सामग्री पर जाएँ

शृङ्गारप्रकाशः/सप्तमः प्रकाशः

विकिस्रोतः तः

सप्तमः केवलशब्दसम्बन्धशक्तिप्रकाशः 7.1. तत्राभिधाविवक्षातात्पर्यप्रविभागव्यपेक्षासाम­थ्यान्वयैकार्थीभावदोषहानगुणोपादानालङ्काररसावियोगरूपाः शब्दार्थयोद्र्वादश समर्थः साहित्यमित्युच्यते । केषु शब्दस्.यार्थाभिधायिनी शक्तिरभिधा । तया स्वरूप इवाभिधेये प्रवर्तमानः शब्दो वृत्तित्रयेण वर्तते, ताश्रच मुख्या गौणी लक्षणेति तिस्त्राः । तत्र साक्षादव्यवहिता#्रथाभिधायिका मुख्या । गम्यमानशैर्यादिगुणयोगव्यवहितार्था गौणि । स्वार्थाविनाभूतार्थान्तरोपलक्षणा तु लक्षणेति । तथाहि ; गौरित्ययं सब्दो मुखयाया वृत्त्या सास्नादिमन्तमर्थं प्रतिपादयति, सएव तुष्ठन्मुत#्रतादिगुणसम्पदमपेक्षमाणो यदा बाढिद्धठ्ठड़14;वके वर्तते तदा गौणीं वृत्तिमनुवदति । तदाह, रूढ्या यत्र सदर्थोंऽपि लोके शब्दो निवेशितः । स मुख्यस्तत्र तत्साम्याद्र्गौणोऽन्यत्र स्खसद्गितिः ।। यदा तु शब्दाः स्वार्थतः क्रियासिद्धौ साधनभावं गन्तुमसर्थस्तदाभिधेयाविनाभूतमर्थान्तरं लक्षयति । तदा सा च लक्षणा वृत्तिः । यथा गङ्गायां घोषः प्रतिवसनक्रियाया अधिकरणभावं गन्तुमसमर्थःस्वार्थाविनाभूतं तटं लक्षयति । तदुक्तम् --- अभिधेयाविनाभूतप्रतीतिर्लक्षणेति या । सैषा विदग्धवक्रोक्तिजीवितं वृत्तिरिप्यते ।।प्रत्योकं चैतास्तिस्त्रेऽपि द्विधाभूय पृथक् षोढा भिद्यन्ते । तत्र मुख्या द्विधा, तथाभूतार्था, तद्भावापत्तिश्च । तयोः तथाभूतार्था षोढा,जातिविषया, व्यक्#ितविषया, आकृतिविषया, गुणविषया, क्रियाविषया, संबन्धविषया चेति । तत्र गौरशअवः पुरुषो ब्राह्मणो इत्यादिर्जातिविषया, यथा--- प्रसन्नाः कान्तिहरारिण्यो नानाश्लेषविचक्षणाः । भवन्ति कस्यात्पुण्यैर्मुखे वाचो गृहे स्त्रियः ।। यथा वा--- योरत्थणीए बहुणो हळाए सामए संदगमणाए । कोरच्छिपेच्छिरूए बहुप्पए एक्कमहिमीए ।। यथा च --- निजनयनप्रतिबिम्बैरम्बुनि बहुशः प्रतारिता कापि । नीलोत्पलेषु विमृशति करमर्पयितुं कुसुमलावी ।। चित्रविम्बभ्रमकिमाद्यार्थवनाचिन्याकृतिविषया यथा ---- इङ्गुदीपादयः सोऽयं श्रृङ्गेबेरपुरे पुरा । निषादपतिना यत्र स्तिग्धेनासीत्समागमः ।। श्वेतः कर्कशः कृशः स्थूल इत्यादिर्गुणविषया यथा---- श्यामलाः प्रावृषेण्याभिर्दिशो जीमूतपङ्क्तिभिः । भुवश्च सुकुमाराभिर्नवशाद्वलराजिभिः ।। यथा वा--- ताम्बूसबहलरक्तः प्रियभुक्तो धूसरः सपर्यन्तः । बालाधरोऽधिरोहति कुसुमरुचः काञ्चनारस्य ।। पक्ता पचन् पक्कः प्यमान इतयादिक्रियाविषया यथा--- दातुः स्थातुतर्द्विशषां मूÐध्न यष्टुस्तर्पयितुः पितृन् । युध्यभग्नविपन्नस्य किं दशास्यस्य शोचसि ।। यथा वा -- कुविआओपसाण्णाओ ओरुण्णमुहीओ विहसमाणीओ ऊ जहगहिआ तहहिअअं हरन्ति उच्छण्णमहिळाओ ।। पिता माता शत्रुः सीनुरौपगव इत्यादिः संबन्धविषया यथा-- सूर्याचन्द्रमसौ यस्य मातामहपितामहौ । स्वंवृतपतिद्र्वाभ्यामूर्वश्या च भुवा च यः ।। यथा वा--- सपदि सखीभइर्निभृतं विरहवतीस्त्रातुमत्र भज्यत्ने । सहकारमञ्जरीणां शिखोद्गमग्रन्थयः प्रथमे ।। अर्थस्याथात्वेऽध्यासादजिभिस्तथात्वापादनं द्भावापत्तिः । सापि षोढा, अध्यासामित्मिका, कल्पनात्मिका, विवर्तात्मिका, विपरिणामात्मिका, विपर्ययात्मिका, प्रवादात्मिका , चेति । तत्र जानतोऽप्यताÑस्मस्तदेतदित्यारोपणमध्यासः । यथा--- अइदिअर किंणपेच्छसि आआसं किमुहा पुळोएसि । जाआए बाहुमूळे मिअद्वअंदाणपरिपाडड्डत्ध्;ी ।। यथा वा--- कमलमनम्भसि कमले च कुवलये तानि कनकलतिकायाम् । सा च सुकुमारसुभगेत्युत्पातपरम्परा केयम् ।। असतोऽप्युत्प्रेक्षाकल्पना यथा--- गुणानुरागमिश्रेण यशसा तव सर्वता । दिग्वधूनां मुखे जातमकस्मादर्धकुङ्क्तुमम् ।। यथा वा---- अनिराकृततापसम्पदं फलहूनां सुमनोभिरुज्झिताम् । खलतां खलतामुवासतीं प्रतिपद्येत कथं बुधो जनः ।। वस्तुनः सन्निवेशविशेषेणावस्थानां विवर्तः । यथा--- उत्फुल्लस्थलनलिमीवनादमुष्मादुद्धूतः सरसिरुहोद्भवः परागः । वात्याभिर्वियति विवर्तितः समन्तादाधत्ते कनकमयातपत्रलक्ष्मीम् ।। यथा वा--- अस्मिन्नीशषद्वलितविषमस्तोकविच्छिन्नभुग्नः किंञ्चिल्लीनो विपिनविनतः पुज्जितश्चोत्थितश्च । धूमेद्गारस्तरुणमहिषस्कन्धनीलो दवाग्नेः स्वैरं स्रवन् सृजति गगने गत्वरान्पत्रभङ्गन् ।। वस्तुनोऽवस्थान्तरोपगमनं विपरिणामः । यथा--- य एते यज्वानः प्रतितमहसो येऽप्यवनिराः मृगाक्ष्यो याश्चैताः कृतमपरसंसारिकथया । अहो ये चाप्य्नये फलकुमुमनम्र विटपिनो जगत्येवंरूपा विलसति यदेषा भगवती ।। यथा वा--- च्युतामिन्दोर्लेखां रतिकलहभन्नंस च वलयं समं चक्रीकृत्य प्रहसितमुखी शैलतनया । अवोचद्यं पश्येत्यवतु स श्वः सा च गिरिजा सच क्रीडड्डत्ध्;ाचन्द्रो धसनकिरणापूरिततनुः ।। मिथ्याज्ञानं विपर्ययः । यथा-- हृतोशष्ठरागौर्नयनोदबिन्दुभिः निमग्ननाभेर्निपतद्भिरङ्कितम् । च्युतं रुषा भिन्नगतेरसंशयं शुकोदरश्याममिदं स्तनांशुकम् ।। यथा वा--- माभैः शशाङ्क मम शीथुनि नास्ति रूहुः खे रोहिणि वसति कातर कातर किं बिभेषि । प्रायोविदग्धवनितानवसढद्धठ्ठड़14;गमेषु पुमसां मनः प्रचलतीति किमत्र चित्रम् ।। अवस्तुष्वनपि वस्तुवन्मिथ्याप्रसिद्धिः प्रवाहः । यथा-- गन्धर्वपुरसुरायुधकुरङ्गतृष्णान्धकाररूपाणि । असतासत्यदुग्र्रहदुरापमलिनानि वृत्तानि ।। था वा--- रत्न व्छायाव्यतिकरमिव प्रेक्ष्यमेतत्पुरस्ता द्वल्मीकाग्रात्प्रभवति धनुः खण्डड्डत्ध्;माखण्डड्डत्ध्;लस्य । येन श्यामं वपुरतितिरां कान्तिमापत्स्यते ते बर्हेणे स्फुरितरुचिना गोपवेषस्य विष्णोः ।। गौणी द्विधा,. गिणनिमित्ता उपचारनिमित्ता च ।दृतत्र यसायां द्वयोर्वचनयोस्समामानाधिकरण्येन वैयधिकरण्येन वा प्रयोगः विशेषणाविशेष्यभावान्यथानुपपत्त्यैकस्य प्रतीयमानाभिधीयमानगुणाद्वारकः सम्बन्धो भवति । सा गु#िणव्यवहितार्थ गुणमनिमित्ता । तत्र च --- संसर्गिभेदकं यद्यात्सवायपारं प्रतीयत #े। गुणत्वं परन्त्रत्वात्ततस्य शास्त्र उदाहृतम् ।। गुणः स्वार्थो विशेषणं प्रवृत्तिनिमित्त्मिति चेकोऽर्थः । स धर्मगुणाक्रियाकृतिडड्डत्ध्;जातिसर्वरूपादिभेदादनन्तः । तत्सम्बन्धे यद्यपि तन्निमित्ता वृत्तिरनन्तप्रकारैव ककल्पयते तथआपि तस्याः षडेड्डत्ध्;व विकल्पा भवन्ति । मुख्याविषयः, अमुख्याविषयः, भेदविषयः, अभेदविषयः, अविसेषणविषय इति । तत्र द्वयोरपि मुख्याविशेष्यार्थयोर्धर्मादिनिमित्तमेकस्येतरविशेषणत्वं भवति स मुख्याविषयः । श धर्मनिमित्तः समासे यथा--- यो हि दीग्धसिताक्षस्य विलासवलितभ्रुवः ष। कान्तमुखस्यावशगस्तस्मै नृपशवे नमः ।। स एवासमासो यथा-- गौर्गौः कामदुघासम्यक्प्रयुक्ता स्मर्यते बुधैः । दुष्प्रयुक्ता पुनर्गौत् सैव संसति ।। क्रियानिमित्तः समासो यथा--- कत्तोसंवडड्डत्ध्;इमहं पिअसहिविअसगमोणिसीहेवि । जा जअइ गहिअकरणअरकंखिरित चं दचंडड्डत्ध्;ाळो ।। सएवासमासो यथा--- किं द्वारि देवहतके सहरकेण संवर्धितेन विषपादप एष पापः । अस्मिन्ममनागपि विकासवि#्कारभाजि भीमा भवन्ति मदनज्वरसन्निपाताः ।। यत्र विशेषणविशेष्ययोः प्रथममेवैकममुख्यं भवति असावमुख्यविषयः । स विशेष्यस्यामुख्यत्वे सामानाधिकरण्येन धर्मनिमित्तो यथा--- हिमलवलदृशश्रमोदबिन्दूपनपनयता किल तन्नवोढवध्वाः । कुतकलशाकिशोरकौ कथं चित्तरलतया तरुणेन पस्पृशाते ।। स एव क्रियानिमित्तो यथा-- मुखपङ्कजरेङ्गेऽस्मिन्भ्रूलता नर्तकी तव । लीलयाङ्गवीभ्यां दृष्टै सखि यूनां निषिढ्चति ।। विशेषस्य मुख्यत्वे वैयधिकरण्येनाकृतिनिमित्तो यथा--- पडिड्डत्ध्;पक्खमंतुंपुंजे ळावण्णकुडेड्डत्ध्; अणंगमअकुंभे । पुरिसअअहिअअधरिए कीसथणंतीथणेवहतसि ।। स एव क्रियानिमित्तो यथा-- ववसाअअरइपओसो रोसगइंददिढसिंखळापडिड्डत्ध्;बंधो । कहकबवि दासरइणोजअकेसरिपंजरोगओघणसमओ ।। यत्रैक एव शब्दोर्थे भेदप्रकल्पनया गुणनिमित्तं विशेषणविशेष्यभावमनुभवति असौ भेदविषयः । गौणमुख्ययोर्गुणनिमित्तो मुख्ययोश्च जातिनिमित्तो यथा--- तहकमळक्कमळचेदो चंदमुहि तुज्झमुहअंदो । कमलंउणकमळञ्चिअ चंदोचंदोञ्चिअवराओ ।। मुख्ययोर्गुणनिमित्तो यथा--- तालाजाअंति गुणा जालादे सहिअएण्हिघेप्पंति । रइकिरणाणुग्गहिआइ होंतिकमळाइकमळाइ ।। मुख्ययोः क्रियानिमित्तो यथा-- ग्रसमानमिवौजांसि सदसो गौरवेरितम् । नाम यस्याभिनन्दन्ति द्विषोऽपि स पुमान्पुमान् ।। स्वरूपनिमित्तो यथा-- अमृतममृतं चन्द्रश्चन्द्रस्तथाम्बुजमम्बुजं रतिररपि रतिः कामः कामो मधूनि मधीन्यपि । इति न भजते वस्तुप्रायःपरस्परसङ्करं तदियमबला धत्ते भावान् कथं सकलात्मकान् ।। साधम्र्यादिप्रसिद्धेर्यत्रोपमानमेवोपमेयं प्रत्याययत्यसावभेदविषयः । सोन्योऽक्तौ यथा--- पिबन्मधु यथाकामं भ्रमरः फुल्लपङ्कजे । अप्यसन्नद्धसौरम्यं पश्य चुम्बति कुट्मलम् ।। अनुरागवती सन्ध्या दिवसस्तत्पुररसरः । अहो दैवगतिस्चित्रा तथापि न समागमः ।। उभयोक्तौ यथा-- उपाध्वं तत्पान्थाः पुनरपि सरोमार्गतिलकं यदासाद्य स्वेच्छं विलसथ विलीनक्लमभाराः । इतस्तु क्षाराब्धेर्जठरमकरक्षारपसौ निवृत्तिःकल्यामणी न पुनरवतारः कथमपि ।। अनुभयोक्तौ यथा--- अथेदं करक्षोभिःकनकहरिणच्छद्मविधिना तथावृत्तं पापौव्र्यथयति यथाक्षालितमपि । जनस्थाने शून्ये विकलकरुणैरार्यचरितैरपि ग्रावा रोदित्यपि दलति वज्रस्य हृदयम् ।। यत्र विशेषणभूतं नाम सर्वनाम वा वि#िशिष्टगुणधर्मादिकं प्रवृत्तिनिमित्तमुपादत्ते स विशेषणविषयः । स नाम्नो विशिष्टगिणनिमित्तत्वे यथा--- भवतु रुषि कठोरा किन्तु रम्या मृगाक्षी निरुपधिमधुराणां स्वादवोऽमी विकाराः । श्रयति कठिनबावः शुक्तिपात्रेष्वपो याः कुलवनबहुमानास्तासु मुक्ताफलं ताः ।। संस्कारिक्यादिजनिकिं संज्ञामपि नामेव । तस्य यथा--- स्निग्धश्यामलकान्तिलिप्तवियतो वेललद्वलाका धना । वाताः शीकरिणः पयोदसुहृदामानन्दकेकाः कालाः । सामं सन्तु दृढं कठोरहृदयो रामोऽस्मि सर्वंसहे वैदेही तु कथं भविष्यति हहा हा देवि धीरा भव ।। सर्वनाम्नो विशिष्टगुणसम्पात्तिनिमित्तत्वे यथा--- स राजा तत्सौख्यं स च परिजनस्ते च द्वसाः स्मृतावाविर्भूतं त्वयि सुहृति दृष्टेऽद्य सकलम् । विपाके घोरेस्मिन्न खलु न विमूढा तव सखी पुरन्रधीणां चित्तं कुसुमसुकुमनारं हि भवति ।। मुख्यवद्गौणस्यापिविशेषणं तद्विशेषणमेव तत्र सर्वनाम्नो गुणसम्पत्तिनिमित्तत्वएव यथा--- छदा ... वळअ दीहिअहिमंघल्लहिनि अदेह । अन्नजीदिहरलोअणहोतहोमुहअंदहोरेव ।। विशेषणमव्यभिचरितमविशेषणं तद्धर्मादिगुणयोगेन यत्र प्रवर्तते तदसावविशेषणविपर्यासः--- .... ज हणै हलामओ विकण्णस्स कोणजीवेज्ज । सोउण तेण वि मओ रिठ्ठो सञ्च पिअबइळ्लो ।। चेतनप्रकृतेर्यथा--- सञ्चं चिअकठमओ सुरणाहो जेणहळिअधूआए । हत्थेहि कमलदलकोमलेहि चेत्तो न पल्लविओ ।। अचेतनस्य यथा-- भवतु विदितमेतत्काष्ठमेवासि सत्यं किमपरमभिधारये कानने वर्धितोऽसि । कुवलयनयनायाः पाणिसङ्गोत्सवेऽस्मिन् मुसल किसलयं ते तत्क्षणाद्यन्न जातम् ।। अचेतनस्यैव प्रभावतो यथा--- अन्विष्यद्भरयं चिरात्कथमपि प्राप्येत यद्यर्थिभिः नाथ त्वं पुनरर्थिनः प्रतिदिनं यत्नात्समन्विष्यसि । प्राप्तौ चिन्तितमात्रकं दददसौ चिन्तातिरिक्तप्रदं त्वामालोक्य विदीर्यते यदि न तद्गावैव चिन्तामणिः ।। मुख्याया गौण्या वान्यविशेषणस्य सतोऽन्यत्रारोपणमुपचारः । तन्निमित्तकोपचारनिमित्ता ; सा तु गौणव्यवहितार्थत्वात् गौणी भवति, तस्या अपि धर्मगुणकृतिक्रियास्वरूपजात्ययादयः प्रवृत्तिनिमित्ततद्भेदात् । सापि षट्प्रकारा भवति, धर्मनिमित्ता, गुणनिमित्ता, आकृतिनिमित्ता, क्रियानिमित्ता, स्वरूपनिमित्ता, जातिनिमित्ता च । तासु धर्मनिमित्ता यथा--- भवतु सुषि कठोरा किन्तु रम्या मृगाक्षी । ..... ।। तौलैः शिञ्जद्वलयसुभगैर्नतितः कान्तया मे ।। ..... ।। अत्र कठोकसुभगशब्दौ मूर्तिमद्द्रव्यप्राणिविशेषयोषणत्वेन रूढौ, रोषवलयशिञ्जयोरारोप्यमाणौ, तद्योगात्रायिकाकालयेरपि विशेषणभावमनुभवतः । गुणनिमित्ता यथा---- किमिव हि मधुराणां मण्डड्डत्ध्;नं नाकृतीनाम् । एसअवसाणविरसो ससुरेण सुओ वळअसद्दो ।। अत्र मधुरविरसाशब्दौ वा स्वान्यविशेषणत्वेन रूढौ । तद्व्यवनधानेन वर्णनयाऽऽकृतिवलयशब्दैरारोपितौ विशेषणभावमनुभवतः । आकृतिनिमित्ता यथा---- अङ्कुरिते पल्लविते कोरकिते कुसुमिते च सहाकारे । अङ्कुरितः पल्लवितः कोरकितः कुसुमितश्च हृदि मदनः ।। यथा वा--- पल्लविअं पिवअकरपल्लवेहिं पष्पुल्लिअंव णयणेहिं । फळिअं विअ पीणपओहरेहि अज्जाए---लाअण्णं ।। अत्राङ्कुरितपल्लवितादयो मूर्तिमत्सु भूरुहादिषु आकृतिविशेषतो विशेषणत्वेन रूढास्तद्व्यवधानेनामूर्तयोर्मदनलावण्ययोरारोप्यमामा गौणं विशेषणभावमनुभवन्ति । क्रियानिमित्ता यथा--- शशिनमसूत प्राची नृत्याति मदनो हसन्ति ककुबोऽपि । कुमुदरजःपटवासं वकिरति गगनाङ्गणे पवनः ।। यथा वा ---- अवऊहिअपुप्पदिसौमअं जेढद्धठ्ठड़14;णाएसे विअ पओसमुहे । माइरझिन्तउ रअणीअपरदिसाभुत्तपत्थिअम्मि मिअंके ।। अत्र सेवोपगूढादीनामन्यक्रियाणां तद्व्यवधानेनान्यत्रारोपणाद्विशेषणभावः । कथं पुनरयं भेदो गौंण्याः पृथग्भवति यत्र पसिद्धरुपमानोपमेयं गम्यते तां गुणव्यवहितार्थामगौणीयामन्योकिं्त समासोकिं्त वा वर्णयन्ति । यस्यां पुनरुपमेयेन गुणसाम्यादुपमानं गमय्ते तां गौण्यव#्यवहितार्था गौणीयां समाधिमित्याचक्षते । तदुक्तम्---उक्तास्याप्राकरणिक्तवे समासोक्तिः, प्राकरमिकत्वे समाधिरति । स्वरूपनिमित्ता यथा--- कस्य नावनितं कुर्याद्दैन्यमाता दरिद्रता । कं वा न मदयत्येषा श्रीरुन्मादकुटुम्विनी ।। यथावा--- आभरणस्याभरणं प्रसाधनविधेःस प्रसाधनविशेषः । उपमानस्यापि सखे प्रत्युपमानं वपुस्तस्याः ।। अत्र दरिद्रताया दैन्यजनकत्वेन मातृस्वपाधयारोपादपत्यता व्यवधानेन सम्बन्धो दरिद्रता दैन्यं जनयतीति वक्यार्थः । तस्य च शशिनमसूत प्राचीत्यादिवदुपचारोपपत्तिः । एवमुत्तरत्रापि योज्यम् ।।. जातिनिमित्ता यथा --- धृतिःक्षमा दमःशौचं सामथ्र्यं। (औचित्यं -इति मूलपाठः) वागनिष्ठा#ुरा । भूतानामनभिद्रोहस्सप्तैता समिधः श्रियः ।। यथा वा --- येषां प्राणिवधः क्रीडड्डत्ध्;ा नर्म मर्मच्छिदोगिरः । परोपतापः कर्तव्यं ते मृत्योपरि मृत्यवः ।। अत्राग्निसमिद्धर्मेषु मत्र्यमृत्यधर्मेषु च श्रीधृत्यादिषु मृत्युदुर्जनेषु चारोपितेषु समिन्मृत्युजात्येरेव गुणभावो न त्वग्निमत्र्ययोरिति । अमीषां साक्षादसंबन्धे दीप्तिविनाशादिधर्मद्वारक उपचारः संबन्धाय कल्पते । तेनायमर्थः सम्पद्यते । धृत्यादयः श्रियं समेधयन्ति, दुर्जना मृत्युमपि मारयन्ति । सा चेयमन्यरूओढा क्रियाऽन्यत्रारोप्यत इ#्तयुपचारवृत्तिरेव भवति । यदुक्तं ---- कुमुदानि निमीलन्ति कमलान्युन्मिन्ति च । इति नेत्राक्रियाध्यासाल्लब्धा तद्वाचिनी श्रुतिः ।। एवं पार्थो यः पूडड्डत्ध्;ामनुभवति .... । एति जीवन्तमानन्दो नरं वर्षशतादपि ।। इत्यादि च द्रष्टव्यम् । यद्यवेवं क्रियानिमित्तैषा कस्मान्न भवति ? क्रियाया एव द्रव्यजातिरूपेण विपरिणामात्, यथा ---- दैन्यमातेत्यादौ वृत्तिरुपेण । ननु च यथा गौरिव गौस्तथा समिध इतीयमपि गौणी कस्मान्न भवति ? भवति यदि समिध इत्यनेन श्रिय इति नापेक्ष्यते श्रीवह#्नेरिति वा वढिद्धठ्ठड़14;नशब्दप्रयोगो भवति । यथा--- पपसाअरूपसोधणसमओ अणंगगअकुंभेधणे । इति । एतेन दैन्यमाता दरिद्रता, ते मृत्योरपि मृत्यवं इत्यादैरपि न गौणत्वमित्युक्तं भवति । आदिग्रहमान्नामसर्वनामादेरपि भेदाभेदाभ्यासुपचारे गौणव्यवहितार्थोव गौणी भवति । स भेदोपचारे नामाध्यारोपाद्यथा --- हे हस्त दक्षिण मृतस्य शिशोर्द्विजस्य जीवातवे विसृज शूद्रमुनौ कृपाणम् । रामस्य गात्रमसि निर्भरगर्भखिन्नसीताविवासनपटोः करुणा कुतस्ते ।। यथा वा-- स्थानेऽवसीदसि रघुद्वह किं विधात रस्यास्त्वयेक्षितमलक्षणमङ्गकेषु । अद्यापि जावसि दशानन हे हनूमन् केयं तवाभिमुखवर्तिरिपोः प्रतीक्षा ।। अभेदोपचारेण सर्वनामाध्यारोपाद्यथा --- चन्द्रजोत्स्नाविशदपुलिने सैकतेऽस्तिमन्यरय्वा वादद्यूतं चिरतमभूत्सिद्धयूनोः कयोश्चित् । एको वक्ति प्रथमनिहतं कैटभं कंसमन्यः सत्यं तत्त्वं कथय भवता को हतस्तत्र पूर्वम् ।। यथा वा --- प्राप्तश्रीरेष कस्मात्पुरपि मयि तम्मन्थखेदं विदध्या -- न्निद्रामप्यस्य पूर्वामनलसमनसो नैवसम्भावयामि ।। सेतुं बध्नाति भूयः किमितिच। ( "चाऽसौ कथमिव" इति पाठान्तरम्. ) सकलद्वीपनाथानुयातः त्वय्यायाते वितर्कानिति दधत इवनाभाति कम्पः पयोधेः ।। 7.2. अत्राद्योदाहरणयो रामहनूमन्तौ नामशब्दाभ्यामतिनिष्करुणे परिभवासहिष्णौ च स्वमूर्तिभेदे संज्ञाविसेषणत्वेन रूढौ, तद्व्यवधानेन तद्विपरीतयोरुपचरितस्वमूर्तिभेदान्तरयोपारोपितावौपचारिकं विशेषणभावं भजेते इति गौणव्यवहितार्थोपचारनिमित्तोपतचारमित्तेयं गौणी । यत्र तु न भेदोपचारस्तत्र व्यवधानाभावद्रुणनिमित्तैव गौणी भवति, यथा--रामोऽस्मि सर्वंसहे, ताक्ष्र्यः सोऽपि समं निजेत विभिना जानाति मां रावणं ।। इति । कथं पुनः शब्दार्थयोरभेदेऽपि भेदव्यपदेशः । सहि राहोः शिरः गौर्गौः कामदद्देत्यादौ शब्दार्थबेद एव दृश्यते । उच्यते, अस्तितावदेन्मुख्याभावे सति प्रयोजने निमित्ते च सत्युपचारः प्रवर्तते । स चाभिन्नानां भेदव्यापदेशहेतुः, भिन्नानां चैभेदव्यपदेशहेतुर्भवति । तत्राभिन्नानां भेदो यथा--- आत्मानमात्माना वेत्सि सृजस्यात्मानमात्मना । आत्मना कृतिना च त्वमात्मन्येव प्रलीयसे ।। अत्र परमात्मव्यतिरिक्तवस्त्वन्तराभावात्कर्मादिकारकव्यतिरेकेण च ज्ञानादिक्रियानुपपत्तेरेक एव क्रतृकर्मकरणादिकरणीपचारेण भिद्यते । सिद्धे च भेदे सादृश्यनिबन्धने मुख्यानामिनोपचरितानामप्युपमानोपमेयव्यवहारः प्रवर्तते । तद्यथा--- त्वन्मुखं त्वन्मुखमिव त्वद्दृशौ त्वद्दृशाविव । त्वन्मीर्तिरिव मूर्तिस्ते त्वमिव त्वं कृशोदरि ।। वैसाद्दृश्यनिबन्धनस्तु व्यतिरेको भवति । यथा --- नाम यस्याभिनन्दन्ति द्विषोऽपि स पुमान्पुमान् । रइकिरणाणुग्गागहिआइहो#ेति कमलाइकमलाइं । ततश्च भिन्नार्थवत्सम्बन्धसम्बोभक्त्यादेरुत्पत्तिर्यथा --रामस्य गात्रमसि, हे हनूमन्निति । एतेन मुख्यगौणयोरपि उपमारुपकादयो व्याख्याताः । यथा--- अयमालोहितच्छायो मदेन मुखचन्द्रमाः । सन्नद्धोदयरागस्य चन्द्रस्य प्रतिगर्जति ।। चन्द्रमाः पीयते देवैर्मया त्वन्मुखचन्द्रमाः । असमग्रो ह्ययं शश्वदयमापूर्णमण्डड्डत्ध्;लः ।। अमृतात्मनि पद्मानि द्वेष्टरि रिनग्दातारके ।मुखेन्दौ तव सत्यस्मिन्नितरेण किमिन्दुना ।। न मीलयति पद्मानि न नभो व्यवगाहते । त्वन्मुखेन्दुर्ममासूनां हर णायैव यस्यति ।। भिन्ननामभेदोपचारो यथोत्तरोदाहरणयोः, तत्र हिल प्रतीयमानाभिधीयमानतुल्यगुणोपमानविशेषणमनेकं सर्वनामोपमानव्यवधानेनोपमेये प्रयुक्तमभेदोपचारेणोत्कर्षमारोपयति । नन्वियमन्योक्तिः समासोक्तिरुभयोक्तिर्वा कस्मान्नभवति ? तथाहि ; प्रतीयमानाभिधीयमानोपमेयगुणविभूतयः सर्वनामाध्यासेऽप्यन्योक्तिसमासोक्त्युभयोक्तयो दृश्यन्ते । तत्रान्योक्तिर्यथा--- हा सौरभं कक तत्ते क्कनु ते सन्तापहारि हा शैत्यम् । अङ्गारकारहस्ते चन्दन पतितोऽसि धिग्दैवम् ।। समासोक्तिर्यथा---- मिग्धामजातरसं कलिकामकाले बालां कदर्थयसि किं नवामलिकायाः । अन्यासु तावदुपमर्दसहासु भृङ्गं लोलं विनोदज मनः सुमनोलतासु ।। उबयोक्तिर्थया--- केनासीनः सुखमकरुणेनाकारदुद्धृतत्त्वं विकेतु वात्वमभिलवितः केन देशान्तरेऽस्मिन् । यस्मन्वित्तव्ययभरसहो ग्राहकस्तावदास्तां नास्ति भ्रातार्मरतकमणे त्तवत्परीक्षाक्षमोऽपि ।। उच्यते, यत्रोपमानमेव प्रयुक्तं प्रतीयमानभिधयीमानगुणमुपमेयं गमयति, तत्रैवान्योक्त्यादयो भवन्ति । इहतु नोपमानं प्रयुज्यते । किं तर्हि ? तद्विशेषणं सर्वनाम, तेन प्रतममोतदाहरणे नान्योक्तिर्द्वितीयोदाहरणे तु न समासोक्तिरिति । यद्येवमध्यासात्मिका तद्भावापत्तिः कस्मान्न भवति ? यथैव बालाबाहुमूले बालचन्द्रमाः, यथा वा--किमहो नृपाः समममीभिरुपपतिसुतैर्न पञ्चभिः, वध्यमभिहथ, भुजिष्यममुं सहचानया स्थविरराजकन्ययेति । उच्यते, नात्र सर्वनाम्नामेव प्रयोगः । किं तर्हि ? विशेष्याणामपीति युज्यते तत्भावापत्तिः । चन्द्रज्योत्स#्नेत्यादौ तु स्रवनामाध्यसे समाधिलक्षणयोगादुपचारगौण्यवैषा भवति, यथा च धर्मिणोऽप्यध्यासे समाधिरुपपद्यते तथाग्रतो वक्ष्याम इति । 7.3. लक्षणा द्विविधा -- लक्षणा लक्षितलक्षणा च । तयोर्यस्यामुपात्तशब्दस्यार्थस्य क्रियासिद्धौ साधनत्वायोगात् स्वार्थोऽविनाभूतमर्थान्तरं व्यवहितमेव लक्षमति सा लक्षणा, तद्गयतिरिक्ता तु वक्ष्यमाणानेकरूपा लक्षितलक्षणेति । तत्र लक्षणा षोढा, सामीप्यलक्षणा, साहतर्यलक्षणा, सहृचरितलक्षणा, हेतुलक्षणा, तादथ्र्यलक्षणा, परिमाणलक्षणा, च । तत्र गङ्गायां घोषः प्रतिवलसित, मञ्चाः क्रोशन्तीतियादिषु स्वार्थाविनाभूतसमीपार्थान्तरप्रतीतिहेतुः सामीप्यलक्षणा । यथा---- यत्तालीदलपाकपाडुड्डत्ध्;वदनं । अभिनवकरिदन्तच्छेदकान्तः कपोलः । इति ।। अत्र पाकच्छेदयोः क्रियात्वेनामूर्तत्वात्पाण्डुड्डत्ध्;त्वं कान्तत्वं चासम्भवात् समीपस्थं पक्कतालीपत्रं सद्यश्छिन्नं च हस्तिदन्तं लक्षयति । छत्रिइणो गच्छन्ति, कुन्तान्प्रवेशयेत्यादिषु स्वार्थावनाबूतसाहचर्योपलब्घार्थान्तरप्रतीतिहेतुःझ साहचर्यलक्षणा । यथा--- यं सर्वशैलाः परिकल्प्य वत्सं मेरौ स्थिते दोग्धिरि दोहदक्षे । भास्वन्ति रत्नानि महौषधीश्च पऋथीपदिष्टां दुदुहुर्धरित्रिम् ।। अत्र दोग्धृसाहचर्याच्छैलेष्वपि दुदुहुरिति प्रयुज्यते । यथा वा--- पदेपदे कूबरिणः शतंशतं शतंशतं मत्तगजान्रथेरथे । न्यवेशयद्वाजिशतं गजेगजे हयेहये कुन्तशतं शतक्रतुः ।। यत्रोक्तधर्मसहचरितोऽन्योऽपि धर्मो लक्ष्यते सा सहचरितलक्षणा । यथा--- मधुपृषत्पिङ्गाः पयोबवन्दवः । कनककफलकस्फारजघना ।। इति । अत्र पिङ्गत्वस्फारत्वसहकृतास्तदाश्रयाकारकात्यादयो लक्ष्यनेत । अन्नं वै प्राणाः, आयुर्घतमित्यादिषु स्वार्थाविनाभूतनिमित्तकारणार्थआन्तरप्रतीतिहेतुर्हेतुलक्षणा । यथा --- त्वं जीवितं त्वमसि मे हृदयं द्वितीयम्, इति । अत्र जीवितशब्देन हृदयशब्देन च जीवितचैतन्यहेतुः प्रियमोच्यते । इन्द्रस्थुणामल्लिकाप्रदीपा इत्यादिषु तदर्थप्रतीतिहेतुस्तादर्थलक्षणा । यथा--- आरूढे मलयाचलं जलनिधेः पारं परं नाटय-- न्नौदण्डंड्डत्ध्; नृपसिंहसिंहलपतेरुच्छेत्तुमच्छं यशः ।। इति । अत्र दण्डड्डत्ध्;शब्देन दण्डड्डत्ध्;नाप्रहितो लोक उच्यते । प्रस्थं पलं क्रोश इत्यादौ परिमाणासाधनभूतार्थान्तरप्रतीतिहेतुः परिमाणलक्षणा । यथा -- यस्मादनर्घाणि हृतान्यनूनैः प्रस्थैर्मुहुर्भूरिभिरुच्छखानि । आढ्यादिव प्राहुणिकादजस्त्रं जग्राह रत्नान्यमितानि लोकः ।। अत्र प्रस्थशब्देन प्रस्थपरिमाणसाधनं मानभाण्डंड्डत्ध्; काष्ठादिमयमुच्यते । 7.4. लक्षितलक्षणापि षोढैव -- रूढलक्षणा, प्रतीकलक्षणा, विवक्षितलक्षणा, विरुद्धलक्षणा, तदन्यलक्षणा, प्रकीर्णलक्षणा च । तासु यस्यां यथाकथंचिद्व्युत्पत्या लक्ष्तेनाभिधानेन रुढलक्षम एवार्थो लक्ष्यते सा रूढलक्षणा । दुरोदरश्चक्रवाको द्विरेफो भ्रमर इति । यथा-- मधु द्विरेफः कुमुमैकपात्रे पपौ प्रियां स्वामनुवर्तमानः । इति । अत्र दुरोदरत्वं द्विरेफत्वं च कुररेऽपि सम्भवति, नचात्र रूढा लक्षणेति । नायं लक्ष्ते । यत्र प्रतीकेनाभिधानैकदेशेन समुदायो लक्षित एव लक्ष्यते न यः कश्चिते सा प्रतिकलक्षणा । यथा---भीमो भीमपराक्रमः, सञ्चा अपि होइ अइअदंसणतुरीअ । अत्र स्वेन भीमशब्दो भीमसत्यशब#्दप्रतीकश्रवणात् भीमसेनः, सत्यभामेत्यभिधानयोः पूर्वलक्षितयोर्लक्षणा लक्ष्यते । न कहि भवति ज्येष्ठा ज्येष्ठेति, आद्र्रावाद्र्रेति । यत्र यथाकथंचिच्छब्दप्रयोगे विवक्षितमेव लक्ष्यानुसारतो लक्ष्यते सा विवक्षितलक्षणा । यथा -- मनसिजजैत्ररथं विलोचनार्धं । चकितहरिणीहारिनेत्रत्रिभागः । इति ।। अत्र नार्धशब्दस्य त्रिभागशब्दस्य अर्थः, किन्तु ताभ्यामसमग्रालोकनं लक्ष्यते । नहि भवति नैत्रचतुर्भागो नेत्रषड्ड्डत्ध्;भागो वेति । पदं केवकलमन्यसन्निधेर्वा यत्राभिहितविरिद्धं लक्षितमेवार्थे लक्षयति । सा विरिद्धलक्षणा । यथा विष्टर्भद्रा, अङ्गारको मङ्गलः, पुण्यवत्यह#ं यस्यासत्वमेवंविधः पतिरसीति । अत्र भद्रामङ्गलशब्दौ पुण्यवाच्छब्दश्च अभद्रमङ्गलत्वे अपुण्यवत्त्वं च लक्षितमेव लक्षयन्ति । यथा वा--- रत्नावल्यां राजा विदीषकमाह--महाब्राह्मणस्त्वमसि, कोऽन्य एवमृचामभिज्ञ इति । अत्र महाब्राह्मण इत्येनेन ऋचामभिज्ञा इत्यनेन च वृषलादप्यधमत्वं वैधेयत्वंच लक्ष्यते । यथाच मालतीमाधवे, लवङ्गिका मदयन्तिकामभिधत्ते । कहं णाम णववहूवीसंभेणापाअजाणअं लडड्डत्ध्;हविअडुड्डत्ध्;महुरभासणं अरोसमं च भादरं दे भत्तारं समासादिअ, पिअसही दुम्पणइस्सदि । अत्र नववधूविस्त्रम्भणोपायज्ञत्वादियस्तद्विरुद्धमर्थं लक्षयन्ति। एवमन्येऽपि यथा--- इदमम्लानमानाया लग्नं स्तनतटे तव । छाद्यतामुत्तरीयेण नवं नखपदं सखि ।। कुविआओपसण्णाओ ओरुण्णमुहिओ विहसमाणीओ । जहगहिआ नहहिअअं हरंति उच्छण्णमहिलाओ ।। वयं तथा नाम यथात्थ किं वदाम्ययन्तवकस्माद्विकलः कथान्तरे । कदम्बगोलाकृतिमाश्रितः कथं विशुद्धमुग्धः कुलकन्यकाजनः ।। एतेष्वम्लानमानशब्देन मानभङ्गः, उत्सन्नशब्देनानुच्छेदाशीः, विशुद्धमुग्धशब्देनाविशुद्धिरमौग्ध्यं च लक्ष्यते । यत्राभिहितशब्दार्थतिरस्कारेणार्र्थान्तरं लक्ष्यते सा तदन्यलक्षणा । यथा--- सुवर्मपुष्पां पृथिर्वीं चिन्वन्ति पुरुषास्त्रयः । शूरश्च कृतविद्यश्च यश्च जानाति सेवितुम् ।। अत्र न सुवर्णशब्दार्थो, नापि पुष्पशब्दार्थः । किन्तु सुर्र्णशब्देन सर्वपुरुषार्थमूलं हिरण्यं, कपुष्पशब्देन च प्रसवार्थो लक्ष्यते । ताभ्यां च लक्षिताभ्यां व्यवसायिनां पुरुषविशेषाणां वसुमती सर्वान्कामान् प्रसूत इति । उक्ताभ्योऽन्या प्रकीर्णलक्षणा । यथा --- दशरश्मिशतोपमद्युतिं यशसा दिक्षु दशस्वपि श्रुतम् । दशपूर्वरथं यमाख्याया दशकण्ठारिगुरं विदुर्बुधाः ।। हिंरण्यपूर्वं कशिपुं प्रचक्षते । तुरङ्गकान्तामुखबव्यवाहज्वनालेव हित्वा जलमुल्ललास ।। इति । अन्ये पुनर्लक्षितलक्षणामन्यथा व्यचक्षते । लक्षणयोपचरितवृत्त्या गोण्याभिहितार्थेन यत्रार्थान्तरं लक्ष्यते सा लिक्षतलक्षणेति । यथा---रथावयवायुधः, पङ्क्तिरथः, रथाङ्गनामेति, अत्र रथावयवशब्देन दशशब्दः, ताभ्यां चायुधसन्निधेश्चक्रायुधः, दळरथः, इति देवविशेषराजविशेषौ लक्ष्यते । रथाङ्गमित्यनेन रथैकदेशो लक्ष्यते ; तेन चक्रशब्दः . नामेत्यनेन परिभाषणं लक्ष्यमाणार्थः, ताभ्यामन्योन्यसन्निधेश्चक्रनाक इति पक्षिविशेषो लक्ष्यते इति । असायश्च प्रबन्धेषु भूयसा प्रयोगः । तद्यथा -- सूर्हवेहिसलं विच्छुहमाणेन उढ्ढलोएण । एकग्गामेपिविओ इमेहिं अÏच्छहिविअणदिट्ठो ।। अत्र सूचीवेधे मुसलप्रवेशो न सम्भवति, जनस्तु तामपि करोतीत्यनेन लक्षितेन तस्यासम्भाव्यामानार्थावादिता लक्ष्यते । यथा-- चुंबुज्जइ सअहुत्तं अपवाहिज्जइ सहस्ससअहुंत्तं । रमिअपुणो विरमिज्जइ पिएजणे णत्थि पुणरुत्तं ।। अत्र पुनरुक्ताशब्दोऽप्यर्थवान् पुनः प्रयोगविशेषे वनिरुढशक्तिः क्रिया पुनः करणसामान्यं लक्षय ...... विपक्षिचुम्बना .... णविशेषयथ्र्याय लक्षयति । एवं ---- दुइ तुमं विअणिअणा कक्कसमहुअइ णवणाइ । णिरहंकारमिअंका हरंति नीलाओ विअ णिसाओ ।। अत्र मत्तनिरहङ्कारशब्दावनिभृतत्वं च लक्ष्यन्तौ चेतनेषु रूढावचेतनेषु प्रयुज्यमानौ तयोरपि तथाविधार्थयोगं लक्षयतः । किञ्च ---- अण्णं लडड्डत्ध्;हत्तणअं अण्णञ्चिअअंगवढ्ढणच्छाआ । सामासामण्णवआ पइस्सरेहञ्चिहणहोइ ।। अत्र रेखाशब्देन चित्रालेख्यं लक्ष्यते, न च विशिष्टं रूपनिर्माणमिति । अपरं, अगणिअ नअणाआसा माळिषुळोइज्जतजंकतको होसि मअणस्स ।। अत्र मदनस्य को भवसीत्यनेन तत्सनाभित्वं लक्ष्यते । तेनच तदौपम्यमिति । तथा--- प्रतोव्छत्याशोकीं किसलयपरावृत्तिमधरः कपोलः पाण्डुड्डत्ध्;त्वादवतरति तालीपरिणतिम् । परिम्लानप्रायामनुवदति दृष्टिः कमलिनीं नवीनस्तन्वङ्ग्या मनसिजविकारो विजयते ।। अतः प्रतीच्छत्यवतरत्यनुवदतीति चेतनधर्मैरचेनप्रयुक्तैरुपलक्षितेषु धारणप्राप्त्यनु.......किसलयपरावृत्त्या श्वसधूसरत्वं लक्ष्यते । तेनापि तत्सामीप्यादशोककिसलयौपम्यमिति तालीपरिणत्या कलमलिनीपरिम्लानकतया च विरहकाश्र्य, तेन स्नेहातिरेक इति । एवं---- परिम्लानं पीनस्तनजघनसब्गादजुभयतस्तनोर्मध्यास्यान्तः परिमिलनमप्राप्य हरितम् । इतं व्यस्तनयासं श्लथभुजलताक्षेपवलनैः कृशाङ्ग्याः सन्तापं वदति बिलिनीपत्रशयनम् ।। अत्र वदतीत्यनेनोपतचारवृत्या ज्ञापयतीति, कपरिम्लानमित्यादिभिस्तद्धर्मैस्तस्यास्तुनुसन्निवेषचारुत्वोत्कर्षो लक्ष्यते । अपि च --- निर्माल्यं नयनश्रियः कुवलयं वक्त्रस्य दासः शशी कन्दर्पस्य धनुर्लता किमपरं द्वारि भ्रुवोर्धार्यते ।। इति ।। अत्र निर्माल्यदासशब्दाभ्यामुपचारवृत्त्या हीनत्वेन लक्षितेन नयनवक्त्रयोरुमोत्कर्षो लक्ष्यते । कन्दर्पधनुर्लतायास्तु द्वारप्रवेशापाकरणोपलक्षणेन तयोरपि हीनत्वेन सुतरां ब्रूते । कुञ्च ---- यत्तालीदलपाकपाण्डिड्डत्ध्; वदनं यद्दुर्दिनं नेत्रयोः । यञ्चानर्तितकेलि पङ्कजदलं श्वासाः प्रसर्पन्ति च ।। अत्र दुर्दिनं नैत्रायोरित्यत्र दुर्दिनशतवृष्टिमेघाहतशोभेऽढिद्धठ्ठड़14;न रूढाभिधानशक्तिर्नेत्रयोरसम्भाव्यमानत्वेन स्वार्थाविनाभूतं पयःप्रवाहं लक्षयन्नश्रुप्रवाहं लक्षयति । अन्यञ्च ---- अतिक्रन्तसुखाः कालाः प्रत्युपस्थिदारुणाः । शश्वत्पापीयदिवसाः पृथ्वी।(अत्र "श्वश्श्वःपा"-"पृथिवी"-इति पाठावन्तरम्.) च गतयौवना ।। अत्रातिक्रन्तसुखत्वादिति चेतनधर्मैरचेतनेषु कालादिष्वरोपितैस्तेषु तदसम्भवेन तदविना भूतास्तद्गताः प्राण्यादयो लक्ष्यन्ते । तेनात्मनिर्वेद इति । अपरश्च --- इदमन्धतमः कृत्क्नं जायेत भुवनत्रयम् । निश्वासान्ध इवादर्शश्चन्द्रमा न प्रकाशते ।। अत्र यथा अन्धे रूपविशेषाभिव्यक्तिर्न सम्भाव्यते एवं तमस्यपि यत्र नीरन्धे रूपविशेषाभिव्यक्तेरसम्भवस्तदन्धतम् इत्युच्यते, तथा यथान्धो रूपग्रहमासमर्थ एवमादर्शोऽपि । यो रूपमृग्रहणासमर्थः सोऽन्ध इत्युच्यते । तत्रोपचरितवृत्तौ योऽन्धवन्न पश्यति स एवान्ध इत्य#ुच्यते । इह यत्र किञ्चिन्न दृश्यते तत्रापि अन्धशब्गदोपलक्षितलक्षणया प्रवर्तत इति । एवमन्यदपि यथा--- स्वल्पै रसावपि न दह्यत एव काष्ठैः । वअस्स तुमंपि थेव चंदणरसेण सामा ... ज्जसि ।। अत्र पूर्वस्मिन्नथाश्रुतार्थो वर्णनीये सम्भवः । यथा विक्रमादित्यस्थथायमपि महापुरुषविशेष इति लक्षयति । ततेन च स्वल्पैर्वचोभिरनाख्येयं माहात्म्यादिगुमगौरवमुभयोरपि लक्षयति । उत्तरत्र तु स एवार्थो लक्षणया वैपरीत्येनाख्यायत इत्येवमयमनन्तो लक्षितलक्षणव्यापारःप्रबन्देषु लक्षणीयः । यथा---- एकाहिअद्धिहि सावणुअ नहि भद्दवओ । माहवुमहिलपत्थ ......उत्थवेसरओ ।। अंगहिगिंहसुगच्छडिड्डत्ध्;तिलवणेमग्गरूमुद्धहे । मुमुहषंकअसरे आवासिओसिसिरु ।। नीहारजालमलिनः पुनरुक्तासान्द्राः कुर्वन्वधूजनविलोचनपक्ष्ममालाः ।। क्षुण्णः क्षणं यदुबलैर्दिवमातितासुः पांसुद्रिशां मुखमतुत्थयदुत्थितोऽद्रैः ।। शब्देष्वर्थेऽभिधानदानाभिप्रयो विवक्षा । यदाह---वक्तुर्विवक्षितपूर्विका शब्दप्रव-त्तिरिति । त्रिधा हि वाड्ड्डत्ध्;य्यः, अपौरुषेयमर्षें पौरषेयं च । तत्र शब्दप्रधानमपौरुषेयं मान्त्रो ब्राह्मणं च । तत्र वक्तुरभावाद्विवक्षा नोपपद्यते । अर्थप्रदानमार्षे स्मृतिरितिहासश्च । तत्र विवक्षामात्रं प्रवर्तते --- लोकिकानां हि साधूनां वागगर्धमनुवर्तते । ऋषीणां पुनराद्यानां वाचमर्थोऽनुवर्तते। ("धावति" इति पाठान्तरम्.) ।। इति ।। प्रधानं पौरुषेयं च तदुभयमप्यभिनिविषअटबुद्धिनां विशिष्टवि वक्षाभ्यो जायते । तद्यथा---विवक्षातः कारकाणि भवन्ति । अक्षान्दीव्यति अक्षैर्दीव्यति एक्षेषु दीव्यत इति । ववाहको विद्योतते, वलाहकसय विद्योतत इति । शक्तिमात्रा समूहस्य विश्वस्यानेकधर्ममः । सर्वदा सर्वथाभावात्क्कचिञ्चिद्विवक्ष्यते ।। कारकेष्वष्यप्यकारकविवक्षा यथा---मातुः स्मरति, सर्पिषो जानीते, न माषाणामश्नीयात् । नैते सुखस्य जानन्ति येन वत्स्यन्ति नन्दने ।। इति । अत्र कर्मादिषु शेषत्वेन विवक्षितेषु सम्बन्धमात्रे षष्ठी न कर्मकरणकर्तृष्वपि कारकविभक्तिरिति । अकारकेषु कारकविवक्षा यथा--भवति, पचति, भवति पक्ष्यति, भवत्यपाक्षीत् । अस्तिगच्छामो वयमिति । तथा स्मरसि काश्मीरेषु वत्स्यामः । एहि मन्ये न यास्यासि, पश्य मृगो धावति, इह पश्यमामः, कर्मणि द्विवचनबहुवचनान्युदाह्रियन्त इति । क्रियायामपि कारकविवक्षा यथा---चोरस्य रूजति, चोररस्यमयित, चेरं ज्वयति, चोरं संतापयतीति । अत्र रुजार्थानां यथा--चोरस्य रुजति, चोरस्यामयति, चोरं ज्वरयति, तचोरं संतापयतीति । अत्र रुजार्थानां भाववचनानामडड्डत्ध्;ज्वरिसन्ताप्योरिति भावस्यैव कर्तृत्वम् । अक्रियायां क्रियाविवक्षा यथा--नीलति वनम्, श्वेतते प्रासादः ।। विषवृक्षोऽपि संवध्र्य स्वयं धेतेतुमसाम्प्रतम् ।। इति ।। क्रियायां क्रियान्ततरविवक्षा यथा---एसितुमिच्छिति, कमितुं कामयते, भवेदपि भवेत्, सायदपि स्यादिति । 7.5. कारकेऽपि क्रियाविवक्षा यथा--द्रष्टुं चक्षुः, योद्धुं धनिः, गन्तुमनाः गन्तुकाम इति । अत्र क्रियायां क्रियार्थायामुपपदे तुमुन् भावउक्तः । स चक्षुरादीनां क्रियाविवक्षामन्तरेण न सिध्यतीति । असम्बन्धे सम्बन्धविवक्षा यथा--- राटोपमुवींमनिशं नदन्तो यैः प्लावयिष्यन्ति समन्ततो।मी । तान्योकदेशान्निभृतं पयोधेरम्भांसि मेघान्पिबतो ददर्श ।। अचेतनेषु चैन्तयविवक्षा यथा--नदीकूलं पिपतिषति, अश्मा लुनोधिमिच्छति । .....विवक्षा यथा--- अश्वारोहः पिपतिषति । प्रधाने गुणविवक्षा यथा--बलाकायाः शौक्ल्यम्, काकस्य काष्ण्र्यमिति । गुणे प्रधानविवक्षा यथा--मधुरो रस आप्याययति, आम्लो दीपयतीति । अवयवे समुदायविवक्षा यथा---ग्रामो दग्धः, पटो गग्धः, अक्ष्णा काणः, पादेन स्वञ्च इति । समुदाये अवयवविवक्षा यथा---दोर्दण्डड्डत्ध्;चण्डिड्डत्ध्;ममात्रारोपणीये धनुषि सति पदातिलवे लक्ष्मणेन प्रभुरार्यः मामपि तस्यैव सुगृरहीतनाम्नो देवस्य भृत्यपरमामुं विकुक्षिनामानमवधारयतु भवतीति । अबेदे भेदविवक्षा यथा---पटुभाषी भवान् पटुरासीत् । पटुतरः एषः । अन्य एवासीत्सम्पन्नः, राहोः शिरः, शिलापुत्रसकस्य शरीरमिति । भेदेऽप्यभेदविवक्षा यथा---तानेव शालीनश्नीमो ये मधुरायां, तानेव शाटकानाच्छादयामो ये पाठलिपुत्र इति । असतो विवक्षा यथा---समुद्रः कुण्डिड्डत्ध्;का, विन्ध्य#ो वर्धइतकमिति । सतोऽप्यविवक्षा यथा---अनुदरा कन्या, अलोमिका एजकेति । सदलतोर्विवक्षा यथा--तदिदमपमेधोदयं वर्षं,सोच्छ्वासं मरणमिति । सदसतोरविवक्षा यथा---शेलाधिराजतनया न ययौ न तस्थाविति ।। स्तुत्या निन्दाविवक्षा यथा--- गुणानामेव दौरात्म्याद्धुरि धुर्यो नियुज्यते । असञ्जातकिणस्कन्धः सुखंस्वपितिगौर्गली ।। निन्दया कस्तुतिविवक्षा यथा--- चपलो निर्दयाश्चासौ जनः किं तेन मे सखि । आगः प्रमार्जनायैव चाटवो येन शिक्षिताः ।।विधिना निषेधविवक्षा यथा---- गच्छ गच्छसि चेत्कान्त पन्थानः सन्तु ते शिवाः । ममापि जन्म तत्रैव भूयाद्यत्र गतो भवान् ।। निषेधेन विधिविवक्षा यथा--- मागच्छ प्रमदाप्रिय प्रियाशतैर्भूयस्त्वमुक्तो मया बाला प्राङ्गणमागतेन भवता प्राप्तनोत्यवस्थान्तरम् । किञ्चास्याः कुचभारपीडड्डत्ध्;नपरैर्यत्नप्रबन्धैरपि त्रुट्यत्कञ्चुकजाकैरनुदिनं निस्सूत्रमस्मद्गृहम् ।। एवमियमनेकधा विवक्षा विप्रथते तदेष लोकिकवादः ---- ।("अपारे काव्यसंसारे"इति पाठानतरम्.)अस्मिन्नपारे संसारे कविरेकः प्रजापतिः । यथास्मै रोचते विश्वनं तथेदं परिवर्तते ।। अपि च--- ठिअमठ्ठिअंबदीसइ अ ठिअंपिजहठ्ठिअंवपडिड्डत्ध्;भाइ । जहसंचट्टिअंबवजसइ सुकईणइमाओपअईओ ।। किञ्च--- क्कचित्स्वल्पेऽप्यर्थे प्रचुरवनैरेव रचना क्कचिद्वस्तु स्फरं कतिपयदैर्पितरसम् । यथा वाच्यं शब्दाः क्कचिदपि तुला.यामिव धृता स्त्रिभिः क्लपैरेवं कविवृषभसन्दर्भनियमः ।। विवक्षा लोकव्यवहारे काव्यन्यवहारे च सुमतिभिरुन्नीयमाना त्रिधा विखअयाते, काक्कादिव्यङ्ग्या, प्रकरणादिव्यङ्ग्या ,अभिनयादिव्यङ्ग्या च । तत्र काकुः स्वरो विच्छेद इति काक्कादयः । तेषु --- भिन्नकण्ठध्वनिधीरैः काकुरित्याभिधीयते । सा त्रिधा---नियतप्रतिबन्धा, अनियतप्रतिबन्धा, अप्रतिवन्धा च । तासु नियतप्रतिबन्धा द्विधा, साकाङ्क्षा निराकाङ्क्षा च । तयोर्वाक्यान्तरापेक्षियणी साकाङ्क्षा । सा त्रिधा--आक्षेपगपर्भा, पश्नगर्भा, वितर्कगर्भा च । वक्यान्तरभाविनी निराकाङ्क्षा । सापि त्रिधा, विधिरूपा उत्तररूपा निर्णयरूपा च । तदेव वाक्यं काकुविशेष्ण साकाङ्क्षं, तदेव काक्कन्तरेण वनिराकाङ्क्षाम् । तत्राक्षेपगर्भा यथा--- यदि मे वल्लभा दूती तदाहमपि वल्लभा । यदि तस्याः प्रिया वाचस्तन्ममापि प्रियप्रिया ।। इयमेव निर्दिष्टुर्विधिरूपा । प्रश्नगर्भा यथा--- गतः स कालो यत्रासीन्मुक्तानां जन्मवल्लिषु । वर्तन्ते साम्प्रते तासां हेतवः शुक्तिसम्पुटाः ।। इयमेवोपदेष्टुरुत्तररूपा । व् िनवजलधरः सन्नद्धोऽयं न धृष्टनिशाचरः सिरधनुरिदं दूराकृष्टं न तस्य शरासनम् । अयमपि पटुर्धारासारो न बाणपरम्परा कनकनिकषस्निग्धा विद्युत्प्रिया न ममोर्वशी ।। इयमेवोपदेष्टुर्निर्मयरूपा । एवमन्या अपि --- सर्वक्षितिभृतां नाथ दृष्ट सर्वाङ्गसुन्दरी । रामा रम्ये वनान्तेऽस्मिन्मया विरहिता त्वया ।। इत्यादयो द्रष्टव्याः । ता इमास्तिस्रोऽपि नियतप्रतिबन्धा । अनियतप्रतिबन्धा पुनरनन्ताः । तास्वभ्युपगमानुनयकाकुर्यथा--- युष्मच्छासनलङ्घनांहसि मया मग्नेन नाम स्थितं प्राप्तानामविगर्हणां स्थितिमतां मध्येऽनुजानामपि । क्रोधोल्लालितशोणितारुणगदस्योच्छिन्दतः कौरवा- नद्यैकं दिवसं ममासि न गुरुर्नाहं विधेयस्तव ।। अभ्यनुज्ञोपहासकाकुर्यथा --- मथ्नामि कौरवशतं समरे न कोपाद्दुश्शानस्य रुधिरं न पिबाम्युरस्तः । सञ्जीर्णयामि गदया न सुयोधनोरु सÏन्ध करोतु भवतां नृपतिः पणेन ।। विषान्नाद्याक्षेपकाकुर्यथा-- लाक्षागृहानलविषान्नासभाप्रवेशैः प्राणेषु वित्तनिचयेषु च नः प्रहृत्य । आकृत्य पाण्डड्डत्ध्;ववधूपरिधानकेशान् स्वस्था भवन्तु मयि जीवति धार्तराष्ट्राः ।। एवमन्या अपि ---- शल्यमपि स्फुरदन्तं सोढुं शक्येत हालहलदिग्धम् । धीरैर्न पुनरकारणकुपितखलालीकदुर्वचनम् ।। इत्यादयो द्रष्टव्याः ।। अप्रतिबन्धा तु एकगुणा द्विगुणा त्रिगुणा च । तत्रैकगुणा यथा--- भ्रुकुटिरारचिता गतमग्रतो हृतमथाननमुक्तमसाधु वा । इयमपि प्रभुता क्रियते बलादकुपितोपि हि यत्कुपितो जनः ।। द्विगुणा यथा --- किं किरातेन यञ्चक्रे समाकृष्य शिलीमुखान् । शिलीमुखान् समाकृष्य किं किरातः करोति तत् ।। त्रिगुणा यथा --- सेयं पश्यति नो कुरङ्गकवधूत्रस्तेयमुद्वीक्षते तस्याः पाणिरयं न मारुतचलः पत्राकृतिः पल्लवः । तारं रोदिति सैव नैष मरूता वेणुः समापूर्यते सेयं मामभिभाषते प्रियतमा नो कोकिलः कूजति ।। चतुर्गुणा खल्वपि यथा --- उच्यतां स वचनीयमशेषं नेश्वरे पुरुषाता सखि साध्वी । आनयैनमनुनीय कथं वा विप्रियाणि जनयन्ननुयेयः ।। किं गतेन नहि युक्तमुपैतुं कः प्रिये सुभगमानिनि मानः । योषितामिति कथासु समतैः कामिभिर्बहुरसा धृतिरूहे ।। सख्या वा नायिकाया वा सखीनायकयोरथ । भूयसीनां सखीनां वा वाचि काकुरिह स्थिता ।। एवमन्या अपि कोऽहिमित्यादयो द्रष्टव्याः । स्वरास्भिधा --- प्लुतादयः, उदात्तादयः, प्रगृह्यादयश्च ते षु प्लुतादयो यथा-- सुभ्रुत्वं कुपितेत्यपास्तमशनं त्यक्ताः कथा योषितां दूरादेव विवर्जिताः सुरभयः स्रग्गन्धधूपादयः । कोपं रागिणि मुञ्च मय्यवनते दृष्टे प्रसीदाधुना सर्वं त्वद्विरहाद्भवन्ति दयिते सर्वा ममान्धा दिशः ।। तदेतत्प्रियतमाप्रसादनपरमपि वाक्यं दृष्टे इत्यत्र सम्बुद्धौ प्लुतस्वरकणादुत्कुपितदृष्टिप्रसादनपरं सम्पद्यते । आदिग्रहणेन ह्रस्वदीर्धानुनासुकाः सङ्गह्यन्ते । तत्र हि ह्रस्वरकणादर्थभेदो यथा--- अश्ववदिति सम्बोधनं प्रतीयते । दीर्घकरणादर्थभेदो यथा -- विश्वाम#ित्रो विश्वानर इति ऋषिः संज्ञा च प्रतीयते । अनुनासिककरणादर्थभेदो यथा -- गम्भूरआँ अपः, आङोऽनुनासिकश्छन्दसीति ईषदादिर्थः प्रतीयते, न स्थाणुः । दिनं यथा--- आ ज्ञातं स जटायुरेषु जरसा क्लिष्टो वधं वाञ्छति । उदात्तादयो यथा -- कालो रवोऽस्येति कलरवः, एकः पुत्रोऽस्तेत्येकपुत्र इति । समासे बहुव्रीहिस्वरो भवति, स च पूर्वपदस्यान्तोदात्तः । कलश्चासौ रवश्च एकश्चासौ पुत्रश्चेति समासे क्रमधारयस्वरो भवति । स च समासस्येति समासस्यान्तोदात्तो भवति । ताभ्यां चान्यपदार्थ उत्तरपदार्थश्च प्रतियते । तदुक्तम् -- संशयाय दधतोः सरूपतां दूरभिन्नफलयोः क्रियां प्रति । शब्दशासनविदः समासयोर्विग्रहं व्यवससुः स्वरेण ते ।। आदिग्रहणेनानपदात्तस्वरितैकश्रुतयः सङ्गृह्यन्ते । तत्रानुदात्तादर्थभेदो यथा -- पूर्वोक्तयोरेवोदाहरणयोरन्यपदार्थः प्रतीयते नचोत्तरपदार्थ इति । स्वरितादर्थभेदो यथा-- भ्रातृव्य इति भ्रातुव्य इति भ्रातुरपत्यं योरन्यपदार्थः प्रतीयते, न सपत्नः । एकश्रुतेरर्थभ#ेदो यथा-- आगच्छ भो माणवकदेवदत्ता3 । आग्निर्मूर्धा दिवः ककुत्पतिः पृथिव्या अयं, अपां रेतांसि जिन्वतो ...... पुत्रैक । आश्रुतेर्यथा -- ..... दूरादाढद्धठ्ठड़14;वानयज्ञक ... सन्धीयते । तत्स्वरोऽपि तास्थ्यात् प्रगृह्य इत्युच्यते । ततोऽर्थभेदो यथा --- आलीक आगच्छामि तामित इति सखीभ्यामिवागन्तव्यमित्यर्थः प्रतीयते । नागन्तूनां पिङ्क्तरस्मरादति, आदिग्रहणेन सन्धेयसंवृता वृद्धाः सङ्गह्यन्ते । तत्र सन्धेयादर्थभेदो यथा-- आङ्गिरस इति । विच्छेदस्त्रिधा -- पदविच्छेदो । तेषु शृङ्खला यथा--- कान्तारतरुतलासितमृगयुवरचितान्तराहरत्यटवी, इति । अत्र यदा कान्तराः तरुतलः आन्तरा इति पदच्छेदस्तदा प्रियासम्भोगमणितहर्षितव्याधप्रधानव्याप्तामध्ये इति । सेयं शृङ्खलेवान्योन्यसङ्कलाच्छङ्खला । भङ्गो यथा --- जाय ...... वाक्यं निन्दार्थ क्रियते सेयं पदद्वैधीभावो भङ्गः । परिवर्तको यथा -- कलिकामधुगर्हणेत्यविकृतमेव विच्छिद्यते । कुटमलकरन्दनिष्यन्देत्यर्थप्रतीतिः । यदातु कलिकामधुक् अर्हणेति तदा पूजनैव कलिकाले कामधेनुरिति । सोऽयं गकारकारयोः परिवर्तने परिवर्तकः । चूर्णकं यथा--पश्य सलिलं पयोधेर्दूरसमुन्मुक्तशुक्तिमीनाङ्कान्तम् । मत्स्यानां वल्लभं पयोध#ेर्जलमवलोकयेत्यर्थः । यदा तु दूरसं उन्मुक्तशुक्तिमीनाङ्कान्तमिति, तदा दुःखेन रसनीयं उद्वान्तमौक्तिकाधारं मत्स्यचिढिद्धठ्ठड़14;नतपर्यन्तं जलमवलोकयेति । अक्ष शुक्तीत्यस्य संयोगाक्षरस्य दूरसमित्यत्र रेफस्य च चूर्णनिमित्तं चूर्णकं । वाक्यविच्छेदोऽपि चतुर्धा - वाक्यसम्भेदो, वाक्यासम्भेदो, वाक्यासम्भेदो, वाक्यान्यथात्वं, वाक्यासमाप्तिः, वाक्यानुञ्चारणमिति, तेषु वाक्यसम्भेदो यथा--- दिङ्मातङ्गघटाविभक्तचतुराघाटौ मही साध्यते । सिद्धा सापि वदन्त एव हि वयं रोमाञ्चिताः पश्यत । विप्राय प्रतिपाद्यते किमपरं रामाय तस्मै नमो । यस्मादाविबभूत्कथाद्भुतमिदं यत्रैव चास्तं गतम् ।। अत्र वदन्त एव हि वयं रोमाञ्चिताः पश्यतेति वाक्यसंभोदो वक्तुर्भावकत्वेन गुणविशेषविज्ञानातिशयप्रकाशनं प्रतिपादयति । वाक्यान्यथात्वं यथा---- सहभृत्यगणं सबान्धवं सहमित्रं सबलं सहानुगम् । स्वबलेन निहन्ति संयुगे न चिरात्पाण्डुड्डत्ध्;सुतः सुयोधनम् ।। अत्र पाण्डुड्डत्ध्;सुतं सुयोधन इति वक्तव्ये पाण्डुड्डत्ध्;सुतः सुयोधनमिति भानुमतीविरहवैमनस्यप्रयुक्तस्य सुयोधनवाक्यस्यान्यथात्वमनुच्यमानं भाविनोऽर्थस्य तथात्वमवबोधयति । वाक्यासमाप्तिर्यथा --- त्वं जीवितं त्वमसि मे हृदयं द्वितीयं त्वं कौमुदी नयनयोरमृतं त्वमङ्गे । इत्यादिभिः प्रियशतैरनुरुध्य मुग्धां तामेव शान्तमथवा किमतः परेण ।। अत्र शान्तमथवा किमतः परेणेति वासन्तीवाक्यासमाप्तिः सुहृद्विषये नामङ्गलं वक्ताव्यमिति प्रतिपादयति । वाक्यानुञ्चारणं यथा---- अक्षत्रारिकृताभिमन्युनिधनप्रोद्भूततीव्रक्रुधः कीर्णाबाष्पकणैः पतन्ति धनुषि व्रीडड्डत्ध्;ाजडड्डत्ध्;ा दृष्टयः । पार्थस्याकृतशाक्षवप्रतिकृतेरन्तश्शुचा मुह्यतो हा वत्सेति गिरः स्फुरन्ति न पुनर्निर्यान्ति कण्ठाद्वहिः ।। अत्र हा वत्सेति वाक्यानुञ्चारणमकृतशत्रुप्रतिक्रियाणां महात्मनामनुचितं परिदेवनमिति ज्ञापयति । विरामो यतिः । स चतुर्धा, पदे पादे अर्धे स्थाने च । तस्यान्यथाकरणं यतिविच्छेदः । तत्र पदे यथा--- सम्पदो जलतरङ्गविलोला यौवनं त्रिचतुराणि दिनानि । शारदाभ्रदलचञ्चलमायुः किं धनैः परहितानि विदध्वम्। ("तनुद्धं " इति वा पाठः ।) अत्र किं धनैरिति पदयतौ न्याय्योऽर्थ प्रतीयते । यदात्वाज्ञासिद्धानि चत्वारि नेति पादमतिक्रम्य तदा अन्याय्य् इति । अर्धे यथा--- उच्यतां स वचनीयमशेषं नेश्वरे परुषता सखि साध्वी । आनयैनमनुनीय कथं वा विप्रियाणि जनयन्ननुनेयः ।। अत्र यदार्धे यति स्तदैकस्या एवेदं वाक्यमित्यान्योऽर्थः प्रतीयते । यदा तु तद्विच्छेदात्पादा एव यतिः क्रियते तदा द्वयोर्बढद्धठ्ठड़14;वीनां वा एको वाक्येनान्य इति । स्थाने यथा-- येन ध्वस्तमनोभवेन बलिजित्कायः पुरा स्त्रीकृतो योगङ्गां च दधेऽन्धकक्षयकरो यो बर्हिपत्रप्रियः । यस्याहुश्शशिमच्छिरो हर इति स्तुत्यं च नामामराः सोऽव्यादिष्टभुजङ्गहारवलयस्त्वां सर्वदोमाधवः ।। अत्र द्वादशसु चाक्षरेषु यतिस्थानम्, तदतिक्रमेण बलिजित्काय इति शशिमच्छिरोहर इति च यतिकरणे उमाधवो माधवश्च त्वामव्यादित्यर्थौ क्रमेण प्रतीयेते इति । प्रकरणमर्थो लिङ्गमौचित्यं देशः काल इति प्रकरणादयः । तत्र प्रकरणाद्याथा -- सैन्धवः सामान्येन लवणेऽश्वे पुर#ुषे च वर्तमानः भोजनादिप्रकरमवशादर्थविशेषप्रतिपत्तिनिमित्तं भवति । देवो वर्षतीत्यर्थात् देवशब्दो मेघमभिधत्ते, रामलक्ष्मणाविति लक्ष्ममलिङ्गाद्रामशब्दो दाशरथौ वर्तते । पुण्डड्डत्ध्;रीकमुखीत्यौचित्यात्पुण्डड्डत्ध्;रीकशब्दः कमलमाह । अमरावत्यां हरिरिति हरिशब्दो देशतः शतक्रत#ु#ं ब्रूते । रात्रौ पतङ्गं पश्यति, अत्र कालतः पतङ्गशब्दः शलभमभिधत्त इति । एवमन्येऽपि । तद्याथा-- भवतु विदितं शब्दा वक्तुर्विवक्षितसूचकाः स्मरति च यतः कान्ते कान्तां हठात्परिटुम्बति । ननन मममामां मा स्प्राक्षीर्निषेधपरं वचो भवति शिथिले मानग्रन्थौ तदेव विधायकम् ।। इति ।। अभिनयोऽपदेशो निर्देशः संज्ञा इङ्गितमाकार इत्यभिनयादयः । तेष्वभिनयो यथा-- एद्दहमेत्तत्थणिआ एद्दहमेत्तेहि अच्छिवत्तेहिं । एद्दहमेत्तावत्था एद्दहमेत्तेहिदिअएहिं ।। अपदेशो यथा --- इतः स दैत्यः प्राप्तश्रीर्नेत एवार्हति क्षयम् । विषवृक्षोऽपि संवध्र्य स्वयं छेत्तुमसाम्प्रतम् ।। निर्देशो यथा-- भर्तृदारके दिष्ट्या वर्धामहे, यदत्रेव कोऽपि कस्यापि तिष्ठतीति मामङ्गुलीविलासेनाख्यातवत्यः । संज्ञा यथा--- अप्यवस्तुनि कथाप्रवृत्तये प्रश्नतत्परमनङ्गशासनम् । वीक्षितेन परिगृह्य पार्वती मूर्धकम्पमयमुत्तरं ददौ ।। इङ्गितं यथा--- कदा नौ सङ्गमो भावीत्याकीर्णे वक्तुमक्षमम् । अवेत्य कान्तमबला लीलापद्मं न्यमीलयत् ।। आकारो यथा--- निवेदितं निश्वसितेन सोष्मणा मनस्तु मे संशयमेव गाहते । न विद्यते प्रार्थयितव्य एव ते भविष्यति प्रार्थितदुर्लभः कथम् ।। एवमन्येऽपि, यथा--- आश्लोषे प्रथमं कमादथ जिते हृद्येऽधरस्यार्पणे केर्लाद्यूतविधौ पणं प्रियतमे कान्तां पुनः पृच्छति । सान्तर्हासनिरुद्धसम्भृतरसोद्भेदस्फुरद्गण्डड्डत्ध्;या तूष्णीं शारविसारणाय निहितः स्वेदाम्बुगर्भः करः ।। यत्परश्शब्दः स शब्दार्थ इति तात्पर्यम् । तञ्च वाक्य एवोपपद्यते । पदमात्रेणाभिप्रायस्य प्रकाशयितुमशक्यत्वात् । तञ्च वाक्यप्रतिपाद्यं वस्तु त्रिरूपं भवति । अभिधीयमानं प्रतीयमानं ध्वनिरूपं च । यत्र यदुपात्तशब्देषु मुख्यगौणीलक्षणाभिः शब्दशक्तिभिः स्वमर्थमभ#िधायोपरतव्यापारेषु आकाङ्क्षासन्निधियोग्यतादिभिर्वाक्यार्थामात्रमभिधीयते तदभिधीयमानम् । यथा--- गौर्गच्छतीति वाक्यार्थावगतेरुत्तरकालं वाक्यर्थं उपपद्यमानोऽनुपपद्यमानो वार्थप्रकरणैचित्यादिसहकृतौ यत्प्रत्याययति तत्प्रतीयमानम् । यथा--- विषं भुङ्क्ष्व माचास्य गृहे भुङ्गथाः, इत्युक्ते वरं विषं भक्षितम्, न पुनरस्य गृहे भुक्तीमिति प्रतीयते । अर्थशब्दोपायादुपसर्जनीकृतसवार्थो वाक्यार्थावगतेरनन्तरमनुनादरूपमप्रतिशब्दरूपं वाऽभिव्यञ्जयति तद्ध्वनिरुपम् । तञ्च न सार्वत्रिकम् । तथाहि ; यथा निवृत्तेऽभिधाते कस्यचिदेवकांस्यादेद्र्रव्यस्यानुनादो जायते, कस्यचिदेव कन्दरादेः प्रतिशब्दः । यथा कस्यचिदेव वाक्यस्य प्रतीयमानाभिधीयमानवाक्यार्थप्रतीतेरनन्तरं ध्वनिरुपलभ्यत इति । निमिषत्येषेत्युक्तेऽक्ष्णोर्निमेषोऽभिधीयते, देवी न भवतीति प्रतीयते । रूपातिशयश्च ध्वनति । अथैषां प्रयोगः, तत्राभिधीयमानं चतुर्धा--विधिरूपं निषेधरूपं विधिनिषेधरूपमविधिषेधरूपं च । तेषु विधिरूपं यथा --- दानं वित्तादृतं वाचः कीर्तिधर्मो तथायुषः । परोपकरणं कायादसारात्सारमुद्धरेत् ।। निषेधरूपं यथा-- लोकयात्रा भयं लज्जा दाक्षिण्यं धर्मशीलता । यस्यैतानि न विद्यन्ते न तेन सह संवसेत् ।। विधिनिषेधरूपं यथा--- पक्कान्नमिवराजेन्द्र सर्वसाधारणाः स्त्रियः । तस्मात्तासु न कुप्येत न रज्येत रमेत च ।। अविधिनिषेधरूपं यथा-- न दानेन न मानेन न शाठ्येन न सेवया । न शास्त्रेम न हृद्यास्ताः सर्वाथा किमिव स्त्रियः ।। प्रतीयमानं पुनरनेकधा । क्कचिद्विधौ निषेधः --- भम धम्मिअ वीरद्धो सो सुणओ अज्ज मारिओ तेण । गोलाणईकच्छकुडुंड्डत्ध्;गवासिणा दरिअसीहेण ।। अत्र विस्रब्धो भ्रमेति विधिवाक्ये तत्र निकुञ्जे सिंहस्तिष्ठति । त्वं च शुनोऽपि विभेषि । तस्मात्त्वया तस्मिन्न गन्तव्यमिति निषेधः प्रतीयते । क्कचिन्निषेधे विधिर्यथा--- अत्ता एत्तणिमज्जइ एत्थअहं दिवसअं पलोएहि । मापहिअ रत्तिअंधिअ सेज्जाए मह म मज्जिहिसि ।। अत्र शय्यायां मा निवत्स्यासीति निषेधवाक्ये इयं श्वश्रूशय्या, इयं मच्छय्येति दिवाभ्युपलक्ष्यरात्रौ त्वयेहागन्तव्यमिति विधिः प्रतीयते । क्कचिद्विधौ विध्यन्तरं यथा--- बहलतमाहअराई अज्ज पडड्डत्ध्;त्थो पई घरं सुण्णं । तहं सेगज्ज सअंधिअ णजहाअंमेमुसिज्जामो ।। अत्र यथा वयं न मुष्यामहे तथा जागृहीति विध्यभिधाने रात्रिरत्यन्धकारा पतिः प्रोषितो गृहं शून्यमतस्त्वमभयो मत्पाश्र्वमागच्छेति विध्यन्तरं प्रतीयते । क्कचिन्निषेधे निषेधान्तरं यथा--- आसाइअं अणाए णजत्तिअं तत्तिएणबंधिधिहिं । ओरमसुविससुएढिद्धठ्ठड़14;णरकिज्जिहगपईछत्तं ।। अत्र गृहपतिक्षेत्रे दुष्टवृषवारणपरे निषेधवाक्ये उपपतिवारणं निषेधान्तरं प्रतीयते । क्कचद्विधिनिषेधे विधिर्यथा-- महुएहिकिंव पत्थिअजइहसिणिअंणिअंबाऔ । वाहेमि कस्सरण्णे गामो दूरे अहं एक्का ।। अत्र विधिनिषेधयोरनभिधाने अहमेकाकिनी ग्रामो दूर इति विविक्तोपदेशान्नितम्बवासोऽपि मे वरइति विधिः प3तीयते । क्कचिदविधिषेधे निषेधो यथा--- जीविताशा बलवती धनाशा दुर्बला मम । गच्छवा तिष्ठ्या कान्त स्वावस्था तु निवेदिता ।। अत्र गच्छवा तिष्ठवेत्यविधिनिषेधाज्जीविताशा बलवती । धनाशा दुर्बला ममेति वचनात्त्वया विनाऽहं जीवितुं न शक्नोमीत्युपक्षेपेण गमननिषेधः प्रतीयते । क्कचिद्विधिनिषेधयोर्विध्यन्तरं यथा-- णिअदइअदंसगुणकिदवत्तपहिअअण्णेणदञ्चसुवहेण । गहपइधूआदुक्कं घवा उराइहहअमामे ।। अत्रान्येन पथा व्रजेति विधिनिषेधयोरभिधाने हे स्वकान्ताभिरूपताविकत्थन पान्थाभिरूपक इह ग्रामे भवतो गृहपतिसुता द्रष्टव्यरूपेति विध्यन्तरं प्रतीयते । क्कचिद्विधिनिषेधयोर्निषेधान्तरं यथा--- उच्छिणसु पडिड्डत्ध्;अकुसुमं माधुण सेहालिअं हलिअसुढद्धठ्ठड़14;णे । एस अवसाणाविरसो ससुरेण सुओ वलअसद्दो ।। अत्र पतितं कुसुममुञ्चिनु मा धुनीहि शेफालिकामिति विधिनिषेधयोरभिधाने सखि चौर्यरतप्रसक्ते वलयशब्दो न कर्तव्यं इति निषेधान्तरं प्रतीयते । क्कचिद्विधावनुभयं यथा--- सणिअंवञ्चकिसोअरिवहिवअत्तेणवववसुसहिपट्टेदि । भज्जिहिसिवित्थअत्यणिविहिणा दुक्खेणणिम्मविआ ।। अत्र शनैव्र्रजेति विध्यभिधाने हि न विधिर्नापि निषेधः, अपि तु वर्णनामात्रं प्रतीयते । क्कचिन्निषेधेऽनुभयं यथा--- दे आ पसिअणि वत्तसु मुहससिजोढद्धठ्ठड़14;णाविलुत्ततमणिवहे । अहिसारिआण विग्धं करेसि अढद्धठ्ठड़14;णाणविहआसे ।। अत्र निवर्तस्वेति निषेधाभिधानेऽपि न निषेधो नापि विधिः ; अपि तु मुखेन्दुकान्तिवर्णनामात्रं प्रतीयते । क्कचिद्विधिनिषेधयोरनुभयं यथा--- वञ्च महव्विअ एक्का एहोंतुणिसासरोइअप्पाइ । मा तुज्जवि तीअ विणा दक्खिण्ण दृअस्स जाअन्तु ।। अत्र ममैव निश्वासरोदितव्यानि भवन्तु मा तवापि तां विना तानि जायन्तामिति विधिनिषेधयोरभिधाने न विधिर्नापि निषेधः ; अपि तु कृतव्यलीकप्रियतमोपालम्भमात्रं प्रतीयते । क्कचिदविधिनिषेधेऽनुभयं यथा---- गोलाणईए तूहे चखंतोराइ आएवत्ताइ । अत्र न विधिर्नापि निषेधोऽभिधीयते । नाप्येनयो ... रन्यकेतुकु टुंगे अभ्यागातो भवान्न गत इति तं ज्ञापयतीति प्रतीयते । प्रतीयमानाभिधीयमानवाक्यार्थानामानन्त्याद्ध्वनिपरूपमप्यनेकप्रकारमेव । ध्वनिश्च द्विधा--- अर्थध्वनिः, शब्दध्वनिश्च । तयोरर्थध्वनिरनुनादध्वनिरूपः प्रतिशब्दध्वनिरूपश्च । तत्र योऽभिधीयमानवाक्यार्थानुस्यूतमेव कांस्यानुनादरूपमर्थान्तर .... शिखिरिणि क्कनु नाम कियञ्चिरं किमभिधानमसावकरोत्तपः । तरुणि येन तवाधरपाटलं दशति बिम्बफलं शुकशाबकः ।। अत्र यथाश्रुतवाक्यार्थोऽभिधीयमानो विम्बफलारुणाधर इत्युपलक्षणेन रागातिशयं प्रत्याययन्नाल्पपुण्यस्त्वदधरप्रतिनिधिमपि चुम्बतीति चाटुना वर्णनीयायाः स्वानुरागप्रकाशनं ध्वनति । एतञ्च कांस्यध्वनिवदविच्छिन्नमेव ध्वन्ननुनादरूपं प्रतीयत इत्यनुनादध्वनिः । तथा---शान्त्यै वोऽस्तु कपावदाम जगतां पत्यर्यदीयां लिपिं क्कापिक्कापि गणाः पठन्ति पदशो नातिप्रसिद्धाक्षराम् । विश्वं स्रक्ष्यति कक्ष्यति क्षितिमपामीशिष्यते शिष्यते नागै रागिषुरंस्यति ... जगन्निर्वेक्षित ................ ।। अत्र गणाः कपाललिपिमप्रसिद्धाक्षरां पजशः पठन्तीति वाक्यार्थोऽभिधीयमानस्तानि कपालानि ब्रह्मादीनामिति प्रत्याययन् महाध्वोपसंहारे भगवतोऽनुपहतप्रभावस्यैकाकिनोऽवस्थानमिव ध्वनति । तञ्च विश्वं स्रक्ष्यतीत्यादिपदार्थेनस्यूतमेवानुनादयन्निरूप्यत इत्यनुनादध्वनि#ः । एवं --- अण्णत्त वञ्चबालअ मज्जतिं कीस मं पुलोएसि । एअं हो जायाभूरुआणं तित्थं पिआ णहोइ।।। (अण्णत्त वञ्च बालअ तिढद्धठ्ठड़14;णाअन्त कीसमंपुलोएसि । एअम् हो जाआभीरुअणा तृहाण तित्थं अ णहोइ ।। इति पाठः ।। अत्र किं मां मज्जन्तीं प्रलोकयसि, अन्यत्र व्रज, नेदं जायभीरूणां तीर्थमित्याभिधीयमानो जायायास्त्वं बिभेषि, तेन मां न कामयस इत्युपालम्भार्थं प्रत्याययन्नस्नेहं विना युवतीनामीष्र्ययितं भवतीति ध्वनति । तञ्च तस्या अनुरागार्थं नातिस्यूतमेवामुनादरूपं ध्वनतीत्यनुनाद्धवनिः । एवं अत्ता एत्थ णिमज्जइ इत्यादि वाक्ये निषेधविधिः प्रतीयमानः कदाचिदयमन्धकारे मद्भ्रान्त्या श्वश्रूंप्रतियायादित्युत्प्रेक्षमाणायाः स्खलितप्रतिविधानरूपं रात्र्यन्धपदाभिधानमपि न युवत्या वैदग्ध्यं ध्वनयति । तञ्चाभिधीयमानप्रतीयमानयोरनुस्यूतेम प#्रतीयत इत्यनुनादध्वानिः । तथा--- 7.6. महुएहि किं विपंथअ इत्यादावविधिनिषेधे विधिः प्रतीयमानो मधुकापचायुकायाः प्रर्थनावैदग्ध्यं ध्वनिति । तञ्च प्रतीयमानार्थानिस्यूतमेवानुनादमिहोपलभ्यत इत्युनुनादध्वनिः । अपि च, उञ्चिणसुपडिड्डत्ध्;अकुसुमं माधुणसेहालिअं हलिअ इत्यादि वाक्ये विधिनिषेधयोर्निषेधः प्रत#ीयमानः स्शलितगोपनेषु सखीवैदग्ध्यं ध्वनयति । स च शेफलिकापुष्पापचयव्याजेन पश्चाद्वाटमुपगताया हालिकस्नुषायास्तत्रागेनोपपतिना सह प्रवृत्ते चौर्यरतकलहे कुडड्डत्ध्;्यान्तरितशअवशुरावकण्र्यमानमनोहरवलयशब्द प्रतिषेधपरतया प्रवर्तमानः स्नुषानुस्यूतमेव शेफालिकाशाखावधूननं सवलयकरावधूननं च कांस्यद्वनिरूपेणानुनादो ध्वनिं प्रतिपादयन्ननुनादध्वनिव्यपदेशमासादयतीति । यः पुनरभिधीयमानवाक्यार्थाते पृथग्भूत इव गुहादिप्रतिशब्दानुरूपमर्थान्तरं प्रत्याययन्प्रतिध्वनति स प्रतिशब्दध्वनिः । यथा--- लावण्यसिन्धुरपरैव हि केयमत्र यत्रोत्पलानि शशिना सह संप्लवन्ते । उन्मज्जति द्विरदकुम्भतटी च यत्र यत्रापरे कदलिकाण्डड्डत्ध्;मृणालदण्डड्डत्ध्;ाः ।। गुहायां पौरूषादिशब्दानां प्रतिशब्दा जायन्ते, ते च ध्वनिं जनयन्त उपलभ्यन्ते । एवं लावण्यसिन्धुरित्येतास्मिन् पदार्थे उत्पलादिशब्दानां यथा स्वोपभेयलोजचनाद्यर्थप्रतिशब्दा जायन्ते ते चार्थान्तरध्वनिं जनयन्त उपलभ्यते । तत्रेह च यथा श्रूयमाणानामुत्पलादीनामर्थोऽभिधीयमानस्तस्य लोचनाद्यर्थैः सह सादृश्यं प्रत्याययद्वर्णनीयायाश्चारुत्वोत्कर्षप्रतीतिध्र्वनति । सा ततः पृथगिवोपलभ्यमाना प्रतिशब्दध्वनिः । तथा--- एष्टव्या बहवः पुत्रा यद्येकोऽपि गयां व्रजेत् । यजेत वाऽश्वमेधेन नीलं वा वृषमुत्सृजेत ।। अत्र बहवः पुत्रा एष्टव्या इति वाक्यार्थोऽभिधीयमानः पुत्रैः पितृव्यपदेशपरतया कर्तव्या इति प्रत्यायत्पितृणां कामूपरणां परमपुरुषार्थ इति ध्वनयति । स च पितृव्यपदेशपरतया प्रवत्तः पुत्रोद्देशरूपेण तत्प्रवृत्तिषु प्रतिशब्दायमानः पृथगिवोपलभ्यत इति प्रतिशब्दध्वनिः । एवं-- कस्स व ण होइ रोसो दद्दृण पिआए सव्वणं अहरं । सभरमकमसुग्घारिणि वारिअगामे सहसु एÏढद्धठ्ठड़14;ण ।। अत्र सख्यपीलम्भार्थोऽभिधीयमानः पत्युरीष्र्योपशान्तये भ्रमरेणास्या अधरः खण्डिड्डत्ध्;तो नोपपतिनेति प्रत्याययन् । स्खलितगोपनेषु सखीवैदग्ध्यं ध्वनयति। स चान्योपदेशपरत्वेन प्रवृत्तोऽन्यस्य चेतसि प्रतिफलित इति प्रतिशब्दध्वनिः । एवं भमधस्मिअवीसद्धो इत्यादिवाक्ये विधौ निषेधः प्रतीयमानः तस्या नदीकुञ्जकेन क्रेनचित्सह सङ्केतार्थं ध्वनति । स वाक्यार्थात्पृथगिवोपलभ्यमानः प#्रतिशब्दध्वनिः । आसाइअं अणाए णझत्तिअमित्यादिवाक्ये वृषनिवारणपरो निषेध उपपतिनिवारणार्थं प्रत्याययन्प्रयोक्तुर्वैदग्ध्यं ध्वनयति । सचान्याभिधानेनान्यमभिदधतः पृथगिवोपलभ्यमानः प्रतिशब्दध्वनिः । एवं गोलाणईअतूहे चक्कन्तोराइ आएवत्तइ इत्यापि प्रतिशब्दध्वनिरिति । एवं शब्दध्वनिरपि द्विधैव । तत्रानुनादरूपो यथा--- भक्तिप्रढद्धठ्ठड़14;वाय दातुं मुकुलपुचकुटीकोटरक्रीडड्डत्ध्;लीनां लक्ष्मीमाक्रष्टुकामा इव कमलवनोद्धाटनं कुर्वते ये । लालाकारान्धकाराननपतितजगत्साध्वसध्वंसकल्याः कल्याणं वः क्रियास्सुः किसलयरुचयस्ते करा भास्करस्य ।। अत्र भास्करकराः कल्याणं वः क्रियासुरिति वाक्यार्थः करशब्दशक्तिस्वभाव्यात् किसलयरुचय इत्यादिसमस्तुल्यविशेषणयोगाञ्च हस्तेष्वनुनादं जनयत् भगवतस्तेजोरूपतां पुरुषरूपतां च ध्वयति । तदुभयमपि तदनुस्यूमेवेह निरूप्यत इत्यनुनाध्वनिः । एवं --- गर्भेषअवम्भोरुहाणां शिखरिषु च शिताग्रेणॉषु तुल्यं पतन्तः प्रारम्भे वासरस्य व्युपरतिसमये चैकरूपास्तथैव । निष्पर्यायं प्रवृत्तास्रिभुवनभवनाप्राङ्कणे पान्तु युष्मा नूष्माणं सन्तताध्वश्रमजमिव भृशं बिभ्रतो ब्रध्नपादाः ।। अत्र पादशब्दस्वाभाव्यात् सर्वमपि योजनीयम् । इयांस्तु विशेषः । पूर्वत्र साधम्र्यद्वारेणेह तु वैधम्र्यद्वारेणेति । अत्र चाप्रतिशब्दध्वनिर्यथा--- दत्तानन्दाः प्रजानां समुचितसमयाक्लिष्टसृष्टैः पयोभिः पूर्वाढद्धठ्ठड़14;णे विप्रकीर्णा दिशिदिशि विरमत्यढिद्धठ्ठड़14;न संहारभाजः । दीप्तांशोर्दीर्घदुः खप्रभवभयोदन्वदुत्तारनावो गावो वः पावनानां परमपरिमितां प्रीतिमुत्पादयन्तु ।। अत्र पादशब्दस्वाभाव्यात् सर्वमपि योजनीयम् । इयांस्तु विशेषः । पूर्वत्र साधम्र्यद्वारेणेह तु वैधम्र्यद्वारेणेति । अत्र चाप्रतिशब्दध्वनिर्यथा --- दत्तानन्दाः प्रजानां समुचितसमयाक्लिष्टसृष्टैः पयोभिः पूर्वाढद्धठ्ठड़14;णे विप्रकीर्णा दिशिदिशि विरमत्यढिद्धठ्ठड़14;न संहारभाजः । दीप्तांशोर्दीर्घदुः खप्रभवभवयोदन्वदुत्तारनावो गावोः वः पावनानां परमपरिमितां प्रीतिमुत्पादयन्तु ।। अत्र दीप्तांशोर्गावो रश्मयः स्तूयमानाः शब्दशक्तिस्वाभाव्यात्तुल्यविशेषणयोगाञ्च धेनुषु प्रतिशब्दं जनयन्त्यस्तास्वपि विशिष्टं माहात्म्यशेषं प्रतिध्वनन्ति । एवं--- मीलञ्चक्षुर्विजिह्य श्रुतिजडड्डत्ध्;रसनं निघ्नितघ्राणवृत्ति स्वव्यापाराक्षमत्वक्परिमुषितमनः श्वासमात्रावशेषम् विस्रस्ताङ्गं पतित्वा स्वपदपहरतादश्रितं वोऽर्कजन्मा कालव्यालावलीढं जगदगद इवोत्थापयन् प्राक्प्रतापः ।। अत्रार्कजन्मा प्राक्प्रतापः कालव्यालावलीढं जगदुत्थापयन् अश्रितं वोऽपहरतादिति वाक्यार्थः । अर्कशब्दशक्तिस्वाभाव्यात्तुल्यकर्मक्रियापदादियोगाञ्च अर्कवृक्षजन्मा अगदः कालव्यालदष्टमप्युत्थापयतीति प्रत्याययन्नर्को विषध्नानां श्रेष्ठ इति प्रतिशब्दरूपं ध्वनिम#ुत्थापयतीति । एवमन्येऽपि महाकविप्रयोगेषु ध्वनिविशेषा गवेषणीया इति यदुक्तं, तात्पर्यमेव वचसि ध्वनिरेन काव्य इत्यादि । कः पुनः काव्यवचसोध्र्वनितात्पर्ययोः विशेषः । ननूक्तं पुरस्तात् --- यददक्रं वचश्शास्रे लोके च वच एव तत् । वक्रं यदर्थवादादौ तस्य काव्यमिति स्मृतिः ।। यदिभिप्रायसर्वस्वं वक्तुर्वाक्यात्प्रतीयते । तात्पर्यमर्थधर्मस्तच्छब्दधर्मः पुनध्र्वनिः ।। सौभाग्यमिव तात्पर्यमान्तरो गुण इष्यते । वाग्देवताया लावण्यमिव बाह्यस्तयोध्र्वनिः ।। अदूरविप्रकर्षात्तु द्वयेन द्वयेन द्वयमुच्यते । यथा सुरभिवैशाखौ मधुमाधवसंज्ञया ।। इति ।। सत्यमुक्तम् । किन्तु नाद्यापि निदर्शनतः प्रतिपाद्यते । तर्हि श्रूयतामिदं प्रतिपादयामः । यस्तावदयमनन्तरोग्रन्तः स सर्वः काव्ये ध्वनिरित्यवधार्यताम् । वचसि तात्पर्यं द्विधा-- शास्त्रे सोके च । तत्र शास्त्रे यथा---आत्मस्थितं गुणाविशेषमहङ्कृतस्येत्यादि । अत्र "आत्मस्थितं गुणविशेषमहङ्कृतस्य शृङ्गारमाहुरिह जीवितमात्मयोनेः ।।" इत्याप्तोपदेशरूप आगमः तस्यात्मशक्तिरसनीयतया रसत्वमिति संज्ञार्थानुगामि प्रत्यात्मवेदनीयं प्रत्यक्षम् । तथाहि योऽयं लोके रसोऽस्यस्तीति सरिकोऽयं, रसिकोऽयमिति विना मधुरादीन्केषुचिदेव पुरुषविशेषेषु निरपवादः प्रवादः स नान्तरेण प्रत्यात्मवेदनीयं रसाहृयवस्तुसम्बन्धमुपपद्यते । सोऽयं विवक्षितार्थस्य प्रमाणत्रयेण प्रतिपादनं वाक्यार्थोऽभिधीयमानः प्रतिपाद्यश्च त्रिप्रकारः पुरुषो भवति । अप्रतिपन्नो विप्रतिपन्नः संशयित इति, तत्र यथाऽऽतुरानातुयोर्भोजनमनातुरः प्रतिपद्यत इति तथैव प्रकल्प्यते । तथेहाप्रतिपन्नानुरोधादितरयोरप्यागम एव प्रथममुपन्यस्तते । तत्र विप्रतिपन्नः संशयितो वागंमं न मन्यते । अतस्तदर्थे सर्वप्रमाणेभ्यो बलीयः प्रत्यक्षमुपन्यसनीयं भवति, तदपि वैयात्याद्विप्रतिपन्नो न मन्यते। ततोऽस्य शासनाय ब्रह्मास्त्ररूपा सार्वसौकिकी युक्तिरुपन्यस्यत इति । स एव प्रमाणत्रयोपन्यासहेतुर्वक्तुरभिप्रायः प्रतीयमानः प्रमाणत्रयोपन्यासादिना च साङ्ख्यादर्शनाश्रयेण शृङ्गारस्सन्नेवाविर्भवति । नत्वसन्नुत्पद्यते, स च त्रिविधोऽश्रेयानिति प्रतिपादनतात्पर्यम् । साङ्ख्या ह्येवमाहुः, "सदेवोत्पद्यते, प्रकृतिरेव कत्र्री, पुरुषः पुनरुदास्ते, उदासीनमपि चैनं भोगसंपादनाय प्रकृतिरुपसर्पतीति ।" ननु च साङ्ख्यानां "दृष्टमनुमानमाप्तवचनं चेति" प्रमाणोपन्यासक्रमः । इह त्वागमस्य प्रथममुपन्यासे किं तात्पर्यम्?#्ए ननूक्तमप्रतिपन्नानुरोधादिति । अन्यदप्युच्यते, न तथा पदार्थाः प्रत्यक्षेण प्रतीयमानाः स्वदन्ते यथा वाग्मिनां वचोभिरावेद्यमाना इत्यागमस्य प्रथममुपन्यासेन सूचयति । न च सर्वथा साङ्ख्यादर्शनाश्रयिणो वयमिति प्रमाणव्युत्क्रमेण प्रतिपादयति, साहित्यस्य सर्वपार्षदत्वात् । अथात्मनि प्रतिबिम्बताद्वारेणावस्थितस्याहङ्कारगुणविशेषस्य धर्मार्थफलभूततृतीयपुरुषार्थजीवितस्य शृङ्गारस्याभिमानापरनाम्नो यान्याविर्भावकारणानि यानि च तत्कार्याणि तान्यनन्तरश्लोकेन निर्दिशति सत्त्वात्मनाममलजन्मविशेषजन्मेत्यादि । तत्रायमात्मनामनुगत#ेब्यः सुकृतविशेषेभ्य उत्पद्यते, उत्पन्नस्य सर्वस्यात्मा आत्मगुणसम्पदो लक्ष्मॉयमाणलक्षणाया उदयहेतुर्भवति । अनेकजन्मानुभवजनितात्तु संस्कारादुत्कृष्यते । उत्कृष्टश्चात्मगुणसम्पद एव अतिशयहेतुर्भवति । स चायमेक एवैवंविधोऽभिमानात्मा प्रकृतिविकार आत्मविशेषाणांतमोनिर्भेदस्थानेषु प्रतिबिम्बरूपेण सुप्तइव प्रतिबुध्यत इति वाक्यार्थोऽभिधीयमानः एकहेतुरित्यनेन च हेत्वन्तराभावमात्मगुणसम्पदः प्रधर्शयन् अयमेव चतुर्वर्गकारणमिति ज्ञापयति । जागर्तिं वा जागर्ति च सुप्तप्रबोधदृष्टान्तेन तस्यानाविर्बावावस्थायामपि स्तिमितरूपेणावस्थानादविद्यमानतां निराकरोति । कोऽपीत्यनेनाद्भुतप्रदर्शनद्वारेण तदुत्कर्षस्वसज्जन्मसहस्रेणाप्यनाख्येय इति ख्यापयति । मानमय इत्यनेन चास्याभिमान आत्मनोभिमान एव मूलमित्यन्यावष्टम्भं निराचष्ट इति । सोऽयमेवं प्रकारो वाक्यर्थः प्रतीयमान एवंविधं वस्तु वयंच वक्तुमुद्यताः । अतश्चतुर्वर्गार्थिनोऽपि प्रवर्तन्तामिति श्रोतृजनप्रोत्साहनादस्मिन्वचसि तात्पर्यमिति । एवं लौकिकेऽपि वचस्यभिधीयमानं प्रतीयमानं तात्पर्यं च पर्यालोचनीयमिति । एतेन काव्यवचसोध्र्वनितात्यर्ययोश्च क्कचित्सम्प्लवोऽपि व्याख्यातः । तद्याथा--अच्छिन्नमेखलमलब्धदृढोपगूढमित्यादि । अत्र काव्यार्थस्तावत् कान्ताविमिश्रवपिषः पुरारेर्वपुरच्छिन्नमेखलमित्यादिविशेषणयोगाद्विप्रलम्भसम्भोगयोः सख्यसम्पादकमिनवेत्युत्प्रेक्षमाणं रक्षत्विति वाक्यार्थोऽभिधीयमानः कान्ताविमिश्रवपुषोवपिरित्यनेन मूर्तिरेवास्य सांसारिकेषु कर्मस्वधिक्रियते न पुनरात्मेति प्रत्याययति । मूर्तिरिति च वक्तव्ये वपुरिति पदोपादानान्नकेवलं विश्वस्य रक्षणे सृष्टिसंहारयोरव्ययमेव व्याप्रियत इति प्रतिपादयति । वपिर्हि सृष्टौ संहारे च दृश्यते, बीजं वपति, केशान्वपतीति । कृतविप्रलम्भसम्भोगसख्यमिवेत्यनेन सहानवस्थानादिभिर्दुर्घटानप्ययं पदार्थान्मिथोघटयतीति ज्ञापयतीति । पुरारेरित्यनेन च कान्ताविमिश्रवपुरप्येवंविधेष्वरिवधादिव्यापारेषु समर्थ एवेति । सत्यापयति, सोऽयमेवं प्रकारो वाक्यार्थः प्रतीयमानः । तदेवं प्रकारमपारमनन्यसाधारणं च यस्यैश्वर्यमसावेव नमस्कार्यो नान्य इति तात्पर्यार्थः ।एवमुत्तरश्लोकेऽपि यथाश्रुतवाक्यार्थोऽभिधीयमानः यत्पादपङ्कजरजः परिमार्जितेष्विति प्रयोजकव्यापारो दर्शनाद्ध्यानेनानीय गणपतिर्मनस्यारोपणीय इत्युपदिशति । चेतस्सु दर्पणतलामलतां गतेष्वत्यनेन चादर्शतलानीव भस्मना स्मृत्यपहितेनापि तत्पादरजसा मनांसि निर्मलीभवन्त#ीत्यभिधत्ते । शब्दार्थसम्पद उदारतराः स्फुरन्तीत्यनेन तु दर्पणतलेष्विव निर्मसेष्वमीषु विश्वे पदार्थाः स्फुरन्तीत्यावेदयति । विघ्नच्छिदेऽस्तु भगवान् स गणाधिनाथ इत्यनेन पुनरुपन्यस्तन्यायेनाभिगामिकं गुणयोगमस्योपदर्शयन् अविघ्नप्रार्थनया चिक्रीर्षितं महान्तमारम्भविशेषमात्मनः प्रतिपादयति । सोऽयमेवंविधो वाक्यार्थः प्रतीयमानः यस्य पादपङ्कजस्मृतेरप्येतत्फलं तस्य साक्षादाराधनादेः किमुच्यत इति तात्पर्यार्थः ।। 7.7. अथेदमेव श्लेकद्वयं शास्त्रादौ वचोरूपेण तात्पर्यपर्यन्तं व्याक्रियते। तत्राभीष्टजेवता स्तोतव्येति शिष्टचारः । ततो हि विशिष्टादृसम्पत्तेः समीहितफलावाप्तिर्भवति । अभीष्टदेवता च द्विविधा -- अधिकृताऽनधिकृताच । तत्राधिकृताऽनधिकृतयोरधिकृतायां प्रतिपत्त#िर्गरीयसीत्यधिकृतैऋ स्तूयते । शास्त्रे चेह शृङगरोऽभिधेयः, तत्र च यथा भगवान्महेश्वरः सर्वज्ञतया सौभाग्येन दयितजानितया स्वातन्त्र्येण परमपरिपूर्णतया समर्थत्वेन चाधिक्रियते नैवमन्यस्तद्विधेयवैभवः शकादि । तत्र च प्रागुक्त एव प्रतीयमानः ; तात्पर्यरूपस्तु न#िरूप्यते । तत्रेह शास्त्रे शृङ्गारो वक्तव्यः । स द्विधा -- सम्भोगो विप्रलम्भश्च । तत्र सम्भोगो विप्रलम्भमन्तरेण न प्रकर्षमधिरोहतीति विप्रलम्भ एव प्रथममभिधेयो भवति । स चतुर्धा -- प्रथमानुरागो मानः प्रवासः करुण इति । विचित्रश्चैष सम्भोगादिति विस्तरेणोच्यते । चतस्रश्चास्यावस्था भवन्ति सत्ता जन्म अनुबन्धः प्रकर्ष इति । तमिमं चतुर्भेदं चतुरवस्थं विचित्रं च पूर्वार्धेन वक्ष्यमाणमुपलक्षयति । तत्राच्छिन्नमेखलमित्यनेन प्रथमानुरागं, मेखलाच्छेदावधिर्हि प्रथमानुरागः, अलब्धदृढोपगूढमित्यनेन मानं, नहिमाने दृढोपगूढं लभ#्यते । अप्राप्तचुम्बनेत्यनेन करुणं, नहि करुणे वक्त्रकान्तिर्वीक्ष्यते ।। 7.8. अथैतदवस्थास्वपीमान्येव पदानि । तत्राच्छिन्नमेखलमिति विप्रलम्भसत्तायां । विप्रलम्भो हि मेखलायामच्छिन्नायामवश्यमेव सम्भोगार्थिनः सम्भवति, सास्य प्रथमावस्था । अलब्धदृढोपगूढमिति विप्रलम्भजन्मनि विप्रलम्भवान् हि मेखलाच्छेदात् सम्भोगमलभमानः प्रेयसीं प्र#ार्थयते, अयिप्रियतमे, यदि मे मेखलाच्छेदं न मन्यसे तदालिङ्गनमपि गाढं प्रयच्छ, तदप्रतिपद्यमानायां च तस्यामस्य विप्रलम्भो जायते, सास्य द्वितीयावस्था । अप्राप्तचुम्बनमिति विप्रलमम्भानुबन्धे विप्रलब्धो हि सर्वाङ्गीणं प्रियासंश्लोषमलभमानः वक्त्रमात्रसंयोगमप्यभ#िलषचि । तदलाभे चैनं विप्र लम्भोऽनुबन्धनाति, सास्य तृतीयावस्था ।। 7.9. अवीक्षितवक्त्रकान्तीति विप्रलम्भप्रकर्षे अपेक्षणीयालिङ्गनाद्यनवाप्तौ हि कामिनः प्रियामिखावलोकनमपि बहु मन्यन्ते । तदप्यनाप्नुवतामेषां विप्रलम्भः प्रकृष्यते । सास्य तुरीयावस्था ।। 7.10. सोऽयं चतुर्विधश्चतुरवस्थश्च विप्रलम्भश्चातुर्विध्येन चातुरवस्थ्येन पृथक्पृथगभिधीयमानो विचित्र इत्युच्यते । सम्भोगोऽपि चतुर्धैव -- प्रथमानरागानन्तरो मानानन्तरः, प्रवासानन्तरः, करुणानन्तर इति । तस्यापि ता एव चतस्त्रोऽवस्थाः सत्ताजन्मानुबन्धः प्रकर्ष इति । सोऽयमपि चतुर्भेदश्चतुरवस्थश्च कान्ताविमिश्रवपुष इत्यनेनापि चित्रात्वात्संक्षेणैवोपलक्ष्यते । तत्र व्युपसर्गस्य क्रियाविशेषणार्थवाचकत्वाद्येन येन विशेषेण प्रथमानुरागानन्तरे मानानन्तरे करुणानन्तरे च कान्तया सह मिश्रीभावः साध्वसोत्कम्पः सेष्र्याकषायं सौत्सुक्यरभसं सहर्षविस्मयं च जायते । स सर्व उद्दिष्टो भवति । सोऽयं विमिश्रपदेन सम्भोगश्चनुर्विधोऽप्याक्षिप्तः । कान्तापदेन पुनरस्य चतस्रोऽवस्थाप्यन्ते । तत्र यदा कान्ताशब्दः स्त्रीपर्यायस्तदा --- नामापि स्त्रीति संढद्धठ्ठड़14;लादि विकरोत्येव मानसम् । इति संभोगस्याद्यावस्था सत्तासंज्ञिका प्रतीयते । 7.11. यदातु कान्ताशब्दो मनोज्ञापर्यायस्तादा "किं पुर्दर्शनं तस्या विलासोल्लसितभ्रुवः" इति न्यायात्सम्भोगस्य द्वितीयावस्था जन्मसंज्ञिका प्रतीयते । यदा पुनः कान्ताशब्दो वृषस्यन्तीपर्यायस्तदा--- पुनरपि सुलभं तपोऽनुरागी युवगिजनः खलु नाप्यतेऽनुरूपः । इति न्यायात्सम्भोगस्य तृतीयानस्थानुबन्धसंज्ञिका प्रतीयते । यदेव रोचते मह्यं तदेव कुरुते प्रिया । इति वेत्ति न जानाति तत्प्रियं यत्करोति सा ।। इति न्यायात्सम्भोगस्य तुरीयावस्था प्रकर्षसंज्ञिका प्रीतयते । सोऽयं चतुर्भेदश्चतुरवस्थश्च विप्रसम्भः । सम्भोगश्चाग्रतो विशेषेण वर्णयितुमुपक्रान्तो दिङ्भात्रेणात्र सूचित इति तात्पर्यम् ।। 7.12. अथात्र विशेषाधिकारिनिर्णायकविशेषाणां का वार्ता? कान्ताविमिश्चवपिष इत्सय तन्त्रेण व्याख्यानान्तरे तेऽपि सूचिता एव । तत्र हि भगवतो विपुर्वुप्रलम्भमंम्भोगयोः कृतसाहाय्यकमिव कान्ताविमिश्रवपुषः पुरुषान् स्त्रियश्च पात्विति व्यख्या भवति । विमिश्रशब्देन च सेयोगिन इव वियोगिनोऽप्युच्यन्ते, व्युपसर्गस्य क्रियाविशेष इव क्रियावैपरीत्येऽप्युपलम्भात् । तद्याथा विभक्तो वियुक्ताश्च शृङ्गाराधिकारण उभयेऽपि नायकविशेषाः पुरुषाः कान्तैरविमिश्रवपुषो योषितः संयुक्ता वुयुक्ताश्च शृङ्गाराधिकारिण उभयेऽपि नायकविशेष#ा#ः प्रतीयन्ते । वपुश्शब्देन पुनरिह पुरारेरपि विशेषणपक्षे यौवनपल्लवितलावण्यलक्ष्मीकं समग्रात्मगुणसम्पदाश्रयः शरीरमुच्यते । न तु देवादिकर्तृवत्सृष्टिसंहारकादि वपुर्हि सृष्टिसंहारयोरिव कान्तावपि दृश्यते । तद्यथा--गोभि--र्वपावान्वपुष्टं मानामाप्सरो विशेष, इत#ि । तत्राच्छिन्नमेखलमित्यादीनि कान्ताविमिश्रवपुष इति समासपदान्तर्गतयोर्विभक्तिसंयुक्तिक्रिययोर्गमकत्वाद्विशेषणानि भवन्ति । यथा कर्तुमनाः कटं, गन्तुकामो ग्राममिति ।। 7.13. अथ सम्भोगपक्षे अच्छिन्नमेखलमित्यादीनि कथं सम्बन्धन्ते? उच्यते । एवं नामरागान्धतया कान्तभिः सह ते संयुक्ताः येन मेखलाच्छेदमालिङ्गनं चुम्बनमालोकनं च परमानन्दमग्नाः कर्तुं न परारयन्ति, तद्यथा प्रियया स्त्रिया परिष्वक्तो न बाह्यं किञ्चन वेद नान्तरमिति, यथा च--- धन्याः स्थ याः कथयथ प्रियसङ्गमेऽपि विस्रब्धचाटुकशतानि रतान्तरेषु । नोर्वीं प्रति प्रणिहिते तु करे प्रियेण सख्यः शपामि यदि किञ्चिदपि स्मरामि ।। एवमयं प्रथमश्लोकं । पदान्तयेव संहत्यार्थमभिदधति वाक्यमिति पक्षे व्याख्यायते । 7.14. अथाखण्ढवाक्यार्थपक्षे व्याख्यायते । तथाह्येवमिह पदानामन्वयो भवति, पातु किं? विश्वम् । कुतः? अपायेभ्यः । किं तत्? वपुः । कस्य? पुरारेः कीदृशस्य? कान्ताविमिश्रवपिषः । किं विशिष्टं? अच्छिन्नमेखलं, अलब्धदृढोपगूढं, अप्राप्तचुम्बनं, अवीक्ष#ितवक्त्रकान्ति । कथमुत्प्रेक्ष्यमाणं? कृतविप्रलम्भसम्भोगसख्यमिवेति । अत्र चायमच्छिन्नशब्दो बहुवीहिश्च समासोऽध्याहियमाणपदद्वया द्वादशपदा नान्दी पदाविश्लेषविशेषोक्तिगर्भ उत्प्रेक्षावांश्चाशीरलङ्कारो मङ्गलार्थः । तेऽमी चत्वारो.पि मङ्गलार्थाः शास्त्रादौ प्रयुक्ताः कर्तुः श्रोतुरध्येतुरध्यापयुतुश्च मङ्गमावहन्ति । यदाह-- मङ्गलादीनि मङ्गलमध्यावि मङ्गलान्तानि च शास्त्राण्यव्याहतप्रसराणि आयुष्मच्छ्रोतृकाणि च भवन्ति । ननु च नेह विश्वमपायेभ्य इति कर्मापादापदयोः श्रवणमस्ति । तत्कथमिवेयं द्वादशपदा नान्दीति? उच्यते, पात्विती श्रुतिपदमेतत् श्रुतेश्चानेकपदनिबन्धन एकशब्दविषयो विध्यादिरर्थः स चान्यथानुपपद्यमानः स्वसिद्धये कर्मकरणकत्र्रधिकरणादिकं यदाश्चानेकपदनिबन्धन एकशब्दविशषयो विध्यादिरर्थः, चान्यथानुपपद्यमानः स्वसिद्धये कर्मकरणकत्र्रधिकरणादिकं यदाक्षिपति स सर्वश्रुतिपदार्थो भवति । तत्रोपादीमुपादीयमानं कर्तृकर्मादिकं नियमायानुपादाय वा विज्ञायते । तद्यथा सामान्याक्षेपे विशेषपदमुपादीयमानं नियमाय भवति । पातु वः परमज्योतिरिति विशेषाक्षेपे तत्र तदनुपादाय वुज्ञायते देवो जलं वर्षतीति । इहतु यथाष्टवर्षं ब्राढद्धठ्ठड़14;णमुपनयीत, तमध्यापयेदिति वचनात् स्वाध्यायोऽध्येतव्य इत्यत्र द्विजेनाचार्यादित्यनुपात्तमप्यवश्यमेव सन्निधीयते, तथेहाप्यपायनिर्हरणरूपत्वात्पात्वर्थस्य स्थितेऽपीश्वरकर्तृकस्य सृष्टिसंहारयोरिव विश्वविषयत्वादपायेभ्यो विश्वमिति पदद्वयमनुपादीयमानमपि नियमेन सन्निधीयते ।।7.15. ननु चाशरीरिणे महेश्वस्य विश्वोत्पत्तिस्थितिप्रलयकारमत्वाभ्युपगमेऽपि कथमिवोच्येत वपुः पात्विति । अशरीरिणोऽपि वैश्वरूप्येण तदुपपत्तेः । सह्येवं तत्त्वविद्भिः स्तूयते---- मूलजालमधिभोक्तृचेतना शक्तयस्त्वदभिभोक्तृसंहतिः । ज्ञानमेतदधिनायकव्रजस्त्वत्स्मृतौ युगपदेव भासते ।। अत एव कान्तविमिश्रवपुष इति पुरारेर्विशेषणं तन्त्रेणान्यथा व्यातक्षते । तद्यथा--कं पानीयमन्तेऽस्या इति कान्ता पृथ्वी, कं सुखमन्तेष्वासामिति कान्ता आपः । को वायुरन्ते अस्येति कान्तोवढिद्धठ्ठड़14;नः । कं तोयमन्तरिति कान्तो वायुः । कं ब्रह्म अन्तेऽस्येति कान्तमाकाशम्, कान्तिर्दीप्तिस्तदतिशयवान् कान्तः सूर्यः, कान्तिः कमनीयकं तदतिशयवांश्चन्द्रमाः, कान्तिर्वाल्लभ्यं तदतिशयवान् कान्त आत्मेति कान्तशब्देनाष्टापि भगवतो मूर्तय उच्यन्ते । ता अवन्तीत्येवं शीलाभवोग्रभीमादयो मूर्तिपतयः कान्तविनः । मिश्रशब्दः पूजावचनः । तेनैषां प्रशसावचनैश्चेत्यार्थमिश्रादिवत् समासः । ततः कान्ताविमिश्रं वपुर्यस्येति । बहुव्रीहौ वैश्वरूप्यसिद्धेर्विक्षितार्थसिद्धिः ।। 7.16. अथात्राच्छिन्नमेखलमित्यादीनां कथमन्वयः? तान्यपि वपुषो विशेषणानि भवन्ति । तत्राच्छिन्नमेखलमित्यनेन परमुच्यते । मेखला हि जघनपरिक्षेपसूत्रम्, तदपरिच्छिन्नं यस्येति । अलब्धदृडड्डत्ध्;ोपगूढमित्यनेनागाधत्वस्य दुरवगाहत्वमाख्यायेत, दुंहतीति दृढ आधारस्तस्योपगूढमुपश्लेषः प्रतिष्ठास्थानं, तदनुपलब्धं यस्येति । अप्राप्तयुम्बनमित्यनेनोञ्चैष्ट्वस्य परिसूक्ष्मत्वमभिधत्ते । वक्ता कुतस्त्याकुतोमुखीवेत्यविज्ञायमाना कान्तिर्यस्येति, कृतविप्रलम्भसम्भोगसख्यमिवेत्यनेन त्वविज्ञातपरमार्थत्वेन विप्रलभमानमिव पृथिव्यादिप्रसिद्धर#ूपतया संभुज्यमानं संभुञ्जानमिव च, तदेवोच्यते यदित्थमेनमाहुः --- त्वमेव हव्यं होता च भोज्यं भोक्ता च शाश्वतम् । वेद्यं वेदयिता चासि ध्यता ध्येयं च तत्परम् ।। अयमप्याह-- विदितं वो यथा स्वार्था न मे काश्चित्प्रवृत्तयः । ननु मूर्तिभिरष्टाभिरित्थं भूतोऽस्मिन् सूचितः ।। तदमुना विशेषणपञ्चकेनैतदुक्तं भवति -- णमहअवड्ड्डित्ध्;ढअतुंगं अविसारि अवित्थं अअणोणअगहिरं । अप्यलहु परिसङ्णं अणाअपरमत्थपाअडंड्डत्ध्; महुमहणं ।। ननु च पात्विति नायं विधौ लोट् ; अपित्वाशिषि । सा च विशेषस्याश्रुतौ स्वरूपादेवात्मविषयतया तिष्ठत इति कथं विश्वविषया भवति । उच्यते -- अयं निजः परो वेति विकल्पो लघुचेतसाम् । उदाररितानां तु वसिधैव कुटुम्बकम् ।। यदुवा नास्य वाक्यस्य यः कश्चिद्वक्ता, किं तर्हि पूर्वज्ञैः क्रमागतविश्वपालने नियुक्तो महामहेश्वरः कोऽपि पुंविशेषः । स च ग्रन्थविरचनाव्यग्रे मयि माभूद्वर्णाश्रयमाचारस्थिते व्याकोप इति महेश्वरमेव तत्सम्र्थं प्रार्थयते । अतोऽत्र विश्वस्यैव कर्मत्वमवगम्यते । रक्षितो राजा राज्यं रक्षतीति च न्यायादात्मन्यपि रक्षणीयताशीर्भवति । आत्मनि तिस्रश्चैषणा भवन्ति, प्राणैषणा वित्तैषणा परलोकैषणा च । राज्ञो याह्येव प्राणैषणा सा वित्तेषणा सैव परसोकैषणेति भवति। तस्य प्रकृतिकं राज्यं शरीरं तदेव च वित्तं त्सय ह्यसौ स्वाम#्यमनुभवति। यथोक्तदण्डड्डत्ध्;करादानादिसम्भृतं वसु यशश्च वित्तं सएव च धर्मः तेन ह्यसाविमममुं च लोकं जयति, तदेतत्सर्वमपायेभ्यो विश्वरक्षयोपहितं भवति। इष्टा देवता स्तोतव्येति शिष्टाचारः, नचाशीस्स्तुतिः । एवमेतत् ; किन्तु गुणोत्कर्षप्रकाशनेन सर्वत्र उपर्यारोपणं स्तुतिः । सा च यथाऽऽशास्यमानाभिमतफलैकहेतुताप्रकाशनेन प्रत्याय्यत । नैवं, नमस्तस्मै स जयतीत्येवमादिभिरित्याभिप्रायः ।। अथाखण्डड्डत्ध्;वाक्यार्थपक्षावलम्बिनो द्वितीयश्लोकस्य व्याख्या--- स भगवान् गणादिनाथो विध्नाच्छिदेऽस्तु यत्पादपङ्कजरजः परिमार्जितेषु । चेतस्तु दर्पणतलामलतां गतेषु शब्दार्थसम्पद उदारतराः स्फुरन्ति ।। इति ।। इहापि पङ्कजदर्पणार्थसम्पद्भगवदादयः शब्दाः गौणीयवृत्त्या मङ्गलार्थाः, इयमपि द्वादशपदा नान्द्येव । इहापि रुपकोपमश्लेषसमाधिगर्भः कारणमालाङ्गवानाशीरलङ्कारः इति योजनीयः । ननु च सम्बन्धिनोऽद्याहारात्र्त्रयोदशेह पदानि । नैवं, विभक्त्यादिपरिमाणेन शब्दार्थसम्पत्पिरस्फुणस्यैवात्र सम्बन्धित्वात् । तथाह्येवमियं कारणमाला समाप्यते । भगवतः पादपङ्कजमार्जने मार्जनस्य नैर्मल्ये नैर्मल्यस्य शब्दसम्पदामर्थसम्पदां च परिस्फुरणे तस्य च प्रबन्धविध्नाच्छिदे कारणं भवतीति रूपकोपमाश्लेषपदानि चेह पादपङ्कजदर्पणतलामलरजांसि प्रतीयन्ते । तत्रोदारतरा शब्दार्थसम्पदः परिस्फुरन्तीति च समाधिरपि प्रकाशते । आदर्शतलेषु हि किलोदारदर्शनाः स्त्रियः स्वलङ्कृतमात्मानमवलोकयन्ति । एतञ्च वक्तुरुदारवाचां सूचनापरमित्यवधार्यमाणमस्य वचसस्तात्पर्ये भवति, तदिदमुक्तं तात्पर्यमेव वचसीति । कः पुनरिह रूपकोपमयोर्विशेषः? उच्यते । यत्रात्यन्तसादृश्यादभेदोपचारेणेवादिशब्दविकलमुपमानपदमेवोपमेये प्रवर्तमाने गौणीं वृत्तिमनुभत्सामानाधिकरण्येन विशेषणत्वमनुभवति । तद्रूपकम् । यथा मुखचन्द्रः, पादपङ्कजमिति । यत्र तु मुख्यानुभव रूपेयमात्मनोपमेयस्य साम्यमभिधत्ते सोपमा । यथा - चन्द्र इव मुखमादर्शतलामलं चेति ।। 7.17. अथ यथेषदसमाप्तिप्रकृत्योबहुच्कल्पबादयः कनादयो वा अत्यन्तसादृश्यादुपमेयवृत्तिभ्य एवोपमानशब्देभ्यः स्वार्थिका विधीयन्ते तदा किमुपमाने प्रत्यय आहो उपमेय इति । किञ्चातः यद्युपमाने गुडड्डत्ध्;कल्पा द्राक्षा कुशाग्रीया बुद्धिरित्युपमेयलिङ्गं न प्राप्नोति तदा उपमेये बहुगुडड्डत्ध्;ो द्राक्षा चञ्चा च लिङ्गं न प्राप्नोति । लिङ्गमशिष्यं लोकाश्रयत्वत् । स्वार्थकाश्च क्कचित्प्रकृतितो लिङ्गवचनान्यतिवर्तन्ते, यथा -- देव एव देवता, चत्वार एव वर्णाश्चातुर्वण्र्यमिति, किमेकद्वक्तव्यं कथमनुक्तं गम्यते, आचार्यकविधाने णचः स्त्रियामञिति पुनः स्त्रीग्रहणं करोति । अभेदोपचारेणैव च प्रकृतिलिङ्गवचनं या लुम्मनुष्य इति लुकमतिक्रम्य प्रतृतिवचनेभ्यो लुपं शास्ति । कथंपुनरीषदपरिसमाप्ताविवे प्रतिकृताविति इवार्थे वा विधीयमानः प्रत्यय उपमान उपमेये वा शङ्क्येत? ईषदपरिसमाप्ते क्रियात्वेन इवार्थ#े वा विधीयमानः प्रत्यय उपमान उपमेये वा शङ्क्येत ? ईषादपरिसमाप्तेक्रियात्वेन इवार्थस्यचासत्त्वभूतत्वेन लिङ्गवचनायोगात् प्रत्ययान्तरेषु च लिङ्गङ्ख्यावशादीषदपरिसमाप्तौ प्रतिकृतौ चेवार्थे वा वर्तमानात्प्रातिपदिकात् स्वार्थे प्रत्ययो भवतीति विज्ञायते विज्ञायते । किं पुनरिहन्याय्यं उपमाने प्रत्यय इति ।। 7.18. ननु च गुडड्डत्ध्; इवायं गुडड्डत्ध्;ो द्राक्षा, चञ्चेवायं पुरुष इति गुडड्डत्ध्;ादिशब्दा माधुर्यादिगुणयोगेन द्राक्षादिषु वर्तन्ते । ततश्च द्राक्षादयः प्रकृत्यर्था भवन्ति । प्रकृत्यर्थे चोपमेये स्वार्थिकाः कल्पबादय इति कथमुपमाने प्रत्यय इति । मैवम् ; न हि द्राक्षायास्तत्रापरिसमाप्तिरपि तु गुडड्डत्ध्;स्य । येन हि गुणेन मादुर्यादिना गुजशब्दो द्राक्षायां वर्तमानो गौणीं वृत्तिमनुभवति तस्यैवेषदसमाप्तौ प्रत्यय विधीयते । अद्यैवं गुडड्डत्ध्;स्येषदपरिसमाप्तौ वर्तमानस्य स्वार्थे प्रत्ययविधानात् बहुगुडड्डत्ध्;ो द्राक्षेति । सोऽयमित्यभिसम्बन्धादव्यतिरेकइति चेद्व्यरेकमूलत्वादव्यतिरेकस्य पक्षे व्यतिरेकप्रसङ्गः, यथा शुक्लः पटः पटस्य शुक्लइव । नैवं ; उपपद्यमानव्यतिरेकाणामुभयं भवति । नचात्रतदुपपत्तिः, न हि यथा शुक्लगुणोऽस्तीति मतुब्लोपादपृथक्सिद्धशुक्लगुणवाचिना शुक्लशब्देन पटोऽभिधीयते, तथा गुडड्डत्ध्; इत्यनेन । सहि द्रव्यशब्दो द्रव्यान्तरसामानाधिकरण्यान्यथानुपपत्त्या गौणीं वृत्तिमाश्रित्य स्वमिबन्धनं द्रव्यान्तरे व्यितरेकमुपनिधत्ते । तत्र सामानाधिकरण्यंभ्रशात् गुणवृत्तेरपि भ्रंशोमाभूदिति न व्यतिरेकक्षणा षष्ठी भवति । न च गुणवचनानामपि केषांचिल्लोके व्यतिरेक उपलभ#्यते । न हि भवति पटुः पटुकल्पोऽयं देवदत्तस्येति । कथं पुनर्गुणवृत्त्याप्युपमेये वृत्तेर्गुडड्डत्ध्;शब्दात्स्वार्थे विधीयमानः प्रत्यय उपमानं प्रत्याययति, द्रव्यवत् प्रवृत्तिनिमित्तस्यापि स्वार्थत्वात् । तथा हि चञ्चा तृणमयः पुरुषो यः क्षेक्षरक्षणाय क्रियते तस्य च पुरुषे प्रवर्तमानस्य स्वाकारः प्रवृत्तिनिमित्तम् । अतः इवे प्रतिकृतावितीवार्थे तत्रैव प्रत्ययो भवति ।। 7.19. ननु च यदि प्रतिकृतौ वर्तमानात् प्रातिपदिकात् स्वार्थे प्रत्ययः किमिवार्थ इत्यनेन, अथेवार्थेकृतं प्रतिकृतावित्यनेन? उच्यते ; उपरितशब्दनां शक्तिमहिम्नैव त्रयी गतिर्भवति। क्कचिदिवार्थ एव स्वार्थिकः कुशाग्रीया बुद्धिः शैलेयं दधीति, क्कचितप्रतिकृत#ावेव वासिदेवो भीमसेन इति, क्कचिदिवार्थे प्रतिकृतौ च यथावरोरुः पीवरोरुरिति । अत्र यदि वरशब्देन पीवरशब्देन वा ऊर्वोरेव गुणोऽभिधीयते तदा ऊरूत्तरपदादौपम्ये इत्युङ् सिध्यति । ततश्चौपम्याय कर्तव्योऽत्र यत्नः स्यात् । यदि वरशब्दः पीवरशब्दो वा वरे पीवरे च रम्भास्तम्भस्तम्बेरमकरादौ वर्तित्वात्तत्सादृश्यात्तदुपमेययोरूर्वोर्वर्तेत तञ्चेवार्थे प्रतिकृतौ वर्तमानायोस्तयोः प्रत्ययलुग्विधाने भवति । अन्यथाहि वरत्वं पीवरत्वमेव च लभ्यते, न संस्थानविशेष इति न भवितव्यम् । प्रत्ययमन्तरेणापि स्वस्रादीनामिव तस्य ताच्छीलिकान्तत्वेन स्त्रीत्वाभिधानमेव ऋन्नेभ्यो ङीबित्यस्य न षट्स्वस्रादिभ्य इति प्रतिषेधः प्रत्याख्यायते । किं पुनरभीउपमानशब्दा लुप्तप्रत्ययत्वेन गुणीभूता एव कल्पबादीनामुत्पत्तिनिमित्तं भवन्ति । बाढम् । अजादि गुणवचनादेवेत्यातो हि गुणवचनादित्यधिक्रियते । ततश्च बहुच्कल्पब्देश्यदेशीयर ईषदसमाप्तिमेवं प्रशंसायां रूपप् विधीयमानः पचति रूपं पचतो रूपं पचन्ति रूपमित क्रियालक्षणस#्य गुणस्यैव प्रशंसां द्योतयन्ति । अन्यथा हि सर्वत्रैकवचनं न स्यात् । न च द्रव्यस्य समाप्तिः कुत्सा प्रशंसा वा स्वतः सम्भवति, अपि तु गुणतः । अतश्च गौण्या मुख्या वा मन्दमद्योत्कृष्टेषु गुणेषु वर्तमानात्प्रातिपदिकादीषदसमाप्तौ द्योत्यायां कल्पबादयो भवन्ति । 7.20. ननु च निज्र्ञातस्यार्थस्य समाप्तिरसमाप्तिर्वा भवति । गुणश्च निज्र्ञातः, लोकतो गुणस्य निज्र्ञनं । तद्यथा -- पटुरयं ब्राह्मणः । यो लघुनोपायेनार्थं निर्वर्तयति, पटुकल्पोऽयं यो नातिलघुनेति । एवं पटुतरः शुक्लतमः कनीयान्पटिष्ठः उत्कृष्टतरः वैयाकरणपाशइत्यादिषु तरबादयोऽपि गुणवचनेभ्यो विधीयमाना गुणगतमेव प्रकर्षं द्योतयन्ति । कथं पुनरिशायनादौ विधीयमानास्तरबादयो गुमप्रकर्षं भविष्यन्ति, न पुनद्र्रव्यप्रकर्ष इति ; नैवं ; द्रव्यस्य प्रकर्षः संभवति । किं तर्हि? गुणस्य च प्रकर्षोऽस्ति, तस्य प्रकर्षो भविष्यति? कथं ज्ञायते गुणस्यैव प्रकर्ष इति? एवं हि दृश्यते लोके समान आयामे विस्तारे च पटस्यान्योऽर्थो भवति काशिकस्यान्यो माधुरस्य गुणान्तरं खल्वपि शिल्पिनः प्रकर्षायोत्पाद्यमानस्तमेव द्रव्यान्तरेण प्रक्षालयन्त्यन्येन शुद्धं धौतं कुर्वन्त्यनेन शेफलिकमन्येन माध्यमिकमिति । तर्हि शुक्लात्कृष्णो माभूदिति समानग्रहणं कर्तव्यम् । न कतव्र्यम् । स्पर्धा वै प्रकर्षः, सा च समानगुणा एव भवति, न ह्याढ्याभिरूपौ स्पर्देते । पाचकेन खल्पप्युत्पत्तव्यम् । न च शुक्लात्कृष्णे उत्पद्यमानो वाचकः स्यात् । यत्र तत्तस्यात्, तत्रोत्पद्यत एव यथा शुक्लात्कृष्णो भासुरतर इति न तर्हीदानीमिदं भवति । अध्वयुर्वै श्रेयान् पापीयान् प्रतिप्रस्थाता अन्धानां काणतमी राजेति समानगुण एवैषा स्पर्धा । अध्वर्युर्वै श्रेयानन्येभ्यः प्रशस्तेभ्यः पापीयान् प्रतिप्रस्थाता अन्येभ्यः पापेभ्यः काणतम इति, कणिरयं सौक्ष्म्येवर्तते । सर्वइमे काणाः किञ्चित्पश्यन्ति, अयं तु किञ्चिदपि न पश्यतिती काणतम उच्यते । तस्यादूरविप्रकर्षं इति वक्तव्यम् । सर्षपाद्धिमवतो महत्त्वं माभूदिति न वक्तव्यम् । जननेन या प्राप्यते सा जातिः । न चैतस्यार्थस्य प्रकर्षाप्रकर्षै स्तः ।। 7.21. अथ शुक्लतर इत्यादिषु किमेकं शौक्लयं आहोस्विन्नाना । किञ्चातः यद्येकः प्रकर्षो नोपपद्यते, नहि तेनैव तस्य प्रकार्षो भवति । अथ नाना समानगुणग्रहणं कर्तव्यं शुक्लात्कृष्णो माभूदिति एकं शौक्ल्यं तत्तु विशेषवत्, किंकुतो विशेषः? अल्पत्वबहुत्वकृतः, अथवा पुनरस्त्वेकं निर्विशेषं च । ननूक्तं प्रकर्षो नोपपद्यते गुणान्तरेण प्रच्छादनात् भविष्यति । अथेहास्य शुक्लानि वस्त्राणि अस्यातिशयेन शुक्लानीति शुक्लतरस्त्र इति प्राप्नोति । शुक्लवस्त्रतर इति चेष्यते । उक्तमत्र-- किमुक्तं पूर्वपदातिशय आतिशायिकाद्वहुव्रीहि#ः सूक्ष्मवस्त्रतराद्यर्थः उत्तरपदातिशय आतिशायिको बहुव्रीहेर्बढद्धठ्ठड़14;वाझढ्यतराद्यर्थ इति ।। 7.22. अथ यत्र त्रीणि शुक्लानि प्रकर्षापर्कषयुक्तानि तत्र पूर्वंपूर्वमपेक्ष्य द्वे तरबन्ते, तत्र शुक्लतरशब्दादुत्पत्तिः प्राप्नोति । शुक्लशब्दे शुक्लशब्दोऽप्यस्तीति शुक्लादेवोत्पत्तिर्भविष्यति । नैतद्विवदामहे, शुक्लातरशब्दे शुक्लाशब्दोऽस्त्युत नास्तु। किं तर्हि? शुक्लशब्दोऽप्यस्ति, तत उत्पत्तिः प्राप्नोति तदन्ताञ्चातिशायिको दृश्यते । तद्यथा-- देवो वः सविता प्रार्पयतु श्रेष्ठतमाय कर्मणे, युधिष्ठिरः श्रेष्ठतमः कुरूणामिति । अयं तर्हि परिहारः मध्यमाच्छुक्लशब्दात् पूर्वपरापेक्षात् प्रत्ययेनोत्पत्तव्यम् । मध्यमश्च शुक्लाशब्दः पूर्वमपेक्ष्य प्रकृष्टः परमपेक्ष्य न्यूनः प्रकर्षाय प्रवर्तते । न च बहूनां प्रकर्षे तरपा भवितव्यम् । केन तर्हि? तमपा । श्रेष्ठतमाय, श्रेष्ठतम इति छन्दस्येव भवति, वाचकेन खलु ह्युत्पत्तव्यम् । न च शुक्लतरशब्दादुत्पद्यमानो वाचकःस्यात् । उक्तं च - अपेक्ष्य मध्यमः पूर्वमाधिक्यं लभ्तेस्तितः । परन्तुन्यूनतामेति न च न्यीनः प्रवर्तते ।। अस्तु वाऽपि तरप्तस्मान्नापशब्दो भविष्यति । वाचकश्चेत्प्रयोक्तव्यो वाचकश्चेत्प्रयोज्यताम् ।। अथ यद्यातिशायिका गुणप्रकर्ष एवोत्पद्यन्ते किमर्थमुच्यते अजादी गुणवचनादेवेति? एतौ गुणविशेषवचनेभ्य एव यथा स्यातामिति । गुणाः खल्विह द्विप्रकारा विप्रथन्ते - तत्स्थाश्च, तद्विशेषणानि च । यदाह-- तत्स्थैश्च गुणैः षष्ठी समस्यते ; नतु तद्विशेषणौरिति । तत्र ये भावप्रत्ययोत्पत्तिमन्तरेण द्रव्यात्पृथगाख्यातुमशक्याः स्वशब्दैद्र्रवयरतयैवाभिधीयन्ते ते तत्स्थाः । तद्यथा-- पटुः पुमान्, मृदुः शय्या, द्रव्यम्, लघुरूपायः । एवमणुर्महान्दीर्घो ह्रस्वः पृथुः कृशो दृढः स्थूल इत्यादयो वक्तव्याः ।। 7.23.ये तु स्वशब्दैः पृथक्प्रख्यायमानामतुब्लोपादिना द्रव्यं विशेषयन्ति ते तद्विशेषणानि । तद्यथा -- शुक्लगुणयोगाच्छुक्ला बलाका, कृष्णगुणयोगात्कृष्णःकाकः, तीक्ष्णगुणयोगात्तीक्ष्णः कण्ठकः, दक्षगुणयोगाद्दक्षः पुरुषः । एवं शीतोष्णास्वादुसुरभिवत्सलोत्सुकरभसमत्सरादयो वक्तव्यः । तत्र यथा---बलाकायाः शुक्लः, काकस्य कृष्णः, कण्टकस्य तीक्ष्णः, पुरुषस्य दक्ष इत्यादौ । तथा बलाकायाः शौक्ल्यम्, काकस्य काष्ण्र्यम्, कण्टकस्य तैक्ष्ण्यम्, पुरुषस्य दाक्ष्यमित्यादावपि समासो न भवति । गन्धरसरूपस्पर्शसङ्ख्यापरिमाणादयस्तु न तत्स्थाः, नापि तद्विशेषणानि । तेषां शुक्लादिसङ्घातेषु शास्त्रकारसङ्केतात् द्रव्यवचनत्वेनैव राजपुरुषादिवत् षष्ठीसमासा भवन्ति । तद्यथा -- चन्दनगन्धः, चूतफलरसः, कन्यारूपं, कुचस्पर्शः, मृदुरित्युदाहृत्य च तीव्रमृदुगिणयोगात् गुणवृत्त्या गन्धस्पर्शविशेषणत्वेन स#ापेक्षत्वे सत्यसामथ्र्याल्लब्धेऽपि समासाभावे यदा प्रकरणवशात्तीव्रशब्द एव विशिष्टगन्धवृत्तिस्तदा तदर्थोपचित एव व्यतिरेक षष्ठीसमासफ्रसङ्ग इति प्रतिषेधोपपत्तिरुक्ता । त एवं प्रष्टव्याः कथं प्रकरणाद्यपेक्षायमामपि सापेक्षत्वस्य तादवस्थ्यान्नासामथ्र्यमिति?तदेवं तत्स्थैर्गुणैः षष्ठी समस्यते पटुत्वादिभिः, न तु तद्विशेषणैः शुक्लादिभिरिति, किं वक्तव्यमेतत्? न हि कथमनुक्तं गंस्यते आचार्याणां च प्रवृत्तयो गमयन्ति? तत्रार्थैकत्वं गोसहस्त्रमित्यादिष्वर्थैकत्वादेकं वाक्यं शतसहस्त्रान्ताञ्टच निष्कात्कोशशतयोजनशतयोरुपसङ्ख्यानं; तत्समुदायः खारीशतमपि न प्रसूतमित्यादिडैड्डत्ध्;मिन्यादिमुनिचतुष्टयवचनात् सङ्ख्यया परिमाणेन च समासो न निषिध्यते । वर्तमानसामीप्ये वर्तमानवद्वा अपरस्पराः क्रियासातत्ये उत्तरपदार्थप्राधान्ये तद्यत्नगौरवं प्रसज्येतेति सूत्रकारभाष्यकारप्रयोगाढ्च कुस#ुमसौकुमार्यदिशब्दसिद्धिः तेनावगम्यते तत्स्थैर्गुणैरेवं प्रकारैः षष्ठीसमस्यत इति । नन्वेवमपि, द्विरदमदजलैघासारसौरभ्यगर्भः कुचकलशमहोष्माबद्धरेखस्तुषारः । तुहुनगिरिशिलायां शैत्यसङ्क्रान्तिमत्यां ..................... ।। इत्येवमादिनामनुपपत्तिः । सप्तमीसमासा इमे भविष्यन्ति । कथं पुनः सौरभ्यदीनामाधारतः पृथगुपलम्भे सप्तमी भवति । उच्यते, समस्तमूर्तिमद्द्रव्याणां पाञ्चभौतिकत्वे वायुना विभक्तावयवा अप्यपार्थिवादिद्रव्यसूक्ष्मभागा यत्रयत्र सञ्चार्यन्ते तत्रतत्रैतेषु घ्राणादिसम#्बन्धिनिबन्धनाद्युपलब्धिरित्यधिकरणविभक्तेर्नानुपपत्तिः । एवमपि भागानामेवाधिकरणत्वं, न भागवताम् ; न भगवताम् ; न हि निकृत्तस्य हस्तपादादेः पुरुषादिव्यपदेशो भवति । एवमेतत्, किन्तु पृथक्स्थितानामप्यवयवानामयविव्यपदेशो दृश्यते, तद्यथा---राहोः शिरो राहुः, श#िवस्य लिङ्गं शिव इति । न चैतद्वाच्यम्, एवं सति समुद्गकादिस्थस्य कूर्पूरादेर्बहिरुपलभ्यमानबहुलपरिमलस्य कालान्तरेणोपक्षयः स्यात् ; तद्वदेव दृष्टसन्निधेस्तत्रान्यभागानामुपनिपातात् । अत एव पुराणद्रव्याणां गन्धरसरूपस्पर्शगौरवप्रभाबविपाकवीर्यविपर्यया युज्यन्त इति ।। 7.24. तदेवं यैः सह षष्ठीसमास इष्यते तेभ्य एवेयसिनिष्ठनोर्विधानमिति नानार्थकं गुणवचनादेवेति । ननु च गुणाक्तवान् मतुबुत्पत्तेः पूर्वमिति गुमवचनः शुक्लादिर्गुणं वक्ष्यति भावप्रत्ययोत्पत्त्येति गुणवचनः पद्वादिः । विशेषवचनतवाविशेषे यावदजादी पद्वादिभ्य उत्पद्येते तावच्ठुबलादिभ्यः -- "प्रशस्यस्य", "ज्यच", "वृद्धस्य च", "अन्तिकबाढयोर्नेदसाधौ","युवाल्पयोः कनन्यतरस्यामिति। अपिचेष्ठेमेयस्स्वित्यधिकृत्य यदयं स्थूलदूरयुवह्रस्वक्षिप्रक्षुद्राणां यणादिपरं लुप्यते पूर्वस्य च गुणो भवितीत्यभिधत्ते । प्रियस्थिरस्फिरोरुबहुलगुरुवृद्धतृप्रदीर्घबृन्दाकाणां प्रस्थस्फवर्बंहिगर्वर्षित्रप्द्राधि वृन्दाः, इत्याह । "बहोर्लोपो भूचबहोरिति ब्रूते ।" र ऋतो हलादेर्लघो"रित्यत्र पृथमृदुदृढकृशभृशपरिबृढानामिति परिगणनं करोति । तद्ज्ञापयति तत्स्थगुमवचनेभ्य एवेयसुनिष्ठनौभवत इति । ततश्च यथा शुक्लतरः कृष्णतम इत्यादि भवति, नैवं शुक्लीयान् कृष्णिष्ठ इत्यादि । यथा च मृदिष्ठः पटीयानिति भवति, नैवं कारकिष्ठः पाचकीयानिति । कथं तर्हि ओजिष्ठः पापीयानिति? विन्मतोर्लुगिति ज्ञापकेन तदन्ताद्भविष्यति । 7.25. अथ यथा चन्द्रकल्पं मुखं, गुडड्डत्ध्;कल्पा द्राक्षा, तथा चन्द्रतमं गुडड्डत्ध्;तमेति कस्मान्न भवति? प्रकर्षाभावात् । न हि केनचिद्गुणेनोपमेयवृत्तीनामुपमानशब्दानामतज्जातीयेषु वर्तमानानां स्वार्थापेक्षया प्रकर्षः सम्भवति । यत्र तु तज्जातीयेषु गुणाभिधानं तत्र भवत्येवातिशयि तत् । तद्यथा-- गौरयं शकटं गोतरोऽयं यः शकटं सीरं च । गौरियं या समां समां विजायते गोतरेयं या समां सम#ीचीना जीववत्सा च । दृश्यते हि जातिवाचिनस्तज्जतीयेष्वपि गुणाभिधायित्वम् । सङ्ग्रामेषु चरत्येष पुरुषः पुरुषो यथा । नाम यस्याभिनन्दन्ति द्विषोऽपि सपुमान्पुमान् ।। इति ।। यद्येवं चन्द्रगुडड्डत्ध्;ादिभ्यः कल्पबादयोऽपि न स्यु । नैवं तेषामीषदसमाप्ताव्व विधानात् । तर्हि कृतकल्पं भुक्तकल्पमिति क्तान्तेभ्यः नचास्ति सम्भवो यद्भूतं च स्यादसमाप्तं च, आशंसायां भूतवञ्चेति वचनाद्भविष्यति ।। ।। प्रविभागः ।। 7.26. पदे वाक्ये प्रबन्धे वाऽसौतावतः शब्दस्यायमर्थोऽस्मिन्नर्थे चायमेतावच्छब्द इति शब्दार्थयोर्मिथः सम्बन्धितया पृथक्त्वेनावधारणं प्रविभागः । स द्विविधोऽन्वयव्यतिरेकाभ्यां इह खल्पत्यन्तसंसृष्टानां पदार्थानां प्रविभागेऽन्वयव्यतिरेकाभ्यां नान्यो हेतिरस्ति । यथा--लोके बधिरोऽपि चक्षुषा न लोकयति, सत्यपि श्रोत्रे उपहतचक्षुर्नालोकयतिरूपमित्यन्वयव्यतिरेकाभ्यां चक्षुश्श्रोत्रसन्निधानें रूपालोकनं चक्षुष एव व्यवस्थाप्यते न श्रोक्षस्य, तथा शब्दशास्त्रेऽपि, सुबन्तेषु तिङन्तेषु च पदेष्वत्यन्तसंसृष्टा अर्थात्म#ानः शब्दाश्च प्रकृतिप्रत्ययादयो मिथस्सम्बन्धित्वेनान्वयव्यतिरेकाभ्यामेव प्रविभज्यनते । तत्रावस्थितस्यानुवृत्तिरन्वयः, तद्विपर्ययो व्यतिरेकः, स द्विविधो जन्महानिभ्याम् । तद्यथा--वृक्ष इत्यक्ते कश्चिच्छब्दः श्रूयते वृक्ष इत्यकारान्तः सकारश्च प्रत्ययः, अर्थ#ोऽपि कश्चिद्गम्यते शाखादिमत्त्वमेक्त्वं च । ऋक्ष इत्युक्ते कश्चिच्छब्दो हीयते कश्चिदुपजायते कश्चिदन्वयी । वृक्षशब्दो हीयते ऋक्षशब्द उपजायते सकारोऽन्वयी, अर्थोऽपि कश्चिद्धीयते कश्चिदुपजायते कश्चिन्वयी, शाखादिमत्त्वं हीयते सटादिमत्त्वमुपजायते एकत्वमन्वय#ीति । वृक्षावित्युक्ते सकारो हीयते औकारः उपजायते वृक्षशब्दोऽन्वयी । अर्थेऽप्येकत्वं हीयते द्वित्वमुपजायते शाखादिमत्त्वमन्वयीति । तिङन्तेषु शल्वपि पचतीत्युक्ते कश्चिच्छब्दः श्रूयते पच इति चकाराब्तः अतिशब्दः प्रत्ययः अर्थोऽपि कश्चिद्गम्यते विक्लित्तिः कर्तृत्वं च, पठतीत्युक्ते कश्चिच्छब्दो हीयते कश्चिदुपजायते कश्चिदन्वयीति । पच्छब्दो हीयते पठशब्द उपजायते अतिशब्दोऽन्वयी । अर्थोऽपि कश्चिद्धीयते कश्चिदुपजायते कश्चिदन्वयी, विक्लित्तिर्हियते पठिक्रियोपजायते कर्तृत्वमन्वयी । पच्यत इत्युक्ते अतिशब्दो हीयतेयशब्द उपजायते पच्छब्दोऽन्वयी, अर्थोऽपि कर्तृत्वं हीयते कर्मत्वमुपजायते विक्लित्तिरन्वयिनीति । ते मन्यामहे यश्शब्दो हीयते तस्यासावर्थोऽन्वयीति । एवं वाक्येऽपि गामानयेत्युक्ते केवचिच्छब्दः श्रूयते गामिति द्वितीयान्तः आनयेति च लोडड्डत्ध्;न्तः, अर्थोऽपि कश्चिद्गमयते सास्नादिमान् कर्मत्वमापन्नः आनयेति क्रियार्थत्वविधित्वमापन्नः, अथाश्वमानयेत्युक्ते गवार्थो हीयते अश्वार्थ उपजायते आनयेति क्रियार्थत्वविधित्वमापन्नः, अथाश्वमानयेत्युक्ते गवार्थो हीयते अश्वार्थ उपजायते आनयनार्थोऽन्वयी, गांबधानेत्युक्ते आनयनार्थो हीयते बन्धनार्थ उपजायते गवार्थोऽन्वयी । एवं गौरानीयतामश्व आनीयतां गौर्बध्यतामश्वो बध्यतामित्यादिषु कर्मकर्तृत्वयोर्हानिरूपडड्डत्ध्;निश्चाभ्युह्याः । एतेन प्रबन्धोऽपि व्याख्यातः । कश्चिदाह, मारीचो रामेण हतः । कश्चिदाह, लक्ष्मणेनेति । तत्र मारीचमृगाघाते रामो हीयतेलक्ष्मण उपजायते लक्ष्मणो वा हीयते राम उपजायते, रामायणं पुनरन्वयीति ।। 7.27. ननु च वृक्षऋक्ष इति वकारो हीयते ऋ उपजायते वा ; पचति पठतीति चकारो हीयते ठकार उपजायत इति वक्तव्ये किमर्थमुच्यते वृक्षशब्दो हीयते ऋक्षशब्द उपजायते, पच्छब्दो हीयते पठशब्द उपजायत इति ? शब्दस्यार्थवत्ता यथास्यात् न वर्णानम् । किं पुनर्न वर्णाः शब्द#ः? बाढम् । अर्थावसानप्रसवनिमित्तं शब्द इत्यभिहितं पुरस्तात् ।। 7.28. नन्वेवमपि वृक्षादीनामर्थवत्ता नोपपद्यते, किं कारणम् ? केवलेनावचनात् । न हि वृक्षादिना केवलेन कश्चिदर्थो गम्यते किं तर्हि स प्रत्ययकेन । किमुक्तं भवति, पचत्यादिष्वर्थवत्तासहचरिता केवलवचनता दृष्टा वर्णेषु चानर्थक्यसहचरितं केवलावचनत्वम् । न चैते पचत्यादिवद्दृश्यन्ते, तस्माद्वर्णवद्धृक्षादीनामर्थवत्ता नोपपद्यत इति । सप्रत्ययस्योपपद्यत इति चैन्नैवम्, इह यद्यस्य निमित्तत्वेनोपादीयते स तÏस्मस्तेन प्रवर्तितव्यम् । अर्थवत्ता च प्रातिपदिकसंज्ञाया निमित#्तम् । साच द्विधा लौकिकी पारिभाषिकीति च । तयोर्लोकि विदिता लौकीकी, क्रियाप्रधानमाख्यातम्, सत्त्वप्रधानानि नामानीति । शास्त्रे व्यवहारार्था पारिभाषिकी । दाधाध्वदाप्, तरप्तमपौघ इति । तत्र लौकीकि तावदर्थोपलब्धिगम्या, येषां च प्रातिपदिकसंज्ञा विधीयते तेन कद#ाचित्केवला उपलभ्यन्ते । पारिभाषीकी तु परिभाषया भवत्यर्थवच्छब्दरूपं तञ्च प्रातिपदिकसंज्ञमिति । एवं च शब्दत्वाविशेषाद्वर्णानामपि प्रसज्यते । इयं च परिभाषा न प्रवर्तते अर्थवढद्धठ्ठड़14;ग्रहणे नानार्थकस्येति, तदेवमर्थवत्ताया निमित्तस्यभावे प्रातिपदिकसंज्ञा न प्रवर्तते ; तदप्रवृत्तौ तु कथं प्रत्ययोत्पत्तिरिति? नैवम् । प्रत्ययेन नित्यसम्बन्धात् केवलस्याप्रयोगः, नित्यसम्बन्धावेतावर्थो प्रकृतिः प्रत्यय इति, अतो नित्यसम्बन्धात् केवलस्य प्रयोगो न भविष्यति ।। 7.29. ननु च भवानाम्रान्पृष्टः कोविदारानाचष्टे, अर्थवत्ता नोपपद्यते केवलेनावचनादिति पृष्टः केवलस्याप्रयोगे हेतुमाह नाभिप्रायापरिज्ञानात् ।। 7.30. नन्वेवं ब्रवीमि यदितावत् केवलेनावचनादित्येवमयं हेतुरुपमन्यस्तः यस्मात्केवलो न प्रयुज्यते तस्मादवर्थक इति । तदेवं वक्तव्यं केवस्याप्रयोगादिति । न वक्तव्यं केवलेवाबचनादिति । केवलस्य प्रयोगः शास्त्रसमयान्नास्ति न केवला प्रकृतिः प्रयोक्तव्या । न च केवलः प्रत्यय इति । न च लौकिका एवं प्रयुञ्चते अथ उक्तं नित्यसब्बन्धादयं केवले व प्रयुज्यते नत्वानर्थक्यादिति ।। 7.31. अथैवमुपन्यस्तः केवलेन प्रयुज्यमानेन नोच्यतेऽसावर्थ इति, क्क पुनरयं भवता केवलः प्रयुज्यमानोऽर्थमब्रुवन् दृष्टः । यदि च प्रयुज्येत नचार्थ उपलभ्यते, समुदायस्यार्थे प्रयोगादवयवार्थावामप्रसिद्धिरिति । यतो वर्णास्तावदनर्थका भवताभ्युपगताः तेषां च समुद#ायतन्त्राणां केवलानां प्रयोगो नास्ति । यद्यपि प्रयुज्येरन् अनर्थकानामेव प्रयोगः स्यात् । एवं प्रकृतीनामपि समिदाययन्त्राणां नास्ति केवलानां प्रयोगः प्रयोगे वा सत्यनर्थकाः प्रयुज्येरन् । अथैवम्भूतानामर्थवत्ता, को नाम मत्सरो वर्णेष्विति? को न मत्सरः, यदेष#ामर्थवत्त्वेऽर्थवक्कार्याणि प्राप्नुवन्ति, कान्यर्थवत्कार्याणि? अर्थवत्प्रातिपदिकमिति प्रातिपदिकसंज्ञा, प्रातिपदिकादिति स्वद्युत्पत्तिः, सुबन्तं पदमिति पदसंज्ञा च । तत्र को दोषः? प्रत्यवयवं विभक्तेः श्रवणं प्राप्नोति । नैवं, यदैवावयवानां प्रातिपदिकस#ंज्ञा प्रवर्तते तदैव समुदायस्यापीति समुदायान्तर्गतत्वात् सुपो धातुप्रातिपदिकयोरिति लुका भाव्यम् । तत्कतो विभक्तेः श्रवणम् ।। 7.32. ननु च कृत्तद्धितसमासाश्चेति । समासग्रहणं नियमार्थम्, तेनचार्थवत्समुदायस्य वाक्यस्येव वर्णसमुदायस्यापि प्रतिपदिकसंज्ञा निवार्यत इति कथं तदन्तर्गता विभक्तयो लुप्यते? नैवम् ; नियमस्य, तुल्यजातीयापक्षत्वात् समासस्येव भिन्नार्थसमुदायस्य वाक्यस्यैव प्रातिपादिकसंज्ञा निवर्तते, नत्वभिन्नार्थस्य वर्णसमुदायस्येति । अत्र हि येवैवार्थेन समुदायस्यार्थवत्त्वं तेनैष तदवयवानामपीति । एवं तर्हि निवृत्तायामपि विभक्तौ पदत्वद्धनंवनमित्यादौ न लोपादीनि प्राप्नुवÏन्त । तर्हि सङ्घातस्यैकाथ्र्यात् सुबभावो वर्णात् वृक्ष इत्यत्र ह्येकत्वं विभक्त्या द्योत्यते तञ्चैकमित्येकैव विभक्तिरूत्पद्यते, यथा बहवो द्रष्टार एकेनैव प्रदपेन दृश्यमर्थं पश्यन्ति एवं साच समुदायादेव तन्त्रेण सर्वानुग्राहिण्युत्पद्यते समुदायद्धिर्वचनात् । यथाहि पपाचेत्यादौ प्रथमस्यैकाचो द्विवचनप्रसङ्गे य#ेनैवाचा समुदाय एकाच्, नैव तदवयवोऽप्यपश्बदश्येति तत्र पृथगवद्यवैकायो न द्विरुच्यन्ते किं तर्हि? सर्वानुग्रहात् समुदायौकाच् एव । तथेहापि समुदायादुत्पत्तौ वर्णात्सुबुत्पर्त्तिन भविष्यतीति तदभावान्न पदसंज्ञा । अपदत्वाञ्च न लोपादीनामप्रसङ्ग इति । सत्यमेतत् । किन्तु वर्णेष्वन्वयव्यतिरेकयोः सद्भावेऽप्यर्थान्वयव्यतिरेकाभावादयमस्यार्थ इति प्रविभागो न प्रकल्पते । तथा हि, वृक्षः ऋक्षः पचति पठतीत्यादौ यस्य हानौ यो हीयते, यस्योपजने य उपजायते तस्यानुमेयो गच्छति स तस्यार्थ इति शक्यते वक्तुम् । नैवम्, कूपयूपसूपादावपि अनर्थका वर्णाः, अर्थवन्तो वृक्षादय इति ।। 7.33. ननु यत्र बृंहितं हीयते, हेषितमुपजायते, रेणुचक्रमन्वयि, तत्र हस्तिनो हीयन्ते, अश्वाजायन्ते, पिपीलिका तत्र माधुर्यं हीयते अम्लतोपजायते तृप्तिरन्वयिनी । नचान्वयि पात्रं तृप्तिहेतुर्भवति । तदेवमन्वयव्यतिरेके च सत्यपि कार्यकारणभावस्याभावात् कथमुच्यतेऽन्वयव्यतिरेकाभ्यायमर्थवत्तावतिष्ठच इति? नैवम् । अवधारितं हि सामथ्र्यमन्वयव्यतिरेकाभ्यां प्रविभज्यते, न च पिपीलिकानां पात्रस्य वा रेणुचक्रकृप्योः सामथ्र्यावधारणमस्ति, तत्सद्भावेऽप्यन्यत्राभावात् । त्यादिष्वपिन शक्यते । बहवो हि शब्दा एकार्था भवन्ति, एकश्च शब्दो बढद्धठ्ठड़14;वर्थः, यदिहि नियोगत एकः शब्द एकस्मिन्नर्थे वर्तते तत एष प्रविभागः स्यात् । यतस्तु व्यभिचरत्येतत् अनेकश्शब्द एकस्मिन्नर्थे, तद्यथा -- इन्द्रः शकः पुरन्दर इति । एकश्चानेकार्थः अक्षाः पादाः माषाः इत्यन#ुमानं चैकस्यैवार्थवृत्तत्व एव शक्यते कल्पयितुम् अतो व्यभिचारादनिमित्तमन्वयव्यतिरेकौ प्रकृतिप्रत्यार्थप्रविभाग इति प्रकृतिरेव सर्वार्थ स्यात् । प्रत्ययो वा सर्वार्थः, उभौवोभयार्थौ, यथैको दृश्यते हि दधिमध्वग्निचिदिति प्रकृतिरेव सर्वानर्थानभिदधाना अधुना इयान् अस्यापत्यं इरिति प्रत्यय एव वा सर्वार्थाभिधायी, हैयङ्गवीनं, श्रोक्षियः, क्षेत्रियः, इत्युभयमुभयार्थाभिधायीति । अतः किं न साधीयोऽर्थवत्ता सिद्धा भवति? यदाहि प्रकृतिरेव स्वार्थदिषु वर्तते प्रत्ययो वा तदा सुतरामर्थवत्ता सिध्यति । न ब्रूमोऽर्थवत्ता नसिध्यति । तौ त्वन्यव्यतिरेकौ नावतिष्ठेते । ततश्च कुत एतत्स्यादयं प्रकृत्यर्थोऽयं प्रत्ययार्थ इति? न पुनः प्रकृतेरेवोभावर्थो प्रत्ययस्योभयस्य वेति समान्यशब्दा एते । एवं स्युः सामान्यशब्दाश्च नान्तरेण विशेषं प्रकरणां वा विशषेऽवतिष्ठन्ते, यतस्तु खलु निय#ोगतः प्रकरणादिमन्तरेणापि वृक्ष इत्युक्ते स्वभावतः कश्चिदर्थो गम्यते, अतो मन्यामहे न इमे सामान्यशब्दाः, प्रकृतिः प्रकृत्यर्थे वर्तते इति । यदिहि सु औजस् इत्येता एव स्वार्थद्रव्यलिङ्गसङ्ख्याकर्मादिवचनाः, सहायमात्रं प्रकृतिः, स्वादिभिः सर्वेषामर्थानामुपादान#ात् वृक्षः वृक्षैः वृक्षा इति किमर्थं नियोगेन वृक्षार्थ एव गम्यते, न पुनस्सर्वे अर्थाः प्रतीयेरन्? पर्यायेण वा कदाचित्कश्चिन्न यौगपद्यं न पर्यायः । तस्मादन्वयन्यतिरेकाभ्यां समुदास्थाः शब्दाश्चापेद्धर्तव्या अर्थाश्चेति व्यवस्थिताः, अन्वयव्यतिरेकाभ्यां व#्यावहारिक्यर्थवत्ता । तत्रेदमपरिहृतं प्रकृतिरेव सर्वानर्थानभिदधाना दृश्यते प्रत्ययः सर्वार्थाभिधायी उभयं वोभयार्थाभिधायीति । तत्र परिहारः दधि मधु अग्निचिदित्येवमादिषु वचनान्तराणामिकारादीनां श्रीयमाणत्वादन्येषां च सविभक्तिकानां प्रयोगदर्शनात् ।। 7.34. अधुना इयानित्येवमादिषु प्रत्ययान्तरपरायाः प्रकृतेरवस्थानात् प्रकृत्यनतराणां वा लोपदर्शनात् इहाप्यकेवलस्यैवार्थाभिधानं प्रसक्तं लोपादिद्वारेण शास्त्रदृष्ट्या केवलस्य विज्ञायते ।। 7.35. ननु न केवला प्रकृतिः प्रयोक्तव्या, न केवलः प्रत्यय इति शास्त्रसमयः । सत्यमेतत्, किन्तु यत्र प्रकृतिनिमित्ता प्रत्ययप्रवृत्तिस्तत्र केवलापि प्रकृतिः प्रयुज्यते । यत्र वा प्रत्ययनिमित्ता प्रकृतिनि वृत्तिस्तत्र केवलोऽपि प्रत्यय इत्यवभ्यनुज्ञायते । हैयङ्गवीनं श्रोत्रियः, इत्यादिषु तु संज्ञाशब्दे ह्योगोदोहस्य विकार इति, श्रोत्रियश्छन्दोऽधीत इ#ित, परक्षेत्रे चिकित्स्य इति, प्रकृतिप्रत्ययविभागकल्पनया व्यत्पत्तिर्यथाकथंचिद्धर्मनियमाय क्रियते । एवं यावकादिष्वपि स्वार्थिकेषु प्रत्ययार्थस्याव्यतिरेकात्प्रकृत्यन्तरयोगे प्रातिपदिकानां च यावकादीनामर्थभेदात्प्रत्ययान्तरयोगे प्रकृतेः कल्पितायामर्थवत्तायां स्वार्थिकत्वं विज्ञायते । एको द्वौ बहव इत्यत्र प्रत्येकं वचनान्तराभावात्कर्मादिविषयावन्वयव्यतिरेकावाश्रीयेते । सामान्यतो दृष्टाञ्चानुमानात्प्रकृत्यन्तरवदेक#ादीनां प्रवृत्तौ भिन्नरूपणि वचनान्यसङ्करेण व्यवस्थां प्रकल्पयन्तीति प्रतीयते ।। 7.36. नन्वेवं सति शब्दस्यैकार्थोपक्षयस्यार्थान्तरेण असम्बन्धादर्थस्याप्येकशब्दोपक्षयस्यान्यत्रासङ्क्रान्ते कूपसूपयूपादिवदेवान्वयव्यतिरेकौ नावकल्पेते । न हि य एवैकत्वसंबन्धी स द्वित्वादिसंबन्धी, योवा प्रातिपदिकत्वेनार्थमात्रप्रवृत्तिः स्वशक्त्यन्तरसम्बन्धी न भवितुमर्हति । न खलु शब्दः कश्चिदत्तरकालमर्थान्तरं परित्यजत्युपादत्ते वा । तदुक्तम् -- "यस्य शब्दस्य न विभागोऽस्ति कुतोऽर्थस्य भविष्यति? विभागौः प्रकिया क्रियाभेदमविद्धानप्रतिपद्यते । " एवमेतत् । किन्तु त्रिविधः शब्दो निर्वत्र्योऽन्वाख्येय#ः प्रतिपादकश्च । तेष्वधर्महेतुरपभ्रंशो निर्वत्र्यः । ध्रमहेतुर्लोकवेदयोः प्रयोर्गौहाऽन्वाख्येयः । प्रकृतिप्रत्ययादिविभागकल्पनया तत्स्वरूपावबोधकृत्प्रतिपादकः । तदर्थमन्वयव्यतिरेकावविद्यमानावपि व्यवस्थार्थं कल्पितौ शास्त्रार्थव्यवहारनिबन्धनं सम्पद्यते । शास्त्रव्यवहारोह्यर्थवत्प्रातिपदिकं क्रियावचनो धातुरित्यादिरनाश्रितयोरन्वयव्यतिरेकयोरसिकर एव । तदाह--- भागौरनर्थकौर्भिन्नाः पचतीत्येवमादयः । अन्वयव्यतिरेकौ तु व्यहारनिबन्धनम् ।। इति ।। अभिधा च विवक्षा च तात्पर्यं च विभागवत् । चतस्रः केवला ह्योताश्शब्दसम्बन्धशक्तयः ।। यापेक्षा यञ्च सामथ्र्यमन्वयो यश्च तैर्मिथः । ऐकाथ्र्यं यञ्च तास्तस्य ससहायस्य शक्तयः ।। उक्ताश्चातस्रः प्रथमाः क्रमेण क्रमादथान्याः प्रकटीक्रियन्ते । अखण्डड्डत्ध्;वाक्यार्थविवेचकानां शब्दार्थसंवित्परिशुद्धिहेतोः ।। इति महाराजाधिराज श्रीभोजदेवविरचिते शृङ्गारप्रकाशे केवलशब्दसम्बन्धशक्तिप्रकाशो नाम सप्तमः प्रक