शृङ्गारप्रकाशः/षष्ठः प्रकाशः
षष्ठः विभक्त्यर्थादिचतुष्टयप्रकाशः 6.1. विभक्त्यर्थस्त्रिधा, सङ्ख्या, कारकं, शेषश्च । तेषु कारकसम्बन्धगतैकत्वद्वित्वबहुत्वानि सङ्ख्या । सा षोढा, आभिधानिकी, वैवक्षिकी, नैमित्तिकी, पारिभाषिकी, वैभाषिकी, पारिशेषिकी च । तत्राभिधानिकी यथा--आपः, दाराः, लाजाः, द्वयं, अनेकं, नियुतमिति । अत्राभिधानतो बहिवचनैकवचने एवेत्याभिधानिकी । वैवक्षिकी यथा--रोदसी रोदस्यौ, कबरी कबर्यः, स्तनौ स्तनाः, विशाखा विश#ाखे विशाखाः, दृके दृशौ दृशाः, जगत् जगती जगन्ति । अत्र विवक्षयैकत्वद्धित्वबहुत्वानीति वैवक्षिकी । नैमित्तिकी यथा--वृक्षः, शोभनः, दम्पती, पितरौ, अक्षाः, गभस्तय इति । अत्र वस्तुनो निमित्तस्य सद्भावान्नौमित्तिकी । पारिभाषिकी यथा--मार्दङ्गिकपाणविकं, पुरुषौ, खलतिकं, वनानि, गौदौ, ग्रामः, तिष्यपुवर्वसू, तारकः, पञ्चाला जनपदः, स चाहं च पचाव इति । अत्र द्वित्वबहुत्वादिषु एकत्वादिपरिभाषणमिति पारिभाषिकी । वैभाषिकी यता--अश्वबडड्डत्ध्;बम्, अश्वबडड्डत्ध्;बौ, प्लक्षन्यग्रोधम्, प्लक्षन्यग्रोधाः, पूर्व फल्गुन्यौ, पूर्वाः फल्गुन्य इति । अत्र विभाषयैकत्वद्वित्वबहुत्वानीति वैभाषिकी । पारिशेषिकी यथा-- एकः द्वौ बहवः, उभौ द्वित्राः, अर्धतृतीया इति । अत्रैकाद्युक्तसङ्ख्यापरिशेषे स्वादय इति पारिशेषिकी । तदुक्तम् --- निमित्तमेकमित्यत्र विभक्तानामधीयेत । तद्वतस्तु यदेकत्वं विभक्तिस्तत्र वर्तते ।। 6.2. कारकं षड्ड्डित्ध्;वधमभिहितं पुरस्तात् । तद्द्वितीयादिनवाच्यत्वेन पृथक्पृथक् षट् प्रकारं प्रतते । तत्र कर्म द्वितीयावाच्यम् --कटं करोति । तृतीयावाच्यं--मात्रा सञ्जानीते । यतुर्थीवाच्यं--न त्वा शुने मन्ये । पञ्चमीवाच्यं--परि त्रिगर्तेभ्यो वृष्टो देवः । षष्ठीवाच्यं--मातुस्स्मरति । सप्तमीवाच्यं--अधीती व्याकरणे । कर्ता द्वितीयवाच्यः, गमयति ग्रामं देवदत्तम् । तृतीयावाच्यः, चैत्रेण कृतम् । चतुर्थीवाच्यः, मूत्राय कल्पते यवागुः । पञ्चिमीवाच्यः, उपाध्यायादधीते । षष्ठीवाच्यः, व्यसस्य कृतिः । सप्तमीवाच्यः, ब्राह्मण#ेषु भुञ्चानेषु वृषला आसते । करणं द्वितीयावाच्यं, आक्षान्दीव्यती । तृतीयावाच्यं, दात्रेण लुनाति । चतिर्थीवाच्यः, शताय परिक्रीतः । पञ्चमीवाच्यं, स्तोकान्मुक्तः । षष्ठीवाच्यं, सर्पिषो जानीते । सप्तमीवाच्यं, अक्षेषु दीव्यति । सम्प्रदानं द्वितीयावाच्यं, देवदत्तमभ्यसूयति । तृतीयावाच्यं, दास्या सम्प्रयच्छते । चतुर्थिवाच्यं, देवाय ददति । पञ्चमीवाच्यं, गुरोरारभ्य गाः प्रयच्छति । षष्ठीवाच्यं, घ्नतः पृष्ठं ददाति । सप्तमीवाच्यं, पुष्पेषु स्पृहयति । अपादानं द्वितीयावाच्यं, अर्जुनं योद्धारः । त#ृतीयावाच्यं, धनुषा विध्यति । चतुर्थिवाच्यं, श्रद्धाय निदगृढद्धठ्ठड़14;णते । पञ्चमीवाच्यं, ग्रामादागच्छति । षष्ठीवाच्यं, कृष्णा गवां संपन्नक्षीरतमा । सप्तमीवाच्यं, भुक्त ओदनः कंसपात्र्यम् । अधिकरणं द्वितीयावाच्यं, ग्राममधिवसति । तृतीयावाच्यं, समेन धावति । चतिर्थीवाच्यं, युद्धाय सन्नह्यति । पञ्चमीवाच्यं, क्रोशाद्वुध्यति । षष्ठीवाच्यं, गनामीश्वरः । सप्तमीवाच्यं, तीर्थे उपवसतीति । कारककातिरेकी क्रियाकारकपूर्वकः संबन्धविशेषः । स त्रिधा. उक्तादनयः, कारकेभ्योऽन्यः, कारकाणामविवक्षा च । तेषु उक्तदन्यत्वे भिन्नसम्बन्ध्यपेक्षः, अभिन्नसम्बन्ध्यपेक्षश्च । तयोराद्यो राज्ञः पुरुष इति यथा--- पत्युश्शिरश्चन्द्रकलामनेन स्पृशेति सख्या परिहासपूर्वम् । सा रञ्जयित्वा चरणौ कृताशीर्माल्येन तां निर्नचनं जघान ।। द्वितीया राहोश्शिर इति यथा-- शिखिच्छदच्छत्रपतत्रमण्डड्डत्ध्;लीभरोपरुद्धं मुखमेणचक्षुषः । मुखेन राहोरभियोक्तुमुद्यतं कलापतौ बिम्बमिव व्यराजत ।। कारकेभ्योऽन्यत्वे उपात्तक्रियोऽनुपात्तक्रियश्च । तयोराद्योऽन्नस्य हेतोर्वसतीति । यथा--- एकातपत्रं जगतः प्रभुत्वं नवं वयः कान्तमिदं वपुश्च । अल्पस्य हेतोर्बहु हातुमिच्छन्विचारमूढः प्रतिभासि मे त्वम् ।। द्वितीयो ब्राह्मणस्य तुल्यो यथा--- कुलेन कान्त्या वयसा नवेन गुणैश्च तैस्तैर्विनयप्रधानैः । त्वमात्मनस्तुल्यममुं वृणीष्व रन्तं समागच्छतु काञ्चनेन ।। कारकविवक्षायां द्रव्यापेक्षः क्रियापेक्षश्च । तयोराद्यः साधोस्स्वं धनं रोचत इति, यथा--- दत्तमातत्मदनं दयितेन व्याप्तमातिशयिकेन रसेन । सस्वदे मुखसुरं प्रमदाभ्यो नाम रूढमपि च व्युदपादि ।। द्वितीयो न माषाणामश्नीयादिति यथा--- निवार्यतामालि किमप्यसौ वटुःपुनर्विवक्षास्फुरितोत्तराधरः । न केवलं यो महतां विभाषते श्रृणोति तस्मादपि यरस पापभाक् ।। 6.3. सहार्थतादथ्र्यहेतुलक्षणोपपदसम्बोधनादयस्तु संबन्धविशेषा उपस्काराधिकारोऽभिहिता इति नेह प्रतन्यन्ते । ननु च सम्बन्धस्य क्रियाकारपूर्वत्वात् कारकेष्वेव शेषसम्बन्धस्याप्यन्तर्भाव इति सङ्खायशक्तिश्च विभक्त्र्यः । तत्र जतौ पदार्थजात्यभिधायिनः प्रातिपदिकस्य सङ्ख्याकारकाभिधायिन्या विभक्त्या सम्बन्धो न घटते । न हि जातेः सङ्ख्याशक्तियोगस्संभवति । उच्यते, जात्यविनाभावेन लक्षिताया व्यक्तेः सङ्ख्यासन्धियोगादेकार्थसमवायलक्षण्स्सम्बन्धो भविष्यति । नैवम् ; यथानन्त्यव्यभिचाराभ्यां भेदवतीं व्यक्तिमशक्ताः प्रकृतयोऽभिधातुमित्यभिन्नामव्यभिचारिणीं च जातिमाचक्षते । तदाधारभेदाद्भिन्नामानन्त्यव्यभिचाराभ्यामशक्ताः विभक#्तयश्शकिं्त सङ्ख्यां चाख्यातुमतस्तदाधारां शक्तिसङ्ख्यासामान्यनासम्बन्धादनुपपन्न एव प्रकृतिप्रत्यययोः समभिव्याहारः । नानुपपन्नः, एकार्थसमनेतसमवायेन तदुपपत्तेः । कथं पुनस्सामान्याभिधानेनाभिधीयमानयोस्सङ्ख्यद्रव्ययोः परस्परेण सम्बन्धः । यथाभिधीयमानयोः । यथाभ#िशब्देनाभिहितावर्थौ बुद्धौ विपरिवर्तमानौ मिथस्सम्बन्ध्येते तथा शब्देनाभिहितादर्थात् प्रतीयमानावपि परस्परेण सम्बन्धमनुभविष्यत इति । किं पुनरियं सङ्ख्या शक्तिर्वा नियोगतो जातिमवच्छिनत्ति ? नेत्याह । न हि ग्रहं संमाष्र्टीति श्रयमाणमेकवचनमेकत्वसङ्ख्यां क्र#ियाङ्गभावेन प्रतिपादयति । नापि सक्तीन् जुहोतीति द्वितीयाश्रुतिः सक्तूनां होमक्रियायां कर्मशक्तिमभिधत् । अपि त्वक्षान्दीव्यतीतिवत्संबन्धसामान्यतिरोहितकर्मरूपात् सक्तून् साधकतमत्वेन होमकर्मणि नियुङ्क्ते । क्कचित्तु तद्रपयैव विभक्तश्रुत्या संख्याकर्मादिशक्त#ीनां क्रियास्वङ्गभावोऽवबोध्यते । यथा पशुमालभेत व्रीहीनवहन्तीति । कुतः पुनरिदं श्रुत्युपात्ते अपि क्कचिदेव सङ्ख्याशक्ती विवक्ष्यते ? तत्र तावत्सङ्ख्यां प्रति श्रूयते सत्त्वभूतमिदंतदिति व्यपदेशयोग्यं वस्तु न शक्यते शङ्ख्यामन्तरेण शब्दैरभिधातुम् ; ससंख्यानामेव शब्दानां सत्त्वाभिधायकत्वात् । अतो नान्तरीयकमुपादानं स#ंख्याया इति सत्त्वनिर्देशे संख्या न विवक्ष्यते । यथा ब्राह्मणो न हन्तव्य इति । एवं च जात्यापि विना वस्तमात्रस् यसंप्रमुग्धत्वाद्विवेकेनाभिधानमशक्यम् । अतो नान्तरीयकं जात्युपादानमिति जातेरप्यविवक्षा प्राप्नोति । अपर आह, यत्र संख्यापदैरेकादिभिस्संख्या अभिध#ीयते. तत्र नियोगतः कर्माङ्गभावेन विवक्ष्यते । यथा--एकां गां ददाति, द्वाभ्यां खनति, त्रीन्पशूनालभत इति । एकादिशब्दरूपाद्धि सा प्रतीयमाना न शक्यमविवक्षतुम् । अन्यत्र तु शब्दसंस्कारमात्रपरत्वादेकवचनैदेरविवक्षा यथा--गौः पदा न स्प्रष्टव्या । एतदपि नास्ति यस्य#ोभयं हविरार्तिमाच्र्छेदित्येवमादावभयादिशब्दोपादानादप्यविवत्रादर्शनात् । अन्ये मन्यन्तेजात्यख्यायामेकस्मिन्नन्यतर- स्थामिति ज्ञापकादेकबहुवचनं च न विवक्ष्यते। द्विवचनं तु विवक्ष्यते । यथा---सारस्वतौ भवतः इति । तदप्ययुक्तं, द्विवचनस्यापि अविवक्षादर्शनात् ।यथा--- यद्येतौ व्यधितौ स्यातां देयं स्यादिदमौषधम् । यतस्तदौषधमेकस्यापि दीयमानं वातादिविकारं शमयितुं शक्नोति ; एवं तर्हि यत्र पराङ्गतया जातिर्विधीयते, तत्र संख्या विवक्ष्यते । यत्र तु स्वसंस्कारप्रतिपत्तयेऽनूद्यते तत्र न विवक्ष्यते । यथा---पशुना यजेत, ग्रहं संमाष्र्टीति । तदेतदुभमयपि उदाहरममात्रेणाशक्यं प्रतिपत्तुमिति युक्तिरभिधातव्या । सेयमुच्यते । पशुना यजेतेति यागस्य फलवत्तया प्राधान्यं तदङ्गं पशुः, अङ्गं च यत्प्रधानस्योपकरोति । एकेनैव पशुना कृतः प्रधानस्योपकार इति द्वितीयो नोपादीयते । यदि हि यस्य यावन्तः पशवस्सन्ति तावत उपादत्त इत्याश्रीयते । प्रकृतस्य यागस्यैकेन पशुना समापितत्वादितरवैयथ्र्यं माभूदिति यागान्तराणि क्रियन्ते । गुणेन द्रव्येणाप्रधानं यागः प्रुयक्तस्स्यात् । न चैष न्यायो यद्गुणः प्रधानं प्रयुञ्चते । किञ्च पशुमालभेत पशुना यजेतेत्यादौ क्रियाङ्गभावेनाप्रज्ञातस्य पशोस्साधनभावप्रख्यापनायेदमुत्पातितवाक्यम् । तत्र शब्ददर्शनावसेयत्वादर्थस्य यथाभूतं शब्द आह तथाभूतस्सोर्थोनुगततया समाश्रीयते । शब्देऽन्वयव्यतिरेकाभ्यां प्रकृतेर्जातिरिव विभक्तेस्संख्याभिधेयत्वेनावधार्यते । यदि च द्वितीयस्य पशोरुपादानमन्तरेण शब्दार्थो न समाप्यते, क्रिया वा न न#िवत्येत, तदोपादियेतापि द्वितीयम् । परत्वजातेश्च प्रतिव्यक्त्यविकल्पात्मनः समाप्तात्वादेकपश्ववदैनैश्च यागाक्रियाभिनिर्वृत्तेर्द्वितीयो नोपादीयते । न च पशुना यजेतेत्यस्यास्संख्या विरोधीनि संख्योत्पत्तिवाक्यागता काचिद्विद्यते । यदनुरोधादियं त्यज्येत, यस्माद#िदमेव पशोरुत्पत्तिवाक्यं, अतश्शब्दवात्त्वात् सङ्ख्यान्तरेण चाविपोधात् । पशुना यजेतेत्यादौ सङ्ख्या विवक्ष्यते । ग्राहं संमाष्र्टीत्यत्र तु न विवक्ष्यते । यस्मात् प्राजापत्या नवग्रहा भवन्तीत्यादौ ग्रहाणामुत्पत्तिवाक्ये या अनेकत्वसङ्ख्या सा प्रधानविषया, तत्र ग्रहाणां विधीयमानत्वात् । ग्रहं संमाष्र्टीत्यत्र तु या एकत्वसंख्या सा शेषविषया, सम्मार्गस्य विधीयमानत्वात्, तदिधिकरणसंपादनार्थत्वात् ग्रहशब्दस्य । न च युक्तं यत्प्रधानसम्बन्धिनी संख्या शेषस्संख्याया बाध्यते । ननु चोत्पत्तिवाक्ययवशेनानेक एव ग्रहो गृह्यते । ग्रहमित्येतस्माञ्चैकवचनादेकस्सम्मृज्येत । किमत्र बाधितं स्यात् ? एवं तर्हि विदानवाक्ये पूर्वमेव प्रज्ञाताङ्गाभावाः सम्मार्गमपूर्वं विधातुं केवलं ग्रहमित्यनेन समृतौ संनिवेश्यन्ते । ग्रहस्मृतिश्चानुभवसामथ्र्यादुद्भवन्ती यथानुभुतानेवार्थान्दर्शयतीति नैको ग्रहश्रिग्र्रहाणमेव स#्मारयति । न चमसादीनां तथैवानेकग्रहसन्निधिवेकवचनमेकस्यैव स्मारयेत् । येन हि बहवोऽनुभूतास्तेनैकीऽप्यनुभूत एव । सत्यमेतत् । किन्तु प्रतीयमानोऽप्यसौ संख्याभेदः क्रियां प्रत्यविधीयमानत्वादसमर्थः क्रियामेकस्मिन्नवस्थापपर्यवसितं वाक्यम् । न चापसश्शब्दोऽस्ति, येनैकस्य स विधीयेत । न चैकश्शब्द उभयं शक्नोति विधातुम् ; अप्रज्ञानं संमार्गं प्रज्ञात्सय चैकत्वेन संबन्धमिति प्रवृत्तिभेदात् । अथ ग्रहैकत्वाभ्यां विशिष्टस्संमार्गो विधीयते । न भिद्येत प्रवृत्तिः ; अर्थस्तु नैवं, यतो ग्रहार्थः संमार्गस्तस्य प्रयोजनत#्त्वात् । विभक्तिविशेषश्च प्राधान्यं दर्शयति । अतो न विधीयते सङ्ख्या । इह तर्हि कथं चित्रगवीं बध्नातीति चित्रो गुणो विधीयते, यतोऽत्रापि गोरस्वतन्त्रीकारस्तस्याश्च चित्राया इति भिद्यते प्रवृत्तिः ; गुणद्रव्ययोगस्य श्रुत्यैवाभिधीयमानत्वात् तद्विषयत्वाञ#्च । क्रियाया नात्रापराध इति चेत् ग्रहमित्यति । श्रुतिरेव सङ्ख्यायास्तदधिकरणस्य च द्रव्यस्य क्रियाङ्गभावमभिधत्ते । तथा शोणं योजयेदित्येकशब्दोपादानयोर्जातिगुणयोरङ्गीकरणम् । एवं तर्हि स्वार्थायां प्रवृत्तौ सङ्ख्याबेदस्य विधातुमशक्यत्वादविवक्षिता सङ्ख्या । यथा ग्रहं संमाष्र्टीति । अत्र ग्रहार्थत्वात्संमार्गस्य प#्रधानं ग्रहाः, तदङ्गं संमार्गः । पशुना यजेत, शोणं योजयेत्, चित्रगवीं वध्नातीत्यदौ तु यागादिकर्मार्थत्वात् पस्वदीनामप्रधानानां ससङ्ख्यानां सगुणानां च विशिष्टानामेव विधानमिति विवक्ष्यते सङ्ख्यागुणश्चेति । आचार्यप्रवृत्तिरप्येतदेव ज्ञारयति प्रधाने संख्या नविवक्ष्यते, गुणे तु विवक्ष्यत इति । तथा हि । सरूपाणामेकशेष इति कर्मसाधने शेषशब्दे शेषशब्दाभिधेयस्य द्रव्यस्य साधुत्वद्व्याख्यानेनाभिधीयमानससंस्कारत्वात् प्राधान्यम् । अतः स्वार्थ प्रवर्तमानस्याविवक्षितसङ्ख्यत्वादेकशब्दोपादानं कृतमेकश्शिष्यत इति । तदेतल्ल#िङ्गं प्रधानस्याविवक्षिता संख्येति । एवं सुबन्तं सुबन्तेन समस्यत इति संख्याया अङ्गीकरणात् बूहनां समासो न भवति । यथा--महत्कष्टं श्रित इति । अत्र ह्येवंप्रकारावयवसन्निवेशावच्छिन्नस्समुदायस्साधुरित्यन्वाख्यायते । अतोऽवयवपरामर्शेपायेन समुदायस्य संस्काराधानप#्रक्रमे प्रधानं समुदायस्तमुद्दिश्य प्रवर्तमाना अवयवा उपाततसङ्ख्याविशेषाङ्गीकरणेन प्रावर्तन्ते । यत्र तु यत्नान्तरमारभते तत्र बहूनामपि भवति । यथा--कालाः परिमाणिनेति । बहुवचनात् द्व्यढद्धठ्ठड़14;नजातः, इति । यथा च बहुव्रीहिद्वन्द्वविधावनेकग्रहणान्मत्तबहुमातङ्गं वनं, धवखदिरपलाशा इति । क्कचित्पुर्गुणेऽपि सङ्ख्या न विवक्ष्यते । यत्र तदविवक्षया प्रधानान्तस्य सिद्धिर्भवति । यथा---कर्तुरीप्सिततमं कर्मेति । अत्र हीप्सिततमस्य कर्मसंज्ञायां विधीयमानावच्छेदाया ईप्साया अवच्छेदायोपादीयमानः कर्ता यद्याश्रितैकत्वसंख्यः प्रतीयेत, अनेकस्येण्सितं वस्तु कर्मसंज्ञासंबन्धादपेयात् । अतः प्रधानसंस्कारोपरोधतिरस्काराय कर्तानपेक्षितसंख्याविश#ेषस्सामाश्रीयते । ननु च प्रयोजनमिदं प्रधानान्तरसिद्धिः । तस्मादविवक्षायामुपपत्तिर्वक्तव्या । इयमुच्यते । सामान्यनिबन्धनत्वादीप्सिततमशब्दस्य संबन्धिनामविशेषेण प्रशक्तौ साधनान्तरोच्छित्तये कर्तृग्रहणं क्रियते । तदुपात्तविपरीतप्रतिषेधमात्रोपक्षयमसमर्थं संख्याभेदमङ्गीकर्तुमिति । 6.4. शक्तिः पुनरप्रधाने पधाने वा संख्यावति विभक्त्या विधीयमाना विवक्षामेवानुरुद्यते । एवं च यथा पश्वादीनां ससंख्याता तथा ग्रहादीनामसंख्यानामेव क्रियासु साधनभावो भवति । कथं पनः पश्वादिगता संख्या साधनत्वेनावगम्यते, यावता प्रातिपदिकार्थस्य साक्षात्पारंपर्येण वा संबन्धिसाधनत्वं संख्या च विभक्त्या विधीयते । नु तु संख्यासाधनत्वयोः परस्परेण संबन्धोऽस्ति । एवं तर्हि प्रथमतरं व्यक्तिस्संख्यया संबध्यते । संख्या संसर्गप्राप्तातिशया तु साधनभावेन । सोऽयं साधनभावो विशिष्टे निपतद्विशेषणमपि साधनमित्यावेदयति । यथा स#ायुधेन जीतमिति । कुतः पुनरयं संख्यासाधनत्वयोरेकशेब्देपनिन्धनयोबन्धकारिकालभेदेन संबन्धः । न ह्येतदस्ति । संख्यया संसर्गमनवाप्य न शक्नोति साधनभावमासादयितुमिति । एवं तर्हि संख्यासाधनभावाभ्यां व्यक्तिस्संबध्यते । ताभ्यमुपहितात्मातिशयामाख्यातविथभक्तिस्तां क्र#ियासु विनियुङ्क्ते । सा विशिष्टा क्रियासंबन्धमनुभवतीति विशेषणमपि क्रियासंबद्धं प्रतीयते । ननु च कर्मकरणादिकारकं विभक्त्यर्थस्तञ्च क्रियासिद्धावुपात्तव्यापात्वाच्छक्तिमद्द्रव्यमेव । तÏस्मश्च प्रातिपदिकैनैवोक्ते किं विभक्त्योच्यते । शक्तिरिति ब्रुमः ? द#्विधा हि द्रव्यं सत्त्वभूतमसत्त्वभूतञ्च । तयोश्शक्तिसङ्ख्याश्रयस्सत्त्वभूतं वृक्षाद्यर्थः । तदनाश्रयोऽसत्त्वभूतमव्यायार्थः । तदुभयमपि निरुपाध्येव प्रातिपदिकेनोच्यते । तदाश्रितास्तु सशक्तिसङ्ख्यासंबन्धोपाधयो विभक्त्येति । ननु च --- स्वरूपादुद्भवत्कार्यं सहाकार्युबृंहितम्। नैव कल्पयितुं शक्तं शक्तिमन्यामतीन्द्रियाम् ।। 6.5. शक्तिर्हि कल्प्यमाना पदार्थस्वरूपवन्नित्या वा स्यात् । कार्यं वा तत्र नित्यत्वे नित्यमेव कार्योत्पादप्रसङ्गः ।सहकार्यपेक्षा तु स्वरूपस्यैवास्तु किं शक्त्या । कार्यत्वे तु पदार्थस्वरूपमात्रकार्यतायां सदा शक्तेरुतपादात् सदैव कार्योत्पादः । सामग्रीकार्यं तु कार्यमेवास्तु । किमन्तराले शक्त्या ? अशक्तात्कारकात्कार्यानिष्पत्तिरिति चेच्छक्तिरपि कार्यं, तदुत्पत्ततौ शक्त्यन्तरकल्पनादनवस्था ; अन्यथाऽब्युपगमन्याघातः । आह, दृष्टसिद्धये ह्यदृष्टं कल्प्यते । शक्त्यन्तरकल्पनायाः शक्तिश्रेणिनिर्माण एव, क्षाणत्वात् । कारकाणां माभूत्कार्यव्याघात इत्येकैव शक्तिः कल्प्यते । तत्कुतोनवस्था ? नैवम् ; अन्यथापि तदुपपत्तेः । यदि ह्यर्थतत्त्वं क्रियासु प्रतिहन्येत तदा तदतिरिक्ताशक्तिकल्पना युक्तमिति । अप्रतिहताश्च सहकारिलाभादपि कार्योपजनश्चार्थव्यक्तयः । तÏत्क वृथा शक्तिकल्पनयेति । 6.6. ननु शक्तिमन्तरेण कारकं, कारकमेव न भनेत्, भावतत्त्वस्य क्रियासु प्रतिधातात् । रुपमेव हि दृश्यते न रसादि, दर्शनायतनं पश्यति न रसनादि, रस एव रतस्यते न रूपादि, रसनमेव रसयति न चक्षुरादि, आप एव पिपासामपनयन्ति न त्वग्निः, अग्निरेव शीतं शमयति न त्वाप इति । अप्रतिघाते हि वस्तुस्वरूपाविशेषात् सर्वस्मात्सर्वकार्योदयप्रसङ्गः । ततस्चक्षुरिव रसनमपि पश्येत् । रूपमिव सरोऽपि दृश्येत । रसनमिव चक्षुरपु रसयेत् । रस इव रूपमपि रस्येत । आप इवाग्निरपि पिपासामपनयेत् । अग्निरिवापो.पि शीतं शमयेयुः । यथा च तैलार्थिना तिल#ा उपादीयन्ते तथा सिकता अप्युपादीयेरन् । यथा वा पादपं छेत्तुमनसा परशुरुद्यम्यते तथा पादुकाद्यप्युद्यम्येत । अपि च विशदहनयोर्मारणे दाहे च शक्तावनिष्यमाणायां मन्त्रप्रतिबद्धायां यत्तयोस्स्वकार्योदासून्यं तत्र का युक्तिः ? चक्षुःश्रोत्रयोर्वा दर्शने श्रवणे च रोगादिना यत् स्वकार्याकरणं तत्र कोपपत्तिः ? न हि मन्त्रादिना रोगादिना वा तत्स्वरूपाणि सहकारिमो वा प्रतिबध्यन्ते, तद्रूपेणैव तेषामुरलम्भात् । शक्तयस्तु प्रतिबध्यन्त इति सत्स्वपि स्वरूपसहकारिषु कार्यानुत्पादो युक्ताः । तस्माद्यथा सुखादिकार्यानुमुतमदृष्टं सातिशयबुद्धिनिबन्धनस्मृतिप्रत्ययहेतिस्संस्कारः क्रियाविशेषजनितः क्रियान्तरप्रसवोपयोगी वेग इत्याद्यपरमतीन्द्रियमेव कल्प्यते । भवद्भिस्तथा शक्तिरपि कार्यातिशयकारममतीन्द्रिया कल्प्यतामिति । तदनुपपन्नम् ; शक्तिमन्तरेणापि क्रियाप्रतिघातादीनामुपपत्तेः । स्वकारणपरंपरायातनियतस्वभावतयैव भिन्नस्वभावा रसादयो रूपादिभ्यस्ते रूपादिभ्यस्ते कथं रूपादिसाध्यामर्थक्रियामतथाभूतास्साधयेयुः ? नियोगतश्चैतदङ्गीकर्तव्यम् ; शक्तिकल्पनायामिपि तुल्यानुयोगित्वात् । कथमेताश्शक्तयो नियताधारा नपुंरवयमेव शक्तिव्र्याप्नुवन्त#ीति । पदार्थस्वरूपातिशयादिति चेत्कार्यभेदोऽपि तत एव सेत्स्यति । अपि चाश्रयस्य भेदे कथं शक्तिभेदः ? यतो वा शक्तयः प्राप्तरूपभेदास्तत एवाश्रयरूपभेदेन कार्यभेदसिद्धेः, किं शक्तिभेदकल्पनेन ? यास्तर्हि तुल्यरूपा व्यक्तयः कार्यमतुल्यं साधयन्ति तासु कथम् ? यथा---गल्व्रथाश्चन्द्रकान्तिभिः स्यन्दन्ते न सूर्यग्रावाणः, करका अर्कोंशुभिर्विलीयन्ते न मुक्तामणयः, आन्तरं तेजः पश्यति न ब्राह्यम्, प्राणो वायुः प्राणिनि न व्यानः, श्रोत्राकाशश्शृणोति न वक्त्राकाशः. विद्वान् क्रियास्वधिक्रियते नाविद्वानिति तुल्याजातीयत्वेऽपि तेषामदृष्टफ्रतिनियमो द्रव्यान्तरसंपर्कभेदश्च कार्यभेदं व्यवस्थापयति । यास्तस्याभिन्नाभिमर्थव्यक्तयः कार्यं साधयन्ति, तासु कथं ; यथा--तदेव तेजो दहति प्रकाशयति शीतं चापनुदति ता एवापः प्लावयन्ति, क्लमं चापनयन्ति, तादृशः स तेजसः पयसो वा रुपातिशयः कर्मणा इव संयोगवेगविभागवेगानुकूलता धर्मस्येव सुखज्ञानापवर्गकारणत्वमिति । उपादाननियमे तु न वायमन्यं कंचिदाभिनवं भावनां कार्यकारणभावमुत्पाजदयामः । किन्तु यथाप्राप्तमनुसरन्तो व्यवहरामः । तत्र तैलोत्पादपादपच्छेदावन्वयव्यतिरेकाभ्यां वृद्धव्यवहाराद्वा तिलपरश्वथादेरेव कारणत्वमवगच्छाम इति । तदेव तदर्थिन उपादद्मदे, न सिकतापादुकादीति । न च तिलादेः परश्वथादेर्वा स्वरुपे सत्यपि सदा कार्योदयः । स्वरूपवत् सहकारिसन्निधेरप्यपेक्षणीयस्य सर्वदानुपपत्तेः । सहकरिवर्गे च धर्मादिकमपि निपतति ; तदपेक्षे च कार्योत्पादे कथं स#्रवस्मात्सर्वसंभवः ? धर्मादीनां तु जगद्वैचित्र्यादिकार्यबलेन कल्पनमपरिहार्यम् । यदपि विषदहनयोः सन्निधाने सत्यपि मन्त्रोपयोगात्तत्कार्याजननं तदपि न शक्तिप्रतिबन्धनिबन्धनम् । अपि तु सामग्य्रन्तरानुप्रवेशहेतुकम् । ननु मन्त्रोणानुप्रविशता किं कृतम् ? न क#िञ्चित्कृतम् । सामग्य्रन्तरं तु संपादितम् । काचिद्धि सामग्री कस्यचित्कार्यस्य हेतुस्स्वरूपं तदवस्थमेवेति चेदभक्षितमपि विषं कथं न हन्यात् ? तत्रास्य संयोगाद्यपीक्षणीयमस्ति । मन्त्राभावोऽप्यपेक्ष्यतां दिव्यकाले धर्म इव मन्त्रोऽप्यनुप्रविष्टः कार्यं प्रतिहन्ति । शक्तिपक्षेऽपि वा मन्त्रस्य को व्यापारः । मन्त्रेण हि शक्तेर्नाशो वा क्रियते प्रतिबन्धो वा । न तावन्नाशः, मन्त्रापगमे पुनः कार्यद्रशनात् । प्रतिबन्धस्तु स्वरूपस्यैवास्तु । 6.7. ननु स्वरूपस्य किं जातम् ? शक्तेरपि किं जातम् ? कार्यौदासीन्यमिति चेत्तदितरत्रापि समानं स्वरूपमस्त्येव, दृश्यमानत्वात् । शक्तिरप्यस्ति पुनः कार्यदर्शनानुमेयत्वात् । एतेन चक्षुः श्रिक्षयोरपि रोगादिना दर्शनश्रवणशक्तेर्नाशप्रतिबन्धविकल्पो व्याख्यातः । अपिच व्यापारोऽपि अतीन्द्रियशक्तिवदिष्यते भवद्भिः । अनयतरकल्पनयैव च कार्योपपत्तेः किमुभयकल्पनागौरवेण ? शक्तमाप्यव्याप्रियमाणं न कारकमिति चेत् शक्तमिति कथं ज्ञायेत ? कार्यदर्शनादिति चेत् व्यापारादेव कार्यं सेत्स्यति ; पादुकादेव्र्याप्रियमाणादपि न पादपच्छेदं पश्यामि । प्रत्यक्षस्तर्हि नातीन्द्रियः, यतः कार्यदर्शनात्पूर्वमपि व्याप्रियमाणत्वं जानाति । कार्यानुमेयो हि व्यपारः कार्याद्विना न ज्ञायेतैव । कार्यं त्वन्यतकस्मादपि घटमानं नोभयं कल्पयितुं प्रभवतीत्यसंभवः। शक्तेरिति चेदत्रोच्यते । स्वरूपं स्वरूपमिति यद्ब्रूषे तत्र किमिदं स्वरूपं नाम ? न तावद्द्रव्यं ; द्रव्यस्य स्वरूपमिति भेदेनाभिधानात् । किं पुनस्तत्सजतीयेभ्यो विजातीयेभ्यस्च भेदको धर्म इति नास्तर्कः । तं हि भवन्तोऽपि अर्थतत्त्वं भावतत्त्वमिति भावप्रत्ययेन भाषयन्ते । स च यस्य गुणस्य भावाद्द्रव्ये शब्दनिवेशस्ततभिधाने त्वतलाविति गुणाभिधाने स्मर्यते । गुणो धर्मसामथ्र्यमर्थक्रियाकारित्वशयश्शक्तिरिति चैकोऽर्थः । स तुद्रव्यद्विभिन्नो वा द्रव्यस्यात्मैव वा तथा । व्यतिरेकमुपाश्रित्य साधनत्वाय कल्पते ।। 6.8. परस्परतो हि व्यावर्तमानशरीराः करणादयस्साधनभेदाः कथमेकद्रव्यत्मतामुपयन्तो न सङ्कीर्येरन् ? असङ्करे वा कथममीषामेकद्रव्यत्मता युज्यते ? तस्मादेकद्रव्याधिकरणा करणातीतिरेवास्या द्रव्यद्भेदमापादयति । किञ्च --- विभक्त्य्रथेऽव्ययीभाववचनादवसीयताम् । अन्यो द्रव्याद्विभक्त्यर्थस्सोऽव्ययेनाभिधीयते ।। तथा हि । विभक्त्यर्थे वर्तमानमव्ययमुत्तरपदेन समस्यते । यदि च विभक्त्यर्थ इत्येनेन शक्त्याश्रयस्सत्त्वभूतं द्रव्यमुच्यते, तदसत्त्ववाचिनावययेन नाभिधीयेत । तस्य चार्थस्य प्रातिपदिकेनैवोक्तत्वात् तदभिधाय्यव्ययमभिदधदुत्तरपदेन समासमनुभवति । तेन चावधार्यते द्रव्यातिरिक्तां शक्तिमभिधत्ते विभक्तिरिति । भवतोऽपि युक्तमेवोच्यते । स्वरूपादूद्भवाच्यात् कारकत्वादेद्र्रव्यस्वरूपान्न शक्तिमन्यां मन्यन्ते । किन्तु कार्योपजनायार्थव्यक्तयः क्षमा इति न क्षमन्ते सर्वम्मादपि कार्योदयप्रसङ्गात् । स्वकारणपरंपरायातनियतस्वभावत#ा#ं तु न विद्मः । कारणगुणोत्थः पदार्थातिशय इति चेत् शक्तिः । तस्यास्तु नित्यत्वानित्यत्वविकल्पनं नोपयुक्तं ; य्वद्द्रव्यभावित्वेन द्रव्यवदेव नित्यानित्यात्वातस्र्वदा कार्योत्पादः क्रियात्पादः क्रियाकाल एव शक्तेरुन्मेषात् । अदृष्ट प्रतिनियतसहाकर्यादयस्तु शक्त्युन्मेषहेतवो नास्माभिरपि नाराक्रियान्ते । येन तूपादाननियमे अन्वयव्यतिरेकौ वृद्धव्यहरशतेऽपि कार्यदर्शनावसेयशक्तिमूला एव वृद्धैरप्यन्वयव्यतिरेकोक्तेः नाशप्रतिबन्धो वा मन्त्रादिनेत्यादिविकल्पस्तु स्वरूपस्य शक्तित्वसिद्धौ निषिद्ध एव भवति । व्यापारस्त#ु धातुवाच्य एवातीन्द्रीयो न वास्तवः, तेन ताभ्यां तथैव कारणत्वावगमात् । कार्यदर्शनान्यथानुपपत्तिकल्पिता शक्तिरतीन्द्रियायोपपन्नतरैवेति । 6.9. वृत्त्यर्थस्त्रिधा, अपदार्थःष एकपदार्थः, अनेकापदार्थश्च । तत्रापदार्थस्त्रिधा, धातुप्रत्ययार्थीयः, प्रत्ययप्रत्ययार्थीयः, प्रातिपदिकप्रत्ययार्थीयश्च । तेषु धातुप्रत्ययार्थीयो द्विधा, क्रियारूपः, कारकरूपश्च । तयोः क्रियरूपो यथा--कर्तुमिच्छति चिकीर्षति, कुर्वन्तं प्रयुङ्क्ते कारयति, अत्यर्थं पुनः पुनर्वा पचति पापच्यते । कारकरूपो यथा---पाकं करोति पचति, पाकेन क्रियते पच्यते, पाचकः पक्तव्यमिति । प्रत्ययप्रत्ययार्थीयो द्विधा, नित्योवैवक्षिकश्च । तयोर्नित्यो यथा--कृत्रिमं सांराविणम्, व्यावक्रोशी भिदा, आभिजित्यः कौञ्जायन्य इति । वैवक्षिको यथा--चिकीर्षुः, कारणा, गाग्र्यायणः, काल्याणिनेयः, मालायाः, कुमार्या इति । प्रातिपदिकप्रत्ययार्थीयो द्विधा, व्यक्तिरूपः, शक्तिरूपश्च । तयोव्र्यक्तिरूपो यथा--अजा, कुमार, ब्रह्मबन्धुः, वृक्षः वृक्षौ वृक्षाः, इति । शक्तिरूपो यथा--वृक्षं, वृक्षेण, वृक्षाय, वृक्षात्, वृक्षे, वृक्षस्येति । एकपदार्थस्त्रिधा, वस्तुरूपः, अवस्तुरूपः, क्रियारूपश्च । तेषु वस्तुरूपो द्विधी, सत्त्वभूतोऽर्थः, असत्त्वभातोऽर्थश्च । तयोस्सत्त्वभूतोऽर्थो यथा--औपगवः, छान्दसः, लाक्षिकः, यौष्मकः इति ।असत्त्वभातोऽर्थश्च यथा--आस्तिकः, उपत्यका, प्रकटं, तत्रत्य इति । अवस्तुरूपोऽपि पूर्ववदेव द्विधा । तयोः सत्त्वभूतोऽर्थो यथा-- अग्निवत्, पञ्चकृत्वः,कर्वदा, बहुश इति। असत्त्वभूतोऽर्थो यथा--नातरां, प्राह तरां, पचतितरां, पचतिरूपमिति । क्रियारूपो द्विधा, संक#्षिप्तो, वित्रिप्तश्च । तयोः सक्षितो यथा---आत्मनः, पुत्रमिच्छति पुत्रियति, श्येन इवाचरति शयेनायते, अभृशो भृशो भवति भृशायतं, सेनया अभियाति अभिषेणयतीति । विक्षिप्तो यथा--कंसवधमाचष्टे कंसं घातयति, आरात्रिविवासमाचष्टे रातिं्र विवासयति, पुष्यचन्द्रयोगं जानाति पुष्येण चन्द्रं योजयति, उज्जयिन्याः प्रस्थितो माहिष्महीसूर्योद्गमं प्राप्नोति माहिष्मत्यां सूर्यमुद्गमतीति । अनेकपदार्थस्त्रिधा, एकपदार्थाश्रयः, उभयपदार्थाश्रयः, अन्यपदार्थाश्रयश्च । तत्रैकपदार्थाश्रयो द्विधा, पूर्वपदार्थस्त्रिधा, एकपदार्थाश्रयः, उबयपदार्थाश्रयः, अन्यपदार्थाश्रयश्च । तत्रैकपदार्थाश्रयो द्विधा, पूर्वपदार्थश्रयः, उत्तरपदार्थाश्रयश्च । तयोः पूर्वपदार्थाश्रयो यथा--उपकुम्भं, परुषव्याघ्रः, गोमतल्लिका, पूर्वकायः, राजदन्तः, प्राप्तजीविक इति । उत्तरपदार्थाश्रयो यथा--राजपुरुषः, यूपादारु, कष्टाश्रितः, श्वलेभ्यः, द्व्याढद्धठ्ठड़14;नजातः, प्राप्तजीविक इति ।उततरपदार्थाश्रयो द्विधा, एकधिकरणो भिन्नधिकरणश्च । तयोरेकाधिकरणो यथा--नीलोत्पलम्, अग्निस्तोकः, पुरुष#ोत्तमः, सर्वश्वेतः, सप्तर्षयः, खजेकुण्डड्डत्ध्;ः, इति । भिन्नाधिकरणे यथा--धवखदिरौ, अस्वबडड्डत्ध्;बौ, दधिपयसी, धवखदिरपलाशाः, काकोलूक, गवाश्वमिति । अन्यपदार्थाश्रयो द्विधा, सतद्गुणोऽतद्गुणश्च । तयोस्सतद्गुणो यथा-- उन्मत्तगङ्गां, शस्त्रीशयामा, सहस्त्राक्षः, शूलपाणिः, द्वित्राः, अर्धतृतीया इति । अतद्गुणो यथा---ऊढरथ-, चित्रगुः, दक्षिणपूर्वा, उष्ट्रमुखः, गुडड्डत्ध्;प्रियः, प्रियगुडड्डत्ध्; इति । 6.8. अथ ये वृतिं्त वर्तयन्ति किं त आहुः परार्थाभिधानं वृत्तिरिति ? कः पुनस्यार्थः ? किंपरार्थस्याभिधानमाहोस्वित्परार्थमभिधानमिति ? उभयथाऽपि न दोषः ; यदा तावदेतावद्दर्शनमनेकमप्यर्थमेक एव शब्दः प्रत्याययति, तदा वाक्यावस्थायां शब्दान्तराभिधेयताया प्रतीतमर्थात्मानं वृत्तिर्विषये तदुपसर्जनपदमभिधेयभानेनोपादत्ते । तदेतद्विभक्तपदावस्थायामभिधानशक्तिप्रतिघाताद्वृतौ परार्थस्याभिधानं परार्थस्यभिधानं परार्थाभइधानमुच्यते । यदा पुनरेष पक्षः एकश्शब्दो अनेकमर्थं प्रत्याययति तदा पुरो वार्तमेवार्थे वृततिविषये त#ान्युपलर्जनपदानि परार्थमुपाददते । व्यक्तमेवास्मिन्दर्शने परार्थाभिधानम् । तत्र द्वयी गतिः । विहाय वा प्रसिद्धमर्थसम्बन्धमुपसर्जनपदान्यर्थान्तमुपाददीरन् । अवस्थित एव वा प्राच्येऽर्थेऽर्थेन्तरमभिदधीरन् । द्वयमपि हीतमन्यत्र दृश्यते । तद्यथा--दधिकलशे दध्यपनीय क्षीरं निधीयते । जलं तु सिकताकुम्भे सहैवावतिष्ठते सिकातादिभिः । तदाह तेषां परार्थाभिधानं वृत्तिरिति ब्रुवतां किं जहत्स्वार्था वृत्तिराहोस्विदजहत्स्वार्थेति ? किञ्चातः यदि जहत्स्वार्था राजपुरुष आनीयतामित्युक्ते पुरुषमात्रस्यानयनं प्राप्नोति । औपगवमानयेति चापत्यमात्रस्य । अथाजहत्स्वार्था । उभयोर्भिद्यमानस्वार्थयोद्र्वयोर्द्विवचनमिति द्विवचनं प्राप्नोति । तदेवमुभयत्रापि दोषदर्शनादुभयाप्रतिपत्तिः । तत्रैकेषां दर्शनम् । उपात्तार्थपरित्यागेनार्थान्तरनिवेशीन्युपसर्जनपदाति ; यतोऽर्थान्तरमपराधीनस्य शब्दस्य प्राच्यमेवार्थमुविधीयमानस्यार्थान्तराभिधानमशक्यम् । तस्मादर्थन्तरमभिदधता परित्याज्यमनेनोपात्तमर्थवस्तु । तदाह--का पुनर्वृत्तिन्र्याय्या, जहत्स्वार्थेति युक्तं पुनर्यज्जहत्स्वार्था नाम वृत्तिस्स्यत् ? बाढं युक्तम् । एवं हि दृश्यते । लोके पुरुषोऽयंपरकर्मणि प्रवर्तमानः स्वं कर्म जहाति । तद्यथा---तक्षा राजकर्मणि प्रवर्तमानः स्वं कर्म जहाति । एवं च यद्राजा पुरुषार्थे उपगुश्चापत्यार्थे वर्तमानः स्वमर्थं जह्यात् । 6.9. ननु च यथा तक्षा कोशसमाहरणसन्निधापनादौ राजकर्मणि व्याप्रियमाणः स्वव्यापारापरित्यागेन राजकर्मणोऽनुष्ठातुमशक्यत्वात् स्वं दारुच्छेदतुरश्रीकरणादिव्यापारं जहाति, तथा यद्युपसर्जनमप्य्रथआन्तरप्रत्यायनादौ परार्थे व्याप्रियमाणं स्वार्थापरित्यागेन परार्थाभ#िधानं कर्तुमशक्यमिति पूर्वेपात्तमर्थं विशेषणत्वादि जह्यात् । तदुक्तोदाहरणयोः पुरुषमात्रस्यापत्यमात्रस्य चानयनं प्राप्नोति । नैष दषः । यद्यपि स्वार्थमुपसर्जनपदान्यभिनिविशन्ते, तथाप्याधाय प्रधाने रूपभेदमुपगृहीतार्थातिशयनिबन्धनमुत्तरकालं स्वार्थमुज्झन्ति ।अतस्तदा रूपभेदानुगतः पुरुषार्थो निवृत्तऽप्युपसर्जनपदार्थे विशिष्ट एव प्रतीयते । न ह्यतिशयादायिनिमित्तसनिमित्तसन्निधानकालमात्रानुवर्तिनस्तदाहिता विशेषाः । अपि तु निमित्तव्यवाये अप्युनुवर्तन्ते । तत्र यथा शरदर्करश्मिसंतापोदभुतेनान्तश्शरीरतेजसा ज्वस्समुदीर#्यमाणो नातपस्पर्शवर्जनमात्रेण प्रतिक्रियते । यथा वा प्रदीप्ततेजस्संयोगप्रतिलब्धजन्मानो रूपरसगन्धस्पर्शाविशषाः दूरोत्सारितेऽपि तेजसि यावदायधारमवतिष्ठन्ते, तथोपसर्जनपदार्थोपहितः प्रधानरूपातिशयः तदर्थास्तमयेऽपि प्रयास्यविशेषावच्छेदनिमित्तं भवति । यदिवोपसर#्जनश्रुतिमर्थविशेषभिधानसामथ्र्यवतीमवधृतवतः तदवसायोपहितसंस्कारवृत्तिलाभप्रापितजन्मा तदर्थपरिच्छदेः परित्यक्तार्थायामपि श्रुतौ रूपसामानयादपहृतबुद्धेरनवगतार्थपरित्यागस्य प्रवर्तते । ततस्तदुपहितविशेषं प्रधानमेवेति । ननु च यदि तस्या एव श्रुतेः प्रयोगदर्शनाभ्य#ाससामथ्र्यत्तमेवार्थे प्रतिपद्यते कः स्वार्थपरित्यागः । न हि श्रूतौ तस्यां भस्त्रायामुवोपकरणविशेषाः कृतसन्निवेशाः पदार्थाः । किं तर्हि ते शब्दरूपदर्शनानुमेयाः, तदिहापि तथैवेति किमवहीयते स्वार्थस्य ? नैवम्; निवृत्तेऽपि स्वार्थेऽन्वयतोऽर्थाः प्रतीयन#्ते । तद्यथा--घृतघटस्तैलघट इति । निषिक्तेपि घृते तैले वा अनयोः घृतं तैलं वा घटविशषणं भवति । अयं घृतघटस्तैलघट इति । विषय उपान्यासो भवति । तत्र या च यावती चार्थमात्रा अङ्गं हि भावाग्नौ निष्टप्य तृणकूर्चौ प्रक्षालयितुं न गम्यते स विशेषः ; यथा तर्हि मल्लिकापुटश्चम्पकापुट इति । निष्कीर्णास्वपि सुमनस्सु तत्सम्पर्कोपहितगन्धविशेषाद्यनुप्रवृत्तेः प्रतीयते व्यपदेशाः । अयं मल्लिकापुटोऽयं चम्बकपुट इति । तथेहाप्यन्वयादुपसर्जनार्थः परित्यक्तेऽपि विशेषणं भविष्यति । अथवा जहदप्यसौ स्वार्थे राजशब्दो नात्यन्ताय जहाति । कश्चिदेव भागः स्वार्थस्यापि हियते । कथं विरोधादेषस्स्वार्थमवजहाति ? ततो यावतास्य प्रधानार्थोपयोगविरोधस्तावन्तमेवार्थे जह्यात् । तदाह--यः परार्थविरोधी स्वार्थः तं जहाति । नहि प्रधानार्थोपयोगिनः स्वार्थस्य त्यागे निदर्शनमस्ति । नहि राजकर्मणि प्रवर्तमानः तक्षा राजकर्मैव जहाति ; नहि हीतहसितकण्डूड्डत्ध्;यितानि । न चायमर्थः परार्थविरोधिविशेषणत्वं नाम । तस्मान्न हास्याति । 6.10. ननु चोपसर्गनपदानि प्रधानार्थावच्छेदव्यापारावेशवन्ति । प्रधानेपकारिणं विशेषणभावं न जहतीत्यच्यते । अयमेव चौपसर्जनपदार्थानामर्थो यत्फ्रधानमवाप्तरूपबेदमवगमयन्ति । तथाहि । राज्ञः पुरुषः इति स्नामिविशेषसम्बन्धोपहितभेदः पुरुषोर्थोऽवगम्यते राजपुरुष इति । न चापदार्थरूपभेदप्रधानस्याधातुं तदनवहूयमानस्वार्थमेवोपसर्जनपदमिति । किमुच्यते जहत्स्वार्था वृत्तिरिति ? एवं मन्यते पदस्य स्वाकिशयप्रतिरपत्तौ स्वाधीनत्वं, तस्य त्यागात् स्वार्थापहानम् । यदि चोपसर्जनपदं न स्वार्थेन प्रधानस्योपकुर्यात्, स्वरूपमेवास्यहीयते । यतः परोपकारिताकारणकम्वोपसरजत्वं प्रयोगवैयथ्र्य चोपसर्जनस्य, प्रसज्यते । प्रधानस्योत्तरपदेनैव प्रतीतत्वात् । न चानर्थकाणं परेण सम्बन्धो घटते, सामाथ्र्यनिबन्धना समाससंज्ञा च नोपपद्यते । तस्मान्न सकलार्थपरित्यागः । किं तर्हि विशेषणतया स्वपदेपधीयमानरूपातिशयप्रतिपत्तियोग्यतामात्रस्यपहीयते । ननु च परित्यक्तसेषार्थमपि उपसर्जनपदर्थविशेषाभिधायिनस्समुदायस्य वर्णवदङ्गभावमापत्स्यते ? नैवम्, एवं हि र्रतीयमानः प्रधानार्थोरयोगी पदार्थः परित्यक्तो भावी । न च पिरत्यक्तस्वार्थभ्य उपसर्डड्डत्ध्;नपदेभ्यः प्रधानविशेषो व#िशेषणविसशेष्यावच्छिन्नः समुदायो वा प्रतीयते । न चाप्रतीयमानश्शब्दार्थो न्याय्यः कल्पयितुमिति यत्किञ्चिदेतते । यद्यपि चायं समुदायः एवाव्यपदेश्यपूर्वापरभागो भागभेदानुयात इवासीयमानः संबन्धी पदार्थद्वयोपहितभेदं ह्यर्थमभिधत्ते । तथापि तदधिगमोपायः पूर्वोत्तरविभागदर्शनम् । तत्र च वृत्तौ समर्थाधि कारः क्रियते समर्थनामभेदो भेदस्संसर्गो वा । इह राज्ञ इक्तयुक्ते सर्वस्वं प्रसक्तम् । पुरुष इत्येक्त सर्वः स्वामी प्रशक्तः । इहेदानीं राजपुरुषमायेत्युक्ते राजपुरुषं निवर्तयति अन्येभ्यः स्वामिभ्यः । पुरुषोऽपि राजानमन्येभ्यः स्वेभ्यः एवमेतस्मिन्नुभयतो ऽवच्छेन्ने यदि जहाति कामं जहातु । न जातु चित् पुरुषमात्रस्यानयनं भविष्यति । ननु च पुरुष इत्युक्ते न स्त्रीत्येतावता संप्रत्ययेन भवितव्यम् । सत्यमेवमेतत् । यदा तु पुरुष आकारविशेषाद्द्रव्यान्तरसम्बन्धाद्वा स्वातन्त्र्येण निज्र्ञात उपलब्धं तत्प्रत्येतदुच्यते । राज्ञो हि निज्र्ञातार्थत्वात् परार्थायां प्रवृत्तौ सामान्यसंसर्गविषयः प्रातिपदिकार्थव्यतिरेक उपजायते । पुरुषस्तु निज्र्ञातार्थात् स्वामिविशेषसंबन्धादवध्रियमाणः पूर्वमव्यतिरिक्तप्रातिपदिकार्थः प्रथमान्तः स्वामुविशेषस्थ#ं सम्बन्धमनुभवति । तस्मिन् प्रतिलब्धाविभक्तौ यथा उत्तरो व्यतिरेक उपजायते वाक्यार्थः स भवति । इहेदानीं राजा पुरुषं निवर्तयति अन्येभ्यः स्वामिभ्यः । तत्र योऽसौ भेदस्तत्सामथ्र्यं तन्निमित्ता च वृत्तिः भेदनिमित्तयां च वृत्तौः सत्यां वृत्त्यभिमुखस्य भेदमुपजनय्य स्वार्थो निवर्तते । यस्यापि न निवर्तते पुरुषस्य सोऽपि स्वामिनं भिनत्ति । एवमेतयोद्र्वयो रन्योन्यकृप्तौ सत्यामुभयतो व्यवच्छेदेन निज्र्ञाते पुरुषविशेषे समुदायार्थे चान्यस्मिन्न प्रादुर्भूते यदि राजार्थो निवर्तते कामं निवर्तताम् । प्राक्तु वृत्तेरकृतार्थस्य निवृत्तौ वृत्तिरेव न स्यात् । वृत्तिनिमित्ता च निवृत्तिः । तस्माददोषः । अपर आह पुरुष एव हि राजपुरुषो ब्राह्मणादिपुरुश्च । तत्र राजा स्वाम्यन्तरनिवृत्तिमात्रं करोति । न त्वसौ राजार्थमेव निवर्तयति । स्वाम्यन्तरनिवृत्तौ तु कृतायां पुरष एव राजपुरुषार्थमाहेति । अथान्यमतं नावस्थितार्थपरित्यागेन शब्दोऽर्थान्तरं उपादत्ते । न ह्यपौरुषेयसंबन्धोपहितनिवोशमार्थास्त्युक्तुं ताथार्थमपि नैव योगक्षेममपहूतुं क्षमन्ते । न हि जलमनलसंस्पर्शोपचीयमानस्पर्शातिशयमप्यात्मीयं स्नेहं जहाति ।निमित्तविशएषसन्निधानोपपादिते पुनरेषामर्थान्तरभिधानसामथ्र्यकामचारस्तस्मादभ्युञ्चय एवार्थान्तरस्य वृत्तावुपसर्जनपदानां प्रधानोपकारातिशयः । प्रधानोपकारस्तु स्वामिविशेषावच्छेदः पुरुषार्थस्य । स चापरित्यागेनैव स्वार्थस्य कर्तुं शक्यते । न ह्यत्यन्तमपाकीर्णस्वार्थं शब्दरूपातिशयमर्थान्तरे निवेशयितुं शक्नोति । पॉरूपातिशयनिवेशनायां पदार्थनिपबन्धनत्वादनङागीकृतस्वार्थनि च यान्युपसर्जनपदानि प्रधानार्थनिवेशीनि तमेवार्थं शब्दान्तरेण प्रतिपादयन्ति । न तैरतिशयः प्रधानस्य प्रतिपादितो भवति । ततश्च र#ाजपुरुषमानयेत्युक्ते पुरुषमात्रस्यानयनं प्राप्नोति । औपगवमानयेति चापत्यमात्रस्येति । तदवधार्यामाहे ; अथवा पुनरस्त्वजहत्स्वार्था वृत्तिः । युक्तं पुनः यदजहत्स्वार्था नाम वृत्तिस्स्यात् ? बाढं युक्तं ; एवं दृश्यते लोके भिक्षिकोऽयं द्वितीयां भिक्षामासाद्य पूर्वां भिक्षा न जहाति, सञ्चयायैव यतते । 6.11. ननु चोक्तमुभयोर्विद्यमास्वार्थयोः द्वयोर्द्विवचनमिति द्विवचनं प्राप्नोति । कसयाः पुनर्द्विनवचनं प्राप्नोति ? प्रथमायाः । न प्रथमासमर्थो राजा । षष्ठ्यास्तर्हि प्राप्नोति । न षष्ठीसमर्थः पुरुषः । प्रथमाया एव तर्हि प्राप्नोति । ननु चोक्तं न प्रथमासमर्थो राजाभिहितः, सोऽर्थोऽन्तर्भूतः प्रातिपदिकार्थस्संपन्नः । तत्र प्रातिपदिकार्थे प्रथमे प्रथमे प्रथमाया एव द्विवचनं प्राप्नोति । तत्र यथा धवखदिराविति पदार्थान्तरोपचये सङ्ख्यभेदोपजनकादेकवचनं प्रवर्तते तद्विदिहापि राजपुरुष इति पुरुषशब्दाद्द्विवचनं प्र#ाप्नोति । नैवम् ; घवखदिरावित्यवयवार्थसमवेतस्सङ्ख्याविशएषः, ततोऽवयवात्परस्या विभक्तेः कारणम् । इह तु एक एकपुरुषार्थस्तदेकवचनमेव पुरुषशब्दे न्याय्यः । न हि राजशब्देनासम्बध्यमाना विभक्तिस्तदर्थसमववेतां सङ्ख्यामभिधेयत्वेन अपेक्षते । द्वन्द्वपदानां तु प्रत#्ययवयवमनेकार्थाभिधानसामथ्र्यादनवेकवचनं न विरुध्यते । अनुत्तरपदेष्वपि तर्हि तत्प्राप्नोति । प्राप्नतु। "सुपो धातुप्रातिपदिकयो"रिति लोपो भविष्यति । अथायमभिप्रायः । समुदायात्परा विभक्तिः, अतस्समुदायार्थसमवायिनीं सङ्ख्यामभिधत्ते । समुदायस्य चावयवात्मकत्व#ादवयवभेदेनिबन्धनस्सङ्ख्याबेदः, निमित्तमनेकवचनस्येति । तदेतत्क्क युज्यते ? यत्र पदसमुदायेनार्थसमुदायः प्रत्यय्यते, यथा द्वन्द्वपदे । यत्र तु विशेषणविशेष्यभावावच्छिन्नमर्थान्तरमेवाभिधेयमवयवैः समुदायेनोपादीयेत, यथा बहुव्रीहिपदे लोहितवसनः चेत्रवेष्टन इति। तत्रावयवार्थाहितभेदस्य पदार्थस्य समुदायेनाभिधीयमानत्वात् । ततः परा विभक्तिस्समुदायार्थनिवेशिनीं सङ्ख्यामुपादत्ते । तदाह सङ्घातस्यैकाथ्र्यान्नावयवसङ्ख्यातस्सुबुत्पत्तिः । अत्र हि समुदायाद्राजपुरुष इत्येतस्मात् विभक्त्योत्पत्तव्यम् । तेन समुदायेनैवैकार्थपिण्डड्डत्ध्;ोऽवयवार्थशक्त्यनुगृहीतः पृथगव्यपदेश्योऽवयवशक्तिरभिधीयते । तÏस्मश्च सङ्घातार्थे स्वामिविशेषपरिच्छिन्ने निवृत्तस्वाम्यन्तरसंबन्धे एकत्वं समवेतं, तेन विद्यमानायामप्यवयवसङ्ख्यायां तदाश्रया सुबुत्पत्तिर्न भविष्यति । तदेवमजहत्स्नवार्थायां वृत्तौ तदुपसर#्जनपदं स्वार्थातिशयावच्छिन्नं प्रधानार्थमभिदधाति । ततो विशेषणविशेष्यभूतार्थद्वयाभिधानमुपसर्जनस्य वृत्तौ भवति । यत्तु प्रधानार्थसंभावविशेषणं पाटलिपुत्रकादि तदस्य निवृर्तते । अतो वृत्तिविषये रजार्थः तैर्विशषणैर्नावच्छिद्यते । यदा तु वाक्यावस्थायामुपसर्जनंपदार्थः प्रधानसंस्पर्शाविभक्तः केवल एव भवति तदा युक्तमेव य्दविशेषणभआवमनुभवति, यथा राज्ञः पाटलिपुत्रकस्य पुरुष इति । यदि वा --- उपायमात्रान्नानात्वं समूहस्त्वेक एव सः । विकल्पाभ्युञ्चयाभ्यां तु भेदसंसर्गकल्पना ।। 6.12. तत्रात्यन्ताजहत्स्वार्थायां वृत्तौ पुरुषशब्दे पुरुषार्थाभिधायिनि स्रवशब्देषु च प्रतिनियमार्थाभिनिवेशिषु भेद एव सामथ्र्यम् । अजहत्स्वार्थायां तु वृत्तौ पुरुषशब्दे पुरुमात्राभिधायिनि सर्वशब्देषु च प्रतिनियतार्थाभिनिवेशिषु संसर्ग एव सामथ्र्यम् । नात#्यन्तमजहत्स्वार्थायां वृत्तौ पुरुषादिषु संबन्धिशब्देषु सरवशब्दानां चासमर्थयोनित्वाभ्युपगमे समाप्तौ भेदसंसर्गौ सामथ्र्यमित्याख्यायते । वृतिं्त वर्तयतामेवमबुधप्रतिपत्तये । भिन्नाः सम्बोधनोपायाः पुरुशेष्वनवस्थिताः ।। 6.13. नहि परमार्थतः पराकृतपूर्वोत्तरविभागसंस्पर्शेन सङ्घातेनातिशयवत्यर्थेऽभिधीयमाने बेदसंसर्गदर्शनावकाशः कश्चिदस्ति । तस्मादसत्येव भेदसंसर्गदर्शनेन सत्यस्समुदायार्थो निरुप्यत इति । 6.14. पदार्थस्त्रिधा, जातव्र्यक्तिराकृतिश्च । तत्र भिन्नेष्वभिन्नप्रत्ययनिमित्तं जातिः । सा त्रिधा, द्रव्यजातिर्गुणजाति क्रियाजातिश्च । तासु द्रव्यजातिर्द्विधा, संस्थादिव्यङ्ग्या उपदेशव्यङ्ग्या च । तयोराद्या यथा-- गौः पदा न स्प्रष्टव्या, संपन्नो व्रीहिस्सुभिक्षं कारोतीति । द्वितीया यथा---ब्राह्मणो न हन्तव्यः, कठः प्रवक्तः भवतीति । गुणजातिर्द्विधा, प्रत्यक्षा अनुमेया च । तयोराद्या यथा--- श्वेतं छागमालभेत, अम्लो सरः पाचनं दीपनीय इति । द्वितीया यथा---दक्षः श्रियं अधिगच्छति, कामी मण्डड्डत्ध्;नप्रियो भवतीति । क्रियाजातिद्विधा, सामान्यरूपा विशेषरूपा च । तयोराद्या यथा--रैपोषं पुष्यति, नागरकवृत्तं वर्तेतेति । द्वितीया यथा--अष्टका कृता, विशअवजिता यजेतेति । जात्याधारो व्यक्तिः ।सा त्रिधा, द्रव्यव्यक्तिः, गुणव्यक्तिः, क्रियाव्यक्तिश्च । तासु द्रव्यव्यक्तिर्द्विधा, शुद्धा मिश्रा च । तयोराद्या यथा--गां बधान, गां दोग्धि, त्वं पचसि, अहं पचामीति । द्वितीया यथा---- मगदेषु स्तनौ पूनौ कलिङ्गेषअवक्षिणी शुभे । बाहू प्रलम्बावङ्गेषु वङ्गेषु चरणौ मृदू ।। इति । गुणव्यक्तिर्द्विधा, मुख्या गौणी च । तयोराद्या यथा--श्वेतिमा रूपं पश्यामि, मधुरं रसमास्वादयामि. सुगÏन्ध गन्धमाजिघ्रामि, शीतं स्पर्शमनुभवीमीति । द्वितीया यथा--- "तीव्रः प्रतापो मधुरं नवचस्ते यशोऽवदातं सुरभिः स्वभावः । " इति । 6,15. क्रियाव्यक्तिर्द्विदा, कत्र्राश्रिता, कर्माश्रिता च । तयोराद्या यथा--आस्ते देवदत्तः, प्रस्नुते गौस्स्वयमेवेति । द्वितीया यथा-- पच्यते ओदनः, लूयते केदारः स्वमेवेति । व्यक्तः प्रतिरूपमाकृतिः . सा त्रिधा, द्रव्याकृतिः, गुणाकृतिः, क्रियाकृतिश्च । तासु द्रव्याकृतिर्द्विधा, श्रुतदशा, दृष्टदशा च । तोयराद्या यथा--अस्यां दृषदि वासुदेवः क्रियताम्, अस्यां भित्तौ क्रामदेवो लिख्याताम्, अत्र ध्वजे हनूमान् बध्यतामिति । द्वितीया यथा-- अमी पिष्टपिण्डड्डत्ध्;ाः सिंहाः क्रियन्ताम्, अयं कूपे चन्द्रमाः, अयमाकाशे देवपथ इति। गुणाकृतिर्द्विधा, प्रत्यक्षाश्रया, अनुमेयाश्रया च । तयोराद्या यथा--वंध्रीका दर्शनीयो मनुष्यः, चञ्चा रमणीयः, तदेतद्घुणाक्षरं द्वितीया यथा--- अहो दुःखं रूपं लेख्यस्य,विदग्ध आकारश्चित्तस्य, सौम्या मूर्तिः प्रतिमाया इति । क्रियाकृतिद्विधा, कायक्रियाधारा, मनःक्रियाधारा च । तयोराद्या यथा--ऋज्वागतमालेख्यम्, साचिमुखवर्तकः परावर्तकमुखस्थानमिति । द्वितीया यथा-- भीता दृष्टिः, त्रस्त आकारः, सविकारं रूपमिति । ननु च जातिरेन इति जैमिनीयाः । जैमिनिर्हि, जातिमेवाकृतिं प्राह व्यक्तिराक्षिप्यते यया । सामान्यं तञ्च पिण्डड्डत्ध्;ानामेकबुद्धिनिबन्धनम् ।। 6.16. ननु च, सास्नादीनां सन्निवेश आकृतिः । न चासौ जैमिनिमतेऽपि न पृथगस्ति । यदाह भाष्यकारः-- अथ गौरित्यत्र कश्शब्दार्थः सास्नादिविशिष्टा आकृतिरिति । ततश्च सैव शब्दार्थो भवति । नैवम् ; एवं सति संस्थानस्य प्रतिव्यक्तिभिन्नत्वात्, आनन्त्यव्यभिचाराभ्यंसंबन्धस्य ग्रहीतुमशक्यत्वात् । न च विद्यमानायामप्याकृतौ गामानयेत्युक्तश्चित्रपुस्तमयीं कश्चिद्गामानयति । ननु जातिपक्षेऽपि जातेस्सर्वगतत्वात्किमिति मृद्गकानयनं न भवति ; सास्नादिमतः प्राणिन एव गोत्वाभिव्यञ्जकत्वात् । अतो नाकृतिर्जातेः पृथक्छब्दार्थ इति। व्यक्तिरपि न शब्दार्थः, सा हि व्यक्तिमात्रं वा स्याद्विशिष्टा वा । न तावद्व्यक्तिमात्रं, अस्वादिव्यक्तावपि गौरिति ज्ञानाभिधानयोः प्रसङ्गात् । अवगमस्तु शब्दात् प्रमाणान्तरतो वा । न प्रमाणान्तरतः, तदसन्निधानात् । शब्दतस्तु गोत्वावगमे तदेव प्रथमतश्शब्दोऽभिदधाति, नागृहीतविशेषणा विशेष्ये बुद्धिरिति न्यायात् । ननु जातिं विशेषणत्वेन विशेष्यत्वेन च व्यकिं्त गोशब्दो वक्ष्यति ; न शक्नोति वक्तुमतिभारात् । तदाह--- विसेष्यं नाभिधा गच्छेत् क्षीणशाक्तिर्विशेषणे ।। इति ।। 6.17. ननु दण्डड्डत्ध्;्यादिशब्दविशेषणं जातिविशेष्यं च व्यकिं्त गोशब्दादेव प्रतिपत्स्यामहे । तत्को स्यातकिभारः ? विषम उपन्यासः । तत्र हि प्रकृतिप्रत्ययविभागेन प्रकृत्यर्थविशिष्टः प्रत्ययार्थः अवगम्यते । गोशब्देन तु नैवमिति । न च व्यक्त्यवगतौ गतिरन्या नास्ति, येनोभयाभिधानं कल्प्यते । अविनाबावबलेन जातिप्रतीतावपि तत्प्रतीतिसिद्धेः । यदि च व्यक्तिश्शब्दार्थो भवेत् , व्यक्त्यन्तरे गोशब्दो न प्रयुज्यते, न च न प्रयुज्यते, तस्मात्सर्वव्यक्तिसाधारणो जातिरस्यार्थः, न व्यक्तिः । नन#ु च, व्यक्त्यन्तरम्पि व्यक्तिरेव । सोऽयं व्यक्तौ गौशब्दः प्रयुक्तो न सामान्ये । नैवम् । एवं सति कर्कादिव्यक्तावपि प्रसङ्गः । यत्रास्य प्रयोगो दृष्टस्तत्र वा प्रयुज्यत इति चेत्, अद्य जातायां गवि प्रायोजि । अपि च व्यक्तौ पदार्थे इयमियं वा गौरिति प्रतीतिस्स्यात् ।; न पुनरियमियं चेति । न च आकृताविव व्यक्तावप्य#ानन्त्यव्यभिचाराभ्यां समबन्धग्रहममुपपद्यत इति । कथं पुरिमा जातयः परस्परतो व्यापर्तमानशरीरा भवेयुः । रूपमेव ह्यासां परस्परतो व्यावर्तते । विषयरूपानुरोधी च प्रत्ययस्स्वाकारभेदेन तदवच्छिनत्ति । तदनुविधायिनश्च शब्दास्तथैव तदुपाददते । एवं तर्हि नित्यत्वादासांतद्रूपासायस्सदा प्रयुज्यत । नैवम् ; अस्मन्नियताश्राणामनभिव्यक्तेः । यद्येनमभिव्यञ्चकवशादवसायस्तासामिति सोपव्यञ्जनाश्शब्दैरभिधीयेरन् । तन्न । यथा काचादर्शादकादिषु प्रतीयमानभेदो मुखादिरर्थः काचादिदर्शनापेक्षो न प्रतीयते । न च काचादिभिरुपदर्शितमर्थमाभिदधानाः शब्दाः काचादीनुपाददते, तथा व्यक्तिभिरुपर्शितरूपविभागा जातयस्ताभिरसंस्पृष्टा एव शब्दैः प्रत्यय्यन्ते । कथं पुनराश्रयाश्शब्देन असमक्पृश्यमानभेदा अपि जातिबेदावगमाय कल्पन्ते । यथा चक्षिरादयोऽप्रतीयमाना अपि रूपादिविषयविशेषप्रतिपत्तये । तदुक्तं--- यथा जलादिभिव्र्यक्तं मुखमेवाभिधीयते । तथा द्रव्यैरभिव्यक्ता जातिरेवाभिधीयते ।। यथेन्द्रियगतो भेद इन्द्रियग्रहणादृते । इन्द्रियार्थेष्वदृश्योऽपि ज्ञानभेदाय कल्पते ।। विनात्मरूपग्रहणाद्व्यञ्जिका व्यक्तयस्तथा । सामान्ये ज्ञानबेदानामुपयान्ति निमित्तताम् ।। इति । व्यक्तिरेव शब्दार्थ इति व्याडड्डत्ध्;ीयाः । शब्दो हि पदं, तञ्च विभक्त्यन्तमेव न प्रातिपदिकमात्रम् । विभक्तिः प्रातिपदिकदुञ्चरन्ती प्रातिरदिकार्थगतमेव स्वार्थामाचष्टे । युगपञ्च त्रितंय विभक्त्यर्थः --लिङ्गं सङ्ख्या कारकं च । न यैतत्र्त्रितयं प्रातिपदिकार्थे जातावन्वेति ; न हि जातेः कारकत्वं, अमूर्तत्वात् । न सङ्ख्यासम्बन्धित्वमभेदात् । न स्त्रीत्वादिसामान्ययोगो निस्सामान्यत्वात् । नन्ववात्मनीयसामान्ये कारकत्वं भविष्यति । कक्ष्यान्तरितमित्येष युक्तो वैभक्तिकोन्वयः ।। नैतत्सारम् । अमूर्तस्याप्यात्मनो ज्ञानप्रयत्नादियोगे कारकत्वमुपपद्यते । जातेस्तु न मानगपि व्यापारसंस्पर्श इति । 6.18. ननु च व्यक्तिलक्षणाया स्रवमुपपद्यते । नैवम् ; लक्षणा हि तत्र भवति, यत्र सकृत्प्रयुक्तं पदं किञ्चनार्थमभिधत्ते ; भूयश्चानुपपद्यमानमर्थान्तरं लक्षयति । लक्षिते च शक्तिसङ्ख्यादिकं निवेशयति । अत्र तु नान्यथानुपपत्त्यादि संबेद्यते । न च व्यक्तिप्रतीतिव्र्यवहितेति केचन्मन्यन्ते । व्यक्तिमेव च शक्तिसङ्ख्यानुरञ्जितां कार्ययोगिनीं पश्यामः । अत एव चालम्भनप्रोक्षणविशसनाद्यो जातौ न विधीयन्ते । न च षट् देयाः द्वादश देयाः चतुर्विशतिर्देया इति भेदसङ्ख्यया जातिर्युज्यते । अपि तु व्यक्तिरेवैनं भारमुद्वहिति । किञ्च जातौ पदार्थे "यदि पशुरूपाकृतिः पलायेतान्यं तद्वयसमालभेते "ति पशोरन्यन्तवं न युज्यते ; जातेरभेदात् । अपि च, चयापचयसङ्घातस्वस्वमित्वादिकल्पनाः । यान्ति जात्यभिधेयत्वपक्षे साक्षान्न सङ्गतिम् ।। एतेन तुल्ययोगक्षेमत्वादाकृतिरपि न शब्दर्थ इत्युक्तं भवति; तस्या अपि प्रोक्षणादिक्रियासाधनत्वायोगात् । न हि सन्निवेशः प्रोक्ष्यते आलभ्यते विशस्यते वा । ये च सङ्ख्यायोगादयः चायापचयादयो वा ते जाचावाकृतावपि न युज्यन्ते । किञ्च आकृतिवचनत्वे गोशब्दस्य शुक#्लादिगुमवाचिभिः पदान्तरैस्सामानाधिकरण्यं न प्राप्नोति ।न हि शुक्लादयो गुणाः आकृतिवृत्तयः । अपि तु व्यक्तिवृत्तय इति । न चैतद्वाच्यं व्यक्तिलक्षणाद्वारकमिदं भविष्यतीति लक्षणा हि मुख्याभावे प्रवर्तते । न खलु ऋजौ वहति वत्र्मन्यनृरध्वाऽऽश्रयितव्यो भवति ।न चतानन्त्यव्यबिचाराभ्यां सम्बन्धाग्रहणमिति वक्तव्यम् । तद्धि जातिमाकृतिं वोपलक्षणमाश्रित्य भविष्यति । यद्येवमुपलक्षणभूतां जातिमाकृतिं वाभिधाय शब्दो व्यक्तिमभिध्तते । नैवम् ; आस्तमभिधीयमानः विद्यमानमपि प्रतिरन्नमात्रमेव उपलक्षणं भवति । तद्यथा--कतमद्देवत्तगृहं, यत्रायं काक इति । अत्र हि न काकलक्षणोपलक्षणद्वारेम प्रवृत्तो देवदत्तगृहशब्दः काकार्थमाभिधत्ते । उपरते वा काकसंबन्धे तद्व्यवच्छिन्नवस्तुनिवेशितां जहाति । एवं जात्युपलक्षणद्वारेण व्यक्तौ प्रवर्तमानश्शब्दो जातिं च नाभिधीस्यति । तद्व्यवच्छिन्नगोव्यक#्तिविनिवेशं च न हास्यति । एतेनाकृतिरपि, शब्देनानभिधीयमानैव व्यक्तिमुपलक्षयतीति लक्ष्यते । तद्याथा----कतरत्सुवर्णं, य एष रुचकः, स्वस्तिको वर्धमानक इति । न ह्यत्र रुचकाद्याकारद्वारेण प्रवृत्तस्सुवर्णशब्दोरुचकाद्याकारमभिधत्ते । उपरतेषु रुचकाद्याकारेषु तद्व्यवच्छिन्नस्वर्णार्थपरतां परित्यजति । तदुक्तं --- अध्रुवेण निमित्तेन देवदत्तगृहं यथा । गृहीतं गृहशब्देन शुद्धमेवाभिधीयते ।। सुवर्णादि यथा युक्तं स्वैराकारैरुपाधिभिः । रुटकाद्यभिधानानां शुद्धमेवेति वाच्यताम् ।। तथोपलक्षणे जातावाकृतौ वा समाश्रिते । व्यक्तयो यान्ति शब्दानां शुद्धा एवाभिधेयताम् ।। एतेन यदुक्तं व्यक्त्यभइधानपक्षे स्रवे शब्दाः सर्वार्था भवेयुरिति तदपि निरस्तं भवति । तथाहि ; .यथा चक्षिरादिशब्दानामसेषरूपादिप्रकाशनसामथ्र्य नलिकादिसुषिरवत्र्मनि युक्तं दर्शनस्य तदवकाशावस्थितरूपभेदोपरुद्धतया विषयान्तरेषु न विप्रक्रिर्यते तथा जात्याकृत#िभ्यामवरुद्धविषया गवादिशब्दनामभिधानशक्तिर्नाश्वादिष्वतिप्रसज्यत इति । उक्तं च, आरारैश्च व्यच्छेदात्सार्वाथ्र्यमरुध्यते । यथाव चक्षुरादीनां सामथ्र्यं नलिकादिभिः ।। यञ्चोक्तं---यथावादिभिरादर्शैरभिक्ताश्चन्द्रादय एव चन्द्रादिशब्दैरभिधीयन्ते । यथा चेन्द्रियभेदग्रहणमन्तरेणापि रूपाकारादिविष्यज्ञानभेदो भवति, तथा व्यक्तिभिरुपव्याञ्चिता जातयएव गवादिशब्दैरभिधीयन्ते । व्यक्तिग्रहणे च दुपव्यञ्जना जातिग्र्रहीष्यति । तदपि न सम्यक् । यदा तावत्प्रतिबिम्बमुदकादिषु भावान्तरमेवोपजायत इति दर्शनं, तदा तु रूपभेदानुपातिनः शब्दाः किमिति उदसादीनुपाददीरन् । यतो नोदकादस्तदानीं चन्द्रादीनामुव्यञ्जनमपि तु रुपजननकारणम् ; न च कार्यवचनात् शब्दाः कारणसंस्पर्शमनुभवन्ति । यदा तु दर्शनविल्पवः स दादृश इति प्रतिपतिं्त, तदा दूरोत्सारितावकाशो व्यङ्ग्यव्यञ्जकभावः । यदा तर्हि जलाद्यादर्शप्रतिघातात् परावृत्ते चक्षुषि स्वक्त्रञ्जन्द्रादयोऽपि दृश्यन्त इति दर्शनं तदैतदुपपत्स्यते । तदाह्युदरकादिवत् सन्निहितमुपव्यञ्जनं रूपभेदेन जातिमभिव्यक्तरूपभेदां दर्शयति । तदेव च शब्दोऽभिधत्ते । एतदप्यव्यभिचरितोपव्यञ्जनायत्दर्शनजातयः कथं विनोपव्यञ्जनैः प्रतीयन्त इति पर्युनुयोगेनातिचतुरश्रं ; चन्द्रादीनामन्यथापि दर्शनोपपत्तेः । एवं जातिभेदप्रतिपत्तावपि यथा दर्शनादीन्द्रियायत्तोदयाः नीलाद्यर्थावसायाः कारणभेदमनुरिवर्तन्ते । नैवम् ; जातिपरिच्छेदाः व्यक्तिरूपप्रतिबन्धोत्पादाः, येन तद्भेदमनुविदध्युः । ततश्च गोत्वादयोऽपि परस्परतो न व्यावर्तेरन् । संवेद्यमानभेदश्च पदार्थः कथमकस्मादेक इति श्रद्धीयते ? व्यक्तरेव पार्दथत्वं तस्मादभ्युपगम्यताम् । तथा च बुद्धिस्तत्रैव श्रुतशब्दस्य जायते ।। येषामर्थेंषु सामान्यं न संभवति तैःपुनः । उच्यते केवला व्यक्तिराकाशादिपदैरिव ।। एवं डिड्डत्ध्;त्थादिशब्दानां संज्ञात्वविदितात्मानाम् । अभिधेयस्य सामान्यशून्यत्वाद्व्यक्तिवाच्यता ।। येपुनः कल्पितानेकबेदवृतिं्त प्रचक्षते । वाच्यं तत्रापि सामान्यमतीव ग्राहयन्ति ते ।। न हि डिड्डत्ध्;त्थत्वसामान्यं दृश्यते गगनत्ववत् । कल्पनायाश्च नाभूमिः काचिदस्ति विपश्चिताम् ।। इति ।। आकृतिरेव पदार्थ इति विन्ध्वासिमतगन्धीयाः । तत्राकृतिपदेनेह संस्थानमभिधीयते । लोके शास्त्रे च दृष्टत्वान्न जातिर्जैमुनीयनवत् ।। लोके यथा-- यत्राकृतिस्तत्र गुणा वसन्तीति । शास्त्रे यथा-- आकृतिग्रहणा जातिर्लिङ्गानां च न सर्वभाक् ।। इति ।। उभयत्रापि चाकृतिशब्देनावयवसन्निविशेष उच्यते । वृद्धाश्च व्यवहरन्तो यत्रार्थे यत्पदं प्रयुञ्जते स तस्यार्थो भवति । तत्र यदेष गोशब्दः सास्नादिमति प्रयुज्यते न केसरादिमति तदयमासाधरणसन्निवेशविषयतां द्योतयति। प्रत्यक्षविषये च गोरित्यादिपदं प्रयुज्यते । प्रत#्यक्षं चाकृतिविषयम् । अश्वपिण्डड्डत्ध्;सन्निवेशाद्धि विलक्षणो गोपिण्जसन्निवेश इन्द्रियेण प्रतीयते । तत्कृतमेव वस्तीनामितरेतरवैलक्षण्यात् । अतः प्रत्यक्षविषये गौरित्यादिपदं प्रवर्तमानमाकृतावेव प्रवर्तितुमुत्सहते । अपि च श्येनचितं चिन्वीतेति न जातिश्चीयते, न व्यक्तिः ; अपि तु आकृतिरेव । प्रदीपप्रवाहदीनां च शब्दानामाकृतिरेवार्थोऽभ्युपेयः । न ह्योषामर्थेषु व्यवस्थितं जातिरूपं व्यक्तिरूपं वा समस्ति । यदि चाकृतिश्शब्दार्थो न भवेत्, कथमिव गवादिशब्दैः गवाद्याकारमेव ज्ञानं जन्यते ? अपि तानेव शाटकानाच्छादयामो ये पाटलिपुत्रे, तानेव शालीन्यभुञ्जामहे ये मधुरायामिति योग्यमेवंप्रकारो व्यवहारः, स आकृतावेव पदार्थे सङ्गच्छते । यञ्ज व्रीह्यादेर्मुख्यास्याभावे नीवारादिभिः कर्म समाप्यते तदाकृतेः अशब्दार्थत्वे समापरितमप्यङ्गहीनत्वादफलमेव प्राप्नोति । नीवारादौ व्रीह्यादिजातिव्याक्त्योरभावात् । यश्चायमर्चादिप्रतिकृतौ वासुदेवादिशब्दप्रयोगः, सोऽप्याकृतावेव पदार्थे युज्यते । किञ्चात्यन्तमदृष्टेष्वप्यर्थेषु शब्दादाकारविषयः प्रत्यय उपजायमानो दृश्यते । तद्याथा--इन्द्रस्कन्दो वैश्रवणः इति । तञ्चाकृतेरेव शब्दार्थत्वमुपपद्यते । सम्बन्धग्रहणें चास्या जातिवदुपपत्स्यते । समस्तगवीष्वपि गोसंस्थानस्यैकरूपत्वात् मुख्यगौणभावे तु प्रसिद्धिरप्रतिसिद्धश्च नियामिका भविष्यति । प्रोक्षणादिक्रिया शुक्लादिगुणयोगश्च व्यक्तिद्वारा आकृतेरुपपत्स्यते । न चामूर्तत्वादाकृतेरक्रियाङ्गत्वं, अमीर्तानामि गुमकर्मणां क#्रियाङ्गत्वात् । अरुणया क्रीणिति अभिक्रामं जुहोतीति ष किञ्च, यथाभूतेन्द्रियोत्पाद्यमात्मकर्तृकमिष्यते । तथा तल्लिक्षितव्यक्तिसाध्यं तत्समाध्यमुच्यते ।। तस्मादाकृतिः पदार्थ इति । कथं तह्र्याचार्याणां मतविरोधो जातिव्र्यक्तिराकृतिश्च पदार्थ इति गवादिशब्दैस्तद्वतोभिधानात् ? ननु कोऽयं तद्वान्नाम । तदस्यास्तीति तद्वानिति विशेष एवाकारसामान्यवानुच्यते । विशेषवाच्यते चानन्त्यव्यतिभाचारो तदवस्थै । सामान्यं च शब्देनानुच्यमानं नोपलक्षणं भवति । उभयाभिधाते च शब्दस्यातिभार इत्युक्तम् । उच्यते, नेदन्तया निर्दिश्यमानः शाबलेयादिर्विशेषस्तद्वान् । किन्तु सामान्याक्षयः कश्चिदनुल्लखितशाबलेयादिविशेषः त्दवानित्युच्यते ।सामान्याक्षयत्वाञ्च नानन्त्यव्यभिचारयोस्तत्रावकाशः। न च विशेषमभिधाय विशेष्यमभिदधाति शब्द इत्युपगच्छामः । येनैनमतिभारेण पीडड्डत्ध्;येम । सामान्यश्रयत्वमात्रे सङ्केतग्रहणात् तावन्मात्रं वदतः शब्दस्य कोषतिभारः ? किञ्च---- प्रत्यक्षं न च निष्कृष्टजात्यंशपरिनिष्ठतम् । तद्गोचरप्रवृत्तश्च शब्दस्तत्कथयेत्कथम् ।। युगपन्ननु संवित्तिर्विशेषणविशेष्ययोः । प्रत्यक्षेऽपि न दृष्टैव न च युष्माभिरिष्यते ।। कार्यकारणभावो हि तद्धि यो भवतां मते । तस्माद्विशेषणे जातौ पूर्वमिन्द्रियजा मतिः ।। पदादपि तदायत्तसम्बन्धज्ञप्त्यपेक्षिणः । तत्रैव बुद्धिरित्येवं न व्यक्तेरपि वाच्यता ।। 6.19 उच्यते, प्रत्यक्षे तावद्द्धयोरपि विशेषणविशेष्ययोः इन्द्रियविषयतासामान्ये संयुक्तं समवायादीन्द्रियं प्रवर्तमानं विशेषणवद्विशेष्यमपि विशयीकरोति । न च सामान्यं प्रत्यक्षं विशेषोऽनुमेय इति व्यवहारः । एवं हि गुणमात्रग्राहिणीन्द्रिये गुणिनोऽनुमेयत्वंस्यात् । न चैवमस्ति । तस्माद्विशेष्यपर्यन्तं प्रत्यक्षं, तथापदमप तत्तुल्यविषयं न सामान्यमात्रनिष्ठमिति युक्तम् । यत्तु, सामान्यांशादपोद्धृत्य पदं सर्वं प्रवर्तते ।। इ#ित केवलव्याक्त्यभिधाने सत्यानन्त्यव्यभिचारभयादुच्यते । तद्विदभिधाने तु न तदुभयमस्तीति न शुद्धजात्यभिधेयतया शब्दव्यापारः सङ्कोचनीयः । ननु सर्वात्मना प्रत्यक्षतुल्यविषयश्चेच्छब्दः प्रतिपत्तिसाम्यं प्रसजेत् । न च शब्दादिन्द्रियाञ्च तुल्ये प्रतिपत्ती भवतः । तदुक्तम् । अन्येथैवाग्निसंयोगाद्दाहं दग्धोहि मन्यते । अन्यथा दाहशब्देन दाहार्थस्संप्रतीयते ।। उच्यते, परिहृतमेतत् सकलविशेषग्रहणाग्रहणाभ्यां प्रतिपत्तिविशेषसिद्धेः । नैतावता सामान्यमात्रनिष्ठः शब्दौ भवति । अपि च निष्कृष्टसामान्यांशवचनत्वे गोशब्दाद्गोत्वशब्दाञ्च तुल्ये प्रतीपत्ती स्यातां । गौः शुक्ला इतिवञ्च गोत्वं शुक्लमिति बुद्धिः स्यात् ।चातुर#्वण्र्यदिवञ्च स्वार्थ एव गोशब्दात् भावप्रत्ययस्त्वतलादिः स्यात् । अथ मन्येथाः आक्षिप्तव्यक्तिकां जातिं गोशब्दो वक्ति, भावप्रत्ययान्तस्तु निष्कृष्टामिति । तदनुपपन्नम्, अनक्षिप्तव्यक्तिकायाः क्कचिदपि जातेदर्शनात् । अथ गोशब्दश्रवणवेलायां न व्यक्तिसंस्पर्शशून्या जातिरवगम्यते । भावप्रत्ययान्ते तु गोशब्दे श्रुते तच्छीन्या शुद्धासौ प्रतीयत इति यद्येवमागोऽसिं मदीयं पन्थानं, आश्रयवती चेज्जातिरुच्यते जात्याश्रय उक्त एव भवति नान्यथा हि साश्रयवत्युक्ता स्यात् । तदाश्रयपरिरेणाश्रयिसामान्यमात्रविवक्षायां त्वतलादयः प#्रयुज्यन्ते । तथा चाहुः, यस्य गुणस्य हि भावाद्द्रव्ये शब्दनिवेशस्तदभिधाने त्वतलाविति गुणस्य भावाद्द्रव्ये शब्दनिवेशइत्यास्मत्पक्षसाक्षीण्यक्षराणि । सामानाधिकरणयं च तत्रैवोपपद्यत इत्युक्तमेव । तस्मात्, यथाविध्यन्तपर्यन्तो वाक्यव्यापार इष्यते । तथैव व्यक्तिपर्यन्तः पदव्यापार इप्यताम् ।। अनुपरतव्यापार एव शब्दे तदवगमात् ---- येनान्विताभिधानं च पदानामभ्युपेयते । सुतरां तेन वक्तव्या व्यक्तयन्तं तावतो मतिः ।। नबि व्यक्त्यनपेक्षाणां जातीनामितरेतरम् । अन्वयाभिधानमिति स्थितिः । गङ्गायां घोष इत्यादौ यथा सामूप्यलक्षणा । नैवं गौश्शुक्ल इत्यादौ विद्यते व्यक्तिलक्षणा ।। प्रयोगप्रतिपत्तिभ्यां वृद्धेभ्यो व्यवसीयते । तस्माद्गवादिशब्दानां तद्वानर्थ इति स्थितम् ।। अर्थेषु च प्रयोगेषु गां दोग्धित्येवमादिषु । तद्वतोऽर्थक्रियायोगात्तस्यैवाहिः पदार्थताम् ।। पदं तद्वन्तमेवार्थमाञ्जस्येनाभिजल्पति । न च व्यवहिता बुद्धिर्न च भारस्य गोरवम् ।। सामानाधिकरण्यादिव्यवहारश्च मुख्याया । वृत्त्योपपद्यमानस्सन्नान्यथा योजयिष्यते ।। तदुदमुक्तं भगवाक्षपादेन, व्यक्तयाकृतिजातयस्तु पदार्था इति तुशब्दो विशेषार्थः, किं विशेष्यते ? गुणप्रधानभावस्यानियमेन शब्दार्थत्वम् । अतः स्थितेऽपि तद्वतो वात्यत्वे क्कचित्प्रयोगे जातेः प्राधान्यं व्यक्तेरङ्गभावः, यथा --- गौः पदा न स्पष्टव्येति सर्वगवीषु प्रतिषेधोऽवगम्यते । क्कचिद्व्यक्तेः प्राधान्यं व्यक्तेरङ्गभावः, यथा--गां मुञ्च गां बधानेति, नियतां काञ्चिद्व्यक्तिमुद्दिश्य प्रयुज्यते । क्कचिदाकृतेः प्राधान्यं व्यक्तेरङ्गभावः, जातिस्तु नास्त्येव । यथा--पुष्टमय्यो गावः क्रियन्तामिति, तत्सान्निवेशचिकीर्षया प्रयोग इति । गुणशब्दास्तु केचित् स्वजात्यवच्छिन्नं गुणमभिधाय तवत्येव विरमन्ति । केचित्तु गुणमभिधाय द्रव्यमप्याक्षिपन्ति । तत्सामानधिकरण्ये प्रयोगदर्शनात् । गुणैकनियतास्तावद्गन्धरूपरसादयः । गन्धात्वादिव्यवच्छिन्नगन्दादिगुणवाचिनः ।। तेषां न द्रव्यपर्यान्ता वृत्तिः क्कचन दृश्यते । न गन्धः पद्ममित्यस्ति सामानाधिकरण्यधीः ।। गुणं शुक्लादिशब्दास्तु कथयन्तस्तश्रयम् । द्रव्यमप्याक्षिपन्त्येव शुक्लोऽश्व इति दर्शनात् ।। क्रियाशब्दास्तु विविधाः केचित्कर्तरि कर्मणि । करणे च प्रयुज्यन्ते केचिद्भानेऽवधावपि ।। कत्र्रादिवचनास्तावन्निमित्तीकृत्य कांचन । क्रियां तद्योगिनि द्रव्ये वर्तन्ते पाचकादयः ।। यत्रापि ततक्रियायोगस्तदानीं नोपलभ्यते। तत्रापि योग्यातां दृष्ट्वा शब्दं सन्तः प्रयुञ्जते ।। अन्ये पूर्वापरीभूतस्वभावपरिहारतः । सिद्धरूपतया प्राहुश्शब्दाः पाकादयः क्रियम् ।। अन्यत्प्रवृत्तौ शब्दस्य निमित्तमवगम्यते । अभिधेयं ततश्चान्यदित्ययं प्रथमः क्रमः ।। 6.20. पाचकादिशब्दानां हि प्रवृत्तिनिमित्तं क्रिया । अभिधेयास्तु कत्र्रादयः । क्क्चित्पुनर्यदेवास्य स्यात्प्रवृत्तनिबन्धनम् । तस्यैव वाच्यता भावप्रत्ययान्तपदेष्विव । इतीयं लेशतस्तावन्नाम्नां वृत्तिरुदाहृता ।। आख्यातानां तु वाच्योर्थः पुरस्तादुपवर्णितः । उपसर्गनिपातानां नाम्नामिव विभागतः ।। प्रयोगप्रतिपत्तिभ्यामनेकोऽर्थोऽवगम्यते । उपसर्गवशाद्धातुरर्थानतरविलासकृत् ।। विहाराहारसंहारप्रहारपरिहारवत् । अन्वयवयतिरेकाभ्यां तदर्थोऽभ्यवगम्यते ।। तदागमे तत्प्रतीतिस्तदभावे तदग्रहात् । अयमास्य पदास्यार्थ इति किं चिन्तितेन वा ।। योऽर्थः प्रतीयते यस्मात्स तस्यार्थ इति स्थितिः ।। 6.21. वाक्यार्थस्त्रिधा, भावना विधिः प्रतिभा च । तत्रान्योत्पादानुकूलो भवन्तं प्रयुञ्जानः पुरुषव्यापारः करोत्यर्थो भावनेत्युच्यते । अनवच्छिन्नश्चानुष्ठातुमशक्य इति सान्निध्यात्समानपदोपात्तं धात्वर्थमवच्छेदकत्वेनापेक्षते । स चैदनं पचतीत्यादौ समानपदोपात्तत्वेऽप्ययोग्यत्वेन साध्यत्वात्प्रच्युतः करणांशेऽभिनिविसमानः प्रधानक्रियामोदनफलिकां निष्पादयति । करणं च केवलमसाधकत्वात् क्कचिदपि क्रियां न निष्पादयदुपब्धम् । अतत्सत्साधकतमत्वसिद्धये काष्ठादीतिकर्तव्यतानुप्रवेशः । फलानुप्रवेशस्तु तदुद्देशेनैव भावनायाः प#्रवृत्तेः । अतः फलकरणेतिकर्तव्यतावच्छेदात् किं केन कथमित्यपेक्षिणी त्र्यंशपिरपूर्णा भावना भवति । तत्र देवदत्तः काष्ठैः स्थाल्यामोदनं पचतीत्यादौच औदनं फलं, पाकः करणं, काष्ठादिकारकचक्रमितिकर्तव्यता, इति । तदुक्तम् --- औदने साध्यमाने हि पाकः करणमिष्यते । स्थाल्यग्निचिल्लिकाष्ठानामितिकर्तव्यता मता ।। स च प्रयत्नपरिस्पन्दादौदासीन्यप्रत्युपलक्ष्यमाणः पुरुषव्यापारः करोत्यर्थो भावना । कथं तर्हि काष्ठानां करणत्वं ? धात्वर्थस्य क्रियात्वात् । भावनायां तु धात्वर्थस्य करणत्वात् करणविभक्त्युपादाने च प्रधानान्तरेण सम्बन्धायोगात् । उच्यते, भावनासंबन्धाद्धात#्वर्थोऽपि पूर्वापरीभूतो भवनात्मावगम्यत इति तदपेक्षया काष्ठानां करणत्वम् । अतः स्थितमेतत् त्र्यंशपरिपूर्णा भावना वाक्यार्थ इति । प्रवृत्तिनिवृत्त्योर्विधायकोऽर्थवादादिभिरुपक्रियमाणो लिङ्लोट्व्यादिवाच्यः शब्दव्यापारो विधिः । तेन हि भावनायां पुरुषः प्रवत्र्यते निवृत्र्यते वा । यथा यावज्जीवमग्निहोत्रं जुहुयात्, ब्राह्मणं न हन्यात्, प्रौषाननुब्रूहि, मापभाषस्व, होतुरष्टकाः कर्तव्याः, सुरा न पातव्या, पितरो वन्दनीयाः, गुरवो नाममान्याः, शिवं ते भूयात्, मा त्व श्येन उद्वधीदिति । स च सर्ववाक्यानामर्थः सर्वं हि वाक्यं विधीनिषेधयोरेव पर्यवस्यति । यत्रापि च लिङादयो न श्रूयन्ते तत्रापि विधिनिसेधपरतया सर्ववाक्यानां वाक्यशेषभूतास्तेऽवगम्यन्त#े । तद्यथेह देशे सुभिक्षमित्युक्तेऽत्रेव स्थातव्यमस्यांधो वर्तत इत्युक्ते, इहैव भोक्तव्यं सचोरः पन्था इत्युक्ते, न गन्तव्यं ग्राहाः सरित्यस्यामित्युक्ते न स्न्नातव्यमिति प्रतीयते । किञ्च महाकाव्यैरिप रामायणादिभिरिदमेव व्युत्पाद्यते। रामस्य पितुराज्ञां प#ालयतो वननिवासिनोऽपि तथाविधोऽभ्युदयः संवृत्तः । रावणस्य परदारानभिलष्यतस्त्रैलोक्यविजयिनोऽपि तथाविध उच्छेदः । तस्मात्पितुराज्ञां पालयेत् । परदारान्नाभिलष्येत् । रामवद्वर्तेत न रावणवदिति । नन्वाख्यातवाच्यत्वेन भावनैव विधिरित्युक्तं भवति । कथं च तत्रैव तस#्य प्रवर्तक्तवं, स्वात्मनि क्रियाविरोधात् ? तन्न, शब्दार्थभेदेन भावनाया द्वैविध्यात् । तदुक्तम् --- अभिधाबावनामाहुरन्यामेव लिङादयः । अर्थात्मा भावनात्वन्या स्रवाख्यातेषु गम्यते ।। तत्र शब्दभावना प्रेरणात्मिका शब्दस्याभिधेया विधेया च । तदुक्तम्--अभिधत्ते, करोति चेति । सात्वर्थभावनांशद्वयविषया वन फलांशविषया। तदुक्तम् --- फलांशे भावनायाश्च प्रत्ययो न विधायकः । अभिदध्युः स्वशक्त्याहि विधिमात्रं लिङादयः ।। तस्याश्च किं केन कथमित्यपेक्षायामर्थभावनाविषया पुरुषप्रवृत्तिः, प्रेरणाज्ञानं करणांशः, अर्थ वादादय इतिकर्तव्यतांश इति त्र्यंशपरिपूर्णत्वम्, सा च फलकरणयोः साध्यसाधनभावमज्ञातं गमयन्ती गमकत्वातप्रमाणं भवति । ननु च विधिलक्षणमेतावदप्रवृत्तप्रवर्तनं, अज्ञातज#्ञापनं ह्येवं सर्वोऽपि हि विधिर्भवेत् । तथाहि--- साध्यसाधनसम्बन्धः सर्वाख्यातेषु विद्यते । स्रववाक्येषु चाख्यातं तेनाकाङ्क्षा निवर्तनात् ।। न च साध्यसाधनभावावगममन्तरेण प्रवर्तकत्वं न सिध्यतीति साध्यसाधनबाववगतिरवश्यकल्पनीया । प्रेरणाज्ञानजनकत्वेनैवास्य प्रवर्तकत्वात् किमित्यसौ निष्फले व्यापारे प्रवर्तत इति चेद्विधीत एवेति ब्रूमः । सहि सफले निष्फले वा व्यापारे पुरुषं प्रवर्तयति ; एवं यञ्जपुरुषेष्वप्रवर्तमानषु अप्रामाण्यं तदपरिहार्यमेव । कल्पिते हि फले वैषयिकसुखद्वेषिणो वीतरागा न प्रवर्तन्ते । प्रवृद्धतररागास्तु न निवर्तन्ते इति । उच्यते--यजेत स्वर्गकाम इत्यादौ विधिर्भावनायां पुरुषं प्रवर्तयेति । भाव्यनिशष्ठस्वभावको व्यापारो भावना । सा चसाध्यादिस्वरूपपरित्यक्ता निरुपपत्तिकैव स्यात् । साध्यत्वं च समानपदोपादानसन्निधिनशाद्धात्वर्थस्या- होस्विदिष्यमाणतया कामिपदोपात्तस्य स्वर्गादेः स्यादिति संशये योग्यत्वात्स्वर्गस्यैव, न धात्वर्थस्येति । तदक्तम्----- विधावनाश्रिते साध्यः पुरुषार्थो न लभ्यते । श्रुतस्वर्गादिबाधेन धात्वर्थः साध्यतां व्रजेत् ।। विधौ कृतमतिक्रम्य स्वर्गादेः साद्यतेष्यते । तत्साधनस्य धर्मत्वमेवं सति च गम्यते ।। धर्मेह्यदृष्टविषये चोदनैव प्रमाणम् ।चोदनैव हि भूतं भवन्तं भविष्यन्तं सूक्ष्मं व्यवहितं वार्थमवगमयितुं शक्नोति । नान्यात्किञ्चनेन्द्रियमिति । एतेनापौरुषेयत्वेन यथार्थप्रतिपादकाप्तप्रणीतत्वेन वा निरस्तदोषांशस्य बाधकप्रत्ययरहितस्य वैदिकस्य च वाक्यस्यौत्सर#्गिकं प्रामाण्यमुक्तं भवतीति विधिर्वाक्यार्थ इति । स्वं स्वमर्थमभिधायोपरतेषु पदेषु पदार्थप्रतिपत्त्यनन्तरमुपजायमाना इदं तदिति व्यपदेश्यानुपदेशसिद्धा हिताहितप्राप्तिपरिहारहेतुः प्रवृत्त्यनुकूला बुद्धिः प्रतिभा । तथाहि ; पदनिबन्धानानां पदावयवनिबन्धानानां चार्थप्रत्यवभासमात्राणां अविच्छेदेन प्रवृत्तौ प्रत्यवभासा प्रवृत्तिफलप्रसवाऽनुमेयाभिन्नजातीयैव प्रितभा प्रत्यात्मं विवर्तते । यथा मद्यविषरसादिषु भिन्नानां द्रव्याणां पूर्वमदृष्टाशसंर्गात् प्राप्तपरिपाकानां मदमरणसुवर्णादिरर्थक्रिया दृश्यते । तथा प्रतिरपदं भिन्नानां शब्दानामुच्चायमाना दृश्यते । अयं चास्या भावानादिभ्यो विशेषः । यावत्किमत्र मया कथितं प्रतिपन्नमर्थरूपं वा परेण कथमनुसन्धीयत इति न विचार्यते, तावदनाख्येयेनोपायेन पूर्वोत्तरानुसन्धानमेषां प्रकल्पयति । प्रत्यक्षानुमानविषयेऽपि यावत्पूर्वापरप्रत्यमर्शः शब्दोल्लेखवान् सर्वप्रमाणानि प्रमाणतां लभन्ते । प्रतिभालोचनो हि लोक इति कर्तव्यतासु प्रवर्तते । ननु च न प्रतिभा वाक्यार्थो यतो बालानां स्तन्यपानादिषु, हंसानां क्षीरविवेचने, जन्त्वादीनां कुलायादिकरणे, जातमात्रणामेव च पशुमृगसरूसृपादीमनामुदकसन्तरेणे, सुप्तानां च प्रबोधादौ, कुमार्यश्च श्वो मे भ्राता आगमिष्यतीति ज्ञाने, स्यभावतो वाक्यश्रवणमन्तरेणापि प्रतिभोपजायमाना दृश्यते । तथा कालविशेषात्पुस्कोकिलानां स्वरविकारे, अभ्यासविसेषात् रत्नादिपरूक्षकाणां तद्दोषगुणज्ञाने, अदृषअटाद्रक्षःपितृपिशाचादीनां परावेशान्तर्धआयनादौ, योगाद्योगिनां परभिप#्रायावगतौ, बह्योन्द्रियवृत्तिनिरोधाद्वसिष्ठादीनामतीन्द्रियज्ञाने, कृष्णद्वैपायनाद्युनुधायानात् स्ञ्जयादीनां दुरदर्शनश्रवणादौ, कारणनरेभ्योऽपि प्रातिभमुपलभ्यते । उञ्चयते---यथैव साक्षात्पुरुषोपदिष्टवाक्याद्रथक्रियासु शब्दव्यापारेणोपसंहृता प्रतिपत्तृणां प्रतिभा विवर्तेते. तथैव बालादीनां स्तन्यपानादिषु पूर्वशब्दभावनानुगमाद्वाक्यार्थप्रतिपत्तिभिरविशिष्टैव प्रतिभोपजायते । यषामपि चाप्रसिद्धशब्दनिबन्धेनो व्यावहारः, तेऽपि हस्तयशअवादयोऽपि जन्मान्तरीयशब्दभावनावशात् प्रत्युत्पन्नश्बदप्रत्ययाः प्रतिभामनुगच्छन्तः सर्वमारभन्ते । पूर्वशब्दानुभवनानुगमाञ्च स्वबूजनामाभिमुख्येषऽपि प्रकृष्टशब्दवयापारे कोकिलादीनां स्वरविकारादौ प्रतिभोपजायते । पूर्वजन्मजनितशब्दश्रवणसंस्कारोद्वोधकानि त्वन्याति कालाभ्यासादृष्टयोगध्यानाना#ुध्यानादीनि साधनानि । इयांस्तु विशेषः । क्कचिद्वाक्यमुञ्चरितमात्रमेव तमनव्यपदेश्यमसत्त्वभूतं प्रातिभापदाभिधेयं स्वार्थं प्रकाशयति । क्कचित्तु चिरव्यवहितामपि विशइष्टप्रतिभाबूजभावनानुवेशान्निमित्तान्तरसान्निध्ये तदेव वाक्यं पारम्पर्येण प्रतभारव्यं स्वार्थमाविर्भावयतीति प्रतिभावाक्यार्थ इति । ननु च क्रियापि न#ाम वाक्यर्थो विद्यते सोऽपि वक्तव्यो भवति । नैवं, पदार्थः क्रिया न वाक्यार्थः । पदार्थानां तु मिथः समसर्गे यदाधिक्यमुपजायते स वाक्यार्थः । तदाह, यदत्राधिक्यं वाक्यार्थः इति । स कादाचित्पुरषव्यापाररूपो भावनेपि, कदाचिच्छब्दव्आपारापरूपो विधिरिति, कदाचिद्वुद#्धिवायपाररूपः, प्रतिभेति । ननु च भावनपि पादर्थ एव धतोर्वा प्रत्ययाद्वा गम्यमाना पदार्थत्वं न व्यभिचरति । अथैवमुच्येत न पदार्थमात्रं भावाना । अपितु परिदृश्यमानपूर्वापरूभूतविध्यादिभावार्थस्वरूपातिरिक्ताः पुरुषव्यापारः ; सेऽपि धातुवाच्यत्वे प्रत्यवाच्यत्वे वा न पादर्थत्वमिति क्रामति उच्यते, यजेतेत्यादौ प्रकृत्यर्थः क्रियारूपो यागादिः, प्रत्ययार्थः, प्रेरणारूपो विध्यादिः,न चैतदतिरिक्तो भावनाख्यः कश्चिदपि पुरुषवायपारो दृश्यते, न च भावनावाचिनीं काञ्चिदपि विभकिं्त सिडड्डत्ध्;ादिमिव विध्यादौ स्मरति पाणिनिः । मैवं, आस्तां विधिपदं तावद्वर्तमानापदेशिनः । शबादाद्यजन इत्यादेर्भावना सावगम्यते ।। पचत इत्यादेर्हि यथा पाकादिर्धात्वर्थः, प्रतीयेत तथा कर्तृव्यपारः करोत्यर्थोऽपि । पाकाद्युपरञ्ज काभावेऽपि तत्प्रतीतेरनपायात् । यथआ ह्यौपगवः, कापटवः, ओपमन्यव इत्युपगुप्रभृतीनामावापोद्वापयोरऽपि तस्यापत्यमिति प्रत्ययार्थोऽनुवर्तते तथा पचति पठति गच्छतीत#्यादावपि करोत्यर्थोऽनुवर्तमानो दृश्यते । तथाह; यदा पचतीत्याख्यासितो भवति तदा पाकं करोतीति वाक्यं व्याख्यातारः प्रयुञ्जते । तत्र पाकशब्देन द्वितीयान्तेन साध्यं प्रकृत्यर्थं, कृर्तव्यापारं तु करोतीति पदेन व्याचक्षते । अपिच किं करोति देवदत्त इति पृष्टास्सन्तो द्वये वक्तरो भवन्ति पचतीति. पाकमिति । तदिदमिभयरूपमप्युतत्रमेकार्थे ; अन्याथा न तेन प्रष्टा प्रत्याय्येत । तस्मात्पाकं करोतीति पदद्वयस्य योऽर्थस्स एव पचतीतियेकपदस्यति, आह । न प्रत्ययात्कर्तृसङ्ख्याव्यतिरेकेण धात्वर्थातिरिक्तो व्यापारः प्रतीयेत, प्रतीयेत चेत् करोतीतय्त्रापि प्रतयेत । तदुक्तम् ----- यथा पाकं करोतीति व्यवहारो विभागतः । तथा कारं करोतीति प्रतितिर्नास्ति लौकिकी ।। तस्याः किं बीजमिति चेत् कृभ्यस्तीनां क्रियासामान्यवचनत्वम् । न च सामान्ये सामान्यनि भवन्ति, यथाहि यजेत दद्याज्जुहुयादिति करोतिसामान्यमवगम्यते नैवमस्ति भवति । करोतीति । ननु च कथं करोत्यर्थः करोतिश्बदान्नावगमयते । न नावगम्यते । किन्तु यागादिविशेषानवच्छिन#्नो नानुष्ठानयोग्यो भवति । एवं तर्हि माभूत्प्रत्ययार्थो भवाना प्रकृत्यर्थो भविष्यति । यथाहि शबलोयादीनामनुगतं गोरुपमवभासते व्यावृत्तं च शाबलेयादिरूपं एवं यागादिकर्मणामनुगतं व्यापाररूपवभासते । परस्परविभक्तं च यागादिरूपं तत्र यदनुगतं करोतिसामान्यं सा भावता, यद्व्यावृत्तं यागादिकं स धात्वर्थः । यथा च शाबलेयादेः पृथग्दर्शयितुं गोत्वमशक्यमेवं बावनापि यागादेः पृथग्दर्शयितुं न शक्यते । तदुपरक्तत्वेन सर्वदोपलम्भात् । न चैतावतासौ नास्ति, नास्तितायं हि तस्याः किं करोतीति अनवगतविशेष्यवायापारप्रश्ने पचति पठतीत्युत्तरमनुत्तरमेव भवति । किञ्च ---- औदासीन्यदशायां तु पुमान्यते प्रवत्र्यते । स यत्नो यागहोमादौ भावनेत्यधीयते ।। सा च सामान्यरूपापि न गोत्वादिवत्क्रिया क्कचिद्या सिद्धतयावभासते, येन विधेया न भवति । यद्वेवं--- क्रियाविशेष एवासौ व्यापारोज्ञातुरान्तरः । स्पन्दात्मकबहिर्भूतक्रियाक्षणविलक्षणः ।। क्रियायाश्च पदार्थत्वमिष्यत एव, ननुच पदार्थत्वेऽपि क्रियया वाक्यार्थत्वमेव न्याय्यं --- यतः पदार्था वाक्यार्थभावमायान्ति संहताः । अफेक्षानुगुणान्योन्यव्यतिषङ्गविशेषिताः ।। व्यतिषढद्धठ्ठड़14;गश्च प्रधानगुमभावे भवति । साध्यं च साध्यमानत्वात्प्रधानमवगम्यते । क्रियातो नारपं तञ्च वाक्यार्थोऽतः क्रियेष्यकताम् ।। यजेत दद्याज्जुहुयादधीयीतेति चोदितः । क्रियां साध्यताया वेत्ति तां च लोकोऽनुतिष्ठति ।। यञ्जाधिकारिपदं स्वर्गकाम इत्यादि तदपि भावनापेक्षितकर्तृसमर्पकत्वेन सङ्गच्छते । अस्यां क्रियायमयं कर्ता अनेनैषा क्रिया संपाद्येति । न चात्र क्रिया प्राधान्यमुज्झति । नाहि क्रिया क्रतृस्था, कर्ता तु क्रियार्थः, सहि तां निर्वर्तयन्नुपलभ्येत । शब्देऽपि तथ#ैवोपदिशति एष इदं कुर्यादिति । किमर्थं पुनरसौ क्रिया पुवरसै क्रियामनितिष्ठतीति चेत् शब्दादेवेति ब्रीमः । बुध्द्वेदमेव भगवान्ददर्श खलु बादरिः । न द्रव्यगिणसंस्कारव्यतिरिक्तेऽस्ति शेषता ।। वेदाद्गु#ुरुन्योगाद्वा शालनाद्वा महीभुजः । न सचेताः क्रियां काचिदनुतिष्ठति निष्फलाम् ।। अत्रोच्यते, शब्दप्रमाणका वयं यच्छब्द आह तदस्माकं प्रमाणं ;तर्हि स्वर्गकामपदिमपि शब्द एव । तस्याप्यत्रान्वयो वक्तव्यः । ननु च कर्तृपदमेकं कर्ता च क्रियार्थ इति, नैवम् । न कर्तृपदं स्वर्गंकाम इति, अपि त्वधिकारिपदं । स्वर्गे कामोऽस्य स्वर्गं वा कामयते, स्वर्गकामनाविशष्टः पुरुषोऽस्मात्पदादवगम्यते । तदत्र काम्यमानः स्वर्गः कथं यागक्रियया सम्बन्धते ? स्वर्गस्य निरतिशयप्रीतिरुपत्वात्, न प्रीतिरद्रव्यत्वात् क्रियाङ्गभावं भजेत । न च प्रीतेः क्रियार्थत्वमुपपद्यते । प्रीत्यर्थमन्यन्नान्यार्था प्रीतिरिति ।एवं च क्रियासाधनानुपदेशात् न कर्तृसमर्पकत्वेन स्वर्गकामपदसमंन्वयः । अपि त्वधिकारिसमर्पकत्वेन । अथ कोऽयमधिकारी नाम ? कर्मणः स्वमी । ननु च कर्तैव कर्मणः स्वमी । नैवं स्वामी । स कर्ता न तत्स्वामी । ननु क्रियाकारकसम्बन्धव्यतिरेकेण कोऽन्यः कर्मणः षुरुषस्य च सम्बन्धः । उच्यते, ममेदं कृत्यं अहमत्र स्वामीति स्वस्वामिभावमशक्यमाशङ्क्य पाश्चात्यः क्रियाकारकसम्बन्धो गम्यते । पाश्चात्य इत्यत्र किं प्रमाणमिति चेत् अनुपादेयविशेषणविसिष्टस्य पुंसो निर्देशस्तस्मादिधिकृतस्य कर्तृत्वं, न कर्तुरधिकार इति । इत्थं च स्वर्गकामस्याधिकारो निर्वहति यदि तत्कर्म स्वर्गार्थं स्यात् स्वर्गोऽपि भोग्यो भवेत् । कथमहं स्वर्गेप्राप्नुयामित्येवं साध्यत्वेन स्वर्गमिच्छन् स्वर्गकाम उच्यते । यदि च न स्वर्गसाधनं कर्म स्यात् तद्विरुद्धमिदमापतति । स्वर्गं कामयते यागं कोरति अनयदिच्छत्यन्यत्करोतीति । अतः कर्ममि काम्यमाने साधनतां प्रतिपद्यमानः स्वर्गकामस्तान्नैवाधिक्रियते । न चानधिक्रियमाणस्तत्र सम्बन्धते । तदेवमदिकृतत्वेन स्वर्गकामस्य कर्ममि सम्बन्धात् स्वर्गयागयोश्च साध्यसाधनबावावगममन्तरेणाधिकारस्यानुर्वाहादवश्यं क्रियायां साधनत्वं स्वस्यैव साध्यत्वमुभ्युपगन्तव्यम् । अतश्च क्रियायाः फलं प्रति गुणभावादप्राधान्यमप्राधान्याञ्च न वाक्यार्थत्वम् । तदुक्तं -- "कर्माण्यपि हि दजैमिनिः फलार्थत्वा" दिति । का चेयं क्रिया ? वाक्यर्थ इत्युच्यते, य एष यादादिर्भावार्था धातुवाच्य, उत प्रत्ययार्थः,कश्चिदतिरिक्ता इति । तत्र भावार्थस्य काम्यमानसाधनत्वादप्राधान्युमुक्तेमेव । प्रत्ययार्थस्तु काम्यमानभावार्थगतसाध्यसाधनसम्बन्धापरित्यागेनैव वाक्यार्थतां प्रतिपद्यते । तस्मान्न क्रियामात्रपर्यवसायी वाक्यार्थ इति । किमिदानीं फलस्यैव वाक्यार्थात्वं प्रचक्ष्महे । तद्धिप्रधानं साध्यं च तदर्थो ह्यखिलः श्रमः ।। नैवम् ; यथा क्रियायाः फलार्थत्वादप्राधान्यं एवं फलस्यापि पुरुषार्थत्वात् । नहि स्वर्गः स्वतन्त्र एव सत्तां लभतामिति पुरुषो यतते । अपितु स्वोपभोग्यतयैनमभिलषति, तदाह--- "फलं च पुरुषार्थत्वात्" । तर्हि, पुरुष एव वाक्यार्थो भवतु । नैवं ; यजमानसंमित#ौदुम्बरी भवतीति तस्यापि क्रियाङ्गत्वात् । तदाह, पुरुषश्च कर्मार्थत्वादिति । हन्तैवं क्रिया फलार्था, फलं पुरुषार्थें, पुरुषः क्रियार्थ इति चक्रके पतिताः कस्य पतिताः कस्य प्राधान्यं शिष्मः । उच्येत, पुरुषस्तावन्न वाक्यार्थः पादर्थानां मिथः संसर्गेऽपि अव्ययकारकविशेषणार्थोपगृहीतस्याख्यातार्थस्यैव प्राधान्येन वाक्यार्थत्वात् । ननु चाख्यातेऽपि यजेतेत्येवमादौ कर्तर्यैव लकारः । मैवम् ; योऽयं लकारो नाम सिद्धं हि साध्यायोपादीयत इति प्रत्ययार्थोऽपि कर्ता प्रकृतिर्थे क्रियायामेव न्यग्भवति, फलमपि न वाक्यार्थः सिद्धासिद्धविकल्पानुपपत्तेः । सिद्धस्य तावत्फलस्याभिधानमेव नास्ति, काम्यमानत्वेन निर्देशात् । साध्यमानत्वपक्षे तु साक्षात्तत्सिद्ध्यवेदनात् । व्यापा रएव तन्निष्ठो वाक्यार्थं इति युज्यते ।। अतएव हि वाक्यार्थं भावनां प्रतिजानते । यथोचितफलामंशत्रयसम्बन्धबन्धुराः ।। भाव्यनिष्ठो हि भावकव्यापारो भावनेति । सैष द्वादशभेदोऽर्थः क्रियादिः प्रक्प्रकीर्तितः । वाच्यो विशेष्यः शब्दस्य प्रत्याय्योह्यभ्युपेयते ।। नचैतद्वाच्यं ; वाक्यस्यैव प्रत्ययकतवं न पदानां, यतो यथा गुडड्डत्ध्;शब्दो गुडड्डत्ध्;द्रव्यमभिधत्ते तथा प्रत्याययत्यपि तदविनाभाविमाधुर्यं, यदि वा पदान्येव संहत्यार्थमभिदधति वाक्ये ।। 6.30. आख्यातशब्दो वाक्यपदसङ्घातो वाक्यमित्यपि दर्शनानि विद्यन्ते । क्रियादयश्च पदार्थ एवान्तर्भवन्ति । तथाहि ; धात्वर्थः क्रिया, तां कालो विशिनष्टि, प्रत्ययार्थः, कारकं तत्पुरुषो विशेषयित । तस्योभयस्याप्युपाधयोऽप्यवच्छेदका भवन्ति ; सम्भूय प्रकृतिप्रत्ययौ प्रत्ययार्थं ब्रूतः । यं तं प्रधानमामनन्ति स भेदाभेदाभ्यामुपस्कारार्थविशिष्टप्रातिरिकार्थव्यपदेशं लभते । तस्य शक्तिसङ्ख्याभिव्यक्तेये विभक्तिस्तदन्तं पदं पदानामपदानां च सामथ्र्ये वृत्तिः, वृत्तानामपि च कृत्तद्धितसमासानां पुनः प्रातिपदिकसंज्ञायां सुबुत्पत्तेः पदसंज्ञेतेनि वाक्यं पुनरखण्डड्डत्ध्;वाक्यार्थपक्षे वाचकमपि भवति । तत्र शब्दस्यार्थाभिधानसामथ्र्यं वाचकता । सा त्रीधा, मुख्या, गौणी, लक्षणा च । यथा---गौर्गच्छति,गौर्वाहीकः, गोषु निवसतीति । आसां च विशेषान् विशेषेमाग्रतो वक्ष्यामः । तेषु हि प्रबुद्धेषु प्रबुद्धाप्रबुद्धैः प्रसिद्धपदसामानाधिकरण्योपदेशवृद्धव्यवहारेभ्योऽधिगतेषु संज्ञासंज्ञिसम्बन्धबलेन शब्दस्तटस्थ एव गोत्वमर्थं प्रत्याययति । तदाहुः--- प्रसिद्धपदसामानाधिकरण्यात्प्रतीयते । अप्रसिद्धापदस्यार्थ श्चूते रौति पिको यथा ।। तथैहि रौति यश्चूते पिकः स इति निश्चयः । उपदेशाद्यथार्थोऽयं पवसाख्याः प्रकाशते ।। व्यवहारात्तु शबदार्थसम्बन्धस्त्रिप्रमाणकः । वृद्धशब्दाभिधेयानि प्रत्यक्ष्णात्रा पश्यति ।। श्रोतुश्च प्रतिपन्नत्वमनुमानेन चेष्टाया । अन्याथानुपपत्तौ च वेत्तिशक्तिद्वयाश्रयाम् ।। इति ।। स्वावच्छेदेन विशिष्टज्ञानकता विशेषणत्वम् । तत्र्त्रिधा, भेदकमनुरढ्जकमुपलक्षके च । यथा--विश्वजिता यजेत, श्वेतं छागमलभेत, लोहितोष्णीषा ऋत्विजः प्रचरन्तीति । न च गोत्वादयः कदाचिदपि शब्दानुवेधवन्ध्यबोधाविषयतां प्रतिपद्यन्ते । तथाहि ; "आयं गौः पृश्निरक्रमीत्" इत्यादौ यथा जातिगुणक्रियाव्चछिन्नविषयानवभासिनि सविकल्पके, तथा निर्विकल्पके विज्ञाने शब्दविशिष्ट एवार्थः पिरस्फुरति । तदाह--- न सोऽस्ति प्रत्ययो लोके यश्शब्दानुगमादृते । अनुविद्धमिव ज्ञानं सर्वं शब्देन गम्यते ।। नचैतद्वाच्यं ; अस्तीत्यालोचनाज्ञानं प्रथमं निर्विकल्पकम् । बालमूकादिविज्ञानसदृशं शुद्धवस्तुजम् ।। यतो बालादयो जन्मान्तरानुभवोपजनितनानासंस्कारजातयो जात्याह्युल्लेखेनैव तंतमर्थं प्रतियन्ति । तथाहि ; तदहर्जायमानस्यापि बालकस्य पुरतो विदग्धवनिताः प्रदीपं न प्रस्थापयन्ति कर्कटोन्मा भविष्यतीति । अथ तथात्वातथात्वयोस्सिथतिं प्रति हेतुत्वात्प्रत्ययाकत्वं कथं पुनरतथाभूतमर्थं शब्दस्तथा प्रत्याययति ? शब्दक्तिमाहात्म्यात् । शब्दशक्युपजनिता हि बुद्धयः स्वबीजपरिपाकवशादाकारविशेषवत्य उपजायमानाः सत्यपि वस्तुनोऽभेदे भेदमुपदर्शयन्ति । तद्याथा--राहोः शिरः, श#िलापुत्रकस्य शरीरमिति । तदुक्तं --- मायोन्द्रजालप्रखयोऽयं प्रविभागः प्रकल्प्यते । शब्दशक्तिमहिम्नैव निर्विभागेऽपि वस्तुनि ।। अन्ये त्वाहुः ---"न वस्तुनोऽधिकं रूपं न शब्दस्याधिकार्थता ।शब्दः शब्दान्तरोपाधेरधिकार्थः प्रतीयते ।।" तद्यथा, पुरुष इतिपुरषमात्रं, राज्ञ इति शब्दनातरसन्निधेसतु सएव विशिष्टः प्रतीये पुरुषविशोषोऽयं राजपुरुष इति । एवं भवतीपचतीत्यादावपि पचतीति क्रिय#ामात्रप्रतीतिः, भवतीति तु पदोपाधिः कर्तृशक्तिप्रयुक्ता प्रतीयते । अपरे तु मन्यनेत, कॉसकलविकल्पोल्लेखविरहितेऽपि वस्तुनि शब्दाः स्वमहिम्नैव नानाविधबुध्द्युत्पत्तिकारणीभूताः सन्निवेशयन्ति, यद्वशादिभिन्नरूपमपि वस्त्वन्यथाचावभासत इति । तथाहि, कथकः कंसं घातयत#ीत्युक्ते कंसवधमाचष्ट इति प्रतीयते । यदात्विन्द्रः कंसं घातयतीति प्रयोगस्तदा कंसघ्नं तमुपेन्द्रं इन्द्रः प्रयुङ्क्त इति । अन्ये तु कथकः कंसं घातयीत्यत्रापि प्रयोजकं व्यापारं ब्रुवते, । यतः -- "शब्दोपहितरूपास्तान् बुद्धेर्विषयतां गतान् । प्रत्यक्षमिव कंसादीन् साधनत्वेन मन्यते ।।" तेषां चोतेपत्तेः प्रभूत्याविनाशात् स वृद्धिराचक्षाणः परानपि तथैव प्रत्याययति । तथा वक्तारो भवन्ति गच्छ हन्यते कंसः, किं गतेन, हतः कंस इति । अथापरेषां दर्शनं ; विकल्पयोनयः शब्दा विकल्पाश्शब्दयोनयः । तेषामन्योन्यसम्बन्धो नार्थं शब्दाः स्पृशन्त्यपि ।। तद्यथा-- गुणानुरागमिक्षेण यशसा चव सर्पता ।दिग्वधूनां मुखे जातमकस्मादर्धकुङ्क्तुमम् ।। अत्रार्धकुङ्क्तुमेत्युक्ते सौरभादिगुणान्विता । यशोऽनुरागयोर्वर्मप्रक्लृप्तिरवगम्यते ।। वधूशब्देन तु दिशां नायिकात्वं प्रतीयते । न च सम्बन्धगन्धोऽपि वास्तवस्तेषु विद्यते ।। तदुपज्ञं चैष लैकिकःप्रवदः । अतहट्ठएवि तहतहसंठिएव्वहिअअम्मि जाणिवेतसेइ । अत्थविसेसे सा जअइ विअउकइगोअरा वाणि ।। भवतु नामशब्दस्य वाचकत्वमक्षेऽपि पक्षानुप्रवेशाद्रथातथात्वेऽपि तथा प्रत्यायकत्वम् । विशेषणपक्षे तु कथमिवैतदुपपद्यते ? विशेषणेन हि प्रधानानुयायिना भवितव्यम् । प्रधानेन त्वविचलितस्वार्थेन । नैवं, विशेषणमपि शब्दोऽनुरञ्चकत्वेनार्थमध्यासीमः कुतश्चिदुपाध#ेरन्यथावभासमानः स्वाश्रयमप्यन्यथावभासयति ।तद्यथा-- मगधेषु स्तनौ पीनौ कलिङ्गेष्वक्षिणी शुभे । बाबूप्रलम्बावङ्केषु वङ्गेषु चरणै मृदू ।। इति ।। अत्र स्तनादियो जातिशब्दाः सव्यत्वदक्षिणत्वजातिद्वयैकार्थसमवायोपाधेरेकत्वयोगिनोऽपि द्वित्वेनावभासमानाः स्वाश्रानपि तथैवावभासयन्ति । एतेन व्यक्तौ पदार्थे बहुनामपि द्वित्वानभासो व्याख्यातः । तद्यथा-- दैत्याधिपप्राणमुषां नखानामुपेयुषा भूषणतां क्षतेन । प्रकाशकार्कश्य गुणै दधानाः स्तनौ तरुण्यः परिवव्रुरेनम् ।। अत्र विशि।#्टनखक्षतभूषादिविशेषोपादानात्सुव्यक्तैव स्तनशब्दस्य व्यक्त्यर्थतेति । एवं कदा पूर्वाः फल्गुन्या इति चन्द्रमसा सह योगे बहुत्वविवक्षायां द्वयोरपि बहुत्वेनाबभावः । कदा तिष्यपुनर्वसू इति तारकानपेक्षनक्षत्रद्वित्वाविवक्षायां बहूनामपि द्वितेवेनावभास#ो भवति । एवं चन्द्रमसा सह योगस्य तारकासङ्ख्यायाश्च विवक्षितत्वे भवितव्यं, तिष्यपुनर्वसव इति प्रयोगेण न भवितव्यम् । नहि लोके तादृशी विवक्षा विद्यते ; विवक्षा च कुलवधूरिव न लोकमर्यादामतिक्रामति । तद्यथा--- जनाय सुद्धान्तचरा शंसते कुमारजन्मामृतसंमिताक्षरम् । अदेयमासीद्द्धयमेव भूपतेः शशिप्रबं छत्रमुभे च चामरे ।। नमु चार्थोपाधेरप्यर्थोऽन्यथाबासमानो दृश्यते । तद्याथा--- पायाद्वो रचितत्रिविकमतनुर्देवः स दैत्यानतको । यस्याकस्मिकवर्धमानवपुषस्तिग्मद्युतेक्मण्डड्डत्ध्;लम् ।। मौलौ रत्नरुचिः श्रुतौ परिलसत्ताटङ्ककान्तिक्रमात् । जातं वक्षति कौस्तुभाबमुदरे नाभीसरोजौपमः ।। ततश्च न ज्ञायते किमयमर्थोपाधिनिबन्धनोऽर्थस्यान्यथावभासः उत शब्दोपाधिनिबन्धन इति । चिरं जीव, यदवतीर्ण इव प्रतिपाद्यार्थपदवूं दृश्यते, पृच्छाम्यायुष्मन्तं कएषोऽर्थोनाम, किं भ्रवीषि यःशब्देन प्रतिपाद्यते, अथ गौरित्यत्र कः शब्दार्थः ? किमात्य सास्त्राद#िमान्पण्डड्डत्ध्; इति, कथं स्वरूपमपि पृष्टः शब्देनैव व्यापदिशसि । किमवोचत् शब्दाख्याविशेषणानुरक्तस्य कस्य स्वरूपमन्यथाख्यातुं न शक्नोति । शब्दापरित्यागलब्धप्रकाशयैव च तदनुभूत्यानूभवामि । तर्हि शब्दात्पृथगर्थतत्त्वस्य व्यापदेष्टुमनुभवितुं चाशक्यात्वाच्छब्दस्यैवायमध्यायो विवर्तो विपरिणामो वार्थो नाम पलभामहे । अन्येऽपि चैवमाहुः --- अविभागोऽपि बुध्यात्मा विपर्यासितदर्शनैः । ग्राह्याग्राहकसंवित्तिभेदवानिवलक्ष्यते ।। ग्रहीतृहणग्राह्यमायापथपरिच्युताम् । नमामः परमानन्दज्योतीरूपां सरस्वतीम् ।। इति। कः पुनरयं विवर्ते#ो नाम । उच्यते, एकस्य तत्त्वादप्रयुज्युतस्य सन्निवेशविशेषादिभिरसत्यप्रविभक्तान्यरूपोपग्राहिता विवर्तः । तत्र यथा जलादयः कल्लोलादिरूपेण सर्पादयः कुण्डड्डत्ध्;लादिरूपेण नीलादयश्चित्रादिरूपेण विवर्तन्ते तथा शब्दतत्त्वमविद्योपाधेस्तेनतेनार्थरूपेणतथातथा विवर्तते । तद्याथा--- व्यपगतघनपटलमचलनिधीसदृशवपुरम्बरतलम् । अञ्जनचूर्णपुञ्जश्यामलं शार्वरं तमः ।। इति । अथ यथा शब्दास्यार्थो विवर्तस्तथार्थस्य शब्दो यदि भवेत् को दोषः स्यात् ? न कश्चित् । किन्तु -- वाग्रूपता चेदुत्क्रामेदवाबोधस्य शश्वती । न प्रकाश्यः प्रकशेत साहि प्रत्यवमर्शनी ।। इदमन्धंतमः कृत्स्नं जायेत भुवतत्रयम् । यदि शब्दाढद्धठ्ठड़14;वयं ज्योतिरासंसारं न दीप्यते ।। नु चाभिधीयमातेव प्रतीयमानतापु वाक्यार्थधर्मो विद्यते । यथा चोच्यते, प्रतीयमानं पुरन्यदेव वस्त्वस्ति वाणीषु माहाकवीनाम् । यत्तत्प्रसिद्धावयवातिरिक्तमाभाति लावण्यमिवाङ्गनासु ।। तस्य च वाक्यार्थभावनोत्तरकालमवगतेरध्यासपक्षे विवर्तपक्षे वा कथमिवोपपत्तिर्भवति ? उच्यते, विपिणामाद्भविष्यति वस्तुनो अवस्थान्तरगमनं विपरिणामः ; तत्र यथा मृदादयो घटादिरूपेण क्षीरादयो दध्यादिरूपेण चैत्रादयो युवादिरूपेण विपरिमन्ते तथेदं शब्दब्रह्माप्यव#िद्योपाधेः तेनतेनार्थरूपेण तथातथा विपरिणमते । तद्याथा --सन्ति मेपञ्च पुत्राः, मातरं वयसि गङ्गातीरे तपश्चरामीति । अत्र च शब्दार्थयोः पृथगवाभासद्वाक्यार्थस्यभिधीयमानतायां प्रतीयमानतायां वा नानुपपत्तिः, न चैतावता शब्दव्यापारो विरंस्यति । यतस्तात्पर्मस्य ह्यग्रतो विशेषेण वक्ष्यमाणमास्ते । तस्योदाहणमात्रं --- प्राप्तश्रीरेष कस्मात्पुनरपि मयि तंमन्थखेदं विदध्यात् । निद्रमप्यरय पूर्वामनलसमहसो नैव संभावयमामि । सेतुं ब्रघाति कस्मादयमिह सकलद्वीपनाथानुयात-- स्त्वय्याते वितर्कानिति दधत इवाभात कम्पःपायधेः ।। अत्र वर्णनीयराजविशेषस्य दिग्विजयिनो यथाश्रुतवाक्यार्थोऽभिधईयमानसत्व्यीति पदे विष्णवध्यासवतारः समस्तीति प्रतीयमानस्तदवतारान्तराणां निद्रालसत्वादिदोशयोगादस्य च तद्व्युदासात् । ततो वैशष्ट्यप्रतिपादनं तात्पर्यं यस्य काव्येषु ध्वनिरिति प्रसिद्धिः । तदुक्तं -- तात्पर्यमेव वचसि ध्वनिरेव काव्ये सैभाग्यमेव गुणसम्पदि वल्लभरय । लावण्यमेव वपुषि रवदतेऽङ्गनायाः श्रृङ्गार एव हृदि मानवतो जनस्य ।। कः पुनः काव्यवचसोः ध्वनितात्पर्ययोर्विसेषः । उच्यते --- यदवकं वचश्शास्त्रे लोके च वच एव तत् । वक्रं यदर्थवादादौ तस्य काव्यमिति स्मृतिः ।। यदिभिप्रायसर्वस्वं वक्तुर्वाक्यात्प्रतीयते । तात्पर्यमर्थधर्मस्तच्छब्दधर्मः पुनध्र्वनिः ।। सौभाग्यमिव तात्पर्यमान्तरो गुण इष्यते । वागदेवताया लावण्यमिव बाह्यास्तयोध्र्वनिः ।। अदुरविप्रकर्षात्तु द्वयेन द्वयमुच्यते । यथासुरभिवैशाखौ मधुमाधवसंज्ञया ।। इति । विभक्त्यर्थोऽथ वृत्त्यर्थः पदार्थश्चोपवर्णितः । भावनादिप्रभेदेन वाक्यार्थश्च प्रकीर्तितः ।। क्रियायाश्च पादर्थत्वाद्वक्यार्थत्वमुपाकृतम् । कृतं च भावनायास्तपदार्थत्वहेतुकम् ।। वाच्याः विशेष्याः प्रत्याय्याः शब्दस्योक्ताः क्रियादयः । अधायसविपरीणामविवर्ताश्चास्य तान्प्रति ।। विभक्तिवृत्यर्थवतोरुपस्क्रिया प्रधानयोर्धाम पदार्थ इष्यते ।। पदं पदार्थस्य तु नाक्यगोचरो भवेद्यतोऽर्थस्तदतो निरुप्यते ।। इति महाराजाधिराज श्रीभोजदेवविरचिते शृङ्गारप्रकाशे विभक्यर्थादुचतुष्टयप्रकाशो नाम षष्ठः प्रकाशः