आत:, वन्वङ्गया शायर इदं कुण्डलयुगं कुण्डलस्य कर्णाभरणम युदर न भाति न शोभते । कथंभूतं कुण्डलयुगम् । फुरवरुपरसौधकिरणप्रतानं स्फुरन्तो देदीप्यमाना थे अरुपारलौवा रक्तसमूहास्तेषां से किरमान्तपा प्रतानं समूहो असितत् । पुनः कथंभूत कुण्डलयुगम् । तरलतरणम् । तरलाञ्चलातरलं चजलम् । चञ्चलतरमित्यर्घः । कथं भूतं कुण्डलयुगक्षम् । विसंयोग शयोः । स्त्रीपुखयोः संयोगाभावाहिरहोत्पतिः विरहश्च संयोगश्च विरहसंयोगो तयोर्दो अवस्ये तयोः । शोकानङ्गज्वलनयुक् । शोकवानमज्वलन शोकानज्वलनों ताभ्यां कुछ। विरहे शोकाविभावः, संयोगे कामानेसविर्भाव इत्यर्थः । कुण्डलयुगलं कि कुर्वत् । इह संसारे पुंसां पुरुषाणां दसमुपक्षौ दुग्धं पयः । ज्वलत्कुण्डलयुगं कुषडयुरालं को तन्नोज्यते । तरलतरलालसरो लो लंकारो यस्मिन् । कुण्डशब्दालकारे कुण्डलयुगस्य चालत्वात् युगशदात्परतः स्थिते सति कुण्डधुगलं स्यादित्यर्थः । शिखरिणीनाम च्छन्दः ॥

ताडई सस्पृहं तस्याः पश्यन्मूढः परे मवे।
नरो नरकपालेभ्यताई के न सहिष्यते ॥ १४ ॥

 मूढो नरस्तरखा निया सस्थाह साभिलाषं मथा स्थाचया नाद कर्णभूवर्ण पश्यन् परे भये भावाशिमचे रकपास्यः सरकान् पाख्यान ले नरकपालान्तेभ्यः परमाधार्मिकेन्या के खाई ताड ताइ आधातस्तं क भ सहिष्यते, अपि तु सर्व साहिष्यते । अनुष्टुप् च्छदः ॥


सारं गलं यम[१६] रविन्दविलोचनाना-
 मालोक्य चेतसि मुदं कलयन्ति मूढाः
हा[१७] निश्चितं रचितमुक्तिपुरप्रवेश-
 व्यासेधमगैलममुं न बिचारयन्ति ॥ १५ ॥

 मूडा मूर्खा नरा अरविन्दविलोचनानां कमलनयनानां स्वीणां ये सारं श्रेष्ठं बगलं निगरणं विलोक्य । चेतसि मुदं हर्ष कलयन्ति प्रामुवन्ति । हा इति वेदे । निश्चितं नियमेन अमुं. गालं आलं न विचारयन्ति । कथंभूत अर्गलम् । रचितमुक्तिधुरप्रवेशव्यास रचितो विहितो मुक्तिनगरप्रवेशस्य व्यासे धो निषेधो येन स तं रचितमुक्तिपुरप्रवेशब्यासेधम् । गलं अर्गलं वित्यम् । सारं अस अशब्देन सह वर्तते यः स सारस्तं सारम् । असहितो गल: ओलः स्यादित्यर्थः ॥

[१८] लं प्राप्य स्पर्श कुचकलशयोः पङ्कजशा
 परां प्रीति प्रातः कलयसि सुधामन्म इव किम्
अवस्कन्दं धर्मक्षितिपकटके दातुमनसा
 प्रयुक्त जानीयाः कलुष[१९]वरटेन म्यशमिमम् ॥ १६ ॥

 पजशां कमलनयनाला स्त्रीणां कुचकलशयोः रतनयोः अलं अन्य स्पर्श प्राप्य है भ्रातः, कि परामुत्कृष्ट प्रीति कलयसि प्रासोषिक इवः । सुधामन्न इव अमृते कृतमजन इब । इमं स्पर्श कलुषवरटेन कलुषं पार्थ तदेव बरटो मिल्लस्टेन अयुक्त प्रेरितं स्पर्श हेरिक त्वं जानीयाः । कथंभूतेन कलुषवरटेन धर्मक्षितिपकटके धर्म एवं क्षितिपो राजा तस्य कटके सैन्ये अबस्कन्द प्रहरणं दातुमनसा ग्रहरणं कर्तुमनसेत्यर्थः । स्पर्श स्पर्श कथ- मिति । अलं रलयोश्चकत्वस्मरणात् अरं नास्ति गरेको यत्र के अरम् । रेफ- रहितस्पर्श स्पर्श स्थादित्यर्थः ॥


पी[२०]नोन्नतं स्तनतटं मृगलोचनाया.
 आलोकसे नरहितं यदपूर्वमेतत् ।
मोहान्धकारनिकरक्षयकारणस्य
 विधास्तदस्ततटमेव विवेकमानोः ॥ १७ ॥[२१]

 यत् मृगलोचनायाः हरिणाक्ष्याः स्त्रियाः एतत् स्तनतटं कुचद्वन्दं पीनोन्नत पीन च तदुन्नतं च पीनोन्नतम्, पुनः नरहितं नरेभ्यो हितम् । पुनः अपूर्वम् । प्रतिक्षणं चमत्कारहेतुत्वात् त्वं आलोकसे पश्यसि, तत्स्तनतटं विवेकभानो विवेकसूर्यस्य अस्ततटं त्वं विद्याः । अत्र ज्ञानसूर्योऽस्ततामेष्यतीत्यर्थः । कथंभूतस्य विवेकभानोः । मोहान्धकारनिकरक्षयकारणस्य मोह एवान्धकारन्तस्य यो निकरः समूहस्तस्य क्षयकारणं तस्य मोहान्धकारनिकरक्षयकारणस्य । स्तनतटमिति विशेषणद्वयेन अस्ततटं साधयति-नरहितं तेन नकारेण रहितम् , पुनः अपूर्व ; अकारः पूर्वो यस्य तत् अपूर्वं एतादृशं स्तनतटं अस्ततटं स्यादेवेत्यर्थः ॥

कंदर्पद्विपकुम्भचारुणि कुचद्वन्द्वे मृगाच्या मया
 न्यस्तो हस्त इति प्रमोदमदिरामाद्यन्मना मा स्म भूः
किं त्वा जन्म यदर्जितं बहुविधामभ्यस्य कष्टक्रियां
 हस्तोऽयं सुकृतस्य तस्य सहसादायीति संचिन्तये ॥ १८ ॥

 मया मृगाक्ष्याः स्त्रियाः कुचद्वन्द्वे स्तनयुग्मे हतो न्यस्त करः स्थापितः । कथंभूते कुचद्वन्द्वे कंदर्पद्विपकुम्भचारूणि कंदर्प एवं द्विपस्तस्य कुम्भो गण्डस्थलं तद्वच्चारू मनोज्ञं तस्मिन्कंदर्पद्विपकुम्भचारुणि । इति हेतोः प्रमोदमदि-


रामाधन्मनाः प्रकृष्टो यो मोदः स एव मदिरा तया.माद्यन्मनो यस्य स एतादृशस्त्वं मा स्म भूः। 'माडि लुङ् इति लुङ् । 'न माल्योगे! इत्यडागमाभावः । किं तु बहुविधां तपोनुष्ठानादिरूपां कष्टक्रियां कष्टसाध्या क्रिया कष्टक्रिया तां कष्टक्रियाम् अभ्यत्य अभ्यासं कृत्वा आजन्म यदर्जितं जन्मनो मर्यादीकृत्यं यत्सुकृतमर्जितं तस्य सुकृतस्य त्वया अयं हस्तो अदायि दत्तः । यथा कस्य आजिगमिषोः हस्तप्रदानः संज्ञया निषेधयति तथा हस्तदानेन सुकृतं निषिद्धं इन्ति त्वं संचिन्तये- . विचारयरित्यर्थः । अत्र पद्ये हस्तो न्यस्तः सुकृतस्य हस्तोऽदायीति चित्रकृत् ॥

कण्ठोपकण्ठे लुलितं विभावयेर्भुजं युक्त्या भुजगं गराजितम् ।
एतस्य संस्पर्शवशादपि क्षणादशेषचैतन्यमुपैति संक्षयम् ॥ १९ ॥

 कण्डोपकण्ठे कण्ठस्य गलस्य समीपे कण्ठोपकण्ठे लुलितं वलितं युनत्याः स्त्रिया भुजं बाहुं भुजगं सर्पं त्वं विभावयेर्जानीयाः ! कथंभूतं भुजः गम् । गराजित गरेण विषेण अजितो गराजितस्तम् । एतस्य भुजगस्य संस्पर्शवसात् स्पर्शमात्रेणापि अशेषं समस्तं चैतन्यं चेतनाया. भावः क्षणात् संक्षयं भाशं उपैति प्राप्नोति । यथा भुजगस्पर्शाच्चैतन्यं याति तथा युवत्या भुजस्पर्शादेव चैतन्यनाशः स्यादित्यर्थः । भुजं भुजगं कथं स्वादिति प्रश्ने भुजं गराजितं गेन गकारेण राजितं भुज भुजगः स्यादित्यर्थः । इन्द्रवंशा नाम च्छन्दः ॥

काठावसक्ते कुपिते. नवाहौ बरं बहिःप्राणहरे प्रमोदः ।
विध्वस्तधर्मान्तरजीविते नु:[२२] स्त्रैणे न बाहौ विदुषां स युक्तः ॥२०॥

 नुः पुरुषस्य नवाहौ नवश्वासावहिश्च नवाहिस्तस्मिन्नवीनसर्पे कण्ठावसक्ते कन्ठस्थापिते वरं श्रेष्ठम् । कथंभूते. नवाहौ । कुपिते क्रुद्धे । पुनः कथंभूते नवाहौ । बहिः प्राणहरे । बहिःप्राणान्हरतीति बहिःप्राणहरस्तसिन्बाह्यप्राणनाशके । स्त्रैणे स्त्रीयामय स्त्रैणस्तस्मिन् । स्त्रीपुंसाभ्यां नव्स्रजो' इति नञ्प्रत्यय आदिवृद्धौ णत्वे स्त्रैणशब्दासिद्धिः बाहौ भुजे कण्ठावसक्ते सति या प्रमोदो हर्ष स विदुषां पण्डिताना युक्तो नः कथंभूते बाहौ । विध्वस्तधर्मान्तरजी-


विते विध्वस्तं नाशितं धर्म एवं अन्तरजीवितं येन तस्मिन् । अन्तरप्राणनाशक इत्यर्थः । अहिंस्तु कण्ठावसक्तः सन् बहिःप्राणान्नाशयति, स्त्रीणां बाहुः कण्ठावसक्तः सन् अन्तरप्राणनाशं विधत्ते । अतः सर्पादप्यधिकतरदुःखदं स्त्रीकृतालिङ्गनमित्यर्थः । अत्र नवाहावित्युभयत्र चित्रकृत । क्वयोरभेदस्तु आलंकारिकैरिष्ट एव ।

कोऽयं विवेकस्तव यन्नतभ्रुवां दोषावगूढः प्रमदं विगाहसे ।
[२३] यतः स्मरातङ्कपरीतचेतसां किं सुन्दरासुन्दरयोर्विवेचनम् ॥ २१ ॥

 हे साधो, अयं तव को विवेकः यत् नतभ्रुवां नते नम्रीभूते भ्रुवौ यासता नतभ्रुवस्तासां स्त्रीणां दोषा बाहुनावगूढ आलिङ्गितः सन् त्वं प्रमदं प्रकृi "ष्टमद विगाहसे प्राप्नोषीत्यर्थः । यतो. यस्मात् स्मरातङ्कपरीतचेतसां स्मरः कामः स एव आतङ्को रोगम्तेन परीतं व्याप्तं चेतो येषां तेषां पुरुषाणां सुन्दरासुन्दरयोः समीचीनासमीचीनयोः किं विवेचनम् । अपसारादिरोगग्रस्तानां शुभाशुभे विवेको न भवतीति युक्तमेव । पक्षे. दोषैरवगूढो दोषावगूढःं विवेकदोषयुक्त इत्यर्थः ॥

हंहो विलोक्य परमङ्गदमङ्गनाना-
 मानन्दमुहसि किं मदनान्धबुद्धे
सत्यं विवेकनिधनैकनिमित्तमेत-[२४]
 न्मेधाविनो हि परमं गदमुद्गृणन्ति ॥ २२ ॥

 हंहो इति संबोधने । हे मदनान्धबुद्धे, मदनेन कामेन अन्धीभूता बुद्धिर्यस्य तस्य संबोधने । अङ्गानानां प्रधानमङ्गं यासां तासामङ्गनानां परमुत्कृष्टं अङ्गदं केयूरं विलोक्य दृष्ट्वा आनन्द किमुद्वहसि पाप्नोषिः । मेधाविनः पण्डिता एतत् अङ्गदः परममुत्कृष्टं गदं रोगमुद्गृणन्ति प्रजल्पन्ति तत्सत्यम् । कथंभूतं गदम् । विवेकनिधनैकनमित्तं विवेको ज्ञान तस्य निधनस्य नाशनस्य एकमद्वितीयं निमित्तं कारणम् । गदो हि निधनैकहेतुर्भवत्येव । अत्र पद्ये उभयत्र परमङ्गदमिति पदं भिन्नार्थत्वाच्चिकृत् ॥


अयं जनो वलयभरं विलोकते मृगीदृशामधिभुजवल्लि बालिश:
[२५] बुध्यते सुकृतचमूं जिगीषतः समुद्यतं बलभरमेनमेनसः ॥२३॥

 अयं प्रत्यक्षगतो बालिशो मूर्खौ जनो भृगीदृशा स्त्रीणां वलयभरं वलयानां भरस्तं अधिभुजवल्लि भुजावेव वल्लिस्तस्यामिति अधिभुजवल्लि । विभक्त्त्यर्थेऽव्ययीभावः । भुजलतायामित्यर्थः । विलोकते. पश्यति । एनं वलयभरं एनसः पापस्य समुद्यतं सावधानीभूतं बलभरं सेनासमूहं न बुध्यते । कथंभूतस्य एनसः । सुकृतचमूं सुकृतस्य शीलादेः चमूः सेना तां जिगीषतः जेतुमिच्छतः । कथं वलयभरं बलभरमिति तत्रोच्यते. कथंभूतं वलयभरम् । अयं न विद्यते यो यकारो यस्मिन् सः अयस्तमयम् । यकाररहितमित्यर्थः । रूचिरा नाम च्छन्दः ॥

ये दृक्पथे तब पतन्ति नितम्बिनीनां
 कान्ताः करा जडिमपल्लवनप्रवीणाः ।
नो वेत्सि तान्किमपापुरप्रयाण-
 प्रत्यूहकारणतया करकानवश्यम् ॥ २४ ॥

 तव दृक्पथे दृष्टिमार्गे नितम्बिनीनां स्त्रीणां कान्ता मनोज्ञाः करा हस्ताः । नितम्बिनीनामिति संवन्धे बहुत्वात् करा इति बहुत्वम् । पतन्ति अवलोकन नतां गच्छन्ति । कथंभूताः कराः। जडिमपल्लवनप्रवीणाः जडिम्नो जडताया यत्पल्लवनं प्रकटीकरणं तत्र प्रवीणाश्चतुराः । तान् करान् अवश्यं निश्चयेन करकान् धनोपलान् किं नो वेत्सि न जानासि । कया। अपवर्गपुरप्रयाणप्रत्यूहकारणतया अपवर्गो मोक्षः स एव पुरं नगरं तस्मिन् प्रयागं गमनं तन्न यः प्रत्यूहो विघ्नस्तत्र यत्कारणं निदानं तस्य भावस्तत्ता तया अपवर्गपुरप्रयाणप्रत्यूहकारणतया । गमनकाले करकवृष्टिः स्वेष्टसिद्धौ विघ्नकारणं प्रसिद्धमेव । उक्तं च वसन्तराजशाकुने -'श्रीणचन्द्रतिथि दुःसहानलं दूषित धरणिकम्पनादिना । पूर्ववज्जलदसंकुलाम्बर: वर्जयेच्छकुनदर्शने दिनम्" इति । अकालवृष्टिर्गमने निषिद्धा । करकपतनं त्ववश्यं वयमेव । करान् करकान् कथामिति प्रश्नोत्त-


रम् । कथंभूताः कराः । कान्ता ककारान्ता इत्यर्थः । तादृशा करीः करकः भवन्त्येवेत्यर्थः ॥

नीव्याप्तमस्या हरिणेक्षणाया यं वीक्ष्य हार ह्रदि हर्षमेषि ।
विवेकपङ्केरूहकाननस्य तमेव नीहारमुदाहरन्ति ॥ २५ ॥

 अस्या हरिप्रेक्षणाया हरिणस्य ईक्षणमिवेक्षणं यस्यास्तस्याः यं हारं वीक्ष्य त्वं हृदि ह्रदये हर्षं प्रमोदं एषि प्राप्नोषि । कथंभूतं हारम् । नीव्याप्तं नीवीं वसनगन्थि आप्तं प्राप्तं नीव्याप्तंम् । नीवीपर्यन्तं लम्बायमानमित्यर्थः । बुधाः सं हारमेव विवेकपङ्केरुहकाननस्य बिवेक एवं पङ्केरूहं कमलं तस्य काननं वनं तस्य नीहारं हिमं उदाहरन्ति कथयन्ति । नीहारो यथा कमलकाननस्य दाहकस्तथायं हारः । हृदि हारवर्णनं विवेकनाशकमित्यर्थः । हारं कथः नीहारमिति प्रश्ने तत्रोच्यते-कथंभूतं हारम् । नीव्याप्तं नीशब्देन व्याप्तं नीव्याप्तं एतादृशं हारं नीहारं स्यात् ॥

विलोक्य किं सुन्दरमङ्गनोदरं करोषि मोहं मदनज्वरातुर ।
नो[२६] ईक्षसे दुर्गतिपातसंभवं भवान्तरे भाविनमङ्ग नो दरम् ॥ २६॥

 हे मदनज्वरातुर, मदनः कामः स एव ज्वरतेन आतुरस्तस्य संबोधनम् । सुन्दरं दर्शनार्हं अङ्गनोदरं अङ्गनाया उदरं विलोक्य त्वं कि मोहं करोषि । अङ्गेत्वामंत्रणे । भवान्तरे आगामिभवे भाविनं भवनशीलं दरं भयं कि वो ईक्षसे न विचारयसि । कथंभूतं दरम् । दुर्गतिपातसंभवं दुर्गतिर्नरकादिस्तस्यां यः पातः पतनं तस्मिन् संभव उत्पत्तिर्यस्य तम् । अत्र पूर्वं अङ्गनोदरमितिः समस्तं पदम् । परत्र अङ्ग नो दरमिति पदविभागेनार्थव्युत्पादनं चित्रम् ॥

स्फूर्जन्मनोभवभुजंगमपाशनाभी.
 नाभी कुरङ्गकदृशां दृशि यस्य लग्ना
नाभीमयं जगदशेषमुदीक्षतेऽ[२७]सौ
 यो यत्र रज्यति स तन्मयमेव पश्येत् ॥ २७ ॥

 यस्य पुरुषस्य दृशि नेत्रे कुरङ्गकदृशा वृगनेत्राणां स्त्रीणां नाभी शरीरा-


वयवाविशेषः लग्ना । कथंभूता नाभी । स्फूर्जन्मनोभवभुजंगमवाशनाभी स्फूर्जन् देदीप्यमानो यो मनोभवः कामः स एव भुजंगमः सर्पस्तस्य प्राशार्थ नाभी । कामसर्पस्थानमित्यर्थः । असौ पुमानदोषं समस्त जगत् नाभीमयं अभीमयं निर्भयं न ईक्षते। न निर्भयं जगदीक्षत इत्यर्थः । यः पुरुषो यत्र स्थाने रज्यति स पुमान् तन्मयं तद्रूपमेव पश्यति । नाभी दृशि लग्ना नाभीमयं ज्जगत्पश्यतीति न चित्रम् । नामीनासीभय मिति चित्रकृत् ॥

[२८]डोपयुक्तं जघनं मृगाक्ष्याः स[२९]मीक्ष्य किं तोषभरं तनोषि ।
अमुं विशुद्धाध्यवसायहंसप्रवासहेतुं घनमेव विद्याः ॥ २८ ॥

  मृगाक्ष्याः स्त्रिया जघनं समीक्ष्य दृष्ट्वा कि तोषभरं हर्षभरं तनोषि विस्तारयसि । कथंभूतं जघनम् । जडोपयुक्तं जडानां मूर्खाणां उपयुक्तं य योग्यं अमुं जघनं घनं मेघमेक विधा जानीयाः । कथंभूतं जघनम् । विशुद्धाध्यवसायहंसप्रवासहेतुम् । विशुद्धो निर्मलो नः अध्यवसाय: चित्ताभिप्रायः स एवं हंसः तस्य य: प्रवास तस्य हेतुः कारणं तं विशुद्धाध्यवसायहंसप्रवासहेतुम् । घनागमे हंसा मानसे गच्छन्तीति प्रसिद्धम् । जघन घनं कथं तत्राह । जडोपयुक्तं डलंयोश्चैकत्वस्मरणात जलोपयुक्तम् । जस्य जकारस्य लोगों नाशस्तेन युक्तं प्रकारं विना जघनं घनं स्यात् ॥

नितम्बमुल्लासिततापनोदं दिदृक्षसे य[३०]त्कमलेक्षणानाम् ।
सर्वात्मनात्यन्तकटुं विदित्वा तं निम्बमेव त्यज दूरतोऽपि ॥ २९ ॥

कमलेक्षणानां कमलभयानानां यं नितम्ब पृष्ठभागं दिदृक्षसे द्रष्टुमिच्छसि । कथंभूतं नितम्बर उल्लासिततापनोदं उल्लासितस्तापस्य नोदः प्रेरणं येन स तम् । ते नितम्बं निम्बसेव रिष्टं विदित्वा दूरसोऽपि स्यजः । कथंभूतं निम्बम् । सर्वात्मना पत्रफलपुष्पसमूहेन । अत्यन्तक? अतिकटुकम् नितम्बं कथं लिम्ब मिति प्रश्ने । तत्रोच्यते-कथंभूतं निम्बम् । उल्लासिततापनोदम् उल्लासित स्तस्य तकाराक्षरस्य अपनोदो नाशो यस्मिन् स तम् । तकारनाशे नितम्बो. निम्बः स्यादेवेत्यर्थः ॥


नूनं नूपुरमेतदायतदृशो शमादिविद्वेषिणां
 क्रीडार्थं पुरमित्यवेत्य न दृशाध्यालोकनीयं क्वचित्
येनास्मिन्मुखमात्रचङ्गिमगुणैराकृष्य तैरुल्बणै-
 र्बद्धस्य प्रसभं चिरादपि सखे मुक्तिर्मवित्री न ते ॥ ३० ॥

 नून निश्चितं मापत्तशः आयते विस्तीर्णे दृशो यस्यातस्या विशालनयनायाः एतन्नूपुरं चरणभूषणं समादिविद्वेषिणां रागादिशत्रूणां क्रीडार्थं विनोदार्थं पुरं नगरमिति अवेत्य ज्ञात्वा त्वया क्वचित्कदापि दृशा नेत्रेण नालोकनीयं न द्रष्टव्यम् । शत्रुपुरं श्रेयोऽर्थिना पुरुषेण न विलोकनीयमित्यर्थः । हे सखे, येन नूपुरेण अस्मिन्पुरे तैः प्रसिद्धैः मुखमात्रचङ्गिमगुणैः मुखमात्रे ये चङ्गिमाः श्रेष्टा गुणास्तैरुल्यणैरूदारैराकृष्य प्रसभं बलात्कारेण बद्धस्य ते तव चिरादपि. । भूतं नूपुरम् । नूनम् । नृशब्देन ऊनं नूनं नूशन्दरहितं नूपुरं पुरं भवतीति ॥

या स्त्रीति. नाम्ना बिभृते शमादौ शस्त्री प्रबुद्धैरवबुध्यतां-सा ।
एना पुरस्कृत्य जगत्यनङ्गभटो यतः फुम्यभटं भिनत्ति ॥ ३१ ॥

 या स्त्रीति नाम्ना स्त्रीत्यभिधानेन बिभृते धारयति सा स्त्री प्रबुद्धैनिभिः समादायुपशमादिकर्मणि शस्त्री अमुक्तायुधम् ॥ अमुक्तं शस्त्रीप्रमुखमिति । 'क्षुरी शस्त्री कृपाणिका' इति नामकोषः । अवबुध्यत्तां ज्ञायताम् । यतो यस्मात् अनङ्गभटः कामसुभटः जगति संसार एनां स्त्रीरूपां शस्त्रीं पुरस्कृत्य अग्रे कृत्वा पुण्यभटं धर्मसुभटं भिनत्ति भेदनं करोति । सुभटेन प्रतिसुभटं शस्त्र्या भेदनं विधीयत एवं स्त्रीति शस्त्री कथं तत्रोच्यते । समादौ वा स्त्री शं शकारमादौ बिभृते सदा स्त्री शस्त्री स्यादेवेत्यर्थः ॥

येयं[३१] वधूरवसिता [३२]ह्रदये प्रमोद-
  संपादनव्यतिकरैकनिबन्धनं ते ।
सा दुर्गदुर्गतिपथेन जगन्निनीषो-
 र्धूरेव मन्मथरथस्य विभावनीया ॥ ३२ ॥


 या इवं वधूः ते तब हृदये प्रमोदसंपादनव्यतिकरैकनिबन्धनम् । हृदये

यः प्रमोदस्तस्य संपादनमुत्पादन तस्य यो व्यतिकरः समूहः तस्य निबन्धनं कारणं अवसिता प्राप्ता हृदयहर्षोत्पादनकारणं वधूरिति त्वया भन्यत इत्यर्थः । सा वधूः मन्मथरथस्य धूरेव युगमेव विभावनीया ज्ञातव्या । कथंभूतस्य मन्मथरथस्य । जगत्कर्मतापन्नं दुर्गदुर्गतिपथेन दुर्गतेर्नैरकादिगतेः पन्थाः दुर्गतिपथः । 'ऋक्पूरब्धूःपथामानक्षे इति अप्रत्ययः । दुर्गतौ यो दुर्गतिपथस्तेन । चिनीषोर्नेतुमिच्छो। दुर्गतिमार्गेण संसारे नेतुमिच्छतः कामस्थस्य धूरलि न वधूरित्यर्थः । वधूः धूः कथं तत्रोच्यते-वैन वकारेण सिता बद्धा वसितान दसिता अवसिता वकाररहिता वधू,रेव स्यादित्यर्थः ॥

प्रीति तन्वन्त्यनलसदृशो यास्तरुण्यस्तवैता
 देहद्युत्या कनकनिभया द्योतिताशा किवेकिन् ।
सत्यं तासामनलसहशा संयमारामराज्यां
 मा भः पार्श्वेऽप्यसि यदि शिवावासये बद्धबुद्धिः ॥ ३३ ॥

 हे‌ विवेकिन्, या एतास्तरुण्यो नार्यः तव प्रीतिं हर्षं तन्वन्ति विस्तारयन्ति । कथंभूतास्तरुण्यः । अनलसदृशः न अलसा अनलसाः आलस्यरहिता दृशो यासां ताः अनलसदृशः । उन्निद्रनेत्रा इत्यर्थः । पुनः किंविशिष्टास्तरुण्यः । कनकनिभया स्वर्णतुल्यया देहश्रुत्या सरीरकान्त्या द्योतिताः प्रकाशिताः आशा दिशो याभिस्ता द्योतिताशाः । संयमारामराज्यां संयमश्चारित्रं स एवं आरामस्तस्य राजी परम्परा तस्यां विषये तासां स्त्रीणां अनलंसदृशां अग्नितुल्यानाम् । सलं स्वीसंपर्काचारित्रवनदाहो भवत्येवेत्यर्थः । यदि त्वं शिबाबाशये मोक्षमास्यै बद्धबुद्धिः बद्धा. बुद्धिर्येन स तादृशोऽसि तदा तासां पाश्ऽपि समीपेऽपि मा भूः । अत्र पचे अनलसहशत्वम् एकन्न वर्णत्वेन अपरत्र दाहकशक्तिदयेनोपादानं चित्रकृत् ॥

क इह विषयभोगं पुण्यकर्मायशून्यं
 स्पृहयति विषभोगं भा[३३]वयेस्तत्वत्तस्त्वम्


स्म[३४] रति न करणीयं मूर्च्छितो येन जन्तुः
 पतति कुगतिगर्ते नेक्षते मोक्षमार्गम् ॥ ३४ ॥

इहास्मिन् संसारे कः पुरुषो विषयभोगं पञ्चेन्द्रियसुखं स्पृहयति वान्छति । कथंभूतं विषयभोगम् । पुण्यकर्मायभून्यम्। पुण्यक्रर्मणः आयो लाभस्तेन शून्यम् । तत्त्वतस्त्वं विषभोगं भावये: जानीहिः । विषमभोगं विषभक्षणतुल्यं जानीहीत्यर्थः । तदेव स्पष्टयति-येन विषयभोगेन मूच्छितो मोहं प्राप्तो जन्तुः प्राणी करणीयं करणार्हं न स्मरति । पुनः मोक्षमार्गं न इक्षते । कुगतिगर्ते पतति । विषभक्षणस्य स्मरणादिन्नंशकत्वं प्रकटमेव । विषयभोगो विषभोगो भवतीत्यर्थः।

सखे सुखं वैषयिकं यदेतदाभासते त[३५]न्नर कान्तमन्तः
 सत्यं तदुत्सर्पदधप्रबन्धनिबन्धनवानरकान्तमेव ॥ ३५ ॥

 है सखे हैं नर, एतत् वैषयिक विषयेभ्यो भवं बैषयिक सुखं ते तव अन्तः चेतसि कान्तं मनोज्ञ यत् आभासते तत्सत्यम् । मिथ्या नेत्यर्थः उत्सर्पदवबन्धनिबन्धनत्वात् । उत्सर्पन्प्रसर्पन् यः अघल पापस्थ प्रबन्धः परम्परा तव निबन्धन कारणे तर भावस्तवं तस्मात् । नरकान्तमेव नरक एव अन्तो यस्य तत् नरकान्तम् । नरकमापकमित्यर्थः । अनः पये पूर्वत्र नर कान्तमिति भिन्न पदम्, परन्न नरकान्तमिति समस्त पदमिति चित्रकृत ॥

स्मरक्रीडावाप्यां वदनकमले पक्ष्मलदृशां
 दृढासक्तिर्यवामधरमधुपानं विधताम् ।
अदू[३६]रस्था बन्धव्यसनघटना क्लेशमहती
 विमुग्धानां तेषामिह मधुकराणामिव नृणाम् ॥ ३६ ॥

 स्मरक्रीडावाप्यां स्मरक्रीडार्थं वापी तस्यां येषां मनुष्याणां पक्ष्मलदृशां स्त्रीणां वदनक्रमले वदनमेव कमलं तत्र दृढासक्तिः इदा आसक्तिः तन्मयता


वर्तते इति शेषः । किं कुर्वतां येषाम् । अधरमधुपानं विदधताम् । अधरमेव

मधु पुष्परसः तस्य पानं तत् कुर्वताम् । तेषां नृणां इह वदनकमले मधुकराणां भ्रमराणामिव बन्धव्यसनघटना बन्धेन बन्धनेन यद्वव्यसनं कष्टं तस्य घटना रचना अदूरस्था समीपवर्तिनी भवति । कथंभूतानां मधुकराणाम् । नृणां च विमुग्धानां मोहदशां प्राप्तानाम् । कथंभूता बन्धव्यसनवटना । क्लेशमहती‌ क्लेशेन महती दुःसहा । यथा भ्रमराणां कमले मधुपानं कुर्वतां हासतिबन्धनकपदायिनी, तथा नृणां स्त्रीमुखकमले अधररसपान कुर्वतई चरबन्धनादि कष्टं भवतीत्यर्थः ॥

सखे संतोषाः पिब चपलतामुत्सृज निजां
 शमासमे कामं विरचय रुचि चित्तहरिण
हरन्त्येतास्तॄ[३७]ष्णां न युवतिनितम्बस्थलभुवो
 विमुक्ता नीरायैर्विमशरसंपातनिषमाः ॥ ३७ ॥

 हे सखे हे चित्तहारण, वित्तमेव हरिणो मृगस्तस्य संबोधन । चित्तस्त्र खाल्यान्मसाइयम् । वं संतोषाम्भः पिब संतोष एव अम्मो जातं पिवः । निजा स्वकीयाँ चपलता चालमुज त्यजः। काममत्वर्थ समाराम शम एम असमयस्थिम उपशुम्भवने साचि तुष्ट विरचय' कुरु मृगास्य बनेऽधिकरून्तिवाद इयोपदेशः । एता युवतिनिवस्वस्थल सुचः । युवतीमयः विलम्बाः पृष्ठभागाः त एवं स्पलभूमशः तव तृष्णां वृष न हरन्ति न चूरीकुर्वन्ति ! स्थलभुवं दृष्ट्वा तृष्णापहारों में भवतीत्यर्थः । कथंभूता युवतिनितम्बस्थलभुवः । नीरागैर्विभुक्ताः । नीराणि च अगाश्च नीरामास्तैः जलवृक्षमुताः । जलेन वृक्षच्छाया च वृषाहानिर्भवति । पुनः कथंभूता युवतिनितम्बस्थलभुवः । विषमशरसंघातविषमाः । विषमा असहा ये शरसंघाता, बाणपाता मलेविचमा दु अखो भुधि व्याधादिभिर्वाणषात्तो विधीयते, तेच तब सरण अविष्यति, न न दृश्याहानिरित्यर्थः । पझे कभूता युदतिनितम्बखतभुवः भीराः सगरहितषिमुशास्त्यकाः । विषमशरः कामस्तस्य संपातेन विषमा अममोशाः । एतेन बुवतिलिलम्बबाच्छों मा कुरु इति चिचं प्रत्युपदेशः ।


चेतचापलमाकलब्य कुटिलाकारां कुरङ्गीदृशो
 दृष्ट्वा कुन्तलराजिमञ्जनधनश्यामां किमुत्ताम्यसि ।
धर्मध्यानमहानिधानमधुना खीकर्तुकामस्य मे[३८]
 प्रत्यूहार्थमुपस्थितेत्रमुरगश्रेणीति संचिन्तयेः ॥ ३८ ॥

 हे चेतः, त्वं कुरङ्गीद्दशो मृगाक्ष्याः कुन्तलराजि शिरोरुहणि दृष्ट्वा चापलमाकलययं चावल्यं गृहीत्वा किमुताम्यति कि आकुलतां करोषिः कथंसूता कुन्तलराजिम् । कुटिलाकाराम् । कुटिलो बक आकारो अस्त्रास्ताम् । पुनः कथंभूतां कुन्तलराजिम् । अञ्जनघनश्यामाम् । अञ्जन कजलं बनो मेवस्तद्वत् स्यामां कृष्णाम् । केशानां कृष्णत्वं यौवने तयुक्त स्वियं दृष्ट्वा चिन्तचलन ल्याययम् । उन्के चपुपम् दृष्ट्वा फलं. ष्टा दृष्ट्वा च नवयौवनाम् द्रविणं पतितं दृष्ट्वा कस्य नो चलते मनः ॥' इति । में मंस प्रत्यूहाथ विनार्थ अधुना इदानी उपस्थिता प्राशा इयं उरगश्वेणी सर्पपरम्परा इति त्वं सत्रि'न्तये जानीयाः । कथंभूतस्य में। धर्मध्यानमहानिधान स्त्रीकर्तुकामस्य अङ्गीकुर्वतः धर्मध्यानं धर्मचिन्तनं तदेव महानिधानम् । यत्किंचित्कार्यकरणोधतस्य सर्पदर्शन निषिद्धम् । निधानस्वीकारे तु सर्पदर्शनमतीव बेष्टमित्यर्थः । कुन्तलस्य सर्योपमानत्वं कविसंमतभेव ॥

यातुं यध[३९]नुरुच्यते शिवपुरी रामानितम्बस्थली
 मुच्चेरमिमामना क[४०]लभक्रीडाविहारोचिताम् ।
चेयौवनचण्डवातविततव्यामोहधूलीकण-
  क्लाम्यदृष्टिरदृष्टशाश्वतपथः [४१]प्राप्नोषि जन्माटवीम् ॥ ३९ ॥

 हे पुमन , यदि तुभ्यं शिवपुरी मुक्तिनगरी यातुं गन्तुं अनुरुच्यते तदा त्वं इमां रामानितम्बस्थली ही स्त्रीनितम्बभूमि दूर दूरवो मुञ्चेः । कथंभूतां रामानितम्बस्थलीम् । अनङ्गकलभक्रीडाविहारोचिताम् । अनङ्गः कामः सं एव कलभः गजशिशुः तस्य क्रीडार्थ बिहारो विहरणं तत्रोचिता योग्याम् । चे-


दिमां दूरं न मुञ्चसि तदा किं भविष्यति तदाह-नो चेदिति । स्वं जन्माटवीं संसाराटवीं प्राप्नोषि । कथहभूतस्त्वम्। यौवनचण्डबालविततव्यामोहधूलीकणल्लास्यदृष्टिः । यौवनमेव चण्डवातस्तेन विततः विस्तारितः व्यामोहो

वैचित्यं स एव धूलीकणस्तेन क्लाम्यन्ती व्याकुला दृष्टिर्यस्य तथाविधः । अत एव अदृष्टशाश्वतपथः । न दृष्टः शाश्वतस्य शिवस्य पन्था मार्गो येन सः। रजःकणपतनं दृष्ट्वा मार्गावलोकनं न भवत्येवेत्यर्थः ।

शमधनमपहा कामचौरपचार
 विरचयतिः निकामं कामिनीयामिनीयम् ।
सपदि विदधती या मोहनि[४२]द्रासमुद्रा
 जनयति जनमन्तःसर्वचैतन्यशून्यम् ॥ ४० ॥

 इयं कामिनीरूपा यामिनी रात्रिः निकाममत्यन्तं कामचौरप्रचार काम अन्न चौरस्तस्य प्रचार विहरणशीलले विरचयत्ति प्रकटीकुरुते । कि ऋतुम् । शसधनमपहर्तुं शम उपशम एवं धनं तद्रहीतुम् । यामिन्यां धनाहरणार्थ चौरप्रचारों भवति । या यामिनी जन मनुष्य अन्त:सबैचैतन्यशून्यम् । अन्तरिति अन्त करणे सर्व च तत् चैतन्य च सेन शून्य रहितं जनयति करोति । यामिनी किं कुर्वती । सपदि तत्कालं मोइतिहासमुद्रा मोहो. मूर्छा एवं निद्रा वस्थाः समुद्री सभृद्धि विदधती ॥

 

मृगेक्षणा नूनमसावसीमा भीमाटवी बुद्धिमताम[४३]तीत्या
यद्बाहुवल्लीभिरनङ्गभिल्लो ब[४४]द्ध्वा नरांल्लम्भयते न मुक्तिम् ॥ ४१ ॥

नूनं निश्चितम् असौ मृगस्य अक्षिणीवाक्षिणी यस्याः सा मृगेक्षणा स्त्री। भीमाटवी भयानकारण्यम् । वर्तते इति शेषः । कथंभूता भीमाटवी । असीमा । न विद्यते सीमा मर्यादा यस्याः । पुनः कथंभूता । बुद्धिमतां विदुषां अतीत्यातिकमणीया यद्वाहुवल्लीभिः पस्वा मृगेक्षणाया बाहू एव वल्ल्यो लतास्ताभिः अनङ्ग एवं भिल्लस्तस्करः नरान् मनुष्यान् बद्ध्वा मुक्तिं न लम्भ-


यत्ते न कारयति । यथा अटव्यां तस्करः पश्चिकां लताभिर्बद्ध्वा सर्वस्वं गृह्णाति

तथा मृगेक्षणापि कण्ठाग्रहणं कृत्वा भरान्मुक्तिप्राप्तिं कारयतीति भावार्थः-

इयं वारंवारं द्युतितुलितरोलम्बवलयं
 न वक्रं भूचक्रं चलयति मृगा[४५] क्षी मम पुरः ।
कु[४६]धीकारागारापसरणमतिं मां [४७]स्खलयितुं
 प्रपञ्चत्पञ्चेषोर्वहति निविडं लोहनिगत्ड’ ॥ ४२ ॥

 इयं समाक्षी सुगलोचना स्त्री मम पुरः पुरस्तात् ककं भूच वारंवार अनुवेलं न चलयति । कथंभूतं भूचक्रम् । श्रुतितुलित रेलम्बवलयम् । धुत्था कान्त्या तुलितः समानीकृतो रोलम्बानो भ्रमराणां वलयो वृत्तता येन । किमेतत्तदाह-मा स्खलयितुं गमनाभादं कर्तुं पञ्चयोः पञ्च इषवो बाणा यस्थ तादशस्य कामस्य लिबिई दुःसहं लोहनिगई वहति धारयति । कि भूतं लोहनिगडम् । प्रपञ्चत् प्रपञ्चयुक्तम् । कथंभूतं माम् । कुधीकारागारपसरणमतिम् । कुत्सिता धीः कुधीः सैव कारागारं बन्दिस्थानं तस्मादपसरणे दूरगमने मंतिव तम् । अथा चौरस्त्र लोहनिगई क्षिप्त्वा कारागार मिप्यते, तथा मामपि वशीकर्तुं भूच कामख निगडं धत्ते इत्यर्थः ॥

यामोऽन्यत्र द्रुततरमितो मित्र यत्कण्ठपीठे
 नाय हारश्चकितहरिणीलोचनायाश्चकास्ति
नामौरन्धे विहितवसतिर्योऽस्ति कैदपसर्प-
 स्तन्मुक्तोऽयं स्फुरति रुचिरः किं तु निर्मोकपट्टः ॥ ४३ ॥

 है मित्र, वयं इतोऽस्मात् । अन्यन्त्र द्रुततर अतिशीनं यामी गच्छामः 'चकितह रिधोलोचनायाः। चर्किता हरिण तथा लोचने इत्र लोचने यस्यलस्थाः कण्ठपीठे यत् चकान्ति शोभते भयं हारों नास्ति किंतु यः कंदर्पसर्पः कंदर्षः कामः स एव सर्पस्तन्मुक्तस्तेन सर्पण मुक्तस्तन्युक्तः । अयं इचिरोमनोज्ञः निर्मोकपदः कञ्जुकः स्फुरति चकास्ति । कथंभूतः कंदपैसपः । नाभी


रन्ध्रे निहितवसतिः । नाभीरन्ध्रे नाभीकुहरे विहिता कृता वसतिर्वासो

येन स नाभीरन्ध्रे विहितवसतिः । अयमेवान्यन्त्र गमने हेतुः। सर्पकञ्जुकदर्शनमपि भयावहम् । नाभी सर्पविलं हारं सर्पकञ्जुकं तद्बुद्ध्या पलायनं युक्तमेवेत्यर्थः ॥

यः कामकामलविलुप्तविवेकचक्षुः
 स्वर्गापवर्गपुरमार्गम[४८]वीक्षमाणः
ज्ञानाञ्जनं प्रति निरादरतामुपैति
 भ्रातः पतिष्यति स भीमभवान्धकूपे ॥ ४४ ॥

 यः पुरुषः ज्ञानाञ्जनं ज्ञानमेवाञ्जन प्रति निरादरतामुपैति निरादुरं करोति । कधभूतो यः । कासकामलविलुतदियकचक्षुः । बामः स्मरः स एव कामलों नेत्रशेगस्तेन विलुप्तं विषेक सूत्र न्वक्षुर्यस्य स कासकामलविलुतविवेकचक्षुः । अस युब स्वर्गापवर्गपुरमार्गमवीक्षमाणः । स्वर्गो देवलोकोऽपयों मोक्षः, तावेच पुरे नगरे तयोर्मार्गस्तमवीक्षमाणः अदर्शकः एवंविधः स पुरुषः हैं भाना, भीमभवान्धकूपे । भीमो भयानकः भवः संसारः स एव अन्वकूपः तस्मिन् पतिष्यति । यः कामलारोगग्रस्तचक्षुरञ्जनं प्रत्यादरं न करोति सोऽन्धकूपे पतत्येवेति ॥

भवारण्यं मुक्त्वा यदि जिगमिषुर्मुक्तिनगरीं
 तदानीं मा कार्षीर्विषयविषवृक्षेषु वसतिम्
यतश्छायाप्येषां प्रथयति महामोहमचिरा-
 दयं जन्तुर्यस्मात्पदमपि न गन्तुं प्रभवति ॥ ४५ ॥

 हे पुमन, भवारणय संसाराटवीं मुक्त्वा यदि मुक्तिागरी शिवपुरी जिगमिषुः गस्तुमिछुरसि तदानीम् । विषयविषक्षेषु । विषया एव विषवृक्षास्त्रेषु वसति ति वं मा कार्षीः मा कुर्याः । यतो यस्मात् कारणात् एषां वृक्षाणां छायापि महामोह अचिरात् शीघ्रं प्रथयति बिस्तारयति । विषयविषवृक्षाच्छायास्पर्शोऽपि वैचित्यकारको भवतीत्यर्थः । अतः कारणात् अयं जन्तुः प्राण


अदमपि पादमावपि गन्तुं गमनाय न भवति न समो भवति । अथा-सा

भय मुक्त्वा नगरौं गन्तुकामो नरो विषवृक्षाधी वसन् मत्सो भवति तदा पदमात्रमपि न गन्तुं शक्नोति । तद्वत् संसार मुक्त्वा मुक्तिमभिलपता पुंसा विषयसेत्रायां मतिर्न कार्येति तात्पर्यम् ॥

सोमप्रभा वार्यममा च यत्नः पुंसां तमःपङ्कमपाकरोति
तदप्यमुभिन्नुपदेशले निशम्यमाने[४९]ऽनिशमेति नाशम् ॥ १६॥

 सोमप्रभा चन्दकान्ति: च पुनः अर्थनमा अर्यरः सूर्यस्य कान्तिः यत्पुंसा मनुष्याणां तमःपकमज्ञानान्धकारसमूहं न अपाकरोति न दूरीकरोति तदपि अन्तर्गतान्धकारमपि अमुस्मिकुपदेशलेशेऽल्योपदेशे निशम्यमाने श्रृंयमा सति अनिशं निरन्तरं नासमेति नाशं प्रामोति । चन्द्रसूर्यप्रभयाज्ञानान्धकार दूरीकर्तुं न शक्यते । अनेनोपदेशेन अन्तर्गतान्धकारोऽपि दूरीकर्तुं शक्यत इति । अतोऽस्योत्कृष्टत्वम् । अन्न पधे ग्रन्थका सोमाभाचार्य इति स्वनाम गोमितं चातुर्येणेति बोध्यम् ॥

संबल्स च्छोरद्विपमुनीन्दु(१७८५)मितस्य भाले
  मार्ग त्रयोदशमिते दिवसे भुगौ च ।
स्वरूपा तरी विरचिता सुखबोधिकारख्या
  श्लेषौंधदुस्तरतरङ्गिणिका सुशास्त्रे ॥
 आगरानान्नि नगरे नन्दुलालेन धीमता
 दानविशालशिष्यानुरोधेन कृपया गुरोः । (युग्मम्)
सोमप्रभाचार्यकृति सुदुर्गमा विवृण्वता स्वल्पधिया भयानः यत् ।
न्यूनाधिकोहङ्कनमल्पबुद्धितः कृतं विशोध्य कृतिभिः कृपालुभिः ॥
 श्रीजिनभक्तिसूरीन्द्रे गच्छसाम्राज्य विति ।
 अशेषमनुजन्दनतपादाम्बुजदये ।

इति सुखबोधिकानाच्या वृत्या सभेवा श्रीश[५०]तार्थवृत्तिकारश्रीसोमप्रभाचार्यविरचिता भारवैराग्यतरङ्गिणी समाशा



  1. विलोकितुमहो' इति मूलपुस्तकपाठः
  2. निमुक्रिनगर इति मूलपुतकापा
  3. अववाल नियत दूरे च इति सूलपुखकापाठः
  4. "वदावे स्वरूपम् इति भूलपुस्तकपालः
  5. निर्वचन इति सूलपुस्तक" पाठः
  6. “मयि कुवलय इति मूलपुस्तकपाठः,
  7. नास्मिन इति मूलपुस्तकपाठः
  8. क कोऽत्र नो जायते इति मूलपुस्तकपाक
  9. 'विघ्नपरम्पराम' इति मूलपुस्तकपाठः.
  10. यत्रात्यन्त इति मूलपुरखकपाठः
  11. प्रपित: इति मूलपुस्तकपाठः
  12. 'इंह स्खलनतो' इति मूलपुस्तकाठः
  13. "द्ग्धुं इति भूलपुश्तकपाठ एव समीचीनः टीकाकास्त्वगुल मेव व्याख्यासवान,
  14. संभोग' इति मूलपुस्तकमायः
  15. 'युगदं’ इति मूलभुस्तकपाठः
  16. 'यदरविन्द' इति मूलपुस्तकपाठ:
  17. "तन्निश्चित' इति भूलपुस्तक पाठः
  18. 'अरे इति मूलपुस्तकपाठः
  19. 'चरटेन इति मूलघुत्तकपाठः
  20. 'पीनोन्नतं नरहितं यदपूर्वमेतदालोकसे स्तनतटं मृगलोचनायाः' इति मूलपुस्तकपाठः
  21. मूलपुस्तकेऽस्मात्पद्यादनन्तरं एतस्या युवतेः पयोधरयुगं वल्गन्महात्मन्निदं चके योधयुगः बिरञ्चिरपरं विश्वापकारोधतः । कुर्वद्धर्मगुणेष्वयोगमनतिकामन्निजां स्तब्धतां यद्दूदपि कल्पगत्युपशमन्प्राणापनोदं नृणाम् ॥ अयं श्लोकोऽधिकोऽस्ति: अत्र अपरमन्यत्पयोधरयुगम् , अन्यत्र पकार-रेफरहितं पयोधरयुग योधयुगं भवति. वर्मगुणेति धनुर्जीवाबाणेषु योयं संबन्ध न करोतीत्यर्थः
  22. "तु' इति मूलपुस्तकपाठः
  23. 'यदा' इति मूलपुस्तकपा
  24. 'एनं' इति मूलपुस्तकपाठः
  25. 'जिगीषतः सुकृतचम समुद्यत न बुध्यते इति मूलपुस्तकपाठः
  26. 'किमीक्षसे दुर्गनिपात' इति भूलपुस्तकपाठः,
  27. 'स' इति मूलपुस्तकपात
  28. 'जलोपयुक्त' इति मूलपुस्तकपार
  29. संवीक्ष्य इति मूलपुस्तकाका
  30. "कि कमले- इति मूलपुस्तकपाठः
  31. 'बैंषा' इति मूळपुस्तकपाठः
  32. हृदयप्रमोद इति मूलयुस्तकंपाठः,
  33. 'भावयंस्तत्त्वतस्तम् इचि मूलपुस्तकपाठः
  34. स्मरति न करणीय नेक्षते मोक्षमा पतति कुगतिगर्ते. मूच्छितो ये
    चन्तुः इति मूलपुस्तक्रपाठः,
  35. 'यन्नर कान्तमेवः इति लपुस्तकपाठः
  36. मूलपुस्तके तृतीयतुरीयचरणयोर्व्यत्ययोऽस्ति
  37. प्राणान्न इति मूलपुरतकपा तृतीयवतुर्थकाराव्यत्ययश्च.
  38. ते इति मूलपुस्तकपाठः.
  39. हरिणक्रीडा-' इति मूलपुरतकपाठः.
  40. प्रातातिः इति मूलपुस्तकपाठः
  41. प्राप्ताति इति मूलपुस्तक पाठः
  42. निद्राममुद्रा इति मुलपुस्तकपाळ
  43. अतीव इति मूलपुस्तक पाठः
  44. 'बान इति मूलघुस्तक्रपाठः,
  45. "चलाक्षी' इति मूलपुस्तकपाठः
  46. क्रुधा' इति मूलपुस्तकंपाठः
  47. छलयितुं प्रपञ्चा इति मूलपुस्तकपाठः
  48. 'अवेक्ष्यमाणः इति मूलपुस्तकंपाठः
  49. 'समुपैति इति मूलपुस्तकपाठः
  50. शनार्थिसोमप्रभाचार्यकृता' सूलपुस्तकपाठ: